18 - संयोगस्य प्रसङ्गे किञ्चित्‌

From Samskrita Vyakaranam
10---nyAyashAstram/18---saMyogasya-prasange-kincit
Jump to navigation Jump to search
ध्वनिमुद्रणानि
१) bhedaH-eva-pRuthaktvam_+_saMyogasya-prasange--1_2016-11-12
२) saMyogasya-prasange--2_2016-11-19
३) saMyogasya-prasange--3_2016-11-26
४) saMyogasya-prasange--4_paramANubhyaH-paramparayA-sarvam-ayutasiddhaM-kim?_2016-12-03
५) saMyogasya-prasange--5_paramANuShu-guNAH_+_pRuthagAshrayAshritatvam_2016-12-10


"मूर्तगतक्रियया तस्य मूर्तान्तरेण विभुना च संयोगः भवति" | मूर्तद्रव्यं नाम यत्‌ द्रव्यं क्रियायाः आश्रयः भवति | मूर्तगतक्रिया नाम मूर्तद्रव्ये विद्यमाना क्रिया | मूर्तद्रव्येषु या क्रिया भवति, तया क्रियया तस्य अन्येन मूर्तद्रव्येण सह संयोगः भवति | हस्तः एकं मूर्तद्रव्यं, पुस्तकम्‌ अपरं मूर्तद्रव्यम्‌ | हस्ते जातया क्रियया पुस्तकस्य स्पर्शो भवति | एवञ्च एकस्मिन्‌ मूर्तद्रव्ये काचित्‌ क्रिया जायते; तया क्रियया अन्येन मूर्तद्रव्येण सह तस्य संयोगो भवति | अथवा अन्येन विभुद्रव्येण सह संयोगो भवति |


"एवम्‌ अवयवसंयोगेन अवयविनः द्रव्यान्तरेण संयोगः जायते इत्यपि अविवादम्‌ | हस्तपुस्तकसंयोगेन कायपुस्तकसंयोगः जायते" इत्यपि भवति | हस्ते क्रिया जायते; तया क्रियया हस्तपुस्तकयोः संयोगः जायते | इदानीं स च हस्तः शरीरस्य अवयवः | अतः हस्तस्य संयोगः यदा पुस्तकेन सह भवति, तदानीं शरीरस्यापि संयोगः पुस्तकेन सह भवति | यदा अवयवस्य संयोगः द्रव्यान्तरेण सह भवति, तदानीम्‌ अवयविनः अपि संयोगः तेन द्रव्येण सह भवति | तदर्थम्‌ उक्तम्‌, “अवयवसंयोगेन अवयविनः द्रव्यान्तरेण संयोगः जायते” | इत्थञ्च हस्तपुस्तकसंयोगेन कायपुस्तकसंयोगः जायते | अनेन अस्माकं कश्चन नियमः व्युत्पन्नः— अवयवसंयोगेन अवयविनः अपि संयोगः उत्पद्यते |


अधुना कपाले काचित्‌ क्रिया जाता | तया क्रियया कपालपुस्तकयोः संयोगः उत्पन्नः | अयं कपालपुस्तकयोः संयोगः यतोहि क्रियया उत्पन्नः, अतः कर्मजः संयोगः इत्युच्यते | कर्मणा जातः इति कर्मजः | तदा स च कपालः यतोहि घटस्य अवयवः, अतः कपालस्य पुस्तकेन सह यः संयोगः, तेन संयोगेन घटे अपि पुस्तकेन सह संयोगः जायते | स च घटपुस्तकयोः संयोगः कर्मजः न अपि तु संयोगजः | यतः कपाले विद्यमानया यया क्रियया कपालपुस्तकयोः संयोगः उत्पन्नः कर्मजः, सा क्रिया घटपुस्तकयोः व्युत्पन्नं संयोगं प्रति कारणं न भवति | सा च क्रिया तं संयोगं प्रति अन्यथासिद्धा भवति | यथा कुलालस्य पिता यद्यपि कुलालं प्रति कारणं, किन्तु कुलालेन निर्मितं घटं प्रति स च पिता कारणं न | पञ्चसु वक्ष्यमाणेषु अन्यथासिद्धिषु चतुर्थमिदम्‌ | एवमेव अवयविनः अन्येन सह संयोगं प्रति कारणम्‌ अवयवस्य अन्येन सह संयोगः, न तु अवयवे जयमाना क्रिया | इत्थम्‌ अनेन नूतननियमः निष्पन्नः— अवयवसंयोगेन अवयविनः संयोगजः संयोगः जायते |


अस्मिन्‌ प्रसङ्गे कश्चन प्रश्नः उदेति— हस्ते जातया क्रियया हस्तपुस्तकयोः कर्मजः संयोगः इति यदा भवति, तदा हस्ते जाता या क्रिया, सा च शरीरे नास्ति किम्‌ ? शरीरे अस्ति चेत्‌, शरीरपुस्तकयोः संयोगः किमर्थं कर्मजः न स्यात्‌ ? अस्मिन्‌ विषये स्वस्य विचारः भवतु, तदा अग्रे पठनम्‌ |


तर्हि प्रश्नः एवं यत्‌ हस्ते या काऽपि क्रिया जायते, सा च क्रिया शरीरेऽपि अस्ति न वा ? यत्र हस्ते क्रिया अस्ति, तत्र शरीरेऽपि क्रिया अस्ति किल यतोहि हस्तः शरीरस्य भागः | कथं वक्तुं शक्नुमः यत्‌ हस्ते क्रिया अस्ति किन्तु शरीरे क्रिया नास्ति ? 'हस्ते जाता क्रिया', 'शरीरे जाता क्रिया'— अनयोर्मध्ये भेदः अस्ति किम्‌ ? वस्तुतः 'हस्तः' इति कथनेन अवयवः एव स्वीक्रियते | न्यायशास्त्रस्य कश्चन सिद्धान्तः एवं यत्‌ इदानीं हस्ते क्रिया जाता, सा क्रिया शरीरे अपि जाता इति वक्तव्यं चेत्‌, हस्तः शरीरम्‌ इत्येतत्‌ द्वयम्‌ अभिन्नं स्यात्‌, इत्युक्ते एकमेव स्यात्‌ | किन्तु वस्तुतः तथा नास्ति | हस्तः भिन्नः शरीरं भिन्नम्‌ इति स्वीक्रियते न्यायशास्त्रे | अवयवः अवयवी इति परस्परं भिन्नम्‌ | भिन्नम्‌ इत्यस्य अर्थः पृथक्‌ पृथक्‌ भवति इति न; किन्तु पदार्थः भिन्नः इति |


