09 - पाणिनीयव्याकरण-परिचयः १ - प्रकरण-प्रक्रिया-भेदः
अयं विषयः संस्कृतभारत्याः जाह्नवी-शिबिरे उपस्थापितः August 30, 2014; तत्र इदं करपत्रं सर्वेभ्यः दत्तम् | जालस्थानस्य homepage मध्ये आङ्ग्लभाषया यत् लिखितं, तस्मिन् विषये अत्र संस्कृतेन उपस्थापनं कृतम् |
अष्टाध्यायी-ग्रन्थस्य नाम वयं सर्वे श्रुतवन्तः | परन्तु एकं तथ्यम् अतीव न्यूनाः जानन्ति— पाणिनेः व्याकरणं सरलम् | "पाणिनीयव्याकरणं कठिनम्" इति मतं बहूनां मनसि वर्तते | इदम् एकम् अन्यथा चिन्तनम् इति पुष्पादीक्षित-महोदयायाः बोधः | वस्तुतः पाणिनेः एव चिन्तनविधिं मनसि निधाय कोऽपि अग्रे सरति चेत्, पाणिनीयव्याकरणं सरलम्— इति महोदया वदति | तस्याः मनसि पाणिनेः समग्रदृष्टिः वर्तते; इयं समग्रदृष्टिः सर्वत्र प्रसारिता भवतु, इति महोदयायाः जीवनलक्षयम् | अधुना एषा एव व्याकरणसमग्रदृष्टिः इत्यस्य प्रसङ्गे वक्तव्यम् अस्ति, येन भवन्तः अपि अवगन्तुं शक्नुयुः यत् पाणिनीयव्याकरणं सरलम् |
अत्र प्रमुखवार्ता अध्ययनविधिः | सङ्गणके यावती सूचना स्थाप्यते, तावती स्वीक्रियते तेन, चिन्ता नास्ति | परन्तु मनुष्यस्य मस्तिष्कः न तथा | लौकिकी सूचना— तत्र सीमा अस्ति | सूचनायाः आयोजनशैलीम् अवलम्ब्य मनुष्यः अधीते | सूचनायोजनं समीचीनं चेत्, शीघ्रमेव अधिकं शिक्षते | गणितविषये भवतु, विज्ञानविषये भवतु, सङ्गीतविषये भवतु, कस्मिनपि विषये सूचनायोजनं सम्यक् चेत्, शीघ्रमेव अधिकं शिक्षते मनुष्यः | सूचनायोजनं सम्यक् नास्ति चेत्, मनुष्यः मन्दं मन्दं न्यूनमेव अनुबुध्यते |
तर्हि शिक्षणविधिः सम्यक् स्यात् इति सिद्धान्तः | शिक्षणविधिः सम्यक् चेत्, मनुष्यस्य क्षमता तेन वर्धिता भवति, तस्याः च वर्धित-क्षमतायाः पूर्तिः अपि तेन विधिना भवति | अनया दृष्ट्या पाणिनिः अत्युत्तमः अध्यापकः | तस्य अष्टाध्यायी-ग्रन्थस्य सूचनायोजनशैली विलक्षणा | कथं विलक्षणा इति चेत्, संस्कृतभाषायाः आकृतिः तु बृहती; अस्याः बृहदाकृत्याः प्रकटीकरणार्थं यत् विशिष्टज्ञानायोजनम् आवश्यकम्, अष्टाध्याय्याः तादृशम् एव एकं विशिष्टज्ञानायोजनम्— “systems approach” नाम्ना |
पाणिनेः पूर्वं बहवः वैयाकरणाः आसन्, तैः विरचिताः ग्रन्थाश्च आसन् | परन्तु एकवारं यदा अष्टाध्यायी आगता, तदा अन्ये सर्वे ग्रन्थाः शनैः त्यक्ताः | किमर्थम् ? अष्टाध्यायी-ग्रन्थः सम्पूर्णः इति सत्यम्, तस्य लघुत्वं वर्तते इत्यपि सत्यम्— परन्तु कारणेषु अन्यतमम् इदम् अवश्यम्, विशालविषयस्य कृते एका विलक्षणा व्यवस्था |
अद्य येषां वृत्तिः संस्कृतव्याकरणमेव, तेषां सविधे अधिकसमयश्च अधिकं प्रशिक्षणञ्च अतः अष्टाध्याय्याः “systems approach” यद्यपि मनसि न स्यात्, तथापि ते बहु सङ्घर्षं कृत्वा, बहु समयं यापयित्वा व्याकरणाध्ययने सफलाः भवन्ति | परन्तु अस्माकं कृते, येषाम् अन्या वृत्तिः, अवकाशः न्यूनश्च, पाणिनेः “systems approach” अतिमहत्त्वपूर्णम् | अनेन “systems approach” इति शिक्षणविधिना, अध्ययनमार्गे तर्कः अधिकः, कण्ठस्थीकरणम् अतीव न्यूनम् | अपि च वृत्तिः या काऽपि भवतु नाम, अनेन मार्गेण सर्वेषां प्रगतिः शीघ्रमेव भवति इति निश्चितम् |
अस्मिन् पाठद्वये पाणिनेः अध्यापनविधिः “systems approach” कथम् इत्यस्य बोधनार्थं द्वौ बिन्दू अवलोक्येते—
१) प्रकरण-प्रक्रिया-भेदः
२) अष्टाध्याय्याः मानचित्रम्
A. वृत्तान्तः—कार्यानस्य निर्माणम्
१) Assembly Line Model
- क्रमेण आवल्यां भिन्नैः कर्मचारिभिः यानस्य एकैकस्य भागस्य निर्माणम् | एकस्य कर्मचारिणः एकम् एव कार्यं, यत् तेन कर्मचारिणा वारं वारम् आदिनं क्रियते | आनन्देन तस्य कर्मचारिणः तस्मिन् कार्ये नैपुण्यं जायते | शीघ्रमेव सम्यक्तया च तेन निर्धारितं कार्यं सिध्यति | कोऽपि piston निर्माति, कोऽपि steering wheel निर्माति, कोऽपि radiator निर्माति | एवं च यानस्य प्रत्येकं भागः assembly line मध्ये पृथक् स्थले, पृथक् जनेन निर्मीयते | तदा अन्ते सर्वं सङ्गृह्य कार्-यानं भवति | एवं रीत्या यन्त्रागारं सम्यक्तया प्रवर्तते |
