15 - गुणस्य व्याप्याव्याप्यं च वृत्तित्वम्
प्राचीनानां मतानुसारं रूपं सप्तविधम् | तत्र सप्तसु अन्यतमं चित्रम् | नव्यनैयायिकाः इदं सप्तमं न मन्यन्ते |
व्याप्यवृत्तित्वस्य तत्सम्बद्धशब्दानां च अर्थः
रूपं व्याप्यवृत्ति इति प्राचीनानां मतम्, अव्याप्यवृत्ति इति नवीनानां मतम् | यदा प्राचीनाः वदन्ति यत् रूपम् इति गुणः व्याप्यवृत्तिः, तदा तेषां कथनस्य आशयः एवं यत् यस्मिन् द्रव्ये रूपं तिष्ठति, तत् द्रव्यं व्याप्य तिष्ठति; तद् रूपं तस्मिन् द्रव्ये सर्वत्र भवति इत्यर्थः | तस्य द्रव्यस्य एकस्मिन् एव भागे भवति इति न, अपि तु सर्वत्र एव | अपरेषु शब्देषु, यस्मिन् द्रव्ये तत् रूपं तिष्ठति, तत् द्रव्यं पूर्णतया आवृत्य तिष्ठति; तस्मिन् द्रव्ये पूर्णतया व्याप्तः भवति सः गुणः |
अधुना व्याप्यवृत्ति इति शब्दः कीदृशः इति बोध्यम् | 'रूपं व्याप्यवृत्तिः गुणः' इति वाक्यम् अवलोकयाम | व्याप्यवृत्ति विशेषणम् अस्ति, त्रिषु लिङ्गेषु च भवति; अत्र च पुंसि | पुंलिङ्गे हरि-शब्दः इव व्याप्यवृत्तिः; स्त्रीलिङ्गे मति-शब्दः इव व्याप्यवृत्तिः; नपुंसकलिङ्गे वारि-शब्दः इव व्याप्यवृत्ति | अतः व्याप्यवृत्तिः गुणः, व्याप्यवृत्तिः सङ्ख्या, व्याप्यवृत्ति रूपम् | धेयं यत् वृत्ति-शब्दः नियतलिङ्गशब्दः, स्त्रीलिङ्गकः | परन्तु व्याप्यवृत्ति इति समस्तपदम् |
अग्रे, 'एकत्वम् इति सङ्ख्या पुस्तकं व्याप्य तिष्ठति' | अत्र प्रश्नः उदेति 'पुस्तके व्याप्य तिष्ठति' उत 'पुस्तकं व्याप्य तिष्ठति'; द्वयोः मध्ये किं स्यात् ? वि-उपसर्गपूर्वकः आप्-धातुः, लटि व्याप्नोति; आवरणं करोति इत्यर्थः | अत्र व्याप्य तस्य ल्यबन्तं रूपम् | ल्यपि कर्म गृह्यते अतः पुस्तकशब्दे कर्मपदत्वं, व्याप्य इति ल्यबन्तेन अन्वयः | 'वायुः वृक्षं व्याप्य तिष्ठति', तथा |
परन्तु 'कपिसंयोगः वृक्षे अव्याप्यवृत्तिः' | अत्र वृक्षस्य अधिकरणकारकं (न तु कर्मकारकं) यतोहि व्याप्य-शब्दस्य अन्वयः कपिसंयोगस्य वृत्तित्वेन, न तु समासात् बहिः | ततः अग्रे कपिसंयोगस्य वृत्तित्वं कुत्र इति चेत्, वृक्षे | समस्तपदं यदा कुर्मः, तदानीं समस्तपदस्य यः समग्रः अर्थः, सः कथं सम्बध्यते वाक्ये इति द्रष्टव्यम् | यथा अत्र ''अव्याप्यवृत्तिः' इत्यस्य समग्रः यः अर्थः, स अर्थः वृक्षेण सह सम्बध्यते; केवलं 'व्याप्य' पदस्य अन्वयः अपेक्षितः यदा, तदा समस्तपदस्य अन्तर्गते एव चिन्तनीयम् | यथोक्तं तर्हि वृत्तित्वं वृक्षेण सह सम्बध्यते; कपिसंयोगवृत्तित्वं वृक्षे भवति | व्याप्य-शब्दस्य अन्वयः वृक्षेण नास्ति अपि तु वृत्ति-शब्देन | न व्याप्य अव्याप्य; अव्याप्य वृत्तिः यस्य सः अव्याप्यवृत्तिः | बहुव्रीहिसमासः | ल्यबन्तं पदं अव्ययम्; अव्ययानां च बहुव्रीहिसमासः भवति | यथा उच्चैः मुखं यस्य, सः उच्चैर्मुखः | तर्हि आहत्य अव्याप्यवृत्ति इति पदे अव्याप्य इत्यस्य साक्षात् वृत्तित्वान्वयः; किन्तु बहुव्रीहेः अन्यपदार्थप्राधान्यत्वात् पदस्य समग्रार्थः अन्वेति कपिसंयोगः इति गुणेन, अधिकरणत्वात् वृक्षेण च | 'कपिसंयोगः वृक्षे अव्याप्यवृत्तिः' |
किन्तु कपिसंयोगः वृक्षम् अव्याप्य तिष्ठति; अत्र अव्याप्य इति ल्यबन्तं पदं कर्मपदं गृह्णाति | कर्ता कपिसंयोगः, वृक्ष च कर्मपदम् | कपिसंयोगः वृक्षं न व्याप्नोति इति वाक्यस्य अर्थः |
धेयं यत् अत्र व्याप्य इति ल्यबन्तपदं; किन्तु व्याप्यः/व्याप्या/व्याप्यम् इति कर्मण्यर्थकं विशेषणं ण्यत्-प्रत्ययान्तम् | अतः व्याप्य इति ल्यबन्तात्, व्याप्यः इति ण्यदन्तं च पूर्णतया भिन्नम् | पेयं, खाद्यं, कार्यं, वाक्यं, व्याप्यम् इतीमानि पदानि ण्यत्-प्रत्ययान्तानि | व्याप्यः इत्यस्य विपरीतार्थाकं पदं ण्वुल्-प्रत्ययान्तं व्यापकम् | यः व्याप्नोति सः व्यापकः, यं व्याप्नोति, सः व्याप्यः | किन्तु अत्र 'कपिसंयोगः वृक्षम् अव्याप्य तिष्ठति' इति वाक्ये, अव्याप्य इति ल्यबन्तं पदम् | अन्यच्च व्याप्य इति यथा, तथैव आवृत्य अपि | लटि आवृणोति, अर्थः स एव समानः— आवरणं करोतीति |
