द्रव्यकर्मभिन्नत्वे सति सामान्यवान् गुणः
10---nyAyashAstram/26---dalasArthakya-cintanam/dravyakarmabhinnatvesatisamanyavangunah
(१५) ‘द्रव्यकर्मभिन्नत्वे सति सामान्यवान् गुणः’ | द्रव्यकर्मभिन्नत्वे सति सामान्यवत्त्वं गुणस्य लक्षणम् |
द्वे दले : १) द्रव्यकर्मभिन्नत्वम् २) सामान्यवत्त्वम्
उपात्तं दलम् | दोषः | कुत्र ? | निवारणम् |
द्रव्यकर्मभिन्नत्वम् | अतिव्याप्तिः | अन्येषु सर्वेषु द्रव्यकर्मभिन्नेषु पदार्थेषु | | सामान्यवत्त्वम् |
सामान्यवत्त्वम् | अतिव्याप्तिः | द्रव्ये च कर्मणि | यतः सामान्यम् इति पदार्थः त्रिषु स्थलेषु, द्रव्यगुणकर्मसु | | द्रव्यकर्मभिन्नत्वम् |
द्रव्यकर्मभिन्नत्वे सति सामान्यवत्त्वम् | नास्ति | नास्ति | नास्ति |