04b - कर्मणि भावे च ।।
2. भावकर्मप्रक्रिया लटि, लोटि, लङि, विधिलिङि चुरादिगणे प्रेरणार्थे णिचि च
चुरादिगणे णिच्-प्रत्ययः स्वार्थे विधीयते एव, यथा चुर् + णिच् → चोरि; तदा सनाद्यन्ता धातवः (३.१.३२) इत्यनेन 'चोरि', 'क्षालि', इत्यादीनाम् आतिदेशिकधातूनां धातुसंज्ञा भवति |
चुर् → भूवादयो धातवः (१.३.१) इत्यनेन चुर् इत्यस्य धातु-संज्ञा → सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण-चुरादिभ्यो णिच् (३.१.२५) इत्यनेन चुरादिगणीयधातुभ्यः णिच्-प्रत्ययः विधीयते → चुर् + इ → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन उपधायां लघु-इकः गुणः आर्धधातुकप्रत्यये परे → चोरि → सनाद्यन्ता धातवः (३.१.३२) इत्यनेन धातु-संज्ञा → चोरि इति आतिदेशिकधातुः
तथा च प्रेरणार्थे णिचि अपि आतिदेशिकधातुः निष्पद्यते |
पठ् → हेतुमति च (३.१.२६) इत्यनेन प्रेरणार्थे धातोः णिच् → पठ् + इ → अत उपधायाः (७.२.११६) इत्यनेन उपधायाम् अतः वृद्धिः ञिति णिति प्रत्यये परे → पाठि
सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण-चुरादिभ्यो णिच् (३.१.२५) = एभ्यः द्वादशभ्यः प्रातिपदिकेभ्यः, सर्वेभ्यः चुरादिगणीयधातुभ्यः च णिच्-प्रत्ययः विधीयते | एभ्यः प्रातिपदिकेभ्यः णिच्-प्रत्ययस्य संयोजनेन नामधातवः भवन्ति | चुर् आदिर्येषां ते चुरादयः | सत्यापश्च, पाशश्च, रूपञ्च, वीणा च, तूलञ्च, श्लोकश्च, सेना च, लोम च, त्वचश्च, वर्म च, वर्णञ्च, चूर्णञ्च, चुरादयश्च तेषमितरेतरद्वन्द्वः, सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण-चुरादयः तेभ्यः, बहुव्रीहिगर्भो द्वन्द्वः | सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यः पञ्चम्यन्तं, णिच् प्रथमान्तं, द्विपदमिदं सूत्रम् | प्रत्ययः (३.१.१) परश्च (३.१.२) इत्यनयोः अधिकारः | धातोरेकाचो हलादेः क्रियासमभिहारे यङ् (३.१.२२) इत्यस्मात् धातोः इत्यस्य अधिकारः, वचनपरिणामेन पञ्चमीविभक्तौ धातुभ्यः | अनुवृत्ति-सहितसूत्रम्— सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण-चुरादिभ्यः धातुभ्यः णिच् प्रत्ययः परश्च |
हेतुमति च (३.१.२६) = प्रयोजकव्यापारे प्रेषणादौ वाच्ये धातोर्णिच् स्यात् | णिच् विधायकं सूत्रम् | क्रियार्थं यः प्रयोज्यं प्रेरयति, सः प्रयोजकः क्रियायाः हेतुः; तस्मिन् प्रयोजके हेतुः अस्ति अतः सः हेतुमान् | अस्यां स्थितौ—यत्र हेतुमान् प्रयोजकः अपि अस्ति, प्रेरितः प्रयोज्यः अपि अस्ति—तत्र धातोः णिच्-प्रत्ययः विधीयते | हेतुमति सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण -चुरादिभ्यो णिच् (३.१.२५) इत्यस्मात् णिच् इत्यस्य अनुवृत्तिः | प्रत्ययः (३.१.१) परश्च (३.१.२) इत्यनयोः अधिकारः | धातोरेकाचो हलादेः क्रियासमभिहारे यङ् (३.१.२२) इत्यस्मात् धातोः इत्यस्य अधिकारः, वचनपरिणामेन पञ्चमीविभक्तौ धातुभ्यः | अनुवृत्ति-सहितसूत्रम्— हेतुमति च धातोः णिच् प्रत्ययः परश्च |
सनाद्यन्ता धातवः (३.१.३२) = द्वादश प्रत्ययाः सन्ति येषां संयोजनेन नूतनाः धातवः सृष्टाः भवन्ति— सन्, क्यच्, काम्यच्, क्यष्, क्यङ्, क्विप्, णिङ्, ईयङ्, णिच्, यक्, आय, यङ् इति | एषां प्रकृतिः (अङ्गम्) क्वचित् धातुः, क्वचित् प्रातिपदिकम् | सन् आदौ येषां ते सनादयः, सनादयः अन्ते येषां ते सनाद्यन्ताः | सनाद्यन्ताः प्रथमान्तं, धातवः प्रथमान्तं, द्विपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— सनाद्यन्ता धातवः |
एवञ्च चुरादौ, प्रेरणार्थे णिचि च, उभयत्र णिजन्तः आतिदेशिकधातुः निष्पद्यते | चुरादौ स्वार्थे चोरि, क्षालि इत्यादयः धातवः; प्रेरणार्थे पाठि, लेखि, नायि इत्यादयः धातवः | उभयत्र चुरादौ प्रेरणार्थे णिचि च यत् किमपि रूपं निष्पादयितुम् इष्येत, सर्वप्रथमं णिचः विधानं भवति | तदनन्तरमेव अन्यानि कार्याणि करणीयानि | तथैव भवति भावकर्मप्रक्रियायां च— सर्वप्रथमं णिच्, तदा यक् | यथा—
चुर् + इ → चोरि → सार्वधातुके यक् (३.१.६७) इत्यनेन भाववाचके कर्मवाचके च यक् → चोरि + यक्
अस्यां दशायां णेरनिटि (६.४.५१) इत्यनेन यस्य आर्धधातुकप्रत्ययस्य इडागमो नास्ति, तस्मात् पूर्वं णि-प्रत्ययस्य लोपो भवति | यक्-प्रत्ययः वलादिः नास्ति इति कारणतः तस्य इडागमो न कदापि भवति | अनेन चुरादिगणे प्ररणार्थे णिचि च कश्चन णिजन्तधातुः अस्ति चेत्, भाववाचके कर्मवाचके च सार्वधातुके यक् (३.१.६७) इत्यनेन यक् विधीयते | तदा णेरनिटि (६.४.५१) इत्यनेन णिचः लोपो भवति |
चुर् → सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण -चुरादिभ्यो णिच् (३.१.२५) इत्यनेन चुरादिगणे णिच्-प्रत्ययः विधीयते स्वार्थे → चुर् + णिच् → चोरि → सार्वधातुके यक् (३.१.६७) इत्यनेन भाववाचके कर्मवाचके च यक् → चोरि + यक् → णेरनिटि (६.४.५१) इत्यनेन णिचः लोपः → चोर् + यक् → चोर्य → चोर्य + ते → चोर्यते
णेरनिटि (६.४.५१) = यस्य आर्धधातुकप्रत्ययस्य इडागमो नास्ति, तस्मात् पूर्वं णि-प्रत्ययस्य लोपो भवति | अत्र 'णि' इत्यस्य अनुबन्धरहितत्वात् णिङ्, णिच् द्वयोः ग्रहणम्; उभयत्र 'इ' इत्येव अवशिष्यते | णेः षष्ठ्यन्तम्, अनिटि सप्तम्यन्तं, द्विपदमिदं सूत्रम् | अतो लोपः (६.४.४८) इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः | आर्धधातुके (६.४.४६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— णेः लोपः अनिटि आर्धधातुके |
एवमेव—