यथा पुस्तकं रूपम्‌ इति एतद्द्वयम्‌ अस्ति | पुस्तकम्‌ इति पदार्थः भिन्नः, रूपमिति पदार्थः भिन्नः | तद्द्वयम्‌ अपि मिलित्वा भवति इति सत्यं, किन्तु तौ द्वौ पदार्थौ परस्परभिन्नौ | तथैव, हस्तः शरीरम्‌ इति पदार्थद्वयं परस्परभिन्नं भवति | अधुना हस्ते या क्रिया जाता, सा क्रिया शरीरे जाता इति वक्तव्यं चेत्‌, हस्तः शरीरं च समानं स्यात्‌ | समानं नास्ति चेत्‌, हस्ते जाता क्रिया शरीरेऽपि अस्ति इति वक्तुं न शक्यते | हस्तः शरीरम्‌ एतद्द्वयं भिन्नं भिन्नम्‌ इति स्वीकुर्मः, किमर्थम्‌ इत्युक्ते शरीरस्य हस्तः एव कारणम्‌ | सर्वदा कार्यं कारणं भिन्नमेव भवति न्यायशास्त्रे |


कुत्रचित्‌ अपरस्मिन्‌ शास्त्रे कारणमेव किञ्चित्‌ परिवर्तनं प्राप्य कार्यं भवति | दृष्टान्ते दशसु चषकेषु जलम्‌ अस्ति | तानि सर्वाणि जलानि एकस्मिन्‌ पात्रे स्थापयामि चेत्‌ महत्‌ जलं जायते | इदानीं महति पात्रे यत्‌ जलं, तस्य कारणं किम्‌ इति चेत्‌, लघुषु चषकेषु विद्यमानानि जलानि एव | चषकेषु विद्यमानं जलं भिन्नं, महति पात्रे विद्यमानं जलं भिन्नं न्यायशास्त्रम् अनुसृत्य | किन्तु अद्वैतवेदान्ते तद्भिन्नं भिन्नम्‌ इति न स्वीक्रियते |


अधुना अस्मिन्नेव उदाहरणे, सामान्यचिन्तनानुसारमपि जलस्य पात्रे स्थापनानन्तरं, तत्र कारणीभूतं जलं पृथक्‌ न भवति | कारणीभूतं जलं चषके विद्यमानं जलम्‌ आसीत्‌ | तत्‌ इदानीं पृथक्‌ नास्ति, इत्युक्ते चषके विद्यमानं जलमेव खलु समवायिकारणं भवति महति पात्रे विद्यमानस्य जलस्य |


न्यायशास्त्रे चषके विद्यमानं जलं भिन्नं, महति पात्रे विद्यमानं जलं भिन्नमेव | तर्हि तयोर्मध्ये कः सम्बन्धः इत्युक्ते कार्यकारणभावः एव | दशसु चषकेषु विद्यमानानि जलानि पृथक्‌ पृथक्‌ कारणानि भवन्ति; तानि सर्वाणि अपि समवायिकारणानि एव | तेषां परस्परसंयोगः इदानीं जातः; तेन महत्‌ जलम्‌ उत्पन्नम्‌ | अतः चषके विद्यमानं जलम्‌ इदानीमपि भिन्नमेव, पात्रे अवयवभूतम्‌ | भिन्नभिन्नरूपेण न दृश्यते, तावदेव— इति न्यायशास्त्रस्य अत्र सिद्धान्तः |


तन्मतानुसारम्‌ अधुना हस्ते विद्यमाना क्रिया शरीरे अस्ति इति वक्तुं न शक्नुमः | हस्ते जाता क्रिया हस्ते एव भवति | प्रथमे क्षणे हस्ते क्रिया भवति, द्वितीयक्षणे शरीरे क्रिया भवति | क्रिया प्रथमतया अवयवे, तदा एव अवयविनि | अनेन हस्ते विद्यमाना क्रिया, शरीरे विद्यमाना क्रिया, द्वेऽपि भिन्ने | एतत्‌ सर्वं कदा उच्यते ? यदा विशेषरूपेण 'क्रिया हस्ते जाता' इति उच्यते, तदा | इदानीं समग्रं शरीरं चलति इति चिन्तयतु | तत्र चलनक्रिया साक्षात्‌ शरीरे इत्येव स्वीक्रियते; क्रिया साक्षात्‌ शरीरे एव जायते | किन्तु यत्र क्रिया विशेषरूपेण हस्ते इति विषयः, तत्र हस्ते आदौ क्रिया, तदुत्तरक्षणे शरीरे क्रिया | अवयवगतक्रिया यत्र विशेषरूपेण विवक्षिता, तत्र अवयवे आदौ क्रिया, अनन्तरम्‌ अवयविनि |


अतः वस्तुतः दृष्टि-अनुगुणं भवति एतत्‌ सर्वम्‌ | अहं साक्षात्‌ घटम्‌ उन्नयामि इति चेत्‌, समग्रः घटः चलति; तदानीं क्रिया सक्षात्‌ घटे जायते | किन्तु यदि घटं स्पृशामि, घटस्य एकस्य कपालस्य स्पर्शः भवति, तत्र अवयवसंयोगः | अत्र संयोगः प्रथमतया अवयवे, तदुत्तरक्षणे अवयविनि | अतः अत्र अवयवे कपाले जायमानः संयोगः कर्मजः; घटे विद्यमानः संयोगः संयोगजः |