व्याप्यवृत्तित्व-शब्दस्य व्यवहारः
व्याकरणदृष्ट्या परिशीलितम्; अधुना व्याप्यवृत्तिः इत्यस्य कीदृशव्यवहारः इति पश्येम | यथा एकं पुस्तकं वर्तते, तस्मिन् 'एकत्वम्' इति सङ्ख्या अस्ति | एकत्वम् इति सङ्ख्या व्याप्यवृत्तिः गुणः; अतः एकत्व-सङ्ख्या पुस्तकं व्याप्य तिष्ठति | किन्तु संयोगः न तथा; संयोगः इति कश्चन गुणः, स च अव्याप्यवृत्तिः | इत्युक्ते संयोगः इति गुणः यस्मिन् द्रव्ये भवति, तत् द्रव्यं व्याप्य न तिष्ठति | यथा इदानीं कस्यचित् हस्तस्य भित्त्या संयोगः अस्ति इति चिन्तयतु | हस्ते वा भित्तौ वा सः संयोगः सर्वात्मना, सर्वत्र न भवति; हस्तः भित्तेः एकस्मिन् देशे संयुक्तः— हस्तस्य भित्तेः एकदेशे संयोगः | अतः अयं संयोगः इति गुणः अव्याप्यवृत्तिः | हस्तः भित्तौ पूर्णतया भित्तिं व्याप्य न तिष्ठति, इति वस्तुस्थितिः |
अधुना 'रूपं' कीदृशम् ? रूपं व्याप्यवृत्तिः गुणः वा, अव्याप्यवृत्तिः गुणः वा इति वार्ता |
यथा कश्चन पटः अस्ति चेत्, तस्मिन् पटे यत्किमपि रूपं स्यात्, सम्पूर्णं तं पटम् आवृत्य, सम्पूर्णं तं पटं व्याप्य, तिष्ठति इति चिन्तयन्तु | एवं सति तस्मिन् पटे किञ्चित् श्वेतरूपम् अस्ति चेत्, किञ्चित् रक्तरूपं, किञ्चित् नीलरूपम् अस्ति चेत् तदानीं पटे वस्तुतः रूपं किम् इति प्रश्ने जाते, शुक्लरूपम् अथवा नीलरूपम् अथवा रक्तरूपम् इति न वक्तव्यम् | यतोहि पटे शुक्लरूपम् अस्ति इति वदामः चेत्, शुक्लरूपं पटस्य एकदेशे भवति; सर्वत्र न भवति | पटस्य अपरस्मिन् भागे नीलरूपं भवति | अतः श्वेतरूपं पटं व्याप्य न तिष्ठति | किन्तु प्राचीनानां मतानुसारं रूपं व्याप्यवृत्तिः गुणः | इदानीं पटे श्वेतरूपमेव अस्ति इति वक्तुं न शक्नुमः यतोहि श्वेतरूपम् एकत्रैव भवति | एकत्र विद्यमानं रूपं तस्य पटस्य रूपम् इति वक्तुं न शक्यते, रूपस्य व्याप्यवृत्तित्वात् | तर्हि अन्यत् किमपि नूतनरूपं वक्तव्यं भवति; प्राचीनैः 'चित्ररूपम्' इत्यस्य स्वीकारः कृतः | चित्ररूपम् इत्युक्तौ अनेकानां रूपाणां मिश्रीकरणम् | अतः 'पटे चित्ररूपम् अस्ति' इति उच्यते; तच्च चित्रम् एकमेव |
किन्तु नवीनाः वदन्ति यत् एवं स्वीकर्तुं न शक्यते | रूपस्य अव्याप्यवृत्तित्वं स्वीकर्तव्यम् इति तेषां मतम् | अनेन एकस्मिन् पटे बहूनि रूपाणि सन्ति इति चिन्तनविधिः | पटस्य एकदेशे श्वेतरूपम्, एकदेशे नीलरूपम् इत्येवं स्वीकार्यं; बहूनि रूपाणि, एकैकमपि रूपम् अव्याप्यवृत्ति |
प्राचीनानां मतानुसारं यत्किमपि एकमेव रूपं स्वीकरणीयं यतोहि एकस्मिन् पटे एकमेव रूपं पटं व्याप्य तिष्ठति | अतः समग्रे पटे रूपं किम् इति निर्णेतव्यम् | समग्रे पटे विद्यमानं रूपं रक्तं न भवति, नीलं न भवति, श्वेतं न भवति; तदर्थं 'चित्ररूपम्' इति मिश्रितरूपं स्वीकृतम् |
अव्याप्यवृत्तित्वम्
विद्याधर्याम्— "अव्याप्यवृत्तित्वम् इत्यस्य स्वाभावस्य अधिकरणे स्वस्य विद्यमानत्वमित्यर्थः" | अत्र अव्याप्यवृत्तित्वम् इत्यस्य लक्षणम् दत्तम् | स्वं यस्मिन् द्रव्ये अस्ति, तस्मिन् एव द्रव्ये तस्य अभावः अपि अस्ति | हस्तस्य भित्त्या संयोगः अस्ति इति चिन्त्यताम् | अत्र अव्याप्यवृत्तिः गुणः संयोगः हस्तभित्त्योः | स्वम् इति सर्वनामपदम्; अत्र स्वम् इत्युक्ते संयोगसम्बन्धः | अधिकरणं भित्तिः | अधिकरणे स्वम् इति संयोगसम्बन्धः अपि अस्ति, स्वस्य अभावः इति संयोगसम्बन्धाभावः अपि अस्ति, यतोहि हस्तभित्तिसंयोगः भित्तिं व्याप्य न तिष्ठति | अनेन स्वाभावस्य अधिकरणे स्वस्य विद्यमानत्वम् |
