1 - धातुविज्ञानम् - १
ध्वनिमुद्रणम् |
---|
१) dhAtuvigyAnam-1_2013-04-22 |
धातुभ्यः प्रत्ययाः यदा विधीयन्ते, तदा सर्वप्रथमम् अस्माभिः किं चिन्त्यते नाम अनुबन्धाः के, अपि च तेषां निष्कासनं कथं क्रियेत | अनुबन्धः नाम यस्य इत्-संज्ञा-योग्यत्वं, सः | तर्हि इत्-संज्ञा-योग्यत्वं केषां भवति ? अस्य ज्ञानं भवति इत्-संज्ञा-विधायक-सूत्रैः | अष्टाध्याय्यां कश्चन प्रकरणं वर्तते इत्-संज्ञा नाम्ना, येन सर्वम् इत्-संज्ञाविधायक-कार्यं क्रियते | प्रथमाध्यायस्य तृतीयपादस्य द्वितीयसूत्रात् आरभ्य, अष्टमसूत्रपर्यन्तम् इत्-संज्ञा प्रकरणम् इति | आहत्य तत्र षट् इत्-संज्ञा-विधायकानि सूत्राणि सन्ति, एकं वार्तिकम् अस्ति इत्-संज्ञा-विधायकम्, एकम् इत्-संज्ञा-निषेधकं सूत्रम् अस्ति, एकं लोप-विधायकं सूत्रम् अस्ति | तत्रत्यैः षड्भिः सूत्रैः इत्-संज्ञा विधीयते; धातुषु, प्रत्ययेषु, आगमेषु, आदेशेषु — यत्र कुत्रापि इत्-संज्ञा भवति, तत्र एभिः एव सूत्रैः |
यदा वयम् आपणतः शाकाधिकम् आनयामः, तदा यथा आनयामः, तथैव तस्य उपयोगं न कुर्मः | कदलीफलम् आनयामः चेत् तस्य आवरणं निष्कासयामः, तदैव अन्तस्थं भागं खादामः | शाकस्य अपि कश्चन भागः निष्कास्यते, कश्चन भागः उपयुज्यते | तथैव धातूनां, प्रत्ययानाम्, आगमानाम्, आदेशानां च विषये अस्ति |
प्रश्नः उदेति अनुबन्धाः किमर्थं युज्यन्ते पाणिनिना यदि तेषां लोपः भवति एव ? अत्र, "अर्धमात्रालाघवेन पुत्रोत्सवं मन्यन्ते वैयाकरणाः" इत्युच्यते | अर्धमात्रायाः अपि व्यर्थता न भवति | अनुबन्धानाम् अर्थाः सन्ति, तेषां प्रयोजनानि कार्याणि च सन्ति | अस्मिन् विषये एतावता अस्माभिः किञ्चित् दृष्टम्; अग्रे गत्वा इतोऽपि बहुकिमपि द्रक्ष्यामः | अधुना तावत् अवगम्यताम्— यथा वयं यदा आपणतः वस्तूनि आनयामः, तर्हि यथा तस्मिन् एव रूपे तेषाम् उपयोगं न कुर्मः, तथैव धातूनां प्रत्ययानां च स्थितिः अपि अस्ति | तेषां विकृतिं साधयित्वा उपयुञ्ज्महे |
एवमपि धेयं, लोके कतिचन पदार्थाः तादृशाः सन्ति, यथा आनयामः, तथैव प्रयोगं कुर्मः | धातवः प्रत्ययाः अपि तादृशाः केचन सन्ति, येषु अनुबन्धाः न भवन्ति | यथा भू धातुः, भू सत्तायाम्— तत्र कोऽपि अनुबन्धः नास्ति | प्रत्ययेषु यथा "अ" प्रत्ययः, तत्र अनुबन्धः नास्ति |
