19 - लृट्-लकारः

From Samskrita Vyakaranam
7---ArdhadhAtukaprakaraNam/19---lRut lakAraH
Jump to navigation Jump to search

ध्वनिमुद्रणानि
2024 वर्गः
१) lRuT-lakAraH---mAtuH-prakriyA-cintanam_+_lRuT-paricayaH_+_kriyarthA-kriyA_2024-05-07
२) lRuT-lakAraH---kriyArthA-kriyA_+_upapada-sangyA_2024-05-14
३) lRuT-lakAraH---kriyArthA-kriyA_+_upapada-sangyA_+_SheSHe_2024-05-21
४) lRuT-lakAraH---lRuT-SheSHe_+_apavAdabhUta-luT-lakAraH_2024-05-28
५) lRuT-lakAraH---luT-katham-apavAdaH_+_vyAmishre-lRuT_2024-06-04
६) lRuT-lakAraH---nyAye-apavAdasya-arthaH_+_vyAmishre-lRuT---bahuvriihi-tatpuruShayoh-bhedaH_2024-06-11
७) lRuT-lakAraH---lRuTah-luTaH-ca-vyavahAraH-kutra_2024-06-18
८) lRuT-lakAraH---lang-lung-liT-luT-lRuT ityeShAM-vyavahAra-punassmaraNam_+_lRuT-visheShah-smRti-bodhake-sati_2024-06-25
९) lRuT-lakAraH---lRuT-visheShah-smRTi-bodhake-trINi-sUtrANi_+_आशंसायां-भूतवच्च_+_क्षिप्रवचने-लृट्_2024-07-09
१०) lRuT-lakAraH---आशंसायां-भूतवच्च_+_क्षिप्रवचने-लृट्_+_किंवृत्ते-लिङ्लृटौ_2024-07-23
११) lRuT-lakAraH---किंवृत्ते-लिङ्लृटौ_+_लृङ्‌-प्राग्वत्‌_2024-07-30
१२) lRuT-lakAraH---किंवृत्ते-लिङ्लृटौ_+_अनवकॢप्त्यमर्षयोरकिंवृत्तेऽपि_2024-08-06
१३) lRuT-lakAraH---अनवकॢप्त्यमर्षयोरकिंवृत्तेऽपि_+_किंकिलास्त्यर्थेषु-लृट्_2024-08-13
१४) lRuT-lakAraH---अनवकॢप्त्यमर्षयोरकिंवृत्तेऽपि_+_किंकिलास्त्यर्थेषु-लृट्_2024-08-20
१५) lRuT-lakAraH---किंकिलास्त्यर्थेषु-लृट्_+_शेषे-लृडयदौ_2024-08-28
१६) lRuT-lakAraH---शेषे-लृडयदौ_+_kutra-lRng-sambhavati-kimarthaM-ca_2024-09-03
१७) lRuT-lakAraH---शेषे-लृडयदौ_+_lRng-kutra-nityam-kutra-vikalpena-kutra-na-bhavati_2024-09-10
१८) lRuT-lakAraH---tinganta-prakriyA-sankShepe_+_pancopAngAni_+_pratyayAdeshaH_2024-09-17
१९) lRuT-lakAraH---dhAtvAdeshaH-1_2024-09-24
२०) lRuT-lakAraH---dhAtvAdeshaH-2_2024-10-01
२१) lRuT-lakAraH---dhAtvAdeshaH-3_+_iDAgamaH-1_2024-10-08
२२) lRuT-lakAraH---iDAgamaH-2_2024-10-15
२३) lRuT-lakAraH---iDAgamaH-3_+_atideshaH-1_2024-10-22
२४) lRuT-lakAraH---atideshaH-2_2024-10-29
२५) lRuT-lakAraH---iDAgama-abhyAsaH_+_atideshaH-3_2024-11-05
२६) lRuT-lakAraH---iDAgama-abhyAsaH_+_sAmAnyam-anga-kAryam_2024-11-12
२७) lRuT-lakAraH---iDAgama-abhyAsaH_+_sAmAnyam-anga-kAryam-2_2024-11-19
२८) lRuT-lakAraH---rUpa-prakriyA-AkAra-ikAra-IkArAnta-dhAtUnAm_2024-11-26
२९) lRuT-lakAraH---rUpa-prakriyA-IkAra-ukArAnta-dhAtUnAm_2024-12-03
३०) lRuT-lakAraH---rUpa-prakriyA--A-I-U-kArAnta-dhAtUnAm-punassmaraNam_+_RukArAnta-dhAtavaH_2025-01-07
३१) lRuT-lakAraH---rUpa-prakriyA--Ru-RUkArAnta-dhAtavaH_+_halanta-dhAtavaH--aniT-veT-kakAra-cakArAntadhAtavaH_2025-01-14


लृट्‌-लकारः  




प्रक्रिया-चिन्तनम्‌


आर्धधातुकप्रक्रियायाः आरम्भे अनिडादि-प्रत्ययाः परिशीलिताः—णिच्‌, यक्‌, यासुट्‌, यङ्लुक्‌, यङ्‌, ल्यप्‌ | अनेन सौकर्यम्‌ आसीत्‌ यतोहि कुत्रापि इडागम-चिन्तनं नापेक्षितम्‌ | यत्र यत्र कार्यसाम्यं वर्तते तत्र तत्र समूहीकृत्य एकत्र पाठः क्रियते चेत्‌ लाभाय इति मातुः सिद्धान्तः | अनिडादि-प्रत्ययान्‌ परिसमाप्य इडागमपाठः आरब्धः | अनेन अधुना सर्वे जानन्ति के-के धातवः सामान्यतया सेटः, के च अनिटः | अग्रे गत्वा द्रक्ष्यामः यत्‌ इडागमापवादाः सन्ति—किन्तु प्रथमतया सामान्यं ज्ञातव्यम्‌ आसीत्‌, तदा तदाधारेण अपवादानां ग्रहणसामर्थ्यं जायते | अधुना च तादृशं ग्रहणसामर्थ्यम्‌ आगतमस्ति अस्माकम्‌ | तर्हि अग्रे इडानुकूलप्रत्ययाः परिशीलनीयाः, समूहरूपेण | कीदृशसमूहः ? कार्यस्य आधारेण | प्रत्ययस्य प्रथमवर्णम्‌ अधिकृत्य समूहीकरणं भवति यतः तमेव वर्णम्‌ अनुसृत्य कार्यं भवति | अङ्गकार्यं च सन्धिकार्यं च प्रत्ययस्य प्रथमवर्णसम्बद्धं च भवति |



येषां इडानुकूलप्रत्ययानाम्‌ आरम्भे तकारः वर्तते अपि च ये अकितः सन्ति, ते एकत्र एकः समूहः भवन्ति—तास्‌, तव्यत्‌, तुमुन्‌, तृच्‌ | एते चत्वारः तकारादि-अकित्‌-प्रत्ययाः | स्यतासी लृ-लुटोः (३.१.३३) इत्यनेन लुटि परे धातुतः तास्‌-प्रत्ययः भवति | धातुभ्यः विधीयमानः तास्‌ न तिङ्‌ न वा शित्‌ इति कृत्वा आर्धधातुकसंज्ञकः; वलादिः इति कृत्वा इडनुकूलः | तदा पश्यामः यत्‌ तव्यत्, तुमुन्, तृच् अपि तथैव सन्ति | एते त्रयः प्रत्ययाः न तिङ्‌ न वा शित्‌ इति कृत्वा आर्धधातुकसंज्ञकाः; वलादयः च वशादयः न इति कृत्वा इडनुकूलाः | अधुना अत्र पुनः इतोऽपि सादृश्यं वर्तते यतोहि तास्‌-प्रत्ययः तकारादिः, एते त्रयः तव्यत्, तुमुन्, तृच् अपि तकारादयः | अस्य सर्वस्य दर्शनेन अवगच्छामः यत्‌ लुट्‌-लकारप्रक्रियायां यादृशम्‌ अङ्गकार्यं सन्धिकार्यं च भवति, तादृशमेव अङ्गकार्यं सन्धिकार्यं च भवति एतेषु त्रिषु प्रत्ययेषु अपि | पुनः एतेषु त्रिषु प्रक्रियासाम्यं बहु अधिकम्‌ अस्ति इत्यतः एतेषां त्रयाणां तकारादिकृत्प्रत्ययानां चिन्तनं मिलित्वा कृतम्‌ |


तर्हि अग्रे किमर्थं क्त्वा, क्तवतु, क्त, क्तिन्‌ इति प्रसिद्ध-तकारादि-प्रत्ययाः अस्मिन्‌ पाठसमूहे सम्मिलिताः न सन्ति ? कारणमस्ति यत्‌ एतेषां चतुर्णाम्‌ इडागमविशेषाः अनेके सन्ति | तास्‌, तव्यत्‌, तुमुन्‌, तृच्‌ इत्येषु विशिष्ट-इडागमसूत्राणि अतीव न्यूनानि सन्ति | अतः ये इडागमसम्बद्ध-सामान्यनियमाः अस्माभिः अधीताः ते सर्वे सङ्गच्छन्ते अस्मिन्‌ पाठे | अपवादाः न्यूनाः एव दृश्यन्ते | परञ्च क्त्वा, क्तवतु, क्त, क्तिन्‌ इत्येषां प्रत्ययानां कृते अनेकानि विशिष्ट-इडागमसूत्राणि सन्ति, तदर्थम्‌ एषां पाठः पृथक्‌ भवति | क्तवतु, क्त इत्यनयोः इडागमव्यवस्था समाना अतः एकत्र तयोः पाठः भविष्यति | परन्तु क्त्वा पृथक्तया करिष्यते, पुनः क्तिन्‌ पृथक्तया करिष्यते |


एतावता सामान्यतकारादि-अकित्‌-प्रत्ययानां पाठः समाप्तः | अधुना नूतनपाठसमूहः आरभ्यमाणः—इडनुकूल-सकारादि-अर्धधातुक-अकित्‌-प्रत्ययाः सम्मिलितरूपेण क्रमेण पठिष्यन्ते | ते एते सन्ति—स्य (लृट्‌, लृङ्‌), सिप्‌ (लेट्‌), सीयुट्‌ (आत्मनेपदि आशीर्लिङ्‌), सन्‌ (सन्नन्तधातवः) | अनन्तरं सिच्‌ (लुङ्‌), लिट्‌, नामधातवः च, एते पृथक्तया करिष्यन्ते | लुङ्‌-लकारस्य सिच्‌-प्रत्ययः पृथक्‌ अस्ति यतोहि लुङ्‌-लकारे अनेके प्रत्ययाः सन्ति, एषां प्रत्ययानां प्रसङ्गे सिच्‌ करिष्यते |


लृटः परिचयः


तर्हि अधुना, अस्मिन्‌ पाठे स्य-प्रत्ययं स्वीकुर्मः | अस्मिन्‌ पाठे लृट्‌-लकारस्य स्य-प्रत्ययः अवलोक्यते, तदा अग्रिमे पाठे लृङ्‌-लकारः स्वीकरिष्यते | लृट्‌-लकारः सामान्य-भविष्यत्कालः इत्युच्यते | अस्य तात्पर्यम्‌ एवं यत्‌ सर्वत्र भविष्यत्कालार्थे लृट्‌-लकारः व्यवह्रियते, अपवादभूतव्यवहारः तस्य स्थाने न भवति चेत्‌ | अपवादस्तु अत्र लुट्‌-लकारः | तर्हि सामान्यस्य व्यवहारः कुत्र इत्यस्य बोधनार्थम्‌ अपवादस्य व्यवहारः कुत्र भवति इति बोध्यम्‌—तद्विहाय अवशिष्टं सर्वं सामान्यमिति |


प्रथमतया लृट्‌-लकारस्य विधायकं सूत्रम्‌ अवलोकयाम—


लृट् शेषे च (३.३.१३) = सामान्य-भविष्यत्कालार्थे धातोः लृट्‌-लकारः भवति, उपपदरूपेण अन्या क्रिया भवति चेदपि, न भवति चेदपि | भविष्यदर्थाद्धातोर्लृट् स्यात्‌ क्रियार्थायां क्रियायां सत्यामसत्यां वा (इति लघुसिद्धान्तकौमुदी) | लृट् प्रथमान्तं, शेषे सप्तम्यन्तं, च अव्ययपदं, त्रिपदमिदं सूत्रम् | भविष्यति गम्यादयः (३.३.३) इत्यस्मात्‌ भविष्यति इत्यस्य अनुवृत्तिः | तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् (३.३.१०) इत्यस्मात्‌ क्रियायाम्, क्रियार्थायाम् इत्यनयोः अनुवृत्तिः | धातोः (३.१.९१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्—भविष्यति क्रियार्थायां क्रियायां धातोः लृट् शेषे च  |


अत्र अनुवृत्ति-सहितसूत्रे ’भविष्यति’ इत्यनेन भविष्यत्कालार्थे | ’क्रियार्थायां क्रियायाम्‌’ इत्यनेन विशिष्टपरिस्थिति वर्तते यस्मिन्‌ द्वितीया क्रिया साहाय्यकरूपेण कार्यं करोति | यत्र यत्र तादृशी द्वितीया क्रिया नास्ति, लृट्‌-लकारे एव एका क्रिया अस्ति, तत्र शेषे इत्युक्तम्‌ | “क्रियार्थायां क्रियायां” इत्यस्य प्रसङ्गे ’उपपद’ इत्यपि शब्दः प्रयुक्तः | “क्रियार्थायां क्रियायाम्‌”,  ’उपपद’ इत्यनयोः अवगमनार्थं तुमुन्‌-ण्वुल्‌ इति प्रत्यययोः विधायकं सूत्रम्‌ अवलोकयामः | तुमुन्‌-प्रत्ययस्य पाठे इदं सूत्रं पठितवन्तः, पुनश्च परिशीलयामः यतोहि अत्रैव एषां पारिभाषिकशब्दानां मूलव्यहारः कृतः—


“क्रियार्थायां क्रियायाम्‌” इत्यस्य परिचयः तुमुन्‌-प्रत्ययस्य माध्यमेन


तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् (३.३.१०) = एकस्याः क्रियायाः साधनार्थम्‌ अपरस्यां क्रियायाम्‌ उपपदे सति भविष्यदर्थे प्रथमायाः (क्रियायाः) धातुतः तुमुन्‌ च ण्वुल्‌ च प्रत्ययौ भवतः | क्रियार्थायां क्रियायामुपपदे धातोर्भविष्यति काले तुमुन्ण्वुलौ प्रत्ययौ भवतः इति काशिका | अत्र इमौ द्वौ प्रत्ययौ तुमुन्‌ ण्वुल् भविष्यत्यर्थे; तुमुन्‌ भावार्थे, ण्वुल् च कर्त्रर्थे | तत्रोपपदं सप्तमीस्थम् (३.१.९२) इत्यनेन ’क्रियायां क्रियार्थायाम्’ उपपदसप्तमीविभक्तौ स्तः | ’पठितुं गच्छति’ इत्यस्मिन्‌ पठनक्रियायाः साधनार्थं गमनक्रिया वर्तते | पठनम्‌ अस्ति प्रयोजनं, नाम लक्ष्यं; गमनम्‌ अस्ति साधनम्‌ | पठनम्‌ इति क्रियायाः कृते गमनम्‌ इति क्रिया वर्तते इति कृत्वा गमन-क्रिया अस्ति “क्रियार्था क्रिया” | एतदर्थं गमनक्रियायाः ’उपपद’ संज्ञा भवति | तुमुन्‌ च ण्वुल्‌ च तयोरितरेतरद्वन्दः तुमुन्ण्वुलौ | क्रिया अर्थः प्रयोजनं यस्याः सा क्रियार्था, तस्यां क्रियार्थायां, बहुव्रीहिः | तुमुन्ण्वुलौ प्रथमान्तं, क्रियायां सप्तम्यन्तं, क्रियार्थायां सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | भविष्यति गम्यादयः (३.३.३) इत्यस्मात्‌ भविष्यति इत्यस्य अनुवृत्तिः | प्रत्ययः (३.१.१), परश्च (३.१.२), धातोः  (३.१.९१) इत्येषाम्‌ अधिकारः | अनुवृत्ति-सहितसूत्रम्—धातोः तुमुन्ण्वुलौ प्रययौ परश्च भविष्यति क्रियार्थायां क्रियायाम्‌ |


तत्रोपपदं सप्तमीस्थम् (३.१.९२) = धातोः (३.१.९१) इति सूत्रस्य अधिकारे विद्यमानेषु सूत्रेषु यः शब्दः सप्तमीविभक्त्याम्‌ अस्ति, तेन निर्दिष्टं पदम् उपपद-संज्ञकं भवति | एतेषु सूत्रेषु सप्तमीविभक्त्याः अर्थः अस्ति उपपदसप्तमी; तेषु ’तत्र’ इत्यपि अन्वेति ‘सति सप्तमी’ इति अर्थे | यत्‌ सूत्रं धातोः (३.१.९१) इति सूत्रस्य अधिकारे अस्ति (इत्युक्ते तृतीयाध्यायस्य अन्तपर्यन्तम्‌), सप्तमीविभक्त्या निर्दिष्टपदस्य उपपदसंज्ञा भवति, अपि च ’तत्र’ इत्यनेन ’तस्मिन्‌ उपपदसंज्ञकपदे सति’ (नाम तस्य उपस्थितौ) तेन सूत्रेण यः प्रत्ययः विधातव्यः, स च प्रत्ययः अस्य उपपदसंज्ञकपदबलेन विधीयते | तस्मिंश्च सत्येव वक्ष्यमाण: प्रत्ययः स्यात्‌ |



यथा तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् (३.३.१०) इति सूत्रे निर्दिष्टपदस्य उपपदसंज्ञा भवति, अपि च तादृशपदस्य उपस्थितौ एव विहितं कार्यं विधीयते | नाम अनेन सूत्रेण ’भोक्तुं व्रजति’ इति निदर्शने, “क्रियायां क्रियार्थायाम्” इत्यनेन (तत्रोपपदं सप्तमीस्थम् (३.१.९२) इत्यस्य साहाय्येन) (१) ’व्रजति’ इत्यस्य उपपदसंज्ञा भवति, अपि च (२) ’यदा’ इयं व्रजन-क्रिया अस्ति, ’तदा’ भुज्‌-धातुतः तुमुन्‌-प्रत्ययः विधीयते | अतः उपपदसप्तमी अपि अस्ति, सति सप्तमी अपि अस्ति |



कस्याः अपि क्रियायाः साधनार्थं यदा द्वितीया क्रिया उपयुज्यते, सा द्वितीया क्रिया ’क्रियार्था क्रिया’ इत्युच्यते | यथा ’भोक्तुं गच्छति’ इत्यस्मिन्‌ भोजनक्रियायाः साधनार्थं गमनक्रिया उपयुज्यते, अतः गमनक्रिया ’क्रियार्था क्रिया’ | तस्याः च गमनक्रियायाः उपपदसंज्ञा भवति | तत्र प्रथमा क्रिया भविष्यत्‌-काले अस्ति यतोहि एतावता सा क्रिया न आरब्धा | अत्र भोजनक्रिया नारब्धा अतः सा भविष्यत्‌-काले अस्ति | यदा एका क्रिया न आरब्धा, नाम भविष्यत्‌-काले अस्ति, अपि च तस्याः साधनार्थम्‌ एका द्वितीया क्रिया उपयुज्यते, तस्यां दशायां प्रथमक्रियायाः व्यक्तीकरणार्थं यः धातुः अस्ति, तस्मात्‌ धातोः तुमुन्‌ च ण्वुल्‌ च भवतः | निदर्शनार्थं ’भोक्तुं व्रजति’ इत्यस्मिन्‌ तुमुन्‌-प्रत्ययः विहितः; ’भोजको व्रजति’ इत्यस्मिन्‌ ण्वुल्‌-प्रतययः विहितः | किन्तु उभयत्र अर्थः भिन्नः—तुमुन्‌-प्रत्ययः भावार्थे, ण्वुल्‌-प्रत्ययः कर्त्रर्थे | तर्हि एवमस्ति चेत्‌, ण्वुल्तृचौ (३.१.१३३) इत्यनेन ण्वुल्‌-प्रत्ययः विधीयते एव; पुनः कर्त्रर्थे ण्वुल्‌-प्रत्ययः अपरेण सूत्रेण किमर्थम्‌ ? इति चेत्‌, अत्र “यः करोति सः” इति अर्थः अस्त्येव, किन्तु भविष्यति |  ’भोजको व्रजति’ इत्युक्ते गच्छति, गत्वा च खादकः भविष्यति (अधुना खादकः नास्ति) | अतः तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् (३.३.१०) इति सूत्रेण भविष्यत्कालार्थे ण्वुल्‌-प्रत्ययः विधीयते | इदमपि बोध्यं यत्‌ भविष्यत्कालार्थे अयं ण्वुल्‌-प्रत्ययः अव्ययं नास्ति; त्रिषु लिङ्गेषु भवति—भोजकः, भोजिका, भोजकम्‌ | तर्हि अयं ण्वुल्‌-प्रत्ययः भविष्यत्कालार्थे, किन्तु ण्वुल्तृचौ (३.१.१३३) इत्यनेन त्रिषु कालेषु भवति |


“क्रियार्थायां क्रियायां” लृट्‌-लकारे


तर्हि अधुना लृट् शेषे च (३.३.१३) इत्यस्य प्रसङ्गे “क्रियार्थायां क्रियायाम्‌”,  ’उपपद’ इत्यनयोः व्यवहारः कथमस्ति इति परिशीलयितुं सिद्धाः वयम्‌ | क्रियार्थायां क्रियायामुपपदे धातोर्भविष्यति काले लृट्‌-लकारः भवति | तुमुन्‌-प्रत्ययस्य प्रसङ्गे ’भोक्तुं व्रजति’ इति निदर्शनं दत्तम्‌ | तत्र ’भोक्तुं’ भविष्यत्कालार्थे अस्ति, अपि च ’व्रजति’ क्रियार्थायां क्रियायामुपपदे अस्ति | एवमेव लृट्‌-लकारे भविति—’भोक्ष्यति इति व्रजति’ |  अर्थः अस्ति यत्‌ कोऽपि गच्छति येन खादितुं शक्नुयात्‌ | एतावता न खादति; गत्वा खादिष्यति | श्यामः भोक्ष्यति इति गृहं गच्छति | अस्मिन्नेवार्थे श्यामः भोक्तुं गृहं गच्छति | अत्र मुख्या क्रिया अस्ति भोजनक्रिया—भोक्ष्यति इति | यत्र एकां क्रियां कर्तुम् द्वितीया क्रिया क्रियते, तत्र या क्रिया मुख्या अस्ति तस्याः निर्देशं कर्तुं लृट्-लकारः उपयुज्यते | यदि श्यामः भोजनक्रियार्थं गृहं गच्छति, तर्हि अत्र 'भोजनक्रिया' मुख्या अस्ति, अपि च गमनक्रिया 'क्रियार्था क्रिया' अस्ति | भोजनक्रियार्थं गमनक्रिया कृता, अतः 'क्रियार्था क्रिया' इत्युक्तम्‌ |


लृट् “शेषे च”


लृट् शेषे च (३.३.१३) इत्यस्य अनुवृत्ति-सहितसूत्रम् अस्ति—भविष्यति क्रियार्थायां क्रियायां धातोः लृट् शेषे च  | तर्हि भविष्यत्कालार्थे क्रियार्थायां क्रियायां धातोः लृट् भवति इति अधुना परिशीलितम्‌ | तदा ’शेषे च’ | अनेन यत्र क्रियार्थायां क्रिया नास्ति, अन्यत्र सर्वत्र सामान्य-भविष्यत्कालार्थे लृट्‌-लकारप्रयोगः ’शेषे च’ इति अन्तरगतम्‌ अस्ति | यथा “पिता कार्यं करिष्यति” | “मम मित्रं पत्रिकायां लेखं लेखिष्यति” | यत्र कुत्रापि सामान्य-भविष्यत्कालार्थे लृटः व्यवहारः भवति, क्रियार्थायां क्रियां विहाय, ’शेषे च’ इत्यनेन विधीयते |


सामान्य-भविष्यत्कालः इति अर्थः


अधुना सामान्य-भविष्यत्कालः इति विषयः | उक्तम्‌ आसीत्‌ यत्‌ लृट्‌-लकारः “सामान्य-भविष्यत्काले” भवति | तत्‌ कुत्र कुत्र भवति इति बोध्यम्‌ अस्माभिः | भविष्यत्कालार्थे लृट्‌-लकारः सर्वत्र व्यवह्रियते, अपवादभूतव्यवहारः तस्य स्थाने न भवति चेत्‌ | अपवादस्तु अत्र लुट्‌-लकारः | तर्हि सामान्यस्य व्यवहारः कुत्र इत्यस्य बोधनार्थम्‌ अपवादस्य व्यवहारः कुत्र भवति इति बोध्यम्‌—तद्विहाय अवशिष्टं सर्वं सामान्यमिति |


