05 - अङ्गस्य सिद्ध-तिङ्प्रत्ययानां च संयोजनम्
एतावता सार्वधातुकलकाराणां (लट्, लोट्, लङ्, विधिलिङ् इत्येषाम्) अङ्गम् अदन्तं यत्र, तत्र अङ्गं निष्पन्नम् अपि च सिद्ध-तिङ्प्रत्ययाः प्राप्ताः | अधुना तयोः संयोजनं क्रियते; फलं तिङन्तपदं—लोके विख्यातं क्रियापदम् |
अत्र अस्ति दीक्षितपुष्पा-महोदयायाः पद्धतेः वैलक्षण्यम् | अङ्गम् अदन्तं चेत्, एकवारं लटि, लोटि, लङि, विधिलिङि च अङ्गस्य सिद्ध-तिङ्प्रत्ययानां च संयोजनं परिशील्य, अग्रे भ्वादिगणे, दिवादिगणे, तुदादिगणे, चुरादिगणे—एषु चतुर्षु लकारेषु सर्वाणि रूपाणि ज्ञास्यन्ते | भव, नृत्य, लिख, चोरय एतानि अङ्गानि सर्वाणि अदन्तानि इति कारणेन यद्यपि भिन्न-धातुगणेषु सन्ति, परन्तु कार्यं पूर्णतया समानम् | अतः अस्य पाठस्य अनन्तरं यदा भ्वादिगणस्य, दिवादिगणस्य, तुदादिगणस्य, चुरादिगणस्य च क्रमेण वैशिष्ट्यम् अवलोकयिष्यामः, तदा केवलम् अदन्तम् अङ्गं निर्मातव्यम् अस्माभिः | ततः चतुर्णां धातुगणानां सर्वेषां धातूनाम् (997+140+157+409 = 1703) लटि, लोटि, लङि, विधिलिङि च सर्वाणि रूपाणि ज्ञायन्ते | भवति, भवतु, अभवत्, भवेत् इति यथा, तथैव नृत्यति, नृत्यतु, अनृत्यत् , नृत्येत्; लिखति, लिखतु, अलिखत्, लिखेत्; चोरयति, चोरयतु, अचोरयत्, चोरयेत् | अतः अग्रिमेषु पाठेषु केवलं लट्-लकारस्य प्रथमपुरुषैकवचनान्तरूपं 'भवति' प्रदर्श्यते | ततः अग्रे सर्वं बुद्धम् एव !
सूत्राणि
अङ्गस्य सिद्ध-तिङ्प्रत्ययानां च मेलनार्थम् अपेक्षितानि सूत्राणि इमानि—
अतो गुणे (६.१.९६)
अमि पूर्वः ( ६.१.१०७)
अदेङ् गुणः (१.१.२)
अतो दीर्घो यञि (७.३.१०१)
वृद्धिरेचि (६.१.८७)
लुङ्लङ्लृङ्क्ष्वडुदात्तः (६.४.७१)
ससजुषो रुः (८.२.६६)
खरवसानयोर्विसर्जनीयः (८.३.१५)
आद्गुणः (६.१.८७)
आडजादीनाम् (६.४.७२)
आटश्च (६.१.८९)
अङ्गस्य तिङ्प्रत्ययस्य च संयोजन-कार्यम्
कार्यार्थम् अधः यत्र कस्यचित् सूत्रस्य आवश्यकता अस्ति, तत्र दक्षिणतः सूत्रं दत्तम् | किमपि सूत्रं न लिखितं चेत्, केवलं द्वयोः अंशयोः संमेलनं भवति | यथा पठ + ति = पठति — अत्र केवलम् अंशयोः संयोजनं; कस्यापि सूत्रस्य आवश्यकता नास्ति |
A. परस्मैपदे अङ्ग-तिङ्प्रत्यय-संयोजनम्
परस्मैपदे धातुः = पठ्, अङ्गम् = पठ
१. लट्-लकारः
लटि सिद्ध-तिङ्प्रत्ययाः—
ति तः अन्ति
सि थः थ
मि वः मः
कार्यम्—
पठ + ति = पठति
पठ + तः = पठतः
पठ + अन्ति = पठन्ति अतो गुणे (६.१.९६) [गुणः = अ, ए, ओ]
पठ + सि = पठसि
पठ + थः = पठथः
पठ + थ = पठथ
पठ + मि = पठामि अतो दीर्घो यञि (७.३.१०१) [= यञ्-आदि-सार्वधातुकः प्रत्ययः परः चेत्, अदन्त-अङ्गस्य अन्तिमस्वरः दीर्घः भवति |]
पठ + वः = पठावः अतो दीर्घो यञि (७.३.१०१)
पठ + मः = पठामः अतो दीर्घो यञि (७.३.१०१)