कथ + णिच् → अतो लोपः (६.४.४८) इत्यनेन अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे → कथ् + णिच् → अत उपधायाः (७.२.११६) इत्यनेन उपधायांं स्थितस्य अतः वृद्धिः ञिति णिति प्रत्यये परे भवति स्म → अचः परस्मिन् पूर्वविधौ (१.१.५७) इत्यनेन परनिमित्तकः अजादेशः स्थानिवत् भवति, पूर्वविधौ कर्तव्ये → कथ्-धातोः अन्त्यः लोपः अत् इव दृश्यते → अत उपधायाः इति सूत्रेण "कथ" दृश्यते इति कारणतः उपधायाम् अधुना थकारः वर्तते → अतः वृद्धिः न भवति → कथि → सार्वधातुके यक् (३.१.६७) इत्यनेन भाववाचके कर्मवाचके च यक् → कथि + यक् → णेरनिटि (६.४.५१) इत्यनेन णिचः लोपः → कथ् + यक् → कथ्य → कथ्य + ते → कथ्यते
पठ् → हेतुमति च' (३.१.२६) इत्यनेन प्रेरणार्थे धातोः णिच् → पठ् + इ → अत उपधायाः (७.२.११६) इत्यनेन उपधायाम् अतः वृद्धिः ञिति णिति प्रत्यये परे → पाठि → 'सनाद्यन्ता धातवः (३.१.३२) इत्यनेन धातु-संज्ञा → पाठि → सार्वधातुके यक् (३.१.६७) इत्यनेन भाववाचके कर्मवाचके च यक् → पाठि + यक् → णेरनिटि (६.४.५१) इत्यनेन णिचः लोपः → पाठ् + यक् → पाठ्य → पाठ्य + ते → पाठ्यते
दा + णिच् → अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ (७.३.३६) इत्यनेन आकारान्तधातुभ्यः पुक्-आगमः भवति णिच्-प्रत्यये परे → दा + पुक् + इ → दा + प् + इ → दापि → सनाद्यन्ता धातवः (३.१.३२) इत्यनेन धातु-संज्ञा → दापि → सार्वधातुके यक् (३.१.६७) इत्यनेन भाववाचके कर्मवाचके च यक् → दापि + यक् → णेरनिटि (६.४.५१) इत्यनेन णिचः लोपः → दाप्य → दाप्य + ते → दाप्यते
पै पाने → पै + णिच् → आदेच उपदेशेऽशिति (६.१.४५) इत्यनेन उपदेशे एजन्तस्य धातोः आत्वं न तु शिति → पा + णिच् → शाच्छासाह्वाव्यावेपां युक् (७.३.३७) इत्यनेन शो, छो, सो, ह्वे, व्ये, वे, पै इत्येषां धातूनां युक्-आगमो भवति णिचि परे → पा + युक् + णिच् → पा + य् + इ → पायि → सार्वधातुके यक् (३.१.६७) इत्यनेन भाववाचके कर्मवाचके च यक् → पायि + यक् → पाय्य → पाय्यते
नी + णिच् → अचो ञ्णिति (७.२.११५) इत्यनेन अजन्ताङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति ञिति णिति प्रत्यये परे → नै + इ → नायि →
लिख् + णिच् → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन लघूपधस्य इकः गुणः सार्वधातुके आर्धधातुके च प्रत्यये परे → लेखि →
भू* + णिच् →
कृ + णिच् →
छो छेदने + णिच् →
वद् + णिच् →
क्षिप + णिच् →
बुध् + णिच् →
कृष्** + णिच् →
एध् + णिच् →
गण + णिच् →
*अत्र प्रश्नः उदेति भू + णिच् → भावि + यक् + ते इत्यवसरे णेरनिटि (६.४.५१), अकृत्सार्वधातुकयोर्दीर्घः (७.४.२५) अनयोः द्वयोः युगपत् प्रसक्तिः, अन्यत्रान्यत्रलब्धावकाशः च भवतः | अकृत्सार्वधातुकयोर्दीर्घः इति परसूत्रम् अतः तस्य प्राप्तिः भवेत् न तु णेरनिटि (६.४.५१) इत्यस्य | परन्तु—
ण्यल्लोपावियङ्यण्गुणवृद्धिदीर्घेभ्यः पूर्वविप्रतिषेधेन इति वार्तिकेन इयङ्, यण्, गुणः, वृद्धिः, दीर्घः इत्येषां कार्याणां णिलोपेन अत्-लोपेन सह युगपत् प्राप्त्यवसरे पूर्वविप्रतिषेधः णिलोपः अल्लोपः च बलवन्तौ भवतः | इत्युक्तौ णिलोपस्य अल्लोपस्य च विधायकसूत्रं पूर्वसूत्रं चेदपि तस्य बलं भवति |
**अत्र कृष् गुणं कृत्वा कष्, तदा अत उपधायाः (७.२.११६), उरण् रपरः (१.१.५१) इत्यनयोः एकत्रप्राप्तिरस्ति किम् ? भवति चेत्, अत उपधायाः (७.२.११६) परसूत्रम् अपि च तयोः अन्यत्रान्यत्रलब्धावकाशः अस्ति, तदाधारेण तस्य बलं स्यात् | किन्तु नैव तथा यतोहि रपरबलेन ऋकारस्य स्थाने गुणादेशः अकारः भवति | रपरत्वं न भवति चेत्, ऋकारस्य स्थाने गुणादेशो न भवति एव | अतः यद्यपि उरण् रपरः (१.१.५१) इत्यस्य अपेक्षया अत उपधायाः (७.२.११६) परसूत्रम् अपि च तयोः अन्यत्रान्यत्रलब्धावकाशः अस्ति, तथापि अत्र अत उपधायाः (७.२.११६) इत्यस्य अत्र प्रसक्तिः एव नास्ति |
अत उपधायाः (७.२.११६) इत्यनेन उपधायाम् अतः वृद्धिः ञिति णिति प्रत्यये परे |
उरण् रपरः (१.१.५१) = ऋकारस्य स्थाने यदा अण्-आदेशः भवति, तदा सः अण् सदा रपरः भवति |
अनेन भावकर्मप्रक्रिया लटि, लोटि, लङि, विधिलिङि चुरादिगणे प्रेरणार्थे णिचि च समग्रचिन्तनं सम्पूर्णाम् |
3. भावकर्मप्रक्रिया लटि, लोटि, लङि, विधिलिङि सन्नन्तधातवः यङन्तधातवः
सन्नन्तधातवः
सन्नन्तधातवः इच्छार्थे भवन्ति | यथा पठितुम् इच्छति पिपठिषति, कर्तुम् इच्छति चिकीर्षति, गन्तुम् इच्छति जिगमिषति | सन्नन्तरूपाणां धातवः सदा अदन्ताः भवन्ति | यथा—
पठ् + सन्-प्रत्ययः → पिपठिष इति धातुः
कृ + सन् → चिकीर्ष इति धातुः
गम् + सन् → जिगमिष इति धातुः
सन्नन्तधातवः सदा एव अदन्ताः इति कारणतः यकि परे तेषां सर्वेषां कार्यं समानम् | अतो लोपः (६.४.४८) इत्यनेन अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे | यक् आर्धधातुकसंज्ञकः, अतः यकि परे सन्नन्तधातूनाम् अकारलोपो भवति | यथा—
पिपठिष* + यक् → अतो लोपः (६.४.४८) इत्यनेन अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे → पिपठिष् + य → पिपठिष्य + ते → पिपठिष्यते
चिकीर्ष + यक् → अतो लोपः (६.४.४८) → चिकीर्ष्य → चिकीर्ष्य + ते → चिकीर्ष्यते
जिगमिष + यक् → अतो लोपः (६.४.४८) → जिगमिष्य → जिगमिष्य + ते → जिगमिष्यते
अतो लोपः (६.४.४८) = अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन अतः अङ्गस्य नाम न केवलम् ह्रस्व-अकारः इत्यङ्गस्य, अपि तु ह्रस्व-अकारान्तस्य अङ्गस्य | अलोऽन्तस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव लोपः (न तु अङ्गस्य) | उपदेशे अनुवर्तते अतः प्रसक्तिः केवलम् उपदेशावस्थायाम्* | अतः षष्ठ्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम् | अनुदात्तोपदेश-वनति-तनोत्यादीना-मनुनासिकलोपो झलि क्ङिति (६.४.३७) इत्यस्मात् उपदेशे इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१), आर्धधातुके (६.४.४६) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्— अतः अङ्गस्य लोपः आर्धधातुके उपदेशे |
