04 - सार्वधातुकलकाराः आर्धधातुकलकाराः च – अधिकचिन्तनम्
ध्वनिमुद्रणानि - |
---|
१) sArvadhAtukalakArAH-ArdhadhAtukalakArAH-ca--1_2016-06-29 |
२) sArvadhAtukalakArAH-ArdhadhAtukalakArAH-ca--2_2016-07-06 |
१. 'सार्वधातुकम्' 'आर्धधातुकम्' इति नामद्वयं कुतः आगतम् ? अष्टाध्याय्यां च द्वयोः नाम्नोः कीदृशव्यवहारः ?
'सार्वधातुकम्' 'आर्धधातुकम्' इति नामद्वयं वस्तुतः पाणिनिना एव दत्तं; नामकरणं भवति द्वाभ्यां संज्ञासूत्राभ्याम्—
तिङ्शित्सार्वधातुकम् (३.४.११३)
आर्धधातुकं शेषः (३.४.११४)
इमे द्वे नामनी केषाम् भवतः ?
यत् तिङ् च शित् च भवति, तस्य नाम सार्वधातुकम् | अपि च यत् तिङ् शित् च नास्ति, तस्य नाम आर्धधातुकम् | अस्तु, किन्तु 'यत्' नाम किम् ? कस्य नाम भवति सार्वधातुकं, पुनः कस्य आर्धधातुकम् ? अस्य प्रश्नस्य उत्तरार्थम् उपरितनसूत्रद्वयं कस्मिन् अध्याये इति द्रष्टव्यम् | द्वेऽपि सूत्रे तृतीयाध्याये | अस्मिन् अध्याये केषां सूत्राणाम् अधिकारः ?
१. प्रत्ययः (३.१.१) = [अधिकारः ३.१.१ - ५.४.१६०]
२. परश्च (३.१.२) = [अधिकारः ३.१.१ – ५.४.१६०]
३. धातोः (३.१.९१) = [अधिकारः ३.१.९१ – ३.४.११७]
एभिः अधिकारसूत्रैः अवगच्छामः यत् तृतीयाध्याये यस्य कस्यापि विधानं भवति, सः धातुभ्यः विधीयते, अपि च तस्य नाम प्रत्ययः | अतः सार्वधातुकं च आर्धधातुकं च इति प्रत्ययस्य नाम, तादृशः च प्रत्ययः यः धातुभ्यः विधीयते | अनेन उत्तरं प्राप्तम् | अष्टाध्याय्यां सार्वधातुकं च आर्धधातुकं च प्रत्ययानाम् एव नाम |
२. सार्वधातुकधातुः नाम कः ? आर्धधातुकधातुः नाम कः ?
धातूनाम् एतादृशनामकरणं किमपि नास्ति एव | धातोः विभजनं सार्वधातुकत्वेन आर्धधातुकत्वेन च न क्रियते |
३. सार्वधातुकप्रत्ययः नाम कः ? आर्धधातुकप्रत्ययः नाम कः ?
यः प्रत्ययः धातुभ्यः विधीयते अपि च तिङ् अथवा शित् अस्ति, स च सार्वधातुकप्रत्ययः | तिङ्शित्सार्वधातुकम् (३.४.११३) इति सूत्रम् |
यः प्रत्ययः धातुभ्यः विधीयते अपि च न तिङ् न वा शित् अस्ति, स च आर्धधातुकप्रत्ययः | आर्धधातुकं शेषः (३.४.११४) इति सूत्रम् |
४. सार्वधातुकलकारः इत्युक्ते किम् ?
