29 - लक्षणम्‌ एकम्‌ अखण्डपदं किमर्थम्‌

From Samskrita Vyakaranam
10---nyAyashAstram/29---lakShaNam-ekam-akhaNDapadaM-kimartham
Jump to navigation Jump to search

गते पाठे उक्तं यत्‌ हेतुसत्त्वे साध्यसत्त्वम्‌‍ इत्यस्मिन्‌ न अव्याप्तिदोषः न वा अतिव्याप्तिदोषः, परन्तु व्याप्तिलक्षणत्वेन स्वीकार्यं नास्ति यतोहि लक्षणं सदा एकमखण्डपदम्‌ | प्रश्नः स्वाभाविकः, किमर्थम्‌ एकमखण्डपदं भवेत्‌‍ | अत्र अस्य उत्तरं दीयते |


न्यायशास्त्रे इयं श्रुतिरस्ति—व्यावृत्तिर्व्यवहारो वा लक्षणस्य प्रयोजनम् |


१) व्यवाहारः

पृथिवी-शब्दस्य व्यवहारः तत्रैव भवति यत्र गन्धवत्त्वम्‌ इति लक्षणस्य समन्वयो भवति | एवञ्च पृथिवी इति शब्दस्य प्रयोगं प्रति लक्षणं कारणम्‌ अस्ति | कुत्र कुत्र पृथिवी-शब्दस्य प्रयोगः भवितुम्‌ अर्हति ? यत्र यत्र गन्धवत्त्वम्‌ अस्ति, तत्र तत्र | पृथिवी-शब्दस्य व्यवहारं प्रति लक्षणं गन्धवत्त्वं कारणम्‌ |


२) व्यावृत्तिः

व्यावृत्तिः इत्युक्ते इतरभेदसाधनम्‌ | 'पृथिवी जलादिभ्यः भिन्ना गन्धवत्त्वात्‌' इति अनुमानम्‌ | अत्र गन्धवत्त्वं हेतुः | इतरभेदसाधकानुमाने लक्षणं हेतुः | हेतुः अखण्डत्वेन प्रतिपादनीयः | यथा 'पर्वतो वह्निमान्‌ धूमात्‌' इति अनुमाने हेतुः धूमः एकमेव पदं पञ्चमीविभक्त्यन्तम्‌ | एकमेव पदं न भवति चेत्‌ हेतोः प्रतिपादनं कष्टम्‌ | अतः लक्षणम्‌ अखण्डरूपेण भवेत्‌ | नो चेत्‌‍ हेतुरूपेण तस्य उपन्यासः कर्तुं न शक्यते |


आपत्तिः— रूपस्य लक्षणं सखण्डम्‌ | 'चक्षुर्ग्राह्यत्वे सति चक्षुर्भिन्नेन्द्रियाग्राह्यत्वे सति गुणत्वं' रूपस्य लक्षणम्‌ इति कृत्वा सखण्डवाक्यं किल | एवं रीत्या अनेकानि सखण्डलक्षणवाक्यानि सन्ति न्यायशास्त्रे |


उत्तरम्‌— चक्षुर्ग्राह्यत्वे सति चक्षुर्भिन्नेन्द्रियाग्राह्यत्वे सति गुणत्वम् इत्यस्मिन्‌ 'सति' इत्यस्य 'विशिष्ट' इत्येव अर्थः | चक्षुर्ग्राह्यत्वविशिष्टचक्षुर्भिन्नेन्द्रियाग्राह्यत्वविशिष्टगुणत्वम् | एकम्‌ अखण्दपदमिदम्‌ | अतः 'सति' इति उपयुज्यते चेदपि अर्थतया एकम्‌ अखण्दपदमिदम्‌ अस्ति | यत्र ‘यत्‌’ शब्दः संयुज्यते प्रस्तुतलक्षणवाक्ये अथवा तादृशशैली उपयुज्यते यस्य फले द्विवारम्‌ अन्वयः वक्तव्यः, तत्र ‘सखण्डवाक्यम्‌’ इति उच्यते |


अखण्डपदं नास्ति चेत्‌ हानिः का ? इतरभेदसाधकानुमाने हेतुः लक्षणम्‌ एकं पदं नास्ति चेत्‌ कथं वा हेतुत्वं प्रतिपादनीयम्‌ | गन्धवत्त्वात्‌ इति यथा, अखण्दपदं नास्ति चेत्‌ 'तस्मा‌त्‌' इति कथं वदेम ?