२) एकस्मिन् प्रकोष्ठे पूर्णयानस्य निर्माणम्
- आरम्भतः अन्तपर्यन्तम्, एकेन कर्मचारिणा पूर्णयानं निर्मीयते | सः कर्मचारी स्वयं एकां घण्टां यावत् tires, तदा एकां घण्टां यावत् engine, तदा तथैव वातानुकूलनम्, exhaust, आसनानि, काचम् इत्यादिकम् | अनेन तस्य नैपुण्यं कस्मिनपि कार्ये न जायते | अतः कार्यं मन्दं, कष्टकरं, ससङ्घर्षमेव सिध्यति | यन्त्रागारं सम्यक्तया न प्रवर्तते इति तु निश्चितम् |
तथैव व्याकरणक्षेत्रे
उपरि पूर्णम् एकं यानं निर्मीयते; व्याकरणक्षेत्रे क्रियापदनिर्माणम् इति उदाहरणं स्वीक्रियताम् | संस्कृते मूलं धातुः इति ज्ञायते; क्रियापदस्य निर्माणे महान् प्रपञ्चः | अत्र यन्त्रागारे सर्वेषां दशानां धातुगणानां सर्वे दश लकाराः निर्मीयन्ते |
१) Assembly Line Model
- क्रमेण आवल्यां भिन्नेषु स्थलेषु भाषायाः एकैकस्य लकारस्य निर्माणम् | Assembly line इत्यस्य प्रत्येकस्मिन् स्थले एकम् एव कार्यं— एकः लकारः—यः वारं वारम् क्रियते | आनन्देन तस्मिन् कार्ये नैपुण्यं जायते | शीघ्रमेव सम्यक्तया च निर्धारितं कार्यं सिध्यति | यथा एकस्मिन् स्थले लट्-लकारः एव निर्मीयते, सर्वेषां दशानां गणानाम्, द्विसहस्रस्य धातूनाम् | तत्र सामान्यनियमाः, अपवादाश्च सर्वेषां लटः कृते एव | लट्-विषये नैपुण्यं शीघ्रमेव प्रकटम् | Assembly line इत्यस्य अपरस्मिन् स्थले लृट्, पुनः अपरस्मिन् स्थले लिट् इत्यादिकम् | एकैकस्मिन् स्थले एक एव लकारः, द्विसहस्रस्य धातूनां कृते | एवं कृत्वा सर्वे कर्मचारिणः स्वकार्ये निपुणाः, आनन्देन सर्वाणि क्रियापदानि निर्मितानि च |
२) भाषायन्त्रागरस्य एकस्मिन् प्रकोष्ठे एकस्य धातुगणस्य सर्वे दश लकाराः निर्मीयन्ते
एकस्मिन् प्रकोष्ठे, एकस्मिन् समये एकस्य घातुगणस्य सर्वेषां लकाराणां निर्माणम् | भू-धातोः एकं निमेषं यावत् लट्, तदा एकं निमेषं यावत् लिट्, तदा लुट्, तदा लृट्, तदा लोट् | प्रत्येकं लकारस्य प्रक्रिया भिन्ना ! यथा tire-निर्माणं engine-निर्माणं च भिन्नम्, तथा | अतः कार्यं मन्दं, कष्टकरं, ससङ्घर्षमेव सिध्यति | यन्त्रागारं सम्यक्तया न प्रवर्तते इति तु निश्चितम् |
अष्टाध्याय्याः मार्गः उपर्युक्तः प्रथमविकल्पः | सिद्धान्तकौमुद्याः मार्गः उपर्युक्तः द्वितीयविकल्पः |
अष्टाध्याय्याः मार्गः सर्वोत्तमः | लटि यावन्तः नियमाः सन्ति सर्वान् जानातु | भवति, माति, ददाति, नश्यति, आप्नोति, लिखति, भिनत्ति, करोति, क्रीणाति, चोरयति—आनन्देन जानीयाम | "भवति" इति जानीमश्चेत्, सौकर्येण अपरेषां धातूनां लट्-रूपाणि ज्ञातुं शक्यानि | यतोहि यन्त्रं समानम् | परन्तु लिटि बभूव, उवाच— तत्र यन्त्रं भिन्नम्, प्रक्रिया भिन्ना; अतः लिटः कार्यं यन्त्रागारस्य अपरस्मिन् स्थले क्रियते |
सिद्धान्तकौमुद्यां क्रमेण एकस्मिन् स्थले "भवति, बभूव, भविता, भविष्यति, भवतु, अभवत्" इत्येषां निर्माणम् | अनेन एकस्य अनन्तरं भिन्ना प्रक्रिया | प्रत्येकं प्रक्रिया पृथक् ! महत् कष्टम् ! अतः खलु जनाः चिन्तयन्ति यत् व्याकरणं कठिनम् |
सारांशः एवम्— एकस्मिन् स्थले लट्-लकारस्य सर्वेषां धातूनां भवतु, न तु भू-धातोः सर्वेषां लकाराणाम् | (लट् एकं यन्त्रम्; वारं वारं प्रयुक्तं चेत् सरलम् | विपरीतं भवति चेत् अतिकठिनम् |)
प्रकरण-ग्रन्थः, प्रक्रिया-ग्रन्थः