यस्मिन् लकारे धातोः अनन्तरं कर्त्रर्थकः सार्वधातुकप्रत्ययः साक्षात् दृश्यते, तस्मिन् लकारे कर्तरि शप् (३.१.६८) इत्यनेन शप् विधीयते अपि च तदर्थमेव स च सार्वधातुकलकारः | 'तदर्थं' किम् इति चेत्, शपः विधानमेव 'सार्वधातुकलकारः' इति नामकरणस्य निमित्तम् |
कर्तरि शप् (३.१.६८) = कर्त्रर्थे सार्वधातुकप्रत्ययः परे अस्ति चेत्, धातुतः शप्-प्रत्ययः भवति | अत्र कर्त्रर्थे कर्तरिप्रयोगः इति बोध्यं; भावे कर्मणि च शप्-प्रत्ययः न विधीयते | अनुवृति-सहितसूत्रम्— कर्तरि सार्वधातुके धातोः परश्च शप् प्रत्ययः |
भू + लट् → भू + ल् → भू + तिप् → तिप् कर्त्रर्थकः, सार्वधातुकप्रत्ययः च, अतः कर्तरि शप् (३.१.६८) इत्यनेन शप् → भू + शप् + तिप्
अस्मिन् क्रमे तिप् इति सार्वधातुकप्रत्ययः साक्षात् दृश्यते धातोः परतः अतः कर्तरि शप् (३.१.६८) इत्यस्य अवसरः अस्ति | चतुर्षु लकारेषु एतादृशी स्थितिः अस्ति— लटि, लोटि, लङि, विधिलिङि च | 'एतादृशी स्थितिः' नाम का ? 'धातुना सार्वधातुकप्रत्ययः साक्षात् दृश्यते' | यथा भू + तिप् | भू, तिप् इत्यनयोः मध्ये किमपि व्यवधानं नास्ति अतः तिप् 'साक्षात् दृश्यते' |
धेयं यत् एषु सर्वेषु चतुर्षु सार्वधातुकलकारेषु धातुगणम् अनुसृत्य शपं प्रबाध्य अन्ये धातुगणनिमित्तकविकरणप्रत्ययाः विधीयन्ते यथा श्यन्, श्नु इत्यादयः | प्रथमं शप् आयाति, तदा भ्वादिः, अदादिः, जुहोत्यादिः, चुरादिः इत्येतान् गणान् विहाय, अपरेषु षट्सु गणेषु शपं प्रबाध्य तत्तद्गणस्य विकरणप्रत्ययः आयाति | एतदर्थं सार्वधातुकलकारेषु कस्यापि धातोः तिङन्तरूपस्य निर्माणात् प्राक् स च धातुः कस्मिन् गणे अस्ति इति अवश्यं ज्ञातव्यम् |
यथा—
भ्वादिगणे पा + लट् → पा + ल् → पा + तिप् → कर्तरि शप् (३.१.६८) इत्यनेन शप् → पा + शप् + तिप् → शिति परे पा-धातोः पिब-आदेशः → पिब* + अ + ति → पिबति
जुहोत्यादिगणे दा + लट् → दा + ल् → दा + तिप् → कर्तरि शप् (३.१.६८) इत्यनेन शप् → जुहोत्यादिभ्यः श्लुः (२.४.७५) इत्यनेन विहितस्य शप्-प्रत्ययस्य श्लु (लोपः) भवति → श्लौ (६.१.१०) इत्यनेन श्लौ परे धातोः द्वित्वम् → → ददाति
स्वादिगणे आप् + लट् → आप् + ल् → आप् + तिप् → कर्तरि शप् (३.१.६८) इत्यनेन शप् → स्वादिभ्यः श्नुः (३.१.७३) इत्यनेन स्वादिगणे स्थितेभ्यः धातुभ्यः शपं प्रबाध्य श्नु-प्रत्ययः भवति, कर्त्रर्थक-सार्वधातुकप्रत्यये परे → आप् + श्नु + तिप् → → आप्नोति
*अत्र बकारे अकारः अस्ति; दण्डः नास्ति | अतो गुणे (६.१.९७) इत्यनेन अपदान्तात् अतः गुणे परे पूर्वपरयोः स्थाने एकः पररूपमेकादेशः | भ्वादिगणस्य पाठे द्रक्ष्यामः |
अत्र धेयं यत् त्रयाणां लट्-लकाररूपे धातु-तिङ्प्रत्यययोः मध्ये यः स्वरः अस्ति सः भिन्नः— पिबति, ददाति, आप्नोति | अपि च ददाति इत्यस्मिन् धातोः द्वित्वम् | अनेन कारणेन वदामः यत् धातुगणभेदात् रूपभेदः | इति इदमेव सार्वधातुकलकारस्य लक्षणम् |
पाणिनिना साक्षात् 'सार्वधातुकलकारः', 'आर्धधातुकलकारः' च संज्ञाद्वयं कुत्रापि न दत्तं, किन्तु अष्टाध्याय्याः आकृतिः स्वयं पूर्णतया एतादृशं नामकरणं पोषयति | अतः अतीव योग्यम्, अभूतपूर्वनामकरणम् इदं मातृभिः कृतम् | अनेन नामकरणेन किं भवति ? ज्ञानं सुदृढं भवति, आयोजितं भवति मनसि | ज्ञानस्य सम्यक् आयोजनं न भवति चेत् अस्तव्यस्तता इति फलम् | अपि च शास्त्रीयव्याकरणविषये, गुरुकुलीयेषु बहूनां मनसि इयमेव अस्तव्यस्तता वर्तते | तस्य निवारणार्थं मातुः शिक्षापद्धतिः अत्यावश्यकी |
५. आर्धधातुकलकारः इत्युक्ते किम् ?