अतो गुणे (६.१.९६) = अपदान्तात् अतः गुणे परे पूर्वपरयोः स्थाने एकः पररूपमेकादेशः स्यात् | गुणः इत्युक्तौ अ, ए, ओ | इदं सूत्रं वृद्धिरेचि (६.१.८७), अकः सवर्णे दीर्घः (६.१.९९) इत्यनयोः अपवादसूत्रम् | अतः पञ्चम्यन्तं, गुणे सप्तम्यन्तं, द्विपदमिदं सूत्रम् | उस्यपदान्तात् (६.१.९५) इत्यस्मात् अपदान्तात् अपि च एङि पररूपम् (६.१.९३) इत्यस्मात् पररूपम् इत्यनयोः अनुवृत्तिः | एकः पूर्वपरयोः (६.१.८३), संहितायाम् (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्— अपदान्तात् अतः गुणे पूर्वपरयोः एकः पररूपं संहितायाम् |
अदेङ्गुणः (१.१.२) = ह्रस्व-अकारः, एकारः, ओकारः (एङ्) एषां वर्णानां गुणसंज्ञा स्यात् | अत् एङ् च गुणसंज्ञः स्यात् इति | अत् च एङ् च अदेङ् | अदेङ् प्रथमान्तं, गुणः प्रथमान्तं, द्विपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— अत् एङ् गुणः |
वृद्धिरेचि (६.१.८७) = अवर्णात् एचि परे पूर्वपरयोः स्थाने वृद्धिसंज्ञक-एकादेशः स्यात् | वृद्धिः प्रथमान्तम्, एचि सप्तम्यन्तं, द्विपदमिदं सूत्रम् | आद्गुणः (६.१.८६) इत्यस्मात् आत् इत्यस्य अनुवृत्तिः; एकः पूर्वपरयोः (६.१.८३), संहितायाम् (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्— आत् एचि पूर्वपरयोः एकः वृद्धिः संहितायाम् |
अकः सवर्णे दीर्घः (६.१.९९) = अक्-वर्णात् सवर्णे अचि परे पूर्वपरयोः स्थाने दीर्घसंज्ञक-एकादेशः स्यात् | अक् प्रत्याहारः = अ, इ, उ, ऋ, ऌ | अकः पञ्चम्यन्तं, सवर्णे सप्तम्यन्तं, दीर्घः प्रथमान्तं, त्रिपदमिदं सूत्रम् | इको यणचि (६.१.७६) इत्यस्मात् अचि इत्यस्य अनुवृत्तिः; एकः पूर्वपरयोः (६.१.८३), संहितायाम् (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्— अकः सवर्णे अचि पूर्वपरयोः एकः दीर्घः संहितायाम् |
अतो दीर्घो यञि (७.३.१०१) = अदन्ताङ्गस्य दीर्घत्वं यञादि-सार्वधातुकप्रत्यये परे | यञ् प्रत्याहारः = य व र ल ञ म ङ ण न झ भ | अतः षष्ठ्यन्तं, दीर्घः प्रथमान्तं, यञि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | तुरुस्तुशम्यमः सार्वधातुके (७.३.९५) इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तादृशम् अङ्गं यस्य अन्ते ह्रस्व-अकारः अस्ति; अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य स्थाने आदेशः; यस्मिन् विधिस्तदादावल्ग्रहणे (१.१.७२, वार्तिकम् २९) इत्यनेन यञि सार्वधातुके इत्युक्तौ यञादि-सार्वधातुके | अनुवृत्ति-सहितसूत्रम्— अतः अङ्गस्य दीर्घः यञि सार्वधातुके |
२. लोट्-लकारः
लोटि सिद्ध-तिङ्प्रत्ययाः—
तु, तात् ताम् अन्तु
०, तात् तम् त
आनि आव आम
कार्यम्—
पठ + तु = पठतु
पठ + ताम् = पठताम्
पठ + अन्तु = पठन्तु अतो गुणे (६.१.९६)
