19 - लृट्-लकारः
लृट्-लकारः
प्रक्रिया-चिन्तनम्
आर्धधातुकप्रक्रियायाः आरम्भे अनिडादि-प्रत्ययाः परिशीलिताः—णिच्, यक्, यासुट्, यङ्लुक्, यङ्, ल्यप् | अनेन सौकर्यम् आसीत् यतोहि कुत्रापि इडागम-चिन्तनं नापेक्षितम् | यत्र यत्र कार्यसाम्यं वर्तते तत्र तत्र समूहीकृत्य एकत्र पाठः क्रियते चेत् लाभाय इति मातुः सिद्धान्तः | अनिडादि-प्रत्ययान् परिसमाप्य इडागमपाठः आरब्धः | अनेन अधुना सर्वे जानन्ति के-के धातवः सामान्यतया सेटः, के च अनिटः | अग्रे गत्वा द्रक्ष्यामः यत् इडागमापवादाः सन्ति—किन्तु प्रथमतया सामान्यं ज्ञातव्यम् आसीत्, तदा तदाधारेण अपवादानां ग्रहणसामर्थ्यं जायते | अधुना च तादृशं ग्रहणसामर्थ्यम् आगतमस्ति अस्माकम् | तर्हि अग्रे इडानुकूलप्रत्ययाः परिशीलनीयाः, समूहरूपेण | कीदृशसमूहः ? कार्यस्य आधारेण | प्रत्ययस्य प्रथमवर्णम् अधिकृत्य समूहीकरणं भवति यतः तमेव वर्णम् अनुसृत्य कार्यं भवति | अङ्गकार्यं च सन्धिकार्यं च प्रत्ययस्य प्रथमवर्णसम्बद्धं च भवति |
येषां इडानुकूलप्रत्ययानाम् आरम्भे तकारः वर्तते अपि च ये अकितः सन्ति, ते एकत्र एकः समूहः भवन्ति—तास्, तव्यत्, तुमुन्, तृच् | एते चत्वारः तकारादि-अकित्-प्रत्ययाः | स्यतासी लृ-लुटोः (३.१.३३) इत्यनेन लुटि परे धातुतः तास्-प्रत्ययः भवति | धातुभ्यः विधीयमानः तास् न तिङ् न वा शित् इति कृत्वा आर्धधातुकसंज्ञकः; वलादिः इति कृत्वा इडनुकूलः | तदा पश्यामः यत् तव्यत्, तुमुन्, तृच् अपि तथैव सन्ति | एते त्रयः प्रत्ययाः न तिङ् न वा शित् इति कृत्वा आर्धधातुकसंज्ञकाः; वलादयः च वशादयः न इति कृत्वा इडनुकूलाः | अधुना अत्र पुनः इतोऽपि सादृश्यं वर्तते यतोहि तास्-प्रत्ययः तकारादिः, एते त्रयः तव्यत्, तुमुन्, तृच् अपि तकारादयः | अस्य सर्वस्य दर्शनेन अवगच्छामः यत् लुट्-लकारप्रक्रियायां यादृशम् अङ्गकार्यं सन्धिकार्यं च भवति, तादृशमेव अङ्गकार्यं सन्धिकार्यं च भवति एतेषु त्रिषु प्रत्ययेषु अपि | पुनः एतेषु त्रिषु प्रक्रियासाम्यं बहु अधिकम् अस्ति इत्यतः एतेषां त्रयाणां तकारादिकृत्प्रत्ययानां चिन्तनं मिलित्वा कृतम् |
तर्हि अग्रे किमर्थं क्त्वा, क्तवतु, क्त, क्तिन् इति प्रसिद्ध-तकारादि-प्रत्ययाः अस्मिन् पाठसमूहे सम्मिलिताः न सन्ति ? कारणमस्ति यत् एतेषां चतुर्णाम् इडागमविशेषाः अनेके सन्ति | तास्, तव्यत्, तुमुन्, तृच् इत्येषु विशिष्ट-इडागमसूत्राणि अतीव न्यूनानि सन्ति | अतः ये इडागमसम्बद्ध-सामान्यनियमाः अस्माभिः अधीताः ते सर्वे सङ्गच्छन्ते अस्मिन् पाठे | अपवादाः न्यूनाः एव दृश्यन्ते | परञ्च क्त्वा, क्तवतु, क्त, क्तिन् इत्येषां प्रत्ययानां कृते अनेकानि विशिष्ट-इडागमसूत्राणि सन्ति, तदर्थम् एषां पाठः पृथक् भवति | क्तवतु, क्त इत्यनयोः इडागमव्यवस्था समाना अतः एकत्र तयोः पाठः भविष्यति | परन्तु क्त्वा पृथक्तया करिष्यते, पुनः क्तिन् पृथक्तया करिष्यते |
एतावता सामान्यतकारादि-अकित्-प्रत्ययानां पाठः समाप्तः | अधुना नूतनपाठसमूहः आरभ्यमाणः—इडनुकूल-सकारादि-अर्धधातुक-अकित्-प्रत्ययाः सम्मिलितरूपेण क्रमेण पठिष्यन्ते | ते एते सन्ति—स्य (लृट्, लृङ्), सिप् (लेट्), सीयुट् (आत्मनेपदि आशीर्लिङ्), सन् (सन्नन्तधातवः) | अनन्तरं सिच् (लुङ्), लिट्, नामधातवः च, एते पृथक्तया करिष्यन्ते | लुङ्-लकारस्य सिच्-प्रत्ययः पृथक् अस्ति यतोहि लुङ्-लकारे अनेके प्रत्ययाः सन्ति, एषां प्रत्ययानां प्रसङ्गे सिच् करिष्यते |
लृटः परिचयः
तर्हि अधुना, अस्मिन् पाठे स्य-प्रत्ययं स्वीकुर्मः | अस्मिन् पाठे लृट्-लकारस्य स्य-प्रत्ययः अवलोक्यते, तदा अग्रिमे पाठे लृङ्-लकारः स्वीकरिष्यते | लृट्-लकारः सामान्य-भविष्यत्कालः इत्युच्यते | अस्य तात्पर्यम् एवं यत् सर्वत्र भविष्यत्कालार्थे लृट्-लकारः व्यवह्रियते, अपवादभूतव्यवहारः तस्य स्थाने न भवति चेत् | अपवादस्तु अत्र लुट्-लकारः | तर्हि सामान्यस्य व्यवहारः कुत्र इत्यस्य बोधनार्थम् अपवादस्य व्यवहारः कुत्र भवति इति बोध्यम्—तद्विहाय अवशिष्टं सर्वं सामान्यमिति |
प्रथमतया लृट्-लकारस्य विधायकं सूत्रम् अवलोकयाम—
लृट् शेषे च (३.३.१३) = सामान्य-भविष्यत्कालार्थे धातोः लृट्-लकारः भवति, उपपदरूपेण अन्या क्रिया भवति चेदपि, न भवति चेदपि | भविष्यदर्थाद्धातोर्लृट् स्यात् क्रियार्थायां क्रियायां सत्यामसत्यां वा (इति लघुसिद्धान्तकौमुदी) | लृट् प्रथमान्तं, शेषे सप्तम्यन्तं, च अव्ययपदं, त्रिपदमिदं सूत्रम् | भविष्यति गम्यादयः (३.३.३) इत्यस्मात् भविष्यति इत्यस्य अनुवृत्तिः | तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् (३.३.१०) इत्यस्मात् क्रियायाम्, क्रियार्थायाम् इत्यनयोः अनुवृत्तिः | धातोः (३.१.९१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्—भविष्यति क्रियार्थायां क्रियायां धातोः लृट् शेषे च |
अत्र अनुवृत्ति-सहितसूत्रे ’भविष्यति’ इत्यनेन भविष्यत्कालार्थे | ’क्रियार्थायां क्रियायाम्’ इत्यनेन विशिष्टपरिस्थिति वर्तते यस्मिन् द्वितीया क्रिया साहाय्यकरूपेण कार्यं करोति | यत्र यत्र तादृशी द्वितीया क्रिया नास्ति, लृट्-लकारे एव एका क्रिया अस्ति, तत्र शेषे इत्युक्तम् | “क्रियार्थायां क्रियायां” इत्यस्य प्रसङ्गे ’उपपद’ इत्यपि शब्दः प्रयुक्तः | “क्रियार्थायां क्रियायाम्”, ’उपपद’ इत्यनयोः अवगमनार्थं तुमुन्-ण्वुल् इति प्रत्यययोः विधायकं सूत्रम् अवलोकयामः | तुमुन्-प्रत्ययस्य पाठे इदं सूत्रं पठितवन्तः, पुनश्च परिशीलयामः यतोहि अत्रैव एषां पारिभाषिकशब्दानां मूलव्यहारः कृतः—
“क्रियार्थायां क्रियायाम्” इत्यस्य परिचयः तुमुन्-प्रत्ययस्य माध्यमेन
तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् (३.३.१०) = एकस्याः क्रियायाः साधनार्थम् अपरस्यां क्रियायाम् उपपदे सति भविष्यदर्थे प्रथमायाः (क्रियायाः) धातुतः तुमुन् च ण्वुल् च प्रत्ययौ भवतः | क्रियार्थायां क्रियायामुपपदे धातोर्भविष्यति काले तुमुन्ण्वुलौ प्रत्ययौ भवतः इति काशिका | अत्र इमौ द्वौ प्रत्ययौ तुमुन् ण्वुल् भविष्यत्यर्थे; तुमुन् भावार्थे, ण्वुल् च कर्त्रर्थे | तत्रोपपदं सप्तमीस्थम् (३.१.९२) इत्यनेन ’क्रियायां क्रियार्थायाम्’ उपपदसप्तमीविभक्तौ स्तः | ’पठितुं गच्छति’ इत्यस्मिन् पठनक्रियायाः साधनार्थं गमनक्रिया वर्तते | पठनम् अस्ति प्रयोजनं, नाम लक्ष्यं; गमनम् अस्ति साधनम् | पठनम् इति क्रियायाः कृते गमनम् इति क्रिया वर्तते इति कृत्वा गमन-क्रिया अस्ति “क्रियार्था क्रिया” | एतदर्थं गमनक्रियायाः ’उपपद’ संज्ञा भवति | तुमुन् च ण्वुल् च तयोरितरेतरद्वन्दः तुमुन्ण्वुलौ | क्रिया अर्थः प्रयोजनं यस्याः सा क्रियार्था, तस्यां क्रियार्थायां, बहुव्रीहिः | तुमुन्ण्वुलौ प्रथमान्तं, क्रियायां सप्तम्यन्तं, क्रियार्थायां सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | भविष्यति गम्यादयः (३.३.३) इत्यस्मात् भविष्यति इत्यस्य अनुवृत्तिः | प्रत्ययः (३.१.१), परश्च (३.१.२), धातोः (३.१.९१) इत्येषाम् अधिकारः | अनुवृत्ति-सहितसूत्रम्—धातोः तुमुन्ण्वुलौ प्रययौ परश्च भविष्यति क्रियार्थायां क्रियायाम् |
तत्रोपपदं सप्तमीस्थम् (३.१.९२) = धातोः (३.१.९१) इति सूत्रस्य अधिकारे विद्यमानेषु सूत्रेषु यः शब्दः सप्तमीविभक्त्याम् अस्ति, तेन निर्दिष्टं पदम् उपपद-संज्ञकं भवति | एतेषु सूत्रेषु सप्तमीविभक्त्याः अर्थः अस्ति उपपदसप्तमी; तेषु ’तत्र’ इत्यपि अन्वेति ‘सति सप्तमी’ इति अर्थे | यत् सूत्रं धातोः (३.१.९१) इति सूत्रस्य अधिकारे अस्ति (इत्युक्ते तृतीयाध्यायस्य अन्तपर्यन्तम्), सप्तमीविभक्त्या निर्दिष्टपदस्य उपपदसंज्ञा भवति, अपि च ’तत्र’ इत्यनेन ’तस्मिन् उपपदसंज्ञकपदे सति’ (नाम तस्य उपस्थितौ) तेन सूत्रेण यः प्रत्ययः विधातव्यः, स च प्रत्ययः अस्य उपपदसंज्ञकपदबलेन विधीयते | तस्मिंश्च सत्येव वक्ष्यमाण: प्रत्ययः स्यात् |