यस्मिन् लकारे धातोः अनन्तरं कर्त्रर्थकः सार्वधातुकप्रत्ययः साक्षात् न दृश्यते, तस्मिन् लकारे कर्तरि शप् (३.१.६८) इत्यस्य प्रसक्तिः नास्ति अतः शप् न भवति; अनेन सः आर्धधातुकलकारः | तादृशे लकारे तिङन्तरूपस्य निर्माणार्थं धातुः कस्मिन् गणे अस्ति इति विषये किमपि अवधानं नास्ति | धातुगणस्य न कोऽपि प्रसङ्गः |
यथा—
भ्वादिगणे पा + लृट् → पास्यति
जुहोत्यादिगणे दा + लृट् → दास्यति
स्वादिगणे आप् + लृट् → आप्स्यति
अत्र स्पष्टतया दृश्यते यत् धातुगणभेदात् रूपभेदः इति किमपि नास्ति | किमर्थम् ? धातुगणनिमित्तकविकरणाभावात् |
एतदर्थं दशधातुगणाः प्रयोजनीयाः केवलं सार्वधातुकलकारेषु लटि, लोटि, लङि, विधिलिङि च | आर्धधातुकलकारेषु— लिटि, लुटि, लृटि, लृङि, लुङि, आशीर्लिङि च— धातुगणानां किमपि प्रयोजनं नास्ति | आर्धधातुकलकाराणां पाठनावसरे सर्वे धातवः एकस्मिन् एव गणे एकत्र स्थाप्यन्ते |
वृत्तान्ते, लिट्-लकारे, सर्वेषां द्विसहस्रस्य धातूनां तिङन्तरूपाणि एकत्र प्रदर्शनीयानि; तत्र कोऽपि धातुगणभेदो नास्ति | तथैव लुटि, लृटि, आशीर्लिङि, लुङि, लृङि च | तत्र धातोः अन्तिमवर्णम् अनुसृत्य चतुर्दश वर्गाः निष्पादनीयाः | एतादृशं वर्गीकरणम् अतीव लाभदायकं, यतः पाणिनेः सूत्राणि तथैव कार्यं विदधति; अनेन महत् सौकर्यम् | चतुर्दश वर्गाः एते—
१) अकारान्ताः— यथा कथ, गण, रच इत्यादयः |
२) आकारान्ताः— यथा पा, ला, वा, दा, धा इत्यादयः |
३) इकारान्ताः— यथा जि, श्वि, चि, कि, रि इत्यादयः |
४) ईकारान्ताः— यथा नी, शी, डी, क्री, वी इत्यादयः |
५) उकारान्ताः— यथा द्रु, नु, कु, गु, क्षु इत्यादयः |
६) ऊकारान्ताः— यथा भू, लू, पू, नू, मू इत्यादयः |
७) ऋकारान्ताः— यथा हृ, भृ, धृ, मृ, कृ, स्वृ, स्मृ इत्यादयः |
८) ॠकारान्ताः— यथा जॄ, झॄ, शॄ, गॄ, वॄ इत्यादयः |
९) एजन्ताः— यथा ग्लै, म्लै, धे, ध्यै, पै, शो, छो इत्यादयः |
१०) अदुपधाः— यथा पठ्, चल्, वद्, स्खल्, कक्, पच्, चट् इत्यादयः |
११) इदुपधाः— यथा चित्, मिद्, छिद्, भिद्, निद्, मिल् इत्यादयः |
१२) उदुपधाः— यथा बुध्, शुध्, मुद्, कुक्, उख् इत्यादयः |
१३) ऋदुपधाः— यथा कृष्, वृष्, नृत्, छृद्, वृत्, वृध् इत्यादयः |
१४) अवशिष्टाः— ये न सन्ति एषु वर्गेषु यथा मील्, शीक्, बुक्क्, अञ्च् इत्यादयः |
अतः यथा पा-धातुः, दा-धातुः च आर्धधातुकलकारस्य आयोजने एकस्मिनेव अन्तर्गणे एकत्र भवतः— आकारान्तेषु | किन्तु सार्वधातुकलकारस्य आयोजने इमौ द्वौ धातू पृथक्-पृथक् गणे स्तः |
एवमेव संस्कृतभाषायां यावन्तः आकारन्तः धातवः सन्ति, ते सर्वे आर्धधातुकलकारस्य आयोजने एकत्र भवन्ति |
६. विकरणं नाम किम् ?