अन्यत् उदाहरणम् | आकाशे शब्दः | आकाशे शब्दः सर्वत्र न भवति; कुत्रचिदेव भवति यत्र शब्दः उत्पद्यते तत्र | अतः शब्दः अपि अव्याप्यवृत्तिः गुणः | अत्र 'स्वम्' इत्यनेन शब्दः स्वीकरणीयः | स्वाभावः इत्यनेन शब्दस्य अभावः | तस्य अधिकरणम् आकाशः | तस्मिन् एव आकाशे स्वस्य— शब्दस्य— वृत्तित्वम् अपि अस्ति, शब्दाभावस्य वृत्तित्वमपि अस्ति | यतोहि शब्दः आकाशे सर्वत्र नास्ति | अतः आकाशस्य कस्मिंश्चित् देशे शब्दः अस्ति, कस्मिंश्चित् देशे शब्दाभावः अस्ति | अनेन स्वस्य अभावस्य अधिकरणे स्वमपि अस्ति | तस्मात् शब्दः अव्याप्यवृत्तिः | अपि च विश्वे अव्याप्यवृतिः गुणः यो यो भवति, तस्य सर्वस्यापि एवं रीत्या समन्वयं कर्तुं शक्नुमः |
अवच्छेदकत्वम्
रूपं व्याप्यवृत्तिः गुणः अथवा अव्याप्यवृत्तिः गुणः इत्यस्मिन् विषये चिन्तनार्थम् अवच्छेदकत्वविषयिणी चर्चा उपकारिका | अवच्छेदकत्वस्य च प्रतिपादनार्थं न्याये प्रसिद्धम् उदाहरणं कपिवृक्षयोः | कपिः वृक्षस्य अग्रभागे वर्तते |
विद्याधर्याम्— "एकस्मिन् एव वृक्षरूपे अधिकरणे कपिः अस्ति अग्रदेशवर्ति-शाखायाम् | तस्य अभावस्तु मूलदेशवर्ति-शाखायाम् | एवं च अग्रं कपिनिष्ठ-आधेयता-निरूपिता या वृक्षनिष्ठाधिकरणता तस्याः अवच्छेदकम् | मूलं च कपिसंयोगाभावनिष्ठाधेयतानिरूपित-अधिकरणतावच्छेदकम् |”
अनेन कपिसंयोगः अपि भवति वृक्षे, कपिसंयोगाभावः अपि भवति वृक्षे | द्वावपि— कपिसंयोगः कपिसंयोगाभावः च एकस्मिन् समये वृक्षे इत्यस्य प्रतिपादनार्थम् अवच्छेदकस्य विचारः अपेक्षितः | अत्र धेयं यत् पूर्वं चर्चितः विषयः घटाभावः भूतले, घटे विद्यमानप्रतियोगितायाः अवच्छेदकं घटत्वम्— अस्यां दशायां यत् अवच्छेदकत्वम्, अपि च कपिसंयोगस्थले यत् अवच्छेदकत्वं, द्वयमपि भिन्नम् | विद्याधर्याम्— "घटत्वादिनिष्ठप्रतियोगितावच्छेदकत्वात् इदमवच्छेदकत्वं मूलाग्रनिष्ठं भिन्नम् |”
प्रथमतया घटस्य उदाहरणं स्मरेम | भूतले घटाभावः | घटाभावं प्रति यः विरोधः, सः घटे विद्यते | अतः घटस्य आनयनेन घटाभावः नश्यति | घटे यः घटाभावविरोधः, स च प्रतियोगिता नामकः | तादृशी च घटाभावविरोधिनी प्रतियोगिता कुत्र लभ्यते, इत्यस्य प्रतिपादनार्थम् अवच्छेदकं, भेदकम् एकम् अपेक्षितम् | तच्च अवच्छेदकमपि घटे स्यात्, सर्वदा च घटे स्यात्, अन्यत्रापि न स्यात् | घटे विद्यमानं घटत्वं प्रतियोगितायाः अवच्छेदकम् | यतोहि यत्र यत्र घटत्वं भवति, तत्र तत्र तादृशी प्रतियोगिता (विरोधः) वर्तते यस्य द्वारा घटाभावः नष्टः स्यात् | प्रतियोगिता च भिद्यते अवच्छेदेन, अतः तस्याः नाम अवच्छेद्या |
घटस्य दृष्टान्ते अवच्छेद्या अवच्छेदकं च, द्वयोः सामानाधिकरण्यं वर्तते | अवच्छेद्या प्रतियोगिता, अतः प्रतियोगिता-घटत्वयोः सामानाधिकरण्यम् | एतदर्थम् या अवच्छेदकता वर्तते घटत्वे, तस्य नामकरणं कृतम्— अन्यून-अनतिरिक्तवृत्तित्वरूपावच्छेदकता | यतोहि प्रतियोगिता-घटत्वयोः अनतिरिक्तवृत्तित्वम् अस्ति | अनतिरिक्तवृत्तित्वम् इत्युक्ते यत्र यत्र घटत्वं, तत्र तत्र प्रतियोगिता; अपि च यत्र यत्र प्रतियोगिता, तत्र तत्र घटत्वम् |
अधुना कपिवृक्षयोः आकृतिः अवलोकनीया | कपिसंयोगः वृक्षस्य अग्रभागे | कपिसंयोगनिष्ठाधेयता-निरूपित-अधिकरणता वृक्षे | यथा प्रतियोगिता अवच्छेद्या घटस्य दृष्टान्ते, अत्र कपिसंयोगनिष्ठाधेयता-निरूपित-अधिकरणता अवच्छेद्या | अवच्छेदकं च वृक्षस्य अग्रभागः |
तर्हि घटः-घटाभावः, कपिसंयोगः-कपिसंयोगाभावः | द्वयोः दृष्टान्तयोः भेदः कः ? घटघटाभावयोः सहानवस्थानरूपः विरोधः वर्तते | भूतले यदा घटाभावः अस्ति, तदा घटः नितरां नास्ति; यदा घटः अस्ति, तदा घटाभावः नितरां नास्ति | किन्तु कपिसंयोगः सम्पूर्णवृक्षे अव्याप्यवृत्तिः गुणः इति कारणतः स्वाभावस्य अधिकरणे स्वस्य युगपत् विद्यमानत्वं; नाम वृक्षे समानकाले कपिसंयोगः अपि अस्ति, कपिसंयोगाभावः अपि अस्ति | अत्र कपिसंयोगः इति गुणः अव्याप्यवृत्तिः इति कारणेन अवच्छेदकं किञ्चित् भिन्नरीत्या चिन्तनीयं भवति |
