01 - अङ्गम् इति विषयः
ध्वनिमुद्रणानि - |
---|
१) angam-it-viShayaH_2016-08-10 |
२) angam-it-viShayaH-2__2016-08-17 |
सर्वप्रथमम् अङ्गं नाम किम् इति अस्माभिः ज्ञेयम् |
यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् (१.४.१३) = यस्मात् प्रकृति-रूपात् प्रत्ययः विहितः भवति, यस्य आदौ प्रकृतिरस्ति, यस्य अनन्तरं स च प्रत्ययः उपस्थितः, तस्य नाम अङ्गम् | प्रकृतिः इत्युक्तौ धातुः प्रातिपदिकं च | “यस्य आदौ" उक्तं यतोहि मध्ये आगमाः आदेशाः च सन्ति चेदपि, आहत्य प्रत्ययात् प्राक् यावत् अस्ति, तत् सर्वम् "अङ्गम्" इत्युच्यते | विधानं विधिः | प्रत्ययस्य विधिः प्रत्ययविधिः, षष्ठीतत्पुरुषः | तत् प्रकृतिरूपम् आदिर्यस्य तत्-- तदादि, बहुव्रीहिः | यस्मात् पञ्चम्यन्तं, प्रत्ययविधिः प्रथमान्तं, तदादि प्रथमान्तम्, प्रत्यये सप्तम्यन्तम्, अङ्गं प्रथमान्तम्, अनेकपदमिदं सूत्रम् | कोऽपि अधिकारोऽनुवृत्तिर्वा नास्ति | सूत्रं स्वयं सम्पूर्णम्— यस्मात् प्रत्ययविधिः तदादि प्रत्यये अङ्गम् |
सार्वधातुक-लकारेषु (लट्, लोट्, लङ्, विधिलिङ् इत्येषु) तिङ्संज्ञकान् तिबादि-प्रत्ययान् अधिकृत्य अङ्गं नाम धातु-विकरणप्रत्यययोः संयुक्तरूपम् | (यस्य तिङ् संज्ञा भवति, सः 'तिङ्संज्ञकः' |) अत्र "तिबादि-प्रत्ययान् अधिकृत्य"—उदाहरणार्थं "भवति" इत्यस्य निर्माणसमये, "ति" इत्यस्य दृष्ट्या अङ्गं "भव" इति | "ति" इत्यस्मात् पूर्वं यावत् अस्ति, तत् सर्वं ति इत्यस्य कृते "अङ्गम्" | तर्हि अत्र अङ्गं नाम धातु-विकरणप्रत्यययोः संयुक्तरूपम् | यथा वद् + अ → वद, भू + अ → भव इत्यादीनि अङ्गानि |
इदानीम् इदं सार्वधातुक-लकाराणाम् अङ्गं कथं निर्मीयते इति विषयः | बहुत्र किमपि विशेषं कार्यं नास्ति, केवलं संयोजनम् | यथा वद् + शप् → वद् + अ → वद | किन्तु केषुचित् प्रसङ्गेषु कार्यं वर्तते, यथा भू + शप् → भव | "भू + अ = भूअ" इति तु न भवति किल; किञ्चित् कार्यम् अस्ति, येन "भव" इत्यङ्गं निष्पन्नं स्यात् |
अत्र इत्-संज्ञा नाम का इति विषये किञ्चित् पुनस्स्मरणं भवति | 'इत्' 'शित्' च इत्यनयोः अर्थः सम्यक् न ज्ञायते चेत्, अग्रे द्वयोः पङ्क्त्योः मध्ये स्थितः भागः अवश्यं पठनीयः | ये अस्मिन् विषये सम्यक् स्मरन्ति, ते इदम् उपभागम् अपठित्वा साक्षात् ततः अग्रे गच्छेयुः |
-------------------------------------
१) इत् नाम किम् ?
