10 - णत्वम्‌

From Samskrita Vyakaranam
Jump to navigation Jump to search
ध्वनिमुद्रणानि
१) Natva-sAmAnya-gyAnam--pp.66-70_+_akhaNDA-padatvam_2018-08-11
२) Natva-vishiShTa-gyAnam---NatvaM-samAse-kutra_2018-08-18
३) Natva-vishiShTa-gyAnam---NatvaM-sakhaNDa-pade-kutra--2_2018-08-25
४) Natva-abhyAsaH_+_Natva-niShedhaka-sUtrANi_2018--09-08



A. णत्व-विधायकसूत्राणि


१. रषाभ्यां नो णः समानपदे (८.४.१) = रेफषकाराभ्यामुत्तरस्य नकारस्य णकारादेशो भवति, समानपदस्थौ चेदेव निमित्तनिमित्तिनौ भवतः |


२. अट्कुप्वाङ्‌नुम्व्यवायेऽपि (८.४.२) = अट्‌, कवर्गः, पवर्गः, आङ्‌, नुम्‌ इत्येतैः यथासम्भवं मिलितैः व्यवधानेऽपि नस्य णः स्यात्‌ समानपदे | रषाभ्यां नो णः समानपदे इति सूत्रस्य पूर्णतया अनुवृत्तिः |


  • कुत्र निर्दिष्टं यत्‌ चु, टु, तु इत्येतेषु कश्चन मध्ये अस्ति चेत् रषाभ्यां नो णः समानपदे इत्यस्य प्रसक्तिर्नास्ति ?‌ रषाभ्यां नो णः समानपदे इत्यस्य प्रसङ्गः अव्यवहितस्थित्याम्‌ |
  • आङ्‌ किमर्थम्‌ ? आ = आ-रूपः उपसर्गः | नाम अन्ये उपसर्गाः मध्ये चेत्‌ णत्वं न भवति | पर्याणद्ध (adj)‌ = परि + आ + नद्धम्‌ | covered | नद्ध = joined, tied, bound|


३. प्रातिपदिकान्तनुम्‌विभक्तिषु च (८.४.११) = पूर्वपदस्य निमित्तात्‌ परस्य एषु स्थितस्य नस्य णो वा स्यात्‌ | अत्र धेयं यत्‌ समासस्य प्रसङ्गोऽयम्‌ | सामान्यतया समासे णत्वं न भवति, परन्तु अत्र भवति विकल्पेन यदि नकारान्तप्रातिपदिकं (माष + वापिन्‌ ‌ + औ → माषवापिणौ), नुम्‌-सम्बद्ध-नकारः (नपुंसकस्य झलचः इति सूत्रेण प्रथमा-द्वितीया-बहुवचने नुम्‌ भवति यथा माष + वापा + न्‌ + इ → माषवापाणि), विभक्तिसम्बन्धी नकारः (तृतीया षष्ठी वा यथा हर्षभावेण, वारिवाहाणाम्‌) इत्येषु त्रिषु कश्चन उपस्थितोऽस्ति | भ्रमः उदेति यत्‌ किमर्थम्‌ अस्मिन्‌ प्रसङ्गे अस्माभिः चिन्तनीयं यत्‌ के के वर्णाः मध्ये सन्ति यतः अट्कुप्वाङ्‌नुम्व्यवायेऽपि इति सूत्रे रषाभ्यां नो णः समानपदे इति सूत्रस्य पूर्णतया अनुवृत्तिः—नाम अट्कुप्वाङ्‌नुम्व्यवायेऽपि केवलं समानपदे कार्यं करोति | परन्तु प्रातिपदिकान्तनुम्‌विभक्तिषु च इत्यस्मिन्‌ इमानि पदानि अनुवृत्तानि—वा, पूर्वपदात्‌, अट्कुप्वाङ्‌नुम्व्यवायेऽपि, रषाभ्यां नो णः, संहितायाम्‌ इति | अत्र समानपदे इत्यस्य अनुवृत्तिर्नास्ति |


४. कुमति च (८.४.१३) = कवर्गवति उत्तरपदे (प्रातिपदिकान्तनुम्‌विभक्तिषु) नित्यं णत्वं स्यात्‌ | दौर्भाग्येण इत्यस्य उत्तरपदे गकारः (कवर्गीयः) अस्ति, अतः ण्त्वं नित्यम्‌ अत्र न तु वैकल्पिकः | वर्षभोग्येण अपि तथा |