कपिसंयोगः इति गुणस्य अव्याप्यवृत्तित्वनिर्वाहार्थम् वृक्षे अग्रभागस्य अवच्छेदकत्वं स्वीक्रियते | तदर्थं विद्याधर्यां लिखितम् अस्ति, “अव्याप्यवृत्तित्वनिर्वाहकम्" अवच्छेदकत्वम्— अत्र अग्रभागस्य अवच्छेदकत्वम् | किम् अवच्छेदकत्वम् ? वृक्षनिष्ठाधिकरणतावच्छेदकत्वम् | तदवच्छेदकत्वं किमर्थं स्वीकृतम् इत्युक्ते, या अधिकरणतानिरूपित-आधेयता कपिसंयोगे, तस्याः अव्याप्यवृत्तित्वम् इति सूचनार्थम् | नाम, कपिसंयोगः अव्याप्यवृत्तिः इति ज्ञापनार्थम् अग्रभागस्य अवच्छेदकत्वं स्वीक्रियते |
अधुना अन्यूनानतिरिक्तवृत्तित्वरूपावच्छेदकता कुत्र वर्तते ? घटः भूतले | घटाभावस्य प्रतियोगिता घटे, सा च अवच्छेद्या | तस्याः प्रतियोगितायाः अवच्छेदकं घटे विद्यमानं घटत्वम् | घटत्वम् अवच्छेदकम् इति कृत्वा तस्मिन् घटत्वे अवच्छेदकत्वं वर्तते | तच्च अवच्छेदकत्वम् अन्यूनानतिरिक्तवृत्तित्वरूपम् | किमर्थम् इति चेत्, यत्र यत्र प्रतियोगिता, तत्र तत्र घटत्वं; यत्र यत्र च घटत्वं तत्र तत्र प्रतियोगिता | अनेन घटत्वं, प्रतियोगिता च, तयोः अन्यूनानतिरिक्तवृत्तित्वम् अस्ति | या च अवच्छेदकता वर्तते घटत्वे, सा अन्यूनानतिरिक्तवृत्तित्वरूपा |
किन्तु यः कपिसंयोगः भवति वृक्षे, तत्र वृक्षे सर्वत्र नास्ति | तत्र अवच्छेद्या अस्ति वृक्षनिष्ठाधिकरणता | किं निरूपिताधिकरणता ? कपिसंयोगनिष्ठाधेयतानिरूपिता अधिकरणता | केवलाधिकरणता नास्ति | अत्र प्रश्नः उदेति, तस्याः अधिकरणतायाः अन्यूनानतिरिक्तवृत्तित्वरूपावच्छेदकत्वं कस्यचित् धर्मस्य इति वक्तुं शक्यते वा ? यथा वृक्षत्वम् | अन्यूनानतिरिक्तवृत्तित्वरूपावच्छेदकत्वं वृक्षत्वस्य भवितुम् अर्हति न वा इति द्रष्टव्यम् | वृक्षत्वं वृक्षे सर्वत्र अस्ति वा ? अपरेषु वृक्षेष्वपि वर्तते वा ? तच्च वृक्षत्वं कपिसंयोगनिष्ठाधेयतानिरूपिता अधिकरणतायाः अवच्छेदकं भवितुम् अर्हति वा ? यत्र यत्र वृक्षत्वं, तत्र तत्र कपिसंयोगः भवति वा ? वृक्षत्वं वृक्षस्य मूले अपि अस्ति, अग्रभागे अस्ति, अपरेषु वृक्षेष्वपि अस्ति | तत्र तत्र कपिसंयोगनिष्ठाधेयतानिरूपिता अधिकरणता अस्ति किम् ? नास्ति | अतः वृक्षत्वस्य अन्यूनानतिरिक्तवृत्तित्वरूपावच्छेदकत्वं न सम्भवति |
अधुना वृक्षस्य अग्रभागं पश्येम | तस्मिन् अग्रभागे अन्यूनानतिरिक्तवृत्तित्वरूपावच्छेदकत्वम् अर्हति किम् ? यत्र यत्र वृक्षे कपिसंयोगनिष्ठाधेयतानिरूपिता अधिकरणता, तत्र तत्र अग्रभागः वर्तते इति वक्तुं शक्यते वा ? अस्य उत्तरदानार्थं 'यत्र यत्र तत्र तत्र' इति सम्यक्तया बोध्यम् |
कपिसंयोगः वृक्षस्य अग्रभागे अस्ति इति कृत्वा अग्रभागः तस्य कपिसंयोगनिष्ठाधेयतानिरूपित-अधिकरणतायाः अवच्छेदकः | अवच्छेद्या कपिसंयोगनिष्ठाधेयतानिरूपित-अधिकरणता | अत्र प्रश्नः अस्ति, यत्र यत्र तत्र तत्र इति सम्बन्धः वर्तते न वा | एकरीत्या चिन्तयितुं शक्नुमः यत् यदा तादृशी अधिकरणता अस्ति वृक्षस्य अग्रभागे एव, तदा तादृशः अग्रभागनाम्ना अवच्छेदकः अपि अस्ति | अन्यत्र, यथा वृक्षस्य मूलभागे, कपिसंयोगनिष्ठाधेयतानिरूपित-अधिकरणता अपि नास्ति, वृक्षस्य अग्रभागः अपि नास्ति | अनेन यत्र यत्र तत्र तत्र इति तु साधितं किल ? किं चिन्तनम् ?
अथवा तथा द्वयोः अन्यूनानतिरिक्तवृत्तित्वं नास्ति चेत्, किमर्थं न स्यात् ? कुत्रचित् अपरवृक्षस्य अग्रभागे कपिसंयोगः नास्ति, इति कारणं किम् ? तथा न | अत्र प्रमुखप्रश्नः अस्ति यत्, अस्मिन् एव वृक्षे यत्र कपिसंयोगः अस्ति, वृक्षस्य अग्रभागः कुत्र वर्तते— तस्य अधिकरणं किम् ?
अग्रभागस्य अधिकरणं वृक्षः एव नास्ति खलु | 'यत्र यत्र तत्र तत्र' इत्यनेन कपिसंयोगनिष्ठाधेयतानिरूपित-अधिकरणता, अग्रभागः च, द्वयोः अधिकरणं समानं स्यात् | 'यत्र यत्र' इत्यस्मिन्, 'यत्र' इत्युक्ते अधिकरणे | केवलं विश्वे कुत्रचित् उपस्थितः इति पर्याप्तं न; 'यत्र यत्र तत्र तत्र' इत्यनेन सामानाधिकरण्यं भवेत् | कपिसंयोगनिष्ठाधेयतानिरूपित-अधिकरणतायाः अधिकरणं किम् ? वृक्षः | अग्रभागस्य अधिकरणं किम् ? अग्रभागस्य अवयवाः | अग्रभागस्य अधिकरणं वृक्षः इति वक्तुं शक्यते किम् ? अग्रभागः स्वयं वृक्षस्य अवयवः | अवयवः अवयविनि भवति, अथवा अवयवी अवयवे भवति ?