अष्टाध्यायी प्रकरण-आधारितो ग्रन्थः | सिद्धान्तकौमुदी प्रक्रिया-आधारितो ग्रन्थः | द्वयोरपि ग्रन्थयोर्महत्त्वं, द्वयोरपि ग्रन्थयोर्मूल्यम् | परन्तु अध्ययनमार्गे द्वयोः भूमिका भिन्ना | पाणिनिः मार्गदर्शकः | तस्य अष्टाध्याय्यां यः शिक्षणविधिः वर्तते, सः मार्गः | पाठ्यक्रमः अस्मात् आयाति | भट्टोजिदीक्षितविरचिता सिद्धान्तकौमुदी प्रक्रिया-ग्रन्थः; प्रक्रिया नाम पदस्य व्युत्पत्त्यर्थम् आरम्भतः व्युत्पन्नपदपर्यन्तं यः मार्गः, तस्य प्रदर्शनम् | प्रक्रिया अपि ज्ञातव्या अतः अस्य "reference text” इति रूपेण बहु मूल्यम् | द्वयोरपि मूल्यम्; कार्यं भिन्नम् |
B. इतिहासः
पाणिनिना अष्टाध्यायी विरचिता प्रायः common era (CE) इत्यस्मात् पञ्चशतं वर्षाणि प्राक् (fifth century BCE) | पाणिनेः पूर्वं बहवः वैयाकरणाः आसन्, तैः विरचिताः ग्रन्थाश्च आसन् | परन्तु एकवारं यदा अष्टाध्यायी आगता, तदा अन्ये सर्वे ग्रन्थाः शनैः त्यक्ताः इत्युक्तम् | बहुकालपर्यन्तं व्याकरणप्रशिक्षवः पूर्णाम् अष्टाध्यायीं कण्ठस्थीकुर्वन्ति स्म; शिक्षणविधिः कण्ठस्थीकरणम् | तेषु दिनेषु पुस्तकं लिखितरूपेण प्राप्यते स्म इति शङ्का; मुद्रणयन्त्रं नासीत् खलु ! अतः चतुस्सहस्रं सूत्रकण्ठस्थीकरणम् इति मार्गप्रचलनम् | गच्छता कालेन अयं मार्गः व्यावहारिको न इति केषाञ्चित् मतम्, अतः एकादश्यां शताब्द्यां (1100 CE) प्रक्रिया-ग्रन्थानाम् उदयः | अनेके तादृशाः ग्रन्थाः लिखिताः; एषां ग्रन्थानां शिखरं प्राप्तं सप्तदश्यां शताब्द्यां यदा भट्टोजिदीक्षितेन वैयाकरणसिद्धान्तकौमुदी प्रणीता |
अष्टाध्याय्यां चतुस्सहस्रं सूत्राणि; वैयाकरणसिद्धान्तकौमुद्याम् अपि तानि एव चतुस्सहस्रं सूत्राणि | परन्तु सिद्धान्तकौमुद्याम् अष्टाध्याय्याः सूत्रक्रमः त्यक्तः; स्थाने पदानां व्युत्पत्त्यर्थं यथासङ्गं सूत्रस्य आनयनम् | तस्मात् आरभ्य अद्यपर्यन्तं प्रचलितो विधिः अयमेव |
प्रक्रियाग्रन्थे अष्टाध्याय्याः कण्ठस्थीकरणस्य आवश्यकता न, अतः जनेभ्यः रोचते स्म | तथापि अत्र बहु काठिन्यम् | यथा उक्तम्, एकस्मिन् प्रकोष्ठे सर्वेषां रूपाणां निर्माणम् इत्यनेन नैपुण्यं मन्दं मन्दं जायते | अन्यच्च पाणिनीयसूत्रं स्वस्य मूलक्रमे नाम मूलवातावरणे नास्ति इति कारणतः अनुवृत्तिः न अवगम्यते | अग्रे अस्मिन् विषये वक्ष्यते | एतत् कारणद्वयमपि विहाय काठिन्यस्य अन्यानि बहूनि कारणानि सन्ति | तस्य फलम् इदं यत् केचन एव जनाः—ये पूर्णतया समर्पिताः—अस्मिन् मार्गे गन्तुम् अर्हन्ति स्म | सामान्यजनानां कृते एतादृशी सम्भावना नास्ति अतः खलु पश्यामः यत् बहूनाम् इच्छा वर्तते, बहवः आरभन्ते परन्तु आधिक्येन सर्वे मार्गं त्यजन्ति | येषां जीवने अन्यानि कार्याणि सन्ति, तेषां कृते अपि च वस्तुतः सर्वेषाम् कृते अयं मार्गः कष्टकरः |
अधुना पुष्पादीक्षित-महोदया पुनः अष्टाध्याय्याः मूलमार्गम् आनीतवती अस्ति | परन्तु प्राचीनकालस्य कण्ठस्थीकरण-शैली इति न; अष्टाध्याय्याः यः अन्तर्वर्ती तर्कः अस्ति तस्य पूर्णतया उपयोगं कृत्वा पाणिनेः समग्रदृष्टिम् उद्घाटयति | अनेन येषां वृत्तिः संस्कृतं नास्ति येषां च वृत्तिः संस्कृतम् अस्ति, सर्वेषां कृते पाणिनीयव्याकरणं सरलम् अभवत् | पण्डिताः सामान्यजनाः च, सर्वे सौकर्येण ज्ञातुं योग्याः |
आहत्य प्रायः प्राचीनकालात् अद्यपर्यन्तं शास्त्रीय-व्याकरणपाठः परिगणितेषु गुरुकुलेषु प्रवर्तमानः | तेषु स्थलेषु अनेकवर्षाणांम् अध्ययनानन्तरमेव कश्चन बोध उदेति स्म | अधुना प्रथमवारम् एका पद्धतिः आविष्कृता यस्या द्वारा साधारण-मनुष्याः अपि बोद्धुम् अर्हन्ति | वस्तुतः चिन्ताधारा पाणिनेः एव नान्यस्य | परन्तु माता दीक्षितपुष्पा अनया सरलरीत्या उपस्थापयति येन सर्वेषां मनसि ज्ञानप्रकाशः शीघ्रमेव प्रकटो भवति | This is a revolution in Samskrita Grammar | संस्कृतव्याकरण-शिक्षणे अयं वस्तुतः विप्लवः |
तर्हि अधुना पाणिनीयव्याकरणम् आरभामहै !