विकरणं नाम तादृशप्रत्ययः यः धातुभ्यः विधीयते, किन्तु साक्षात् न विधीयते; प्रथमतया लकारः विधीयते, तदा सार्वधातुकलकारस्य विकरणं चेत् लकारस्य स्थाने तिङ्प्रत्ययः, तदा धातुतिङ्प्रत्यययोः मध्ये विकरणम् आगच्छति | आर्धधातुकलकारस्य विकरणं चेत् धातुलकारप्रत्यययोः मध्ये एव आगच्छति |
७. विकरणं द्विविधम् | तत् किम् ?
सार्वधातुकनिमित्तकविकरणं लकारनिमित्तकविकरणम् च | साधारणतया यदा 'विकरणप्रत्ययः' इति वदामः, तदा शप्, श्यन्, श्नु इत्यादयः विवक्षिताः | एते 'सार्वधातुकनिमित्तकविकरणप्रत्ययाः' | शप्, श्यन्, श्नु इत्यादीनां निमित्तम् अस्ति सार्वधातुकप्रत्ययः | कर्तरि शप् (३.१.६८) तदेव सूचयति यत् धातोः उत्तरः यः प्रत्ययः सः कर्त्रर्थकः, सार्वधातुकं च इति चेत्, धातुतः शप्-प्रत्ययः भवति | अतः निमित्तम् अस्ति सार्वधातुकप्रत्ययः | स च प्रत्ययः तिङ् स्यात् वा कृत् स्यात्, किन्तु सार्वधातुकं भवेत् एव | अपि च श्यन्, श्नु, श, श्ना, श्नम्, उ— एतानि सर्वाणि सार्वधातुकनिमित्तकविकरणानि |
अन्यप्रकारकविकरणप्रत्ययः अपि अस्ति, लकारनिमित्तकविकरणम् इति नाम्ना | आर्धधातुकलकारेषु अपि विकरणप्रत्ययाः भवन्ति, किन्तु ते च लकारनिमित्तकाः | तेषां निमित्तं लकारः एव इति कारणेन सर्वेषां धातूनां कृते स च विकरणप्रत्ययः समानः | यथा लृट्-लकारं पश्यामः—
भ्वादिगणे पा + लृट् → स्यतासी लृलुटोः (३.१.३३) इत्यनेन लृटि परे धातुतः 'स्य' → पा + स्य + लृट् → पास्यति
अत्र 'स्य' इति विकरणप्रत्ययस्य आनयनस्य कारणं लृट्-प्रत्ययः एव | यस्मिन् कस्मिनपि धातुगणे भवतु नाम, धातुभ्यः लृट् भवति—
जुहोत्यादिगणे दा + लृट् → स्यतासी लृलुटोः (३.१.३३) इत्यनेन लृटि परे धातुतः 'स्य' → दा + स्य + लृट् → दास्यति
स्वादिगणे आप् + लृट् → स्यतासी लृलुटोः (३.१.३३) इत्यनेन लृटि परे धातुतः 'स्य' → आप् + स्य + लृट् → आप्स्यति
सर्वेभ्यः धातुभ्यः लृट् भवति इति कृत्वा धातुगणचर्चा मास्तु | 'स्य' सर्वेषां धातूनां भवति |
८. लृट्-लकारे लृटः स्थाने कर्त्रर्थक-सार्वधातुकतिङ्, तर्हि किमर्थं शप् न भवति अत्रापि ?