तद्वत्‌ हस्ते जातया क्रियया हस्तपुस्तकयोः कर्मजः संयोगः | शरीरपुस्तकयोः संयोगं प्रति हस्ते विद्यमाना क्रिया अन्यथासिद्धा | पुनः हस्तस्य अवयवाः सन्ति अङ्गुल्यः | यदि समग्रहस्तः न चलति, अपि तु अङ्गुलीषु एव क्रिया उत्पन्ना इति चिन्तयामः, तया च अङ्गुलीनां संयोगः भवति पुस्तकेन सह, तदानीं हस्तपुस्तकयोः संयोगः संयोगजः न तु कर्मजः | तत्र अङ्गुलीषु विद्यमाना क्रिया हस्तपुस्तकयोः संयोगं प्रति अन्यथासिद्धा; पुनः हस्तपुस्तकयोः संयोगजः संयोगः शरीरपुस्तकयोः संयोगं प्रति कारणम्‌ | अथवा अङ्गुल्यः साक्षात्‌ शरीरस्य अवयवाः न तु हस्तस्य इति अवलम्ब्य अङ्गुलीपुस्तकयोः संयोगः एव शरीरपुस्तकयोः संयोगं प्रति कारणम्‌ |


अधुना एकस्य द्रव्यस्य अवयवाः सन्ति, तेषां परस्परसंयोगेन किं भवति इति चिन्तनीयम्‌ | अस्माकं नियमः अस्ति— अवयवसंयोगेन अवयविनः संयोगजः संयोगः जायते | किन्तु कपालयोः परस्परसंयोगः यदा भवति, तेन संयोगेन, घटस्य संयोगः अन्येन मूर्तद्रव्येण सह जायते वा ? अस्मिन्‌ विषये स्वस्य विचारः भवतु, तदा अग्रे पठनम्‌ |


तर्हि प्रश्नः एवं यत्‌ कपालयोः परस्परसंयोगः यदा भवति, तेन संयोगेन, घटस्य संयोगः अन्येन मूर्तद्रव्येण सह जायते वा ? नास्ति | एकस्य कपालस्य, तस्य एव घटस्य अवयवभूतेन अन्येन कपालेन सह यदा संयोगः भवति, तेन कर्मजः अथवा संयोगजः संयोगः अवयविनि घटे न जायते | सः परस्परकपालसंयोगः अवयविनि कमपि संयोगं न उत्पादयति | द्वयोः कपालयोः परस्परसंयोगः अन्येन मूर्तद्रव्येण सह घटस्य संयोगं प्रति कारणं न भवति | इति वास्तवमेव | कपालस्य अन्येन मूर्तद्रव्येण सह संयोगः एव घटे संयोगं जनयति |


अधुना कपाले काचित्‌ क्रिया जाता, कर्म जातम्‌ | तेन कर्मणा घटे संयोगः नोत्पद्यते यथा उपर्युक्तम्‌ | तेन कर्मणा यः कोऽपि संयोगसम्बन्धः भवति, स च संयोगः कपालस्य एव न तु घटस्य | अतः अत्र कर्मजः संयोगः अवयविनि घटे, अवश्यं न जायते | पुनः अवयवसंयोगेन— द्वयोः कपालयोः परस्परसंयोगेन— अपि अवयविनि घटे संयोगजः संयोगः न जायते | इत्युक्तौ अस्माकं नियमः— 'अवयवसंयोगेन अवयविनः संयोगजः संयोगः जायते' इत्यत्र कार्यं न करोति | कपालयोः परस्परसंयोगेन अवयविनि घटे कोऽपि संयोगः न जायते इति अवश्यं स्वीकरणीयम्‌ |


न स्वीकृतं चेत्‌ किं भवति ? अन्यथा— यदि द्वयोः कपालयोः परस्परसंयोगेन घटे संयोगः जायते इति अस्माभिः स्वीक्रियेत— तर्हि कपालः घटेन संयुक्तः इति स्वीकर्तव्यं स्यात्‌ (अन्यस्य वस्तुनः अभावे), यत्‌ नितरां दोषपूर्णम्‌ | अवयविनि इदानीं संयोगः उपपादनीयः— कपालयोः परस्परसंयोगेन घटे संयोगः जायते इति प्रतीतिः यदि स्वीकृता, तर्हि केन सह ? तस्यां दशायां केवलं कपालः अस्ति, घटश्च अस्ति | अतः द्वयोः संयोगः अभवत्‌ इति मन्तव्यम्‌ | किन्तु एतादृशी प्रतीतिः लोके न भवति; इयं प्रतीतिः अनुभवविरुद्धा | तथापि परस्परावयवयोः जातेन संयोगेन अवयविनि संयोगः स्वीकृतश्चेत्‌, एषा प्रतीतिः आपद्यते | वस्तुतः अनिष्टा, वस्तुतः असम्भवति— किन्तु इदानीम्‌ आपद्यते |


आहत्य, अस्माकं नियमः एवम्‌ आसीत्— अवयवसंयोगेन अवयविनः संयोगजः संयोगः जायते | अत्र कपाले काचित्‌ क्रिया जायते, सा च क्रिया द्वयोः कपालयोः संयोगनिमित्ता | सा क्रिया द्वयोः संयोगं जनयति | एतावता घटः नास्ति एव | तस्याः क्रियायाः, द्वयोः कपालयोः संयोगेन, अवयविनि अपि संयोगः जायते इति अङ्गीकरणीयं चेत्‌ समस्या | परस्परकपालसंयोगेन अवयविनि संयोगः अनुभवविरुद्धः, अतः नियमप्रसङ्गे किञ्चित्‌ अग्रे चिन्तनीयम्‌ इति पर्यवसितम्‌ |