यथा तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् (३.३.१०) इति सूत्रे निर्दिष्टपदस्य उपपदसंज्ञा भवति, अपि च तादृशपदस्य उपस्थितौ एव विहितं कार्यं विधीयते | नाम अनेन सूत्रेण ’भोक्तुं व्रजति’ इति निदर्शने, “क्रियायां क्रियार्थायाम्” इत्यनेन (तत्रोपपदं सप्तमीस्थम् (३.१.९२) इत्यस्य साहाय्येन) (१) ’व्रजति’ इत्यस्य उपपदसंज्ञा भवति, अपि च (२) ’यदा’ इयं व्रजन-क्रिया अस्ति, ’तदा’ भुज्-धातुतः तुमुन्-प्रत्ययः विधीयते | अतः उपपदसप्तमी अपि अस्ति, सति सप्तमी अपि अस्ति |
कस्याः अपि क्रियायाः साधनार्थं यदा द्वितीया क्रिया उपयुज्यते, सा द्वितीया क्रिया ’क्रियार्था क्रिया’ इत्युच्यते | यथा ’भोक्तुं गच्छति’ इत्यस्मिन् भोजनक्रियायाः साधनार्थं गमनक्रिया उपयुज्यते, अतः गमनक्रिया ’क्रियार्था क्रिया’ | तस्याः च गमनक्रियायाः उपपदसंज्ञा भवति | तत्र प्रथमा क्रिया भविष्यत्-काले अस्ति यतोहि एतावता सा क्रिया न आरब्धा | अत्र भोजनक्रिया नारब्धा अतः सा भविष्यत्-काले अस्ति | यदा एका क्रिया न आरब्धा, नाम भविष्यत्-काले अस्ति, अपि च तस्याः साधनार्थम् एका द्वितीया क्रिया उपयुज्यते, तस्यां दशायां प्रथमक्रियायाः व्यक्तीकरणार्थं यः धातुः अस्ति, तस्मात् धातोः तुमुन् च ण्वुल् च भवतः | निदर्शनार्थं ’भोक्तुं व्रजति’ इत्यस्मिन् तुमुन्-प्रत्ययः विहितः; ’भोजको व्रजति’ इत्यस्मिन् ण्वुल्-प्रतययः विहितः | किन्तु उभयत्र अर्थः भिन्नः—तुमुन्-प्रत्ययः भावार्थे, ण्वुल्-प्रत्ययः कर्त्रर्थे | तर्हि एवमस्ति चेत्, ण्वुल्तृचौ (३.१.१३३) इत्यनेन ण्वुल्-प्रत्ययः विधीयते एव; पुनः कर्त्रर्थे ण्वुल्-प्रत्ययः अपरेण सूत्रेण किमर्थम् ? इति चेत्, अत्र “यः करोति सः” इति अर्थः अस्त्येव, किन्तु भविष्यति | ’भोजको व्रजति’ इत्युक्ते गच्छति, गत्वा च खादकः भविष्यति (अधुना खादकः नास्ति) | अतः तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् (३.३.१०) इति सूत्रेण भविष्यत्कालार्थे ण्वुल्-प्रत्ययः विधीयते | इदमपि बोध्यं यत् भविष्यत्कालार्थे अयं ण्वुल्-प्रत्ययः अव्ययं नास्ति; त्रिषु लिङ्गेषु भवति—भोजकः, भोजिका, भोजकम् | तर्हि अयं ण्वुल्-प्रत्ययः भविष्यत्कालार्थे, किन्तु ण्वुल्तृचौ (३.१.१३३) इत्यनेन त्रिषु कालेषु भवति |
“क्रियार्थायां क्रियायां” लृट्-लकारे
तर्हि अधुना लृट् शेषे च (३.३.१३) इत्यस्य प्रसङ्गे “क्रियार्थायां क्रियायाम्”, ’उपपद’ इत्यनयोः व्यवहारः कथमस्ति इति परिशीलयितुं सिद्धाः वयम् | क्रियार्थायां क्रियायामुपपदे धातोर्भविष्यति काले लृट्-लकारः भवति | तुमुन्-प्रत्ययस्य प्रसङ्गे ’भोक्तुं व्रजति’ इति निदर्शनं दत्तम् | तत्र ’भोक्तुं’ भविष्यत्कालार्थे अस्ति, अपि च ’व्रजति’ क्रियार्थायां क्रियायामुपपदे अस्ति | एवमेव लृट्-लकारे भविति—’भोक्ष्यति इति व्रजति’ | अर्थः अस्ति यत् कोऽपि गच्छति येन खादितुं शक्नुयात् | एतावता न खादति; गत्वा खादिष्यति | श्यामः भोक्ष्यति इति गृहं गच्छति | अस्मिन्नेवार्थे श्यामः भोक्तुं गृहं गच्छति | अत्र मुख्या क्रिया अस्ति भोजनक्रिया—भोक्ष्यति इति | यत्र एकां क्रियां कर्तुम् द्वितीया क्रिया क्रियते, तत्र या क्रिया मुख्या अस्ति तस्याः निर्देशं कर्तुं लृट्-लकारः उपयुज्यते | यदि श्यामः भोजनक्रियार्थं गृहं गच्छति, तर्हि अत्र 'भोजनक्रिया' मुख्या अस्ति, अपि च गमनक्रिया 'क्रियार्था क्रिया' अस्ति | भोजनक्रियार्थं गमनक्रिया कृता, अतः 'क्रियार्था क्रिया' इत्युक्तम् |
लृट् “शेषे च”
लृट् शेषे च (३.३.१३) इत्यस्य अनुवृत्ति-सहितसूत्रम् अस्ति—भविष्यति क्रियार्थायां क्रियायां धातोः लृट् शेषे च | तर्हि भविष्यत्कालार्थे क्रियार्थायां क्रियायां धातोः लृट् भवति इति अधुना परिशीलितम् | तदा ’शेषे च’ | अनेन यत्र क्रियार्थायां क्रिया नास्ति, अन्यत्र सर्वत्र सामान्य-भविष्यत्कालार्थे लृट्-लकारप्रयोगः ’शेषे च’ इति अन्तरगतम् अस्ति | यथा “पिता कार्यं करिष्यति” | “मम मित्रं पत्रिकायां लेखं लेखिष्यति” | यत्र कुत्रापि सामान्य-भविष्यत्कालार्थे लृटः व्यवहारः भवति, क्रियार्थायां क्रियां विहाय, ’शेषे च’ इत्यनेन विधीयते |
सामान्य-भविष्यत्कालः इति अर्थः
अधुना सामान्य-भविष्यत्कालः इति विषयः | उक्तम् आसीत् यत् लृट्-लकारः “सामान्य-भविष्यत्काले” भवति | तत् कुत्र कुत्र भवति इति बोध्यम् अस्माभिः | भविष्यत्कालार्थे लृट्-लकारः सर्वत्र व्यवह्रियते, अपवादभूतव्यवहारः तस्य स्थाने न भवति चेत् | अपवादस्तु अत्र लुट्-लकारः | तर्हि सामान्यस्य व्यवहारः कुत्र इत्यस्य बोधनार्थम् अपवादस्य व्यवहारः कुत्र भवति इति बोध्यम्—तद्विहाय अवशिष्टं सर्वं सामान्यमिति |
अपवादभूत लुट्-लकारः
पूर्वमेव लुट्-लकारः परिशीलितः अस्माभिः | गतरात्रेः अन्तिमप्रहरात् आगम्यमानरात्रेः प्रथमप्रहरपर्यन्तम् अद्यतनकालः इत्युच्यते | न विद्यते अद्यतनं यस्मिन् अनद्यतनम् | अनद्यतनभविष्यत्कालस्य विवक्षायां धातुभ्यः लुट्-लकारो विधीयते | यथा 'श्वः देवदत्तः कर्ता' | 'देवदत्तः श्वः भोक्ता' |
प्रहराणां पुनस्स्मरणम्—एकस्मिन् तिथौ अष्टौ प्रहराः वर्तन्ते | एषु चत्वारः प्रहराः दिनस्य, चत्वारः च रात्रेः | प्रथमप्रहरः आरभ्यते सूर्योदयसमये | तर्हि षड्वादने प्रथमप्रहरस्य आरम्भः इति चेत्, प्रातःकालस्य षड्वादनात् सयङ्कालपर्यन्तम् दिनस्य प्रहराः | उक्तं यत् गतरात्रेः अन्तिमप्रहरात् आगम्यमानरात्रेः प्रथमप्रहरपर्यन्तम् अद्यतनकालः | गतरात्रेः अन्तिमप्रहरः रात्रौ त्रिवादनात् षड्वादनपर्यन्तम् | आगम्यमानरात्रेः प्रथमप्रहरः इत्युक्ते सायङ्कालस्य षड्वादनात् नववादनपर्यन्तम् | अतः अद्यतनकालः इत्यस्मिन् आहत्य षड्प्रहराः सन्ति | रात्रिवेलायां त्रिवादनात् आरभ्य आगम्यमानरात्रेः नववादनपर्यन्तम् |
अनद्यतने लुट् (३.३.१५) इत्यस्य प्रसङ्गे काशिकायां दत्तमस्ति—"भविष्यति इत्येव | भविष्यदनद्यतनेऽर्थे वर्तमानाद् धातोः लुट् प्रत्ययो भवति | लृटोऽपवादः| श्वः कर्ता| श्वो भोक्ता |“ अनद्यतने इत्युक्ते 'श्वोभावी' | भविष्यत्सामान्यम् इति नास्ति, केवलं श्वः-कालिकभविष्यत्त्वम् | एतदेव अनद्यतनम् इति भाष्यमतम् | लुट्-लकारस्य पाठे अस्माभिः दृष्टं यत् यदि भविष्यत्सामान्यं सर्वम् अनद्यतनशब्देन गृह्येत, तर्हि लृट्-लकारस्य ’सामान्य’ इति व्यवहारे किमपि स्थानं न तिष्ठेत् | अद्यतनस्य निषेधं करोति इत्युक्ते अद्यतनकालेऽपि भावी वर्तते इति कृत्वा अद्यतनभविष्यत्कालस्य प्रतिषेधं करोति | कथनस्य आशयः एवं यत् अद्यतनभविष्यत्कालस्य समीपकालः एव अनद्यतनकालः इति विवक्षितम् | नाम अद्यतनभविष्यद्भिन्नः अद्यतनभविष्यत्सदृशः | यथा 'अनश्वम् आनय' इति आदेशः प्राप्यते चेत् कश्चित् पक्षी आनीयते किम् ? न, पक्षी नानीयते | अश्वभिन्नः अश्वसदृशः चतुष्पादः पशुविशेषः आनेतव्यः | एवमेव अद्यतनभिन्नः इत्युक्ते अद्यतनभविष्यत्कालस्य निषेधम् इत्यस्य कथनेन अद्यतनभविष्यत्कालसमीपभविष्यत्कालः एव अनद्यतनशब्देन विवक्षणीयः | निषेधः इत्युक्ते अद्यतनभविष्यद्भिन्नत्वे सति अद्यतनभविष्यत्सदृशकालः | अनेन अनद्यतनभविष्यत्कालः नाम श्वः एव | “अद्य भवति, श्वो भविता" | इति भाष्यकारमतम् |
तदा लोके तु अयं नियमः 'लुट्-लकारः श्वः एव' इति तु अनुस्रियमाणः न इति कारणतः नागेशेन समाधानं कल्पितं यत् अत्यन्तविलम्बितभविष्यत्यपि श्वोभावित्वम् | यथा निश्चितविवाहः यदा यदा समीपे भविष्यति, तदानीं किं भवति ? तद्विषयकचिन्तनं यदा अतिशयेन क्रियते तदानीं कालः न गच्छन्नेव भाति | अतः श्वोभावी अपि अतीव विलम्बितभावी इतिवत् भासते कदाचित् | अनेन अत्यन्तदूरभावी अपि श्वोभावी इत्यपि कदाचित् भवितुमर्हति, भावनया | लोकेऽपि ईदृशः अनुभवः व्यवहारश्च वर्तते | चिरभाविन्यपि श्वोभावित्वम् | तर्हि अनेन समाधानं नागेशेन उक्तं, विशिष्टस्थितिषु | आहत्य 'अनद्यतन' इति श्वस्तन्याः एव संज्ञा | परञ्च लोके तद्विहायोपि प्रयोगः भवति इति दृष्ट्वा नागेशः मध्यमार्गं दत्तवान् |
लृटः व्यवहारः कुत्र ?