अपवादभूत लुट्‌-लकारः


पूर्वमेव लुट्‌-लकारः परिशीलितः अस्माभिः | गतरात्रेः अन्तिमप्रहरात्‌ आगम्यमानरात्रेः प्रथमप्रहरपर्यन्तम्‌ अद्यतनकालः इत्युच्यते | न विद्यते अद्यतनं यस्मिन्‌ अनद्यतनम्‌ | अनद्यतनभविष्यत्कालस्य विवक्षायां धातुभ्यः लुट्‌-लकारो विधीयते | यथा 'श्वः देवदत्तः कर्ता' | 'देवदत्तः श्वः भोक्ता' |


प्रहराणां पुनस्स्मरणम्‌—एकस्मिन्‌ तिथौ अष्टौ प्रहराः वर्तन्ते | एषु चत्वारः प्रहराः दिनस्य, चत्वारः च रात्रेः | प्रथमप्रहरः आरभ्यते सूर्योदयसमये | तर्हि षड्‌वादने प्रथमप्रहरस्य आरम्भः इति चेत्‌, प्रातःकालस्य षड्‌वादनात्‌ सयङ्कालपर्यन्तम्‌ दिनस्य प्रहराः | उक्तं यत्‌ गतरात्रेः अन्तिमप्रहरात्‌ आगम्यमानरात्रेः प्रथमप्रहरपर्यन्तम्‌ अद्यतनकालः  | गतरात्रेः अन्तिमप्रहरः रात्रौ त्रिवादनात्‌ षड्‌वादनपर्यन्तम्‌ | आगम्यमानरात्रेः प्रथमप्रहरः इत्युक्ते सायङ्कालस्य षड्‌वादनात्‌ नववादनपर्यन्तम्‌ | अतः अद्यतनकालः इत्यस्मिन्‌ आहत्य षड्‌प्रहराः सन्ति | रात्रिवेलायां त्रिवादनात्‌ आरभ्य आगम्यमानरात्रेः नववादनपर्यन्तम्‌ |


अनद्यतने लुट्‌ (३.३.१५) इत्यस्य प्रसङ्गे काशिकायां दत्तमस्ति—"भविष्यति इत्येव | भविष्यदनद्यतनेऽर्थे वर्तमानाद् धातोः लुट् प्रत्ययो भवति | लृटोऽपवादः| श्वः कर्ता| श्वो भोक्ता |“ अनद्यतने इत्युक्ते 'श्वोभावी' | भविष्यत्सामान्यम्‌ इति नास्ति, केवलं श्वः-कालिकभविष्यत्त्वम्‌ | एतदेव अनद्यतनम्‌ इति भाष्यमतम्‌ | लुट्‌-लकारस्य पाठे अस्माभिः दृष्टं यत्‌ यदि भविष्यत्सामान्यं सर्वम्‌ अनद्यतनशब्देन गृह्येत, तर्हि लृट्‌-लकारस्य ’सामान्य’ इति व्यवहारे किमपि स्थानं न तिष्ठेत्‌ | अद्यतनस्य निषेधं करोति इत्युक्ते अद्यतनकालेऽपि भावी वर्तते इति कृत्वा अद्यतनभविष्यत्कालस्य प्रतिषेधं करोति | कथनस्य आशयः एवं यत्‌ अद्यतनभविष्यत्कालस्य समीपकालः एव अनद्यतनकालः इति विवक्षितम्‌ | नाम अद्यतनभविष्यद्भिन्नः अद्यतनभविष्यत्सदृशः | यथा 'अनश्वम्‌ आनय' इति आदेशः प्राप्यते चेत्‌ कश्चित्‌ पक्षी आनीयते किम्‌ ? न, पक्षी नानीयते | अश्वभिन्नः अश्वसदृशः चतुष्पादः पशुविशेषः आनेतव्यः  | एवमेव अद्यतनभिन्नः इत्युक्ते अद्यतनभविष्यत्कालस्य निषेधम्‌ इत्यस्य कथनेन अद्यतनभविष्यत्कालसमीपभविष्यत्कालः एव अनद्यतनशब्देन विवक्षणीयः | निषेधः इत्युक्ते अद्यतनभविष्यद्भिन्नत्वे सति अद्यतनभविष्यत्सदृशकालः | अनेन अनद्यतनभविष्यत्कालः नाम श्वः एव | “अद्य भवति, श्वो भविता" |  इति भाष्यकारमतम्‌ |


तदा लोके तु अयं नियमः 'लुट्‌-लकारः श्वः एव' इति तु अनुस्रियमाणः न इति कारणतः नागेशेन समाधानं कल्पितं यत्‌ अत्यन्तविलम्बितभविष्यत्यपि श्वोभावित्वम्‌ | यथा निश्चितविवाहः यदा यदा समीपे भविष्यति, तदानीं किं भवति ? तद्विषयकचिन्तनं यदा अतिशयेन क्रियते तदानीं कालः न गच्छन्नेव भाति | अतः श्वोभावी अपि अतीव विलम्बितभावी इतिवत्‌ भासते कदाचित्‌ | अनेन अत्यन्तदूरभावी अपि श्वोभावी इत्यपि कदाचित्‌ भवितुमर्हति, भावनया | लोकेऽपि ईदृशः अनुभवः व्यवहारश्च वर्तते | चिरभाविन्यपि श्वोभावित्वम् | तर्हि अनेन समाधानं नागेशेन उक्तं, विशिष्टस्थितिषु | आहत्य 'अनद्यतन' इति श्वस्तन्याः एव संज्ञा | परञ्च लोके तद्विहायो‍पि प्रयोगः भवति इति दृष्ट्वा नागेशः मध्यमार्गं दत्तवान्‌ |


लृटः व्यवहारः कुत्र ?


अधुना प्रश्नः अस्ति यत्‌ लृटः स्थानं किम्‌ ? 'अनद्यतन'-शब्दस्य अर्थः कः, भाष्यकारस्य शिक्षा श्वोभावी, नागेशस्य च चिन्तनं यत्‌ अनद्यतने लुटि श्वोभावश्च सम्भवति | अधुनापि मनसि जिज्ञासा वर्तते यत्‌ लृटोऽपवादः इत्यस्य कथनेन 'अपवाद'-शब्दस्य कोऽर्थः ? व्याकरणे, यः अपवादभूतः तस्य एव प्राप्तिः न तु अन्यस्य | अनेन लृटः स्थानं किम्‌ अपि च केन तर्केण ? अपि च भाष्यकारस्य मतमनुसृत्य लुट्‌-लकारस्य क्षेत्रं श्वः एव इति चेत्‌, "अग्रिमे सप्ताहे/मासे/वर्षे" इति कस्य लकारस्य क्षेत्रम्‌ ?



लृटोऽपवादः इत्यनेन लुट्‌-लकारः लृटः अपवादः एव | नाम भविष्यत्सामान्ये विहितः लृट्‌; अनद्यतनभविष्यद्विशेषे अर्थात्‌ श्वोभाविरूपभविष्यद्विशेषे अयं लुट्‌-लकारः विधीयते इति हेतोः येन नाप्राप्ते यो विधिरारभ्यते स तस्य बाधको भवति  इति न्यायेन एकः अपरस्य अपवादः  | यत्कर्तृकः अवश्यप्राप्तौ सत्यां, नाम यः विधिः अवश्यं प्राप्नोति, एवम्‌ अस्मिन्‌ विधौ प्राप्ते सति पुनः अन्यः विधिः आरभ्यते चेत्‌, स च पुनः आरभ्यमाणः विधिः अवश्यप्राप्तविधिं बाधते | प्रकृतौ भविष्यत्सामान्ये विहितः लृट्‌ इति कृत्वा लृटः अवश्यप्राप्तिरस्ति | श्वोभविष्यत्यपि भविष्यदेव, एवं तद्भिन्नं भविष्यत्सामान्यमपि भविष्यदेव | अतः भविष्यत्वनिमित्तकतया लृट्‌-लकारः प्राप्नोति | येन नाप्राप्ते यत्कर्तृक-अवश्यप्राप्तौ सत्यां, लृट्कर्तृक-अवश्यप्राप्तौ सत्यां यो विधिरारभ्यते, लुट्‌-विधिरारभ्यते, अयं लुड्विधिः तस्य, नाम लृटः, लृट्‌-विधेः बाधकः भवति | अतः "श्वः गमिष्यामि" इति तु न भवतीत्येव |



लृट्‌ भवति कुत्र ? काशिकायाम्‌ ‘अनद्यतने' इति बहुव्रीहिः इति यदा उक्तं तदानीं व्यामिश्रे लुट्‌ न भवति | विग्रहवाक्यम्‌ अस्ति 'अविद्यमानः अद्यतनः यस्मिन्‌ सः'| अद्यतन-अनद्यतनभविष्यतोः संयोगः यत्र भवति तत्र व्यामिश्रः | तत्पुरुषः उच्यते चेत्‌, विग्रहवाक्यम्‌ अस्ति ‘न अद्यतनः' इत्युक्ते अद्यतनमात्रं न, किन्तु अन्यः अपि भवितुमर्हति |  अद्यतनभेदः अद्यतन-अनद्यतनव्यामिश्रे अपि अस्ति | अतः तत्पुरुषः अस्ति चेत्‌, व्यामिश्रे अपि भवति | इत्युक्ते अद्यतनकालः अस्ति चेत्‌, एवम्‌ अनद्यतनकालः अस्ति चेत्‌, नाम अद्यतन-अनद्यतनव्यामिश्रः अस्ति चेत्‌, तदानीं सः केवलम्‌ अद्यतनः न, अनद्यतनः अपि अस्ति | अतः अद्यतनभेदः अस्ति | अद्यतनभिन्नत्वे सति तत्रापि (व्यामिश्रे) लुट्‌-लकारः स्यात्‌ | तस्य निवारणार्थं बहुव्रीहिसमासः—'अविद्यमानः अद्यतनः यस्मिन्‌ सः' इत्यनेन अद्यतनस्य निषेधः एव उच्यते | अनेन व्यामिश्रः न सम्भवति | यदा अद्यतनकालश्च अनद्यतनकालश्च इति अवधिद्वयं विवक्षायाम्‌ अन्तर्भूतं, तदा लृट्‌-लकारः उपयुज्यते— 'अद्य वा श्वः देवदत्तः करिष्यति’; 'अद्य वा श्वः वा देवदत्तः खादिष्यति' इति |



अद्यतनभविष्यत्‌-अनद्यतनभविष्यतोः उभयोरपि प्राप्तौ तदानीं लुट्‌ न भवति | यत्र अद्यतनभविष्यत्‌-अनद्यतनभविष्यतोः मिश्रणम्‌ अस्ति तत्र लृट्‌ | अपि च श्वोभिन्नभविष्यत्कालेऽपि भवति लृट्‌ | परश्वः आरभ्य लृट्‌-लकारः एव भवति | लुट्‌-लकारः श्वोभाविन्येव भवति | नागेशस्य कथनमस्ति यत्‌ तद्भिन्नभविष्यत्काले अपि भवितुमर्हति आरोपात्‌ | वस्तुतः परश्वोभावी कालः अस्ति चेत् लुट्‌-लकारः न प्राप्नोति | किन्तु तादृशे काले अपि श्वोभावित्वम्‌ आरोप्यते, नाम परश्वोभाविनि काले श्वोभावी कालः आरोप्यते अतः कथञ्चित्‌ भावनया तादृशानां प्रयोगाणां समर्थनं कृतम्‌ अस्ति | नो चेत्‌ भाष्यकारस्य मतम्‌ अस्ति यत्‌ लुट्‌-लकारः नाम केवलं श्वः | परश्वः, अग्रिमे सप्ताहे, अग्रिमे मासे, अग्रिमे वर्षे च लृट्‌-लकारः | अद्य च परश्वः आरभ्य लृट्‌-लकारः |  



तर्हि एतावता उक्तं यत्‌ 'अनद्यतन' इत्यस्य कथनेन 'अद्यतनस्य निषेधः' नाम 'अद्यतनसमीपकालः' एव सूत्रकारैः विवक्षितः | किन्तु वस्तुतस्तु अयं शब्दः 'अद्यतन' किञ्चित्‌ रहस्यजनकः | एकः प्रश्नः उदेति यत्‌ शास्त्रकारैः 'अनद्यतन' इति एव उक्तं; "श्वः एव”, ‘श्वस्तन' इति वक्तुं शक्तवान्‌ किन्तु नोक्तम्‌ | किमर्थं साक्षात्‌ नोक्तवान्‌ ? उत्तरत्वेन उच्यते यत्‌ सूत्रकारः ज्ञात्वा साङ्केतिकरीत्या उक्तवान्‌ एवम्‌ इच्छन्‌ यत्‌ जनाः चिन्तयेयुः |



अतः वयम्‌ अनुमानं कृत्वा भावयामः यत्‌ अर्थः एतादृशः स्यात्‌ | नो चेत्‌ अद्य अपि बहवः एतादृशजनाः सन्ति ये चिन्तयन्ति यत्‌ 'अनद्यतन' इत्युक्ते "अद्य त्यक्त्वा अग्रे गत्वा यावत्‌ अस्ति तावत्‌ सर्व‍म्‌" | किन्तु तथा सूत्रकारस्य आशयः न स्यात्‌ | अद्यतनं त्यक्त्वा सर्वोऽपि अनद्यतनः भवति चेत्‌, पुनः भविष्यत्सामान्ये लृट्‌-लकारः इति कथं वा 'सामान्यम्‌' वदेम ? अपि च भविष्यत्सामान्ये लृट्‌-लकारः, अनद्यतने भविष्यत्‌ लुट्‌-लकारः इति भेदं किमर्थं वक्ष्यति सूत्रकारः ? स्वारस्यम्‌ अत्र नास्ति | नाम "भवान्‌ आगच्छतु, किन्तु अद्य न" इति यदा उच्यते तदा तस्य आशयः अद्यतनभिन्नश्वोभावी इति समीपे एव | दशानां वर्षाणाम्‌ अनन्तरम्‌ इति नार्थः | अद्यतनस्य प्रतिषेधात्‌ अयं समीपकालः इति अर्थः ग्रहीतुं युज्यते इति प्रतिभाति | आहत्य लुट्‌-लकारस्य व्यवहारः अतीव विशिष्टः न तु लृट्‌-लकारस्य | लृट्‌-लकारः सामान्यं न तु लुट्-लकारः | 'अनद्यतन' इत्यनेन "अद्य त्यक्त्वा अग्रे गत्वा यावत्‌ अस्ति सर्व‍म्‌" इति स्वीक्रियते चेत्‌, लुट्‌-लकारः एव सामान्यं भवति | किन्तु लुट्‌-लकारः एव विशिष्टः | प्रत्येकं भाषायाम्‌ एकः विशिष्टः व्यवहारः भवति "quite recently completed actions”, अपि च "that which is very soon to take place” इत्यर्थम्‌ | संस्कृतभाषायां तदेव 'अनद्यतन' इत्यनेन उक्तं, नाम अनद्यतनभूते लङ्‌-लकारः, अनद्यतनभविष्यति लुट्‌-लकारश्च | एवं कृत्वा "recently finished actions”, “about to come future actions” | यत्‌ ह्यः जातं तदर्थं लङ्‌-लकारः, यत्‌ श्वः जायमानमस्ति तदर्थं लुट्‌-लकारः | अथवा यत्र तादृशभावः अध्यारोपितः वर्तते, यथा निश्चितविवाहे |


अन्ततो गत्वा इतोऽपि एका वार्ता अस्ति यत्‌ भूतकाले परोक्ष-अपरोक्ष इति तत्त्वं वर्तते; भविष्यत्काले तादृशं किमपि नास्ति यतोहि भविष्यति सर्वमपि परोक्षमस्ति ।



सारांशत्वेन अस्माकं शुकवनम्‌ महोदयः एतत्‌ कोष्ठकं निर्मितवान्‌—




कैश्चित्‌ विशिष्टविधिसूत्रैः अपि अर्थविशेषे लृट्‌-लकारः विधीयते ।


अभिज्ञावचने लृट् (३.२.११२) = स्मृतिबोधक-उपपदे सति भूत-अनद्यतनकाले धातोः लृट्‌-लकारः भवति  | स्मृतिबोधिन्युपपदे भूतानद्यतने धातोर्लृट् स्यात् इति सिद्धान्तकौमुद्याम्‌ | स्मरणार्थे उपपदसज्ञकशब्दे सति अनद्यन्तभूतकालार्थे लृट्‌-लकारः भवति | लङः अपवादः | अभिज्ञा स्मृतिः, सा उच्यतेऽनेनेति अभिज्ञावचनं तस्मिन्‌ | सूत्रे ’वचन’ शब्दस्य अर्थः एवं यत्‌ अभिज्ञा इति पदमेव भवेत्‌ इति न; स्मृत्यर्थे यत्‌ किमपि पदं भवितुम्‌ अर्हति—स्मरसि,  बुध्यसे,  चेतयसे इत्यादीनि पदानि सम्भवन्ति | निदर्शने “अभिजानासि देवदत्त कश्मीरेषु वत्स्यामः” | “देवदत्त, भवतः मनसि स्यात्‌ यत्‌ वयं कश्मीरे वसामः स्म” इत्यर्थः | अभिज्ञावचने सप्तम्यन्तं, लृट् प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | अनद्यतने लङ् (३.२.१११) इत्यस्मात्‌ अनद्यतने इत्यस्य अनुवृत्तिः | प्रत्ययः (३.१.१),  परश्च (३.१.२),  धातोः  (३.१.९१), भूते (३.२.८४) इत्येषाम्‌ अधिकारः | अनुवृत्ति-सहितसूत्रम्—अभिज्ञावचने अनद्यतने भूते धातोः लृट्  प्रत्ययः परश्च |


न यदि (३.२.११३) = यद्‌-शब्दस्य योगे स्मृतिबोधकपदस्य सामीप्ये सत्यपि भूतानद्यतनार्थे लृट्‌-लकारो न भवति | उपपदसज्ञकस्मृत्यर्थकपदे सत्यपि यत्‌ इति अव्ययपदं तस्मिन्‌ वाक्ये उपयुज्यते चेत्‌ लृट्‌-लकारः न विधीयते | अभिज्ञावचने लृट् (३.२.११२) इत्यस्य निषेधकसूत्रम्‌ | एकवारं यदा अभिज्ञावचने लृट् (३.२.११२) इति सूत्रं निषिद्धं, तदा सामान्यसूत्रम्‌ अनद्यतने लङ् (३.२.१११) इत्यनेन लङ्‌-लकारः विधीयते | यथा “अभिजानासि कृष्ण यद्वने अभुञ्ज्महि” इति | स्मरसि कृष्ण यत्‌ वने वयम्‌ अखादाम | लृट्‌-लकारः भवति स्म, किन्तु यत्‌ इति पदं यदा उपयुक्तं तदा लृटः निषेधे सति लङ्‌-लकारः विहितः, अत्र ’अभुञ्ज्महि’ इति भुज्‌-धातोः लङ्‌ इति | न अव्ययपदं, यदि सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ |  अभिज्ञावचने लृट् (३.२.११२) इत्यस्य सम्पूर्णरीत्या अनुवृत्तिः | अनद्यतने लङ् (३.२.१११) इत्यस्मात्‌ अनद्यतने इत्यस्य अनुवृत्तिः | प्रत्ययः (३.१.१), धातोः  (३.१.९१), भूते (३.२.८४) इत्येषाम्‌ अधिकारः | अनुवृत्ति-सहितसूत्रम्—अभिज्ञावचने अनद्यतने भूते यदि धातोः लृट् प्रत्ययः न |


विभाषा साकाङ्क्षे (३.२.११४) = स्मृतिबोधक-उपपदे सति भूत-अनद्यतनकाले धातोः लृट्‌-लकारः विकल्पेन भवति यदि सत्यपि असत्यपि यदा सम्बद्धक्रियाद्वयमस्ति अपि च एकस्याः आवश्यकता भवति अपरस्याः अर्थपूरणार्थम्‌ | उक्तविषयो लृड्वा स्यात् लक्ष्यलक्षणभावेन साकाङ्क्षश्चेद्धात्वर्थः इति सिद्धान्तकौमुद्याम्‌ | अभिज्ञावचन उपपदे यच्छब्दसहिते केवले च विभाषा लृट् प्रत्ययो भवति साकाङ्क्षश्चेत् प्रयोक्ता इति काशिकायाम्‌ | साकाङ्क्ष-शब्दस्य अर्थः एवम्‌ अस्ति क्रियाद्वयं वर्तते, तत्र एका क्रिया भवति माध्यमं (लक्षणं), अन्या क्रिया भवति लक्ष्यम्‌ | एकया क्रियया अपरस्याः अर्थपूर्तिः | यथा “अभिजानासि देवदत्त कश्मीरान् गमिष्यामः, तत्र सक्तून् पास्यामः” अथवा, विकल्पेन, “अभिजानासि देवदत्त कश्मीरान् अगच्छाम, तत्र सक्तून् अपिबाम” | अत्र गमनं लक्षणं, पानं लक्ष्यम्‌ |  पुनः, ’यत्‌’ शब्दस्य व्यवहारे सति, “अभिजानासि देवदत्त यत् कश्मीरान् गमिष्यामः (अथवा यत् कश्मीरान् अगच्छाम,) यत् तत्रौदनं भोक्ष्यामहे (अथवा यत् तत्रौदनमभुञ्ज्महि)” | आकाङ्क्षया सह वर्तते साकाङ्क्षः इति सहपूर्वपदबहुव्रीहिः | विभाषा प्रथमान्तं, साकाङ्क्षे सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | अभिज्ञावचने लृट् (३.२.११२) इत्यस्य सम्पूर्णरीत्या अनुवृत्तिः | अनद्यतने लङ् (३.२.१११) इत्यस्मात्‌ अनद्यतने इत्यस्य अनुवृत्तिः | प्रत्ययः (३.१.१), धातोः  (३.१.९१), भूते (३.२.८४) इत्येषाम्‌ अधिकारः | अनुवृत्ति-सहितसूत्रम्—अभिज्ञावचने अनद्यतने भूते साकाङ्क्षे धातोः लृट् प्रत्ययः विभाषा |    


आशंसायां भूतवच्च (३.३.१३२) = भविषत्कालार्थे भूतकालस्य वर्तमानस्य च प्रत्ययः भवति विकल्पेन, आशायाः विवक्षायाम्‌ | भविष्यति काले भूतवद्वर्तमानवच्च प्रत्यया वा स्युराशंसायाम् इति सिद्धान्तकौमुद्याम्‌ | अप्राप्तस्य प्रियार्थस्य प्राप्तुमिच्छा—अप्राप्तपदार्थस्य प्राप्तेः इच्छाम्‌ ’आशंसा’ इत्युच्यते | आशंसा भविष्यति एव भवति | तथापि आशंसायाः विवक्षायाम्‌ अनेन सूत्रेण धातोः भूतकालार्थकश्च वर्तमानार्थकश्च प्रत्ययः विकल्पेन विधीयते | भूतवत्‌ इत्यस्य कथनेन सामान्यभूतकालः इत्यस्य इङ्गितम्‌ अतः सामान्यभूते लुङ्‌ इत्यस्य एव व्यवहारः अत्र न तु लङ्‌ वा लिट्‍ वा | निदर्शने “उपाध्यायश्चेदगमत् वा आगतः वा आगच्छति वा आगमिष्यति वा एते व्याकरणमध्यगीष्महि वा अधीतवन्तः वा अधीमहे वा अध्येष्यामहे” इति | अद्यापकः यदि आगच्छति तर्हि व्याकरणं पठेम | आशंसायां सप्तम्यन्तं, भूतवत् अव्ययं, च अव्ययं, त्रिपदमिदं सूत्रम्‌ | वर्तमानसामीप्ये वर्तमानवद्वा (३.३.१३१) इत्यस्मात्‌ वर्तमानवत्, वा इत्यनयोः अनुवृत्तिः | प्रत्ययः (३.१.१), धातोः  (३.१.९१), परश्च (३.१.२) इत्येषाम्‌ अधिकारः | अनुवृत्ति-सहितसूत्रम्—आशंसायां धातोः भूतवत्‌ वर्तमानवत् च प्रत्ययः वा परश्च |


क्षिप्रवचने लृट् (३.३.१३३) = क्षिप्रशब्दस्य च तदर्थकस्य उपपदे सति आशायाः विवक्षायां धातोः लृट्‌-लकारः भवति | क्षिप्रवचने उपपदे आशंसायां गम्यमानायां धातोर्लृट् प्रत्ययो भवति इति काशिकायाम्‌ | ’वचन’ इति शब्दस्य कथनेन क्षिप्र-शब्दस्य समानार्थकाः शब्दाः अपि अन्तर्भवन्ति, यथा शीघ्रम्‌, आशु, त्वरितम् इत्यादीनि पदानि | निदर्शने “उपाध्यायश्चेत्क्षिप्रमागमिष्यति क्षिप्रं व्याकरणमध्येष्यामहे | अध्यापकः शीघ्रम्‌ आगमिष्यति चेत्‌, शीघ्रमेव व्याकरणं पठिष्यामः | क्षिप्रवचने सप्तम्यन्तं, लृट् प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | आशंसायां भूतवच्च (३.३.१३२) इत्यस्मात्‌ आशंसायां इत्यस्य अनुवृत्तिः | प्रत्ययः (३.१.१), धातोः  (३.१.९१), परश्च (३.१.२) इत्येषाम्‌ अधिकारः | अनुवृत्ति-सहितसूत्रम्—आशंसायां क्षिप्रवचने धातोः लृट् प्रत्ययः परश्च |