C. अनुवृत्तिः
अष्टाध्याय्याम् अनुवृत्तिः नाम सिद्धान्तः सर्वत्र केन्द्रीभूतः | अनेन सूत्राणाम् अर्थपूरणं भवति | लौकिकम् उदाहरणं दीयते चेत् स्पष्टं स्यात्—द्वयोर्जनयोः सम्भाषणम् | रामः वदति "अहम् आपणं गच्छामि" | श्यामः वदति "अहम् अपि" | वयं द्वयोः सम्भाषणं श्रुत्वा अवगच्छामः यत् श्यामस्य आशयः "अहम् अपि आपणं गच्छामि" इति | यद्यपि श्यामः केवलम् "अहम् अपि" इत्यवदत्, तथापि वयं तस्य अर्थं पूरयामः मनसि | तादृशम् अर्थपूरणं पाणिनिः इच्छति सूत्रेषु | यानि पदानि न उक्तानि यतः पूर्वतनसूत्रेषु दत्तानि, तानि अनुवृत्तयः इत्युच्यन्ते |
अधुना, तस्मात् एव उपरितनात् सम्भाषणात् यदि वयं केवलम् "अहम् अपि" शृण्मः, तर्हि कथं वा तस्य अर्थं ज्ञातुं शक्नुयाम ? "अहम् अपि" इत्येव शृण्मः चेत्, वाक्यस्य पूरणं कर्तुं न शक्ष्यामः इति कारणतः "अहम् अपि" इत्यस्य अर्थः न ज्ञायते |
तथैव अष्टाध्याय्याम् एकं सूत्रं वर्तते— लिट् च (३.४.११५) | श्यामस्य वाक्यम् "अहम् अपि" इव अस्ति | लिट् च इत्युत्के "लिट् अपि तथा" | अस्तु, किन्तु "तथा" इत्युक्ते किम् ? तस्मात् प्राक् यत् सूत्रं पाणिनिना दत्तं, तत् अस्माकं पुरतः नास्ति चेत्, कथं वा अवगन्तुं शक्नुयाम ?
यदा सम्भाषणं पूर्णम् अस्ति, तदा सौकर्येण श्यामस्य वाक्यम् बुद्धम्—
रामः— "अहम् आपणं गच्छामि" |
श्यामः— "अहम् अपि" |
तथैव सूत्रप्रसङ्गे—
आर्धधातुकं शेषः (३.४.११४)
लिट् च (३.४.११५)
सूत्रसङ्ख्यां दृष्ट्वा ज्ञायते यत् आर्धधातुकं शेषः पूर्वसूत्रम् अस्ति; साक्षात् अनन्तरम् परसूत्रम् लिट् च इति | अनेन बुद्धं यत् लिट् च इत्युक्ते "लिट् अपि आर्धधातुकः" | इदानीम् आर्धधातुकः नाम कः इति अस्माकं विषयः नास्ति; किन्तु तर्कः स्पष्टः खलु— "लिट् अपि आर्धधातुकः" !
अनेन प्रकटम् अस्ति यत् सूत्राणां मूलक्रमे पठामः चेत्, महान् लाभः | अष्टाध्याय्याम् एव मूलक्रमः वर्तते | सिद्धान्तकौमुद्याम् अपि तानि एव चतुस्सहस्रं सूत्राणि; परन्तु सिद्धान्तकौमुद्याम् अष्टाध्याय्याः सूत्रक्रमः त्यक्तः |
परोक्षे लिट् (SK# २१७१) [अष्टाध्यायी ३.२.११५]
लिट् च (SK# २१७२) [अष्टाध्यायी ३.४.११५]
सिद्धान्तकौमुद्यां लिट् च इत्यस्मात् पूर्वम् अस्ति परोक्षे लिट्; अनेन किमपि न अवगम्यते | लिट् च इत्यस्य कोऽर्थः इति नैव ज्ञायते; अन्धकारे स्मः | अनेन द्वितीयः सङ्केतः प्राप्तः किमर्थम् अष्टाध्यायीक्रमम् अनुसृत्य पाठः करणीयः | प्रथमः सङ्केतः “assembly line model” इति, येन वारं वारं समानकार्यं कृत्वा बोधः नैपुण्यं च शीघ्रमेव जायेते | द्वितीयः सङ्केतः अनुवृतिः |
D. प्रकरणं प्रक्रिया च
अष्टाध्यायी प्रकरण-आधारितो ग्रन्थः; सिद्धान्तकौमुदी प्रक्रिया-आधारितो ग्रन्थः | प्रकरणं प्रक्रिया चेत्यनयोर्भेदः कः इति अस्माभिः बोध्यम् | पुष्पादीक्षित-महोदया सदा पाकशालायाः उदाहरणं ददाति | भोजनस्य निर्माणार्थं सामग्री आवश्यकी | तण्डुलः, जलम्, शाकः, पिष्टम्, हरिद्रा, आर्द्रकम् इत्यादिकम्—इदं सर्वं भोजनस्य सामग्री | पाकशालायां सर्वा सामग्री एकत्र न स्थाप्यते; पृथक्-पृथक् कोशेषु भवति | शाकः पृथक् कोशे, पिष्टं पृथक् कोशे, तण्डुलः पुनः पृथक् कोशे | सर्वा सामग्री एकस्मिन् एव कोशे एकत्र स्थाप्यते चेत्, अव्यवस्था भवति खलु; अतः सम्यक्तया, सावधानतया पृथक् पृथक् कोशेषु एकैकं वस्तु स्थाप्यते |
अष्टाध्यायी अपि तथा—भाषायाः पाकशाला | यावती सामग्री अपेक्षिता भाषायाः निर्माणार्थं, सर्वं अस्मिन् ग्रन्थे अस्ति | परन्तु एकत्र न; श्रेणीम् अनुसृत्य पृथक् पृथक् कोशेषु स्थाप्यते | प्रत्येकं कोशस्य नाम "प्रकरणम्" इति | णत्वप्रकरणं, द्वित्वप्रकरणं, सम्प्रसारणप्रकरणम् इत्यादिकम् |