अधुना प्रश्नः अस्ति यत् लृटः स्थानं किम् ? 'अनद्यतन'-शब्दस्य अर्थः कः, भाष्यकारस्य शिक्षा श्वोभावी, नागेशस्य च चिन्तनं यत् अनद्यतने लुटि श्वोभावश्च सम्भवति | अधुनापि मनसि जिज्ञासा वर्तते यत् लृटोऽपवादः इत्यस्य कथनेन 'अपवाद'-शब्दस्य कोऽर्थः ? व्याकरणे, यः अपवादभूतः तस्य एव प्राप्तिः न तु अन्यस्य | अनेन लृटः स्थानं किम् अपि च केन तर्केण ? अपि च भाष्यकारस्य मतमनुसृत्य लुट्-लकारस्य क्षेत्रं श्वः एव इति चेत्, "अग्रिमे सप्ताहे/मासे/वर्षे" इति कस्य लकारस्य क्षेत्रम् ?
लृटोऽपवादः इत्यनेन लुट्-लकारः लृटः अपवादः एव | नाम भविष्यत्सामान्ये विहितः लृट्; अनद्यतनभविष्यद्विशेषे अर्थात् श्वोभाविरूपभविष्यद्विशेषे अयं लुट्-लकारः विधीयते इति हेतोः येन नाप्राप्ते यो विधिरारभ्यते स तस्य बाधको भवति इति न्यायेन एकः अपरस्य अपवादः | यत्कर्तृकः अवश्यप्राप्तौ सत्यां, नाम यः विधिः अवश्यं प्राप्नोति, एवम् अस्मिन् विधौ प्राप्ते सति पुनः अन्यः विधिः आरभ्यते चेत्, स च पुनः आरभ्यमाणः विधिः अवश्यप्राप्तविधिं बाधते | प्रकृतौ भविष्यत्सामान्ये विहितः लृट् इति कृत्वा लृटः अवश्यप्राप्तिरस्ति | श्वोभविष्यत्यपि भविष्यदेव, एवं तद्भिन्नं भविष्यत्सामान्यमपि भविष्यदेव | अतः भविष्यत्वनिमित्तकतया लृट्-लकारः प्राप्नोति | येन नाप्राप्ते यत्कर्तृक-अवश्यप्राप्तौ सत्यां, लृट्कर्तृक-अवश्यप्राप्तौ सत्यां यो विधिरारभ्यते, लुट्-विधिरारभ्यते, अयं लुड्विधिः तस्य, नाम लृटः, लृट्-विधेः बाधकः भवति | अतः "श्वः गमिष्यामि" इति तु न भवतीत्येव |
लृट् भवति कुत्र ? काशिकायाम् ‘अनद्यतने' इति बहुव्रीहिः इति यदा उक्तं तदानीं व्यामिश्रे लुट् न भवति | विग्रहवाक्यम् अस्ति 'अविद्यमानः अद्यतनः यस्मिन् सः'| अद्यतन-अनद्यतनभविष्यतोः संयोगः यत्र भवति तत्र व्यामिश्रः | तत्पुरुषः उच्यते चेत्, विग्रहवाक्यम् अस्ति ‘न अद्यतनः' इत्युक्ते अद्यतनमात्रं न, किन्तु अन्यः अपि भवितुमर्हति | अद्यतनभेदः अद्यतन-अनद्यतनव्यामिश्रे अपि अस्ति | अतः तत्पुरुषः अस्ति चेत्, व्यामिश्रे अपि भवति | इत्युक्ते अद्यतनकालः अस्ति चेत्, एवम् अनद्यतनकालः अस्ति चेत्, नाम अद्यतन-अनद्यतनव्यामिश्रः अस्ति चेत्, तदानीं सः केवलम् अद्यतनः न, अनद्यतनः अपि अस्ति | अतः अद्यतनभेदः अस्ति | अद्यतनभिन्नत्वे सति तत्रापि (व्यामिश्रे) लुट्-लकारः स्यात् | तस्य निवारणार्थं बहुव्रीहिसमासः—'अविद्यमानः अद्यतनः यस्मिन् सः' इत्यनेन अद्यतनस्य निषेधः एव उच्यते | अनेन व्यामिश्रः न सम्भवति | यदा अद्यतनकालश्च अनद्यतनकालश्च इति अवधिद्वयं विवक्षायाम् अन्तर्भूतं, तदा लृट्-लकारः उपयुज्यते— 'अद्य वा श्वः देवदत्तः करिष्यति’; 'अद्य वा श्वः वा देवदत्तः खादिष्यति' इति |
अद्यतनभविष्यत्-अनद्यतनभविष्यतोः उभयोरपि प्राप्तौ तदानीं लुट् न भवति | यत्र अद्यतनभविष्यत्-अनद्यतनभविष्यतोः मिश्रणम् अस्ति तत्र लृट् | अपि च श्वोभिन्नभविष्यत्कालेऽपि भवति लृट् | परश्वः आरभ्य लृट्-लकारः एव भवति | लुट्-लकारः श्वोभाविन्येव भवति | नागेशस्य कथनमस्ति यत् तद्भिन्नभविष्यत्काले अपि भवितुमर्हति आरोपात् | वस्तुतः परश्वोभावी कालः अस्ति चेत् लुट्-लकारः न प्राप्नोति | किन्तु तादृशे काले अपि श्वोभावित्वम् आरोप्यते, नाम परश्वोभाविनि काले श्वोभावी कालः आरोप्यते अतः कथञ्चित् भावनया तादृशानां प्रयोगाणां समर्थनं कृतम् अस्ति | नो चेत् भाष्यकारस्य मतम् अस्ति यत् लुट्-लकारः नाम केवलं श्वः | परश्वः, अग्रिमे सप्ताहे, अग्रिमे मासे, अग्रिमे वर्षे च लृट्-लकारः | अद्य च परश्वः आरभ्य लृट्-लकारः |
तर्हि एतावता उक्तं यत् 'अनद्यतन' इत्यस्य कथनेन 'अद्यतनस्य निषेधः' नाम 'अद्यतनसमीपकालः' एव सूत्रकारैः विवक्षितः | किन्तु वस्तुतस्तु अयं शब्दः 'अद्यतन' किञ्चित् रहस्यजनकः | एकः प्रश्नः उदेति यत् शास्त्रकारैः 'अनद्यतन' इति एव उक्तं; "श्वः एव”, ‘श्वस्तन' इति वक्तुं शक्तवान् किन्तु नोक्तम् | किमर्थं साक्षात् नोक्तवान् ? उत्तरत्वेन उच्यते यत् सूत्रकारः ज्ञात्वा साङ्केतिकरीत्या उक्तवान् एवम् इच्छन् यत् जनाः चिन्तयेयुः |
अतः वयम् अनुमानं कृत्वा भावयामः यत् अर्थः एतादृशः स्यात् | नो चेत् अद्य अपि बहवः एतादृशजनाः सन्ति ये चिन्तयन्ति यत् 'अनद्यतन' इत्युक्ते "अद्य त्यक्त्वा अग्रे गत्वा यावत् अस्ति तावत् सर्वम्" | किन्तु तथा सूत्रकारस्य आशयः न स्यात् | अद्यतनं त्यक्त्वा सर्वोऽपि अनद्यतनः भवति चेत्, पुनः भविष्यत्सामान्ये लृट्-लकारः इति कथं वा 'सामान्यम्' वदेम ? अपि च भविष्यत्सामान्ये लृट्-लकारः, अनद्यतने भविष्यत् लुट्-लकारः इति भेदं किमर्थं वक्ष्यति सूत्रकारः ? स्वारस्यम् अत्र नास्ति | नाम "भवान् आगच्छतु, किन्तु अद्य न" इति यदा उच्यते तदा तस्य आशयः अद्यतनभिन्नश्वोभावी इति समीपे एव | दशानां वर्षाणाम् अनन्तरम् इति नार्थः | अद्यतनस्य प्रतिषेधात् अयं समीपकालः इति अर्थः ग्रहीतुं युज्यते इति प्रतिभाति | आहत्य लुट्-लकारस्य व्यवहारः अतीव विशिष्टः न तु लृट्-लकारस्य | लृट्-लकारः सामान्यं न तु लुट्-लकारः | 'अनद्यतन' इत्यनेन "अद्य त्यक्त्वा अग्रे गत्वा यावत् अस्ति सर्वम्" इति स्वीक्रियते चेत्, लुट्-लकारः एव सामान्यं भवति | किन्तु लुट्-लकारः एव विशिष्टः | प्रत्येकं भाषायाम् एकः विशिष्टः व्यवहारः भवति "quite recently completed actions”, अपि च "that which is very soon to take place” इत्यर्थम् | संस्कृतभाषायां तदेव 'अनद्यतन' इत्यनेन उक्तं, नाम अनद्यतनभूते लङ्-लकारः, अनद्यतनभविष्यति लुट्-लकारश्च | एवं कृत्वा "recently finished actions”, “about to come future actions” | यत् ह्यः जातं तदर्थं लङ्-लकारः, यत् श्वः जायमानमस्ति तदर्थं लुट्-लकारः | अथवा यत्र तादृशभावः अध्यारोपितः वर्तते, यथा निश्चितविवाहे |
अन्ततो गत्वा इतोऽपि एका वार्ता अस्ति यत् भूतकाले परोक्ष-अपरोक्ष इति तत्त्वं वर्तते; भविष्यत्काले तादृशं किमपि नास्ति यतोहि भविष्यति सर्वमपि परोक्षमस्ति ।
सारांशत्वेन अस्माकं शुकवनम् महोदयः एतत् कोष्ठकं निर्मितवान्—
कैश्चित् विशिष्टविधिसूत्रैः अपि अर्थविशेषे लृट्-लकारः विधीयते ।