कपिसंयोगनिष्ठाधेयतानिरूपित-अधिकरणता भवति वृक्षे, तर्हि सामानाधिकरण्यस्य साधनार्थं द्रष्टव्यं यत् अग्रभागः वृक्षे वर्तते केनचित् सम्बन्धेन न वा | संयोगसम्बन्धेन, समवायसम्बन्धेन, कालिकसम्बन्धेन ? चिन्तयतु | तादात्मीयसम्बन्धेन ? इदानीं घटः घटे भवति तादात्मीयसम्बन्धेन | स्वस्मिन् स्वं तादात्मीयेन भवति | स्वं वृक्षः इति चेत्, अग्रभागः वृक्षे तादात्मीयेन इति वक्तुं शक्यते वा ? वृक्षे 'स्वस्मिन्' अग्रभागः इति 'स्वं' वा ? नास्ति | सम्पूर्णवृक्षः इति स्वं, स च स्वस्मिन् वृक्षे तादात्मीयेन | अग्रभागः केवलं वृक्षस्य अङ्गम्, अतः तादात्मीयेन वृक्षे न | अन्ते केनापि सम्बन्धेन अग्रभागः वृक्षे नास्ति | अतः कथञ्चिदपि कपिसंयोगनिरूपिताधिकरणतायाः, अग्रभागस्य च समानाधिकरणं न भवति |
अत्र उपर्युक्तप्रश्नस्य उत्तरं दातव्यम्— अवयवः अवयविनि भवति किम् ? नैव | अवयवी अवयवे भवति समवायसम्बन्धेन | यथा घटः कपाले | तथैव वृक्षः अग्रे (अग्रभागे) अस्ति | शाखासु वृक्षः समवायसम्बन्धेन | अतः वृक्षः अग्रदेशे इति वक्तुं शक्यं किन्तु विपरीतत्वेन अग्रदेशः वृक्षे इति न | तत्र केवलं षष्ठीविभक्त्याः प्रयोगः— वृक्षस्य शाखा; वृक्षे न | वृक्षस्य शाखा इत्यनेन वृक्षसम्बन्धिनी शाखा, तावदेव— वृत्त्यनियामकसम्बन्धः अपि सम्भवति, वृत्तिनियामकसम्बन्धः अपि सम्भवति | किन्तु अत्र कपिसंयोगवृक्षस्थले, आहत्य सारांशः एवं यत् 'अग्रभागः वृक्षे' इति न कदापि भवति |
एतावता प्रयत्नेन अग्रभागस्य किमर्थम् अवच्छेदकत्वं वक्तव्यम् इति प्रश्ने सति, समाधानत्वेन कपिसंयोगस्य अव्याप्यवृत्तित्वनिर्वाहार्थम् | अव्याप्यवृत्तिः इति सूचनार्थं, ज्ञापनार्थम् अग्रभागस्य अवच्छेदकत्वम् | अपि च वस्तुतः अग्रभागस्य कथनेन वयम् अवगच्छामः यत् कपिसंयोगः वृक्षस्य एकस्मिन् भागे अस्ति, अपरस्मिन् भागे मूले च नास्ति— मूले कपिसंयोगाभावः | अतः अनेन व्यावहारे श्रोतुः मनसि स्पष्टता जायते कपिसंयोगः कुत्र अस्ति कुत्र च नास्ति, अनेन साफल्यं प्राप्तम् | तर्हि अग्रभागः इति अवच्छेदकः तु अस्ति किन्तु अन्यूनानतिरिक्तवृत्तिः न, अपि तु अन्यप्रकारकः— स्वरूपसम्बन्धावच्छेदकः |
धेयं यत् अवच्छेदकता द्विविधा— अन्यूनानतिरिक्तवृत्तित्वरूपावच्छेदकता, स्वरूपसम्बन्धरूपावच्छेदकता च | अग्रावच्छेदेन कपिसंयोगः इत्यत्र संयोगनिष्ठाधेयता-निरूपित-वृक्षनिष्ठ-अधिकरणता, तस्याः अवच्छेदकः अग्रदेशः, अत्र अग्रदेशनिष्ठा अवच्छेदकता स्वरूपसम्बन्धरूपा | घटे विद्यमाना या अभावीया प्रतियोगिता, तदवच्छेदकं भवति घटत्वं, तत्र विद्यमानम् अवच्छेदकत्वम् अन्यूनानतिरिक्तवृत्तित्वरूपम् | प्रतियोगितायाः अन्यून-अनतिरिक्तवृत्ति-घटत्वरूपधर्मः तत्र अवच्छेदकः | अत्र वृक्षे केवलं स्वरूपसम्बन्धरूपावच्छेदकत्वम् अग्रदेशस्य | अन्यूनानतिरिक्तवृत्तित्वं नाम यत्र यत्र प्रतियोगिता, तत्र तत्र घटत्वं; यत्र यत्र घटत्वं, तत्र तत्र प्रतियोगिता | व्याप्यत्वे सति व्यापकत्वम् | अत्र वृक्षे तु सामानाधिकरण्यमपि वक्तुं न शक्यते | यत्र यत्र कपिसंयोग-निरूपित-अधिकरणता वृक्षे, तत्र तत्र अग्रभागः अस्ति वा ? नास्ति | तर्हि अग्रभागस्य अन्यूनानतिरिक्तवृत्तित्वं नास्ति, सामानाधिकरण्यमपि नास्ति | अतः स्वरूपसम्बन्धरूपावच्छेदकत्वम् इत्येव वक्तव्यं न तु व्याप्यत्वे सति व्यापकत्वरूपावच्छेदकत्वम् |
पूर्वम् उक्तं यत् "घटत्वादिनिष्ठप्रतियोगितावच्छेदकत्वात् इदमवच्छेदकत्वं मूलाग्रनिष्ठं भिन्नम् |” इदानीं तत् कथमस्ति इति स्पष्टं स्यात् | एकवारं स्वशब्दैः कथनेन समीचीनः अभ्यासः स्यात् |
पारिभाषिकशब्दपरिष्कारः
घटे विद्यमानघटत्वप्रतियोगितयोः सामानाधिकरण्यम् | अतः अन्यूनानतिरिक्तवृत्तित्वरूपावच्छेदकत्वं घटत्वे | अवच्छेदकं घटत्वम् | तच्च अन्यूनानतिरिक्तवृत्ति भवति | तस्मिन् घटत्वे विद्यमाना अवच्छेदकता कीदृशी इति चेत्, अन्यूनानतिरिक्तवृत्तित्वरूपावच्छेदकता |