"कुतः एषः अवयविनि घटे नोत्पद्यते इति विचारे, मूर्तयोः युतसिद्धयोरेव कर्मजः संयोगजः वा संयोगो भवति नान्ययोः इति निश्चितम्‌ |” युतसिद्धिः नाम किम्‌ ? विद्याधर्यां (३५२ इति पृष्ठे), "युतसिद्धिः इत्यस्य पृथक्‌सिद्धिः पृथगवस्थितिः इत्यर्थः | सम्बन्धिनोः परस्परपरिहारेण पृथगाश्रये स्थितिरित्यर्थः | यथा भूतलघटयोः भवति युतसिद्धिः | घटः भूतलं विहाय स्वसमवायिकारणे कपाले, भूतलं च घटं विहाय स्वसमवायिकारणे भवति | अतः तौ युतसिद्धौ" | एतावता यत्‌ अस्माभिः दृष्टं, तस्य आधारेण एकं निर्णयं कर्तुं शक्नुमः | कः निर्णयः इति चेत्‌ यदाकदापि एकस्य द्रव्यस्य संयोगः अन्येन द्रव्येण सह यदि भवेत्‌, तदा ते द्वे द्रव्ये कीदृशे स्याताम्‌ इति अस्माभिः आदौ स्पष्टं ज्ञातव्यम्‌ | ते द्वे द्रव्ये युतसिद्धे एव स्यातां, न तु अयुतसिद्धे | अयुतसिद्धयोः द्वयोः द्रव्ययोः कदापि संयोगः न भवति | युतसिद्धयोः द्रव्ययोः एव भवति |


कुत्रचित्‌ द्रव्यद्वयं युतसिद्धं भवति, कुत्रचित्‌ अयुतसिद्धं भवति | द्रव्यद्वयम्‌ अयुतसिद्धम्‌ एकस्मिन्‌ स्थाने एव, यत्र एकं द्रव्यं अपरस्य अवयवः भवति | अवयवावयविभावापन्नयोः द्रव्ययोः एव अयुतसिद्धत्वम्‌ | अयुतसिद्धत्वम्‌ इत्यस्य अर्थः एवं— द्वयोः द्रव्ययोः मध्ये एकस्य द्रव्यस्य नाशपर्यन्तं तद्‌ द्रव्यम्‌ अन्यत्‌ द्रव्यम्‌ आश्रित्य एव तिष्ठति | तदानीं ते द्वे द्रव्ये अयुतसिद्धे | घटः कपालश्च इति एतत्‌ द्रव्यद्वयम्‌ अयुतसिद्धम्‌ | यतोहि यावत् पर्यन्तं घटः तिष्ठति, यावत्‌ पर्यन्तं घटस्य नाशो न भवति, तावत्‌ पर्यन्तं घटः कपालम्‌ अश्रित्य तिष्ठति | कपालम्‌ अनाश्रित्य स्थातुं न शक्नोति सः, तस्य नाशपर्यन्तमपि | घटस्य नाशः भवति चेत्‌ भिन्नः विषयः; नो चेत्‌ कपालम्‌ आश्रित्य तिष्ठति एव | तादृशः कश्चन सम्बन्धः तयोर्मध्ये अस्ति, अतः तौ द्वौ अयुतसिद्धौ |


तथैव पटः स्वस्य नाशपर्यन्तमपि तन्तुम्‌ आश्रित्य तिष्ठति | यावत्‌ पर्यन्तं पटः भवति, तावत्‌ पर्यन्तं तन्तुभ्यः पटः पृथक्‌-भूय न तिष्ठति; तन्तून्‌ आश्रित्य एव तिष्ठति पटः | अपरैः शब्दैः यावत्‌ पर्यन्तं पटः तिष्ठति अविनश्यदवस्थं, तावत्‌ पर्यन्तं तन्तून्‌ आश्रित्य तिष्ठति | अविनश्यदवस्थं नाम विनाशम्‌ अप्राप्य | अविनश्यत्‌ इति शत्रन्तरूपम्‌ | अविनश्यदवस्थम्‌ इति समस्तपदम्‌— अविनश्यन्ती अवस्था, अविनश्यदवस्था; अविनश्यदवस्था यस्मिन्‌ कर्मणि, तत्‌ यथा स्यात्‌ इति अविनश्यदवस्थम्‌ | क्रियाविशेषणम्‌ अतः द्वितीयविभक्तौ एकवचने नुपुंसके | अविनश्यदवस्थम्‌ इति यावत्‌ पर्यन्तं न नश्यति पटः तावत्‌ पर्यन्तं तन्तून्‌ आश्रित्य तिष्ठति | अतः पटः तन्तुश्च इत्येते द्वे द्रव्ये अयुतसिद्धे भवतः |


किन्तु इदानीं घटः, भूतलम्‌ इति एते द्वे द्रव्ये युतसिद्धे | द्वयोः द्रव्ययोः मध्ये एतादृशः सम्बन्धो नास्ति | यावत्‌ पर्यन्तं घटः तिष्ठति, तावत्‌ पर्यन्तं भूतलम्‌ आश्रित्य एव तिष्ठति इति नास्ति नियमः | पुस्तकम्‌ उत्पीठिकायाम्— पुस्तकम्‌ उत्पीठिकाम्‌ आश्रित्य एव तिष्ठति इति नास्ति | उत्पीठिकाम्‌ अनाश्रित्य अपि स्थातुम्‌ अर्हति | अतः पुस्तकस्य उत्पीठिकायाश्च अयुतसिद्धत्वं नास्ति, युतसिद्धत्वम्‌ एव | पुस्तकं स्वीयानि पत्राणि अवलम्ब्य तिष्ठति नाशपर्यन्तमपि | अतः पुस्तकस्य तत्पत्राणां च अयुतसिद्धत्वम्‌ अस्ति |


इदानीं द्वयोः संयोगः कर्मजः संयोगजो वा, सः संयोगः कुत्र भवति इति चेत्‌, युतसिद्धयोः द्वयोः द्रव्ययोः मध्ये एव भवति इति अधुना निश्चितम्‌ | तेन कपालस्य घटस्य च संयोगः न भवति, अपि तु कपालस्य अन्येन केनचित्‌, पुस्तकेन सह संयोगः भवति, तावदेव | यतोहि घटकपालयोः सम्बन्धः नाशपर्यन्तं तिष्ठति | एतस्मात्‌ घटकपालौ अयुतसिद्धौ इति कारणेन कपालस्य घटेन सह संयोगः कदापि न भवति इति पर्यवसितं— यतोहि तौ द्वौ अयुतसिद्धौ | संयोगः सर्वदापि युतसिद्धयोः द्वयोः द्रव्ययोः एव भवति |