अत्र प्रश्नः आयाति यत् 'पिपठिष' इति धातुः औपदेशिकधातुः नास्ति, अतः कथं वा अतो लोपः (६.४.४८) इत्यस्य कार्यं भवेत् ? अतो लोपः (६.४.४८) इत्यस्य अनुवृत्ति-सहितसूर्त्रं भवति— अतः अङ्गस्य लोपः आर्धधातुके उपदेशे | अस्मिन् च 'उपदेशे' इत्यस्ति, तदर्थञ्च जिज्ञासा | उत्तरम् एवं यत् 'उपदेशे' इत्युक्ते औपदेशिकधातुः इति न; धातोः यः प्रत्ययः विधीयते, तस्य प्रत्ययस्य उपदेशकाले अङ्गम् अदन्तं भवेत् | अत्र प्रकृतौ यस्मिन् समये यक्-प्रत्ययः उपदिष्टः, तस्मिन्नेव काले अङ्गम् अदन्तं स्यात् | प्रक्रियाक्रमे कालान्तरे अङ्गम् अदन्तं भवति चेत् अतो लोपः (६.४.४८) अनेन प्रसक्तं न भवति | अतः धातुः आतिदेशिकः चेदपि अतो लोपः (६.४.४८) इत्यस्य कार्यं भवति |
*अत्र प्रश्नः उदेति पिपठिष + यक् इत्यवसरे अतो लोपः (६.४.४८), अकृत्सार्वधातुकयोर्दीर्घः (७.४.२५) अनयोः द्वयोः युगपत् प्रसक्तिः, अन्यत्रान्यत्रलब्धावकाशः च भवतः | अकृत्सार्वधातुकयोर्दीर्घः इति परसूत्रम् अतः तस्य प्राप्तिः भवेत् न तु अतो लोपः (६.४.४८) इत्यस्य | परन्तु—
ण्यल्लोपावियङ्यण्गुणवृद्धिदीर्घेभ्यः पूर्वविप्रतिषेधेन इति वार्तिकेन इयङ्, यण्, गुणः, वृद्धिः, दीर्घः इत्येषां कार्याणां णिलोपेन अत्-लोपेन सह युगपत् प्राप्त्यवसरे पूर्वविप्रतिषेधः णिलोपः अल्लोपः च बलवन्तौ भवतः | इत्युक्तौ णिलोपस्य अल्लोपस्य च विधायकसूत्रं पूर्वसूत्रं चेदपि तस्य बलं भवति |
मोक्तुम् इच्छति, मुमुक्ष इति सन्नन्तधातुः | मुमुक्ष + यक् →
खादितुम् इच्छति, चिखादिष इति सन्नन्तधातुः | चिखादिष + यक् →
वदितुम् इच्छति, विवदिष इति सन्नन्तधातुः | विवदिष + यक् →
वक्तुम् इच्छति, विवक्ष इति सन्नन्तधातुः | विवक्ष + यक् →
पातुम् इच्छति, पिपास इति सन्नन्तधातुः | पिपास + यक् →
दातुम् इच्छति, दित्स इति सन्नन्तधातुः | दित्स + यक् →
ज्ञातुम् इच्छति, जिज्ञास इति सन्नन्तधातुः | जिज्ञास + यक् →
श्रोतुम् इच्छति, शुश्रूष इति सन्नन्तधातुः | शुश्रूष + यक् →
यङन्तधातवः
यङ्-प्रत्ययात् पूर्वम् अच्-वर्णः अस्ति चेत्—
अतो लोपः (६.४.४८) इत्यनेन अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे | यक् आर्धधातुकसंज्ञकः, अतः यकि परे यङन्तधातूनाम् अकारलोपो भवति | यथा—
नी + यङ् → नेनीय इति यङन्तधातुः | नेनीय + यक् → अतो लोपः (६.४.४८) इत्यनेन अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे → नेनीय् + य → नेनीय्य → नेनीय्य + ते → नेनीय्यते
एवमेव—
लोलूय + यक् →
बोभूय + यक् →
यङ्-प्रत्ययात् पूर्वं हल्-वर्णः अस्ति चेत्—
यस्य हलः (६.४.४९) इत्यनेन हलुत्तरस्य यशब्दस्य लोपो भवति आर्धधातुकप्रत्यये परे |
बाभ्रश्य + यते → यस्य हलः (६.४.४९) इत्यनेन हलुत्तरस्य यशब्दस्य लोपो भवति आर्धधातुकप्रत्यये परे → बाभ्रश् + यते → बाभ्रश्यते
नेनिज्य + यते → नेनिज् + यते → नेनिज्यते
वेविध्य + यते → वेविध् + यते → वेविध्यते
मोमुद्य + यते → मोमुद् + यते → मोमुद्यते
यस्य हलः (६.४.४९) = हलुत्तरस्य यशब्दस्य लोपो भवति आर्धधातुकप्रत्यये परे | यस्य षष्ठ्यन्तं, हलः पञ्चम्यन्तं, द्विपदमिदं सूत्रम् | अतो लोपः (६.४.४८) इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१), आर्धधातुके (६.४.४६) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम् हलः यस्य अङ्गस्य लोपः आर्धधातुके |
अनेन भावकर्मप्रक्रिया लटि, लोटि, लङि, विधिलिङि सन्नन्तधातुषु यङन्तधातुषु च समग्रचिन्तनं सम्पूर्णाम् |
B. लिट्, लुट्, लृट्, लृङ्, आशीर्लिङ्, लुङ् | एषु लकारेषु यक्-प्रत्ययः न विधीयते |
सार्वधातुके यक् (३.१.६७) इति सूत्रेण धातुभ्यः यक्-प्रत्ययो भवति भाववाचके कर्मवाचके च सार्वधातुके प्रत्यये परे | अस्य कथनस्य आशयः एवं यत् भाववाचके कर्मवाचके च आर्धधातुके प्रत्यये परे यक्-प्रत्ययः न विधीयते | लिटि, लुटि, लृटि, लृङि, आशीर्लिङि, लुङि च धातुना यः प्रत्ययः दृश्यते, सः आर्धधातुकं न तु सार्वधातुकम् | अतः एषु लकारेषु भावार्थे कर्मार्थे च यक् न भवति |
एषु षट्सु लकारेषु एकमेव कार्यं सर्वत्र भवति— भावेप्रयोगे कर्मणिप्रयोगे च सर्वेभ्यः धातुभ्यः आत्मनेपदसंज्ञकाः तिङ्-प्रत्ययाः एव विधीयन्ते |
भावकर्मणोः (१.३.१३) = भावकर्मणोः विहितस्य लस्य तिबादयः आत्मनेपदिनः भवन्ति | भावश्च कर्म च तयोरितरेतरद्वन्द्वो भावकर्मणी, तयोर्भावकर्मणोः | भावकर्मणोः सप्तम्यन्तम् एकपदमिदं सूत्रम्; अत्र विषयसप्तमी | अनुदात्तङित आत्मनेपदम् (१.३.१२) इत्यस्मात् आत्मनेपदम् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— भावकर्मणोः आत्मनेपदम् |
एषु षट्सु लकारेषु भावकर्मप्रक्रियायां भावार्थकं कर्मार्थकं चिह्नम् अन्यत् किमपि न भवति | अतः एषु लकारेषु, धातुः आत्मनेपदी चेत्, कर्त्रर्थे कर्मार्थे च बहुत्र रूपं समानमेव | धातुः परस्मैपदी चेत्, आधिक्येन तावान्नेव भेदः कर्तरि कर्मणि च यत् कर्त्रर्थे परस्मैपदसंज्ञकः तिङ्-प्रत्ययः विधीयते, कर्मार्थे च आत्मनेपदसंज्ञकः तिङ्-प्रत्ययः विधीयते | यथा पा पाने इति धातुः परस्मैपदी, तस्य च कर्तरि लृटि पास्यति भवति; कर्मणि लृटि पास्यते इति | एवमेव—
धातुः | कर्तृवाच्ये लृटि | कर्मवाच्ये लृटि |
चि | चेष्यति/चेष्यते | चेष्यते |
नी | नेष्यति | नेष्यते |
हु | होष्यति | होष्यते |
भू | भविष्यति | भविष्यते |
कृ | करिष्यति/करिष्यते | करिष्यते |
तॄ | तरिष्यति | तरिष्यते |
हन् | हनिष्यति | हनिष्यते |