अभिज्ञावचने लृट् (३.२.११२) = स्मृतिबोधक-उपपदे सति भूत-अनद्यतनकाले धातोः लृट्-लकारः भवति | स्मृतिबोधिन्युपपदे भूतानद्यतने धातोर्लृट् स्यात् इति सिद्धान्तकौमुद्याम् | स्मरणार्थे उपपदसज्ञकशब्दे सति अनद्यन्तभूतकालार्थे लृट्-लकारः भवति | लङः अपवादः | अभिज्ञा स्मृतिः, सा उच्यतेऽनेनेति अभिज्ञावचनं तस्मिन् | सूत्रे ’वचन’ शब्दस्य अर्थः एवं यत् अभिज्ञा इति पदमेव भवेत् इति न; स्मृत्यर्थे यत् किमपि पदं भवितुम् अर्हति—स्मरसि, बुध्यसे, चेतयसे इत्यादीनि पदानि सम्भवन्ति | निदर्शने “अभिजानासि देवदत्त कश्मीरेषु वत्स्यामः” | “देवदत्त, भवतः मनसि स्यात् यत् वयं कश्मीरे वसामः स्म” इत्यर्थः | अभिज्ञावचने सप्तम्यन्तं, लृट् प्रथमान्तं, द्विपदमिदं सूत्रम् | अनद्यतने लङ् (३.२.१११) इत्यस्मात् अनद्यतने इत्यस्य अनुवृत्तिः | प्रत्ययः (३.१.१), परश्च (३.१.२), धातोः (३.१.९१), भूते (३.२.८४) इत्येषाम् अधिकारः | अनुवृत्ति-सहितसूत्रम्—अभिज्ञावचने अनद्यतने भूते धातोः लृट् प्रत्ययः परश्च |
न यदि (३.२.११३) = यद्-शब्दस्य योगे स्मृतिबोधकपदस्य सामीप्ये सत्यपि भूतानद्यतनार्थे लृट्-लकारो न भवति | उपपदसज्ञकस्मृत्यर्थकपदे सत्यपि यत् इति अव्ययपदं तस्मिन् वाक्ये उपयुज्यते चेत् लृट्-लकारः न विधीयते | अभिज्ञावचने लृट् (३.२.११२) इत्यस्य निषेधकसूत्रम् | एकवारं यदा अभिज्ञावचने लृट् (३.२.११२) इति सूत्रं निषिद्धं, तदा सामान्यसूत्रम् अनद्यतने लङ् (३.२.१११) इत्यनेन लङ्-लकारः विधीयते | यथा “अभिजानासि कृष्ण यद्वने अभुञ्ज्महि” इति | स्मरसि कृष्ण यत् वने वयम् अखादाम | लृट्-लकारः भवति स्म, किन्तु यत् इति पदं यदा उपयुक्तं तदा लृटः निषेधे सति लङ्-लकारः विहितः, अत्र ’अभुञ्ज्महि’ इति भुज्-धातोः लङ् इति | न अव्ययपदं, यदि सप्तम्यन्तं, द्विपदमिदं सूत्रम् | अभिज्ञावचने लृट् (३.२.११२) इत्यस्य सम्पूर्णरीत्या अनुवृत्तिः | अनद्यतने लङ् (३.२.१११) इत्यस्मात् अनद्यतने इत्यस्य अनुवृत्तिः | प्रत्ययः (३.१.१), धातोः (३.१.९१), भूते (३.२.८४) इत्येषाम् अधिकारः | अनुवृत्ति-सहितसूत्रम्—अभिज्ञावचने अनद्यतने भूते यदि धातोः लृट् प्रत्ययः न |
विभाषा साकाङ्क्षे (३.२.११४) = स्मृतिबोधक-उपपदे सति भूत-अनद्यतनकाले धातोः लृट्-लकारः विकल्पेन भवति यदि सत्यपि असत्यपि यदा सम्बद्धक्रियाद्वयमस्ति अपि च एकस्याः आवश्यकता भवति अपरस्याः अर्थपूरणार्थम् | उक्तविषयो लृड्वा स्यात् लक्ष्यलक्षणभावेन साकाङ्क्षश्चेद्धात्वर्थः इति सिद्धान्तकौमुद्याम् | अभिज्ञावचन उपपदे यच्छब्दसहिते केवले च विभाषा लृट् प्रत्ययो भवति साकाङ्क्षश्चेत् प्रयोक्ता इति काशिकायाम् | साकाङ्क्ष-शब्दस्य अर्थः एवम् अस्ति क्रियाद्वयं वर्तते, तत्र एका क्रिया भवति माध्यमं (लक्षणं), अन्या क्रिया भवति लक्ष्यम् | एकया क्रियया अपरस्याः अर्थपूर्तिः | यथा “अभिजानासि देवदत्त कश्मीरान् गमिष्यामः, तत्र सक्तून् पास्यामः” अथवा, विकल्पेन, “अभिजानासि देवदत्त कश्मीरान् अगच्छाम, तत्र सक्तून् अपिबाम” | अत्र गमनं लक्षणं, पानं लक्ष्यम् | पुनः, ’यत्’ शब्दस्य व्यवहारे सति, “अभिजानासि देवदत्त यत् कश्मीरान् गमिष्यामः (अथवा यत् कश्मीरान् अगच्छाम,) यत् तत्रौदनं भोक्ष्यामहे (अथवा यत् तत्रौदनमभुञ्ज्महि)” | आकाङ्क्षया सह वर्तते साकाङ्क्षः इति सहपूर्वपदबहुव्रीहिः | विभाषा प्रथमान्तं, साकाङ्क्षे सप्तम्यन्तं, द्विपदमिदं सूत्रम् | अभिज्ञावचने लृट् (३.२.११२) इत्यस्य सम्पूर्णरीत्या अनुवृत्तिः | अनद्यतने लङ् (३.२.१११) इत्यस्मात् अनद्यतने इत्यस्य अनुवृत्तिः | प्रत्ययः (३.१.१), धातोः (३.१.९१), भूते (३.२.८४) इत्येषाम् अधिकारः | अनुवृत्ति-सहितसूत्रम्—अभिज्ञावचने अनद्यतने भूते साकाङ्क्षे धातोः लृट् प्रत्ययः विभाषा |
आशंसायां भूतवच्च (३.३.१३२) = भविषत्कालार्थे भूतकालस्य वर्तमानस्य च प्रत्ययः भवति विकल्पेन, आशायाः विवक्षायाम् | भविष्यति काले भूतवद्वर्तमानवच्च प्रत्यया वा स्युराशंसायाम् इति सिद्धान्तकौमुद्याम् | अप्राप्तस्य प्रियार्थस्य प्राप्तुमिच्छा—अप्राप्तपदार्थस्य प्राप्तेः इच्छाम् ’आशंसा’ इत्युच्यते | आशंसा भविष्यति एव भवति | तथापि आशंसायाः विवक्षायाम् अनेन सूत्रेण धातोः भूतकालार्थकश्च वर्तमानार्थकश्च प्रत्ययः विकल्पेन विधीयते | भूतवत् इत्यस्य कथनेन सामान्यभूतकालः इत्यस्य इङ्गितम् अतः सामान्यभूते लुङ् इत्यस्य एव व्यवहारः अत्र न तु लङ् वा लिट् वा | निदर्शने “उपाध्यायश्चेदगमत् वा आगतः वा आगच्छति वा आगमिष्यति वा एते व्याकरणमध्यगीष्महि वा अधीतवन्तः वा अधीमहे वा अध्येष्यामहे” इति | अद्यापकः यदि आगच्छति तर्हि व्याकरणं पठेम | आशंसायां सप्तम्यन्तं, भूतवत् अव्ययं, च अव्ययं, त्रिपदमिदं सूत्रम् | वर्तमानसामीप्ये वर्तमानवद्वा (३.३.१३१) इत्यस्मात् वर्तमानवत्, वा इत्यनयोः अनुवृत्तिः | प्रत्ययः (३.१.१), धातोः (३.१.९१), परश्च (३.१.२) इत्येषाम् अधिकारः | अनुवृत्ति-सहितसूत्रम्—आशंसायां धातोः भूतवत् वर्तमानवत् च प्रत्ययः वा परश्च |
क्षिप्रवचने लृट् (३.३.१३३) = क्षिप्रशब्दस्य च तदर्थकस्य उपपदे सति आशायाः विवक्षायां धातोः लृट्-लकारः भवति | क्षिप्रवचने उपपदे आशंसायां गम्यमानायां धातोर्लृट् प्रत्ययो भवति इति काशिकायाम् | ’वचन’ इति शब्दस्य कथनेन क्षिप्र-शब्दस्य समानार्थकाः शब्दाः अपि अन्तर्भवन्ति, यथा शीघ्रम्, आशु, त्वरितम् इत्यादीनि पदानि | निदर्शने “उपाध्यायश्चेत्क्षिप्रमागमिष्यति क्षिप्रं व्याकरणमध्येष्यामहे | अध्यापकः शीघ्रम् आगमिष्यति चेत्, शीघ्रमेव व्याकरणं पठिष्यामः | क्षिप्रवचने सप्तम्यन्तं, लृट् प्रथमान्तं, द्विपदमिदं सूत्रम् | आशंसायां भूतवच्च (३.३.१३२) इत्यस्मात् आशंसायां इत्यस्य अनुवृत्तिः | प्रत्ययः (३.१.१), धातोः (३.१.९१), परश्च (३.१.२) इत्येषाम् अधिकारः | अनुवृत्ति-सहितसूत्रम्—आशंसायां क्षिप्रवचने धातोः लृट् प्रत्ययः परश्च |
प्रकृतसूत्रम् आशंसायां भूतवच्च (३.३.१३२) इत्यस्य अपवादः यतोहि आशंसायां भूतवच्च (३.३.१३२) इति सूत्रेण क्षिप्रावस्थायामपि भूतकालिकप्रत्ययः च वर्तमानकालिकः च प्रत्ययः विधीयते स्म; क्षिप्रवचने लृट् (३.३.१३३) इत्यनेन केवलं लृट्-लकारः भवति | प्रश्नः उदेति यत् प्रकृतसूत्रे ’लृट्’ इति वदनस्य आवश्यकता नास्ति | आशायाः प्रसङ्गे भविष्यत्कालः स्वाभाविकः अतः लाघवार्थं ’न क्षिप्रवचने’ इति पर्याप्तम् आसीत् | उत्तरत्वेन उच्यते यत् ’लृट्’ इति वदनस्य आवश्याकता अस्त्येव स्पष्टीकरणार्थं यत् लुट् इत्यस्य व्यवहारः न भविष्यति तस्य प्रसङ्गः अस्ति चेदपि, यथा “श्वः क्षिप्रमध्येष्यामहे”—श्वः क्षिप्रं पठिष्यामः |