अत्र प्रश्नः उदेति समवायसम्बन्धः, अयुतसिद्धत्वं, द्वयोः मध्ये भेदः अस्ति वा ? अयुतसिद्धत्वम्‌ इति द्वयोः स्वभावः; समवायः इति द्वयोः सम्बन्धः | यत्र यत्र अयुतसिद्धत्वं, तत्र तत्र समवायसम्बन्धः | अत्र विशेषतः द्रव्ये अयुतसिद्धत्वं किमिति पश्यन्तः स्मः | किमर्थमिति चेत्‌, अत्र संयोग इति विषयः; संयोगः तु द्रव्ययोः एव भवति | अतः अत्र अयुतसिद्धत्वं कुत्र कुत्र द्रव्ये भवति इति द्रष्टव्यम्‌ | वस्तुतः अयुतसिद्धत्वं द्रव्यगुणयोर्मध्ये भवति, द्रव्यक्रिययोर्मध्ये भवति, जातिव्यक्त्योर्मध्ये भवति, परमाणुविशेषयोर्मध्ये भवति | यत्र यत्र अयुतसिद्धत्वं, तत्र तत्र समवायसम्बन्धः | अपि च यत्र यत्र समवायसम्बन्धः, तत्र तत्र अयुतसिद्धत्वम्‌ | अयं व्याप्यव्यापकभावः; एवं च यत्र उभयथा भवति, तत्र समव्याप्तिः इत्युच्यते |


तर्हि व्याप्यव्यापकभावः | यत्र यत्र धूमः, तत्र तत्र वह्निः इति वदामः | वह्नि-धूमयोर्मध्ये यथा व्याप्यव्यापकभावः, तथा | व्याप्यव्यापकभावः ययोर्मध्ये भवति, तत्र कुत्रचित्‌ कार्यकारणभावोऽपि स्यात्, किन्तु सर्वत्र कार्यकारणभावः भवेत्‌ इति नास्ति नियमः | वह्निधूमयोः व्याप्यव्यापकभावः अस्ति— यत्र यत्र धूमः, तत्र तत्र वह्निः इति; धूमः व्याप्यः, वह्निः व्यापकः | अत्र तयोः कार्यकारणभावः अपि भवति | धूमस्य कारणं वह्निः |


अधुना यत्र यत्र धूमः, तत्र तत्र वह्निः इति वक्तुं शक्नुमः, किन्तु यत्र यत्र वह्निः, तत्र तत्र धूमः इति वक्तुं न श्क्नुमः | यतोहि यत्र वह्निः भवति, तत्र कुत्रचित्‌ धूमः न भवति | यस्य न्यूनदेशवृत्तिः सः व्याप्यः, यस्य अधिकदेशवृत्तिः सः व्यापकः; अत्र धूमः व्याप्यः, वह्निः व्यापकः— विपरीतरीत्या न सम्भवति | तदर्थं वह्निधूमयोः समव्याप्तिः नास्ति; एकमुखिनी व्याप्तिरेव | किन्तु 'यत्र यत्र आत्मत्वं तत्र तत्र ज्ञानम्‌' इत्यत्र समव्याप्तिः वर्तते | अतः यत्र यत्र ज्ञानं, तत्र तत्र आत्मत्वम्‌ इत्यपि वक्तुं शक्यते | आत्मत्वम्‌ इति जातिः सर्वदा आत्मनि अस्ति; आत्मनि अपि सर्वदा ज्ञानं भवत्येव | अनेन आत्मत्वज्ञानयोः समव्याप्तिः | प्रकृतौ अयुतसिद्धत्व-समवायसम्बन्धयोः अपि तथैव समव्याप्तिरस्ति |


आहत्य द्रव्ये अवयवावयविभावापन्नयोः एव द्वयोः द्रव्ययोः अयुतसिद्धत्वं भवति | तत्र अयुतसिद्धत्वापन्नयोः द्रव्ययोः परस्परसंयोगः न भवति | युतसिद्धत्वापन्नयोः एव द्रव्ययोः परस्परसंयोगः स्वीक्रियते | इत्युक्ते कपालस्य अन्येन केनापि सह संयोगः भवितुम्‌ अर्हति, न तु स्वस्य कपालस्य घटेन सह | तन्तोः अन्येन सह संयोगः शक्यते, न तु स्वस्य पटेन सह | इति इदानीं निश्चितम्‌ | पूर्वं यदुक्तं, तदाधारेण एतं नियमम्‌ अङ्गीकुर्मः |


इदानीं कौ युतसिद्धौ इति प्रश्नः | पृथगाश्रयाश्रितौ | शरीरं, पुस्तकं— तयोः संयोगः भवति | तौ द्वौ युतसिद्धौ | तयोः स्वभावः कीदृशः इत्युक्ते शरीरं पुस्तकं च, उभे द्वे द्रव्ये पृथगाश्रयाश्रिते भवतः | मम शरीरं स्वस्य अवयवान्‌ आश्रित्य तिष्ठति | पुस्तकं तु स्वीयानि पृष्ठानि आश्रित्य तिष्ठति | अतः शरीरं पुस्तकं च पृथगाश्रयाश्रितौ | विग्रहवाक्यमेवं— पृथक्‌ च तौ आश्रयौ च पृथगाश्रयौ इति कर्मधारयसमासः; पृथगाश्रयौ आश्रितौ, पृथगाश्रयाश्रितौ इति द्वितीयातत्पुरुषसमासः | कर्मधारयगर्भद्वितीयातत्पुरुषसमासः |