प्रतियोगिता यत्र यत्र अस्ति, तत्र तत्र घटत्वम् | यत्र यत्र घटत्वं, तत्र तत्र प्रतियोगिता | इत्यनेन घटत्वं प्रतियोगितां प्रति अन्यूनवृत्ति, अनतिरिक्तवृत्ति च उभयमपि | तदेव उक्तं घटत्वं प्रतियोगितां प्रति अन्यूनानतिरिक्तवृत्ति | तर्हि घटत्वनिष्ठा अवच्छेदकता कीदृशस्वरूपं प्राप्नोति ? अन्यूनानतिरिक्तवृत्तित्वरूपम् | आहत्य घटत्वम् अन्यूनानतिरिक्तवृत्ति, तस्मिन् अन्यूनानतिरिक्तवृत्तित्वरूपावच्छेदकता |
यथा गन्धवती पृथिवी | गन्धः पृथिव्याम् | पृथिव्याः असाधारणधर्मः गन्धवत्त्वम् | तत्र गन्धनिष्ठाधेयता-निरूपित-अधिकरणता पृथिव्यां; विद्यमाना अधिकरणता अवच्छेद्या; पृथिवीत्वम् अवच्छेदकम् | तर्हि पृथिवीत्वनिष्ठावच्छेदकता कीदृशी इति चेत्, अन्यूनानतिरिक्तवृत्तित्वरूपा | पृथिवीत्वम् अवच्छेदकम् अन्यूनानतिरिक्तवृत्ति | ततः उपरि गमनार्थम् अवच्छेदक + त्वम् इति भवति, अतः अन्यूनानतिरिक्तवृत्ति + त्वम् इत्यपि भवति |
पुनः गन्धः कुत्र ? पृथिव्याम् | अतः गन्धनिष्ठाधेयता-निरूपित-अधिकरणता पृथिव्याम् | तर्हि अधिकरणतायाः अवच्छेदकं पृथिवीत्वम् | किमर्थमेवम् उक्तम् इति चेत्, यत्र यत्र गन्धनिष्ठाधेयता-निरूपित-अधिकरणता अस्ति, तत्र तत्र पृथिवीत्वम् अस्ति | यत्र यत्र च पृथिवीत्वम् अस्ति, तत्र तत्र गन्धनिष्ठाधेयता-निरूपित-अधिकरणता अस्ति | दृष्टान्ते गन्धनिष्ठाधेयता-निरूपित-अधिकरणता अस्ति नीलोत्पलपुष्पे, तत्रापि पृथिवीत्वम् अस्ति | घटपटादौ यत्र यत्र पृथिवीत्वं, तत्र तत्र गन्धनिष्ठाधेयता-निरूपित-अधिकरणता अस्ति | तर्हि गन्धनिष्ठाधेयता-निरूपित-अधिकरणतां प्रति पृथिवीत्वम् अस्ति अन्यूनानतिरिक्तवृत्ति |
अन्यूनानतिरिक्तवृत्तित्वम् इति द्वन्द्वसमासः, कथमिति पश्येम | पृथिवीत्वं तस्याः अधिकरणतायाः अवच्छेदकम् | किंं निरूपिताधिकरणतायाः ? गन्धनिष्ठाधेयता-निरूपित-अधिकरणतायाः | तर्हि पृथिवीत्वम् अवच्छेदकं, तच्च कीदृशम् ? अन्यूनानतिरिक्तवृत्ति | अतः अन्यूनानतिरिक्तवृत्तित्वरूपावच्छेदकत्वं पृथिवीत्वे अस्ति | अन्यूनानतिरिक्तवृत्तित्वम् इति द्वन्द्वसमासः | द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकम् अभिसन्धत्ते, इति नियमः | अनेन अन्यूनानतिरिक्तवृत्तित्वम् इत्यस्मिन् वृत्तित्वम् उभयत्रापि अन्वेति | अन्यूनवृत्तित्वम्, अनतिरिक्तवृत्तित्वम् इति |
पृथिव्याः दृष्टान्ते, पृथिवीत्वस्य गन्धस्य च, तयोः 'अन्यूनानतिरिक्तवृत्तित्वम्'— अनेन पृथिवीत्वं गन्ध-अनतिरिक्तवृत्ति, इत्युक्ते गन्धः यत्र नास्ति, तत्र पृथिवीत्वं न भवति | तदा पृथिवीत्वं गन्ध-अन्यूनवृत्ति, नाम यत्र गन्धः अस्ति, तत्र पृथिवीत्वं नास्ति इति कुत्रापि न लभ्यते | अपि च विपरीतत्वेन— गन्धः पृथिवीत्व-अनतिरिक्तवृत्तिः, गन्धः पृथिवीत्व-अन्यूनवृत्तिः च | एतत् सर्वम् अपरेषु शब्देषु उच्यते चेत् 'व्याप्यत्वे सति व्यापकत्वम्' | तस्य च अर्थः अत्र वक्ष्यमाणः |
'व्याप्यत्वे सति व्यापकत्वम्' इत्यनेन अन्यूनानतिरिक्तवृत्तित्वम् | अत्र अवधेयं यत् न्यायशास्त्रे व्याप्यत्वं व्यापकत्वं च इत्यनयोः अर्थद्वयं भवति | व्याप्यत्वस्य एकः अर्थः न्यूनदेशवृत्तित्वम् | यथा घटत्वं, पटत्वं, दण्डत्वम् इत्यादिकं पृथिवीत्वापेक्षया व्याप्यं— न्यूनदेशवृत्ति | इति अस्माकं परिचितः अर्थः | किन्तु व्याप्यत्वस्य कश्चन द्वितीयः अर्थः 'तदभाववत्-अवृत्तित्वम्' |
तथैव व्यापकत्वम् इत्यस्यापि अर्थद्वयम् | व्यापकत्वस्य एकः अर्थः अधिकदेशवृत्तित्वम्, इति अस्माकं परिचितः अर्थः | यथा द्रव्यत्वं पृथिवीत्वस्य व्यापकं यतोहि पृथिवीत्वापेक्षया द्रव्यत्वम् अधिकदेशे अस्ति | किन्तु व्यापकत्वस्य द्वितीयः अर्थः 'तत्समानाधिकरण-अत्यन्ताभाव-अप्रतियोगित्वम्' |