भोजनस्य निर्माणार्थं केवलं सामग्री आवश्यकी इति न; मार्गनिर्देशोऽपि आवश्यकः | ओदनं निर्मातुं सर्वप्रथमं तण्डुलस्य प्रक्षालनं, तदा जले स्थापनं, तदा जलस्य क्वथनम्— एतादृशी सूचना अपेक्षिता | इयं पाककृतिः इति वदामः |
प्रक्रिया
यथा भोजननिर्माणविषये पाककृतिः, तथा भाषाक्षेत्रे प्रक्रिया | पदस्य निरमाणार्थं कानि सोपानानि सन्ति अपि च केन क्रमेण इति सूचना प्रक्रिया | जि + अ + ति → जयति— अस्य कार्यस्य कृते कानि सूत्राणि अपेक्षितानि, केन क्रमेण च इति प्रक्रिया |
जि + लट् इति विवक्षा; वर्तमाने लट् (३.२.१२३) लस्य (३.४.७७), शेषे प्रथमः (१.४.१०८) तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् (३.४.७८)
जि + तिप् हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९)
जि + ति कर्तरि शप् (३.१.६८)
जि + शप् + ति लशक्वतद्धिते (१.३.८), हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९)
जि + अ + ति तिङ्-शित्सार्वधातुकम् (३.४.११३), सार्वधातुकार्धधातुकयोः (७.३.८४)
जे + अ + ति एचोऽयवायावः (६.१.७७) (एकारस्य स्थाने अय्)]
ज् + अय् + अ + ति → वर्णानां मेलने → जयति इति क्रियापदं निष्पन्नम् |
अत्र एका प्रक्रिया प्रदर्शिता | जयति इति पदं कथं निर्मीयते इति प्रदर्शितम् | सूत्राणां सङ्ख्याः दृश्यन्ताम्; इमानि सूत्राणि विभिन्नेभ्यः अध्यायेभ्यः पादेभ्यश्च स्वीकृतानि इति कारणतः तेषां प्रक्रिया-सन्दर्भ-पठनेन सूत्रार्थो नैव अवगतः अस्माभिः |
प्रक्रियायाः किञ्चन फलं तु अस्त्येव; अनेन पदनिर्माणक्रिया बुद्धा | परन्तु सूत्रस्य अवगमनार्थम् अस्माकं क्लेशो भवति यतः यथा उक्तं पूर्वम्, सूत्रं स्वयं सम्पूर्णं वाक्यं न | सूत्रस्य पूरणार्थं वाक्यम् अपेक्षितम्; तच्च वाक्यं न प्राप्यते प्रक्रियायाम् अपि तु प्रकरणे एव |
प्रकरणम्
अष्टाध्यायी प्रकरणस्य आधारेण विरचितः | एकस्मिन् प्रकरणे— यथा णत्वप्रकरणं, द्वित्वप्रकरणं वा—वारं वारम् एकप्रकारकं कार्यं भवति | द्वित्वप्रकरणस्य उदाहरणं स्वीक्रियताम् | द्वित्वप्रकरणे धातोः द्वित्वं सिध्यति (दा → दादा → ददा → ददाति) | पाणिनीयव्याकरणे पञ्चसु स्थलेषु द्वित्वं भवति—श्लौ (जुहोत्यादिगणे), लिटि, चङि (लुङ्-लकारे), सनि, यङि च | एषां पञ्चानां कृते द्वित्वप्रकरणं वर्तते | तत्र द्वादश सूत्राणि सन्ति (६.१.१ – ६.१.१२) यत्र सर्वं द्वित्वसम्बद्धकार्यं सिद्धम् | अस्य प्रकरणस्य पठनेन महान् लाभः अयं यत् अस्माकं द्वित्वविषये नैपुण्यं जायते—भाषायां यत्र यत्र द्वित्वं भवति, तत्र तत्र आनन्देन कर्तुं शक्नुमः |
प्रकरणस्य द्वितीयलाभः यत् तत्र अनुवृत्तिः सर्वत्र अनुस्यूता, अतः सूत्रावगमनं सुकरम् | अत्र द्वित्वप्रकरणे प्रथमसूत्रम्— एकाचो द्वे प्रथमस्य (६.१.१) | इमानि त्रीणि पदानि एकाचो, द्वे, प्रथमस्य एकैकस्मिन् सूत्रे (६.१.१२-पर्यन्तम्) आगत्य उपविशन्ति | यतः अस्मिन् प्रकरणे तुल्यं कार्यं (द्वित्वम्) वारं वारं क्रियते, अतः वारं वारं समानशब्दानाम् आवश्यकता भवति एषु द्वादशसु सूत्रेषु |
पाणिनिः सूत्रस्य लघुत्वम् इच्छति | अतः यत् पदं दत्तं पूर्वस्मिन् सूत्रे, तत् पुनः अग्रिमे सूत्रे साक्षात् न दीयते; पाठकैः अवगम्यते यत् सः अर्थः पुनः आयाति तस्मिन् सूत्रेऽपि | इयम् अनुवृत्तिः इति पूर्वम् उक्तम् | एवं रीत्या यदा अष्टाध्यायी-क्रमेण सूत्राणि पठामः, तदा सौकर्येण सूत्राणि पूरयितुं शक्नुमः येन प्रत्येकं सूत्रं पूर्णं वाक्यं भवेत् | अनेन सूत्रार्थः मनसि स्फुरितो विद्यते |
E. इत्संज्ञा-प्रकरणम्
अत्र एकस्य प्रकरणस्य पूर्णम् उदाहरणं दीयते | अनेन प्रकरणं कथं कार्यं करोति इति दृश्यते | अन्यच्च इत्-संज्ञा नाम का इति अस्माभिः ज्ञायते |
