26 - दलसार्थक्यचिन्तनम्‌

From Samskrita Vyakaranam
10---nyAyashAstram/26---dalasArthakya-cintanam
Jump to navigation Jump to search
(१) रूपरहितत्वे सति स्पर्शवत्वं वायोः लक्षणम् |      (११) मङ्गलाचरणस्य अनुमानवाक्ये हेतौ दलसार्थक्यम् |
(२) तज्जन्यत्वे सति तज्जन्यजनकत्वं व्यापारस्य लक्षणम् | (१२) विद्यमानत्वे सति व्यावर्तकत्वं विशेषणस्य लक्षणम् |
(३) चक्षुर्मात्रग्राह्यो गुणो रूपम् | (१३) लक्ष्यतावच्छेदकसमनियतत्वे सति व्यावर्तकत्वं लक्षणस्य लक्षणम् |
(४) आद्यपतनासमवायिकारणं गुरुत्वम् | (१४) संयोगभिन्नत्वे सति संयोगासमवायिकारणं कर्म |
(५) घ्राणग्राह्यो गुणो गन्धः |    (१५) द्रव्यकर्मभिन्नत्वे सति सामान्यवान् गुणः |
(६) सुखाद्युपलब्धिसाधनमिन्द्रियं मनः | (१६) नित्यत्वे सति अनेकसमवेतत्वं सामान्यस्य लक्षणम् |
(७) संयोगनाशाको गुणो विभागः | (१७) गन्धसमानाधिकरणद्रव्यत्वापरजातिमत्त्वं पृथिव्याः लक्षणम् |
(८) आद्यस्यन्दनासमवायिकारणं द्रवत्वम् | (१८) गुणसमानाधिकरणसत्ताभिन्नजातिमत्त्वं द्रव्यस्य लक्षणम् |
(९) चूर्णादिपिण्डीभावहेतुर्गुणः स्नेहः | (१९) इन्द्रियस्य लक्षणम् |
(१०) संस्कारमात्रजन्यं ज्ञानं स्मृतिः |

(२०) ध्वंसभिन्नत्वे सति ध्वंसाऽप्रतियोगित्वं नित्यत्वम् अथवा नित्यस्य लक्षणम्