ग्रह् | ग्रहीष्यति | ग्रहीष्यते |
दृश् | द्रक्ष्यति | द्रक्ष्यते |
लिख् | लेखिष्यति | लेखिष्यते |
मुद् | मोदिष्यते | मोदिष्यते |
अग्रे यत्र यत्र कस्यचित् विशिष्टधातोः कार्यं भवति तत्र तत्र उच्यते |
1. लिट्-लकारः कर्मणि भावे च
लिट्-लकारे कर्त्रर्थे यस्य यस्य धातोः यत् यत् तिङन्तरूपं भवति, तस्य तस्य धातोः तत्तदेव तिङन्तरूपं भवति कर्मणि भावे च | केवलं स्मर्तव्यं यत् अत्र भावकर्मणोः (१.३.१३) इत्यनेन तिबादयः प्रत्ययाः आत्मनेपदिनः एव भवन्ति |
यथा भू-धातुः कर्तरिप्रयोगे बभूव; कर्मणिप्रयोगे बभूवे | तथैव सर्वत्र | अतः लिट्-लकारः कर्त्रर्थे यदा पठ्यते अस्माभिः, तदा यानि यानि तिङन्तरूपाणि तत्र भवन्त्ति, तानि एव रूपाणि कर्मणि अपि भवन्ति आत्मनेपदसंज्ञक-तिङ्-प्रत्ययैः सह |
2. लुट्, लृट्, लृङ्, आशीर्लिङ् कर्मणि भावे च
अ) अजन्तधातवः, हन्, ग्रह्, दृश्
स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट् च (६.४.६२) = भावकर्मविषये आर्धधातुकोपदेशे अजन्तधातूनां, हन्, ग्रह्, दृश् च धातूनां विकल्पेन चिण्वत्कार्यं भवति स्य सिच् सीयुट् तासि इत्येषु परेषु; चिण्वत्पक्षे स्यसिच्सीयुट्तासीनाम् इडागमो भवति | 'आर्धधातुकोपदेशे' इत्यनेन आर्धधातुकोपदेशावस्थायाम् अजन्तधातवः | स्य इत्यनेन लृट्, लृङ् च; तास् इत्यनेन लुट्; सिच् इत्यनेन लुङ् | सीयुट् इत्यनेन आशीर्लिङ् न तु विधिलिङ् यतोहि इदं सूत्रम् आर्धधातुके (६.४.४६) इत्यस्य अधिकारे अस्ति | चिण्वत् पक्षे इडागमो भवति सर्वत्र, नाम धातुः अनिट् चेदपि | चिण्वद्भावः इत्युक्तौ चिणि प्रत्यये परे यानि कार्याणि भवन्ति, तानि अत्र अपि भवन्ति | स्यश्च सिच्च सीयुट् च तासिश्च तेषामितरेतरद्वन्द्वः स्यसिच्सीयुट्तासयः, तेषु स्यसिच्सीयुट्तासिषु | भावश्च कर्म च, भावकर्मणी, तयोर्भावकर्मणोः | अच्च, हनश्च, ग्रहश्च दृश् च तेषामितरेतरद्वन्द्वः अज्झनग्रहदृशः, तेषाम् अज्झनग्रहदृशाम् | चिणि इव चिण्वत् | स्यसिच्सीयुट्तासिषु सप्तम्यन्तं, भावकर्मणोः सप्तम्यन्तम्, उपदेशे सप्तम्यन्तम्, अज्झनग्रहदृशां षष्ठ्यन्तं, वा अव्ययपदं, चिण्वत् अव्ययपदम्, इट् प्रथमान्तं, च अव्ययपदम्, अनेकपदमिदं सूत्रम् | आर्धधातुके (६.४.४६) इत्यस्य अधिकारः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— आर्धधातुकोपदेशे अज्झनग्रहदृशाम् अङ्गानां वा चिण्वत् इट् च स्यसिच्सीयुट्तासिषु भावकर्मणोः |
चिण्वद्भावः इत्युक्तौ यः प्रत्ययः धातुतः विधीयते, सः णिद्वत् अस्ति, अतः तदनुसृत्य कार्यं धातौ भवति | यद्यपि स्य, सिच्, सीयुट्, तासि इति प्रत्ययाः णित् न सन्ति, तथापि अत्र णित्त्वम् अध्यारोपितं तेषु, तदनुसृत्य च कार्यं विधीयते | यत्र णिद्वद्भावो भवति, तत्र इमानि कार्याणि भवन्ति यथासङ्गम्—
अचो ञ्णिति (७.२.११५), अत उपधायाः (७.२.११६) इत्याभ्यां वृद्धिः;
आतो युक् चिण्कृतोः (७.३.३३) इत्यनेन युक्-आगमः;
हो हन्तेर्ञ्णिन्नेषु (७.३.५४) इत्यनेन हन्-धातोः कुत्वम्;
चिण्णामुलोर्दीर्घोऽन्यतरस्याम् इत्यनेन मितां विकल्पेन उपधा-दीर्घः |
अत्र प्रश्नः उदेति आर्धधातुकस्येड्वलादेः (७.२.३५) इत्यस्य परत्वात् कथं न प्राप्नोति ? अनेन एव इडागमो भवेत् |
अत्र महाभाष्यश्लोकः—
चिण्वद्वृद्धिर्युक्च हन्तेश्च घत्वं दीर्घश्चोक्तो यो मितां वा चिणीति |
इट् चासिद्धस्तेन मे लुप्यते णिर्नित्यश्चायं वल्निमित्तो विघाती | [महाभाष्यश्लोकः ६.४.६२]
अत्र स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट् च (६.४.६२) इति सूत्रस्य वैशिष्ट्यम् उच्यते भाष्यकारैः | यथोक्तं चिण्वद्भावेन वृद्धिः, युक्-आगमः, हन्-धातोः कुत्वं, मितां वैकल्पिकः उपधा-दीर्घः | इदं सर्वं भाष्यवाक्यस्य प्रथमपङ्क्तौ | द्वितीयपङ्क्तौ च इडागमस्य प्रसङ्गः | इट् चासिद्धस्तेन मे लुप्यते णिः इत्यनेन णिजन्तप्रसङ्गे इडागमः सन्नपि णेरनिटि (६.४.५१) इत्यनेन णिलोपः | कथमिति अग्रे उच्यते | तदा नित्यश्चायमिति | अयं चिण्वदिण्णित्यः; कृतेऽपि वलादिलक्षण इट् प्राप्नोति, अकृतेऽपि; न ह्ययं वलादित्वमपेक्षते | अस्मिंस्तु कृते वलादिलक्षण ईण्न प्राप्नोति, तस्माद् वल्निमित्त इडनित्यः | विघातः इत्यनेन निमित्ताभावादप्रवृत्तिः; सोऽस्यास्तीति विघाती |
अत्र 'वलादिलक्षणे कृते' इत्युक्ते यत्र आर्धधातुकस्येड्वलादेः (७.२.३५) इत्यनेन इडागमः भवति, तस्य इडागमे सत्यपि चिण्वत्पक्षे इडागमः पुनः भवति एव | विपरीतत्वेन नास्ति, अतः चिण्वद्भावस्य इडागमः नित्यः |
तर्हि आर्धधातुकस्येड्वलादेः (७.२.३५) इति यद्यपि परसूत्रं, चिण्वत्पक्षे स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट् च (६.४.६२) इत्यनेन एव इडागमः | व्याकरणलोके येषां मिलित्वा प्राप्तिः तेषां नामकरणं सन्नियोगशिष्टं; सन्नियोगशिष्टानां सहप्राप्तिः— 'चिण्वत्पक्षे इडागमः' इत्यनेन विशिष्टबलेन आर्धधातुकस्येड्वलादेः (७.२.३५) इति सूत्रस्य प्राप्तिर्नास्ति |
यस्मिन् पक्षे चिण्वद्भावः न भवति, धातुः सेट् अपि च प्रत्ययः वलादिः इति चेत्, आर्धधातुकस्येड्वलादेः (७.२.३५) इत्यनेन इडागमो विधीयते |
आर्धधातुकस्येड्वलादेः (७.२.३५) = आर्धधतुक-प्रत्ययस्य आदौ वल्-प्रत्याहारे अन्यतमवर्णः अस्ति चेत्, तस्य इडागमो भवति | वलादेरार्धधातुकस्येडागमः स्यात् | इट्-आगमः टित् अतः आद्यन्तौ टकितौ (१.१.४६) इत्यनेन प्रत्ययस्य आदौ आयाति | वल्-प्रत्याहारे यकारं विहाय सर्वाणि व्यञ्जनानि अन्तर्गतानि | वल् आदौ यस्य स वलादिः बहुव्रीहिः, तस्य वलादेः | आर्धधातुकस्य षष्ठ्यन्तम्, इट् प्रथमान्तम्, वलादेः षष्ठ्यन्तम्, त्रिपदमिदं सूत्रम् | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अङ्गात् वलादेः आर्धधातुकस्य इट् |