किंवृत्ते लिङ्लृटौ (३.३.१४४) = किम् इति प्रश्नवाचके सति गर्हा इति अर्थः गम्यमानः चेत् धातोः लिङ् च लृट् च लकारौ भवतः | किम्-कतर-कतम इत्येषु अन्यतमः उपस्थितः स्यात् इत्यनेन ’किंवृत्तः’ | गर्हायामिति अनुवृत्तेः निन्दायाम् इत्यर्थः | ’लिङ्’ इति पदं पूर्वतने सूत्रे वर्तते तथापि प्रकृतसूत्रे पुनः उक्तं दर्शनार्थं यत् ’लट्’, यस्य अनुवृत्तिः भवति स्म, न जायेत | “गर्हायामित्येव| विभाषा न स्वर्यते | किंवृत्ते उपपदे गर्हायां गम्यमानायां धातोर्लिङ्लृटौ प्रत्ययौ भवतः| सर्वलकाराणामपवादः | लिङ्ग्रहणं लटोऽपरिग्रहार्थम् |“ इति काशिकायाम् | ’विभाषा’ इत्यस्य अनुवृत्तिः न भवति; अस्य फलम् अस्ति यत् अपरेषां सर्वेषां लकाराणां बाधा भवति—अत्र केवलं विधिलिङ् च लृट् च सम्भवतः | किमो वृत्तं किंवृत्तं, तस्मिन् किंवृत्ते, षष्ठीतत्पुरुषसमासः | लिङ् च लृट् च तयोरितरेतरयोगद्वन्द्वो लिङ्लृटौ | किंवृत्ते सप्तम्यन्तं, लिङ्लृटौ प्रथमान्तं, द्विपदमिदं सूत्रम् | गर्हायां लडपिजात्वोः (३.३.१४२) इत्यस्मात् गर्हायाम् इत्यस्य अनुवृत्तिः | प्रत्ययः (३.१.१), धातोः (३.१.९१), परश्च (३.१.२) इत्येषाम् अधिकारः | अनुवृत्ति-सहितसूत्रम्— किंवृत्ते गर्हायां धातोः लिङ् लृट् प्रत्ययौ परश्च |
किंवृत्ते लिङ्लृटौ (३.३.१४४) इत्यस्य उदाहरणाम् अस्ति—’कः कतरः कतमो वा हरिं निन्देत्, निन्दिष्यति वा’ | कः अभाग्यः अस्ति यत् हरेः निन्दां कुर्यात् ? अस्मिन् उदाहरणे, किंवृत्ते लिङ्लृटौ (३.३.१४४) इति सूत्रेण षट् वाक्यानि भवन्ति—’को हरिं निन्देत्’, ’कतरो हरिं निन्देत्’, ’कतमो हरिं निन्देत्’, ’को हरिं निन्दिष्यति’, ’कतरो हरिं निन्दिष्यति’, ’कतमो हरिं निन्दिष्यति’ इति | अत्र ’किं’ शब्दस्य व्यवहारेण किंवृत्तं भवति अपि च तेन एव व्यवहारेण गर्हा इति अर्थः अपि जायते | अतः निन्द् इति धातोः किंवृत्ते लिङ्लृटौ (३.३.१४४) इति सूत्रेण विधिलिङ्-लकारे सति निन्देत् अपि च लृट्-लकारे सति निन्दिष्यति इति द्वे पदे जायेते |
लृङ् प्राग्वत् इति वाक्यं सिद्धन्तकौमुद्याः वृत्तौ वर्तते | पूर्वतने सूत्रे, विभाषा कथमि लिङ् च (३.३.१४३), एका विशिष्टा परिस्थिति भवति यत्र लृङ्-लकारस्य सम्भावना अपि भवति । तद्वत् अत्रापि | किंवृत्ते लिङ्लृटौ (३.३.१४४) इति सूत्रेण यत्र एकं विशिष्टं कार्यं भवति स्म अथवा तादृश-प्रयोजने प्रयासः जातः परन्तु साफल्यं न प्राप्तं, अथवा भविष्यति यत्र तादृशः असफलः प्रयासः स्यात्, तत्र भूतकाले विकल्पेन लृङ्-लकारः भवति, भविष्यत्काले च नित्यं लृङ्-लकारः भवति | एतदर्थं काशिकायाम् उदाहरणं दीयते, “को नाम वृषलो यं तत्र भवान् याजयेत् | यं तत्र भवान् वृषलं याजयिष्यति | कतरो नाम, कतमो नाम यं तत्र भवान् वृषलं याजयेत्, याजयिष्यति | भूते क्रियातिपत्तौ वा लृङ् | भविष्यति तु नित्यम् | को नाम वृषलो यं तत्र भवानयाजयिष्यत् |“ अस्मिन् उदाहरणे ’वृषलः’ नाम दुर्जनः; ’याजयति’ इति ’यज्’ धातोः णिजन्तरूपम् | ’यजते’ नाम त्यागं करोति | निदर्शने केनचित् स्वस्य चारित्र्यं, ख्यातिः, नाम वा त्यागः क्रियते दुर्जनस्य कृते | आरम्भे सामान्यार्थे किंवृत्ते लिङ्लृटौ (३.३.१४४) इत्यनेन विधिलिङ् च लृट् च इत्यनयोः वाक्यानि दीयन्ते | तदा अतिपत्तौ, नाम यत्र कार्यस्य असाफल्यं जायते, भूते विकल्पेन लृङ् ’अयाजयिष्यत्’, भविष्यति नित्यं लृङ् च भवति | अर्थः अस्ति, तस्य दुर्जनस्य नाम किं, यस्य कृते भवतः असफलः प्रयासः जातः स्वस्य नाम त्यागार्थम् ? प्रथमे उदाहरणे च अस्मिन् अर्थे ’को हरिम् अनिन्दिष्यत्’ इति भवति | उभयत्र ’किम्’ इति प्रश्नवाचकः शब्दः निन्दार्थे भवति |
प्रश्नः उदेति यत् किंवृत्ते लिङ्लृटौ (३.३.१४४) इति सूत्रे कुतः लृङ् प्राग्वत् इति सूचना प्राप्यते । तथैव काशिकायां दत्तं यत् ’भूते क्रियातिपत्तौ वा लृङ् | भविष्यति तु नित्यम्’ | एतत् सर्वं किंवृत्ते लिङ्लृटौ (३.३.१४४) इत्यस्य अनुवृत्ति-सहितसूत्रे नास्ति किल । उत्तरत्वेन उच्यते यत् वोताप्योः (३.३.१४१) इति सूत्रात् वा इत्यस्य अधिकारः । अनेन प्राग्वत्—पूर्वतनसूत्रम् इव—विकल्पेन एकस्मिन् पक्षे लृङ्-लकारः अपि भवति—अनिन्दिष्यत् । नाम अनुवृत्ति-सहितसूत्रे एवं भवेत्— वा (लृङ् प्राग्वत्) । आहत्य—किंवृत्ते गर्हायां धातोः लिङ् लृट् प्रत्ययौ परश्च वा (लृङ् प्राग्वत्) ।
अनवकॢप्त्यमर्षयोरकिंवृत्तेऽपि (३.३.१४५) = असम्भावना च अक्षमा चेत्यनयोरर्थे किंवृत्तेः उपपदे सत्यपि असत्यपि धातोः कालसामान्ये सर्वलकारोपवादे लिङ् च लृट् च लकारौ भवतः | “गर्हायामिति निवृत्तम् | अनवकॢप्तिरसंभावना | अमर्षोऽक्षमा | न संभावयामि न मर्षये वा भवान् हरिं निन्देत् निन्दिष्यति वा | लृङ् प्राग्वत् |“—इति सिद्धान्तकौमुद्याम् | अनेन अवगम्यते यत् गर्हायामित्यस्य अस्मिन् सूत्रे अनुवृत्तिः नास्ति | अनवकॢप्तिः इत्युक्ते असम्भावना; अमर्षः इत्युक्ते अक्षमा | पूर्वसुत्रवत् ’विभाषा’ इत्यस्य अनुवृत्तिः न भवति; अस्य फलम् अस्ति यत् अपरेषां सर्वेषां लकाराणां बाधा भवति—अत्र केवलं विधिलिङ् च लृट् च सम्भवतः | निदर्शनस्य अर्थः एवं यत् “भवान् हरिं निन्देत् निन्दिष्यति वा” इति तादृशी घटना वक्तुः मनसि सम्भावनीया नास्ति अथवा क्षमायोग्या नास्ति | न अवकॢप्तिः अनवकॢप्तिः, नञ्तत्पुरुषः | न मर्षोऽमर्षः, नञ्तत्पुरुषः | अनवकॢप्तिश्च अमर्षश्च तयोरितरेतरयोगद्वन्द्वः अनवकॢप्त्यमर्षौ, तयोरनवकॢप्त्यमर्षयोः | किमो वृत्तं किंवृत्तं, न किंवृत्तमकिंवृत्तं, तस्मिन् अकिंवृत्ते, षष्ठीतत्पुरुषगर्भनञ्तत्पुरुषसमासः | अनवकॢप्त्यमर्षयोः सप्तम्यन्तम्, अकिंवृत्ते सप्ताम्यन्तम्, अपि इत्यव्ययं, त्रिपदमिदं सूत्रम् | किंवृत्ते लिङ्लृटौ (३.३.१४४) इत्यस्मात् लिङ्लृटौ इत्यस्य अनुवृत्तिः | प्रत्ययः (३.१.१), धातोः (३.१.९१), परश्च (३.१.२) इत्येषाम् अधिकारः | अनुवृत्ति-सहितसूत्रम्—अनवकॢप्त्यमर्षयोः अकिंवृत्ते अपि धातोः लिङ् लृट् प्रत्ययौ परश्च |
अनवकॢप्त्यमर्षयोरकिंवृत्तेऽपि (३.३.१४५) इति सूत्रस्य काशिकाव्याख्यायाम् उक्तं यत् “बह्वचः पूर्वनिपातो लक्षणव्यभिचारचिह्नम् | तेन यथासंख्यं न भवति |“ अस्य अर्थः एवं यत् अल्पाच्तरम् (२.२.३४) इति सुत्रम् अनुसृत्य द्वन्द्वसमासे द्वयोः प्रातिपदिकयोः मध्ये यस्मिन् अच्-वर्णाः न्यूनाः सन्ति तत् प्रातिपदिकं द्वन्द्वसमासस्य प्रथमः सदस्यः स्यात् | परन्तु ’अनवकॢप्त्यमर्षयोः’ इति द्वन्द्वसमासे ’अनवकॢप्ति’ इत्यस्मिन् ’अमर्ष’ इति प्रातिपदिकस्य तुलनया अधिकाः अच्-वर्णाः सन्ति चेदपि द्वन्द्वसमासस्य प्रथमसदस्यः | काशिकाकारैः उच्यते यत् अनेन ज्ञापकं भवति यत् अत्र यथासंख्यमनुदेशः समानाम् (१.३.१०) इत्यस्य प्रसक्तिर्नास्ति | यथासंख्यमनुदेशः समानाम् (१.३.१०) इति सूत्रम् अनुसृत्य सूत्रस्य अर्थः एवं भवति स्म यत् यदा घटना असम्भावनीया (अनवकॢप्तिः) तदा विधिलिङ्-लकारः, यदा च घटना क्षमायोग्या नास्ति (अमर्षः) तदा लृट्-लकारः | परन्तु यतोहि अनवकॢप्तिः द्वन्द्वसमासे प्रथमसदस्यः, अनेन बोध्यं यत् अत्र क्रमम् अनुसृत्य न भवति, अपि तु अनवकॢप्तिः वा भवतु, अमर्षः वा भवतु, उभयत्र लकारद्वयं (लिङ् च लृट् च) सम्भवति |