सर्वे लकाराः अनुबन्धलोपानन्तरं ल् इत्येव भवन्ति, अपि च ल् इत्यस्य स्थाने तिप् तस् झि इत्यादयः तिङ् प्रत्ययाः आयान्ति | लृट् अपि तथा; तर्हि किमर्थं न अर्त्रापि इमं तिङ्-प्रत्ययं निमित्तीकृत्य कर्तरि शप् (३.१.६८) इत्यनेन शपः आनयनम् ? अत्र वास्तविकक्रमः अवलोकनीयः—
पा + लृट् → स्यतासी लृलुटोः (३.१.३३) इत्यनेन लृटि परे धातुतः 'स्य' → पा + स्य + लृट् → पा + स्य + ल् → पा + स्य + तिप् → पा + स्य + ति → पास्यति
अधुना पश्यतु एकं वैशिष्ट्यं, यद्यपि तिप् अस्ति, किन्तु पा-तिप् इत्यनयोः मध्ये स्य इति व्यवधानम् | स च स्य आर्धधातुकम् अतः कर्तरि शप् इत्यस्य अवसरः न भवति | अत्र मुख्यम् इदं यत् स्य इत्यस्य निमित्तं लृट् एव किन्तु शप् इत्यस्य निमित्तं तिप् आदयः | लृट्-प्रत्ययः प्रथमतया आयाति, तदा एव लृटः स्थाने तिबादयः; अतः स्य अपि प्रथमम् आयाति, यदा लृट्-प्रत्ययः विद्यमानः | अनन्तरमेव लृटः स्थाने तिप्; तावता स्य तु आगतः एव अतः धातुना तिप् न दृश्यते | सारांशः एवं यत् स्य प्रथमम् आगच्छति, तदनन्तरम् एव तिप् अतः धातुः स्य पश्यति न तु तिप्; अस्मात् कारणात् कर्तरि शप् न भवति |
९. तनादिगणे उः इति विकरणप्रत्ययस्य आर्धधातुकत्वात् किं भवति ?
उ-प्रत्ययस्य आर्धधातुकत्वात् विद्यमाने धातुरुपि-अङ्गे गुणः भवति यथासङ्गम् | तनादिगणे विकरणप्रत्ययस्य प्रभावेन कुत्रचित् गुणः अपेक्षितः | यथा क्षिण् + उ → क्षेण् + उ → क्षेणु इति अङ्गम् | तच्च गुणकार्यं सार्वधातुकप्रत्ययेन भवितुम् अर्हति, आर्धधातुकप्रत्ययेन अपि भवितुम् अर्हति |
पुगन्तलघूपधस्य च (७.३.८६) = सार्वधातुके आर्धधातुके च प्रत्यये परे पुगन्तस्य अङ्गस्य लघूपधस्य च इकः गुणः भवति | अनुवृत्ति-सहितसूत्रम्— पुगन्तलघूपधस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः |
सार्वधातुकप्रत्ययः चेत्, गुणस्य कृते इत्संज्ञकशकारपकारयोः आवश्यकता, नो चेत् अपित्वात् गुणनिषेधः | आर्धधातुकप्रत्ययः चेत्, गुणस्य कृते इत्संज्ञकशकारपकारयोः आवश्यकता नास्त्येव, यतोहि 'अपित्वात् गुणनिषेधः' इति आर्धधातुकक्षेत्रे किमपि नास्ति | सार्वधातुकमपित् (१.२.४), अनुवृत्ति-सहितसूत्रम्— सार्वधातुकम् अपित् ङित् | सार्वधातुकप्रत्ययः चेदेव अपित्वात् ङित्, ङित्वात् गुणनिषेधः | किन्तु आर्धधातुकप्रत्ययः चेत्, पित्वम् अपित्वम् इति किमपि नास्ति; आर्धधातुकप्रत्ययः कित, ङित्, गित् नास्ति चेत्, तस्मिन् गुणसाधकसामर्थ्यं वर्तते | उ-प्रत्ययः तादृशः |
इत्संज्ञकशकारपकारयोः वास्तविकी आवश्यकता यत्र अस्ति तत्र इत्संज्ञकशकारपकारौ भवेतां; यथा शप्-प्रत्यये आवश्यकता अस्ति शकारपकारयोः अतः तत्र सार्वधातुकप्रत्ययः उपयुक्तः |
शपि इत्संज्ञकशकारपकारयोः आवश्यकता कथम् ? श्यन्, श्नु, श्नम्, श्ना एषां प्रत्ययानाम् अपित्वात् गुणनिषेधः | 'अपित्वात् गुणनिषेधः' इति तदा अर्थपूर्णः यदा कस्यचित् प्रत्ययस्य पित्वात् गुणसाधकसामर्थ्यम् | यदि अष्ठाध्याय्यां न कोऽपि प्रत्ययः स्यात् यस्य पित्वात् गुणसाधकसामर्थ्यं, तर्हि 'अपित्वात् गुणनिषेधः' इत्यस्य कः अर्थः अभविष्यत् ? तस्य निरर्थकस्य निवारणार्थम् एकः प्रत्ययः प्रदर्शनीयः आसीत् यस्मिन् पित्वं तदधिकृत्य गुणसाधकसामर्थ्यं; स च प्रत्ययः शप् |
किन्तु अनावश्यकतायां गौरवं— यथा यदि उ-प्रत्ययः सार्वधातुकप्रत्ययः अभविष्यत्, तर्हि येन गुणकार्यस्य सामर्थ्यं स्यात् इत्संज्ञकशकारपकारयोः आवश्यकता इति कृत्वा शुप्; किन्तु तत्र गौरवं; गौरवं नाम मार्गः दीर्घः यतोहि द्वयोः वर्णयोः इत्संज्ञा करणीया, लोपश्च करणीयः | गुणसाधनार्थं तस्मिन् दीर्घमार्गे न कोऽपि लाभः न वा आवश्यकता | उ-प्रत्यये इत्संज्ञकशकारपकारयोः आवश्यकता नास्ति अतः आर्धधातुकत्वात् लाघवम् |
१०. लृट्-लकारे 'स्य' इति आर्धधातुकविकरणप्रत्ययः अपि च तनादिगणे 'उ' इति आर्धधातुकविकरणप्रत्ययः— द्वयोः मध्ये कः भेदः ?