५. उपसर्गादसमासेऽपि णोपदेशस्य (८.४.१४) = उपसर्गस्थात्‌ निमित्तात्‌ परस्य णोपदेशस्य धातोः नस्य णः स्यात्‌ समासे असमासे अपि | आधिक्येन नकारादि-धातवः यथा नी (नयति), नम्‌ (नमति), नश्‌ (नश्यति), एते धातवः वस्तुतः उपदेशे णकारादयः सन्ति | अतः अनेन सूत्रेण यत्र नकारादि-धातुः उपसर्गपूर्वकः अस्ति अपि च उपसर्गे णत्वस्य निमित्तम्‌ अस्ति, तत्र णत्वं भविष्यति समासे असमासे अपि | तिङन्तपदं समासो न भवति इति कारणतः सूत्रे 'असमासेऽपि' इत्युक्तम्‌ |


यथा समासे—

प्र + नी + ल्युट्‌ → प्र + नयनम्‌ → प्रणयनम्‌

परि + नामः → परिणामः

परि + नी + ण्वुल्‌ → परिणायकः

परि + नम्‌ + क्तिन्‌ → परिणतिः

परि + नह्‌ + क्त → परिणद्धः

परि + नम्‌ + घञ्‌ → परिणामः


असमासे—

प्र + नम्‌ + शप्‌ + ति‌ → प्रणमति

परि + नम्‌ + शप्‌ + ति‌ → परिणमति


वस्तुतः धातवः णीञ्‌, णश, णह, णम | एवम्‌ एव ३५ णकारादि-धातवः सन्ति | केवलं ८ धातवः उपदेशे नकारादयः सन्ति—नर्द्‌, नाद्‌, नाथ्‌, नाध्‌, नन्द्‌, नक्क्‌, नॄ, नृत्‌ च | अतः प्रनर्दति, प्रनर्दितुम्‌, प्रनर्दकः—अत्र यद्यपि निमित्तम्‌ अस्ति, तथापि णत्वं न भवति |


वा निंसनिक्षनिन्दाम्‌ (८.४.३३) इत्यनेन उपसर्गस्थात्‌ निमित्तात्‌ परेषां निंस, निक्ष, निन्द, इति धातूनां नस्य णः वा स्यात्‌ | एते धातवः णोपदेशाः—णिसि, णिक्ष, णिदि—परन्तु विकल्पेन णत्वं भवति अतः णत्वसहितरूपमपि साधु, णत्वरहितरूपमपि साधु | प्रणिंसनं, प्रनिंसनं; प्रणिक्षणं, प्रनिक्षणं; प्रणिन्दनं, प्रनिन्दनम्‌ | परिनिन्दनं, परिणिन्दनम्‌ |


६. कृत्यचः (८.४.२९) = उपसर्गात्‌ निमित्तात्‌ परस्य अचः उत्तरस्य कृत्स्थस्य नस्य णत्वं स्यात्‌ | अत्र निमित्तम्‌ उपसर्गे, कार्यं कृत्‌-प्रत्यये एव नान्यत्र | नकारात्‌ साक्षात्‌ प्राक्‌ च अच्‌-वर्णः भवेत्‌ | धेयं यत्‌ इदं णत्वं नान्यैः णत्वविधायकसूत्रैः जायमानम्‌— अयं नकारः न प्रातिपदिकान्तनुम्‌विभक्तिषु, न वा णोपदेशस्य, न वा संज्ञायाम् |


कृत्‌-प्रत्ययाः यत्र णत्वं भवति एते—

अन (यु) = प्रयाणम्‌, परिमाणम्‌, प्रमाणम्‌, परियाणम्‌

मान (शानच्‌) = प्रयायमाणम्‌, परियायमाणम्‌

आनीय = प्रयाणीयम्‌, परियाणीयम्‌

आनि = अप्रयाणि, अपरियाणि

इनि/णिनि = प्रयायिन्‌ → प्रयायिणौ, परियायिन्‌ → परियायिणौ

निष्ठा = प्रहीणः, परिहीणः, प्रहीणवान्‌, परिहीणवान्‌


किमर्थम्‌ अचः ? प्रभुग्नः, परिभुग्नः |

प्र + भुजो + क्त → प्र + भुज्‌ + त → ओदितश्च (८.२.४५) इत्यनेन ओकारेतः धातोरुत्तरस्य निष्ठातकारस्य नकारादेशः → प्र + भुज्‌ + न → चोः कुः (८.२.३०) → प्र + भुग्‌ + न → प्रभुग्नः