चिण्वद्भावः विकल्पेन भवति, अतः सर्वेषाम् अजन्तधातूनां भावकर्मणोः रूपद्वयं भवति | हन्, ग्रह्, दृश् इत्येषामपि भावकर्मणोः रूपद्वयं भवति |
अजन्तधातवः
आकारान्ताः धातवः—
चिण्वद्भावस्य पक्षे आतो युक् चिण्कृतोः इत्यनेन युक्-आगमः |
पा + लृट् → पा + स्यते → स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट् च (६.४.६२) इत्यनेन स्य-प्रत्ययस्य चिण्वद्भावः इडागमश्च → पा + इ + स्यते → आदेशप्रत्यययोः (८.३.५९) इत्यनेन षत्वम् → पा + इष्यते → आतो युक् चिण्कृतोः इत्यनेन आकारान्तधातूनां युक्-आगमो भवति चिण्-प्रत्यये परे, ञिति णिति कृत्-प्रत्यये परे च → पा + युक् + इष्यते → उकारककारयोः इत्-संज्ञा → पा + य् + इष्यते → पायिष्यते | चिण्वद्भावः न भवति चेत् पास्यते |
आतो युक् चिण्कृतोः (७.३.३३) = आदन्तानां युगागमः स्यात् चिणि ञ्णिति कृति च | चिण् वा ञित्-णित् कृत् प्रत्ययेषु परेषु, आकारान्तानां धातूनां युक्-आगमो भवति | चिण् च कृत् च तयोरितरेतरद्वन्द्वः चिण्कृतौ, तयोः चिण्कृतोः | आतः षष्ठ्यन्तं, युक् प्रथमान्तं, चिण्कृतोः सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | अचो ञ्णिति (७.२.११५) इत्यस्मात् ञ्णिति इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अङ्गस्य आतः युक् चिण्कृतोः ञ्णिति |
एवमेव—
पा + लृङ् → पा + स्य → अपायिष्यत
पा + लुट् → पा + तास् → पायिता
पा + आशीर्लिङ् → पा + सीयुट् → पायिषीष्ट
(पा + लुङ् → अग्रिमे भागे पृथक्तया लुङ्-लकारस्य प्रक्रिया प्रदर्श्यते |)
इकारान्ताः ईकारान्ताः च धातवः—
चिण्वद्भावस्य पक्षे अचो ञ्णिति (७.२.११५) इत्यनेन वृद्धिः |
चि + लृट् → चि + स्यते → स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट् च (६.४.६२) इत्यनेन स्य-प्रत्ययस्य चिण्वद्भावः इडागमश्च → चि + इ + स्यते → आदेशप्रत्यययोः (८.३.५९) इत्यनेन षत्वम् → चि + इष्यते → अचो ञ्णिति (७.२.११५) इत्यनेन ञिति णिति प्रत्यये परे वृद्धिः → चै + इष्यते → एचोऽयवायावः (६.१.७७) इत्यनेन आय्-आदेशः → चाय् + इष्यते → चायिष्यते | चिण्वद्भावः न भवति चेत् चेष्यते |
एवमेव—
नी + लृट् → नी + स्य → नी + इष्यते → नायिष्यते
नी + लृङ् → नी + स्य → अनायिष्यत
नी + लुट् → नी + तास् → नायिता
नी + आशीर्लिङ् → नी + सीयुट् → नायिषीष्ट
अचो ञ्णिति (७.२.११५) = अजन्ताङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति ञिति णिति प्रत्यये परे | अनुवृत्ति-सहितसूत्रम्— अचः अङ्गस्य वृद्धिः ञ्णिति |
उकारान्ताः ऊकारान्ताः च धातवः—
चिण्वद्भावस्य पक्षे अचो ञ्णिति (७.२.११५) इत्यनेन वृद्धिः |
हु + लृट् → हु + स्यते → स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट् च (६.४.६२) इत्यनेन स्य-प्रत्ययस्य चिण्वद्भावः इडागमश्च → हु + इ + स्यते → आदेशप्रत्यययोः (८.३.५९) इत्यनेन षत्वम् → हु + इष्यते → अचो ञ्णिति (७.२.११५) इत्यनेन ञिति णिति प्रत्यये परे वृद्धिः → हौ + इष्यते → एचोऽयवायावः (६.१.७७) इत्यनेन आव्-आदेशः → हाव् + इष्यते → हाविष्यते | चिण्वद्भावः न भवति चेत् होष्यते |
एवमेव—
भू + लृट् → भू + इष्यते → भाविष्यते
भू + लृङ् → भू + स्य → अभाविष्यत
भू + लुट् → भू + तास् → भाविता
भू + आशीर्लिङ् → भू + सीयुट् → भाविषीष्ट
ऋकारान्ताः ॠकारान्ताः च धातवः—
चिण्वद्भावस्य पक्षे अचो ञ्णिति (७.२.११५) इत्यनेन वृद्धिः |
कृ + लृट् → कृ + स्यते → स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट् च (६.४.६२) इत्यनेन स्य-प्रत्ययस्य चिण्वद्भावः इडागमश्च → कृ + इ + स्यते → आदेशप्रत्यययोः (८.३.५९) इत्यनेन षत्वम् → कृ + इष्यते → अचो ञ्णिति (७.२.११५) इत्यनेन ञिति णिति प्रत्यये परे वृद्धिः → का + इष्यते → उरण् रपरः (१.१.५१) इत्यनेन ऋकारस्य स्थाने यदा अण्-आदेशः भवति, तदा सः अण् सदा रपरः भवति → कार् + इष्यते → कारिष्यते | चिण्वद्भावः न भवति चेत् करिष्यते |
एवमेव—
कृ + लृङ् → कृ + स्य → अकारिष्यत
कृ + लुट् → कृ + तास् → कारिता
कृ + आशीर्लिङ् → कृ + सीयुट् → कारिषीष्ट
ॠकारान्तानामपि तथा—
तॄ + लृट् → तॄ + इष्यते → तारिष्यते
हन्-धातुः—
चिण्वद्भावस्य पक्षे हो हन्तेर्ञ्णिन्नेषु (७.३.५४) इत्यनेन हन्-धातोः कुत्वम् (घकारः)
हन् + लृट् → हन् + स्यते → स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट् च (६.४.६२) इत्यनेन स्य-प्रत्ययस्य चिण्वद्भावः इडागमश्च → हन् + इ + स्यते → आदेशप्रत्यययोः (८.३.५९) इत्यनेन षत्वम् → हन् + इष्यते → हो हन्तेर्ञ्णिन्नेषु (७.३.५४) इत्यनेन ञिति णिति प्रत्यये परे हन्-धातोः हकारस्य स्थाने कवर्गादेशः → घन् + इष्यते → अत उपधायाः (७.२.११६) इत्यनेन उपधायाम् अतः वृद्धिः ञिति णिति प्रत्यये परे → घान् + इष्यते → घानिष्यते | चिण्वद्भावः न भवति चेत् हनिष्यते |
हो हन्तेर्ञ्णिन्नेषु (७.३.५४) = हन्-धातोः हकारस्य स्थाने कवर्गादेशो भवति ञिति णिति प्रत्यये परे, नकारे परे च | स्थानेऽन्तरतमः (१.१.५०) इत्यनेन कवर्गे, हकारेण तुल्यः घकारः अस्ति (संवारः, नादः, घोषः, महाप्राणः च) अतः हकारस्य स्थाने घकारादेशः भवति | ञ् च ण् च ञ्णौ इतरेतरद्वन्द्वः, तौ इतौ ययोस्तौ ञ्णितौ, बहुव्रीहिः | ञ्णितौ च नश्च तेषामितरेतरद्वन्द्वो ञ्णिन्नाः, तेषु ञ्णिन्नेषु | इक्श्तिपौ धातुनिर्देशे इति वक्तव्यम् इति वार्तिकेन (३.३.१०८, वार्तिकम्), धातुनिर्देशे हन् धातोः हन्ति, षष्ठीविभक्तौ हन्तेः | हः षष्ठ्यन्तं, हन्तेः षष्ठ्यन्तं, ञ्णिन्नेषु सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | चजोः कु घिण्ण्यतोः (७.३.५२) इत्यस्मात् कुः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— हन्तेः अङ्गस्य हः कु ञ्णिन्नेषु |