पाणिनीय-व्यवस्थायां, पदानां (नामपदानां क्रियापदानां च) व्युत्पत्त्यर्थं क्रमः भवति | क्रमस्य नाम प्रक्रिया | प्रक्रियायां सोपानानि सन्ति |
दृष्टान्ते राम-शब्दः | प्रथम्यन्तं पदं रामः | व्युत्पत्त्यर्थं क्रमः भवति | तथा हि—
राम + सु → रामसु → रामस् → राम + रु → रामर् → रामः
एवं च कस्य अपि शब्दस्य व्युत्पत्त्यर्थं सोपानानि सन्ति | सोपानेषु बहुत्र वर्णाः आगच्छन्ति, किन्तु न तिष्ठन्ति | किञ्चित् विशिष्टं कार्यं कृत्वा अपगच्छन्ति | यथा अत्र राम-शब्दः | सु आगच्छति, तदा उ गच्छति, तदा स् गच्छति, तदा रु आगच्छति, तदा उ गच्छति, तदा र् गच्छति | गच्छति इत्युक्ते तेषां वर्णानां लोपः भवति | यद्यपि एते वर्णाः न तिष्ठन्ति, तथापि तेषां मूल्यवत् कार्यम् अस्ति | तत् कार्यं किम् इति अग्रे वक्ष्यते | येषां वर्णानां लोपः भवति, तेषां इत् इति संज्ञा भवति |
व्याकरणे यत्र नाम दीयते, तत् नाम 'संज्ञा' इति उच्यते | अतः 'इत् संज्ञा' इति | रामसु इत्यस्मिन् रूपे उकारस्य इत् संज्ञा इति उच्यते | सकारस्य अपि इत् संज्ञा, इत् इति नाम |
२) शित्, कित्, ङित्, पित्
शकारः इत् यस्य तत् शित् |
शतृ इति कश्चन प्रत्ययः | बालकः खादन् वदति | खादन् इति शत्रन्तं पदम् अस्ति— शतृ-प्रत्ययः अन्ते अस्ति | शतृ-प्रत्यये शकारः अस्ति; किन्तु सः शकारः न तिष्ठति— पश्यतु, 'खादन्' इति पदे शकारः अस्ति किम् ? नास्ति किल | अतः शकारः न तिष्ठति, अपितु किञ्चित् कार्यं कृत्वा गच्छति | एवं च शकारः इत्-संज्ञकः | इत्-संज्ञकः शकारः शतृ प्रत्यये अस्ति, अतः शतृ-प्रत्ययः शित् इति उच्यते |
शतृ प्रत्ययः शित् |
ककारः इत् यस्य तत् कित् |
क्तवतु प्रत्ययः कित् | (ककारः न तिष्ठति |)
तुमुन् प्रत्ययः न शित्, न वा कित् |
तव्यत् प्रत्ययः अपि न शित्, न वा कित् |
ङकारः इत् यस्य तत् ङित् | पकारः इत् यस्य तत् पित् | अग्रे गत्वा किं ङित्, किं पित् इति दृश्यताम् |
-------------------------------------
तर्हि सार्वधातुक-लकाराणाम् अङ्गं कथं निर्मीयते इति विषयः | एकवारम् आरम्भतः येषां धातूनाम् अङ्गम् अदन्तं, तेषां कृते अङ्गं कथं निष्पन्नम् इति दृश्यताम् |
१. तिङ्-शित्सार्वधातुकम् (३.४.११३)
इदं सूत्रम् अवलोकयाम-- तिङ्-शित्-सार्वधातुकम् इति | नाम यः प्रत्ययः "तिङ्" वा "शित्" वा अस्ति, सः प्रत्ययः "सार्वधातुकम्" इति उच्यते | सार्वधातुकम् एकं नाम (एका संज्ञा) अस्ति, तावत् एव | व्याकरणे बहूनि नामानि सन्ति | अस्तु, तर्हि-- शप् प्रत्ययः शित् इति ज्ञातं, तदा यः शित् सः सार्वधातुकम् इति अत्र उक्तम्, अतः शप् सार्वधातुक-संज्ञां प्राप्नोति |
के के सार्वधातुकसंज्ञकाः अर्हाः इति इदं सूत्रं सूचयति |
- अष्टादश तिङ्संज्ञक-प्रत्ययाः सन्ति | "भवति" इत्यस्मिन् यः "ति" अस्ति, सः तिङ्संज्ञक-प्रत्ययः इत्युच्यते |