पृथगाश्रयाश्रितौ इति समासस्य विग्रहवाक्ये 'आश्रयौ' इति वक्तव्यं यतोहि आश्रयद्वयम्‌ अस्ति; तस्य विशेषणं च पृथक्‌ | पृथक्‌ अव्ययम्‌ अतः तस्य द्विवचनान्तादिकं किमपि नास्ति | पृथगाश्रयौ आश्रितौ— पृथगाश्रयौ इत्यत्र द्विवचने द्वितीयाविभक्तौ | द्वितीयाविभक्तौ पृथगाश्रयौ किमर्थं स्वीकृतम्‌ इति चेत्‌, द्वितीयातत्पुरुषे द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः (२.१.२४) इति सूत्रेण उच्यते केन केन शब्देन द्वितीयातत्पुरुषः भवति— श्रित, अतीत, पतित, गत, अत्यस्त, प्राप्त, आपन्न | तत्र श्रित-शब्दः अस्ति | श्रितः इत्यनेन उपसर्गपूर्वकस्यापि ग्रहणम्‌ | अतः न केवलं श्रित-शब्दः, अपि तु आश्रित-शब्दः अपि गृह्यते | यथा कृष्णम्‌ आश्रितः, कृष्णाश्रितः |


यद्यपि 'पृथगाश्रयाश्रितौ' इति समासस्य कृते सप्तमीतत्पुरुषस्य विधायकसूत्रं नास्ति (सप्तमी शौण्डैः (२.१.४०) सूत्रेण शौण्डादिगणे पठितानां शब्दानां सप्तमीतत्पुरुषः— अक्षेषु शौण्डः अक्षशौण्डः (skilled in dice), अक्षधूर्तः (cunning in dice), अक्षकितवः (a gamester in dice); शौण्डादिगणे शौण्ड, धूर्त, कितव, व्याड, प्रवीण, संवीत, अन्तर्‍ (वनेऽन्तः → वनान्तः), पटु, पण्डित, कुशल, चपल, निपुण), किन्तु 'पृथगाश्रयाश्रितौ' इति सप्तमीतत्पुरुषत्वेन प्रयोगे लभ्यते चेत्‌ दोषः न स्यात्‌ यतोहि सप्तमी शौण्डैः इति सूत्रे अविद्यमानैः शब्दैः बहुत्र लोके सप्तमीतत्पुरुषसमासः कृतः— पृथगाश्रययोः आश्रितौ | तथापि अत्र द्वितीयाविभक्तौ सूत्रमस्त्येव, अतः द्वितीयातत्पुरुषसमासः स्वीक्रियते | पृथगाश्रयाश्रितौ |


इदानीं युतसिद्धत्त्वम्‌ इत्यस्य तर्कसङ्ग्रहे दीपिकायां वा विद्यमानं विवरणम्‌ एतदेव— द्वयोर्द्रव्ययोर्मध्ये एकस्य नाशपर्यन्तं तदन्यदाश्रित्य यदि तिष्ठति तर्हि अयुतसिद्धम्‌ | अत्र विद्याधर्यां विवरणं किञ्चित्‌ भिन्नरीत्या उच्यते, किन्तु एतत्‌ विवरणमपि सङ्गच्छते तत्र | पृथगाश्रयाश्रितौ | यत्र यत्र युतसिद्धत्वं वर्तते, तत्र तत्र पृथगाश्रयाश्रितत्वम्‌ अस्त्येव |


पृथगाश्रयाश्रितत्वं नाम किमिति चेत्‌, वृक्षः स्वावयवे स्थितः, पक्षी स्वावयवे च | वृक्षः पक्षी च युतसिद्धौ, यतोहि वृक्षस्य आश्रयः पृथक्‌, पक्षिणः च आश्रयः पृथक् | वृक्षस्य आश्रयः, पक्षिणः च आश्रयः इति परस्परं पृथक्‌ इत्यस्मात्‌ वृक्षः पक्षी च युतसिद्धौ | अतः "उत्पन्नायां पक्षिणि पुनः क्रियायां जायते कर्मजः संयोगः" | क्रियायाः पक्षिणः वृक्षस्य च संयोगो भवति | “एवं शरीरं तरुश्च स्वावयवे स्थितौ" इति द्वितीयम्‌ उदाहरणम्‌ | “ततः हस्तक्रियया हस्ततरुसंयोगः, तेन च शरीरतरुसंयोगः इति हि स्थितम्‌" |


अत्र प्रश्नः उदेति, घटकपालयोः अवयवाः अपि भिन्नाः किल— घटस्य अवयवौ द्वौ कपालौ, कपालस्य च अवयवे द्वे कपालिके; अनेन घटकपालयोः अपि पृथगाश्रयाश्रितत्वात्‌ युतसिद्धत्वं स्यात्‌ | किन्तु वृक्षपक्षिणोः स्थितिः यथा, घटकपालयोः स्थितिः तथा नास्ति | घटकपालयोः स्थित्यां किञ्चित्‌ वैलक्षण्यं भवति | वस्तुतः यत्र पृथगाश्रयाश्रितत्वं वर्तते तत्र द्वयोरवयवाः सर्वथा भिन्नाः स्युः | यथा पक्षिणः वृक्षस्य च अवयवाः नितरां भिन्नाः, तथा घटकपालयोः अवयवाः भिन्नाः इति नास्ति | घटकपालयोः स्थितौ, परम्परया अवयवसाम्यं विद्यते | कपालः कपालिकाद्वये स्थितः; परम्परया घटः अपि तत्रैव आश्रितः | अनेन द्वयोः पृथगाश्रयाश्रितत्वं नास्ति, यस्मात्‌ अनयोः द्वयोः अयुतसिद्धत्वं न तु युतसिद्धत्वम्‌ | एवञ्च निगमनम्‌ इदं— "पृथगाश्रयाश्रितयोरेव युतसिद्धयोरेव मूर्तयोः जायते उभयविधसंयोगः" | हस्तवृक्षयोः वास्तविकं पृथगाश्रयाश्रितत्वम्‌ इत्यतः द्वयोः मध्ये कर्मजः संयोगः, शरीरवृक्षयोः च संयोगजः संयोगः |


अधुना नूतनप्रश्नः— यदि परम्परया घटकपालयोः पृथगाश्रयाश्रितत्वं नास्ति, यस्मात्‌ द्वयोः अयुतसिद्धत्वं, येन च द्वयोः मध्ये संयोगो न सम्भवति, तर्हि तदाधारेण सर्वेषाम्‌ अपि सावयवद्रव्याणां परम्परया अन्तिमावयवः परमाणवः इति कृत्वा कस्यापि सावयवद्रव्यस्य पृथगाश्रयाश्रितत्वं नास्ति, इमानि च सर्वाणि सावयवद्रव्याणि अयुतसिद्धानि इत्यस्मात्‌ संयोगो न कुत्रापि सम्भवेत्‌ | तस्य उत्तरं किम्‌ ?