प्रकृतसूत्रम्‌ आशंसायां भूतवच्च (३.३.१३२) इत्यस्य अपवादः यतोहि आशंसायां भूतवच्च (३.३.१३२) इति सूत्रेण क्षिप्रावस्थायामपि भूतकालिकप्रत्ययः च वर्तमानकालिकः च प्रत्ययः विधीयते स्म; क्षिप्रवचने लृट् (३.३.१३३) इत्यनेन केवलं लृट्‌-लकारः भवति | प्रश्नः उदेति यत्‌ प्रकृतसूत्रे ’लृट्‌’ इति वदनस्य आवश्यकता नास्ति | आशायाः प्रसङ्गे भविष्यत्कालः स्वाभाविकः अतः लाघवार्थं ’न क्षिप्रवचने’ इति पर्याप्तम्‌ आसीत्‌ | उत्तरत्वेन उच्यते यत्‌ ’लृट्‌’ इति वदनस्य आवश्याकता अस्त्येव स्पष्टीकरणार्थं यत्‌ लुट् इत्यस्य व्यवहारः न भविष्यति तस्य प्रसङ्गः अस्ति चेदपि, यथा “श्वः क्षिप्रमध्येष्यामहे”—श्वः क्षिप्रं पठिष्यामः |      


किंवृत्ते लिङ्लृटौ (३.३.१४४) = किम्‌ इति प्रश्नवाचके सति गर्हा इति अर्थः गम्यमानः चेत्‌ धातोः लिङ्‌ च लृट्‌ च लकारौ भवतः | किम्‌-कतर-कतम इत्येषु अन्यतमः उपस्थितः स्यात्‌ इत्यनेन ’किंवृत्तः’ | गर्हायामिति अनुवृत्तेः निन्दायाम्‌ इत्यर्थः | ’लिङ्‌’ इति पदं पूर्वतने सूत्रे वर्तते तथापि प्रकृतसूत्रे पुनः उक्तं दर्शनार्थं यत्‌ ’लट्‌’, यस्य अनुवृत्तिः भवति स्म, न जायेत | “गर्हायामित्येव| विभाषा न स्वर्यते | किंवृत्ते उपपदे गर्हायां गम्यमानायां धातोर्लिङ्लृटौ प्रत्ययौ भवतः| सर्वलकाराणामपवादः | लिङ्ग्रहणं लटोऽपरिग्रहार्थम् |“ इति काशिकायाम्‌ | ’विभाषा’ इत्यस्य अनुवृत्तिः न भवति; अस्य फलम्‌ अस्ति यत्‌ अपरेषां सर्वेषां लकाराणां बाधा भवति—अत्र केवलं विधिलिङ्‌ च लृट्‌ च सम्भवतः | किमो वृत्तं किंवृत्तं, तस्मिन्‌ किंवृत्ते, षष्ठीतत्पुरुषसमासः | लिङ्‌ च लृट्‌ च तयोरितरेतरयोगद्वन्द्वो लिङ्लृटौ | किंवृत्ते सप्तम्यन्तं, लिङ्लृटौ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | गर्हायां लडपिजात्वोः (३.३.१४२) इत्यस्मात्‌ गर्हायाम् इत्यस्य अनुवृत्तिः | प्रत्ययः (३.१.१), धातोः  (३.१.९१), परश्च (३.१.२) इत्येषाम्‌ अधिकारः | अनुवृत्ति-सहितसूत्रम्— किंवृत्ते गर्हायां धातोः लिङ्‌ लृट् प्रत्ययौ परश्च |


किंवृत्ते लिङ्लृटौ (३.३.१४४) इत्यस्य उदाहरणाम्‌ अस्ति—’कः कतरः कतमो वा हरिं निन्देत्, निन्दिष्यति वा’ |  कः अभाग्यः अस्ति यत्‌ हरेः निन्दां कुर्यात्‌ ? अस्मिन्‌ उदाहरणे, किंवृत्ते लिङ्लृटौ (३.३.१४४) इति सूत्रेण षट्‌ वाक्यानि भवन्ति—’को हरिं निन्देत्‌’, ’कतरो हरिं निन्देत्‌’, ’कतमो हरिं निन्देत्‌’, ’को हरिं निन्दिष्यति’, ’कतरो हरिं निन्दिष्यति’, ’कतमो हरिं निन्दिष्यति’ इति | अत्र ’किं’ शब्दस्य व्यवहारेण किंवृत्तं भवति अपि च तेन एव व्यवहारेण गर्हा इति अर्थः अपि जायते | अतः निन्द्‌ इति धातोः किंवृत्ते लिङ्लृटौ (३.३.१४४) इति सूत्रेण विधिलिङ्‌-लकारे सति निन्देत्‌ अपि च लृट्‌-लकारे सति निन्दिष्यति इति द्वे पदे जायेते |


लृङ्‌ प्राग्वत्‌ इति वाक्यं सिद्धन्तकौमुद्याः वृत्तौ वर्तते | पूर्वतने सूत्रे, विभाषा कथमि लिङ् च (३.३.१४३), एका विशिष्टा परिस्थिति भवति यत्र लृङ्‌-लकारस्य सम्भावना अपि भवति । तद्वत् अत्रापि | किंवृत्ते लिङ्लृटौ (३.३.१४४) इति सूत्रेण यत्र एकं विशिष्टं कार्यं भवति स्म अथवा तादृश-प्रयोजने प्रयासः जातः परन्तु साफल्यं न प्राप्तं, अथवा भविष्यति यत्र तादृशः असफलः प्रयासः स्यात्‌, तत्र भूतकाले विकल्पेन लृङ्‌-लकारः भवति, भविष्यत्काले च नित्यं लृङ्‌-लकारः भवति | एतदर्थं काशिकायाम्‌ उदाहरणं दीयते, “को नाम वृषलो यं तत्र भवान् याजयेत् | यं तत्र भवान् वृषलं याजयिष्यति | कतरो नाम, कतमो नाम यं तत्र भवान् वृषलं याजयेत्, याजयिष्यति | भूते क्रियातिपत्तौ वा लृङ् | भविष्यति तु नित्यम् | को नाम वृषलो यं तत्र भवानयाजयिष्यत् |“ अस्मिन्‌ उदाहरणे ’वृषलः’ नाम दुर्जनः; ’याजयति’ इति ’यज्‌’ धातोः णिजन्तरूपम्‌ | ’यजते’ नाम त्यागं करोति | निदर्शने केनचित्‌ स्वस्य चारित्र्यं, ख्यातिः, नाम वा त्यागः क्रियते दुर्जनस्य कृते | आरम्भे सामान्यार्थे किंवृत्ते लिङ्लृटौ (३.३.१४४) इत्यनेन विधिलिङ्‌ च लृट्‌ च इत्यनयोः वाक्यानि दीयन्ते | तदा अतिपत्तौ, नाम यत्र कार्यस्य असाफल्यं जायते, भूते विकल्पेन लृङ्‌ ’अयाजयिष्यत्‌’, भविष्यति नित्यं लृङ्‌ च भवति | अर्थः अस्ति, तस्य दुर्जनस्य नाम किं, यस्य कृते भवतः असफलः प्रयासः जातः स्वस्य नाम त्यागार्थम्‌ ? प्रथमे उदाहरणे च अस्मिन्‌ अर्थे ’को हरिम्‌ अनिन्दिष्यत्‌’ इति भवति | उभयत्र ’किम्‌’ इति प्रश्नवाचकः शब्दः निन्दार्थे भवति |


प्रश्नः उदेति यत्‌ किंवृत्ते लिङ्लृटौ (३.३.१४४) इति सूत्रे कुतः लृङ्‌ प्राग्वत्‌ इति सूचना प्राप्यते । तथैव काशिकायां दत्तं यत्‌ ’भूते क्रियातिपत्तौ वा लृङ् | भविष्यति तु नित्यम्’ | एतत्‌ सर्वं किंवृत्ते लिङ्लृटौ (३.३.१४४) इत्यस्य अनुवृत्ति-सहितसूत्रे नास्ति किल । उत्तरत्वेन उच्यते यत्‌ वोताप्योः (३.३.१४१) इति सूत्रात्‌ वा इत्यस्य अधिकारः । अनेन प्राग्वत्‌—पूर्वतनसूत्रम्‌ इव—विकल्पेन एकस्मिन्‌ पक्षे लृङ्‌-लकारः अपि भवति—अनिन्दिष्यत्‌ । नाम अनुवृत्ति-सहितसूत्रे एवं भवेत्‌— वा (लृङ्‌ प्राग्वत्‌) । आहत्य—किंवृत्ते गर्हायां धातोः लिङ्‌ लृट् प्रत्ययौ परश्च वा (लृङ्‌ प्राग्वत्‌) ।


अनवकॢप्त्यमर्षयोरकिंवृत्तेऽपि (३.३.१४५) = असम्भावना च अक्षमा चेत्यनयोरर्थे किंवृत्तेः उपपदे सत्यपि असत्यपि धातोः कालसामान्ये सर्वलकारोपवादे लिङ्‌ च लृट्‌ च लकारौ भवतः | “गर्हायामिति निवृत्तम् | अनवकॢप्तिरसंभावना | अमर्षोऽक्षमा | न संभावयामि न मर्षये वा भवान् हरिं निन्देत् निन्दिष्यति वा | लृङ् प्राग्वत् |“—इति सिद्धान्तकौमुद्याम्‌ | अनेन अवगम्यते यत्‌ गर्हायामित्यस्य अस्मिन्‌ सूत्रे अनुवृत्तिः नास्ति | अनवकॢप्तिः इत्युक्ते असम्भावना; अमर्षः इत्युक्ते अक्षमा | पूर्वसुत्रवत्‌ ’विभाषा’ इत्यस्य अनुवृत्तिः न भवति; अस्य फलम्‌ अस्ति यत्‌ अपरेषां सर्वेषां लकाराणां बाधा भवति—अत्र केवलं विधिलिङ्‌ च लृट्‌ च सम्भवतः | निदर्शनस्य अर्थः एवं यत्‌ “भवान् हरिं निन्देत् निन्दिष्यति वा” इति तादृशी घटना वक्तुः मनसि सम्भावनीया नास्ति अथवा क्षमायोग्या नास्ति | न अवकॢप्तिः अनवकॢप्तिः, नञ्तत्पुरुषः | न मर्षोऽमर्षः, नञ्तत्पुरुषः | अनवकॢप्तिश्च अमर्षश्च तयोरितरेतरयोगद्वन्द्वः अनवकॢप्त्यमर्षौ, तयोरनवकॢप्त्यमर्षयोः | किमो वृत्तं किंवृत्तं, न किंवृत्तमकिंवृत्तं, तस्मिन्‌ अकिंवृत्ते, षष्ठीतत्पुरुषगर्भनञ्‌तत्पुरुषसमासः | अनवकॢप्त्यमर्षयोः सप्तम्यन्तम्‌, अकिंवृत्ते सप्ताम्यन्तम्‌, अपि इत्यव्ययं, त्रिपदमिदं सूत्रम्‌ | किंवृत्ते लिङ्लृटौ (३.३.१४४) इत्यस्मात्‌ लिङ्लृटौ इत्यस्य अनुवृत्तिः | प्रत्ययः (३.१.१), धातोः  (३.१.९१), परश्च (३.१.२) इत्येषाम्‌ अधिकारः | अनुवृत्ति-सहितसूत्रम्—अनवकॢप्त्यमर्षयोः अकिंवृत्ते अपि धातोः लिङ्‌ लृट् प्रत्ययौ परश्च |


अनवकॢप्त्यमर्षयोरकिंवृत्तेऽपि (३.३.१४५) इति सूत्रस्य काशिकाव्याख्यायाम्‌ उक्तं यत्‌ “बह्वचः पूर्वनिपातो लक्षणव्यभिचारचिह्नम् | तेन यथासंख्यं न भवति |“ अस्य अर्थः एवं यत्‌ अल्पाच्तरम् (२.२.३४) इति सुत्रम्‌ अनुसृत्य द्वन्द्वसमासे द्वयोः प्रातिपदिकयोः मध्ये यस्मिन्‌ अच्‌-वर्णाः न्यूनाः सन्ति तत्‌ प्रातिपदिकं द्वन्द्वसमासस्य प्रथमः सदस्यः स्यात्‌ | परन्तु ’अनवकॢप्त्यमर्षयोः’ इति द्वन्द्वसमासे ’अनवकॢप्ति’ इत्यस्मिन्‌ ’अमर्ष’ इति प्रातिपदिकस्य तुलनया अधिकाः अच्‌-वर्णाः सन्ति चेदपि द्वन्द्वसमासस्य प्रथमसदस्यः | काशिकाकारैः उच्यते यत्‌ अनेन ज्ञापकं भवति यत्‌ अत्र यथासंख्यमनुदेशः समानाम् (१.३.१०) इत्यस्य प्रसक्तिर्नास्ति | यथासंख्यमनुदेशः समानाम् (१.३.१०) इति सूत्रम्‌ अनुसृत्य सूत्रस्य अर्थः एवं भवति स्म यत्‌ यदा घटना असम्भावनीया (अनवकॢप्तिः) तदा विधिलिङ्‌-लकारः, यदा च घटना क्षमायोग्या नास्ति (अमर्षः) तदा लृट्‌-लकारः | परन्तु यतोहि अनवकॢप्तिः द्वन्द्वसमासे प्रथमसदस्यः, अनेन बोध्यं यत्‌ अत्र क्रमम्‌ अनुसृत्य न भवति, अपि तु अनवकॢप्तिः वा भवतु, अमर्षः वा भवतु, उभयत्र लकारद्वयं (लिङ्‌ च लृट्‌ च) सम्भवति |  


अनवकॢप्त्यमर्षयोरकिंवृत्तेऽपि (३.३.१४५) इत्यस्य निदर्शनम्‌ अस्ति “न संभावयामि न मर्षये वा भवान् हरिं निन्देत् निन्दिष्यति वा” इत्युक्तम्‌ | अत्र षोडश सम्भावनाः भवन्ति—


किंवृत्तेः उपपदे असति चत्वारि वाक्यानि—


न सम्भावयामि भवान्‌ हरिं निन्देत्‌ =  अहं न भावयामि यत्‌ भवान्‌ हरेः निन्दां करोति स्म, कुर्वन्‌ अस्ति, करिष्यति |

न सम्भावयामि भवान्‌ हरिं निन्दिष्यति =  अहं न भावयामि यत्‌ भवान्‌ हरेः निन्दां करोति स्म, कुर्वन्‌ अस्ति, करिष्यति |

न मर्षये भवान्‌ हरिं निन्देत्‌ = अहं सहनं न करोमि यत्‌ भवान्‌ हरेः निन्दां करोति स्म, कुर्वन्‌ अस्ति, करिष्यति |

न मर्षये भवान्‌ हरिं निन्दिष्यति = अहं सहनं न करोमि यत्‌ भवान्‌ हरेः निन्दां करोति स्म, कुर्वन्‌ अस्ति, करिष्यति |


किंवृत्तेः उपपदे सति द्वादश वाक्यानि—


मूलवाक्यं तदा एवम्‌ अस्ति, “कः कतरः कतमो वा हरिं निन्देत्‌, निन्दिष्यति वा” इति |


न सम्भावयामि, को हरिं निन्देत्‌ = अहं न भावयामि, हरेः निन्दां कः करोति ?

न मर्षये, को हरिं निन्देत्‌ = अहं सहनं न करोमि, हरेः निन्दां कः करोति ?

न सम्भावयामि, को हरिं निन्दिष्यति = अहं न भावयामि, हरेः निन्दां कः करोति ?

न मर्षये, को हरिं निन्दिष्यति = अहं सहनं न करोमि, हरेः निन्दां कः करोति ?


न सम्भावयामि, कतरो हरिं निन्देत्‌ = अहं न भावयामि, द्वयोः मध्ये कः हरेः निन्दां करोति ?

न मर्षये, कतरो हरिं निन्देत्‌ = अहं सहनं न करोमि, द्वयोः मध्ये कः हरेः निन्दां करोति ?

न सम्भावयामि, कतरो हरिं निन्दिष्यति = अहं न भावयामि, योः मध्ये कः हरेः निन्दां करोति ?

न मर्षये, कतरो हरिं निन्दिष्यति = अहं सहनं न करोमि, योः मध्ये कः हरेः निन्दां करोति ?


न सम्भावयामि, कतमो हरिं निन्देत्‌ = अहं न भावयामि, अनेकेषु कः हरेः निन्दां करोति ?

न मर्षये, कतमो हरिं निन्देत्‌ = अहं सहनं न करोमि, अनेकेषु कः हरेः निन्दां करोति ?

न सम्भावयामि, कतमो हरिं निन्दिष्यति = अहं न भावयामि, अनेकेषु कः हरेः निन्दां करोति ?

न मर्षये, कतमो हरिं निन्देत्‌ = अहं सहनं न करोमि, अनेकेषु कः हरेः निन्दां करोति ?


यथा किंवृत्ते लिङ्लृटौ (३.३.१४४) इति सिद्धान्तकौमुद्याः वृत्तौ, अत्रापि अनवकॢप्त्यमर्षयोरकिंवृत्तेऽपि (३.३.१४५) इत्यस्य वृत्तौ अपि लृङ्‌ प्राग्वत्‌  इति अंशः वर्तते | नाम अत्रापि वोताप्योः (३.३.१४१) इति सूत्रात्‌ वा इत्यस्य अधिकारः भवति | अतः यत्र एकं विशिष्टं कार्यं भवति स्म अथवा तादृश-प्रयोजने प्रयासः जातः परन्तु साफल्यं न प्राप्तं, अथवा भविष्यति यत्र तादृशः असफलः प्रयासः स्यात्‌, तत्र भूतकाले विकल्पेन लृङ्‌-लकारः भवति, भविष्यत्काले च नित्यं लृङ्‌-लकारः भवति | “भूतविवक्षायां तु क्रियातिपत्तौ वा लृङ् भवति| भविष्यति नित्यम्| नावकल्पयामि तत्र भवान् नाम वृषलमयाजयिष्यत्‌ |“ इति काशिकायाम्‌ |      


किंकिलास्त्यर्थेषु लृट् (३.३.१४६) = असम्भावना च अक्षमा चेत्यनयोरर्थः गम्यमानः चेत्‌ ’किंकिल’ च ’अस्ति’ चेत्यनयोः उपपदे धातोः लृट्‌ लकारो भवति | “अनवकॢप्त्यमर्षयोरित्येतत् गर्हायां च (३.३.१४९) इति यावदनुवर्तते | किंकिलेति समुदायः क्रोधद्योतक उपपदम् | अस्त्यर्थाः अस्तिभवतिविद्यतयः | लिङोऽपवादः | अत्र लृङ् न |“ इति सिद्धान्तकौमुद्याम्‌ | वृतौ उक्तं यत्‌ अनवकॢप्त्यमर्षयोरकिंवृत्तेऽपि (३.३.१४५) इत्यस्मात्‌ अनवकॢप्त्यमर्षयोः इत्यस्य अनुवृत्तिः भवति गर्हायां च (३.३.१४९) इति सूत्रपर्यन्तम्‌ | किंकिलेति समुदायः इत्युक्ते किंकिल इति शब्दः ’किं’ च ’किल’ चेत्यनयोः योजनेन समूहात्मकम्‌ अव्ययं जायते यस्य अर्थः अस्ति ’क्रोधः’, क्रोधस्य द्योतकः | यदा इदं किंकिल इति अव्ययम्‌ उपपदरूपेण वाक्ये विद्यते तदा अस्य सूत्रस्य प्रवृत्तिः भवति | अस्त्यर्थाः अस्तिभवतिविद्यतयः इत्यनेन ’अस्ति’ इत्यस्य अर्थे अस्ति, भवति, विद्यते इत्यादयः शब्दाः सम्भवन्ति | लिङोऽपवादः | अत्र लृङ् न | अस्मिन्‌ सूत्रे साक्षात्‌ लृट्‌ उक्तमस्ति प्रदर्शनार्थं यत्‌ लिङ्‌ इत्यस्य अनुवृत्तिः नास्ति, अपि च यदा लिङ्‌ नस्ति तदा ’लृङ्‌ प्राग्वत्’ इत्यपि न भवति | अनवकॢप्त्यमर्षयोरकिंवृत्तेऽपि (३.३.१४५) इति सूत्रं प्रबाध्य केवलं लृट्‌ लकारं विदधाति न तु लिङ्‌ | अस्ति अर्थो येषां ते अस्त्यर्थाः बहुव्रीहिः | किंकिलश्च अस्त्यर्थाश्च तेषामितरेतरयोगद्वन्द्वः किंकिलास्त्यरर्थास्तेषु किंकिलास्त्यर्थेषु | किंकिलास्त्यर्थेषु सप्तम्यन्तं, लृट्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | अनवकॢप्त्यमर्षयोरकिंवृत्तेऽपि (३.३.१४५) इत्यस्मात्‌ अनवकॢप्त्यमर्षयोः इत्यस्य अनुवृत्तिः | प्रत्ययः (३.१.१), धातोः  (३.१.९१), परश्च (३.१.२) इत्येषाम्‌ अधिकारः | अनुवृत्ति-सहितसूत्रम्—अनवकॢप्त्यमर्षयोः किंकिलास्त्यर्थेषु धातोः लृट् प्रत्ययः परश्च |


सिद्धान्तकौमुद्यां किंकिलास्त्यर्थेषु लृट् (३.३.१४६) इत्यस्य निदर्शनम्‌ अस्ति, “न श्रद्दधे न मर्षये वा किंकिल त्वं शूद्रान्नं भोक्ष्यसे | अस्ति भवति विद्यते वा शूद्रीं गमिष्यसि |“ अत्र वाक्यद्वयम्‌ अस्ति—प्रथमवाक्यं भवति किंकिल इत्यस्य उदाहरणं; द्वितीयवाक्यम्‌ अस्ति "अस्ति भवति विद्यते" इत्येषाम्‌ उदाहरणम्‌ |


न श्रद्दधे न मर्षये वा किंकिल त्वं शूद्रान्नं भोक्ष्यसे |“ अनेन वाक्यद्वयं जायते—


(श्रद्दधे = श्रत्‌ + धा, आत्मनेपदे लटि उत्तमपुरुषैकवचने → श्रत्‌ + दधे → श्रद्दधे, नाम विश्वासं करोमि)


न श्रद्दधे किंकिल त्वं शूद्रान्नं भोक्ष्यसे = अहं विश्वासं न करोमि, सम्भावनां न पश्यामि, तथा आशां न करोमि यत्‌ त्वं शूद्रस्य अन्नं खादसि |


न मर्षये किंकिल त्वं शूद्रान्नं भोक्ष्यसे = अहं सहनं न करोमि यत्‌ त्वं शूद्रस्य अन्नं खादसि |


प्रथमवाक्ये अनवकॢप्त्यर्थः अस्ति (न श्रद्दधे) अपि च क्रोध-द्योतकम्‌ अव्ययं किंकिल इति उपपदे अस्ति | द्वितीयवाक्ये अमर्षार्थः अस्ति (असहनम्‌) अपि च क्रोध-द्योतकम्‌ अव्ययं किंकिल इति उपपदे अस्ति | अत्र भुज्‌ धातोः अनवकॢप्त्यमर्षयोरकिंवृत्तेऽपि (३.३.१४५) इत्यनेन लृट्‌ च लिङ्‌ च द्वयोः प्रसक्तिरासीत्‌ परन्तु किंकिलास्त्यर्थेषु लृट् (३.३.१४६) इत्यनेन पूर्वसूत्रं प्रबाध्य केवलं लृट्‌ विदधाति, अनेन च भोक्ष्यसे इत्येव जायते |    


“अस्ति भवति विद्यते वा शूद्रीं गमिष्यसि |” अनेन वाक्यत्रयं भवति—


त्वं शूद्रीं गमिष्यसि इति अस्ति = त्वं शूद्र्याः गमनं करोति, एवम्‌ अस्ति किम्‌ ?

त्वं शूद्रीं गमिष्यसि इति भवति = त्वं शूद्र्याः गमनं करोति, एवम्‌ अस्ति किम्‌ ?

त्वं शूद्रीं गमिष्यसि इति विद्यते = त्वं शूद्र्याः गमनं करोति, एवम्‌ अस्ति किम्‌ ?