परस्मैपदिधातूनां कृते नव प्रत्ययाः सन्ति [भव + ति, तः, अन्ति, सि, थः, थ, मि, वः, मः] | आत्मनेपदिधातूनां कृते नव प्रत्ययाः सन्ति [वर्ध + ते, इते, अन्ते, से, इथे ध्वे, ए, वहे, महे] | एतेषां अष्टादश-प्रत्ययानां मूलरूपाणि सन्ति-
- परस्मैपदिधातूनां तिप्, तस्, झि, सिप्, थस्, थ, मिप्, वस्, मस्; पुनः आत्मनेपदिधातूनां त, आताम्, झ, थास्, आथाम्, ध्वम्, इड्, वहि, महिङ् |
- नव कृत्-प्रत्ययाः शित् सन्ति इति कारणतः सार्वधातुकसंज्ञकाः भवन्ति | ते च शतृ, शानच्, चानश्, शानन्, खश्, श, एश्, शध्यै, शध्यैन् | तेषु अस्माकं कृते शतृ शानच् प्रसिद्धौ |
- षट् विकरणप्रत्ययाः शित् सन्ति इति कारणतः सार्वधातुकसंज्ञकाः भवन्ति | ते च शप्, श्यन्, श्नु, श, श्नम्, श्ना |
२. कर्तरि शप् (३.१.६८)
अनुवृत्ति-सहितसूत्रम्-- धातोः परः शप् प्रत्ययः कर्तरि सार्वधातुके |
स्मर्यते यत् पाणिनीयसूत्रेषु सप्तमीविभक्तेः अर्थः "पूर्वम्" इति |
तर्हि सूत्रार्थः-- धातुभ्यः कर्त्रर्थे अष्टादश तिङ्संज्ञक-प्रत्ययाः, अपि च नव शित् कृत्-प्रत्ययाः च यत्र यत्र भवन्ति, तत्र तत्र तेषु परेषु (तेषां पूर्वं) शप् प्रत्ययः विधीयते | अत्र कर्त्रर्थे कर्तरि प्रयोगः इति अवगम्यताम् | भावे कर्मणि च शप् प्रत्ययः न विहितः |
एतत् अपि बोध्यं यत् दशसु अपि गणेषु कर्त्रर्थे शप् विकरणप्रत्ययः विहितः | अनन्तरं भ्वादिगणं चुरादिगणं च विहाय, कुत्रचित् शपः लोपः भवति (अदादिगणे जुहोत्यादिगणे च), कुत्रचित् शपं प्रबाध्य अन्यः विकरणप्रत्ययः आयाति |
अदादिभ्यः शप्-लुक् (शपः लोपः)
जुहोत्यादिभ्यः शप्-श्लु (शपः लोपः)
दिवादिभ्यः श्यन्
स्वादिभ्यः श्नु
तुदादिभ्यः श
रुधादिभ्यः श्नम्
तनादिभ्यः उ
क्र्यादिभ्यः श्ना
३. अधुना अस्माकम् अङ्ग-निर्माणम्
कर्त्रर्थे वद् + लट् → वद् + ति → वद् + शप् + ति → वद् + अ + ति
तर्हि वद् + अ इति स्थितिः | अत्र सार्वधातुक-लकारेषु (लट्, लोट्, लङ्, विधिलिङ् इत्येषु) बहुत्र केवलं धातु-विकरणयोः संयोजनम् | यथा वद् + अ → वद इति अङ्गं निष्पन्नम् | यत्र यत्र धातुः हलन्तः, अपि च तस्य उपधायाम् अकारः अस्ति, तत्र केवलं धातु-विकरणयोः संयोजनम् |
४. धातौ गुणकार्यम्
धात्वन्ते इक्-प्रत्याहारस्य अन्यतमः वर्णः (इ, उ, ऋ, ऌ) अस्ति चेत्, अथवा उपधायां ह्रस्वः इ, उ, ऋ, ऌ अस्ति चेत्, तर्हि विकरणप्रत्ययस्य प्रभावेन गुण-प्राप्तिः भवति | कुत्रचित् प्राप्तौ निषिद्धः अपि भवति | कुत्र कुत्र इति अधः पश्याम | प्रायः स्मर्यते--
स्वरः इ, ई उ, ऊ ऋ, ॠ
गुणः ए ओ अर्
- सार्वधातुकार्धधातुकयोः (७.३.८४) इति अन्यत् सूत्रम् अस्ति | [सार्वधातुकार्धधातुकयोः इति सप्तम्यन्तं पदम् | "सार्वधातुकार्धधातुकयोः गुणः अङ्गस्य” इति अनुवृत्ति-सहितं सूत्रम् |]
अस्य सूत्रस्य अर्थः एवम्-- इगन्त-धातोः अनन्तरं सार्वधातुकम् अथवा आर्धधातुकं प्रत्ययः अस्ति चेत्, तर्हि इगन्तस्य अङ्गस्य गुणः भवति | यथा भू + शप् → भो + शप् → भो + अ