अन्य रीत्या अपि इयं समस्या प्रदिपादयितुं शक्यते | अव्याप्ति-अतिव्याप्ति-असम्भवरूपदोषत्रयरहितो धर्मः असाधारणधर्मः | अखण्डः एकः धर्मः नोच्यते चेत्, तद्‌ अव्याप्ति-अतिव्याप्ति-असम्भवरूपदोषत्रयराहित्यम्‌ इति दर्शयितुं न शक्यते | दलत्रयं वा दलचतुष्टयं वा भवतु, परन्तु विशिष्टः एकः धर्मः अपेक्षितः |

चक्षुर्ग्राह्यत्वविशिष्टचक्षुर्भिन्नेन्द्रियाग्राह्यत्वविशिष्टगुणत्वरूपधर्मः रूपस्य लक्षणम्‌ | चक्षुर्ग्राह्यत्वविशिष्टचक्षुर्भिन्नेन्द्रियाग्राह्यत्वविशिष्टगुणत्वं रूपे अस्ति इति प्रदर्शयितुं शक्नुमः | अपि च केवलं रूपे अस्ति | सर्वेषु रूपेषु अस्ति; रूपं विहाय अन्यत्र कुत्रापि नास्ति | जानीमः यतोहि एकस्मात्‌ अखण्डरूपधर्मत्वात्‌ अस्य परीक्षणं कर्तुं शक्यते | यदि अखण्डः एकः धर्मः न भवति, तर्हि 'अव्याप्तिः न भवति', ‘अतिव्याप्तिः न भवति' इति दर्शयितुं न शक्यते |


निदर्शनं स्वीकुर्मः 'हेतुसत्त्वे साध्यसत्त्वम्‌' | एतत्‌ कथनं सखण्डम्‌ इति उक्तम्‌ | चक्षुर्ग्राह्यत्वे सति चक्षुर्भिन्नेन्द्रियाग्राह्यत्वे सति गुणत्वम् इत्यस्मिन्‌ सर्वं विशेषणत्वेन व्यक्तीकर्तुं सम्भवति येन एकं पदं स्यात्‌ | परन्तु 'हेतुसत्त्वे साध्यसत्वम्‌' इति व्याप्तिलक्षणरूपेण वदामः चेत्‌, स च धर्मः कस्य दर्शयति ? समन्वयः प्रदर्शनीयः | 'व्याप्ये अयं धर्मः अस्ति' इति दर्शयति चेत्, तत्र व्याप्तिः अस्ति इति वक्तुं शक्यते | अथवा व्यापके अयं धर्मः अस्ति इति दर्शयति चेत्‌, व्यापकत्वस्य लक्षणम्‌ इति चिन्तयितुं शक्यते | अयं धर्मः तस्मिन्‌ अस्ति अपि च अन्यत्र नास्ति इति प्रदर्शनीयं भवति |


तर्हि 'तस्मिन्‌ अस्ति', ‘अन्यत्र नास्ति' इत्यस्य चिन्तनार्थं, प्रदर्शनार्थं कश्चन एकः धर्मः अपेक्षितः | 'दोषः अस्ति' इति प्रदर्शनार्थं 'कुत्र दोषः अस्ति' इति प्रश्नः भवति | यथा साध्याभाववदवृत्तित्वम्‌ | कुत्र ? हेतौ | अत्र 'दोषः अस्ति' इति प्रदर्शयितुम्‌ इच्छति चेत्‌, हतुं विहाय अन्यत्र अयं साध्याभाववदवृत्तित्व-धर्मः लभ्यते इति प्रदर्शनीयम्‌ | किन्तु 'हेतुसत्त्वे साध्यसत्त्वम्‌' इति स्वीकुर्मः चेत्‌, ‘दोषः अस्ति' इति प्रदर्शयितुम्‌ इच्छति चेत्‌, 'कुत्र' इति प्रश्ने सति स्थलं न लभ्यते |