पाणिनीयव्याकरणे मूलधातुषु, प्रत्ययेषु, आदेशेषु, आगमेषु च बहुवारं केचन वर्णाः उपस्थिताः ये न तिष्ठन्ति | इमे वर्णाः इत्-संज्ञकाः अथवा अनुबन्धाः इत्युच्यन्ते | इत्-संज्ञा एकं चिह्नम् अस्ति यस्य अर्थः अयमेव यत् अस्य वर्णस्य लोपो भविष्यति | केषां केषां वर्णानाम् इत् संज्ञा भवति इति ज्ञायते इत्-संज्ञा-विधायक-सूत्रैः | अष्टाध्याय्यां कश्चन प्रकरणं वर्तते इत्-संज्ञा नाम्ना, येन सर्वम् इत्-संज्ञाविधायक-कार्यं क्रियते | प्रथमाध्यायस्य तृतीयपादस्य द्वितीयसूत्रात् (१.३.२) आरभ्य, अष्टमसूत्रपर्यन्तम् (१.३.८) इत्-संज्ञा प्रकरणम् इति |
प्रश्नः उदेति अनुबन्धाः किमर्थं युज्यन्ते पाणिनिना यदि तेषां लोपः भवति एव ? अनुबन्धाः अपगच्छन्ति, परन्तु तैः सङ्केतः दीयते कार्यार्थम् | यथा कश्चन प्रत्ययः अस्ति "शप्" | तस्य शकारस्य इत्-संज्ञा, पकारस्य च इत्-संज्ञा | अनुबन्धलोपानन्तरम् "अ" इत्येव अवशिष्यते | शकारपकारयोः इत्-संज्ञा इत्यनेन धातोः स्वरपरिवर्तनं भवति | भू + शप् + ति → अनुबन्धलोपे → भू + अ + ति → शप्-प्रत्ययस्य कारणेन ऊकारः ओकारः भवति (गुणः) → भो + अ + ति → सन्धिः → भव + ति → भवति |
तर्हि क्रियापदविषये मूलधातुः कः, अपि च अनुबन्धानां निष्कासनानन्तरं किम् अवशिष्यते इति प्रथमम् अवगन्तव्यम् | परं तस्मात् धातोः विहितः यः प्रत्ययः अस्ति, तस्मिन् अपि अनुबन्धाः के, किं च अवशिष्यते | तदा एव अग्रे क्रियापदं निर्मातुं शक्नुयाम | सुबन्तपदविषये (नामपदविषये) अपि तथा; प्रथमं कार्यम् अस्ति प्रकृति-प्रत्यययोः अनुबन्धलोपः | तदा एव पदनिर्माणम् |
वृत्तान्ते डुपचँष् (पाके) इति मूलस्वरूपं, पचति इति क्रियापदम् | तत्र सामान्यतया धातुः "पच्" इति वदामः; परन्तु मूलतया डुपचँष् इति स्वरूपं वर्तते | तत्र केचन अनुबन्धाः सन्ति— आरम्भे डु, अन्ते षकारः अपि च चकारोत्तरवर्ती अँकारः | चकारात् उत्तरं वर्तते इति चकारोत्तरवर्ती | वर्ती इत्यस्य प्रातिपदिकं वर्तिन्, वृत् धातोः | त्रयाणाम् अपि अनुबन्धानाम् इत्-संज्ञा भवति, परं लोपः भवति; पच् इत्येव अवशिष्यते | ततः परम् अस्माभिः प्रत्ययः कः इति चिन्तनीयं, यथा तव्यत् | तत्र तकारस्य इत्-संज्ञा लोपः च, तव्य इति अवशिष्यते | तर्हि पच् + तव्य इति स्थितिः | एतादृश्यां स्थित्याम् इदानीं कार्यस्य आरम्भः भवति, येन पक्तव्यम् इति रूपं निष्पद्येत |
एवमपि धेयं, केचन धातवः प्रत्ययाः अपि तादृशाः सन्ति, येषु अनुबन्धाः न भवन्ति | यथा भू धातुः, भू सत्तायाम्— तत्र कोऽपि अनुबन्धः नास्ति | प्रत्ययेषु यथा "अ" प्रत्ययः, तत्र अनुबन्धः नास्ति |
उपदेशेऽजनुनासिक इत् (१.३.२) इति प्रथमम् इत्-संज्ञा-विधायकं सूत्रम् | उपदेशावस्थायां यः अच् अनुनासिकः अस्ति, तस्य इत्-संज्ञां करोति इदं सूत्रम् | उपदेशः नाम धातुः, प्रत्ययः, आदेशः, आगमो वा | अनुनासिकः अच् नाम यस्मिन् अचि ँ इति अनुनासिकचिह्नम् अस्ति | बृहद्धातुकुसुमाकरे पश्यन्ति चेत्, धातुषु न कुत्रापि अनुनासिकचिह्नं दृश्यते | किमर्थम् इत्युक्ते एकं पूर्णं स्वरविज्ञानं वर्तते; प्राचीनकाले इदं विज्ञानं ज्ञायते स्म | अद्य प्रायः इदं विज्ञानं न लभ्यते अतः अस्मिन् आधुनिकयुगे, स्वरविषये अस्माकं क्लेशः | तद्विज्ञानस्य अभावे बृहद्धातुकुसुमाकरेऽपि अनुनासिकचिह्नानि न दत्तानि | किन्तु वयं फलं दृष्ट्वा अनुमानं कर्तुं शक्नुमः यत्र अनुनासिकचिह्नं स्यात् | नाम यत्र मूलधातौ कश्चन स्वरः आसीत् यत् लौकिकधातौ नास्ति, तत्र अवगम्यते यत् सः स्वरः अनुनासिकः आसीत् अतः उपदेशेऽजनुनासिक इत् इति सूर्त्रेण तस्य लोपः जातः | अद्य इदम् इत्थम् इति वक्तुं कश्चन अन्योपायः नास्ति; ऊहया एव बोध्यम् | यथा गम्ऌ धातुः, अत्रः ऌ इति अच् वर्णः अनुनासिकः अस्ति अतः उपदेशेऽजनुनासिक इत् इति सूत्रेण तस्य इत्-संज्ञा भवति; तस्य लोपः इत्यनेन लोपः; गम् इति अवशिष्यते | ऌ अनुनासिकः अस्ति इति कथं ज्ञातम् ? फलं दृष्ट्वा | प्रक्रियायां लोके च गम् इत्येव दृश्यते अतः ऌ इत्यस्य लोपः जातः; लोपः जातः चेत् उपदेशेऽजनुनासिक इत् इत्येव सूत्रेण अर्हति स्म, अतः ऌ अनुनासिकः स्यात् इति अनुमानम् अस्माकम् |