दृष्टान्ते घटे घटत्वं च प्रतियोगिता च इति पश्येम | द्वयोः अन्यूनानतिरिक्तवृत्तित्वम् अस्ति; अत्र एकस्य अपेक्षया अधिकदेशवृत्तित्वम् इति नास्ति, अपरस्य अपेक्षया न्यूनदेशवृत्तित्वम् इति नास्ति; अपि तु द्वयोः क्षेत्रं समानम् अतः अन्यूनानतिरिक्तवृत्तित्वं, समानाधिकरणं च | तथापि प्रतियोगितायाः घटत्वस्य च व्याप्यव्यापकभावः अस्ति इति उच्यते | किन्तु अत्र धेयं यत् इदं व्याप्यत्वं व्यापकत्वं च न्यूनदेशवृत्तित्वम् अधिकदेशवृत्तित्वं न | अत्र पश्यतु यत् घटत्वं प्रतियोगितायाः व्याप्यं व्यापकं च उभयमपि | उच्यते यत्, 'घटत्वं प्रतियोगितायाः व्याप्यं व्यापकं च' इत्यस्य अर्थः, प्रतियोगितायाः यः अभावः तद्वत्-अवृत्तित्वं घटत्वे, अपि च प्रतियोगितावद्वृत्ति-अत्यन्ताभाव-अप्रतियोगित्वं घटत्वे | नास्ति चिन्ता ! अग्रे अस्य अर्थः स्पष्टः स्यात् | एतावत् मनसि भवेत् यत् अत्र घटत्वं प्रतियोगिता, द्वयोः मध्ये एकं व्यापकम्, अन्यत् व्याप्यम् इति नास्ति | अपि तु अनयोः परस्परव्यापकत्वम् परस्परव्याप्यत्वम् उभयत्र अस्ति |
द्रव्यत्वं पृथिवीत्वम् इति स्थितौ एकं व्यापकम्, अन्यत् व्याप्यम्; तत्र व्यापकव्याप्ययोः अर्थः भिन्नः | किन्तु अत्र घटत्व-प्रतियोगितयोः स्थितौ परस्परव्यापकत्वं, परस्परव्याप्यत्वम् उभयथा | एकस्य अधिकदेशः, अपरस्य न्यूनदेशः इति किमपि नास्ति; तदर्थम् द्वयोः अन्यूनानतिरिक्तवृत्तित्वम् अस्ति | अतः 'व्याप्यत्वे सति व्यापकत्वम्' इत्यनेन एकस्य अधिकदेशः अपरस्य न्यूनदेशः इति अर्थः नास्ति |
अधुना गन्ध-पृथिवीत्वयोः उदाहरणं स्वीकुर्मः | गन्धः पृथिवीत्वव्यापकः | कथम् इत्युक्ते पृथिवीत्व-समानाधिकरण-अत्यन्ताभाव-अप्रतियोगी भवति गन्धः | पृथिवीत्वस्य च समानाधिकरणम्, इत्युक्ते पृथिवीत्वाधिकरण-वृत्ति | खण्डशः पश्येम— पृथिवीत्वस्य अधिकरणं पृथिवी | तद्वृत्तिः, पृथिवीत्वाधिकरण-वृत्तिः यः अत्यन्ताभावः, नाम पृथिव्यां विद्यमानः यः कोऽपि अत्यन्ताभावः अस्माभिः स्वीकर्तव्यः | पृथिव्यां विद्यमानः अत्यन्ताभावः इत्यनेन गन्धाभावं स्वीकर्तुं न शक्नुमः; तदतिरिच्य किमपि स्वीकर्तव्यम् | तर्हि शीतस्पर्शाभावं स्वीकुर्मः | अत्र पृथिवीत्वाधिकरण-वृत्तिः अत्यन्ताभावः इत्यनेन शीतस्पर्श-अत्यन्ताभावः भवतु | तदप्रतियोगित्वम् | इत्युक्ते शीतस्पर्शात्यन्ताभावस्य अप्रतियोगित्वं, तच्च गन्धे अस्ति | यतोहि शीतस्पर्शात्यन्ताभावस्य प्रतियोगी भवति शीतस्पर्शः न तु गन्धः | अतः गन्धः शीतस्पर्शात्यन्ताभावस्य अप्रतियोगी भवति | तर्हि गन्धे पृथिवीत्व-अधिकरणवृत्ति-अत्यन्ताभाव-अप्रतियोगित्वम् अस्ति |
आहत्य पृथिवीत्वाधिकरण-वृत्ति-अत्यन्ताभाव-अप्रतियोगित्वं गन्धे आनेतव्यम् | यतोहि पृथिवीत्वव्यापकत्वं गन्धे | पृथिवीत्वाधिकरण-वृत्तिः अत्यन्ताभावः इत्यनेन शीतस्पर्शस्य अत्यन्ताभावः स्वीकर्तुं शक्यते, स्नेहस्य अत्यन्ताभावः स्वीकर्तुं शक्यते, शब्दस्य अत्यन्ताभावः स्वीकर्तुं शक्यते; एवं पृथिव्यां ये ये गुणाः न सन्ति, तेषाम् अत्यन्ताभावं स्वीकर्तुं शक्नुमः | सम्प्रति शीतस्पर्शस्य अत्यन्ताभावं स्वीकुर्मः | तस्य प्रतियोगी शीतस्पर्शः, प्रतियोगित्वं च शीतस्पर्शे | अप्रतियोगित्वं गन्धे भवति | तर्हि अप्रतियोगित्वं कुत्र कुत्र भवति इति चेत्, यः गुणः, पृथिव्यां भवितुं सर्वथा नार्हति, तत्सम्बद्धस्य अत्यन्ताभावस्य अप्रतियोगित्वं गन्धे भवति | अतः अनेन गन्धे पृथिवीत्वाधिकरण-वृत्ति-अत्यन्ताभाव-अप्रतियोगित्वम् आनीतम् |
एवमेव तद्व्याप्यत्वम् अपि वक्तुं शक्यते | गन्धः पृथिवीत्व-व्याप्यः | इत्युक्ते पृथिवीत्वाभाववत्-अवृत्तित्वम् आनेतव्यम् | पृथिवीत्वस्य यः अभावः, पृथिवीत्वाभावः, तद्वत्, तद्वान्, तद्वती | अत्र तद्वत् इत्युक्ते जलम् | पृथिवीत्वाभाववत् जलम् | तदवृत्तिः इति सप्तमी तत्पुरुषः, तस्मिन् अवृत्ति | तत् इति जलं, जले गन्धः अवृत्तिः यतोहि जले गन्धो नास्ति | अतः तदवृत्तित्वं, गन्धे अस्ति | पृथिवीत्वाभाववत्-जलावृत्तित्वं गन्धे अस्ति |