लक्षणवाक्यं द्विविधं—स्वरूपलक्षणं, तटस्थलक्षणं चेति | गन्धवत्त्वम्‌ इति लक्षणं पृथिव्यां समन्वयो भवति | व्याप्तिलक्षणस्य समन्वयः किन्तु व्याप्तौ नास्ति अपि तु व्याप्ये धूमे | व्याप्तिलक्षणं स्वरूपलक्षणं; पृथिवीलक्षणं तटस्थलक्षणम्‌ | तटस्थलक्षणं स्वस्मिन्‌ अन्वयः, स्वरूपलक्षणम्‌ अपरस्मिन्‌ अन्वयः; उभयत्र अखण्डत्वम्‌ आवश्यकम्‌ | अखण्डः एकः धर्मः भवेत्‌ |


साध्याभाववदवृत्तित्वम्‌ इति व्याप्तिस्वरूपं लक्षणरूपेण परीक्षणयोग्यम्‌ | तथैव 'हेतुमद्वृत्तित्वं' व्यापकस्य लक्षणं परीक्षणयोग्यम्‌ | इदं लक्षणवाक्यम्‌ अतिव्याप्तम्‌ इत्युक्तम्‌ | किमर्थम्‌ ? यतोहि धूमाधिकरणं महानसं, तद्वृत्तित्वं न केवलं वह्नौ अपि तु पात्रे अपि | किन्तु अस्मिन्नेव अर्थे 'यत्र हेतुः तत्र वृत्तिः' इति वदामः चेत्‌ तस्य अखण्दपदाभावात् परीक्षणं कष्टम्‌ | अतिव्याप्तिः प्रदर्शनीया | अलक्ष्यवृत्तित्वम्‌ अतिव्याप्तिः | ‘पात्रे अयं धर्मः अस्ति' इति दर्शनीयम्‌ | पात्रे कः धर्मः अस्ति यस्य फलेन अतिव्याप्तिः ? ‘यत्र धूमः अस्ति, तत्र पात्रम्‌ अपि अस्ति' इत्यस्य वदनेन न पर्याप्तम्‌ | अस्य कथेनन पात्रे 'व्यापकत्वं भवेत्‌ किन्तु नास्ति' इति वक्तुम्‌ इच्छामः चेत्‌, पात्रे कश्चन अतिव्याप्तः धर्मः प्रदर्शनीयः | 'अलक्ष्ये पात्रे अयं धर्मः अस्ति' इति दर्शनीयम्‌ | तत्र पात्रे 'धूमाधिकरणवृत्तित्वम्‌ अस्ति' इति दर्शनीयं किल | धूमाधिकरणवृत्तित्वम्‌ अखण्डः एकः धर्मः इत्यतः प्रदर्शयितुं शक्यते | किन्तु 'यत्र हेतुः तत्र वृत्तिः' इति वदामः चेत्‌ पात्रे 'कः धर्मः अस्ति' इति दर्शयितुं न शक्यते | ‘यत्र तत्र' योजितम्‌ अस्ति इति कारणम्‌ | सखण्डत्वम्‌ | एवमेव व्यावृत्त्वस्थले लक्षणम्‌ अखण्डं नास्ति चेत्‌ इतरभेदसाधकानुमाने हेतुरूपेण उपन्यासोऽपि न भवति |


अतः व्यावृत्तिर्व्यवहारो वा लक्षणस्य प्रयोजनम् इत्यस्य अर्थपूर्त्यर्थम्‌, इत्यस्य परीक्षणार्थम्‌, अपि च तथैव अव्याप्ति-अतिव्याप्ति-असम्भवरूपदोषत्रयरहितो धर्मः असाधारणधर्मः इत्यस्य परीक्षणार्थम्‌ एकः अखण्डः धर्मः अपेक्षितः |


Swarup – October 2020