(एतदपि धेयं यत्, यदि स्वरः अपरेण वर्णेन सह उपस्थितः, तर्हि कुत्रचित् तयोः एकं "unit” कृत्वा अपरेण सूत्रेण इत्-संज्ञा क्रियेत; यथा डुपचष् इत्यस्मिन् डकारोत्तरवर्ती यः उकारः अस्ति, सः उकारः अनुनासिकः नास्ति | तत्र "डु" इत्येव एकम् unit अस्ति अतः अपरेण सूत्रेण इत्-संज्ञा साध्येत |)
तर्हि प्रथमं कार्यम् इत्-संज्ञा इति | तदर्थं षट् सूत्राणि सन्ति; तेषु त्रीणि सूत्राणि धातुषु अपि प्रत्ययेषु अपि, नाम सर्वेषु उपदेशेषु प्रयुज्यन्ते; त्रीणि केवलं प्रत्ययेषु एव प्रयुज्यन्ते, न धातुषु |
प्रत्ययेषु अपि, धातुषु अपि—
१. उपदेशेऽजनुनासिक इत् (१.३.२; SK ३) = उपदेशे अच् अनुनासिकः इत् | नाम कस्मिन् अपि उपदेशे यः कोऽपि अच्-वर्णः अनुनासिकः अस्ति, तस्य इत्-संज्ञा भवति | उपदेशे सप्तम्यन्तम्, अच् प्रथमान्तम्, अनुनासिकः प्रथमान्तम्, इत् प्रथमान्तम्, अनेकपदमिदं सूत्रम् | अनुवृत्ति-सहित-सूत्रम्— उपदेशे अच् अनुनासिकः इत् | (अनुवृत्तिः नास्ति |)
२. हलन्त्यम् (१.३.३, SK १) = उपदेशे अन्त्यं हल् इत् स्यात् | नाम यस्य कस्य अपि उपदेशस्य अन्ते हल् वर्णः भवति, तस्य हल्-वर्णस्य इत्-संज्ञा भवति | हल् प्रथमान्तम्, अन्त्यं प्रथमान्तं, द्विपदमिदं सूत्रम् | अनुवृत्ति-सहित-सूत्रम्— उपदेशे हल् अन्त्यम् इत् |
३. न विभक्तौ तुस्माः (१.३.४, SK १९०) = विभक्त्यां तवर्गीयवर्णः, सकारः, मकारः च इत्-सज्ञकाः न भवन्ति | तुश्च स् च मश्च, तेषाम् इतरेतरद्वन्द्वः, तुस्माः | न अव्ययपदं, विभक्तौ सप्तम्यन्तं, तुस्माः प्रथमान्तं, त्रिपदमिदं सूत्रम् | अनुवृत्ति-सहित-सूत्रम्— विभक्तौ तुस्माः न इतः | [विभक्तिश्च (१.४.१०४) इत्यनेन सुप्-प्रत्ययाः तिङ्-प्रत्ययाः च सर्वे विभक्ति-संज्ञकाः |]
४. आदिर्ञिटुडवः (१.३.५, SK २२८९) = उपदेशस्य आदौ ञि वा टु वा डु वा अस्ति चेत्, तस्य इत्-संज्ञा भवति | ञि, टु, डु-- एते निबन्धाः धातुषु एव भवन्ति अतः इदं सूत्रं वस्तुतः धातूनां कृते | ञिः च, टुः च, डुः च, तेषाम् इतरेतरद्वद्वः ञिटुडु, बहुवचने ञिटुडवः (गुरु शब्दः इव) | आदिः प्रथमान्तं, ञिटुडवः प्रथमान्तं, द्विपदमिदं सूत्रम् | आदिः ञिटुडवः उपदेशे इत् | अनुवृत्ति-सहित-सूत्रम्— उपदेशे आदिः ञिटुडवः इत् |
प्रत्ययेषु एव--
१. षः प्रत्ययस्य (१.३.६, SK ४७४) = प्रत्ययस्य आदिः षः इत् | नाम प्रत्ययस्य आदौ षकारः अस्ति चेत्, तस्य इत्-संज्ञा भवति | षः प्रथमान्तं, प्रत्ययस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | अनुवृत्ति-सहित-सूत्रम्— प्रत्ययस्य आदिः षः इत् |
२. चुटू (१.३.७, SK १८९) = प्रत्ययस्य आदौ चवर्गीयः (च्, छ्, ज्, झ्, ञ्), अथवा टवर्गीयः (ट्, ठ्, ड्, ढ्, ण्) वर्णः भवति चेत्, तस्य वर्णस्य इत्-संज्ञा भवति | चुश्च टुश्च तयोः इतरेतरद्वन्द्वः, चुटू (द्विवचने, गुरु-शब्दः इव) | चुटू प्रथमान्तम्, एकपदमिदं सूत्रम् | यथा ण्वुल् → वु अवशिष्यते | अनुवृत्ति-सहित-सूत्रम्— प्रत्ययस्य आदी चुटू इतौ | वचनविपरिणामं कृतम् |