अत उपधायाः (७.२.११६) = उपधायाम् अतः वृद्धिः ञिति णिति प्रत्यये परे |
एवमेव—
हन् + लृङ् → हन् + स्य → अघानिष्यत
हन् + लुट् → हन् + तास् → घानिता
हन् + आशीर्लिङ् → हन् + सीयुट् → घानिषीष्ट
ग्रह्-धातुः—
चिण्वद्भावस्य पक्षे अत उपधायाः (७.२.११६) इत्यनेन वृद्धिः |
ग्रह् + लृट् → ग्रह् + स्यते → स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट् च (६.४.६२) इत्यनेन स्य-प्रत्ययस्य चिण्वद्भावः इडागमश्च → ग्रह् + इ + स्यते → आदेशप्रत्यययोः (८.३.५९) इत्यनेन षत्वम् → ग्रह् + इष्यते → अत उपधायाः (७.२.११६) इत्यनेन ञिति णिति प्रत्यये परे उपधायाम् अतः वृद्धिः → ग्राह् + इष्यते → अत उपधायाः (७.२.११६) इत्यनेन उपधायाम् अतः वृद्धिः ञिति णिति प्रत्यये परे → ग्राह् + इष्यते → ग्राहिष्यते | चिण्वद्भावः न भवति चेत् ग्रहीष्यते (इडागमस्य दीर्घादेशः ग्रहोऽलिटि दीर्घः (७.२.३७) इति सूत्रेण) |
ग्रहोऽलिटि दीर्घः (७.२.३७) = एकाच् ग्रह-धातोः इडागमस्य दीर्घादेशो भवति अलिटि | 'विहितस्य' इत्यस्य अध्याहारः येन णिजन्त ग्राहि-धातोः इडागमस्य धीर्घो न स्यात् | ग्रहः पञ्चम्यन्तम्, अलिटि सप्तम्यन्तं, दीर्घः प्रथमान्तं, त्रिपदमिदं सूत्रम् | आर्धधातुकस्येड्वलादेः (७.२.३५) इत्यस्मात् इट् इत्यस्य अनुवृत्तिः (विभक्तिपरिणामं कृत्वा 'इटः') | एकाच उपदेशेऽनुदात्तात् (७.२.१०) इत्यस्मात् एकाचः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— एकाचः ग्रहः अङ्गात् इटः दीर्घः अलिटि |
अत्र प्रश्नः उदेति यत् किमर्थम् अयमेव दीर्घादेशः न भवति चिण्वद्भावपक्षे ? सूत्रेण केवलम् उक्तम् ’अलिटि’ | अतः लिट्-विहाय अन्यत्र सर्वत्र भवेत् किल |
न्यासव्याख्यायां दत्तमस्ति यत् "ग्राहिता, ग्राहिष्यत इत्यत्र कथं चिण्वदिटो न भवति? इत्याह - ’प्रकृतस्यैव’ इत्यादि | आर्धधातुकस्येति यः प्रकृत इट् ? तस्येदं दौर्घत्वं भवति, न चिण्वदिटः; तस्याप्रकृतत्वात् | चिण्वदित्यनेन चिण्वद्भाव उपलक्ष्यते | तत्सहचरित इट् ? चिण्वदित्युच्यते | 'ग्राहित' इति |"
दृश्-धातुः—
चिण्वद्भावस्य पक्षे पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणः |
यत्र चिण्वद्भावः न भवति, सृजिदृशोर्झल्यमकिति (६.१.५८) इत्यनेन सृज्-दृश्-धात्वोः अम-आगमो भवति झलादि अकिति प्रत्यये परे | तदा इको यणचि (६.१.७६) इत्यनेन अकारे परे ऋकारस्य यण्-आदेशः रेफः |
दृश् + स्यते → सृजिदृशोर्झल्यमकिति (६.१.५८) इत्यनेन सृज्-दृश्-धात्वोः अम-आगमो भवति झलादि अकिति प्रत्यये परे → दृ + अ + श् + स्यते → इको यणचि (६.१.७६) इत्यनेन अकारे परे ऋकारस्य यण्-आदेशः → द्रश् + स्यते → द्रष् + स्यते → द्रक् + स्यते → द्रक् + ष्यते → द्रक्ष्यते
सृजिदृशोर्झल्यमकिति (६.१.५८) = सृज्-दृश्-धात्वोः अम-आगमो भवति झलादि-अकिति प्रत्यये परे | अम् मित् इत्यतः मिदचोऽन्त्यात्परः (१.१.४७) इत्यनेन धातोः अच्-वर्णेषु अन्त्यात् परः आयाति | धातोः कार्यम् उच्यमानं तत्प्रत्यये भवति इति परिभाषया प्रत्यय-शब्दः युज्यते सूत्रार्थे यतोहि धातौ विधीयमानं कार्यं परस्थ-प्रत्ययस्य निमित्तत्वेन भवति | सृजिश्च दृश् च तयोरितरेतरद्वन्द्वः सृजिदृशौ, तयोः सृजिदृशोः | न कित् अकित्, तस्मिन् अकिति | सृजिदृशोः षष्ठ्यन्तं, झलि सप्तम्यन्तम्, अम् प्रथमान्तम्, अकिति सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | अनुवृत्ति-सहितसूत्रम्— सृजिदृशोः अम् झलि अकिति (प्रत्यये) |
परन्तु चिण्वद्भावस्य पक्षे इडागमो भवति; तदानीं दृश्-धातुतः झलादिप्रत्ययः न अपि तु इकारादिः | तस्माच्च अम्-आदेशो न भ्वति | अम्-अभावे पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणः |
दृश् + लृट् → दृश् + स्यते → स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट् च (६.४.६२) इत्यनेन स्य-प्रत्ययस्य चिण्वद्भावः इडागमश्च → दृश् + इ + स्यते → आदेशप्रत्यययोः (८.३.५९) इत्यनेन षत्वम् → दृश् + इष्यते → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन उपधा-गुणः → दश् + इष्यते → उरण् रपरः (१.१.५१) इत्यनेन ऋकारस्य स्थाने यदा अण्-आदेशः भवति, तदा सः अण् सदा रपरः भवति → दर्श् + इष्यते → दर्शिष्यते | चिण्वद्भावः न भवति चेत् द्रक्ष्यते |
पुगन्तलघूपधस्य च (७.३.८६) = पुगन्तस्य अङ्गस्य लघूपधस्य च इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | अनुवृत्ति-सहितसूत्रम्— पुगन्तलघूपधस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः |
एवमेव—
दृश् + लृङ् → दृश् + स्य → अदर्शिष्यत
दृश् + लुट् → दृश् + तास् → दर्शिता
दृश् + आशीर्लिङ् → दृश् + सीयुट् → दर्शिषीष्ट
णिजन्तधातवः
णिजन्तधातवः सर्वे इकारान्ताः | आर्धधातुकलकारेषु सार्वधातुके यक् (३.१.६७) इत्यस्य प्रसक्त्यभावात् यक् न भवति | णिजन्तधातूनाम् अजन्तत्वात् स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट् च (६.४.६२) इत्यस्य सर्वत्र प्रसक्तिः | 'उपदेशावस्थायाम्' इमे णिजन्तधातवः सर्वे अजन्ताः इति तु नास्ति; किन्तु मनसि भवेत् यत् अत्र उपदेशः इत्युक्ते आर्धधातुकोपदेशकाले इति | अनेन चिण्वद्भावः सर्वत्र भवति | चिण्वद्भावे सति रूपद्वयं भवति; मित्-धातूनां च विकल्पत्रयम् | उभयत्र चिण्वत्पक्षे इडागमे सत्यपि णेरनिटि (६.४.५१) इत्यस्य कार्यं भवति; कथमिति अग्रे उच्यते |