'स्य'-प्रत्ययस्य निमित्तं लकारः एव; उ-प्रत्ययस्य निमित्तं कर्त्रर्थक-सार्वधातुकप्रत्ययः यदा धातुः तनादिगणे अस्ति | अतः 'स्य'-प्रत्ययस्य निमित्तं सार्वत्रिकं; नाम सर्वेषां धातूनां कृते | किन्तु उ-प्रत्ययः केवलं तनादिगणीयधातूनां कृते |
तनादिकृञ्भ्यः उः (३.१.७९) = तनादिगणे स्थितेभ्यः धातुभ्यः, कृ-धातुतश्च उ-प्रत्ययः भवति, कर्त्रर्थक-सार्वधातुकप्रत्यये परे |
लकारनिमित्तकविकरणप्रत्ययाः सार्वत्रिकाः इति कारणेन सर्वेषां धातूनां कृते भवन्ति— तस्मात् तिङ्-प्रत्ययेन सह सर्वदा तिष्ठति | नाम स्य + ति इति कृत्वा 'स्यति' लृट-लकारे नित्यः प्रत्ययः | स्यति, स्यतः, स्यन्ति इति एवं प्रत्ययाः भवन्ति सर्वेषां धातूनां कृते अतः सिद्धतिङ्प्रत्ययाः ते एव भवन्तु 'स्यति' इत्यादयः | तदर्थम् अस्माकं पाठे 'स्य' इति पृथक्तया विकरणप्रत्ययरूपेण न उपयुज्यते, अपि तु तिङ्-प्रत्ययेन सह स्थित्वा तस्य एकः भागः एव भवति इति चिन्तयतु |
स्यति स्यतः स्यन्ति
स्यसि स्यथः स्यथ
स्यामि स्यावः स्यामः
सारांशः एवं यत् व्यवहारे प्रक्रियासु सार्वधातुकनिमित्तकविकरणप्रत्ययान् एव 'विकरण' नाम्ना प्रयुज्महे | लकारनिमित्तकविकरणप्रत्ययः तिङ्-प्रत्ययस्य एकः भागः एव भवति इति कारणेन तस्य पृथक्तया न उपयोगः न वा नाम्ना सम्बोधनं भवति |
सूचनार्थम् उच्यते यत् अष्टाध्याय्यां लकारनिमित्तकविकरणप्रत्ययाः ३.१.३३ - ३.१.६६ विधीयन्ते; सार्वधातुकनिमित्तकविकरणप्रत्ययाः ३.१.६७ - ३.१.९० विधीयन्ते | तत्र पश्यतु यत् लकारनिमित्तकविकरणप्रत्ययाः लकारस्तरे एव विधीयन्ते— क्रमेण लृट्, लृङ्, लुट्, लेट्, लिट्, लुङ् | सार्वधातुकनिमित्तकविकरणप्रत्ययाः धातुगणस्तरे विधीयन्ते— क्रमेण शप् (भ्वादौ, अदादौ, जुहोत्यादौ, चुरादौ), श्यन् (दिवादौ), श्नु (स्वादौ), श (तुदादौ), श्नम् (रुधादौ), उ (तनादौ), श्ना (क्र्यादौ) च |
इति सार्वधातुकलकाराणाम् आर्धधातुकलकाराणां च चिन्तनं सम्पूर्णाम् |
Swarup – June 2016
परिशिष्टम्
प्रक्रियाक्रमप्रसङ्गे किञ्चित् मूल्यवत् चिन्तनम् | प्रश्नः उदेति यत् लस्य स्थाने तिङ्-प्रत्ययाः प्रथमम् आयान्ति अथवा प्रथमं विकरणप्रत्ययः विधीयते ? अस्य बोधार्थं सर्वप्रथमं ज्ञातव्यं प्रक्रिया का— सार्वधातुकप्रक्रिया वा, आर्धधातुकप्रक्रिया वा इति |
सार्वधातुकप्रक्रिया इति चेत्—