पठ + ० = पठ
पठ + तम् = पठतम्
पठ + त = पठत
पठ + आनि = पठानि अकः सवर्णे दीर्घः (६.१.९९)
पठ + आव = पठाव अकः सवर्णे दीर्घः (६.१.९९)
पठ + आम = पठाम अकः सवर्णे दीर्घः (६.१.९९)
३. लङ्-लकारः
लङि सिद्ध-तिङ्प्रत्ययाः—
त् ताम् अन्
स् तम् त
अम् व म
अ + पठ = अपठ इति अङ्गम् लुङ्लङ्लृङ्क्ष्वडुदात्तः (६.४.७१)
कार्यम्—
अपठ + त् = अपठत्
अपठ + ताम् = अपठताम्
अपठ + अन् = अपठन् अतो गुणे (६.१.९६)
अपठ + स् = अपठः ससजुषोरुः इत्यनेन स्-स्थाने रु, खरवसानयोर्विसर्जनीयः इत्यनेन रु-स्थाने विसर्गः
अपठ + तम् = अपठतम्
अपठ + त = अपठत
अपठ + अम् = अपठम् अमि पूर्वः (६.१.१०७)
अपठ + व = अपठाव अतो दीर्घो यञि (७.३.१०१)
अपठ + म = अपठाम अतो दीर्घो यञि (७.३.१०१)
लुङ्लङ्लृङ्क्ष्वडुदात्तः (६.४.७१) = लुङ् लङ् लृङ् च परं चेत्, धातुरूपि-अङ्गस्य अट्-आगमो भवति; स च अडागमः उदात्त-संज्ञकः | आद्यन्तौ टकितौ (१.१.४६) इत्यनेन अङ्गात् प्राक् आयाति | लुङ् च लङ् च लृङ् च तेषामितरेतरद्वन्द्वः लुङ्लङ्लृङः, तेषु लुङ्लङ्लृङ्क्षु | लुङ्लङ्लृङ्क्षु सप्तम्यन्तम्, अट् प्रथमान्तम्, उदात्तः प्रथमान्तं, त्रिपदमिदं सूत्रम् | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अङ्गस्य अट् उदात्तः लुङ्लङ्लृङ्क्षु |
अमि पूर्वः (६.१.१०५) = अकः अम्यचि परतः पूर्वरूपमेकादेशः स्यात् | अमि विद्यमानो योऽच् तस्मिन् परे इत्यर्थः | अमि सप्तम्यन्तं, पूर्वः प्रथमान्तं, द्विपदमिदं सूत्रम् | अकः सवर्णे दीर्घः ( ६.१.९९) इत्यस्मात् सूत्रात् अकः इत्यस्य अनुवृत्तिः | एकः पूर्वपरयोः (६.१.८३), संहितायाम् (६.१.७१) इत्यनयोः अधिकारः | इको यणचि ( ६.१.७६) इत्यस्मात् सूत्रात् अचि इत्यस्य अनुवृत्तिः | यस्मिन् विधिस्तदादावल्ग्रहणे (१.१.७२, वार्तिकम् २९) इत्यनेन अचि अमि इत्युक्तौ अजादौ अमि इत्यर्थः | अनुवृत्ति सहितसूत्रम् — अकः अचि अमि पूर्वपरयोः एकः पूर्वः संहितायाम् |
ससजुषो रुः (८.२.६६) = पदान्ते सकारस्य च सजुष्-शब्दस्य षकारस्य च स्थाने रु-आदेशो भवति | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन न केवलं यत् पदं सकारः अस्ति, अपि तु यस्य पदस्य अन्ते सकारः अस्ति | अलोऽन्त्यस्य (१.१.५२) इत्यनेन पदान्तस्य वर्णस्य स्थाने रु-आदेशः न तु पूर्णपदस्य | सश्च सजुश्च ससजुषौ, इतरेतरद्वन्द्वः, तयोः ससजुषोः | ससजुषोः षष्ठ्यन्तं, रुः प्रथमान्तं, द्विपदमिदं सूत्रम् | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— ससजुषोः पदस्य रुः |