एषु त्रिषु वाक्येषु अस्त्यर्थकपदानि (अस्ति, भवति, विद्यते) सन्ति इति कृत्वा अस्त्यर्थस्य निगमनम्‌ | अत्र गम्‌ धातोः किंकिलास्त्यर्थेषु लृट् (३.३.१४६) इत्यनेन केवलं लृट्‌-लकारः विहितः, अनेन च गमिष्यसि इत्येव जायते |


अत्र लृङ् न | अत्र भविष्यति नित्यं लृङ्‌, भूते वा इति पूर्वोक्तः विधिः न भवति यतोहि उपर्युक्तेषु वाक्येषु लिङ्‌-निमित्तता नास्ति | लिङः अभावे लृङ्‌ अपि न भवति |


अन्यत्‌ उदाहरणम्‌—


किंकिल-उपपदे—


न सम्भावयामि, किंकिल भवान्‌ धान्यं न दास्यति = अहं चिन्तयितुम्‌ अपि न शक्नोमि यत्‌ भवान्‌ धान्यं न दास्यति |

न मर्षयामि, किंकिल भवान्‌ धान्यं न दास्यति = अहं सहनं कर्तुं न शक्नोमि यत्‌ भवान्‌ धान्यं न दास्यति |


अस्त्यर्थक-उपपदे—


न सम्भावयामि, अस्ति भवान्‌ मां त्यक्ष्यति = अहं चिन्तयितुम्‌ अपि न शक्नोमि यत्‌ भवान्‌ मां त्यक्ष्यति |

न सम्भावयामि, भवति भवान्‌ मां त्यक्ष्यति = अहं चिन्तयितुम्‌ अपि न शक्नोमि यत्‌ भवान्‌ मां त्यक्ष्यति |

न सम्भावयामि, विद्यते भवान्‌ मां त्यक्ष्यति = अहं चिन्तयितुम्‌ अपि न शक्नोमि यत्‌ भवान्‌ मां त्यक्ष्यति |


न मर्षयामि, अस्ति भवान्‌ मां त्यक्ष्यति = अहं सहनं कर्तुं न शक्नोमि यत्‌ भवान्‌ मां त्यक्ष्यति |

न मर्षयामि, भवति भवान्‌ मां त्यक्ष्यति = अहं सहनं कर्तुं न शक्नोमि यत्‌ भवान्‌ मां त्यक्ष्यति |

न मर्षयामि, विद्यते भवान्‌ मां त्यक्ष्यति = अहं सहनं कर्तुं न शक्नोमि यत्‌ भवान्‌ मां त्यक्ष्यति |


किंकिलास्त्यर्थेषु लृट् (३.३.१४६) इति सूत्रस्य अनन्तरम्‌ इतोऽपि एकं लृट्‌-विधायकसूत्रं भवति, शेषे लृडयदौ (३.३.१५१) इति | अष्टाध्याय्याः सूत्रक्रमे अनयोः द्वयोर्मध्ये कानिचन लिङ्‌-विधायकसूत्राणि सन्ति | जातुयदोर्लिङ् (३.३.१४७) इत्यनेन अनवकॢप्त्यमर्षयोः जातुयदोः (जातु, यत्‌ इत्यनयोः) उपपदे धातोः लिङ्‌ लकारः | तदा यच्चयत्रयोः (३.३.१४८) इत्यनेन अपि तथैव, किन्तु ’यच्च’ ’यत्र’ इति उपपदे—अनवकॢप्त्यमर्षयोः यच्चयत्रयोः (यच्च, यत्र इत्यनयोः) उपपदे धातोः लिङ्‌ लकारः | तदा गर्हायां च (३.३.१४९)—गर्हायां यच्चयत्रयोः उपपदे धातोः लिङ्‌ लकारः | तदा चित्रीकरणे च (३.३.१५०)—चित्रीकरणे यच्चयत्रयोः उपपदे धातोः लिङ्‌ लकारः | चित्रीकरणे इत्युक्ते आश्चर्ये (आश्चर्यं, विचित्रम्‌, अद्भुतम्‌) | अधुना अस्मिन्नेव चित्रीकरणे किन्तु ’यच्च’, ’यत्र’ त्यक्त्वा अन्यत्र सर्वत्र भवति शेषे लृडयदौ (३.३.१५१) इत्यनेन लृट्‌ न तु लिङ्‌ |


शेषे लृडयदौ (३.३.१५१) = शेषे (नाम यत्र ’यच्च’, ’यत्र’ न स्तः), ’यदि’-भिन्न-अव्ययोपपदे सति चित्रीकरणार्थः गम्यमानः चेत्‌ धातोः लृट्‌-लकारः भवति | 'शेषे' इत्यनेन यच्चयत्राभ्यां भिन्नम्‌, 'अयदौ' इत्यनेन यदि-भिन्नं तत्सदृशम्‌ अव्ययम्‌ | इत्युक्ते अत्र पर्युदासः अस्ति—यच्च, यत्र, यदि इति अव्ययानि न स्युः परन्तु तानि त्यक्त्वा किमपि अव्ययं भवेत्‌ | अपि च चित्रीकरणार्थः गम्यमानः भवेत्‌ | एतौ द्वौ निमित्तौ उपस्थितौ चेत्‌ लृट्‌-लकारः न तु विधिलिङ्‌ | “यच्चयत्राभ्यामन्यत्र चित्रीकरणं शेषः | शेष उपपदे चित्रीकरणे गम्यमाने धातोर्लृट् प्रत्ययो भवति, यदिशब्दश्चेद् न प्रयुज्यते | सर्वलकाराणामपवादः |“ इति काशिकायाम्‌ | “यच्चयत्राभ्यामन्यस्मिन्नुपपदे चित्रीकरणे गम्ये धातोर्लृट् स्यात् |“ इति सिद्धान्तकौमुद्याम्‌ | न यदि अयदिः, तस्मिन्‌ अयदौ, नञ्तत्पुरुषः | शेषे सप्तम्यन्तं, लृट् प्रथमान्तम्‌, अयदौ सप्तम्यन्तं त्रिपदमिदं सूत्रम्‌ | चित्रीकरणे च (३.३.१५०) इत्यस्मात्‌ चित्रीकरणे इत्यस्य अनुवृत्तिः | प्रत्ययः (३.१.१), धातोः  (३.१.९१), परश्च (३.१.२) इत्येषाम्‌ अधिकारः | अनुवृत्ति-सहितसूत्रम्—शेषे अयदौ चित्रीकरणे धातोः लृट् प्रत्ययः परश्च |


काशिकायां निगमनम्‌ अस्ति “आश्चर्यं चित्रमद्भुतम्, अन्धो नाम पर्वतमारोक्ष्यति | बधिरो नाम व्याकरणमध्येष्यते |“ अन्धः इत्यनेन यः द्रष्टुं न शक्नोति; बधिरः इत्यनेन यः श्रोतुं न शक्नोति | अन्धः पर्वतम्‌ आरोहति चेत्‌, बधिरः व्याकरणं पठति चेत्‌ महत्‌ आश्चर्यम्‌—’नाम’ इति अव्ययं, तेन च अव्ययेन आश्चर्यं, चित्रम्‌, अद्भूतम्‌ इति अर्थः द्योतितः भवति | अतः रुह्‌ धातोः लृट्‌-लकारः भवति | “आश्चर्यमन्धो नाम कृष्णं द्रक्ष्यति” इति उदाहरणं सिद्धान्तकौमुद्याम्‌ अपि तथैव | दृश्‌-धातुतः लृट्‌-लकारेण द्रक्ष्यति इति भवति |    


शेषे लृडयदौ (३.३.१५१) इति सूत्रे ’यदि’-भिन्न-अव्ययोपपदे सति लृट्‌ इत्युक्तम्‌ | “अयदौ किम् | आश्चर्यं यदि सोऽधीयीत |“ इति सिद्धान्तकौमुद्याम्‌ | अत्र ’अयदौ’ इत्यस्य दलसार्थक्यं किम्‌ ? आश्चर्यं यदि मूकोऽधीयीत | मूकः इत्युक्ते यः वक्तुं न शक्नोति | उक्तवाक्ये च ’यदि’ पदेन आश्चर्यार्थः द्योतितः | “मूकः यदि अध्येतुम्‌ आरभेत तर्हि एषा आश्चर्यजनिका वार्ता स्यात्‌” इति वाक्यार्थः | अस्मिन्‌ वाक्ये ’यदि’ शब्दः अस्ति, चित्रीकरणार्थः अपि गम्यमानः, किन्तु विधिलिङ्‌-लकारः अस्ति न तु लृट्‌ | एतादृशे वाक्ये लृट्‌-लकारः न स्यात्‌, तस्य निषेधार्थञ्च सूत्रे ’अयदौ’ इत्युक्तम्‌ | “अयदाविति किम् ? आश्चर्यं यदि स भुञ्जीत |” इति काशिकायाम्‌ | यदि सः खादेत्‌, आश्चर्यस्य वार्ता स्यात्‌ इति अर्थः |


लिङ्निमित्ताभावादिह लृङ् न भवति इति काशिकाकारो वदति | यथोक्तं पूर्वमपि, यत्र लिङ्‌ न भवति, तत्र लृङ्‌ प्राग्वत्‌ इति वाक्यं न प्रवर्तते | अस्य सम्यक्तया अवगमनार्थं त्रीणि सूत्राणि अपेक्षितानि—लिङ्निमित्ते लृङ् क्रियातिपत्तौ (३.३.१३९), भूते च (३.३.१४०), वोताप्योः (३.३.१४१) | लिङ्निमित्ते लृङ् क्रियातिपत्तौ (३.३.१३९) इत्यनेन भविष्यत्कालार्थे, लिङ्लकारस्य यत् निमित्तं तस्मिन्नेव निमित्ते, क्रियातिपत्तिं दर्शयितुं धातोः लृङ्लकारः भवति | क्रियातिपत्तिः इत्युक्ते क्रियायाः अनिष्पत्तिः, क्रियायाः अभावः | अनेन सूत्रेण लृङ्‌-लकारः विधीयते भविष्यति यत्र विधिलिङ्‌-लकारः स्यात्‌ किन्तु अन्ततो गत्वा क्रिया न भविष्यति अतः लिङः स्थाने लृङ्‌ भवति | अस्मिन्‌ सूत्रे लिङ्निमित्ते इत्युक्तं, नाम यत्र लिङः निमित्तं वर्तते (किन्तु क्रियातिपत्तिः अस्ति), तत्र एव लृङ्‌ | तर्हि लिङः निमित्तं किम्‌ इति चेत्‌, हेतुहेतुमतोर्लिङ् (३.३.१५६) इत्यनेन 'कारणम् (हेतुः) – फलम् (हेतुमत्‌)' अनयोः युग्मं (युगलं) उपस्थितं चेत्‌ लिङ्लकारस्य प्रयोगः भवति | तर्हि तादृशकार्यकरणभावः उपस्थितः चेत्‌ किन्तु अन्ततो गत्वा कारण-क्रिया अनिष्पन्ना भविष्यति चेत्‌, तत्र लृङ्‌-लकारस्य व्यवहारः भवति | निगमने “सुवृष्टिः चेद् अभविष्यत् तदा सुभिक्ष्यमभविष्यत्” | नाम यदि सुवृष्टिः भविष्यति तर्हि सुभिक्ष्यमपि (समीचीनं भोजनम्‌ अपि) भविष्यति, परन्तु सुवृष्टिः न भविष्यति अतः कारणस्य फलमपि (सुभिक्ष्यं) न भविष्यति |


तदा भूते च (३.३.१४०) इत्यनेन तस्याम्‌ एव दशायां किन्तु अतीतार्थे तत्रापि लृङ्‌-लकारः भवति | भूते च (३.३.१४०) इत्यस्य अनुवृत्तिसहितसूत्रम्‌ अस्ति—भूते च लिङ्निमित्ते क्रियातिपत्तौ धातोः लृङ् प्रत्ययः परश्च | काशिकायां निगमनमस्ति, “दृष्टो मया भवत्पुत्रोऽन्नार्थी चङ्क्रम्यमाणः अपरश्च द्विजो ब्राह्मणार्थी, यदि स तेन दृष्टोऽभविष्यत्, तदाऽभोक्ष्यत, न तु भुक्तवान्, अन्येन पथा स गतः |“ अर्थः एवम्‌ अस्ति—अहं भवतः पुत्रं भोजनस्य अन्वेषणे गच्छन्तं दृष्टवान्‌; एकं द्विजमपि दृष्टवान्‌ यः ब्राह्मणाय भोजनं दातुम्‌ इष्टवान्‌; पुत्रं यदि अद्रक्ष्यत्‌ तर्हि तस्मै भोजनम्‌ अदास्यत्‌, किन्तु द्वयोः मार्गः भिन्नः आसीत्‌ यस्य परिणामे न दृष्टवान्‌, भोजनं न दत्तवान्‌ च |


तदा वोताप्योः (३.३.१४१) इत्यनेन इतः अग्रे उताप्योः समर्थयोर्लिङ् (३.३.१५२) इति सूत्रपर्यन्तं भूतकालार्थे यत्र लिङः निमित्तं वर्तते अपि च क्रियातिपत्तिः भवति, तत्र विकल्पेन लृङ्‌-लकारः अपि सम्भवति | वा + आ (नाम ’यावत्‌’) + उताप्योः (नाम उताप्योः समर्थयोर्लिङ् इति सूत्रम्‌) | सन्धिं कृत्वा वा + आ + उ = वो, अनेन च भवति वोताप्योः (३.३.१४१) | वोताप्योः (३.३.१४१) इत्यस्य अनुवृत्तिसहितसूत्रम्‌ अस्ति—भूते लिङ्निमित्ते क्रियातिपत्तौ ओताप्योः धातोः वा लृङ् प्रत्ययः परश्च | तर्हि आहत्य, उताप्योः समर्थयोर्लिङ् (३.३.१५२) इति सूत्रपर्यन्तं, भूते यत्र लिङः निमित्तं वर्तते किन्तु कारण-क्रियायाः अनिष्पत्तिः अस्ति, तत्र लृङ्‌-लकारः विकल्पेन भवति अतः वारं वारं लृङ्‌ प्राग्वत्‌ इति वाक्यं सूत्रव्याख्यासु उपयुज्यते स्म | किन्तु प्रकृतसूत्रे शेषे लृडयदौ (३.३.१५१) इत्यस्मिन्‌ लिङ्‌-निमित्ताभावात्‌ लृङः विकल्पो नास्ति | 



अनेन लृट्‌-लकार-विधायकसूत्राणि समाप्तानि | एषां लृट्‌-लकार-विधायकसूत्राणां कार्यं किम्‌ ? लृट्‌-प्रत्यय-विधानम्‌ | अस्माभिः दृष्टं यत्‌ सामान्यं लृट्‌-लकार-विधायकसूत्राम्‌ अस्ति लृट् शेषे च (३.३.१३), येन भविष्यति क्रियार्थायां क्रियायां धातोः लृट् शेषे च  | अनेन धातोः लृट्‌-प्रत्ययः विधीयते | यथा भू-धातुः + लृट्‌-प्रत्ययः | तथैव अनेकानि विशिष्टानि लृट्‌-लकार-विधायकसूत्राणि अपि सन्ति यानि अस्माभिः अधुना परिशीलितानि; तैः अपि अयं लृट्‌-प्रत्ययः विधीयते | एवमेव रीत्या जायते भू-धातुः + लृट्‌-प्रत्ययः | तदा लृट्‌-प्रत्यये परे ’स्य’ इति विकरणप्रत्ययः विधीयते | स्यतासी लृ-लुटोः (३.१.३३) इत्यनेन धातोः परश्च स्यतासी प्रत्ययौ लृलुटोः | अनेन निष्पद्यते भू + स्य + लृट्‌ | तदा इडागमः आयाति | आर्धधातुकस्येड्वलादेः (७.२.३५) इत्यनेन अङ्गात् वलादेः आर्धधातुकस्य इट्‌ | भू + इ + स्य + लृट्‌ | अयम्‌ इडागमः स्य-प्रत्ययस्य एव | तदा आदेशप्रत्यययोः (८.३.५९) इत्यनेन षत्वम्‌—इण्कोः आदेशप्रत्यययोः अपदान्तस्य सः मूर्धन्यः संहितायां, नुंविसर्जनीयशर्व्यवायेऽपि | भू + इष्य + लृट्‌ | अनन्तरं भू + इष्य अस्ति इत्यतः सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन इकः अङ्गस्य गुणः सार्वधातुकार्धधातुकयोः इति कृत्वा गुणकार्यं, भो + इष्य | तदा अवादेशः—एचोऽयवायावः (६.१.७७) इत्यनेन एचः अयवायावः अचि संहितायाम्‌ | भव्‌ + इष्य + लृट्‌ | अनन्तरं विवक्षाम्‌ अनुसृत्य लृट्‌-प्रत्ययस्य स्थाने तिङ्‌-प्रत्ययः विधीयते—भव्‌ + इष्य + ति → वर्णमेलने → भविष्यति | अग्रे गत्वा अधुना एतां सम्पूर्णप्रक्रियां क्रमेण परिशीलयिष्यामः | चिन्तनक्रमः किञ्चित्‌ भिन्नः, किन्तु विचारस्तु अयमेव |


पञ्चोपाङ्गकार्यम्‌


धातुतः प्रत्ययविधानेन तिङन्तसाधने या प्रक्रिया भवति तस्याम्‌ अङ्गकार्यात्‌ प्राक्‌ पञ्चोपाङ्गकार्यं विदारणीयं भवति | अस्मिन्‌ चत्वारि उपाङ्गनि वर्तन्ते—प्रत्ययादेशः, धात्वादेशः, इडागमः, अतिदेशः च | द्वित्वम्‌ अभ्यासकार्यञ्च इति पञ्चमोपाङ्गम्‌ | संस्कृतभाषायां द्वित्वं केवलं पञ्चसु स्थलेषु भवति— लिटि, सनि, चङि, यङि, श्लौ | लृट्‌-लकारे न भवति, अतः अत्र चत्वारि उपाङ्गानि द्रष्टव्यानि | एषां चतुर्णाम्‌ उपाङ्गानां परिशीलनानन्तरमेव अङ्गकार्यं कृत्वा सन्धिकार्यं साधनीयम्‌ | अतः सोपानेन, क्रमेण एतत्‌ सर्वं द्रष्टव्यम्‌ |


१) प्रत्ययादेशः


लट्‌-लकारस्य अदन्ताङ्गस्य कृते ये सिद्ध-तिङ्‌प्रत्ययाः सन्ति, ते अत्रापि लृट्‌-लकारे अपेक्षिताः | तेषां साधनप्रक्रिया द्रष्टव्या चेत्‌, परस्मैपदे अत्र, आत्मनेपदे अत्र च अवलोकताम्‌ |


परस्मैपदे लटि सिद्ध-तिङ्‌प्रत्ययाः—


ति    तः    अन्ति

सि    थः     थ

मि     वः     मः


आत्मनेपदे लटि‌ सिद्ध-तिङ्‌प्रत्ययाः —


ते    इते   अन्ते

से    इथे   ध्वे

ए    वहे    महे


एषु प्रत्ययेषु परेषु च लृट्‌-लकारस्य ’स्य’-प्रत्ययः विधातव्यः |


स्यतासी लृ-लुटोः (३.१.३३) = लृटि लृङि च परे धातुतः स्य; लुटि परे धातुतः तासि भवति | तासेरिकारः उच्चारणार्थः | स्यश्च तासिश्च तयोरितरेतरद्वन्द्वः स्यतासी | लृ च लुट्‌ च तयोरितरेतरद्वन्द्वः लृलुटौ, तयोः लृलुटोः | स्यतासी प्रथमान्तं, लृलुटोः सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | धातोः (३.१.९१), प्रत्ययः (३.१.१), परश्च (३.१.२) इत्येषाम्‌ अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— धातोः परश्च स्यतासी प्रत्ययौ लृलुटोः |


तर्हि स्य-प्रत्ययस्य योजनानन्तरं लृटि अनिट्‌-धातूनां कृते सिद्ध-तिङ्‌-प्रत्ययाः एते—


परस्मैपदे लृटि सिद्ध-तिङ्‌प्रत्ययाः—


स्यति    स्यतः    स्यन्ति

स्यसि   स्यथः     स्यथ

स्यामि   स्यावः    स्यामः


आत्मनेपदे लृटि सिद्ध-तिङ्‌प्रत्ययाः —


स्यते    स्येते   स्यन्ते

स्यसे    स्येथे   स्यध्वे

स्ये     स्यावहे  स्यामहे


यथासङ्गं दीर्घत्वं भवति—अतो दीर्घो यञि (७.३.१०१) इत्यनेन अदन्ताङ्गस्य दीर्घत्वं यञादि-सार्वधातुकप्रत्यये परे | पास्य + मि → अतो दीर्घो यञि (७.३.१०१) → पास्यामि | एवमेव स्यामि, स्यावः, स्यामः, स्यावहे, स्यामहे |


अतो दीर्घो यञि (७.३.१०१) = अदन्ताङ्गस्य दीर्घत्वं यञादि-सार्वधातुकप्रत्यये परे | यञ्‌ प्रत्याहारः = य व र ल ञ म ङ ण न झ भ | अतः षष्ठ्यन्तं, दीर्घः प्रथमान्तं, यञि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | तुरुस्तुशम्यमः सार्वधातुके (७.३.९५) इत्यस्मात्‌ सार्वधातुके इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तादृशम्‌ अङ्गं यस्य अन्ते ह्रस्व-अकारः अस्ति; अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य स्थाने आदेशः; यस्मिन्‌ विधिस्तदादावल्ग्रहणे (१.१.७२, वार्तिकम्‌ २९) इत्यनेन यञि सार्वधातुके इत्युक्तौ यञादि-सार्वधातुके | अनुवृत्ति-सहितसूत्रम्‌— अतः अङ्गस्य दीर्घः यञि सार्वधातुके |


ये धातवः सेटः सन्ति, तेषां कृते आर्धधातुकस्येड्वलादेः (७.२.३५) इत्यनेन इडागमः भवति | इडागमस्य योजनेन सर्वत्र आदेशप्रत्यययोः (८.३.५९) इत्यनेन षत्वं भवति | इ + स्यति → इष्यति |


आदेशप्रत्यययोः (८.३.५९) = इण्‌-प्रत्याहारात्‌ कवर्गीयात्‌ च परे अपदान्तः आदेशरूपी प्रत्ययावयवो वा सकारः अस्ति चेत्‌, तस्य सकारस्य स्थाने षकारादेशो भवति | आदेशः तु मूर्धन्यवर्णस्य इत्येव उक्तं, परं स्थानेऽन्तरतमः इत्यनेन ट्‌, ठ्‌, ड्‌, ढ्‌, ण्‌, ष्‌ इत्येषु मूर्धन्यवर्णेषु षकारस्य नैकट्यम्‌, अतः षकारः एव आदिष्टः भवति | नुम्‌, विसर्गः, शर्-प्रत्याहारस्थ-वर्णः एषु अन्यतमः मध्ये अस्ति चेदपि कार्यं भवति | इण्‌-प्रत्याहरे इमे वर्णाः अन्तर्भूताः— इ, उ, ऋ, ऌ, ए, ओ, ऐ, औ, ह, य, व, र, ल | अस्य कार्यस्य नाम षत्वविधिः | आदेशश्च प्रत्ययश्च आदेशप्रत्ययौ, तयोः आदेशप्रत्यययोः इतरेतरद्वन्द्वः | षष्ठ्यन्तम्‌ एकपदमिदं सूत्रम्‌ | सहे साडः सः (८.३.५६) इत्यस्मात्‌ सः इत्यस्य अनुवृत्तिः | नुंविसर्जनीयशर्व्यवायेऽपि (८.३.५८) इत्यस्य पूर्णा अनुवृत्तिः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम्‌ इत्यस्य अधिकारः | इण्कोः (८.३.५७), अपदान्तस्य मूर्धन्यः (८.३.५५) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌—इण्कोः आदेशप्रत्यययोः अपदान्तस्य सः मूर्धन्यः संहितायां, नुंविसर्जनीयशर्व्यवायेऽपि | 


आहत्य स्य-प्रत्ययस्य योजनानन्तरं लृटि सेट्‌-धातूनां कृते सिद्ध-तिङ्‌-प्रत्ययाः एते—


परस्मैपदे लृटि सिद्ध-तिङ्‌प्रत्ययाः—


इष्यति    इष्यतः    इष्यन्ति

इष्यसि   इष्यथः     इष्यथ

इष्यामि   इष्यावः    इष्यामः


आत्मनेपदे लृटि सिद्ध-तिङ्‌प्रत्ययाः —


इष्यते    इष्येते   इष्यन्ते

इष्यसे    इष्येथे   इष्यध्वे

इष्ये     इष्यावहे  इष्यामहे    


२) धात्वादेशः

अस्तेर्भूः (२.४.५२) | भविष्यति |


अस्तेर्भूः (२.४.५२) = आर्धधातुकविवक्षायाम्‌ अदादौ स्थितस्य अस-धातोः स्थाने भू-आदेशो भवति | अनेकाल्शित्‌ सर्वस्य (१.१.५५) इत्यनेन आदेशः सर्वस्य स्थाने न तु अन्त्यस्य | अस्तेः षष्ठ्यन्तं, भूः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | आर्धधातुके (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अस्तेः भूः आर्धधातुके |