- सन्धिप्रकरणे एकं सूत्रम् अस्ति-- एचोऽयवायावः (६.१.७८) | अय्, आय्, अव्, आव् आदेशाः क्रमेण आयान्ति, नाम यान्तवान्त सन्धिः | अनेन सूत्रेण एकस्मिन् पदे ओकारः अस्ति चेत्, तस्य अनन्तरं कोऽपि स्वरः अस्ति चेत्, तर्हि ओकारस्य स्थाने "अव्" आगच्छति | यथा भो + अ → ओ स्थाने अव् आदेशः, अतः भ् + अव् + अ → भव् + अ → भव इति अङ्गं सिद्धम् |
- पुगन्तलघूपधस्य च (७.३.८६) = "पुगन्तस्य लघूपधस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः" [अनुवृत्ति-सहितं सूत्रम्] | "लघूपधस्य अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः" इति अस्माकं कृते मुख्यः भागः | लघ्वी + उपधा → लघूपधा (=ह्रस्वा इक् उपधा; ह्रस्व इक् = इ, उ, ऋ) | उदाहरणार्थं बुध् धातौ, उपधायां ह्रस्वः उकारः |
लघूपधस्य = लघ्वी उपधा यस्य तत् अङ्गं लघूपधम् | तस्य अङ्गस्य | अत्र शपः दृष्ट्या अङ्गम् इत्युक्ते बुध्-धातुः एव | बुध्-धातौ लघूपधा (ह्रस्वः उकारः) अस्ति, अतः बुध्-धातुः स्वयं लघूपधम् अङ्गम् | सार्वधातुकार्धधातुकयोः इति सप्तम्यन्तं पदम् | व्याकरणसूत्रेषु सप्तमीविभक्तिः नाम "पूर्वम्" इति | अतः सार्वधातुक-संज्ञक-प्रत्ययात् पूर्वं (नाम शप् प्रत्ययात् पूर्वम्) लघूपधम् (नाम बुध् धातुः) अस्ति चेत, तस्य अङ्गस्य (नाम बुध् धातोः) लघ्वी-उपधायाः इकः (इक् षष्ठीविभक्तिः=इकः; नाम उकारस्य) गुणः भवति | अतः उकारस्य स्थाने ओकारः इति | बुध् + शप् → बोध इति अङ्गं सिद्धम् |
क्क्ङिति च (१.१.५) = यः प्रत्ययः गित्, कित् अथवा ङित् अस्ति, अपि च तं प्रत्ययं निमित्तीकृत्य इकः स्थाने गुणः अथवा वृद्धिः भवति स्म, सः (गुणः वृद्धिः) न भवति | ग् च क् च ङ् च तेषाम् इतरेतरद्वन्द्वः क्क्ङः; क्क्ङः इतः यस्य सः क्क्ङित्, तस्मिन् परे क्क्ङिति | द्वन्द्वगर्भबहुव्रीहिसमासः | अत्र ग्-स्थाने ककारः खरि च इत्यनेन चर्त्वसन्धिः | क्क्ङिति सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | इको गुणवृद्धी (१.१.३) इत्यस्य पूर्णतया अनुवृत्तिः; न धातुलोप आर्धधातुके (१.१.४) इत्यस्मात् न इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— क्क्ङिति च इकः गुणवृद्धी न |
"पित्सु गुणः, अपित्सु गुण-निषेधः" इति अधुना अस्माकं कृते अस्य सूत्रस्य प्रमुखः सिद्धान्तः | शित् प्रत्ययाः सार्वधातुकसंज्ञकाः | तेषु ये पित् अपि सन्ति, तेषां द्वारा गुणकार्यं सम्भवति | ये अपित् सन्ति (नाम ये पित् न सन्ति), तेषां द्वारा गुणकार्यं निषिद्धं-- न सम्भवति एव | तर्हि यः प्रत्ययः शित् अपि अस्ति, पित् अपि अस्ति तस्य एव द्वारा गुणकार्यं सिध्यते | विकरणप्रत्ययेषु कः प्रत्ययः शित् अपि पित् अपि अस्ति ? केवलं शप् | श्यन्, श्नु, श, श्नम्, श्ना च शित् सन्ति किन्तु