खरवसानयोर्विसर्जनीयः (८.३.१५) = खरि अवसाने च पदान्ते रेफस्य स्थाने विसर्गादेशो भवति | खर् च अवसानं च खरवसाने तयोरितरेतरद्वन्द्वः, तयोः खरवसानयोः | खरवसानयोः सप्तम्यन्तं, विसर्जनीयः प्रथमान्तं, द्विपदमिदं सूत्रम् | रो रि (८.३.१४) इत्यस्मात् रः इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | रः 'पदस्य' इत्यस्य विशेषणम्; येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तादृशम् पदं यस्य अन्ते रेफः अस्ति; अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य स्थाने आदेशः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— रः पदस्य विसर्जनीयः खरवसानयोः संहितायाम् |
४. विधिलिङ्-लकारः
विधिलिङि सिद्ध-तिङ्प्रत्ययाः—
इत् इताम् इयुः
इः इतम् इत
इयम् इव इम
आद्गुणः (६.१.८७) = विधिलिङ्गि सर्वत्र प्रसक्तिः
कार्यम्—
पठ + इत् = पठेत् आद्गुणः (६.१.८७) [अपि च अग्रे सर्वत्र]
पठ + इताम् = पठेताम्
पठ + इयुः = पठेयुः
पठ + इः = पठेः
पठ + इतम् = पठेतम्
पठ + इत = पठेत
पठ + इयम् = पठेयम्
पठ + इव = पठेव
पठ + इम = पठेम
आद्गुणः (६.१.८६) = अ-वर्णात् अचि परे पूर्वपरयोः स्थाने गुणसंज्ञकः एकादेशः स्यात् | अत्र अचि परे इत्यस्य इकि परे इति फलितः अर्थः यतः अकारात् अकारः चेत् कार्यं बाधितम् अकः सवर्णे दीर्घः (६.१.९९) इत्यनेन; अकारात् एच् चेत् कार्यं बाधितं वृद्धिरेचि इत्यनेन सूत्रेण च | आत् पञ्चम्यन्तं, गुणः प्रथमान्तं, द्विपदमिदं सूत्रम् | इको यणचि (६.१.७६) इत्यस्मात् अचि इत्यस्य अनुवृत्तिः; एकः पूर्वपरयोः (६.१.८३), संहितायाम् (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्— आत् अचि पूर्वपरयोः एकः गुणः संहितायाम् |
B. आत्मनेपदे अङ्ग-तिङ्प्रत्यय-संयोजनम्
आत्मनेपदे धातुः = एध्, अङ्गम् = एध
१. लट्-लकारः
लटि सिद्ध-तिङ्प्रत्ययाः—
ते इते अन्ते
से इथे ध्वे
ए वहे महे
कार्यम्—
एध + ते = एधते
एध + इते = एधेते आद्गुणः (६.१.८७)
एध + अन्ते = एधन्ते अतो गुणे (६.१.९६)
एध + से = एधसे
एध + इथे = एधेथे आद्गुणः (६.१.८७)
एध + ध्वे = एधध्वे
एध + ए = एधे अतो गुणे (६.१.९६)
एध + वहे = एधावहे अतो दीर्घो यञि (७.३.१०१)
एध + महे = एधामहे अतो दीर्घो यञि (७.३.१०१)
२. लोट्-लकारः
लोटि सिद्ध-तिङ्प्रत्ययाः—
ताम् इताम् अन्ताम्
स्व इथाम् ध्वम्
ऐ आवहै आमहै
कार्यम्—
एध + ताम् = एधताम्
एध + इताम् = एधेताम् आद्गुणः (६.१.८७)
एध + अन्ताम् = एधन्ताम् अतो गुणे (६.१.९६)
एध + स्व = एधस्व
एध + इथाम् = एधेथाम् आद्गुणः (६.१.८७)
एध + ध्वम् = एधध्वम्
एध + ऐ = एधै वृद्धिरेचि (६.१.८७)
एध + आवहै = एधावहै अकः सवर्णे दीर्घः (६.१.९९)
एध + आमहै = एधामहै अकः सवर्णे दीर्घः (६.१.९९)
३. लङ्-लकारः
लङि सिद्ध-तिङ्प्रत्ययाः—
त इताम् अन्त
थाः इथाम् ध्वम्
इ वहि महि
आ + एध = ऐध इति अङ्गम् आडजादीनाम् (६.४.७२), आटश्च (६.१.८९)
कार्यम्—
ऐध + त = ऐधत
ऐध + इताम् = ऐधेताम् आद्गुणः (६.१.८७)