अनवकॢप्त्यमर्षयोरकिंवृत्तेऽपि (३.३.१४५) इत्यस्य निदर्शनम् अस्ति “न संभावयामि न मर्षये वा भवान् हरिं निन्देत् निन्दिष्यति वा” इत्युक्तम् | अत्र षोडश सम्भावनाः भवन्ति—
किंवृत्तेः उपपदे असति चत्वारि वाक्यानि—
न सम्भावयामि भवान् हरिं निन्देत् = अहं न भावयामि यत् भवान् हरेः निन्दां करोति स्म, कुर्वन् अस्ति, करिष्यति |
न सम्भावयामि भवान् हरिं निन्दिष्यति = अहं न भावयामि यत् भवान् हरेः निन्दां करोति स्म, कुर्वन् अस्ति, करिष्यति |
न मर्षये भवान् हरिं निन्देत् = अहं सहनं न करोमि यत् भवान् हरेः निन्दां करोति स्म, कुर्वन् अस्ति, करिष्यति |
न मर्षये भवान् हरिं निन्दिष्यति = अहं सहनं न करोमि यत् भवान् हरेः निन्दां करोति स्म, कुर्वन् अस्ति, करिष्यति |
किंवृत्तेः उपपदे सति द्वादश वाक्यानि—
मूलवाक्यं तदा एवम् अस्ति, “कः कतरः कतमो वा हरिं निन्देत्, निन्दिष्यति वा” इति |
न सम्भावयामि, को हरिं निन्देत् = अहं न भावयामि, हरेः निन्दां कः करोति ?
न मर्षये, को हरिं निन्देत् = अहं सहनं न करोमि, हरेः निन्दां कः करोति ?
न सम्भावयामि, को हरिं निन्दिष्यति = अहं न भावयामि, हरेः निन्दां कः करोति ?
न मर्षये, को हरिं निन्दिष्यति = अहं सहनं न करोमि, हरेः निन्दां कः करोति ?
न सम्भावयामि, कतरो हरिं निन्देत् = अहं न भावयामि, द्वयोः मध्ये कः हरेः निन्दां करोति ?
न मर्षये, कतरो हरिं निन्देत् = अहं सहनं न करोमि, द्वयोः मध्ये कः हरेः निन्दां करोति ?
न सम्भावयामि, कतरो हरिं निन्दिष्यति = अहं न भावयामि, योः मध्ये कः हरेः निन्दां करोति ?
न मर्षये, कतरो हरिं निन्दिष्यति = अहं सहनं न करोमि, योः मध्ये कः हरेः निन्दां करोति ?
न सम्भावयामि, कतमो हरिं निन्देत् = अहं न भावयामि, अनेकेषु कः हरेः निन्दां करोति ?
न मर्षये, कतमो हरिं निन्देत् = अहं सहनं न करोमि, अनेकेषु कः हरेः निन्दां करोति ?
न सम्भावयामि, कतमो हरिं निन्दिष्यति = अहं न भावयामि, अनेकेषु कः हरेः निन्दां करोति ?
न मर्षये, कतमो हरिं निन्देत् = अहं सहनं न करोमि, अनेकेषु कः हरेः निन्दां करोति ?
यथा किंवृत्ते लिङ्लृटौ (३.३.१४४) इति सिद्धान्तकौमुद्याः वृत्तौ, अत्रापि अनवकॢप्त्यमर्षयोरकिंवृत्तेऽपि (३.३.१४५) इत्यस्य वृत्तौ अपि लृङ् प्राग्वत् इति अंशः वर्तते | नाम अत्रापि वोताप्योः (३.३.१४१) इति सूत्रात् वा इत्यस्य अधिकारः भवति | अतः यत्र एकं विशिष्टं कार्यं भवति स्म अथवा तादृश-प्रयोजने प्रयासः जातः परन्तु साफल्यं न प्राप्तं, अथवा भविष्यति यत्र तादृशः असफलः प्रयासः स्यात्, तत्र भूतकाले विकल्पेन लृङ्-लकारः भवति, भविष्यत्काले च नित्यं लृङ्-लकारः भवति | “भूतविवक्षायां तु क्रियातिपत्तौ वा लृङ् भवति| भविष्यति नित्यम्| नावकल्पयामि तत्र भवान् नाम वृषलमयाजयिष्यत् |“ इति काशिकायाम् |
किंकिलास्त्यर्थेषु लृट् (३.३.१४६) = असम्भावना च अक्षमा चेत्यनयोरर्थः गम्यमानः चेत् ’किंकिल’ च ’अस्ति’ चेत्यनयोः उपपदे धातोः लृट् लकारो भवति | “अनवकॢप्त्यमर्षयोरित्येतत् गर्हायां च (३.३.१४९) इति यावदनुवर्तते | किंकिलेति समुदायः क्रोधद्योतक उपपदम् | अस्त्यर्थाः अस्तिभवतिविद्यतयः | लिङोऽपवादः | अत्र लृङ् न |“ इति सिद्धान्तकौमुद्याम् | वृतौ उक्तं यत् अनवकॢप्त्यमर्षयोरकिंवृत्तेऽपि (३.३.१४५) इत्यस्मात् अनवकॢप्त्यमर्षयोः इत्यस्य अनुवृत्तिः भवति गर्हायां च (३.३.१४९) इति सूत्रपर्यन्तम् | किंकिलेति समुदायः इत्युक्ते किंकिल इति शब्दः ’किं’ च ’किल’ चेत्यनयोः योजनेन समूहात्मकम् अव्ययं जायते यस्य अर्थः अस्ति ’क्रोधः’, क्रोधस्य द्योतकः | यदा इदं किंकिल इति अव्ययम् उपपदरूपेण वाक्ये विद्यते तदा अस्य सूत्रस्य प्रवृत्तिः भवति | अस्त्यर्थाः अस्तिभवतिविद्यतयः इत्यनेन ’अस्ति’ इत्यस्य अर्थे अस्ति, भवति, विद्यते इत्यादयः शब्दाः सम्भवन्ति | लिङोऽपवादः | अत्र लृङ् न | अस्मिन् सूत्रे साक्षात् लृट् उक्तमस्ति प्रदर्शनार्थं यत् लिङ् इत्यस्य अनुवृत्तिः नास्ति, अपि च यदा लिङ् नस्ति तदा ’लृङ् प्राग्वत्’ इत्यपि न भवति | अनवकॢप्त्यमर्षयोरकिंवृत्तेऽपि (३.३.१४५) इति सूत्रं प्रबाध्य केवलं लृट् लकारं विदधाति न तु लिङ् | अस्ति अर्थो येषां ते अस्त्यर्थाः बहुव्रीहिः | किंकिलश्च अस्त्यर्थाश्च तेषामितरेतरयोगद्वन्द्वः किंकिलास्त्यरर्थास्तेषु किंकिलास्त्यर्थेषु | किंकिलास्त्यर्थेषु सप्तम्यन्तं, लृट् प्रथमान्तं, द्विपदमिदं सूत्रम् | अनवकॢप्त्यमर्षयोरकिंवृत्तेऽपि (३.३.१४५) इत्यस्मात् अनवकॢप्त्यमर्षयोः इत्यस्य अनुवृत्तिः | प्रत्ययः (३.१.१), धातोः (३.१.९१), परश्च (३.१.२) इत्येषाम् अधिकारः | अनुवृत्ति-सहितसूत्रम्—अनवकॢप्त्यमर्षयोः किंकिलास्त्यर्थेषु धातोः लृट् प्रत्ययः परश्च |
सिद्धान्तकौमुद्यां किंकिलास्त्यर्थेषु लृट् (३.३.१४६) इत्यस्य निदर्शनम् अस्ति, “न श्रद्दधे न मर्षये वा किंकिल त्वं शूद्रान्नं भोक्ष्यसे | अस्ति भवति विद्यते वा शूद्रीं गमिष्यसि |“ अत्र वाक्यद्वयम् अस्ति—प्रथमवाक्यं भवति किंकिल इत्यस्य उदाहरणं; द्वितीयवाक्यम् अस्ति "अस्ति भवति विद्यते" इत्येषाम् उदाहरणम् |
“न श्रद्दधे न मर्षये वा किंकिल त्वं शूद्रान्नं भोक्ष्यसे |“ अनेन वाक्यद्वयं जायते—
(श्रद्दधे = श्रत् + धा, आत्मनेपदे लटि उत्तमपुरुषैकवचने → श्रत् + दधे → श्रद्दधे, नाम विश्वासं करोमि)
न श्रद्दधे किंकिल त्वं शूद्रान्नं भोक्ष्यसे = अहं विश्वासं न करोमि, सम्भावनां न पश्यामि, तथा आशां न करोमि यत् त्वं शूद्रस्य अन्नं खादसि |
न मर्षये किंकिल त्वं शूद्रान्नं भोक्ष्यसे = अहं सहनं न करोमि यत् त्वं शूद्रस्य अन्नं खादसि |
प्रथमवाक्ये अनवकॢप्त्यर्थः अस्ति (न श्रद्दधे) अपि च क्रोध-द्योतकम् अव्ययं किंकिल इति उपपदे अस्ति | द्वितीयवाक्ये अमर्षार्थः अस्ति (असहनम्) अपि च क्रोध-द्योतकम् अव्ययं किंकिल इति उपपदे अस्ति | अत्र भुज् धातोः अनवकॢप्त्यमर्षयोरकिंवृत्तेऽपि (३.३.१४५) इत्यनेन लृट् च लिङ् च द्वयोः प्रसक्तिरासीत् परन्तु किंकिलास्त्यर्थेषु लृट् (३.३.१४६) इत्यनेन पूर्वसूत्रं प्रबाध्य केवलं लृट् विदधाति, अनेन च भोक्ष्यसे इत्येव जायते |
“अस्ति भवति विद्यते वा शूद्रीं गमिष्यसि |” अनेन वाक्यत्रयं भवति—
त्वं शूद्रीं गमिष्यसि इति अस्ति = त्वं शूद्र्याः गमनं करोति, एवम् अस्ति किम् ?