णेरनिटि (६.४.५१) = यस्य आर्धधातुकप्रत्ययस्य इडागमो नास्ति, तस्मात् पूर्वं णि-प्रत्ययस्य लोपो भवति | अत्र 'णि' इत्यस्य अनुबन्धरहितत्वात् णिङ्, णिच् द्वयोः ग्रहणम्; उभयत्र 'इ' इत्येव अवशिष्यते | णेः षष्ठ्यन्तं, अनिटि सप्तम्यन्तं, द्विपदमिदं सूत्रम् | अतो लोपः (६.४.४८) इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः | आर्धधातुके (६.४.४६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— णेः लोपः अनिटि आर्धधातुके |
णिजन्तधातूनां चिण्वद्भावस्य अपक्षे आर्धधातुकलकारेषु सर्वत्र आर्धधातुकस्येड्वलादेः (७.२.३५) इत्यनेन इडागमो भवति, धातुः सेट् अस्ति चेत् | आशीर्लिङि यासुट् वलादिः नास्ति अतः इडागमो न सम्भवति, किन्तु तत्र यासुट् परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) इत्यनेन लिङ्-लकारस्य परस्मैपदि-प्रत्ययानाम् एव यासुट्-आगमः; तस्माच्च आशीर्लिङि यासुट् भवति किन्तु केवलं परस्मैपदे— अतः भावे कर्मणि च न भवति | आत्मनेपदे आशीर्लिङि सीयुट् भवति; स च इडानुकूलः | अनेन आर्धधातुकलकारेषु, आत्मनेपदे सर्वत्र प्रत्ययस्य इडानुकूल्यं भवति |
आर्धधातुकस्येड्वलादेः (७.२.३५) = आर्धधतुक-प्रत्ययस्य आदौ वल्-प्रत्याहारे अन्यतमवर्णः अस्ति चेत्, तस्य इडागमो भवति | वलादेरार्धधातुकस्येडागमः स्यात् | इट्-आगमः टित् अतः आद्यन्तौ टकितौ (१.१.४६) इत्यनेन प्रत्ययस्य आदौ आयाति | वल्-प्रत्याहारे यकारं विहाय सर्वाणि व्यञ्जनानि अन्तर्गतानि | वल् आदौ यस्य स वलादिः बहुव्रीहिः, तस्य वलादेः | आर्धधातुकस्य षष्ठ्यन्तम्, इट् प्रथमान्तम्, वलादेः षष्ठ्यन्तम्, त्रिपदमिदं सूत्रम् | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अङ्गात् वलादेः आर्धधातुकस्य इट् |
चिण्वद्भावस्य अपक्षे सर्वत्र रूपाणि यथा कर्तरि, तथैव कर्मणि अपि | प्रक्रिया अपि तथैव | केवलं भावकर्मणोः (१.३.१३) इत्यनेन भावकर्मणोः विहितस्य लस्य तिबादयः आत्मनेपदिनः भवन्ति; अन्यत् सर्वं समानम् | अतः कर्तरि पाठयिष्यति/पाठयिष्यते, कर्मणि पाठयिष्यते; कर्तरि कारयिष्यति/कारयिष्यते, कर्मणि कारयिष्यते इत्यादीनि रूपाणि | णिजन्तपाठे अस्माभिः प्रक्रिया अधीता |
णिजन्तधातूनां भावे कर्मणि प्रक्रिया—
चिण्वत्पक्षे—
पठ् → हेतुमति च (३.१.२६) इत्यनेन प्रेरणार्थे धातोः णिच् → पठ् + इ → अत उपधायाः (७.२.११६) इत्यनेन उपधायाम् अतः वृद्धिः ञिति णिति प्रत्यये परे → पाठि → सनाद्यन्ता धातवः (३.१.३२) इत्यनेन आतिदेशिकधातूनां धातु-संज्ञा → पाठि + लृट् → पाठि + स्यते → स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट् च (६.४.६२) इत्यनेन आर्धधातुकोपदेशकालिक-अजन्तधातुतः स्य-प्रत्ययस्य चिण्वद्भावः इडागमश्च → पाठि + इ + स्यते → आदेशप्रत्यययोः (८.३.५९) इत्यनेन षत्वम् → पाठि + इष्यते → असिद्धवदत्राभात् (६.४.२२) इत्यनेन इडागमस्य असिद्धत्वम् → णेरनिटि (६.४.५१) इत्यनेन यस्य आर्धधातुकप्रत्ययस्य इडागमो नास्ति, तस्मात् पूर्वं णि-प्रत्ययस्य लोपः → पाठ् + इष्यते → पाठिष्यते
असिद्धवदत्राभात् (६.४.२२) = कमपि आश्रयम् अधिकृत्य आभीय-कार्यं, द्वितीयं समानाश्रितम् आभीय-कार्यं प्रति असिद्धं भवति | अधिकारसूत्रम् | भस्य (६.४.१२९) इति अधिकारसूत्रेण भ-संज्ञा सम्बद्धकार्याणि भवन्ति षष्ठाध्यायस्य अन्तपर्यन्तम् | असिद्धवदत्राभात् (६.४.२२) इत्यनेन ६.४.२३ इत्यस्मात् आरभ्य, भस्य इत्यस्य अधिकारस्य अन्तपर्यन्तम्, एषां कार्याणां नाम आभीय-कार्यम् | सूत्रं स्वयं सम्पूर्णम्— असिद्धवत् अत्र आ भात् |
चिण्वदपक्षे—
पठ् → हेतुमति च (३.१.२६) इत्यनेन प्रेरणार्थे धातोः णिच् → पठ् + इ → अत उपधायाः (७.२.११६) इत्यनेन उपधायाम् अतः वृद्धिः ञिति णिति प्रत्यये परे → पाठि → सनाद्यन्ता धातवः (३.१.३२) इत्यनेन आतिदेशिकधातूनां धातु-संज्ञा → पाठि + लृट् → पाठि + स्यते → आर्धधातुकस्येड्वलादेः (७.२.३५) इत्यनेन आर्धधतुक-प्रत्ययस्य आदौ वल्-प्रत्याहारे अन्यतमवर्णः चेत्, तस्य इडागमः → पाठि + इ + स्यते → आदेशप्रत्यययोः (८.३.५९) इत्यनेन षत्वम् → पाठि + इष्यते → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन इगन्ताङ्गस्य इकः गुणः सार्वधातुके आर्धधातुके च प्रत्यये परे → पाठे + इष्यते → एचोऽयवायावः (६.१.७७) इत्यनेन एचः अय् आदेशः → पाठयिष्यते
एवमेव—
लिख् → लेखि → लेखिष्यते/लेखयिष्यते
कृ → कारि → कारिष्यते/कारयिष्यते
भू → भावि → भाविष्यते/भावयिष्यते
एषां कृते प्रक्रिया रूपाणि च वक्तव्यानि— चल्, दा, नी, कृष्
णिजन्तधातुषु मित्-धातवः—
मितां ह्रस्वः (६.४.९२) इत्यनेन ये धातवः मितः, तेषाम् उपधायां स्वरः ह्रस्वः भवति णिचि प्रत्यये परे |
मितां ह्रस्वः (६.४.९२) = मित्-धातूनाम् उपधायाः स्वरः ह्रस्वः भवति, णिच्-प्रत्यये परे | मित् कश्चन अन्तर्गणः | भ्वादिगणे घटादयः उपगणः मित्-अन्तर्गणे सन्ति, अपि च चुरादिगणे ज्ञपादयः षट् धातवः मित्-अन्तर्गणे सन्ति | मितां षष्ठ्यन्तं, ह्रस्वः प्रथमान्तं, द्विपमिदं सूत्रम् | ऊदुपधाया गोहः (६.४.८९) इत्यस्मात् उपधायाः इत्यस्य अनुवृत्तिः | दोशो णौ (६.४.९०) इत्यस्मात् णौ इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— मिताम् अङ्गानाम् उपधायाः ह्रस्वः णौ |
भ्वादिगणे घटादयः इति उपगणे ४४ धातवः; घटादयो मितः इति गणसूत्रेण एते धातवः मित् सन्ति | तदा चुरादिगणे ज्ञपादयः षट् धातवः मित्-अन्तर्गणे सन्ति— ज्ञप, यम, चह, रह, बल, चिञ् |
ज्ञप ज्ञानज्ञापन-
मारणतोषणे = सूचयति, जयति, मारयति, प्रसन्नः भवति
यम परिवेषणे = नियमयति, नियन्त्रणं करोति
चह परिकल्कने = वञ्चयति
रह त्यागे = त्यजति, जहाति