ऐध + अन्त = ऐधन्त अतो गुणे (६.१.९६)
ऐध + थाः = ऐधथाः
ऐध + इथाम् = ऐधेथाम् आद्गुणः (६.१.८७)
ऐध + ध्वम् = ऐधध्वम्
ऐध + इ = ऐधे आद्गुणः (६.१.८७)
ऐध + वहि = ऐधावहि अतो दीर्घो यञि (७.३.१०१)
ऐध + महि = ऐधामहि अतो दीर्घो यञि (७.३.१०१)
आडजादीनाम् (६.४.७२) = लुङ् लङ् लृङ् च परे चेत्, अजादिधातुरूपि-अङ्गस्य आट्-आगमो भवति; स च आडागमः उदात्त-संज्ञकः | आद्यन्तौ टकितौ (१.१.४६) इत्यनेन अङ्गात् प्राक् आयाति | अच् आदिर्येषां ते, अजादयः बहुव्रीहिः; तेषाम् अजादीनाम् | आट् प्रथमान्तम्, अजादीनाम् षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | लुङ्लङ्लृङ्क्ष्वडुदात्तः (६.४.७१) इत्यस्मात् लुङ्लङ्लृङ्क्षु, उदात्तः इत्यनयोः अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अजादीनाम् अङ्गस्य आट् उदात्तः लुङ्लङ्लृङ्क्षु |
आटश्च (६.१.८९) = आडागमात् अचि परे पूर्वपरयोः वृद्धिरेकादेशो भवति | आटः पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | इको यणचि (६.१.७६) इत्यस्मात् अचि इत्यस्य अनुवृत्तिः | वृद्धिरेचि (६.१.८७) इत्यस्मात् वृद्धिः इत्यस्य अनुवृत्तिः | एकः पूर्वपरयोः (६.१.८३), संहितायाम् (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्— आटः च अचि पूर्वपरयोः एकः वृद्धिः संहितायाम् |
धेयं यत् उपरितने उदाहरणे एध्-धातोः आदौ एकारः अस्ति अतः आ + ए → ऐ इति वृद्धिः तु भवति एव | परन्तु धातुः इकारादिः उकारादिः वा चेत्, आ + इ / आ + उ → गुणः भवति स्म | एतदर्थम् आटश्च (६.१.८९) इत्यनेन वृद्धिः भवति न तु गुणः | यथा परस्मैपदे, तुदादिगणे इष्-धातुः, इषुगमियमां छः (७.३.७७) इति सूत्रेण वक्ष्यमाणेन धात्वादेशेन शिति परे षकारस्य स्थाने छकारः, इष् + श → अङ्गम् इच्छ | लटि इच्छति; लङि आडागमं कृत्वा आ + इच्छ | अत्र सामान्यगुणसन्धिना आद्गुणः (६.१.८७) इत्यनेन 'एच्छत्' इति भवति स्म | परन्तु अत्र आटश्च (६.१.८९) इत्यनेन परत्वात् वृधिरादेशो भवति इति कृत्वा ऐच्छत् |
४. विधिलिङ्-लकारः
विधिलिङि सिद्ध-तिङ्प्रत्ययाः—
ईत ईयाताम् ईरन्
ईथाः ईयाथाम् ईध्वम्
ईय ईवहि ईमहि
आद्गुणः (६.१.८७) = विधिलिङ्गि सर्वत्र प्रसक्तिः
कार्यम्—
एध + ईत = एधेत आद्गुणः (६.१.८७) [अपि च अग्रे सर्वत्र]
एध + ईयाताम् = एधेयाताम्
एध + ईरन् = एधेरन्
एध + ईथाः = एधेथाः
एध + ईयाथाम् = एधेयाथाम्
एध + ईध्वम् = एधेध्वम्
एध + ईय = एधेय
एध + ईवहि = एधेवहि
एध + ईमहि = एधेमहि
इति सार्वधातुकलकारेषु अदन्ताङ्ग-तिङ्प्रत्यययोः संयोजनम् | फलं क्रियापदमिति |
Swarup - April 2013 (Updated May 2015)
५ - अङ्गस्य सिद्ध-तिङ्प्रत्ययानां च संयोजनम्.pdf (68k) Swarup Bhai, Mar 31, 2019, 6:16 AM v.1