विवक्षाम् अनुसृत्य धातुः (यथा भू) + लकारः (यथा लट्) → लट्-लकारः धातुभ्यः विधीयते अपि च तिङ्-शित्-भिन्नः अतः आर्धधातुकं शेषः (३.४.११४) इत्यनेन आर्धधातुकसंज्ञकः → धातुभ्यः विधीयमानः लकारः तु प्रत्ययः, तिङ्-भिन्नश्च अतः लकार इति प्रत्ययः कृदतिङ् (३.१.९३) इत्यनेन कृत्-संज्ञकः → असार्वधातुकसंज्ञकः इत्यतः कर्तरि शप् (३.१.६८) इत्यस्य प्रसक्तिर्नास्ति → लस्य (३.४.७७), तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ (३.४.७८) इत्याभ्यां तिङ्-विधानम् → भू + तिप् → तिङ्शित्सार्वधातुकम् (३.४.११३) → तिबादयः सार्वधातुकसंज्ञकाः, कर्त्रथकाश्च → कर्तरि शप् (३.१.६८) इत्यनेन धातोः शप् प्रत्ययः परश्च कर्तरि सार्वधातुके → भू + शप् + तिप् → → भवति
आहत्य लकारस्य स्थाने तिङ्, तदा तिङः सार्वधातुकत्वात् शप्-विधानम् | यावत् सार्वधातुकसंज्ञकः प्रत्ययः नागच्छेत्, तावत् कर्तरि शप् (३.१.६८) इत्यस्य प्रसक्तिर्न स्यात् | शप् च, शपं प्रबाध्य अन्ये विकरणप्रत्ययाः च, तदा विधीयन्ते यदा धातोः परः सार्वधातुकसंज्ञकः प्रत्ययः विद्यते | एवं भवति लटि, लोटि, लङि, विधिलिङि, अपि च शतृशानचोः |
शतृशानचोः लस्य (३.४.७७) इति सूत्रं विना सार्वधातुकसंज्ञा साक्षात् भवति शित्त्वात् | शतृ-प्रत्ययः च शानच्-प्रत्ययः च लट्-लकारस्य स्थाने भवतः लटः शतृशानचावप्रथमासमानाधिकरणे (३.२.१२४) इत्यनेन | अत्र अपि शतृशानचोः सार्वधातुकत्वात् कर्तरि शप् (३.१.६८) इत्यनेन शप् विधीयते |
अधुना आर्धधातुकचिन्तनम् | लृट्-लकारः स्वीक्रियताम् | सिद्धान्तकौमुद्यां प्रक्रिया एतादृशी प्रदर्शिता भवति—
आप् + लृट् → आप् + ल् → लस्य (३.४.७७), तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ (३.४.७८) इत्याभ्यां तिङ्-विधानम् → आप् +तिप् → तिङ्शित्सार्वधातुकम् (३.४.११३) → तिप् सार्वधातुकसंज्ञकः, कर्त्रथकश्च → कर्तरि शप् (३.१.६८) विधीयते → शपं प्रबाध्य स्यतासी लृ-लुटोः (३.१.३३) इत्यनेन स्य-विधानम् → आप् + स्य + ति → आप्स्यति | अतः सिद्धान्तकौमुद्यां स्यतासी लृ-लुटोः (३.१.३३), कर्तरि शप् (३.१.६८) इत्यस्य अपवादः |
माता जी वदति, परन्तु, यत् स्यतासी लृ-लुटोः (३.१.३३) इत्यनेन लृटि लृङि च परे धातुतः स्यः; लुटि परे धातुतः तासि भवति अतः साक्षात् लकारावस्थायामेव स्य-विकरणविधानं भवतु |
आप् + लृट् → स्यतासी लृ-लुटोः (३.१.३३) → आप् + स्य + लृट् → तिङ्-विधानम् | अनेन मार्गे लघुत्वम् | कर्तरि शप् (३.१.६८) इत्यस्य अवसरः न भवत्येव |
आप् + लृट् → स्यतासी लृ-लुटोः (३.१.३३) इत्यनेन लृटि परे धातुतः स्यः → आप् + स्य + ल् → धातोः परः स्य-प्रत्ययः आर्धधातुकम् अतः कर्तरि शप्, स्वादिभ्यः श्नुः इत्यनयोः प्रसक्तिर्नास्ति → आप् + स्य + ल् → प्रथमपुरुषैकवचने तिबादेशः → आप् + स्य + तिप् → अनुबन्धलोपे → आप् + स्य + ति → वर्णमेलने → आप्स्यति