७. पूर्वपदात्संज्ञायामगः (८.४.३) = पूर्वपदस्थान्निमित्तादुत्तरस्य गकारवर्जिताद्‌ नकारस्य णकार आदेशो भवति संज्ञायां विषये | पूर्वपदे णत्वस्य निमित्तं वर्तते, पूर्वपदस्य अन्तिमवर्णः गकारो नास्ति, सम्पूर्णपदं नाम अस्ति इति चेत्‌ उत्तरपदे विद्यमानस्य नकारस्य णकारादेशो भवति |


राम + अयनम्‌ → रामायणम्‌

शूर्प + नखा → शूर्पणखा [रावणस्य भगिनी]


संज्ञायां विषये इति किम्‌ ? चर्मनासिकः |

गकारवर्जिताद्‌ इति किम्‌ ? ऋगयनम्‌ |


B. णत्व-निषेधकसूत्राणि


१. पदान्तस्य (८.४.३७) = पदान्तस्य नकारस्य णत्वं न भवति | पदान्तस्य षष्ठ्यन्तम्‌, एकं पदमिदं सूत्रम्‌ | रषाभ्यां नो णः समानपदे इत्यस्मात्‌ रषाभ्यां नो णः इत्येषाम्‌ अनुवृत्तिः;अट्कुप्वाङ्‌नुम्व्यवायेऽपि इत्यस्य पूर्णसूत्रस्य अनुवृत्तिः; न भाभूपूकमिगमिप्यायीवेपाम्‌ इत्यस्मात्‌ इत्यस्य अनुवृतिः | अनुवृत्ति-सहितं सूत्रमेवम्— अट्कुप्वाङ्‌नुम्व्यवायेऽपि रषाभ्यां पदान्तस्य नो णः न इति |


यथा—

वृक्षान्‌, रामान्‌, हरीन्‌, त्रीन्, गिरीन्‌


२. न भाभूपूकमिगमिप्यायीवेपाम्‌ (८.४.३४) = भा भू पू कमि गमि पयायी वेप इत्येतेषां धातूनाम्‌ उपसर्गस्थात् निमित्तादुत्तरस्य कृत्स्थस्य नकारस्य णकारादेशो न भवति | इदं सूत्रं कृत्यचः (८.४.२९) इत्यस्य बाधकम्‌ |


यथा—

भा → प्रभानम्, परिभानम्

भू → प्रभवनम्, परिभवनम्

पू → प्रपवनम्, परिपवनम्

[अत्र पूञ्‌-धातोः एव ग्रहणम्‌ | पूङ्‌-धातोः णत्वं भवति— प्रपवणम्‌ |]

कमि → प्रकमनम्, परिकमनम्

गमि → प्रगमनम्, परिगमनम्

प्यायी → प्रप्यायनम्, परिप्यायनम्

वेप → प्रवेपनम्, परिवेपनम्


वार्तिकेन ज्ञायते यत्‌ ण्यन्तानां भादीनाम् अपि ग्रहणम्‌ | नाम णिजन्तेभ्यः अपि उपसर्गस्थात् निमित्तादुत्तरस्य कृत्स्थस्य नकारस्य णत्वं न भवति— प्रभापनम्, परिभापनम् |


३. नशेः षान्तस्य (८.४.३६) = नशेः षकारान्तस्य णकारादेशो न भवति | नश्‌-धातोः प्रसङ्गः | न इति अनुवर्तते |


प्र + नश्‌ + क्त → प्रनष्टः

परि + नश्‌ + क्त → परिनष्टः


षान्तस्य इति किम्? प्रणश्यति | परिणश्यति |


अन्तग्रहणं षान्तभूतपूर्वमात्रस्य अपि यथा स्यात्, प्रनङ्क्ष्यति | परिनङ्क्षयति | अत्र षकारः अन्ते आसीत्‌, तदा अपरसूत्रैः षकारस्य विकारः जातः; यद्यपि अधुना षकारः न दृश्येत, षकारः अन्ते आसीत्‌ इति कृत्वा णत्वनिषेधो भवति |



Natvam.pdf (54k) Swarup Bhai, Sep 22, 2018, 5:26 AM

p.1.pdf (4000k) Swarup Bhai, Jun 7, 2014, 1:25 AM

p.2.pdf (2464k) Swarup Bhai, Jun 7, 2014, 1:25 AM

p.3.pdf (2232k) Swarup Bhai, Jun 7, 2014, 1:25 AM

p.4.pdf (2096k) Swarup Bhai, Jun 7, 2014, 1:25 AM

p.5.pdf (1891k) Swarup Bhai, Jun 7, 2014, 1:25 AM

p.6.pdf (2555k) Swarup Bhai, Jun 7, 2014, 1:25 AM


Swarup – November 2013 (updated Aug 2018)

---------------------------------