04 - भाषापाकः
भाषापाकः नाम्ना पुस्तकं जनर्दन हेगडे-महोदयेन विरचितानां संस्कृतव्याकरणसम्बद्ध-लेखानां सङ्ग्रहः | इमे लेखाः व्यावहारिकाः आसक्तिकराश्च | अस्माकं दूरवाणी-वर्गे Oct 2011 इत्यस्मात् आरभ्य June 2013 पर्यन्तम् एषु विषयेषु चर्चा प्रवर्तते स्म | प्रतिसप्ताहम् एको लेखः, लेखद्वयं लेखत्रयं वा आधारीकृत्य चर्चितवन्तः | अत्र सर्वाणि ध्वनिमुद्रणानि लभ्यन्ते |
सम्यक्तया बोधनार्थं पार्श्वे पुस्तकम् आवश्यकम् | येषां सविधे इदं पुस्तकं नास्ति, ते USA-जालपुटे अत्र, भारतजालपुटे अत्र, पुस्तकं लब्धुं शक्नुवन्ति |
ध्वनिमुद्रणसञ्चिकानां शैली एतादृशी-- "audio session - BP- chapter number(s)" इति | (BP = bhAShApAkaH) | अतः अधः दृष्ट्वा अवगन्तुं शक्नुमः यत् सञ्चिकाः पुस्तकस्य दशमोऽध्याय इत्यस्मात् आरभ्य अन्तपर्यन्तं गच्छन्ति |
धेयम्-- To listen directly to a file, left-click on it. To download a file to your computer, right click on the file and select "save link as".