आहत्य स्यतासी लृ-लुटोः (३.१.३३) इत्यनेन लृटि लृङि च परे धातोः स्यः; लुटि परे धातोः तास्; च्लि लुङि (३.१.४३) इत्यनेन लुङि धातोः च्लि प्रत्ययः | लृट्, लृङ्, लुट्, लुङ् इत्येषु चतुर्षु लकारेषु साक्षात् विकरणविधानम् | अनेन एषु च कर्तरि शप् (३.१.६८) इत्यस्य प्रसक्तिर्नभवत्येव |
तर्हि भट्टोजिदीक्षितसिद्धान्तकौमुदीकारेण स्वीकृतमार्गः नितरां दोषाय इति किम् ? भाष्यकारः मार्गद्वयमपि प्रतिपादयति; महाभाष्ये द्वयोरपि मार्गयोः अङ्गीकारः | सिद्धान्तकौमुदीकारः अपि स्वस्य मार्गस्य कारणं प्रदर्शयति— नाम तथा न भवति चेत्, परिभाषेन्दुशेखरे प्रस्तुतपरिभाषा (विकरणेभ्यो नियमो बलीयान्, #४१) निष्प्रयोजनं भवति | अस्य सर्वस्य दर्शनेन मातृभिरुच्यते यत् भट्टोजिदीक्षितमार्गः दोषाय न, किन्तु अस्य अनावश्यकता |
अत्र प्रश्नः उदेति यत् प्रथमं स्य-विधानं भवति चेत्, अनन्तरं कथं वा लृट्-स्थाने तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ (३.४.७८) इत्यनेन तिबादयः आगच्छेयुः ? सूत्रे धातोः (३.१.९१) इत्यस्य अधिकारः; अनेन प्रत्ययः साक्षात् धातोः अनन्तरं स्यात् | स्य-प्रत्ययः किन्तु मध्ये आगतः | उत्तरमस्ति यत् अत्र धातोः प्रत्ययविधानं न जायमानम् | लृट्-प्रत्ययः धातोः प्रत्ययविधानम् आसीत् | अधुना लृट्-प्रत्ययः वर्तते एव | अत्र लस्य (३.४.७७) इत्यस्य सामर्थ्यात् धातोः (३.१.९१) इत्यस्य अधिकारः नास्ति— नावश्यकमेव | क्रमः अस्ति धातोः परः लृट्, तदा मध्ये स्य, तदा लृट्-स्थाने तिबादयः | अत्र स्थाने इति कार्यं, न तु धातोः | (धातोः परः यत् कार्यम् अपेक्षितम् आसीत्, तत्तु सञ्जातम्; अधुना लस्य (३.४.७७) इति षष्ठीविभक्तौ, तस्य च प्राधान्यम् | साधारणटीकाग्रन्थेषु तिबादीनां विधाने धातोः (३.१.९१) इत्यस्य अधिकारः प्रदर्श्यते यतोहि तत्र प्रथमं तिबादयः, तदा शपं प्रबाध्य स्य | किन्तु यदा स्य-प्रत्ययः प्रथमम् आयाति, अपि च तस्मात् प्रागेव लृट् जातः धातोः, तदा लस्य (३.४.७७) इत्यनेन एव कार्यं भवति; धातोः (३.१.९१) इत्यस्य द्विवारम् आनयनं नावश्यकम् |
अन्ते च लिट्, आशीर्लिङ् इत्यनयोः का गतिः ? तत्र आर्धधातुकत्वं साक्षात् विधीयते लिट् च (३.४.११५), लिङाशिषि (३.४.११६) इति सूत्राभ्याम् | किमर्थमिति चेत्, उभयत्र विकरणप्रत्ययः एव नास्ति | तादृशम् आर्धधातुकविधानं यदि नाभविषत्, तर्हि उभयत्र कर्तरि शप् (३.१.६८) भवति स्म | तस्य निवारणार्थम् आर्धधातुकत्वं साक्षात् विहितम् | (आशीर्लिङि सीयुट् विद्यते किञ्च सः तु आगमः न तु प्रत्ययः |)
---------------------------------
०४ - सार्वधातुकलकाराः आर्धधातुकलकाराः च – अधिकचिन्तनम्.pdf (73k) Swarup Bhai, Oct 15, 2020, 8:28 PM v.1