आहत्य गन्धे पृथिवीत्वाभाववत्-अवृत्तित्वम् अस्ति | एवं च पृथिवीत्वाधिकरण-वृत्ति-अत्यन्ताभाव-अप्रतियोगित्वम् अपि अस्ति गन्धे | अतः गन्धे पृथिवीत्वव्याप्यत्वम् अपि अस्ति, पृथिवीत्वव्यापकत्वम् अपि अस्ति | एवं पृथिवीत्वे गन्धव्याप्यत्वम् अपि अस्ति, गन्धव्यापकत्वम् अपि अस्ति | अनेन व्याप्यत्वे सति व्यापकत्वम् |
रूपस्य अव्याप्यवृत्तित्वं उत व्याप्यवृत्तित्वम्
एकस्मिन् मते रूपं व्याप्यवृत्ति, पुस्तके एकत्वमिति सङ्ख्या इव; अपरस्मिन् मते रूपम् अव्याप्यवृत्ति, वृक्षे कपिसंयोगः इव | येषां मते रूपं व्याप्यवृत्ति, तैः चित्ररूपम् इति नूतनं सप्तमं रूपं स्वीक्रियते | येषां मते रूपम् अव्याप्यवृत्ति, तैः एकस्मिन् द्रव्ये श्वेतरूपं, रक्तरूपं, च बहूनि रूपाणि स्वीकर्तुं शक्यन्ते |
प्रश्नः— रूपं समवायसम्बन्धेन पटे, किन्तु कपिः संयोगसम्बन्धेन वृक्षे | अतः रूपस्य अव्याप्यवृत्तित्व-साधनार्थं यः दृष्टान्तः दीयते, तस्मिन् प्रकृति-दृष्टान्तयोः साम्यम् अस्ति किम् ? उत्तरम्— अत्र कपेः उदाहरणे संयोगरूपगुणः स्वीकृतः न तु कपिः | संयोगरूपगुणश्च समवायसम्बन्धेन वृक्षे, अग्रदेशावच्छेदेन च | मूलदेशावच्छेदेन तु कपिसंयोगः नास्ति | मूलदेशे अन्यसंयोगः स्यात्— वायुः इत्यादिसंयोगः स्यात्— किन्तु कपिसंयोगः नास्ति | तर्हि समवायसम्बन्धेन चेदपि संयोगः एकस्मिन् अधिकरणे कुत्रचित् भवति, कुत्रचित् न भवति |
प्राचीनानां मतानुसारं रूपं किन्तु तथा नास्ति | एकत्र श्वेतरूपम्, अन्यत्र रक्तरूपम् इति चेत् एकत्र विद्यमानं श्वेतरूपम्, अन्यत्र रक्तरूपम्; अनेन श्वेतरूपम् एकस्मिन् अधिकरणे कुत्रचित् भवति कुत्रचित् न भवति इति अव्याप्यवृत्तिः जाता | प्राचीनाः वदन्ति यत् तथा न भवति यतोहि रूपं व्याप्यवृत्तिः गुणः | समाधानं चित्ररूपम्; एकस्मिन् पटे सर्वत्र एकैव रूपम् | न श्वेतरूपं, नापि रक्तरूपम् | चित्ररूपं तस्मिन् पटे सर्वत्रापि वर्तते | अनेन अव्याप्यवृत्तित्वं न भवति |
नव्यानां मतानुसारं पटस्य प्रसङ्गे रूपस्य अवच्छेदकं पीततन्तुः, रक्ततन्तुः, नीलतन्तुः | यथा कपिसंयोगस्य अवच्छेदकम् अग्रदेशः | अतः पटे चित्ररूपं मास्तु, अवयवरूपं तत्र भासते एव | नानातन्तवः सन्ति, तन्तवः च भिन्नभिन्नवर्णयुक्ताः | अनेन 'तन्तुभ्यः भिन्नं पटे पृथक् रूपं' नोपद्यते न वा अपेक्षते; तन्तुषु विद्यमानं रूपमेव पटे भासते |
प्राचीनाः किम् उत्तरं ददति ? चक्षुरिन्द्रियप्रत्यक्षं प्रति रूपं कारणम् | रूपं नास्ति चेत्, तस्य द्रव्यस्य चाक्षुषप्रत्यक्षं न भवति | अत्र कार्यकारणभावः प्रयुक्तः | इति यदि पटे रूपं नास्ति, तन्तुषु एव रूपं वर्तते इति यदि वदन्ति, तर्हि पटे समवायसम्बन्धेन रूपं नास्ति इति उक्तौ, पटस्य प्रत्यक्षमेव न स्यात् | अतः चित्ररूपम् अङ्गीकर्तव्यम् | अनेन तन्तुषु रूपं भवति, तदा भिन्नभिन्नतन्तूनां संयोगात् पटे चित्ररूपं उत्पन्नम् | भिन्नभिन्नवर्णयुक्ततन्तूनां संयोगात् पटे चित्ररूपम् उत्पन्नम् | तथा च पटे रूपमस्ति समवायसम्बन्धेन | अनेन पटस्य प्रत्यक्षं भवति |
किन्तु नव्यानाम् अनेन न कोऽपि दोषः | चाक्षुषं प्रति रूपं कारणम् | नव्यानां मते श्वेतरूपमपि अस्ति, नीलरूपमपि अस्ति, बहूनि रूपाणि सन्ति पटे | तत्तदवयवैः तत्तद् रूपम् उत्पद्यते पटे इति स्वीक्रियते चेदपि पटे रूपं सिध्यति | यथा कपिसंयोगः वृक्षस्य अग्रभागे सत्यपि सम्पूर्णवृक्षेऽपि वर्तते, तथैव रक्तवर्णयुक्ततन्तुभिः पटे रक्तरूपं जायते | एवमेव श्वेतरूपयुक्तावयवैः पटे श्वेतरूपं जायते | अत्र समवायसम्बन्धेन न केवलं रूपमस्ति, अपि तु रूपाणि सन्ति | अत्र मुख्यमस्ति यत् प्राचीनाः रूपस्य व्याप्यवृत्तित्वं मनसि कृत्वा चित्ररूपम् अङ्गीकृतवन्तः | नव्यैः तु यथा संयोगस्य अव्याप्यवृत्तित्वं भवति, तथा रूपस्य अपि अव्याप्यवृत्तित्वं भवतु, न काऽपि हानिः | इति चित्ररूपम् अनङ्गीकृत्य, भिन्नभिन्नरूपाणि भवन्तीति अङ्गीकृतवन्तः | अनेन नूतनचित्ररूपं नापेक्षितमिति पर्यवसितम् |
Swarup – July 2016