घटारम्भकपरमाणवः अन्याः, पटारम्भकपरमाणवः अन्याः | पार्थिवपरमाणवः तु सन्ति एते सर्वे, किन्तु परस्परभिन्नाः | प्रत्येकं परमाणुव्यक्तिः भिन्ना | अस्य घटस्य अवयवपरम्परा— परमाणुः, द्व्यणुकं, त्र्यणुकं, चतुरणुकम्‌ इत्याद्यारभ्य, कपालिका, कपालः, घटः इति द्रव्यजन्यपरम्परा वर्तते | अस्य घटस्य परमाणवः भिन्नाः वर्तन्ते, पटस्य च पृथक्‌ परम्परया परमाणवः भिन्नाः च | परमाणुत्वेन तेषां साम्येऽपि परमाणुव्यक्तिर्भिन्ना किल | घटत्वं यद्यपि सर्वेषु घटेषु तथापि यः कोऽपि एको घटः सः च एका व्यक्तिः इति यथा, तद्वत्‌ परमाणुत्वेन सर्वे पार्थिवपरमाणवः परमाणवः एव; परमाणुत्वम्‌ एकं किन्तु परमाणुव्यक्तयः परस्परभिन्नाः | अपि च यादृशावयवपरम्परया घटः आरब्धः, सा च परम्परा पटस्य अवयवपरम्परायाः भिन्ना |


किन्तु अधुना इदं वक्तव्यं यत्‌ ये आरम्भकपरमाणवः पटे सन्ति, तेषु परमाणुषु पटत्वं नास्ति; केवलं पार्थिवपरमाणवः ते | तस्मात्‌ ते परमाणवः घटस्यापि आरम्भकपरमाणवः भवितुम्‌ अर्हन्ति स्म | अनेन च घटपटयोः अवयवपरम्परा कुतः भिन्ना ?


उत्तरम्‌ इदं यत्‌ ईश्वरेच्छावशात्‌ तथा भवितुम्‌ अर्हति— पटस्य आरम्भकपरमाणवः घटस्य भवितुम्‌ अर्हन्ति स्म | परमाणवः सूक्ष्मरूपेण भवन्ति, यस्मात्‌ पटारम्भकः वा घटारम्भकः वा इत्यस्माभिः न ज्ञायते; कः परमाणुः कीदृशद्रव्यस्य अवयवः स्यादिति ईश्वरेच्छावशात्‌ निर्णीयते इति स्वीकर्तव्यम्‌ अस्ति | एतादृशसार्वत्रिकत्वं भवतु नाम |


किन्तु अन्ततः अवयवे भेदः नास्ति चेत्‌, अवयविनि भेदोऽपि न भवति | अवयवभेदः कथं सिध्यति ? अवयविभिन्नत्वात्‌ अवयवभेदः | कार्यवशात्‌ कारणम्‌ अनुमीयते | घटः कार्यः, पटः कार्यः; द्वयोः कार्ययोः भिन्नत्वात्‌ अवयवभेदः अनुमीयते |


यावत्‌ पर्यन्तं प्रत्यक्षेण दृश्यते अवयवाः भिन्नाः इति, तावत्‌ पर्यन्तं प्रत्यक्षं प्रमाणं भवितुम्‌ अर्हति अवयवभेदार्थम्‌ | तदेव आश्रित्य अग्रे अनुमानप्रमाणेन साधयितुं शक्यते परमाणवः अपि भिन्नाः— घटारम्भकपरमाणवः भिन्नाः, पटारम्भकपरमाणवः भिन्नाः इति, कार्यवशात्‌ कारणम्‌ अनुमीयते इति सिद्धान्तात्‌ | एतत्‌ सर्वम्‌ अवलम्ब्य, यदि वदामः भेदो नास्ति, स च अनुभवविरुद्धः यतोहि कार्यं भिन्नम्‌ इति ज्ञायते, अङ्गीक्रियते च | तदाधारेण अवयवाः अपि भिन्नाः इति मन्तव्यम्‌ |


अन्यच्च अत्र नूतनविचारोऽपि अस्ति यत्‌ ये पटस्य आरम्भकपरमाणवः सन्ति, ते यद्यपि घटस्यारम्भकपरमाणुभिः सह समानजातीयाः, तथापि ते तु घटस्यारम्भकपरमाणवः न भवितुम्‌ अर्हन्ति | किमर्थम्‌ इति चेत्, सिद्धान्तत्वात्‌ घटस्यारम्भकपरमाणुभिः, अवयवेभ्यः पृथगेव द्रव्यम्‌ उत्पद्यते न तु केवलम्‌ अवयवसमूहः |


यथा, उभाभ्यां परमाणुभ्याम्‌ अन्यत्‌ अतिरिक्तमेव द्व्यणुकम्‌ उत्पद्यते | तत्‌ द्व्यणुकं केवलं परमाणुद्वयसमूहः इति नास्ति | परमाणुद्वयसंयोगेन अन्यत्‌ एव द्रव्यं भवति, द्व्यणुकं नाम्ना— न तु केवलं परमाणुद्वयसमूहः | बौद्धाः अत्र परमाणुद्वयसमूहः एव अवयवी इत्यङ्गीकुर्वन्ति | घटः इति परमाण्वपेक्षया अतिरिक्तः नास्ति इति बौद्धानाम्‌ अभिप्रायः | 'परमाणुपुञ्जः' इति ते स्वीकुर्वन्ति | 'विलक्षणपरमाणुपुञ्जः एव घटः' | घटः इत्युक्ते कपालाभ्याम्‌ आरब्धः इति नास्ति; कपालः इत्युक्ते परमाणुपुञ्जः, परमाणुसमूहः इति, घटः अपि तथैव विलक्षणपरमाणुपुञ्जः | अतिरिक्तं द्रव्यं नोत्पद्यते इत्येषाम्‌ अभिप्रायः; अवयवसमुदायः एव अवयवी | किन्तु न्यायशास्त्रे न तथा | परमाणुद्वयसंयोगेन अन्यदेव द्रव्यं, कपालद्वयसंयोगेन तथैव पुनः अन्यदेव द्रव्यम्‌ |