३. लशक्वतद्धिते (१.३.८, SK १९५) = प्रत्ययस्य आदि लशकु इत् अतद्धिते | नाम प्रत्ययस्य आदौ लकारः, शकारः, अथवा कवर्गीयः (क्, ख्, ग्, घ्, ङ्) वर्णः अस्ति चेत्, तस्य इत् संज्ञा भवति | लश्च, शश्च, कुश्च, तेषां समाहारद्वन्द्वः, लशकु | न तद्धितम्, अतद्धितं, तस्मिन् अतद्धिते | लशकु प्रथमान्तम्, अतद्धिते सप्तम्यन्तं, द्विपदमिदं सूत्रम् | अनुवृत्ति-सहित-सूत्रम्— प्रत्ययस्य आदि लशकु इत् अतद्धिते |
एकवारं यदा कस्यचित् वर्णस्य भागस्य वा इत्-संज्ञा भवति, तदा तस्य लोपः इति सूत्रेण, तस्य लोपो भवति |
तस्य लोपः (१.३.९, SK ६२) = इत्-संज्ञकस्य वर्णस्य लोपो भवति | तस्य षष्ठ्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम् | उपदेशेऽजनुनासिक इत् इत्यस्मात् इत् इत्यस्य अनुवृत्तिः, षष्ठ्यर्थे | अनुवृत्ति-सहित-सूत्रम्— तस्य इतः लोपः |
अनुवृत्तिः
एतेषाम् अनुवृत्ति-क्रमः सुलभः | पश्यन्तु | उपदेशेऽजनुनासिक इत् (१.३.२) इत्यस्मिन् न काऽपि अनुवृत्तिः | सर्वं सूत्रे एव वर्तते | हलन्त्यम् (१.३.३) इत्यस्मिन् सूत्रे उपदेशेऽजनुनासिक इत् इत्यस्मात् सूत्रात् "उपदेशे", “इत्" इत्यनयोः अनुवृत्तिः | अतः "उपदेशे अन्त्यं हल् इत्” इति वाक्यम् | न विभक्तौ तुस्माः (१.३.४) इत्यस्मिन् उपदेशेऽजनुनासिक इत् इत्यस्मात् “इत्" इत्यस्य अनुवृत्तिः | अतः "विभक्तौ तुस्माः न इतः इति वाक्यम् | पुनः आदिर्ञिटुडवः (१.३.५) इत्यस्मिन् उपदेशेऽजनुनासिक इत् इत्यस्मात् सूत्रात् "उपदेशे", “इत्" इत्यनयोः अनुवृत्तिः | अतः "उपदेशे आदिः ञिटुडवः इत्” इति वाक्यम् | षः प्रत्ययस्य (१.३.६) इत्यस्मिन् आदिर्ञिटुडवः इत्यस्मात् "अदिः”, उपदेशेऽजनुनासिक इत् इत्यस्मात् "इत्", अतः "प्रत्ययस्य आदिः षः इत्" इति वाक्यम् | चुटू (१.३.७) इत्यस्मिन् षः प्रत्ययस्य इत्यस्मात् "प्रत्ययस्य", आदिर्ञिटुडवः इत्यस्मात् "आदिः", उपदेशेऽजनुनासिक इत् इत्यस्मात् "इत्", अतः "प्रत्ययस्य आदिः चुटू इत्" इति वाक्यम् | लशक्वतद्धिते (१.३.८) इत्यस्मिन् पुनः षः प्रत्ययस्य इत्यस्मात् "प्रत्ययस्य", आदिर्ञिटुडवः इत्यस्मात् "आदिः", उपदेशेऽजनुनासिक इत् इत्यस्मात् "इत्", अतः "प्रत्ययस्य आदिः ल, श, कु अतद्धिते इत्" इति वाक्यम् | तस्य लोपः (१.३.९) इत्यस्मिन् उपदेशेऽजनुनासिक इत् इत्यस्मात् इत् इत्यस्य अनुवृत्तिः अतः "तस्य इतः लोपः" इति वाक्यम् |
धेयं यत् सिद्धान्तकौमुद्याः इत्संज्ञा-सम्बद्धसूत्राणां सूत्रसङ्ख्याः क्रमेण न वर्धन्ते | पठनेन अनुवृत्तिः न स्फुटा अतः सूत्रार्थः नावगम्यते |
अभ्यासः
धातवः—
डुपचँष् = "डु" आदिर्ञिटुडवः इत्यनेन इत्-संज्ञा, हलन्त्यम् इत्यनेन षकारस्य इत्-संज्ञा, चकारोत्तरवर्ती अँकारः उपदेशेऽजनुनासिक इत् इत्यनेन इत्-संज्ञा, तस्य लोपः इत्येनेन सर्वेषां लोपः → पच् इति धातुः
लिखँ = उपदेशेऽजनुनासिक इत् इत्यनेन अँकारस्य इत्-संज्ञा → लिख् इति धातुः
डुकृञ् =
ञिमिदाँ =
गम्ऌँ =
प्रत्ययाः—
णिच्
षाकन् =
जुस् =
टा =
शप् =
ङस् =
श्ना =
क्त =
ष्वुञ् =
ण्वुल् =
ख्युन् =
श्यन् =
ल्युट् =
तृच् =
ष्वुन् =
तव्य्त् =
शानच् =
अनीयर् =
शतृ =
अवधेयम्— यत्र प्रत्ययाः समानाः दृश्यन्ते, अनुबन्धैः ते भिद्यन्ते | अनुबन्धैः विभिन्नकार्याणि सिध्यन्ति | यथा प्रत्ययस्य ण् वा ञ् वा अनुबन्धः चेत्, धातोः अन्तिम-स्वरस्य वृद्धिः; प्रत्ययस्य क् वा ङ् वा अनुबन्धः चेत्, धातोः कस्यापि स्वरस्य गुणः वृद्धिः वा न भवति | ण्, ञ्, क्, ङ् इत्येतान् अनुबन्धान् विहाय प्रत्ययस्य अन्यः कोऽपि अनुबन्धः चेत्, धातोः अन्तिम-स्वरस्य गुणः | एतादृशानि कार्याणि भवन्ति | एतदर्थं प्रत्ययस्य ण्-अनुबन्धः चेत्, सङ्क्षेपे तस्य नाम णित् (णकारः इत् यस्य सः णित्); क्-अनुबन्धः चेत् सङ्क्षेपे तस्य नाम कित् (ककारः इत् यस्य सः कित्) इत्यादिकम् |
Presentation_1_-_पाणिनीयव्याकरण-परिचयः_१_-_प्रकरण-प्रक्रिया-भेदः.pdf
Swarup – August 2014