त्वं शूद्रीं गमिष्यसि इति भवति = त्वं शूद्र्याः गमनं करोति, एवम् अस्ति किम् ?
त्वं शूद्रीं गमिष्यसि इति विद्यते = त्वं शूद्र्याः गमनं करोति, एवम् अस्ति किम् ?
एषु त्रिषु वाक्येषु अस्त्यर्थकपदानि (अस्ति, भवति, विद्यते) सन्ति इति कृत्वा अस्त्यर्थस्य निगमनम् | अत्र गम् धातोः किंकिलास्त्यर्थेषु लृट् (३.३.१४६) इत्यनेन केवलं लृट्-लकारः विहितः, अनेन च गमिष्यसि इत्येव जायते |
अत्र लृङ् न | अत्र भविष्यति नित्यं लृङ्, भूते वा इति पूर्वोक्तः विधिः न भवति यतोहि उपर्युक्तेषु वाक्येषु लिङ्-निमित्तता नास्ति | लिङः अभावे लृङ् अपि न भवति |
अन्यत् उदाहरणम्—
किंकिल-उपपदे—
न सम्भावयामि, किंकिल भवान् धान्यं न दास्यति = अहं चिन्तयितुम् अपि न शक्नोमि यत् भवान् धान्यं न दास्यति |
न मर्षयामि, किंकिल भवान् धान्यं न दास्यति = अहं सहनं कर्तुं न शक्नोमि यत् भवान् धान्यं न दास्यति |
अस्त्यर्थक-उपपदे—
न सम्भावयामि, अस्ति भवान् मां त्यक्ष्यति = अहं चिन्तयितुम् अपि न शक्नोमि यत् भवान् मां त्यक्ष्यति |
न सम्भावयामि, भवति भवान् मां त्यक्ष्यति = अहं चिन्तयितुम् अपि न शक्नोमि यत् भवान् मां त्यक्ष्यति |
न सम्भावयामि, विद्यते भवान् मां त्यक्ष्यति = अहं चिन्तयितुम् अपि न शक्नोमि यत् भवान् मां त्यक्ष्यति |
न मर्षयामि, अस्ति भवान् मां त्यक्ष्यति = अहं सहनं कर्तुं न शक्नोमि यत् भवान् मां त्यक्ष्यति |
न मर्षयामि, भवति भवान् मां त्यक्ष्यति = अहं सहनं कर्तुं न शक्नोमि यत् भवान् मां त्यक्ष्यति |
न मर्षयामि, विद्यते भवान् मां त्यक्ष्यति = अहं सहनं कर्तुं न शक्नोमि यत् भवान् मां त्यक्ष्यति |
किंकिलास्त्यर्थेषु लृट् (३.३.१४६) इति सूत्रस्य अनन्तरम् इतोऽपि एकं लृट्-विधायकसूत्रं भवति, शेषे लृडयदौ (३.३.१५१) इति | अष्टाध्याय्याः सूत्रक्रमे अनयोः द्वयोर्मध्ये कानिचन लिङ्-विधायकसूत्राणि सन्ति | जातुयदोर्लिङ् (३.३.१४७) इत्यनेन अनवकॢप्त्यमर्षयोः जातुयदोः (जातु, यत् इत्यनयोः) उपपदे धातोः लिङ् लकारः | तदा यच्चयत्रयोः (३.३.१४८) इत्यनेन अपि तथैव, किन्तु ’यच्च’ ’यत्र’ इति उपपदे—अनवकॢप्त्यमर्षयोः यच्चयत्रयोः (यच्च, यत्र इत्यनयोः) उपपदे धातोः लिङ् लकारः | तदा गर्हायां च (३.३.१४९)—गर्हायां यच्चयत्रयोः उपपदे धातोः लिङ् लकारः | तदा चित्रीकरणे च (३.३.१५०)—चित्रीकरणे यच्चयत्रयोः उपपदे धातोः लिङ् लकारः | चित्रीकरणे इत्युक्ते आश्चर्ये (आश्चर्यं, विचित्रम्, अद्भुतम्) | अधुना अस्मिन्नेव चित्रीकरणे किन्तु ’यच्च’, ’यत्र’ त्यक्त्वा अन्यत्र सर्वत्र भवति शेषे लृडयदौ (३.३.१५१) इत्यनेन लृट् न तु लिङ् |
शेषे लृडयदौ (३.३.१५१) = शेषे (नाम यत्र ’यच्च’, ’यत्र’ न स्तः), ’यदि’-भिन्न-अव्ययोपपदे सति चित्रीकरणार्थः गम्यमानः चेत् धातोः लृट्-लकारः भवति | 'शेषे' इत्यनेन यच्चयत्राभ्यां भिन्नम्, 'अयदौ' इत्यनेन यदि-भिन्नं तत्सदृशम् अव्ययम् | इत्युक्ते अत्र पर्युदासः अस्ति—यच्च, यत्र, यदि इति अव्ययानि न स्युः परन्तु तानि त्यक्त्वा किमपि अव्ययं भवेत् | अपि च चित्रीकरणार्थः गम्यमानः भवेत् | एतौ द्वौ निमित्तौ उपस्थितौ चेत् लृट्-लकारः न तु विधिलिङ् | “यच्चयत्राभ्यामन्यत्र चित्रीकरणं शेषः | शेष उपपदे चित्रीकरणे गम्यमाने धातोर्लृट् प्रत्ययो भवति, यदिशब्दश्चेद् न प्रयुज्यते | सर्वलकाराणामपवादः |“ इति काशिकायाम् | “यच्चयत्राभ्यामन्यस्मिन्नुपपदे चित्रीकरणे गम्ये धातोर्लृट् स्यात् |“ इति सिद्धान्तकौमुद्याम् | न यदि अयदिः, तस्मिन् अयदौ, नञ्तत्पुरुषः | शेषे सप्तम्यन्तं, लृट् प्रथमान्तम्, अयदौ सप्तम्यन्तं त्रिपदमिदं सूत्रम् | चित्रीकरणे च (३.३.१५०) इत्यस्मात् चित्रीकरणे इत्यस्य अनुवृत्तिः | प्रत्ययः (३.१.१), धातोः (३.१.९१), परश्च (३.१.२) इत्येषाम् अधिकारः | अनुवृत्ति-सहितसूत्रम्—शेषे अयदौ चित्रीकरणे धातोः लृट् प्रत्ययः परश्च |
काशिकायां निगमनम् अस्ति “आश्चर्यं चित्रमद्भुतम्, अन्धो नाम पर्वतमारोक्ष्यति | बधिरो नाम व्याकरणमध्येष्यते |“ अन्धः इत्यनेन यः द्रष्टुं न शक्नोति; बधिरः इत्यनेन यः श्रोतुं न शक्नोति | अन्धः पर्वतम् आरोहति चेत्, बधिरः व्याकरणं पठति चेत् महत् आश्चर्यम्—’नाम’ इति अव्ययं, तेन च अव्ययेन आश्चर्यं, चित्रम्, अद्भूतम् इति अर्थः द्योतितः भवति | अतः रुह् धातोः लृट्-लकारः भवति | “आश्चर्यमन्धो नाम कृष्णं द्रक्ष्यति” इति उदाहरणं सिद्धान्तकौमुद्याम् अपि तथैव | दृश्-धातुतः लृट्-लकारेण द्रक्ष्यति इति भवति |
शेषे लृडयदौ (३.३.१५१) इति सूत्रे ’यदि’-भिन्न-अव्ययोपपदे सति लृट् इत्युक्तम् | “अयदौ किम् | आश्चर्यं यदि सोऽधीयीत |“ इति सिद्धान्तकौमुद्याम् | अत्र ’अयदौ’ इत्यस्य दलसार्थक्यं किम् ? आश्चर्यं यदि मूकोऽधीयीत | मूकः इत्युक्ते यः वक्तुं न शक्नोति | उक्तवाक्ये च ’यदि’ पदेन आश्चर्यार्थः द्योतितः | “मूकः यदि अध्येतुम् आरभेत तर्हि एषा आश्चर्यजनिका वार्ता स्यात्” इति वाक्यार्थः | अस्मिन् वाक्ये ’यदि’ शब्दः अस्ति, चित्रीकरणार्थः अपि गम्यमानः, किन्तु विधिलिङ्-लकारः अस्ति न तु लृट् | एतादृशे वाक्ये लृट्-लकारः न स्यात्, तस्य निषेधार्थञ्च सूत्रे ’अयदौ’ इत्युक्तम् | “अयदाविति किम् ? आश्चर्यं यदि स भुञ्जीत |” इति काशिकायाम् | यदि सः खादेत्, आश्चर्यस्य वार्ता स्यात् इति अर्थः |