तर्हि यैः परमाणुभिः पटः निर्मीयते, तैः घटः निर्मातुं न शक्यते इति किम्‌ ? अस्मिन्‌ विषये चिन्तनं कर्तव्यं, तदा एव अग्रे पठनम्‌ |


वस्तुतस्तु यैः परमाणुभिः पटः निर्मीयते, तैः घटः निर्मातुं न शक्यते इत्यपि न वाच्यम्‌ | पटस्य अवयवानां परमाणुपर्यन्तं नाशः भवन्ति चेत्‌, पुनः मूलेभ्यः एते सर्वेभ्यः पार्थिवपरमाणुभ्यः ईश्वरेच्छावशात्‌ कालान्तरे, तैरपि परमाणुभिः घटः उत्पत्तुम्‌ अर्हति | अनेन परम्परया घटपटयोः अयुतसिद्धत्वं भवति किम्‌ ?


एकस्मिन्नेव समये समानैः परमाणुभिः घटः अपि पटः अपि निर्मातुं न शक्यते; तस्मात्‌ द्वयोः अयुतसिद्धत्वं न भवति; अनेन घटपटयोः अयुतसिद्धत्वं नास्ति | कालान्तरे तैरव परमाणुभिः घटः उत्पद्यते चेदपि पूर्वकालिकपटस्य इदानीन्तनघटस्य च युतसिद्धत्वम्‌ अस्त्यवश्यम्‌ | यस्मिन्‌ काले अमुकाः परमाणवः पटारम्भकाः, तस्मिन्नेव काले ते परमाणवः घटारम्भकाः न भवितुम्‌ अर्हन्ति |


इदानीम्‌‍ अस्माकं पुरतः यः घटः पटः च स्तः, तौ द्वौ पृथक्‌ सिद्धौ प्रत्यक्षेण | अतः इदानीं ये अस्य घटस्य आरम्भकपरमाणवः वर्तन्ते, ते इदानीं दृश्यमानस्य पटस्य आरम्भकाः न भवन्ति एव | उभयत्र पार्थक्यम्‌ इति अनुभवसिद्धम्‌ |


अन्ते इदमपि वक्तव्यं यत्‌ न्यायशास्त्रे पार्थिवपरमाणवः, जलीयपरमाणवः, तेजसपरमाणवः, वायवीयपरमाणवः च एते चत्वारः परस्परं नित्यं भिन्नाः | पार्थिवपरमाणुभिः पार्थिवपदार्थाः उत्पद्यन्ते, जलीयपरमाणुभिः महत्‌ जलम्‌ उत्पद्यते; तत्र पार्थिवपदार्थानां कारणानि पार्थिवपरमाणवः, जलीयपदार्थानां कारणानि जलीयपरमाणवः च | एते भिन्नश्रेण्यां स्थिताः परमाणवः नित्यं भिन्नाः |


तथा च पार्थिवपरमाणुषु रूपं, रसः, गन्धः, स्पर्शः इत्येते गुणाः सन्ति | ते च न उद्भूताः इत्यस्मात्‌ न गृह्यन्ते अस्माभिः | तथैव जलीयपरमाणुषु रूपं, रसः, स्पर्शश्च इत्येते गुणाः भवन्ति; तेजसः परमाणुषु रूपं स्पर्शश्च भवतः, वायौ स्पर्शः इति गुणः वर्तते | अतः कस्यचित् पार्थिवपरमाणोः रक्तरूपं, कस्यचित् श्वेतरूपं, कस्यचित् च कृष्णरूपम्‌ | सर्वेषु पार्थिवपरमाणुषु रूपं पाकवशात्‌ उत्पद्यते नश्यति च | अतः एतदाधारेण अपि पार्थिवपरमाणवः भिद्यन्ते | एकस्य परमाणोः एकः गन्धः, अपरस्य पुनः अन्यः गन्धः | परमाणवः द्रव्याणि, तस्मात्‌ तेषु गुणाः भवन्त्येव | 'गन्धवती पृथिवी' इत्यस्ति किल, पार्थिवपरमाणुः अपि पृथिवी |


अधुना पुस्तकत्वं, घटत्वम्‌ इत्यादिकं किन्तु परमाणुषु न भवति | द्रव्यत्वव्याप्यव्याप्यजातिः परमाणुषु नाङ्गीक्रियते | द्रव्यत्वव्याप्यं पृथिवीत्वं, तद्व्याप्यं भवति घटत्वपटत्वादिकम्‌; द्रव्यत्वव्याप्यव्याप्यजातिः घटत्वपटत्वजातिः, सा जातिः परमाणुषु नाङ्गीक्रियते |


किन्तु परमाणुषु रूपाद्यारभ्य गुणाः भवन्ति | पृथिव्यां ये गुणाः सन्ति, ते सर्वे पार्थिवपरमाणुषु अपि भवन्ति | नो चेत्‌ द्व्यणुके कथं वा रसः स्यात्‌ ? त्र्यणुके कथं वा स्यात्‌ ? अवयवगुणेन अवयविषु गुणाः | क्वचित्‌ पाकवशात्‌ अपि गुणाः भवन्ति, केवलं पार्थिवद्रव्ये | पार्थिवपरमाणुषु गुणाः न नित्याः; पाकवशात्‌ उत्पद्यन्ते | अपरेषु परमाणुषु गुणाः नित्याः |



Swarup – November 2016

---------------------------------

१८ - संयोगस्य प्रसङ्गे किञ्चित्‌.pdf