बल प्राणने = जीवति; पोषणं करोति
चिञ् चयने = सङ्ग्रहणं करोति
ज्ञप → ज्ञप् + इ → अत उपधायाः (७.२.११६) → ज्ञापि → मितां ह्रस्वः (६.४.९२) → ज्ञपि इति णिजन्तधातुः → ज्ञपय → ज्ञपयति/ते
यम → यम् + इ → यामि → यमि इति णिजन्तधातुः → यमय → यमयति/ते
चह → चह् + इ → चाहि → चहि → चहय → चहयति/ते
रह → रह् + इ → राहि → रहि → रहय → रहयति/ते
बल → बल् + इ → बालि → बलि → बलय → बलयति/ते
चिञ् → चि + इ → अचो ञ्णिति → चै + इ → चायि → चयि → चयय → चययति/ते
भावे कर्मणि च—
चिण्वत्पक्षे—
शम् → घटादयो मितः इति गणसूत्रेण मित् → हेतुमति च (३.१.२६) इत्यनेन प्रेरणार्थे धातोः णिच् → शम् + णिच् → शम् + इ → अत उपधायाः (७.२.११६) इत्यनेन उपधायाम् अतः वृद्धिः ञिति णिति प्रत्यये परे → शाम् + इ → मितां ह्रस्वः (६.४.९२) इत्यनेन मित्-धातूनाम् उपधायाः स्वरः ह्रस्वः भवति, णिच्-प्रत्यये परे → शम् + इ → शमि → सनाद्यन्ता धातवः (३.१.३२) इत्यनेन आतिदेशिकधातूनां धातु-संज्ञा → शमि + लृट् → शमि + स्यते → स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट् च (६.४.६२) इत्यनेन आर्धधातुकोपदेशकालिक-अजन्तधातुतः स्य-प्रत्ययस्य चिण्वद्भावः इडागमश्च → शमि + इ + स्यते → आदेशप्रत्यययोः (८.३.५९) इत्यनेन षत्वम् → शमि + इष्यते → असिद्धवदत्राभात् (६.४.२२) इत्यनेन इडागमस्य असिद्धत्वम् → णेरनिटि (६.४.५१) इत्यनेन यस्य आर्धधातुकप्रत्ययस्य इडागमो नास्ति, तस्मात् पूर्वं णि-प्रत्ययस्य लोपः → शम् + इष्यते → चिण्णमुलोर्दीर्घोऽन्यतरस्याम् (६.४.९३) इत्यनेन चिण्परके णौ परे मिताम् अङ्गानां विकल्पेन उपधादीर्घः → शामिष्यते/शमिष्यते इति रूपद्वयम् |
चिण्वदपक्षे—
शम् → घटादयो मितः इति गणसूत्रेण मित् → हेतुमति च (३.१.२६) इत्यनेन प्रेरणार्थे धातोः णिच् → शम् + णिच् → शम् + इ → अत उपधायाः (७.२.११६) इत्यनेन उपधायाम् अतः वृद्धिः ञिति णिति प्रत्यये परे → शाम् + इ → मितां ह्रस्वः (६.४.९२) इत्यनेन मित्-धातूनाम् उपधायाः स्वरः ह्रस्वः भवति, णिच्-प्रत्यये परे → शम् + इ → शमि → सनाद्यन्ता धातवः (३.१.३२) इत्यनेन आतिदेशिकधातूनां धातु-संज्ञा → शमि + लृट् → शमि + स्यते → आर्धधातुकस्येड्वलादेः (७.२.३५) इत्यनेन आर्धधतुक-प्रत्ययस्य आदौ वल्-प्रत्याहारे अन्यतमवर्णः चेत्, तस्य इडागमः → शमि + इ + स्यते → आदेशप्रत्यययोः (८.३.५९) इत्यनेन षत्वम् → शमि + इष्यते → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन इगन्ताङ्गस्य इकः गुणः सार्वधातुके आर्धधातुके च प्रत्यये परे → शमे + इष्यते → एचोऽयवायावः (६.१.७७) इत्यनेन एचः अय्, आदेशाः → शमयिष्यते
एवमेव—
शम् + लृङ् → शम् + स्य → अशामिष्यत, अशमिष्यत, अशमयिष्यत
शम् + लुट् → शम् + तास् → शामिता, शमिता, शमयिता
शम् + आशीर्लिङ् → शम् + सीयुट् → शामिषीष्ट, शमिषीष्ट, शमयिषीष्ट
चिण्णमुलोर्दीर्घोऽन्यतरस्याम् (६.४.९३) = चिण्परके णमुल्परके च णौ परे मिताम् अङ्गानाम् उपधादीर्घो भवति अन्यतरस्याम् | चिण् च णमुल् च तयोरितरेतरद्वन्द्वः चिण्णमुलौ, तयोः चिण्णमुलोः | चिण्णमुलोः सप्तम्यन्तं, दीर्घः प्रथमान्तम्, अन्यतरस्यां सप्तमीप्रतिरूपकमव्ययं, त्रिपदमिदं सूत्रम् | ऊदुपधाया गोहः (६.४.८९) इत्यस्मात् उपधायाः इत्यस्य अनुवृत्तिः | दोशो णौ (६.४.९०) इत्यस्मात् णौ इत्यस्य अनुवृत्तिः | मितां ह्रस्वः (६.४.९२) इत्यस्मात् मिताम् इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— मिताम् अङ्गानाम् उपधायाः दीर्घः णौ चिण्णमुलोः अन्यतरस्याम् |
असिद्धवदत्राभात् (६.४.२२) = कमपि आश्रयम् अधिकृत्य आभीय-कार्यं, द्वितीयं समानाश्रितम् आभीय-कार्यं प्रति असिद्धं भवति | अधिकारसूत्रम् | भस्य (६.४.१२९) इति अधिकारसूत्रेण भ-संज्ञा सम्बद्धकार्याणि भवन्ति तत्पुरुषः अन्तपर्यन्तम् | असिद्धवदत्राभात् (६.४.२२) इत्यनेन ६.४.२३ इत्यस्मात् आरभ्य, भस्य इत्यस्य अधिकारस्य अन्तपर्यन्तम्, एषां कार्याणां नाम आभीय-कार्यम् | सूत्रं स्वयं सम्पूर्णम्— असिद्धवत् अत्र आ भात् |
१) णेरनिटि (६.४.५९) इत्यस्य कार्यात् परं यदा उपधायां ह्रस्व-अकारः तिष्ठति तदानीं चिण्णमुलोर्दीर्घोऽन्यतरस्याम् (६.४.९३) इत्यनेन सः युगपत् अत उपधायाः (७.२.११६) इत्यस्यापि प्रसक्तिः अस्ति खलु ? यदि न, तर्हि किमर्थं न?
२) यदि आम्, तर्हि अत उपधायाः (७.२.११६) इत्येतत् सूत्रं प्रबाध्य चिण्णमुलोर्दीर्घोऽन्यतरस्याम् (६.४.९३) इत्येतत् सूत्रं कार्यं करोति इति वक्तुं शक्नुमः किम्? केन कारणेन "प्रबाध्य" इति ? अपवादः इति नास्ति खलु यतोहि चिण्णमुलोर्दीर्घोऽन्यतरस्याम् (६.४.९३) इत्येतस्य प्रसक्तिः, कार्यं च यत्र उपधायाम् अत् नास्ति तत्रापि भवति । अथवा अदुपधा इति स्थित्याम् अपवादत्वेन एतत् कार्यं करोति इति वक्तुं शक्यं किम् ?
३) णेरनिटि (६.४.५९), चिण्णमुलोर्दीर्घोऽन्यतरस्याम् (६.४.९३) इति द्वयम् अपि असिद्धवदत्राभात् (६.४.२२) इत्यस्य अधिकारे । किन्तु चिण्णमुलोर्दीर्घोऽन्यतरस्याम् (६.४.९३) इत्येतत् सूत्रं प्रति णेरनिटि (६.४.५९) असिद्धं नास्ति, तस्य कार्यं चिण्णमुलोर्दीर्घोऽन्यतरस्याम् (६.४.९३) इत्येतत् सूत्रं पश्यति (नो चेत् उपधायां मकारम् एव पश्येत्) । एतस्य कारणं द्वयोः आश्रयभिन्नत्वम् इति मम अवगमनं सम्यक् किम् ?
४) अपि च णेरनिटि (६.४.५९) इत्यनेन णि-प्रत्ययस्य लोपात् परम् अपि चिण्णमुलोर्दीर्घोऽन्यतरस्याम् (६.४.९३) इत्येतत् सूत्रं कार्यं करोति यतः प्रत्ययलोपे प्रत्ययलक्षणम् (१.१.६२) इत्यनेन णिचः भावः लोपस्य अनन्तरम् अपि तिष्ठति । एतत् समीचीनम् अवगमनं किम् इति दृढीकर्तुं प्रश्नः।
Swarup – Sept 2017