अपित् सन्ति, अतः तेषाम् उपस्थितौ गुणकार्यं निशिद्धम् | तर्हि शप् कुत्र लभ्यते ? केवलं भ्वादिगणे चुरादिगणे च | अङ्गकार्ये गुणः सम्भवति केवलं भ्वादिगणे चुरादिगणे च | भ्वादिगणे यत्र धातुः इगुपधः वा इगन्तः वा, तत्र अङ्गे गुणकार्यं भवति | चुरादिगणे अपि शपः गुणकार्यं भवति किन्तु क्रमः किञ्चित् भिन्नः यतः शप्-इत्यस्मात् पूर्वं णिच् भवति | णिचि अनुबन्धलोपं कृत्वा "इ" इत्येव अवशिष्यते; तत्र शपः आगमनेन तस्य इकारस्य गुणः भवति-- अस्मिन् विषये चुरादिगणस्य पाठे इतोऽपि द्रक्ष्यामः | अधुना तावत् अवगच्छन्तु यत् शपः प्रभावेन अङ्गे गुणकार्यं भवति भ्वादौ चुरादौ एव |
(वस्तुस्थितिः एवं-- सार्वधातुकम् अपित् (१.२.४) इति सूत्रं वदति यत् सार्वधातुकप्रत्ययः अपित् अस्ति चेत्, तर्हि सः प्रत्ययः ङिद्वत् (ङित् इव) भवति | क्क्ङिति च (१.१.५) इति सूत्रं वदति यत् प्रत्ययः ङित् चेत्, तर्हि तेन प्रत्ययेन गुणः निषिद्धः अस्ति | अतः सूत्रद्वयेन विचारः सिद्धः यत् सार्वधातुकप्रत्ययः अपित् अस्ति चेत्, तर्हि तस्य प्रत्ययस्य प्रभावेन गुणः न भवति इति |)
५. धात्वादेशः
शबादीनां (शप् आदीनाम्) आगमनस्य कारणतः यदा कदा धातौ आदेशः विहितः भवति | नाम पूर्णधातोः स्थाने अन्यत् रूपम् आयाति | यथा पा + शप् → पिब् आदेशः → पिब् + शप् → पिब् + अ → "पिब" इति अङ्गं सिद्धम् | लटि पिबति | तथैव शपः उपस्थितौ स्था धातोः स्थाने तिष्ठ्, घ्रा स्थाने जिघ्र्, दा स्थाने यच्छ्, दृश् स्थाने पश्य् |
धातोः एकस्य भागस्य आदेशः चेदपि धात्वादेशः इत्युच्यते | यथा शपि परे गम्-धातौ मकारस्य स्थाने छकारादेशः | तदा त्/च्-आगमः | गम् + शप् → गछ् + शप् → गछ् + अ → गत्छ् + अ → गच्छ् + अ → गच्छ इत्यङ्गं सिद्धम् |
६. अङ्गस्य सिद्ध्यर्थम् अपराणि कार्याणि
इमानि कार्याणि अपि अवधेयानि; अत्र परिचयः दास्यते, गच्छता कालेन सर्वं ज्ञास्यामः |
- शपि परे धातौ "न्" इत्यस्य लोपः | यथा दंश् + शप् → दश इत्यङ्गम् | सञ्ज् + शप् → सज इत्यङ्गम् |
- अजादौ प्रत्यये परे धातौ नुम् आगमः | यथा जभ् + शप् (अ) → जम्भ इत्यङ्गम् |
- शिति परे धातौ स्वर-दीर्घः | यथा ष्ठिव् + शप् → ष्ठीव इत्यङ्गम् |
एवं च अदन्तम् अङ्गं कथं सिद्धम् इति अस्माभिः अत्र दृष्टम् | वस्तुतः अनदन्तम् अङ्गम् अपि अनया रीत्या सिद्धं भवति; सिद्धान्तः समानः | अस्मिन् पत्रे केवलम् अदन्तानि अङ्गानि अवलोकितानि |
Swarup March 2013 (Updated August 2016)
---------------------------------
धेयम्-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.
Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, click here.
To join a class, or for any questions feel free to contact Swarup [<dinbandhu@sprynet.com>].
१ - अङ्गम् इति विषयः.pdf (58k) Swarup Bhai, Apr 2, 2018, 12:34 AM v.1