ब्रुवो वचिः (२.४.५३) | वक्ष्यति |


ब्रुवो वचिः (२.४.५३) = ब्रुवो वचिरादेशो भवति आर्धधातुकविषये | इकार उच्चारणार्थः | ब्रुवः षष्ठ्येकवचनं, वचिः प्रथमैकवचनं, द्विपदमिदं सूत्रम्‌ | आर्धधातुके (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— ब्रुवः वचिः आर्धधातुके |


चक्षिङ्-धातुः

चक्षिङः ख्याञ्‌ (२.४.५४) | चक्ष्‌ → ख्यास्यति, ख्यास्यते | क्शास्यति, क्शास्यते |


चक्षिङ्-धातोः आर्धधातुकप्रत्यये परे ख्याञ्‌-आदेशः | किन्तु अत्र भाष्यकारो वदति यत्‌ क्शादिरयमादेशः, इत्युक्तौ आदेशः 'ख्या' न अपि तु 'ख्शा', तदा चर्त्वादेशेन 'क्शा' भवति | अपि च पूर्वत्रासिद्धम्‌ (८.२.१) इति अधिकारे एकं वार्तिकम्‌ अस्ति ख्शाञः शस्य यो वा वक्तव्यः | अनेन ख्शाञ्‌ इति आदेशस्य शकारस्य विकल्पेन यकारादेशो भवति | फलितार्थः अयं यत्‌ आर्धधातुकप्रत्यये परे चक्षिङ्-धातोः स्थाने ख्याञ्‌, ख्शाञ्‌ इति द्वौ आदेशौ सिद्धौ | एकवारं ख्याञ्‌, अपरस्मिन्‌ पक्षे ख्शाञ्‌ |


चक्षिङः ख्याञ्‌ (२.४.५४) = चक्षिङः ख्याञादेशो भवति आर्धधातुके | चक्षिङः षष्ठ्यन्तं, ख्याञ्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | आर्धधातुके (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— चक्षिङः ख्याञ्‌ आर्धधातुके |


अजेर्व्यघञपोः (२.४.५६) | अज्‌ → वेष्यति |


अजेर्व्यघञपोः (२.४.५६) = अजेर्धातोः वी इत्ययमादेशः स्यादार्धधातुकविषये घञ्‌ च अप्‌ च वर्जयित्वा | अजेः षष्ठ्यन्तं, वी प्रथमान्तम्‌, अघञपोः सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | आर्धधातुके (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अजेः वी आर्धधातुके अघञपोः |


एजन्ताः

आदेच उपदेशेऽशिति (६.१.४५) | ध्यै → ध्यास्यति


आदेच उपदेशेऽशिति (६.१.४५) = उपदेशे एजन्तस्य धातोरात्त्वं न तु शिति | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तदन्तविधिः; अलोन्त्यस्य (१.१.५२) इत्यनेन अन्त्यस्य अलः स्थाने | एच्‌ इत्यनेन 'ए, ऐ, ओ, औ' | श्‌ इत्‌ यस्य स शित्‌, न शित्‌ अशित्‌, तस्मिन्‌ (विषये) अशिति, नञ्तत्पुरुषः | आत्‌ प्रथमान्तम्‌, एचः षष्ठ्यन्तम्‌, उपदेशे सप्तम्यन्तम्‌, अशिति सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | लिटि धातोरनभ्यासस्य (६.१.८) इत्यस्मात्‌ धातोः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— एचः धातोः आत्‌ उपदेशे अशिति |


यथा— ग्लै → ग्ला → ग्लास्यति, म्लै → म्ला → म्लास्यति, ध्यै → ध्या → ध्यास्यति, शो → शा → शास्यति, सो → सा → सास्यति , वे → वा → वास्यति, छो → छा → छास्यति |


भ्रस्ज्

भ्रस्जो रोपधयोः रमन्यतरस्याम्‌ (६.४.४७) | भ्रस्ज्‌ → भर्क्ष्यति, भ्रक्ष्यति |


भ्रस्जो रोपधयोः रमन्यतरस्याम्‌ (६.४.४७) = भ्रस्ज्-धातोः रेफस्य उपधावर्णस्य च स्थाने विकल्पेन रम्-आगमो भवति आर्धधातुक-प्रत्यये परे | कौमुदीकारः प्रतिपादयति यदत्र 'स्थाने' इत्यपि अस्ति, ‘आगमः' इत्यपि अस्ति; एकस्मिन्नेव सूत्रे उभे कार्ये | नाम 'रेफस्य उपधावर्णस्य च स्थाने’ भवति—स्थानषष्ठीनिर्देशाद्रोपधयोर्निवृत्तिः; अपि च रम्‌ इति आगमः अस्ति मित्त्वादन्त्यादचः परः | रम्‌ इत्यस्मिन्‌ अकारः उच्चारणार्थः | रश्च उपधा च तयोरितरेतरद्वन्द्वो रोपधे, तयोः रोपधयोः | भ्रस्जः षष्ठ्यन्तं, रोपधयोः षष्ठ्यन्तं, रमश्च प्रथमान्तम्‌, अन्यतरस्यां सप्त्यम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | आर्धधातुके (६.४.४६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूर्त्रं— भ्रस्जो रोपधयोः रम्‌ अन्यतरस्याम्‌ आर्धधातुके |


अत्र प्रक्रिया प्रदर्शिता अस्ति लुट्‌-लकारस्य कृते । यत्र-यत्र ’ता’ इति प्रत्ययः दृश्यते, तत्र-तत्र ’स्यति’ इति स्थापयित्वा तदनुसृत्य प्रक्रियां साधयतु ।


भ्रस्ज्‌ + ता → भ्रस्जो रोपधयोः रमन्यतरस्याम्‌ (६.४.४७) इत्यनेन भ्रस्ज्-धातोः रेफस्य उपधावर्णस्य च स्थाने, रम्-आगमः च → रेफसकारयोः निवृत्तिः → भज्‌ → रेफः इति आगमः → भर्ज्‌ → भर्ज्‌ + ता → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इत्यनेन व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः झलि → भर्ष्‌ + ता → ष्टुना ष्टुः (८.४.४१) → भर्ष्टा


तदभावे—


भ्रस्ज्‌ + ता → स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यनेन संयोगाद्योः स्कोः लोपः झलि → भ्रज्‌ + ता → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इत्यनेन व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः झलि → भ्रष्‌ + ता → ष्टुना ष्टुः (८.४.४१) → भ्रष्टा


मीञ्‌, मिञ्‌, दीङ्‌

मीनाति-मिनोति-दीङां ल्यपि च (६.१.५०) | मीञ्‌ → मा → प्रमास्यति | मिञ्‌ → मा → मास्यति | दीङ्‌ → दा → उपदास्यते |


मीनाति-मिनोति-दीङां ल्यपि च (६.१.५०) = क्र्यादौ मीञ् हिंसायां, स्वादौ डुमिञ् प्रक्षेपणे, दिवादौ दीङ् क्षये इत्येतेषां धातूनाम्‌ अन्त्यस्य अलः स्थाने आकारादेशो भवति ल्यपि विषये, एच्‌-निमित्त-शिद्भिन्न-प्रत्ययस्य च विषये | नाम मी, मि, दी इत्येषां यदा गुणो वा वृद्धिर्वा जायमानः यस्मात्‌ एकारो वा ऐकारो वा जायमानः, ततः पूर्वमेव तत्स्थाने आकारादेशो भवति | अलोन्त्यस्य (१.१.५२) इत्यनेन अन्त्यस्य अलः स्थाने | केषाञ्चित्‌ मतेन अशिति इति अनुवृत्तिः न भवेत्‌ यतोहि कोऽपि शित्‌ प्रत्ययः नास्ति यस्य द्वारा एतेषां धातूनाम्‌ अन्तिम-अलः वर्णस्य स्थाने एच्‌-आदेशः स्यात्‌ | केषाञ्चित्‌ च मतेन उपदेशे इत्यस्य अनुवृत्तिः न भवेत्‌ | मीनातिश्च मिनोतिश्च दीङ्‌ च तेषामितरेतरद्वन्द्वो मीनातिमिनोतिदीङः, तेषां मीनातिमिनोतिदीङाम्‌ | मीनातिमिनोतिदीङां षष्ठ्यन्तं, ल्यपि सप्तम्यन्तं, चाव्ययपदं, त्रिपदमिदं सूत्रम्‌ | आदेच उपदेशेऽशिति (६.१.४५) इत्यस्य सम्पूर्णतया अनुवृत्तिः | अनुवृत्ति-सहितसूर्त्रं— मीनातिमिनोतिदीङाम्‌ आत्‌ ल्यपि च एच (एज्निमित्ते प्रत्यये) उपदेशे अशिति |


लीङ् श्लेषणे (दिवादौ), ली श्लेषणे (क्र्यादौ)

विभाषा लीयतेः (६.१.५१) = लीङ् श्लेषणे (दिवादौ), ली श्लेषणे (क्र्यादौ), इत्यनयोः विकल्पेन आत्वादेशो भवति एचः विषये | नाम ली इत्यस्य यदा गुणो वा वृद्धिर्वा जायमानः यस्मात्‌ एकारो वा ऐकारो वा जायमानः, ततः पूर्वमेव तत्स्थाने आकारादेशो भवति । ली → ला → विलास्यति | आत्वाभावे विलेष्यति |


गुहू (संवरणे)

ऊदुपधाया गोहः (६.४.८९) = गुहू (संवरणे) इति गुह्-धातोः उपधा-गुणादेशं प्रबाध्य ऊत्‌-आदेशो भवति अजादि-प्रत्यये परे | गुह उपधाया ऊत्स्यात्‌ गुणहेतौ अजादौ प्रत्यये | ऊत्‌ प्रथमान्तम्‌, उपधायाः षष्ठ्यन्तं, गोहः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यस्मात्‌ अचि इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूर्त्रम्‌— गोहः अङ्गस्य उपधायाः ऊत्‌ अचि |


धेयं यत्‌ अत्र आर्धधातुकत्वस्य निमित्तकत्वं नास्ति एव; केवलम्‌ गुणनिमित्तक-अजादि प्रत्यये परे | अतः लटि अपि भवति— गुह्‌ + शप्‌ + ति → गुह्‌ + अ + ति → उपधागुणस्य प्रसङ्गत्वात्‌ ऊत्‌-आदेशः → गूह्‌ + अ + ति → गूहति |


आर्धधातुकप्रसङ्गे गुहू-धातुः वे‍ट्‌; इडागमपक्षे स्य-प्रत्ययः अजादिः | अतः गुह्‌ → गूहिष्यति | अजादिप्रत्ययाभावे न ऊत्वम्‌ → घोक्ष्यति |


ग्रह्‌ (ग्रहँ उपादाने) | ग्रहीष्यति |


ग्रहोऽलिटि दीर्घः (७.२.३७) = एकाच्‌ ग्रह-धातोः इडागमस्य दीर्घादेशो भवति अलिटि | केवलम्‌ आर्धधातुकस्येड्वलादेः (७.२.३५) इत्यनेन विहितस्य इडागमस्य दैर्घ्यम्‌ इति महाभाष्ये | ग्रहः पञ्चम्यन्तम्‌, अलिटि सप्तम्यन्तं, दीर्घः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | आर्धधातुकस्येड्वलादेः (७.२.३५) इत्यस्मात्‌ इट्‌ इत्यस्य अनुवृत्तिः (विभक्तिपरिणामं कृत्वा 'इटः') | एकाच उपदेशेऽनुदात्तात्‌ (७.२.१०) इत्यस्मात्‌ एकाचः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— एकाचः ग्रहः अङ्गात्‌ इटः दीर्घः अलिटि |


ग्रह्‌ + इष्यति → ग्रहीष्यति


अतो लोपः (६.४.४८) | चिकीर्ष → चिकीर्षिष्यति |


अतो लोपः (६.४.४८) = अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन अतः अङ्गस्य नाम न केवलम्‌ ह्रस्व-अकारः इत्यङ्गस्य, अपि तु ह्रस्व-अकारान्तस्य अङ्गस्य | अलोऽन्तस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव लोपः (न तु अङ्गस्य) | उपदेशे अनुवर्तते अतः प्रसक्तिः केवलम्‌ उपदेशावस्थायाम्‌ | अतः षष्ठ्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | अनुदात्तोपदेश-वनति-तनोत्यादीना-मनुनासिकलोपो झलि क्ङिति (६.४.३७) इत्यस्मात्‌ उपदेशे इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१), आर्धधातुके (६.४.४६) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूर्त्रम्‌— अतः अङ्गस्य लोपः आर्धधातुके उपदेशे |


यस्य हलः (६.४.४९) = हलुत्तरयशब्दलोपो भवति आर्धधातुकप्रत्यये परे | बेभिद्य → बेभिदिष्यते |


क्यस्य विभाषा (६.४.५०) = हलः परयोः क्यच्‌-क्यङोः प्रत्यययोः लोपो वा स्यादार्धधातुके | समिध्य → समिधिष्यति, समिध्यिष्यति |


कृपेश्च अवकल्कने

कृपेश्च अवकल्कने (विचारं करोति, चिन्तनं करोति) |


कृपो रो लः (८.२.१८) | कृप्‌ → पुगन्तलघूपधस्य च (७.३.८६) → कर्प्‌ → कल्प्‌ → कल्पिष्यते / कल्प्स्यते आत्मनेपदे (कृप्‌-धातुः वेट्‌) / परस्मैपदे तासि च क्लृपः (७.२.६०) इत्यनेन इडागमनिषेधः अतः कल्प्स्यति |


कृपो रो लः (८.२.१८) = कृप्‌-धातोः रेफस्य लकारादेशो भवति | र इति श्रुतिसामान्यं बोध्यम्‌ | तेन यः केवलो रेफः, यश्च ऋकारस्थः तयोः द्वयोः अपि ग्रहणम्‌ | लः इत्यपि श्रुतिसामान्यमेव | अतः आहत्य कृप्‌-धातोः यदा (गुणादेशं कृत्वा) रेफो भवति, तस्य रेफस्य स्थाने लकारादेशः; पुनः कृप्‌-धातोः ऋकारस्य यः रेफ-सदृश-अंशः, तस्य स्थाने लसदृश-अंशादेशो भवति— नाम ऋ-स्थाने ऌ | सूत्रे कृपो → कृप + उः इति विच्छेदः | कृप लुप्तषष्ठीकं पदम्‌, उः षष्ठ्यन्तं, रः षष्ठ्यन्तं, लः प्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | कृपः इत्यस्य द्विवारम्‌ आवृत्तिः | सूत्रं स्वयं सम्पूर्णम्‌— कृपः उः कृपः रः लः |


कृपो रो लः (८.२.१८) इति सूत्रेण, आहत्य कृप्‌-धातोः रेफस्य लकारादेशः; कृप्‌-धातोः ऋकारस्य अंशः यः रेफसदृशः, तस्य स्थाने लकारसदृशादेशो भवति | यत्र कृप्‌-धातोः उपधायाः गुणः भवति कर्प्‌, तत्र रेफस्य स्थाने लकारादेशः अतः कल्प्‌ इति फलं; यत्र उपधागुणो न भवति, तत्र कृप्‌ इत्यस्य ऋकारस्य स्थाने ऌकारदेशः अतः कॢप्‌ इति फलम्‌ | दृष्टान्तत्वेन अपरेषु स्थलेषु कथम्‌ अनेन सूत्रेण रूपं सिध्यति इत्यत्र प्रदर्श्यते—


लटि कल्पयति/ते | कृप्‌ + णिच्‌ → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन उपधायां लघु-इकः गुणः → कर्प्‌ + इ → कृपो रो लः (८.२.१८) इत्यनेन रेफस्य स्थाने लकारादेशः → कल्प्‌ + इ → कल्पि इति धातुः → कल्पि + शप्‌ → कल्पय इति अङ्गम्‌ → कल्पय + ति → कल्पयति/ते   


३) इडागमः


जानीमः यत्‌ इडागमः तादा भवति यदा प्रत्ययः अपि इडनुकूलः, धातुः अपि सेट्‌ (अथवा वेट्‌) |  


प्रत्ययः इडनुकूलः अस्ति न वा


आर्धधातुकस्येड्वलादेः (७.२.३५) = आर्धधतुक-प्रत्ययस्य आदौ वल्‌-प्रत्याहारे अन्यतमवर्णः अस्ति चेत्‌, तस्य इडागमो भवति | वलादेरार्धधातुकस्येडागमः स्यात्‌ | इट्‌-आगमः टित्‌ अतः आद्यन्तौ टकितौ (१.१.४६) इत्यनेन प्रत्ययस्य आदौ आयाति | वल्‌-प्रत्याहारे यकारं विहाय सर्वाणि व्यञ्जनानि अन्तर्गतानि | वल्‌ आदौ यस्य स वलादिः बहुव्रीहिः, तस्य वलादेः | आर्धधातुकस्य षष्ठ्यन्तम्‌, इट्‌ प्रथमान्तं, वलादेः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अङ्गात् वलादेः आर्धधातुकस्य इट्‌ |


वलादिः नाम वल्‌ प्रत्याहारः आदौ यस्य सः | वलि यकारं विहाय सर्वाणि व्यञ्जनानि | कस्यचित्‌ आर्धधातुकप्रत्ययस्य आदौ यदि वल्‌-प्रत्याहारस्य कश्चन सदस्यः अस्ति‌, तर्हि इडागमः तस्य प्रत्यस्य आदौ आयाति | आदौ कथं ज्ञायते ? किमर्थं मध्ये अपि न, अन्ते अपि न ? आद्यन्तौ टकितौ (१.१.४६) इति सूत्रेण यत्‌ आगमः टित्‌ अस्ति, सः यस्य आगमः अस्ति तस्य आदौ आयाति, कित्‌ अस्ति चेत्‌ यस्य आगमः अस्ति तस्य अन्ते आयाति | इट्‌-आगमः टित्‌ अस्ति (टकारः इट्‌ यस्य सः), अतः अनेन सूत्रेण इट्‌-आगमः प्रत्ययस्य आदौ आयाति | इडागमः प्रत्ययस्य आदौ न तु धातोः आदौ, यतोहि आर्धधातुकस्येड्वलादेः (७.२.३५) इत्यनेन इडागमः प्रत्ययस्य आगमः (न तु धातोः) |


आर्धधातुकप्रत्ययः कः इति स्मर्यताम्‌ | प्रत्येकं प्रत्ययः यः धातुतः विहितः, सः सार्वधातुकम् आर्धधातुकम् वा | प्रत्ययः तिङ्‌ शित् वा‌ चेत्‌, तिङ्-शित्‌सार्वधातुकम् (३.४.११३) इत्यनेन स च प्रत्ययः सार्वधातुकम् | तिङ्‌ शित् नास्ति चेत्‌, आर्धधातुकं शेषः (३.४.११४) इत्यनेन प्रत्ययः आर्धधातुकः |


इडनुकूलस्य परिशीलनार्थं लकारप्रसङ्गे सिद्धतिङ्‌-प्रत्ययाः द्रष्टव्याः न तु कृत्‌-प्रत्ययाः | वस्तुतः लृट्‌-लकारे इडागमः स्य-प्रत्ययस्य एव, यः विकरणप्रत्ययः न तु कृट्‌-प्रत्ययः, अतः आर्धधातुकस्येड्वलादेः (७.२.३५) इत्ययस्य दर्शनेन पर्याप्तम्‌ |


धातुः सेट्‌, अनिट्‌, अथवा वेट्‌



धातुः सेट्‌, अनिट्‌, वेट्‌ वा इत्यस्य ज्ञानर्थं प्रथमतया द्रष्टव्यं यत्‌ धातुः एकाच्‌ अनेकाच्‌ वा | सर्वे अनेकाच्‌-धातवः सेटः अतः धातुः अनेकाच् चेत्‌ इतोऽपि चिन्तनस्य आवश्यकता नास्ति—धातुः सेट्‌ एव | धातुः एकाच्‌ चेत्‌, प्रथमतया अस्माकं सामान्या इड्‍-व्यवस्था चिन्तनीया | तत्र जानीमः परिगणिताः अजन्तधातवः सेटः, तेषां ज्ञानार्थं केवलं १४ अजन्तधातवः कण्ठस्थीकरणीयाः | एवमेव केवलं १०२ हलन्तधातवः अनिटः; तेषां कण्ठस्थीकरणेन हलन्तधातूनां सामान्या इड्व्यवस्था मनसि सिद्धा | अपि च येभ्यः वा भवति इडागमः, ते धातवः वेटः— वा इट्‌ वेट्‌ | ३७ धातवः वेटः; तेभ्यः वलादि-आर्धधातुकप्रत्ययस्य विकल्पेन इडागमो भवति | यदा अजन्तसेड्धातवः च हलन्त-अनिड्धातवः च ज्ञाताः, तदा एषां वेड्धातूनां कण्ठस्थीकरणेन सम्पूर्णरीत्या सामान्या इड्व्यवस्था सिद्धा |


अधुना लृट्‌-लकारे इड्व्यवस्थायाः कृते पञ्च विशिष्ट-सूत्राणि ज्ञातव्यानि |


१) ऋद्धनोः स्ये (७.२.७०) इत्यनेन ऋकारान्तधातुभ्यः च हन्‌-धातोः च स्य-प्रत्ययस्य इडागमः भवति | यथा जानीमः सामान्यतः एते धातवः अनिटः—किन्तु स्य-प्रत्यये परे विशेषः |


कृ + स्यति → कृ + इट्‌ + स्यति → करिष्यति

अकृ + स्यत्‌ → अकृ + इट्‌ + स्यत्‌ → अकरिष्यत्‌


हन्‌ + स्यति → हन्‌ + इट्‌ + स्यति → हनिष्यति

हन्‌ + स्यत्‌ → हन्‌ + इट्‌ + स्यत्‌ → अहनिष्यत्‌


एवमेव

हृ + स्यति → हरिष्यति

ह्वृ + स्यति → ह्वरिष्यति | परन्तु ह्वरतु | अह्वरत् | ह्वरेत् |


ऋद्धनोः स्ये (७.२.७०) = ऋदन्तधातुतः हन्‌-धातुतः च स्य-प्रत्ययस्य इडागमो भवति | ऋतो हन्तेश्च स्यस्य इट् स्यात् इति सिद्धान्तकौमुद्याम्‌ | एकाच उपदेशेऽनुदात्तात्‌ (७.२.१०) इत्यनेन यः औपदेशिकधातुः एकाच्‌ अपि अनुदात्तः अपि अस्ति, तस्मात् विहितस्य प्रत्ययस्य इडागमो न भवति | अनेन ऋकारान्तधातवः च हन्‌-धातुः च अनिटः, परन्तु लृट्‌-लकारे ऋद्धनोः स्ये (७.२.७०) इति सूत्रं एकाच उपदेशेऽनुदात्तात्‌ (७.२.१०) इति सूत्रं प्रबाध्य इडागमं विदधाति | ऋत्‌ च हन्‌ च तयोरितरेतरद्वन्द्वः ऋद्धनौ, तयोः ऋद्धनोः | ऋद्धनोः षष्ट्यन्तं, किन्तु “पञ्चम्यर्थे षष्ठी” इति व्याख्याकाराः वदन्ति | स्ये सप्तम्यन्तं, किन्तु “षष्ठ्यर्थे सप्तमी” इति व्याख्याकाराः वदन्ति | तर्हि ऋद्धनोः पञ्चम्यर्थे षष्ठी, स्ये षष्ठ्यर्थे सप्तमी, द्विपदमिदं सूत्रम्‌ | आर्धधातुकस्येड्वलादेः (७.२.३५) इत्यस्मात्‌ इट्‌ इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः, विभक्तिपरिणामेन पञ्चमी-विभक्तौ | अनुवृत्ति-सहितसूत्रम्‌—ऋद्धनोः अङ्गयोः (ऋद्धम्भ्याम्‌ अङ्गाभ्यां) स्ये (स्यः) इट्‌ |


२) सेऽसिचि कृतचृतच्छृदतृदनृतः (७.२.५७) इत्यनेन कृत्, चृत्, छृद्, तृद्, नृत् इत्येभ्यः पञ्चभ्यः धातुभ्यः सिच्‌-भिन्न-सकारादिप्रत्ययस्य विकल्पेन इडागमो भवति |


१. कृत् तुदादिगणे छेदने (लटि कृन्तति), रुधादिगणे वेष्टने (लटि कृणत्ति)

२. चृत् तुदादिगणे हिंसाग्रन्थनयोः (लटि चृतति)

३. छृद् रुधादिगणे दीप्तिदेवनयोः (लटि छृणत्ति)

४. तृद् तुदादिगणे हिंसानादरयोः (धातुपाठे केवलं रुधादौ तृणत्ति, तृन्ते/तृन्त्ते)

५. नृत् दिवादिगणे गात्रविक्षेपे (लटि नृत्यति)