लिङ्निमित्ताभावादिह लृङ् न भवति इति काशिकाकारो वदति | यथोक्तं पूर्वमपि, यत्र लिङ् न भवति, तत्र लृङ् प्राग्वत् इति वाक्यं न प्रवर्तते | अस्य सम्यक्तया अवगमनार्थं त्रीणि सूत्राणि अपेक्षितानि—लिङ्निमित्ते लृङ् क्रियातिपत्तौ (३.३.१३९), भूते च (३.३.१४०), वोताप्योः (३.३.१४१) | लिङ्निमित्ते लृङ् क्रियातिपत्तौ (३.३.१३९) इत्यनेन भविष्यत्कालार्थे, लिङ्लकारस्य यत् निमित्तं तस्मिन्नेव निमित्ते, क्रियातिपत्तिं दर्शयितुं धातोः लृङ्लकारः भवति | क्रियातिपत्तिः इत्युक्ते क्रियायाः अनिष्पत्तिः, क्रियायाः अभावः | अनेन सूत्रेण लृङ्-लकारः विधीयते भविष्यति यत्र विधिलिङ्-लकारः स्यात् किन्तु अन्ततो गत्वा क्रिया न भविष्यति अतः लिङः स्थाने लृङ् भवति | अस्मिन् सूत्रे लिङ्निमित्ते इत्युक्तं, नाम यत्र लिङः निमित्तं वर्तते (किन्तु क्रियातिपत्तिः अस्ति), तत्र एव लृङ् | तर्हि लिङः निमित्तं किम् इति चेत्, हेतुहेतुमतोर्लिङ् (३.३.१५६) इत्यनेन 'कारणम् (हेतुः) – फलम् (हेतुमत्)' अनयोः युग्मं (युगलं) उपस्थितं चेत् लिङ्लकारस्य प्रयोगः भवति | तर्हि तादृशकार्यकरणभावः उपस्थितः चेत् किन्तु अन्ततो गत्वा कारण-क्रिया अनिष्पन्ना भविष्यति चेत्, तत्र लृङ्-लकारस्य व्यवहारः भवति | निगमने “सुवृष्टिः चेद् अभविष्यत् तदा सुभिक्ष्यमभविष्यत्” | नाम यदि सुवृष्टिः भविष्यति तर्हि सुभिक्ष्यमपि (समीचीनं भोजनम् अपि) भविष्यति, परन्तु सुवृष्टिः न भविष्यति अतः कारणस्य फलमपि (सुभिक्ष्यं) न भविष्यति |
तदा भूते च (३.३.१४०) इत्यनेन तस्याम् एव दशायां किन्तु अतीतार्थे तत्रापि लृङ्-लकारः भवति | भूते च (३.३.१४०) इत्यस्य अनुवृत्तिसहितसूत्रम् अस्ति—भूते च लिङ्निमित्ते क्रियातिपत्तौ धातोः लृङ् प्रत्ययः परश्च | काशिकायां निगमनमस्ति, “दृष्टो मया भवत्पुत्रोऽन्नार्थी चङ्क्रम्यमाणः अपरश्च द्विजो ब्राह्मणार्थी, यदि स तेन दृष्टोऽभविष्यत्, तदाऽभोक्ष्यत, न तु भुक्तवान्, अन्येन पथा स गतः |“ अर्थः एवम् अस्ति—अहं भवतः पुत्रं भोजनस्य अन्वेषणे गच्छन्तं दृष्टवान्; एकं द्विजमपि दृष्टवान् यः ब्राह्मणाय भोजनं दातुम् इष्टवान्; पुत्रं यदि अद्रक्ष्यत् तर्हि तस्मै भोजनम् अदास्यत्, किन्तु द्वयोः मार्गः भिन्नः आसीत् यस्य परिणामे न दृष्टवान्, भोजनं न दत्तवान् च |
तदा वोताप्योः (३.३.१४१) इत्यनेन इतः अग्रे उताप्योः समर्थयोर्लिङ् (३.३.१५२) इति सूत्रपर्यन्तं भूतकालार्थे यत्र लिङः निमित्तं वर्तते अपि च क्रियातिपत्तिः भवति, तत्र विकल्पेन लृङ्-लकारः अपि सम्भवति | वा + आ (नाम ’यावत्’) + उताप्योः (नाम उताप्योः समर्थयोर्लिङ् इति सूत्रम्) | सन्धिं कृत्वा वा + आ + उ = वो, अनेन च भवति वोताप्योः (३.३.१४१) | वोताप्योः (३.३.१४१) इत्यस्य अनुवृत्तिसहितसूत्रम् अस्ति—भूते लिङ्निमित्ते क्रियातिपत्तौ ओताप्योः धातोः वा लृङ् प्रत्ययः परश्च | तर्हि आहत्य, उताप्योः समर्थयोर्लिङ् (३.३.१५२) इति सूत्रपर्यन्तं, भूते यत्र लिङः निमित्तं वर्तते किन्तु कारण-क्रियायाः अनिष्पत्तिः अस्ति, तत्र लृङ्-लकारः विकल्पेन भवति अतः वारं वारं लृङ् प्राग्वत् इति वाक्यं सूत्रव्याख्यासु उपयुज्यते स्म | किन्तु प्रकृतसूत्रे शेषे लृडयदौ (३.३.१५१) इत्यस्मिन् लिङ्-निमित्ताभावात् लृङः विकल्पो नास्ति |
अनेन लृट्-लकार-विधायकसूत्राणि समाप्तानि |
पञ्चोपाङ्गकार्यम्
धातुतः प्रत्ययविधानेन तिङन्तसाधने या प्रक्रिया भवति तस्याम् अङ्गकार्यात् प्राक् पञ्चोपाङ्गकार्यं विदारणीयं भवति | अस्मिन् चत्वारि उपाङ्गनि वर्तन्ते—प्रत्ययादेशः, धात्वादेशः, इडागमः, अतिदेशः च | द्वित्वम् अभ्यासकार्यञ्च इति पञ्चमोपाङ्गम् | संस्कृतभाषायां द्वित्वं केवलं पञ्चसु स्थलेषु भवति— लिटि, सनि, चङि, यङि, श्लौ | लृट्-लकारे न भवति, अतः अत्र चत्वारि उपाङ्गानि द्रष्टव्यानि | एषां चतुर्णाम् उपाङ्गानां परिशीलनानन्तरमेव अङ्गकार्यं कृत्वा सन्धिकार्यं साधनीयम् | अतः सोपानेन, क्रमेण एतत् सर्वं द्रष्टव्यम् |
प्रत्ययादेशः
लट्-लकारस्य अदन्ताङ्गस्य कृते ये सिद्ध-तिङ्प्रत्ययाः सन्ति, ते अत्रापि लृट्-लकारे अपेक्षिताः | तेषां साधनप्रक्रिया द्रष्टव्या चेत्, परस्मैपदे अत्र, आत्मनेपदे अत्र चअवलोकताम् |
परस्मैपदे लटि सिद्ध-तिङ्प्रत्ययाः—
ति तः अन्ति
सि थः थ
मि वः मः
आत्मनेपदे लटि सिद्ध-तिङ्प्रत्ययाः —
ते इते अन्ते
से इथे ध्वे
ए वहे महे
एषु प्रत्ययेषु च लृट्-लकारस्य ’स्य’-प्रत्ययः विधातव्यः |
स्यतासी लृ-लुटोः (३.१.३३) = लृटि लृङि च परे धातुतः स्य; लुटि परे धातुतः तासि भवति | तासेरिकारः उच्चारणार्थः | स्यश्च तासिश्च तयोरितरेतरद्वन्द्वः स्यतासी | लृ च लुट् च तयोरितरेतरद्वन्द्वः लृलुटौ, तयोः लृलुटोः | स्यतासी प्रथमान्तं, लृलुटोः सप्तम्यन्तं, द्विपदमिदं सूत्रम् | धातोः (३.१.९१), प्रत्ययः (३.१.१), परश्च (३.१.२) इत्येषाम् अधिकारः | अनुवृत्ति-सहितसूत्रम्— धातोः परश्च स्यतासी प्रत्ययौ लृलुटोः |
तर्हि स्य-प्रत्ययस्य योजनानन्तरं लृटि अनिट्-धातूनां कृते सिद्ध-तिङ्-प्रत्ययाः एते—
परस्मैपदे लृटि सिद्ध-तिङ्प्रत्ययाः—
स्यति स्यतः स्यन्ति
स्यसि स्यथः स्यथ
स्यामि स्यावः स्यामः
आत्मनेपदे लृटि सिद्ध-तिङ्प्रत्ययाः —
स्यते स्येते स्यन्ते
स्यसे स्येथे स्यध्वे
स्ये स्यावहे स्यामहे
ये धातवः सेटः सन्ति, तेषां कृते इडागमः भवति | इडागमस्य योजनेन सर्वत्र षत्वं भवति | इ + स्यति → इष्यति |
आदेशप्रत्यययोः (८.३.५९) = इण्-प्रत्याहारात् कवर्गीयात् च परे अपदान्तः आदेशरूपी प्रत्ययावयवो वा सकारः अस्ति चेत्, तस्य सकारस्य स्थाने षकारादेशो भवति | आदेशः तु मूर्धन्यवर्णस्य इत्येव उक्तं, परं स्थानेऽन्तरतमः इत्यनेन ट्, ठ्, ड्, ढ्, ण्, ष् इत्येषु मूर्धन्यवर्णेषु षकारस्य नैकट्यम्, अतः षकारः एव आदिष्टः भवति | नुम्, विसर्गः, शर्-प्रत्याहारस्थ-वर्णः एषु अन्यतमः मध्ये अस्ति चेदपि कार्यं भवति | इण्-प्रत्याहरे इमे वर्णाः अन्तर्भूताः— इ, उ, ऋ, ऌ, ए, ओ, ऐ, औ, ह, य, व, र, ल | अस्य कार्यस्य नाम षत्वविधिः | आदेशश्च प्रत्ययश्च आदेशप्रत्ययौ, तयोः आदेशप्रत्यययोः इतरेतरद्वन्द्वः | षष्ठ्यन्तम् एकपदमिदं सूत्रम् | सहे साडः सः (८.३.५६) इत्यस्मात् सः इत्यस्य अनुवृत्तिः | नुंविसर्जनीयशर्व्यवायेऽपि (८.३.५८) इत्यस्य पूर्णा अनुवृत्तिः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | इण्कोः (८.३.५७), अपदान्तस्य मूर्धन्यः (८.३.५५) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्—इण्कोः आदेशप्रत्यययोः अपदान्तस्य सः मूर्धन्यः संहितायां, नुंविसर्जनीयशर्व्यवायेऽपि |