कृत्‌ — कर्त्स्यति | अकर्त्स्यत् | कर्तिष्यति | अकर्तिष्यत् |

चृत्‌ — चर्त्स्यति | अचर्त्स्यत् | चर्तिष्यति | अचर्तिष्यत् |

छृद्‌ — छर्त्स्यति | अच्छर्त्स्यत् | छर्दिष्यति | अच्छर्दिष्यत् |

तृद्‌ — तर्त्स्यति | अतर्त्स्यत् | तर्दिष्यति | अतर्दिष्यत् |

नृत् — नर्त्स्यति | अनर्त्स्यत् | नर्तिष्यति | अनर्तिष्यत् |


किन्तु नृत्‌-धातोः लोटि नृत्यतु, लङि अनृत्यत्‌, विधिलिङि नृत्येत्‌ |


सेऽसिचि कृतचृतच्छृदतृदनृतः (७.२.५७) = कृत्, चृत्, छृद्, तृद्, नृत् इत्येभ्यः पञ्चभ्यः धातुभ्यः सिच्‌-भिन्न-सकारादि-आर्धधातुक-प्रत्ययस्य विकल्पेन इडागमो भवति | सकारादावसिच्यार्धधातुके कृत चृत छृद तृद नृत् इत्येतेभ्यो धातुभ्यो वेडागमो भवति इति काशिकायाम्‌ | कृत् तुदादिगणे, रुधादिगणे च; चृत् तुदादिगणे; छृद् रुधादिगणे; तृद् तुदादिगणे; नृत् दिवादिगणे | न सिच्‌ असिच्‌ , तस्मिन्‌ असिचि नञ्तत्पुरुषः | कृतश्च चृतश्च छृदश्च तृदश्च नृत्‌ च तेषां समाहारद्वन्द्वः कृतचृतच्छृदतृदनृत्‌ , तस्मात्‌ कृतचृतच्छृदतृदनृतः | से सप्तम्यन्तं, किन्तु “षष्ठ्यर्थे सप्तमी” इति व्याख्याकाराः वदन्ति | से सप्तम्यन्तम्‌, असिचि सप्तम्यन्तं, कृतचृतच्छृदतृदनृतः पञ्चम्यन्तं, त्रिपदमिदं सूत्रम्‌ | आर्धधातुकस्येड्वलादेः (७.२.३५) इत्यस्मात्‌ आर्धधातुकस्य, इट्‌ इत्यनयोः अनुवृत्तिः | उदितो वा (७.२.५६) इत्यस्मात्‌ वा इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः, विभक्तिपरिणामेन पञ्चमी-विभक्तौ | अनुवृत्ति-सहितसूर्त्रम्‌—कृतचृतच्छृदतृदनृतः अङ्गात्‌ से असिचि (असिचः सः) आर्धधातुकस्य इट्‌ वा |


३) गम्‌-धातुः अनिट्‌, किन्तु गमेरिट् परस्मैपदेषु (७.२.५८) इत्यनेन तस्मात्‌ एव गम्‌-धातोः सकारादि-आर्धधातुक-प्रत्ययस्य इडागमो भवति परस्मैपदे |


गम्‌-धातुः परस्मैपदे—

गमिष्यति, अगमिष्यत्, जिगमिषति


किन्तु आत्मनेपदे—

संगंसीष्ट | संगंस्यते | संजिगंसते | संजिगंसिष्यते | अधिजिगांसते | अधिजिगांसिष्यते |


गमेरिट् परस्मैपदेषु (७.२.५८) = गम्‌-धातुतः सकारादि-आर्धधातुक-प्रत्ययस्य इडागमो भवति परस्मैपदे | गमेर्धातोः सकारादेरार्धधातुकस्य परस्मैपदेष्विडागमो भवति इति काशिकायाम्‌ | गमेः पञ्चम्यन्तं, इट् प्रथमान्तं, परस्मैपदेषु सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | आर्धधातुकस्येड्वलादेः (७.२.३५) इत्यस्मात्‌ आर्धधातुकस्य इत्यस्य अनुवृत्तिः | सेऽसिचि कृतचृतच्छृदतृदनृतः (७.२.५७) इत्यस्मात्‌ से इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः, विभक्तिपरिणामेन पञ्चमी-विभक्तौ | अनुवृत्ति-सहितसूर्त्रम्‌— गमेः अङ्गात्‌ से (सः) आर्धधातुकस्य इट्‌ परस्मैपदेषु |


४) वृत्, वृध्, शृध्, स्यन्द् इत्येभ्यः चतुर्भ्यः धातुभ्यः सकारादि-आर्धधातुक-प्रत्ययस्य इडागमो न भवति परस्मैपदे | एते धातवः स्वभावतः आत्मनेपदिनः, किन्तु वृद्भ्यः स्यसनोः (१.३.९२) इत्यनेन स्य-सन्‌ इति प्रत्यययोः परयोः विकल्पेन परस्मैपदिनः अपि भवन्ति | परस्मैपदे पक्षे न वृद्भ्यश्चतुर्भ्यः (७.२.५९) इत्यनेन एभ्यः चतुर्भ्यः धातुभ्यः सकारादि-आर्धधातुक-प्रत्ययस्य इडागमो न भवति |


वृतु (वृत्‌) — वर्त्स्यति | अवर्त्स्यत् |

वृधु (वृध्‌) — वर्त्स्यति | अवर्त्स्यत् |

शृधु (शृध्‌) — शर्त्स्यति | अशर्त्स्यत् |

स्यन्दू (स्यन्द्‌) — स्यन्त्स्यति | अस्यन्त्स्यत् |


वृद्भ्यः स्यसनोः (१.३.९२) = स्य-सन्‌ प्रत्यययोः परयोः वृत्‌-आदिभ्यः पञ्चभ्यः धातुभ्यः विकल्पेन परस्मैपदं भवति | “द्युतादिष्वेव वृतादयः पठ्यन्ते| वृतु वर्तने, वृधु वृद्धौ, शृधु शब्दकुत्सायाम्, स्यन्दू प्रस्रवणे, कृपू सामर्थ्ये एतेभ्यो धातुभ्यः स्ये सनि च परतो वा परस्मैपदं भवति” इति काशिकायाम्‌ | वृत् — लृटि वर्त्स्यति / वर्तिष्यते; लृङि अवर्त्स्यत् / अवर्तिष्यत; सनि विवृत्सति / विवर्तिषते | वृध् — लृटि वर्त्स्यति / वर्धिष्यते; लृङि अवर्त्स्यत् / अवर्धिष्यत; सनि विवृत्सति / विवर्धिषते | स्यसनोरिति किम् ? वर्तते | स्यश्च सन्‌ च तयोरितरेतरद्वन्द्वः स्यसनौ, तयोः स्यसनोः | वृद्भ्यः पञ्चम्यन्तं, स्यसनोः सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | शेषात् कर्तरि परस्मैपदम् (१.३.७८) इत्यस्मात् परस्मैपदम् इत्यस्य अनुवृत्तिः | वा क्यषः (१.३.९०) इत्यस्मात् परस्मैपदम् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूर्त्रं— वृद्भ्यः वा परस्मैपदम् स्यसनोः  |



न वृद्भ्यश्चतुर्भ्यः (७.२.५९) = वृत्, वृध्, शृध्, स्यन्द् इत्येभ्यः चतुर्भ्यः धातुभ्यः सकारादि-आर्धधातुक-प्रत्ययस्य इडागमो न भवति परस्मैपदे | वृतादिभ्यश्चतुर्भ्य उत्तरस्य सकारादेरार्धधातुकस्य परस्मैपदेष्विडागमो न भवति इति काशिकायाम् | न अव्ययपदम्‌, वृद्भ्यः पञ्चम्यन्तं, चतुर्भ्यः पञ्चम्यन्तं, त्रिपदमिदं सूत्रम्‌ | आर्धधातुकस्येड्वलादेः (७.२.३५) इत्यस्मात्‌ आर्धधातुकस्य, इट्‌ इत्यनयोः अनुवृत्तिः | सेऽसिचि कृतचृतच्छृदतृदनृतः (७.२.५७) इत्यस्मात्‌ से इत्यस्य अनुवृत्तिः | गमेरिट् परस्मैपदेषु (७.२.५८) इत्यस्मात्‌ परस्मैपदेषु इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः, विभक्तिपरिणामेन पञ्चमी-विभक्तौ | अनुवृत्ति-सहितसूर्त्रम्‌—वृद्भ्यश्चतुर्भ्यः अङ्गेभ्यः से (सः) आर्धधातुकस्य न इट्‌ परस्मैपदेषु |


५) तासि च क्लृपः (७.२.६०) इत्यनेन कृप्‌-धातोः परस्य परस्मैपदसंज्ञक-तास्‌ च परस्मैपदसंज्ञक-सकारादि-आर्धधातुकप्रत्ययः च अनयोः इडागमो न भवति |


कृप्‌-धातुः—

परस्मैपदे कल्प्स्यति – अकल्प्स्यत्‌

अत्मनेपदे कल्पिष्यते / कल्प्स्यते – अकल्पिष्यत / अकल्प्स्यत


तासि च क्लृपः (७.२.६०) = कृप्‌-धातोः परस्य परस्मैपदसंज्ञक-तास्‌ च परस्मैपदसंज्ञक-सकारादि-आर्धधातुकप्रत्ययः च अनयोः इडागमो न भवति | नाम, केवलम्‌ आत्मनेपदसंज्ञक-तासः च आत्मनेपदसंज्ञक-सकारादि-आर्धधातुकप्रत्ययस्य इडागमो भवति | कृपू-धातुः उपदेशे आत्मनेपदी, किन्तु लुटि च क्लृपः (१.३.९३) इत्यनेन स्य, सन्‌, तास्‌ इत्येषु त्रिषु प्रत्ययेषु परेषु अयं कृप्‌-धातुः विकल्पेन परस्मैपदी अपि भवति | सिद्धान्तकौमुद्यां लुटि स्यसनोश्च क्लृपेः परस्मैपदं वा स्यात् | काशिकायां च वृतादित्वादेव स्यसनोर्विकल्पः सिद्धः, लुटि विधीयते | अतः लुटि परस्मैपदे इडागमाभावे 'कल्प्ता' | आत्मनेपदे इडागमे सति 'कल्पिता' | तासि सप्तम्यन्तं, चाव्ययं, क्लृपः पञ्चम्यन्तं, त्रिपदमिदं सूत्रम्‌ | आर्धधातुकस्येड्वलादेः (७.२.३५) इत्यस्य सम्पूर्णसूत्रस्य अनुवृत्तिः | गमेरिट्‌ परस्मैपदेषु (७.२.५८) इत्यस्मात्‌ परस्मैपदेषु इत्यस्य अनुवृत्तिः | न वृद्भ्यश्चतुर्भ्यः (७.२.५९) इत्यस्मात्‌ इत्यस्य अनुवृत्तिः | ‘च' इत्यनेन सेऽसिचि कृतचृतच्छृदतृदनृतः (७.२.५७) इत्यस्मात्‌ से इत्यस्य सप्तम्यन्तस्य अनुकर्षणम्‌ | अनुवृत्ति-सहितसूर्त्रं— क्लृपः परस्मैपदेषु आर्धधातुकस्येड्वलादेः न तासि से च |


४) अतिदेशः


अतिदेशसूत्रद्वारा प्रत्ययस्य स्वभावः यथा, तस्मात्‌ भिन्नो भवति | अनेन नूतनलक्षणम्‌ अध्यारोप्यते | अष्टाध्याय्यां प्रथमाध्यायस्य द्विदीयपादस्य आरम्भे प्रायः सर्वाणि अतिदेशसूत्राणि स्थितानि (विरलतया अन्यत्रापि प्राप्यन्ते) | एभिः सूत्रैः त्रयाणां गुणानाम्‌ अध्याहारः— ङित्त्वं, कित्त्वम्‌, अकित्त्वञ्च | १.२.१ इत्यस्मात्‌ आरभ्य १.२.२६ इति यावत्‌ अतिदेशप्रकरणम्‌ | तस्मिञ्च प्रथमचत्वारि सूत्राणि सामान्यानि; १.२.५ इत्यस्मात्‌ आरभ्य विशिष्टसूत्राणि; इमानि च सर्वाणि आर्धधातुकप्रक्रियायामेव |


सार्वधातुकप्रक्रियायाम्‌ एकमेव अतिदेशसूत्रम्‌— सार्वधातुकमपित्‌ (१.२.४) | इदञ्च सामान्यम्‌ अतिदेशसूत्रम्‌ | अवशिष्टत्रीणि सामान्यानि अतिदेशसूत्रणि आर्धधातुकप्रक्रियायां भवन्ति | लुट्‌-लकारपर्यन्तम्‌ अतिदेशसूत्रचिन्तनम्‌ अधिकं नापेक्षितम्‌ आसीत्‌ यतोहि सार्वधातुकप्रक्रियायां केवलं सार्वधातुकमपित्‌ (१.२.४) | तदा आर्धधातुकप्रक्रियायां यत्र इडागमो न भवति—प्रेरणार्थे णिच्‌, कर्मणि भावे यक्‌, परस्मैपदे आशीर्लिङ्‌, यङन्ताः, यङ्लुगन्ताः च इत्येते सर्वे अनिडादयः—एषु स्थलेषु अतिदेशसूत्रणि न प्रसक्तानि | लुट्‌-लकारे अतिदेशचिन्तनम्‌ अधिकम्‌ अपेक्षितम्‌ आसीत्‌; अत्रापि लृट्‌-लकारे तथैव भवति | उभयत्र किन्तु केवलं सामान्यम्‌ अतिदेशचिन्तनं; धातुम्‌ अधिकृत्य विशिष्टचिन्तनं नापेक्षितम्‌ ।


यथोक्तम्‌ आर्धधातुकप्रक्रियायां त्रीणि सामान्यानि अतिदेशसूत्राणि | तानि च—


गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१)

विज इट्‌ (१.२.२)

विभाषोर्णोः (१.२.३)


लुट्‌-लकारात्‌ आरभ्य सर्वत्र एतेषां प्रसङ्गे चिन्तनीयं भवति | लुटि लृटि च एषां त्रयाणामपि कार्यं भवति; यथोक्तं च उभयत्र विशिष्टातिदेशसूत्रणि नापेक्षितानि | (अत्र सामान्यसूत्राणि इत्युक्तं प्रत्ययम्‌ अवलम्ब्य | यत्र यत्र आर्धधातुकप्रक्रिया प्रवर्तते, तत्र सर्वत्र एषां त्रयाणां प्रसक्तिर्भवति | अतः अत्र 'सामान्यसूत्रम्‌’ इत्युक्तौ प्रतययम्‌ अवलम्ब्य न तु धातुमवलम्ब्य |)


अधुना एतानि त्रीणि सामान्य-अतिदेशसूत्राणि पश्येम, येषां कारणेन स्य-प्रत्ययः ङिद्वत्‌ मन्तव्यः ।


गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) = इङ्‌-धातोः स्थाने यः गाङ्‌-धातुः तस्मात्‌ च कुटादिगणीयेभ्यः धातुभ्यः ‌ञित्‌-णित्‌-भिन्न-प्रत्ययः ङिद्वत्‌ भवति | कुटादिगणे ३५ धातवः सन्ति; सर्वे धातवः तुदादिगणे सन्ति | कुट आदिर्येषां ते कुटादयः, बहुव्रीहिः | गाङ्‌ च कुटादयश्च ते गाङ्कुटादयः, तेभ्यः कुटादिभ्यः | ञ्‌ च ण्‌ च तयोरितरेतरद्वन्द्वः ञ्णौ, ञ्णौ इतौ यस्य स ञ्णित्‌ बहुव्रीहिः, न ञ्णित्‌ अञ्णित्‌, द्वन्द्वगर्भबहुव्रीहिः | सूत्रं स्वयं सम्पूर्णम्‌— गाङ्कुटादिभ्यः अञ्णित्‌ ङित् |


लृटि स्य-प्रत्ययः ञित्‌-णित्‌-भिन्नः इत्यतः गाङ्कुटादिभ्यः धातुभ्यः सिद्धतिङ्प्रत्ययाः सर्वे ङिद्वत्‌ भवन्ति | ततः सर्वत्र क्क्ङिति च (१.१.५) इति सूत्रेण गुणनिषेधः भवति | एतदेव च गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इत्यस्य प्रयोजनं— गुणनिषेधः | अत्र प्रश्नः उदेति किमर्थम्‌ उच्यते यत्‌ गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) केवलम्‌ आर्धधातुकप्रक्रियायाम्‌ ? किमर्थं सार्वधातुकप्रक्रियायाम्‌ अस्य कार्यं न स्यात्‌ ? अस्य उत्तरमिदं यत्‌ कुटादिगणः तुदादिगणे कश्चन अन्तर्गणः एव | नाम, सर्वे कुटदिगणीयाः धातवः तुदादिगणे एव | तुदादिगणे विकरणप्रत्ययः श; तस्य च 'श'-प्रत्ययस्य अपित्त्वात्‌ सर्वत्र तुदादिगणे धातौ गुणनिषेधः | गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इति सूत्रस्य कार्यं तु गुणनिषेधः एव—यः सार्वधातुकप्रक्रियायां तुदादिगणे सार्वधातुकमपित्‌ (१.२.४) इत्यनेन साधितः—अतः सार्वधातुकप्रक्रियायां तुदादिगणे गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इति सूत्रं निष्प्रयोजनम्‌ | अपि च यथा अग्रे उच्यते, गाङ्‌-धातुः सार्वधातुकप्रक्रियायां न भवति यतोहि अयं गाङ्‌ इङ्‌-धातोः स्थाने एव भवति | स च धात्वादेशः लिटि, लुङि, लृङि हि | नाम, केवलम्‌ आर्धधातुकप्रक्रियायाम्‌ |


क्क्ङिति च (१.१.५) = यः प्रत्ययः गित्‌, कित्‌ अथवा ङित्‌ अस्ति, अपि च तस्मा‌त्‌ प्रत्ययात्‌ पूर्वं तस्य एव प्रत्ययस्य कारणतः इकः स्थाने गुणः वा वृद्धिः वा भवति स्म, सः (गुणः वृद्धिः) न भवति | ग्‌ च क्‌ च ङ्‌ च तेषाम्‌ इतरेतरद्वन्द्वः क्क्ङः; क्क्ङः इतः यस्य सः क्क्ङित्‌, तस्मिन्‌ परे क्क्ङिति | द्वन्द्वगर्भबहुव्रीहिसमासः | अत्र ग्‌-स्थाने ककारः खरि च इत्यनेन चर्त्वसन्धिः | क्क्ङिति सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | इको गुणवृद्धी (१.१.३) इत्यस्य पूर्णतया अनुवृत्तिः; न धातुलोप आर्धधातुके (१.१.४) इत्यस्मात्‌ इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्‌— क्क्ङिति च इकः गुणवृद्धी न |


प्रेरणार्थे णिच्‌, कर्मणि भावे यक्‌, परस्मैपदे आशीर्लिङ्‌, यङन्ताः, यङ्लुगन्ताः च इत्येतेषु अनिडादिषु गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इत्यस्य कार्यं किमर्थं न जातम्‌ ? णिच्‌ णित्‌ इत्यतः सूत्रस्य प्रसक्तिर्नास्ति; अपरेषु स्थलेषु कित्त्वात्‌ ङित्त्वात्‌ च गुणनिषेधत्वात् गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इत्यस्य किमपि फलं नास्ति— यक्‌ कित्‌, परस्मैपदे आशीर्लिङि किदाशिषि (३.४.१०४) इत्यनेन आशिषि लिङ: यासुट् कित्, यङ्‌ च ङित्‌ |


कित्‌, ङित्‌, गित्‌ च एतादृशेषु प्रत्ययेषु परेषु इगन्तधातूनाम्‌ इक्‌-वर्णस्य सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन, हलन्तधतूनां च उपधायां स्थितस्य लघु-इक्‌-वर्णस्य पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणः न भवति । अतः एभ्यः पञ्चत्रिंशद्भ्यः कुटादिभ्यः धातभ्यः गुणकार्यं न भवति । एषां कुटादीनां धातूनां लृट्‌-लकाररूपाणि साधयिष्यामः अग्रे गत्वा प्रत्येकस्मिन्‌ धातु-समूहे ।


विज इट्‌ (१.२.२) = तुदादिगणीय-विज्‌-धातुतः ('ओविजी भयचलनयोः' इत्यस्मात्‌) सर्वे विधीयमानाः इडादि-प्रत्ययाः ङिद्वत्‌ भवन्ति | उद्विजिता, उद्विजितुम्, उद्विजितव्यम् | इटिति किम् ? उद्वेजनम्, उद्वेजनीयम् | विजः पञ्चम्यन्तम्‌, इट्‌-प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इत्यस्मात्‌ ङित्‌ इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्‌— विजः इट्‌ ङित् |


यथा—

विज्‌ + इट्‌ + स्यति → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणादेशः प्रसक्तः → प्रत्ययः से‌ट्‌ अतः ङिद्वत्‌; तस्मात्‌ क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधः → विजिष्यति


विभाषोर्णोः (१.२.३) = ऊर्णु-धातुतः विधीयमानाः इडादि-प्रत्ययाः विकल्पेन ङिद्वत्‌ भवन्ति | विभाषा प्रथमान्तम्‌, ऊर्णोः पञ्चम्यन्तं, द्विपदमिदं सूत्रम्‌ | विज इट्‌ (१.२.२) इत्यस्मात्‌ इट्‌ इत्यस्य अनुवृत्तिः | गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इत्यस्मात्‌ ङित् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्‌— ऊर्णोः इट्‌ ङित् विभाषा |


यथा, ङिद्वत्-पक्षे—

ऊर्णु + इष्यति → इष्यति विकल्पेन ङिद्वत्‌ अतः क्क्ङिति च (१.१.५) इत्यनेन एकस्मिन्‌ पक्षे गुणनिषेधः → ऊर्णु + इष्यति → अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यनेन उकारान्तधातुरूपि-अङ्गस्य उकारस्य स्थाने उवङ्‌ आदेशो भवति अजादि-प्रत्यये परे → ऊर्णुव्‌ + इष्यति → ऊर्णुविष्यति


अपक्षे ङिद्वत्त्वं न भवति अतः गुणप्रसङ्गः—


ऊर्णु + इष्यति → सार्वधातुकार्धधातुकयोः (७.३.८४) → ऊर्णो + इष्यति → एचोऽयवायावः (६.१.७७) → ऊर्णविष्यति


विज इट्‌ (१.२.२), विभाषोर्णोः (१.२.३) इति द्वे सूत्रे सार्वधातुकप्रक्रियायं किमर्थं न भवति ? द्वे‍ऽपि सूत्रे इडागमम्‌ अवलम्ब्य कार्यं कुरुतः | स च इडागमः सार्वधातुकप्रक्रियायां न भवति एव |


इति लृट्‌-लकारस्य अतिदेशकार्याणि समाप्तानि | त्रीणि अपि सूत्राणि सामान्यानि; अग्रे गत्वाऽपि आर्धधातुकप्रक्रियायां सर्वत्र एषां प्राप्तिर्भवति |


तर्हि एतावता अस्माभिः दृष्टं यत्‌ एकवारं यदा तिङ्प्रत्ययाः सिद्धाः, तदा धातु-प्रत्यययोः मध्ये सामान्य-अङ्गकार्यस्य साधनात्‌ पूर्वं त्रीणि कार्याणि द्रष्टव्यानि—


१) धात्वादेशः— प्रसङ्गवशात्‌ धातोः आकृतिः तु न परिवर्तनीया ?

२) इडागमः— धातोः इडागमदृष्ट्या मूलस्वभावः कः ? अपि च विद्यमान-प्रत्ययस्य (अत्र ’स्य’-प्रत्ययस्य) प्रभावेन अनिट्‌-धातुः से‌ट्‌ तु न जायमानः ? अथवा प्रत्ययस्य प्रभावेन सेट्‌-धातुः तु वे‌ट्‌ न जायमानः ?

३) अतिदेशः— केनचित्‌ अतिदेशसूत्रेण प्रत्ययः ङिद्वत्‌ अथवा किद्वत्‌ इति भवति वा ?


अस्य सर्वस्य परिशीलनानन्तरमेव सामान्यम्‌ अङ्गकार्यं साधनीयम्‌ |


सामान्यम्‌ अङ्गकार्यम्


केनचित्‌ अतिदेशसूत्रेण स्य-प्रत्ययः ङिद्वत्‌ नास्ति चेत्‌, इगन्तधातूनां च लघूपधधातूनां च इकः गुणादेशो भवति |


इगन्तधातवः


सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन धात्वन्तस्य इक्‌-वर्णस्य गुणो भवति कित्‌-ङित्‌-गित्‌-ञित्‌-णित्‌-भिन्न-सार्वधातुको वा आर्धधातुको वा प्रत्ययः परः अस्ति चेत्‌ |


नी + लृट्‌ → नी + स्य + तिप्‌ → नी + स्यति → सार्वधातुकार्धधातुकयोः (७.३.८४) → नेष्यति

अग्रे गत्वा सर्वत्र सिद्धतिङ्‌-प्रत्ययः प्रदर्श्यते

हु + स्यति → सार्वधातुकार्धधातुकयोः (७.३.८४) → होष्यति

कृ + स्यति → सार्वधातुकार्धधातुकयोः (७.३.८४) → करिष्यति

तॄ + स्यति →



इगन्तधातुः सेट्‌ अस्ति चेत्‌, गुणकार्येण प्राप्तस्य एकारस्य च ओकारस्य क्रमेण अय्‌ च आव्‌ च आदेशो भवति यान्तवान्तसन्धिं कृत्वा |

शी + इष्यति → सार्वधातुकार्धधातुकयोः (७.३.८४) → शे + इष्यति → एचोऽयवायावः (६.१.७७) → शय्‌ + इष्यति → शयिष्यति

यु + इष्यति → सार्वधातुकार्धधातुकयोः (७.३.८४) → यो + इष्यति → एचोऽयवायावः (६.१.७७) → यव्‌ + इष्यति → यविष्यति


सार्वधातुकार्धधातुकयोः (७.३.८४) = इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | सार्वधातुकञ्च आर्धधातुकञ्च तयोरितरेतरद्वन्द्वः सार्वधातुकार्धधातुके, तयोः सार्वधातुकार्धधातुकयोः | सार्वधातुकार्धधातुकयोः सप्तम्यन्तम्‌, एकपदमिदं सूत्रम्‌ | मिदेर्गुणः (७.३.८२) इत्यस्मात्‌ गुणः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | इको गुणवृद्धी (१.१.३) इत्यनेन परिभाषा-सूत्रेण, इकः स्थानी भवति यत्र स्थानी नोक्तम्‌ | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन 'इकः अङ्गस्य' इत्युक्ते न केवलम्‌ इक्‌ इति अङ्गं, किन्तु तादृशम्‌ अङ्गं यस्य अन्ते इक्‌; अलोऽन्त्यस्य (१.१.५२) इत्यनेन अङ्गस्य स्थाने गुणादेशः इति न, अपि तु अङ्गस्य अन्तिमवर्णस्य स्थाने गुणादेशः | अनुवृत्ति-सहितसूत्रम्‌— इकः अङ्गस्य गुणः सार्वधातुकार्धधातुकयोः |


एचोऽयवायावः (६.१.७७) = एचः (ए, ओ, ऐ, औ इत्येषां) स्थाने क्रमेण अय्‌, अव्‌, आय्‌, आव्‌ इत्यादेशाः भवन्ति अचि परे | क्रमेण इत्युक्तं यथासंख्यमनुदेशः समानाम्‌ (१.३.१०) इति परिभाषा सूत्रस्य साहाय्येन | अय्‌ च, अव्‌ च, आय्‌ च, आव्‌ च, तेषाम्‌ इतरेतरद्वन्द्वः, अयवायावः | एचः षष्ठ्यन्तम्‌, अयवायावः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | इको यणचि (६.१.७६) इत्यस्मात्‌ अचि इत्यस्य अनुवृत्तिः; संहितायाम्‌ (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— एचः अयवायावः अचि संहितायाम्‌ |


लघूपधधातवः


पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन धातोः उपधायां स्थितस्य लघु-इक्‌-वर्णस्य गुणो भवति कित्‌-ङित्‌-गित्‌-ञित्‌-णित्‌-भिन्न-सार्वधातुको वा आर्धधातुको वा प्रत्ययः परः अस्ति चेत्‌ |


लिख्‌ → लिख्‌ + इष्यति → पुगन्तलघूपधस्य च (७.३.८६) → लेख्‌ + इष्यति → लेखिष्यति

मिद्‌ →

वृष्‌ →

क्रुश्‌ →

तृप्‌ →

क्लृप्‌ →


पुगन्तलघूपधस्य च (७.३.८६) = पुगन्तस्य अङ्गस्य लघूपधस्य च इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | पुक्‌ अन्ते यस्य तत्‌ पुगन्तम्‌, लघ्वी उपधा यस्य तत्‌ लघूपधम्‌ | पुगन्तञ्च लघूपधञ्च तयोः पुगन्तलघूपधं समाहारद्वन्द्वः, तस्य पुगन्तलघूपधस्य | पुगन्तलघूपधस्य षष्ठ्यन्तं पदम्‌, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | मिदेर्गुणः (७.३.८२) इत्यस्मात्‌ गुणः इत्यस्य अनुवृत्तिः; सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यस्य पूर्णानुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | इको गुणवृद्धी (१.१.३) इत्यनेन परिभाषा-सूत्रेण, इकः स्थानी भवति यत्र स्थानी नोक्तम्‌ | अनुवृत्ति-सहितसूत्रम्‌— पुगन्तलघूपधस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः |


मृज्‌-धातोः वृद्धिः


मृज्‌-धातुः वे‌ट्‌, अतः रूपद्वयम्‌—


मृज्‌ + स्यति → मृजेर्वृद्धिः (७.२.११४) → मार्ज्‌ + स्यति → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) →


मृज्‌ + इष्यति →


मृजेर्वृद्धिः (७.२.११४) = मृज्‌-धातोः इकः वृद्धिः भवति सार्वधातुके च आर्धधातुके च प्रत्यये परे | अङ्गकार्यत्वात्‌ प्रत्ययः परे अस्त्येव; स च प्रत्ययः धातोः भवति इति कृत्वा सार्वधातुकम् अथवा आर्धधातुकं भवेदेव | मृजेः षष्ठ्यन्तं, वृद्धिः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | इकोगुण्वृद्धी (१.१.३) इत्यस्मात्‌‌ परिभाषासूत्रात्‌ इकः इत्यस्य षष्ठ्यन्ता अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— मृजेः अङ्गस्य इकः वृद्धिः |


व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) = व्रश्च्‌, भ्रस्ज्‌, सृज्‌, मृज्‌, यज्‌, राज्‌, भ्राज्‌, तुक्‌-सहित-छकारान्ताः शकारान्ताः चैषां धातूनाम्‌ अन्तिमवर्णस्य स्थाने षकारादेशो भवति झलि पदान्ते च | अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव स्थाने षकारादेशः, न तु पूर्णपदस्य | व्रश्चश्च भ्रस्जश्च सृजश्च मृजश्च यजश्च राजश्च भ्राजश्च छश्च श्‌ च तेषामितरेतरद्वन्दः व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशः, तेषां व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशाम्‌ | व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षष्ठ्यन्तं, षः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | अत्र 'जच्छशां' इति भागे छे च (६.१.७३) इत्यनेन तुक्‌-आगमे सति जत्छशां, तदा श्चुत्वसन्धौ जच्छशां | झलो झलि (८.२.२६) इत्यस्मात्‌ झलि इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात्‌ अन्ते, इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः झलि पदस्य अन्ते च |


स्य-प्रत्ययः ङिद्वत्‌ चेत्‌ गुणनिषेधः


केनचित्‌ अतिदेशसूत्रेण स्य -प्रत्ययः ङिद्वत्‌ भवति चेत्‌, गुणकार्यं निषिध्यते |


क्क्ङिति च (१.१.५) = यः प्रत्ययः गित्‌, कित्‌ अथवा ङित्‌ अस्ति, अपि च तस्मा‌त्‌ प्रत्ययात्‌ पूर्वं तस्य एव प्रत्ययस्य कारणतः इकः स्थाने गुणः वा वृद्धिः वा भवति स्म, सः (गुणः वृद्धिः) न भवति | अनुवृत्ति-सहितं सूत्रम्‌— क्क्ङिति च इकः गुणवृद्धी न |


अतः ३५ कुटादयः धातवः अपि च विज्‌-धातुः, आहत्य ३६ धातुभ्यः स्य-प्रत्ययः ङिद्वत्‌ भवति इति कारणतः क्क्ङिति च (१.१.५) इत्यनेन गुणः निषिध्यते |


यथा इगन्तधातुषु—‌


गु + स्यति → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन गुणप्रसक्तिः → गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इत्यनेन कुटादिगणीयेभ्यः धातुभ्यः ‌ञित्‌-णित्‌-भिन्न-प्रत्ययः ङिद्वत्‌ → स्य-प्रत्ययः ञित्‌-णित्‌-भिन्न अतः ङिद्वत्‌ → क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधः → गु + स्यति → आदेशप्रत्यययोः (८.३.५९) इत्यनेन इण्‌-प्रत्याहारात्‌ कवर्गीयात्‌ च परे अपदान्तः आदेशरूपी प्रत्ययावयवो वा सकारः अस्ति चेत्‌, तस्य सकारस्य स्थाने षकारादेशो भवति → गुष्यति


कु + स्यते →


इगन्तधातुः सेट्‌ अस्ति चेत्‌—


नू + इष्यति → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन गुणप्रसक्तिः → गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इत्यनेन कुटादिगणीयेभ्यः धातुभ्यः ‌ञित्‌-णित्‌-भिन्न-प्रत्ययः ङिद्वत्‌ → स्य-प्रत्ययः ञित्‌-णित्‌-भिन्न अतः ङिद्वत्‌ → क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधः → नू + इष्यति → अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यनेन इकारान्त-उकारान्तधातुरूपि-अङ्गस्य इकारस्य उकारस्य च स्थाने क्रमेण इयङ्‌ उवङ्‌ आदेशो भवति अजादि-प्रत्यये परे → नुव्‌ + इष्यति → नुविष्यति


अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) = श्नुप्रत्ययान्ताङ्गस्य (स्वादिगणस्य अङ्गस्य यथा शक्नु इत्यस्य), इकारान्त-उकारान्तधातुरूपि-अङ्गस्य, भ्रू-प्रातिपदिकस्य च— एषाम्‌ इकारस्य उकारस्य स्थाने क्रमेण इयङ्‌ उवङ्‌ च आदेशो भवति अजादि-प्रत्यये परे | श्नु-प्रसङ्गे प्रत्ययग्रहणे तदन्ता ग्राह्याः (परिभाषा #२३) इति परिभाषया तदन्तविधिः; अनेन यस्य अङ्गस्य अन्ते श्नु-प्रत्ययः स्यात्‌, तस्मात्‌ इत्यर्थः | य्वोः इति विशेषणं 'धातु' शब्दस्य एव यतोहि श्नुप्रत्ययान्ताङ्गं, भ्रू-प्रातिपदिकं च उकारान्तः एव अतः तत्र इयङ्‌ इत्यस्य प्रसक्तिः नास्ति | तर्हि 'धातु' इत्येव अवशिष्यते यस्य कृते य्वोः इति विशेषणं योग्यम्‌ | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन यस्य धातोः अन्ते इकार-उकारः स्यात्‌ इति अर्थः | श्नुश्च धातुश्च भ्रुश्च तेषाम्‌ इतरेतरद्वन्द्वः श्नुधातुभ्रुवः, तेषां श्नुधातुभ्रुवाम्‌ | इश्च उश्च तयोः इतरेतरद्वन्द्वः यू, तयोः य्वोः | इयङ्‌ च उवङ्‌ च तयोः इतरेतरद्वन्द्वः, इयङुवङौ | अचि सप्तम्यन्तं, श्नुधातुभ्रुवां षष्ठ्यन्तं, य्वोः षष्ठ्यन्तम्‌, इयङुवङौ प्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— य्वोः श्नुधातुभ्रुवाम् ‌अङ्गानाम्‌ इयङुवङौ अचि |


धू + इष्यति →


ऊर्णु + इष्यति → → विभाषोर्णोः (१.२.३) इत्यनेन ऊर्णु-धातुतः विधीयमानाः इडादि-प्रत्ययाः विकल्पेन ङिद्वत्‌ →


लघूपधधातुषु—‌


डिप्‌ + इष्यति → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणप्रसक्तिः → गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इत्यनेन कुटादिगणीयेभ्यः धातुभ्यः ‌ञित्‌-णित्‌-भिन्न-प्रत्ययः ङिद्वत्‌ → स्य-प्रत्ययः ञित्‌-णित्‌-भिन्न अतः ङिद्वत्‌ → क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधः → डिपिष्यति


एवमेव—‌


पुट्‌ →

स्फुर्‌ →

कृड्‌ →


उद्विज्‌ + इष्यति → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणप्रसक्तिः → विज इट्‌ (१.२.२) इत्यनेन तुदादिगणीय-विज्‌-धातुतः सर्वे विधीयमानाः से‌ट्‌-प्रत्ययाः ङिद्वत्‌ → स्य-प्रत्ययः अत्र इडादिः → क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधः →


षत्व-विधिः


जानीमः यत्‌ इण्‌-प्रत्याहारात्‌ कवर्गीयात्‌ च परे अपदान्तः आदेशरूपी प्रत्ययावयवो वा सकारः अस्ति चेत्‌, तस्य सकारस्य स्थाने षकारादेशो भवति आदेशप्रत्यययोः (८.३.५९) इति सूत्रेण | यथा ने + स्यति → नेष्यति; हो + स्यति → होष्यति; स्वर्‌ + स्यति → स्वर्ष्यति | पा-धातुः अस्ति चेत्‌, न भवति यतोहि पा-धातोः आकारः इण्‌-प्रत्याहारे नास्ति | पा + स्यति → पास्यति |  


तर्हि धातोः अन्तिमवर्णः इण्‌-प्रत्याहारे अस्ति चेत्‌ आदेशप्रत्यययोः (८.३.५९) इत्यनेन षत्वं भवति | धातोः अन्तिमवर्णः कवर्गे अस्ति चेदपि षत्वं भवति | यथा शक्‌ + स्यति → शक्‌ + ष्यति → शक्ष्यति |


आदेशप्रत्यययोः (८.३.५९) = इण्‌-प्रत्याहारात्‌ कवर्गीयात्‌ च परे अपदान्तः आदेशरूपी प्रत्ययावयवो वा सकारः अस्ति चेत्‌, तस्य सकारस्य स्थाने षकारादेशो भवति | आदेशः तु मूर्धन्यवर्णस्य इत्येव उक्तं, परं स्थानेऽन्तरतमः इत्यनेन ट्‌, ठ्‌, ड्‌, ढ्‌, ण्‌, ष्‌ इत्येषु मूर्धन्यवर्णेषु षकारस्य नैकट्यम्‌, अतः षकारः एव आदिष्टः भवति | नुम्‌, विसर्गः, शर्-प्रत्याहारस्थ-वर्णः एषु अन्यतमः मध्ये अस्ति चेदपि कार्यं भवति | इण्‌-प्रत्याहरे इमे वर्णाः अन्तर्भूताः— इ, उ, ऋ, ऌ, ए, ओ, ऐ, औ, ह, य, व, र, ल | अस्य कार्यस्य नाम षत्वविधिः | आदेशश्च प्रत्ययश्च आदेशप्रत्ययौ, तयोः आदेशप्रत्यययोः इतरेतरद्वन्द्वः | षष्ठ्यन्तम्‌ एकपदमिदं सूत्रम्‌ | सहे साडः सः (८.३.५६) इत्यस्मात्‌ सः इत्यस्य अनुवृत्तिः | नुंविसर्जनीयशर्व्यवायेऽपि (८.३.५८) इत्यस्य पूर्णा अनुवृत्तिः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम्‌ इत्यस्य अधिकारः | इण्कोः (८.३.५७), अपदान्तस्य मूर्धन्यः (८.३.५५) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌—इण्कोः आदेशप्रत्यययोः अपदान्तस्य सः मूर्धन्यः संहितायां, नुंविसर्जनीयशर्व्यवायेऽपि |


लृट्‌-लकारस्य रूपसिद्धिः


इदं वर्गीकरणम्‌ अनुसृत्य लृट्‌-लकारस्य रूपसिद्धिः चिन्तनीया


सामान्यम्‌ अङ्गकार्यं मनसि निधाय सर्वेभ्यः धातुभ्यः लृट्‌-लकारस्य रूपसिद्धिः इदं वर्गीकरणम्‌ अनुसृत्य चिन्तनीयम्‌—‌‌


१) भ्वादिगणात्‌ आरभ्य क्र्यादिगण-पर्यन्तं सर्वेषाम्‌ अजन्तधातूनां लृट्‌-लकारस्य रूपसिद्धिः

२) भ्वादिगणात्‌ आरभ्य क्र्यादिगण-पर्यन्तं सर्वेषां वेटाम्‌ अनिटां च हलन्तधातूनां लृट्‌-लकारस्य रूपसिद्धिः

३) भ्वादिगणात्‌ आरभ्य क्र्यादिगण-पर्यन्तं सर्वेषां सेटां हलन्तधातूनां लृट्‌-लकारस्य रूपसिद्धिः

४) णिजन्तधातूनां लृट्‌-लकारस्य रूपसिद्धिः

५) सन्नन्तधातूनां लृट्‌-लकारस्य रूपसिद्धिः

६) यङन्तधातूनां लृट्‌-लकारस्य रूपसिद्धिः

७) यङ्लुगन्तधातूनां लृट्‌-लकारस्य रूपसिद्धिः

८) क्यच्‌, क्यष्‌, क्यङ्‌-प्रत्ययान्तधातूनां लृट्‌-लकारस्य रूपसिद्धिः


अग्रे गत्वा सर्वत्र धातुः सेट्‌ इति चेत्‌, ‘इडादय-प्रत्ययाः' संयोजनीयाः | पुनः धातुः अनिट्‌ इति चेत्‌, ‘अनिडादय-प्रत्ययाः' संयोजनीयाः |   

  


१) भ्वादिगणात्‌ आरभ्य क्र्यादिगण-पर्यन्तं सर्वेषाम्‌ अजन्तधातूनां लृट्‌-लकारस्य रूपसिद्धिः


आकारान्ताः च एजन्ताः च धातवः


सामान्याः आकारान्तधातवः


यथा जानीमः, सर्वे एकाचः आकारान्तधातवः अनिटः सन्ति | अत्र च किमपि विशिष्टकार्यं न वर्तते |


दा + स्यति → दास्यति


परस्मैपदे

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌
प्र०पु० दास्यति दास्यतः दास्यन्ति
म० पु० दास्यसि दास्यथः दास्यथ
उ० पु० दास्यामि दास्यावः दास्यामः


आत्मनेपदे

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌
प्र०पु० दास्यते दास्येते दास्यन्ते
म० पु० दास्यसे दास्येथे दास्यध्वे
उ० पु० दास्ये दास्यावहे दास्यामहे

अग्रे गत्वा केवलं प्रथमपुरुषस्य एकवचनान्तरूपं प्रदर्श्यते |


दरिद्रा-धातुः


अनेकाच्‌-धातवः सर्वे सेटः इति जानीमः | अत्र तादृशः एकः आकारान्तधातुः वर्तते— दरिद्रा-धातुः | तत्र च एकं वार्तिकमस्ति—


दरिद्रातेरार्धधातुके विवक्षिते आलोपो वाच्यः इत्यनेन दरिद्रा-धातोः आर्धधातुके प्रत्यये परे आकारलोपो भवति |


दरिद्रा + इष्यति → दरिद्र्‌ + इष्यति → दरिद्रिष्यति


एजन्तधातवः


आदेच उपदेशेऽशिति (६.१.४५) = उपदेशे एजन्तस्य धातोरात्त्वं न तु शिति | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तदन्तविधिः; अलोन्त्यस्य (१.१.५२) इत्यनेन अन्त्यस्य अलः स्थाने | एच्‌ इत्यनेन 'ए, ऐ, ओ, औ' | श्‌ इत्‌ यस्य स शित्‌, न शित्‌ अशित्‌, तस्मिन्‌ (विषये) अशिति, नञ्तत्पुरुषः | आत्‌ प्रथमान्तम्‌, एचः षष्ठ्यन्तम्‌, उपदेशे सप्तम्यन्तम्‌, अशिति सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | लिटि धातोरनभ्यासस्य (६.१.८) इत्यस्मात्‌ धातोः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— एचः धातोः आत्‌ उपदेशे अशिति |


धे + स्यति → आदेच उपदेशेऽशिति (६.१.४५) → धा + स्यति → धास्यति

ध्यै + स्यति → आदेच उपदेशेऽशिति (६.१.४५) → ध्या + स्यति → ध्यास्यति

शो + स्यति → आदेच उपदेशेऽशिति (६.१.४५) →

गै + स्यति → आदेच उपदेशेऽशिति (६.१.४५) →


इकारान्तधातवः


सामान्याः इकारान्तधातवः


अत्र गुणकार्यं भवति यथापेक्षितं, सार्वधातुकार्धधातुकयोः (७.३.८४) इति सूत्रेण | अपि च श्रि, श्वि इति धातुद्वयं त्यक्त्वा अन्ये सर्वे एकाचः इकारान्तधातवः अनिटः |


जि + स्यति → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन आर्धधातुकप्रत्यये परे इगन्ताङ्गस्य इकः गुणः भवति → जे + स्यति → आदेशप्रत्यययोः (८.३.५९) इत्यनेन इण्‌-प्रत्याहारात्‌ कवर्गीयात्‌ च परे अपदान्तः आदेशरूपी प्रत्ययावयवो वा सकारः अस्ति चेत्‌, तस्य सकारस्य स्थाने षकारादेशः → जेष्यति


चि + स्यति →

अधि + इ + स्यते →


श्रि, श्वि इति धातू


इमौ द्वौ धातू सेटौ इति जानीमः |


श्रि + इष्यति → सार्वधातुकार्धधातुकयोः (७.३.८४) → श्रे + इष्यति → एचोऽयवायावः (६.१.७७) → श्रयिष्यति

श्वि + इष्यति →


डुमिञ्‌ प्रेक्षणे


मीनाति-मिनोति-दीङां ल्यपि च (६.१.५०) = क्र्यादौ मीञ् हिंसायां, स्वादौ डुमिञ् प्रक्षेपणे, दिवादौ दीङ् क्षये इत्येतेषां धातूनाम्‌ अन्त्यस्य अलः स्थाने आकारादेशो भवति ल्यपि विषये, एच्‌-निमित्त-शिद्भिन्न-प्रत्ययस्य च विषये | नाम मी, मि, दी इत्येषां यदा गुणो वा वृद्धिर्व जायमानः यस्मात्‌ एकारो वा ऐकारो वा जायमानः, ततः पूर्वमेव तत्स्थाने आकारादेशो भवति | अलोन्त्यस्य (१.१.५२) इत्यनेन अन्त्यस्य अलः स्थाने | केषाञ्चित्‌ मतेन अशिति इति अनुवृत्तिः न भवेत्‌ यतोहि कोऽपि शित्‌ प्रत्ययः नास्ति यस्य द्वारा एतेषां धातूनाम्‌ अन्तिम-अलः वर्णस्य स्थाने एच्‌-आदेशः स्यात्‌ | केषाञ्चित्‌ च मतेन उपदेशे इत्यस्य अनुवृत्तिः न भवेत्‌ | मीनातिश्च मिनोतिश्च दीङ्‌ च तेषामितरेतरद्वन्द्वो मीनातिमिनोतिदीङः, तेषां मीनातिमिनोतिदीङाम्‌ | मीनातिमिनोतिदीङां षष्ठ्यन्तं, ल्यपि सप्तम्यन्तं, चाव्ययपदं, त्रिपदमिदं सूत्रम्‌ | आदेच उपदेशेऽशिति (६.१.४५) इत्यस्य सम्पूर्णतया अनुवृत्तिः | अनुवृत्ति-सहितसूर्त्रं— मीनातिमिनोतिदीङाम्‌ आत्‌ ल्यपि च एच (एज्निमित्ते प्रत्यये) उपदेशे अशिति |


डुमिञ्‌ + स्यति → मि + स्यति → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन गुणप्रसक्तिः → मीनाति-मिनोति-दीङां ल्यपि च (६.१.५०) इत्यनेन स्वादौ डुमिञ् प्रक्षेपणे इत्यस्य धातोः अन्त्यस्य अलः स्थाने आकारादेशो भवति एच्‌-निमित्त-शिद्भिन्न-प्रत्ययस्य च विषये → मा + स्यति → मास्यति


ईकारान्तधातवः


सामान्याः ईकारान्तधातवः


अत्र गुणकार्यं भवति यथापेक्षितं, सार्वधातुकार्धधातुकयोः (७.३.८४) इति सूत्रेण | डीङ्‌, शीङ्‌ इति धातुद्वयं त्यक्त्वा अन्ये सर्वे एकाचः ईकारान्तधातवः अनिटः |


नी + स्यति → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन आर्धधातुकप्रत्यये परे इगन्ताङ्गस्य इकः गुणः भवति → ने + स्यति → आदेशप्रत्यययोः (८.३.५९) इत्यनेन इण्‌-प्रत्याहारात्‌ कवर्गीयात्‌ च परे अपदान्तः आदेशरूपी प्रत्ययावयवो वा सकारः अस्ति चेत्‌, तस्य सकारस्य स्थाने षकारादेशः → नेष्यति


भी + स्यति →

क्री + स्यति →


डीङ्‌, शीङ्‌ इति धातू


इमौ द्वौ धातू सेटौ इति जानीमः |


डीङ्‌ + इष्यते → सार्वधातुकार्धधातुकयोः (७.३.८४) → डे + इष्यते → एचोऽयवायावः (६.१.७७) → डयिष्यते

शीङ्‌ + इष्यते →


दीधी, वेवी


दीधी, वेवी इति द्वौ धातू अनेकाचौ अतः सेटौ


दीधीवेवीटाम्‌ (१.१.६) = दीधीङ्‌, वेवीङ्‌ इति धात्वोः च इट्‌ इत्यागमस्य च, एषां गुणः वृद्धिः च न भवतः | दिधीश्च वेवीश्च इट्‌ च तेषामितरेतरद्वन्द्वः दीधीवेवीटः, तेषां दीधीवेवीटाम्‌ | इको गुणवृद्धी (१.१.३) इत्यस्मात्‌ गुणवृद्धी इत्यस्य अनुवृत्तिः | न धातुलोप आर्धधातुके (१.१.४) इत्यस्मात्‌ इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूर्त्रं— दीधी-वेवी-इटाम् इकः गुणवृद्धी न |


यीवर्णयोर्दीधीवेव्योः (७.४.५३) = यकारादिः च इकारादिः च प्रत्यये परे देधी, वेवी इति धात्वोः ईकारस्य लोपो भवति |


दीधी + इष्यते → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन गुणप्रसक्तिः → दीधीवेवीटाम्‌ (१.१.६) इत्यनेन गुणनिषेधः → दीधी + इष्यते → यीवर्णयोर्दीधीवेव्योः (७.४.५३) इत्यनेन धातोः ईकारलोपः → दीध्‌ + इष्यते → दीधिष्यते


वेवी + इष्यते →


मीञ्‌ हिंसायां, दीङ्‌ क्षये इति द्वौ धातू


मीनाति-मिनोति-दीङां ल्यपि च (६.१.५०) = क्र्यादौ मीञ् हिंसायां, स्वादौ डुमिञ् प्रक्षेपणे, दिवादौ दीङ् क्षये इत्येतेषां धातूनाम्‌ अन्त्यस्य अलः स्थाने आकारादेशो भवति ल्यपि विषये, एच्‌-निमित्त-शिद्भिन्न-प्रत्ययस्य च विषये | नाम मी, मि, दी इत्येषां यदा गुणो वा वृद्धिर्व जायमानः यस्मात्‌ एकारो वा ऐकारो वा जायमानः, ततः पूर्वमेव तत्स्थाने आकारादेशो भवति | अलोन्त्यस्य (१.१.५२) इत्यनेन अन्त्यस्य अलः स्थाने | केषाञ्चित्‌ मतेन अशिति इति अनुवृत्तिः न भवेत्‌ यतोहि कोऽपि शित्‌ प्रत्ययः नास्ति यस्य द्वारा एतेषां धातूनाम्‌ अन्तिम-अलः वर्णस्य स्थाने एच्‌-आदेशः स्यात्‌ | केषाञ्चित्‌ च मतेन उपदेशे इत्यस्य अनुवृत्तिः न भवेत्‌ | मीनातिश्च मिनोतिश्च दीङ्‌ च तेषामितरेतरद्वन्द्वो मीनातिमिनोतिदीङः, तेषां मीनातिमिनोतिदीङाम्‌ | मीनातिमिनोतिदीङां षष्ठ्यन्तं, ल्यपि सप्तम्यन्तं, चाव्ययपदं, त्रिपदमिदं सूत्रम्‌ | आदेच उपदेशेऽशिति (६.१.४५) इत्यस्य सम्पूर्णतया अनुवृत्तिः | अनुवृत्ति-सहितसूर्त्रं— मीनातिमिनोतिदीङाम्‌ आत्‌ ल्यपि च एच (एज्निमित्ते प्रत्यये) उपदेशे अशिति |


(प्र +) मीञ्‌ + स्यति → मी + स्यति → मीनाति-मिनोति-दीङां ल्यपि च (६.१.५०) इत्यनेन स्वादौ डुमिञ् प्रक्षेपणे इत्यस्य धातोः अन्त्यस्य अलः स्थाने आकारादेशो भवति एच्‌-निमित्त-शिद्भिन्न-प्रत्ययस्य च विषये → प्र + मा + स्यति → प्रमास्यति


(उप +) दीङ्‌ + स्यते → उप + दी + स्यते → 


लीङ्‌ श्लेषणे ली श्लेषणे इति द्वौ धातू


विभाषा लीयतेः (६.१.५१) = लीङ् श्लेषणे (दिवादौ), ली श्लेषणे (क्र्यादौ) इत्यनयोः विकल्पेन आत्वादेशो भवति एचः विषये | नाम यदा कदाचित्‌ गुणकार्यस्य प्राङ्गत्वात्‌ ईकारस्य स्थाने एकारः जायमानः, तदा विकल्पेन आकारादेशो भवति |


ली + स्यते → ले + स्यते → ला + स्यते → लास्यते | आत्वाभावे लेष्यते |


उकारान्तधातवः


सामान्याः उकारान्तधातवः


अत्र गुणकार्यं भवति यथापेक्षितं, सार्वधातुकार्धधातुकयोः (७.३.८४) इति सूत्रेण | यु, रु, नु, स्नु, क्षु, क्ष्णु इत्येतान्‌ धातून्‌ त्यक्त्वा अन्ये सर्वे एकाचः उकारान्तधातवः अनिटः |


हु (दानादानयोः, जुहोत्यादौ, लटि जुहोति) + स्यति →


द्रु  (भ्वादौ, गतौ, लटि द्रवति) + स्यति →


षट्‌ सेटः उकारान्तधातवः


यु, रु, नु, स्नु, क्षु, क्ष्णु इत्येते धातवः सेटः


यु + इष्यति →


एवमेव रु, नु, स्नु, क्षु, क्ष्णु | सर्वे परस्मैपदिनः |


उकारान्ताः कुटादिधातवः


गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) = इङ्‌-धातोः स्थाने यः गाङ्‌-धातुः तस्मात्‌ च कुटादिगणीयेभ्यः धातुभ्यः ‌ञित्‌-णित्‌-भिन्न-प्रत्ययः ङिद्वत्‌ भवति | कुटादिगणे ३५ धातवः सन्ति; सर्वे धातवः तुदादिगणे सन्ति | कुट आदिर्येषां ते कुटादयः, बहुवीहिः | गाङ्‌ च कुटादयश्च ते गाङ्कुटादयः, तेभ्यः कुटादिभ्यः | ञ्‌ च ण्‌ च तयोरितरेतरद्वन्द्वः ञ्णौ, ञ्णौ इतौ यस्य स ञ्णित्‌ बहुव्रीहिः, न ञ्णित्‌ अञ्णित्‌, द्वन्द्वगर्भो बहुव्रीहिः | सूत्रं स्वयं सम्पूर्णम्‌— गाङ्कुटादिभ्यः अञ्णित्‌ ङित् |


लृटि सिद्धतिङ्प्रत्ययाः सर्वे ञित्‌-णित्‌-भिन्नाः इत्यतः गाङ्कुटादिभ्यः धातुभ्यः एते सर्वे ङिद्वत्‌ भवन्ति | ततः सर्वत्र क्क्ङिति च (१.१.५) इति सूत्रेण गुणनिषेधः भवति |


क्क्ङिति च (१.१.५) = यः प्रत्ययः गित्‌, कित्‌ अथवा ङित्‌ अस्ति, अपि च तस्मा‌त्‌ प्रत्ययात्‌ पूर्वं तस्य एव प्रत्ययस्य कारणतः इकः स्थाने गुणः वा वृद्धिः वा भवति स्म, सः (गुणः वृद्धिः) न भवति | ग्‌ च क्‌ च ङ्‌ च तेषाम्‌ इतरेतरद्वन्द्वः क्क्ङः; क्क्ङः इतः यस्य सः क्क्ङित्‌, तस्मिन्‌ परे क्क्ङिति | द्वन्द्वगर्भबहुव्रीहिसमासः | अत्र ग्‌-स्थाने ककारः खरि च इत्यनेन चर्त्वसन्धिः | क्क्ङिति सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | इको गुणवृद्धी (१.१.३) इत्यस्य पूर्णतया अनुवृत्तिः; न धातुलोप आर्धधातुके (१.१.४) इत्यस्मात्‌ इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्‌— क्क्ङिति च इकः गुणवृद्धी न |


गु पुरीषोत्सर्गे


गु + स्यति →


ध्रु गतिस्थैर्ययोः


ध्रु + स्यति →


कुङ्‌ शब्दे


कु + स्यते →


ऊर्णु-धातुः


विभाषोर्णोः (१.२.३) = ऊर्णु-धातुतः विधीयमानाः इडादि-प्रत्ययाः विकल्पेन ङिद्वत्‌ भवन्ति | विभाषा प्रथमान्तम्‌, ऊर्णोः पञ्चम्यन्तं, द्विपदमिदं सूत्रम्‌ | विज इट्‌ (१.२.२) इत्यस्मात्‌ इट्‌ इत्यस्य अनुवृत्तिः | गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इत्यस्मात्‌ ङिट्‌ इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्‌— ऊर्णोः इट्‌ ङित्‌ विभाषा |


यथा—

ऊर्णु + इष्यति → इता विकल्पेन ङिद्वत्‌ अतः क्क्ङिति च (१.१.५) इत्यनेन एकस्मिन्‌ पक्षे गुणनिषेधः → ऊर्णु + इष्यति → अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यनेन उकारान्तधातुरूपि-अङ्गस्य उकारस्य स्थाने उवङ्‌ आदेशो भवति अजादि-प्रत्यये परे → ऊर्णुविष्यति


अपक्षे ङिद्वत्त्वं न भवति अतः गुणप्रसङ्गः—

ऊर्णु + इष्यति → सार्वधातुकार्धधातुकयोः (७.३.८४) → ऊर्णो + इष्यति → एचोऽयवायावः (६.१.७७) → ऊर्णविष्यति


ऊकारान्तधातवः


सामान्याः ऊकारान्तधातवः


अत्र गुणकार्यं भवति यथापेक्षितं, सार्वधातुकार्धधातुकयोः (७.३.८४) इति सूत्रेण | इडागमपाठे 'सर्वे ऊकारान्तधातवः सेटः' इति अधीतवन्तः |


भू + इष्यति → सार्वधातुकार्धधातुकयोः (७.३.८४) → भो + इष्यति → एचोऽयवायावः (६.१.७७) → भविष्यति

पू + इष्यति → सार्वधातुकार्धधातुकयोः (७.३.८४) →


वस्तुतस्तु चत्वारः ऊकारान्तधातवः वेटः इत्यपि ज्ञातवन्तः वेट्‌-धातुपाठे | एते चत्वारः वेट्‌-धातवः सन्ति— द्वौ धू-धातू (धूञ् कम्पने स्वादौ क्र्यादौ च), द्वौ सू-धातू ('षूङ्‌ प्राणिगर्भविमोचने' अदादिगणे, ‘षूङ्‌ प्राणिप्रसवे' दिवादिगणे) | धू विधूनने, धूञ् कम्पने चुरादि चेति द्वौ धातू सेटौ |


इडादिपक्षे—


धू + इष्यति → सार्वधातुकार्धधातुकयोः (७.३.८४) → धो + इष्यति → एचोऽयवायावः (६.१.७७) → धविष्यति |


एवेमेव सू + इष्यति →


अनिडादिपक्षे—


धू + स्यति → सार्वधातुकार्धधातुकयोः (७.३.८४) → धो + स्यति → धोष्यति


एवेमेव—

सू + स्यति →



कुटादिधातवः


कुटादिगणे णू स्तवने, धू विधूनने इति द्वौ ऊकारान्तधातवः स्तः | द्वावपि सेटौ; द्वयोरपि कुटादिगणीयत्वस्य गुणनिषेधत्वात्‌ उवङ्‌-आदेशः |


णू + इष्यति → नुविष्यति

धू + इष्यति →


णू + इष्यति → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन गुणः प्रसक्तः → क्क्ङिति च (१.१.५) इति सूत्रेण गुणनिषेधः→ नू + इष्यति → अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यनेन अजादि प्रत्यये परे उवङ्‌-आदेशः → न्‌ + उव्‌ + इष्यति → नुविष्यति


एवमेव—

धू + इष्यति →


अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) = श्नुप्रत्ययान्ताङ्गस्य (स्वादिगणस्य अङ्गस्य यथा शक्नु इत्यस्य), इकारान्त-उकारान्तधातुरूपि-अङ्गस्य, भ्रू-प्रातिपदिकस्य च— एषाम्‌ इकारस्य उकारस्य स्थाने क्रमेण इयङ्‌ उवङ्‌ च आदेशो भवति अजादि-प्रत्यये परे |


ब्रू-धातोः वच्‌ इति धात्वादेशः


ब्रू + स्यति → ब्रुवो वचिः (२.४.५३) इत्यनेन ब्रुवो वचिरादेशो भवति आर्धधातुकविषये → वच्‌ + स्यति → चोः कुः (८.२.३०) इत्यनेन चवर्गस्य स्थाने कवर्गादेशो भवति झलि परे → वच्‌ + स्यति → वक्ष्यति


ब्रुवो वचिः (२.४.५३) = ब्रुवो वचिरादेशो भवति आर्धधातुकविषये | इकार उच्चारणार्थः | ब्रुवः षष्ठ्येकवचनं, वचिः प्रथमैकवचनं, द्विपदमिदं सूत्रम्‌ | आर्धधातुके (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— ब्रुवः वचिः आर्धधातुके |


ऋकारान्तधातवः


सामान्याः ऋकारान्तधातवः


अत्र गुणकार्यं भवति यथापेक्षितं, सार्वधातुकार्धधातुकयोः (७.३.८४) इति सूत्रेण | वृङ्‌, वृञ्‌ इति द्वौ धातू सेटौ; स्वृ-धातुः वेट्‌; एतान्‌ त्रीन्‌ धातून्‌ विहाय अन्ये सर्वे एकाचः ऋकारान्तधातवः अनिटः | परन्तु ऋद्धनोः स्ये (७.२.७०) इत्यनेन सर्वे ऋकारान्ताः धातवः, हन्‌-धातुः च स्यप्रत्यये सेटः भवन्ति | अनेन स्वृ-धातुः अपि सेट्‌ भवति | अतः अन्ततो गत्वा स्य-प्रत्यये परे सर्वे ऋकारान्ताः धतवः सेटः एव |


कृ + इष्यति → सार्वधातुकार्धधातुकयोः (७.३.८४) → कर्‌ + इष्यति → करिष्यति

धृ + इष्यति → सार्वधातुकार्धधातुकयोः (७.३.८४) →

भृ + इष्यति → सार्वधातुकार्धधातुकयोः (७.३.८४) →


ऋद्धनोः स्ये (७.२.७०) इत्यनेन ऋकारान्ताः धातवः, हन्‌-धातुः च स्यप्रत्यये सेटः भवन्ति | ऋकारान्तानां धातूनां हन्तेश्च स्य इडागमो भवति इति काशिकायाम्‌ | ऋतो हन्तेश्च स्यस्य इट् स्यात् इति सिद्धान्तकौमुद्याम्‌ | ऋत्‌ च हन्‌ च तयोरितरेतरद्वन्द्वः ऋद्धनौ, तयोः ऋद्धनोः (झलां जशोऽन्ते (८.२.३९), झयो होऽन्यतरस्याम्‌ (८.४.६२)) | ऋद्धनोः षष्ठ्यन्तं, पञ्चम्यर्थे षष्ठी; स्ये सप्तम्यन्तं, षष्ठ्यर्थे सप्तमी; द्विपदमिदं सूत्रम्‌ | आर्धधातुकस्येड् वलादेः (७.२.३५) इत्यस्मात्‌ इट्‌ इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— ऋद्धनोः अङ्गयोः (ऋद्धभ्यां अङ्गाभ्यां) स्ये (स्यस्य) इट्‌  |


वृङ्‌, वृञ्‌ इत्यनयोः विकल्पेन इटः दीर्घत्वम्‌


वॄतो वा (७.२.३८) इत्यनेन वृ-धातोः ॠकारान्तेभ्यश्च धातुभ्यः इटो वा दीर्घो भवति | ’वृ’ इत्यनेन वृङ्वृञोः सामान्येन ग्रहणम् |


वृङ्‌ + इष्यते → सार्वधातुकार्धधातुकयोः (७.३.८४) → वर्‌ + इष्यते → वॄतो वा (७.२.३८) इत्यनेन वृ-धातोः इटो वा दीर्घो भवति → वरिष्यते / वरीष्यते


वृञ्‌ + इष्यति/ते →


वॄतो वा (७.२.३८) = वृ-धातोः ॠकारान्तेभ्यश्च धातुभ्यः इटो वा दीर्घो भवति अलिटि | वृ इति वृङ्वृञोः सामान्येन ग्रहणं, तस्मादुत्तरस्य ॠकारान्तेभ्यश्चेटो वा दीर्घो भवति इति काशिकायाम्‌ | वृङ्वृञ्भ्यामॄदन्ताञ्चेटो दीर्घो वा स्यान्न तु लिटि इति सिद्धान्तकौमुद्याम्‌ | ’वृ’ इत्यनेन वृङ्वृञोः सामान्येन ग्रहणम् | वृश्च ॠच्च तयोः समाहारद्वन्द्वो वॄत्‌, तस्मात्‌ वॄतः | वॄतः पञ्चम्यन्तं, वा अव्ययं, द्विपदमिदं सूत्रम्‌ | आर्धधातुकस्येड् वलादेः (७.२.३५) इत्यस्मात्‌ विभक्तिपरिणामेन षष्ठ्यां इटः इत्यस्य अनुवृत्तिः | ग्रहोऽलिटि दीर्घः (७.२.३७) इत्यस्मात्‌ अलिटि, दीर्घः इत्यनयोः अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌—वॄतः अङ्गात्‌ इटः वा दीर्घः अलिटि |


ॠकारान्तधातवः


यथा अधीतवन्तः इडागमपाठे, सर्वे एकाचः ॠकारान्तधातवः सेटः | अतः सर्वत्र इडागमसहित-सिद्धतिङ्प्रत्ययाः संयोजनीयाः | अपि च गुणकार्यं भवति यथापेक्षितं, सार्वधातुकार्धधातुकयोः (७.३.८४) इति सूत्रेण | तदा यथा दृष्टम्‌ उपरि, वॄतो वा (७.२.३८) इत्यनेन सर्वेभ्यः ॠकारान्तेभ्यः धातुभ्यः विधीयमानानां सेट्‌-प्रत्ययानां विकल्पेन इडागमः विकल्पेन दीर्घो भवति |


तॄ + इष्यति → सार्वधातुकार्धधातुकयोः (७.३.८४) → तर्‌ + इष्यति → तरिष्यति → वॄतो वा (७.२.३८) इत्यनेन ॠकारान्तेभ्यश्च धातुभ्यः इटो वा दीर्घो भवति → तरीष्यति | तरिष्यति, तरीष्यति |


शॄ + इष्यति →

जॄ + इष्यति →

गॄ + इष्यति →


इति सर्वेषाम्‌ अजन्तधातूनां लृट-लकारस्य रूपसिद्धिः समाप्ता |


हलन्तधातूनां लृट्‌-लकार-रूपाणि


पुनस्स्मरणार्थम्‌ उच्यते यत्‌ अलोन्त्यात्पूर्व उपधा (१.१.६५) इत्यनेन कस्यचिदपि शब्दस्य अन्तिमात्‌ वर्णात्‌ पूर्वं यः वर्णः, तस्य वर्णस्य ’उपधा’ इति संज्ञा भवति | यस्य धातोः उपधायां लघु-अकारो भवति सः धातुः ’अदुपध-धातुः’ इत्युच्यते | यथा हन्‌-धातुः, गम्‌-धातुः इत्यादयः धातवः | यस्य धातोः उपधायां लघु-इकारो भवति सः धातुः ’इदुपध-धातुः’ इत्युच्यते | यथा भिद्‌, छिद्‌, चित्‌, लिख्‌ इत्यादयः धातवः | यस्य धातोः उपधायां लघु-उकारो भवति सः धातुः ’उदुपध-धातुः’ इत्युच्यते | यथा मुद्‌, क्षुद्‌, बुध्‌ इत्यादयः धातवः | यस्य धातोः उपधायां लघु-ऋकारो भवति सः धातुः ’ऋदुपध-धातुः’ इत्युच्यते | यथा वृष्‌, कृष्‌, मृष्‌ इत्यादयः धातवः |


२) भ्वादिगणात्‌ आरभ्य क्र्यादिगण-पर्यन्तं सर्वेषां वेटाम्‌ अनिटां च हलन्तधातूनां लृट्‌-लकारस्य रूपसिद्धिः


हलन्तधातवः आधिक्येन सेटः यथा जानीमः | हलन्तधातुषु १०२ धातवः अनिटः सन्ति; तेषां लृट्‌-लकाररूपाणि अधुना साधायिष्यामः | हलन्तधातुषु ३७ धातवः वेटः सन्ति | तेषु १४ धातवः ऊदितः, ८ धातवः रधादयः, अपि च एकः निर्‌-उपसर्गपूर्वकः कृष्‌-धातुः | एषामपि सर्वेषां वेटां धातूनां लृट्‌-लकाररूपाणि अधुना साधायिष्यामः |


मनसि भवेत्‌ यत्‌ अङ्गकार्याणि यदा समाप्तानि तदैव सन्धिकार्यं करणीयं भवति | अन्यच्च येषां धातूनाम्‌ उपधायां वर्गीय-अनुनासिकवर्णः (कस्यचित्‌ वर्गस्य पञ्चमसदस्यः) वर्तते, अङ्गकार्यात्‌ प्राक्‌ प्रथमं कार्यम्‌ अस्ति यत्‌ तस्य उपधावर्णस्य परिवर्तनं करणीयं, यथा भञ्ज्‌ + स्यति → भन्‌ज्‌ + स्यति, अञ्ज्‌ + स्यति → अन्‌ज्‌ + स्यति, सञ्ज्‌ + स्यति → सन्‌ज्‌ + स्यति |


कवर्गान्त-धातवः


धातोः अन्ते यः ककारः, खकारः, गकारः, घकारो भवति, तस्य ’स्यति’ इत्यस्य सकारस्य प्रभावेन खरि च (८.४.५५) इत्यनेन ककारादेशो भवति, चर्त्वसन्धिः इति यत्‌ उच्यते |


अत्र तादृशः एकः एव धातुः अस्ति—शक्‌-धातुः |


शक्‌ + स्यति → शक्‌ + ष्यति → शक्ष्यति


खरि च (८.४.५५) = झलः स्थाने चरादेशो भवति खरि परे | खरि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | झलां जश्‌ झशि (८.४.५३) इत्यस्मात्‌ झलां इत्यस्य अनुवृत्तिः; अभ्यासे चर्च (८.४.५४) इत्यस्मात्‌ चर् इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— झलां चर् खरि च संहितायाम् ‌|


चवर्गान्त-धातवः


तञ्चू-धातुः वेट्‌ अस्ति |


तञ्च्‌ + स्यति → तन्‌च्‌ + स्यति →  चोः कुः (८.२.३०) → नश्चापदान्तस्य झलि (८.३.२४) → अनुस्वारस्य ययि परसवर्णः (८.४.५८) → 


तञ्च्‌ + इष्यति →


चोः कुः (८.२.३०) = चवर्गस्य स्थाने कवर्गादेशो भवति झलि पदान्ते च | चोः षष्ठ्यन्तं, कुः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | झलो झलि (८.२.२६) इत्यस्मात्‌ झलि इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात्‌ अन्ते, च इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— चोः कुः झलि पदस्य अन्ते च |


नश्चापदान्तस्य झलि (८.३.२४) = अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति झलि परे | झल्‌-प्रत्याहारे वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णाः अपि च श्‌, ष्‌, स्‌, ह्‌ इति वर्णाः अन्तर्भूताः | पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तः तस्य अपदान्तस्य | नः षष्ठ्यन्तं, च अव्ययपदम्‌, अपदान्तस्य षष्ठ्यन्तं, झलि सप्तम्यन्तं, अनेकपदमिदं सूत्रम्‌ | मो‍ऽनुस्वारः (८.३.२३) इत्यस्मात्‌ मः, अनुस्वारः इत्यनयोः अनुवृत्तिः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अपदान्तस्य मः नः च अनुस्वारः झलि संहितायाम् |


अनुस्वारस्य ययि परसवर्णः (८.४.५८) = अनुस्वारस्य स्थाने परसवर्णादेशो भवति ययि परे | परस्य सवर्णः, परसवर्णः, षष्ठी तत्पुरुषः | अनुस्वारस्य षष्ठ्यन्तं, ययि सप्तम्यन्तं, परसवर्णः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | यय्‌-प्रत्याहारे श्‌, ष्‌, स्‌, ह्‌ एतान्‌ वर्जयित्वा सर्वे हल्‌-वर्णाः अन्तर्भूताः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अनुस्वारस्य परसवर्णः ययि संहितायाम् |