तर्हि अत्र मूलधातुः कः, अपि च अनुबन्धानां निष्कासनानन्तरं किं अवशिष्यते इति प्रथमम् अवगन्तव्यम् | परं तस्मात् धातोः विहितः यः प्रत्ययः अस्ति, तस्मिन् अपि अनुबन्धाः के, किं च अवशिष्यते | इति विज्ञानम् अस्माकं भवेत् | तदा एव प्रक्रिया अग्रे अनुवर्तते | वृत्तान्ते डुपचँष् पाके इति मूलस्वरूपं, पचति इति क्रियापदम् | तत्र सामान्यतया धातुः "पच्" इति वदामः; परन्तु मूलतया डुपचँष् इति स्वरूपं वर्तते | तत्र केचन अनुबन्धाः सन्ति— आरम्भे डु, अन्ते षकारः अपि च चकारोत्तरवर्ती अँकारः | चकारात् उत्तरं वर्तते इति चकारोत्तरवर्ती | वर्ती इत्यस्य प्रातिपदिकं वर्तिन्, वृत् धातोः | त्रयाणाम् अपि अनुबन्धानाम् इत्-संज्ञा भवति, परं लोपः भवति; पच् इत्येव अवशिष्यते | ततः परम् अस्माभिः प्रत्ययः कः इति चिन्तनीयं, यथा तव्यत् | तत्र तकारस्य इत्-संज्ञा लोपः च, तव्य इति अवशिष्यते | तर्हि पच् + तव्य इति स्थितिः | एतादृश्यां स्थित्याम् इदानीं कार्यस्य आरम्भः भवति, येन पक्तव्यम् इति रूपं निष्पद्येत |
अतः धातुपाठे अस्माकं प्रथमं कार्यं इत् संज्ञा विधानं, निबन्ध-लोपः च | तदर्थम् इत्-संज्ञा प्रकरणम् अस्ति | तत्र प्रथमसूत्रस्य प्रसङ्गे किञ्चित् वक्तव्यम् अस्ति विशेषः, तदा सर्वाणि सूत्राणि अवलोकयाम |
उपदेशेऽजनुनासिक इत् (१.३.२) इति प्रथमम् इत्-संज्ञा-विधायकं सूत्रम् | उपदेशावस्थायां यः अच् अनुनासिकः अस्ति, तस्य इत्-संज्ञां करोति इदं सूत्रम् | उपदेशः नाम धातुः, प्रत्ययः, आदेशः, आगमो वा | अनुनासिकः अच् नाम यस्मिन् अचि ँ इति अनुनासिकचिह्नम् अस्ति | बृहद्धातुकुसुमाकरे पश्यन्ति चेत्, धातुषु न कुत्रापि अनुनासिकचिह्नं दृश्यते | किमर्थम् इत्युक्ते एकं पूर्णं स्वरविज्ञानं वर्तते; प्राचीनकाले इदं विज्ञानं ज्ञायते स्म | अद्य प्रायः इदं विज्ञानं न लभ्यते अतः अस्मिन् आधुनिकयुगे, स्वरविषये अस्माकं क्लेशः | तद्विज्ञानस्य अभावे बृहद्धातुकुसुमाकरेऽपि अनुनासिकचिह्नानि न दत्तानि | किन्तु वयं फलं दृष्ट्वा अनुमानं कर्तुं शक्नुमः यत्र अनुनासिकचिह्नं स्यात् | नाम यत्र मूलधातौ कश्चन स्वरः आसीत् यत् लौकिकधातौ नास्ति, तत्र अवगम्यते यत् सः स्वरः अनुनासिकः आसीत् अतः उपदेशेऽजनुनासिक इत् इति सूर्त्रेण तस्य लोपः जातः | अद्य इदम् इत्थम् इति वक्तुं कश्चन अन्योपायः नास्ति; ऊहया एव बोध्यम् | यथा गम्ऌ धातुः, अत्रः ऌ इति अच् वर्णः अनुनासिकः अस्ति अतः उपदेशेऽजनुनासिक इत् इति सूत्रेण तस्य इत्-संज्ञा भवति; तस्य लोपः इत्यनेन लोपः; गम् इति अवशिष्यते | ऌ अनुनासिकः अस्ति इति कथं ज्ञातम् ? फलं दृष्ट्वा | प्रक्रियायां लोके च गम् इत्येव दृश्यते अतः ऌ इत्यस्य लोपः जातः; लोपः जातः चेत् उपदेशेऽजनुनासिक इत् इत्येव सूत्रेण अर्हति स्म, अतः ऌ अनुनासिकः स्यात् इति अनुमानम् अस्माकम् |
(एतदपि धेयं यत्, यदि स्वरः अपरेण वर्णेन सह उपस्थितः, तर्हि कुत्रचित् तयोः एकं "unit” कृत्वा अपरेण सूत्रेण इत्-संज्ञा क्रियेत; यथा डुपचष् इत्यस्मिन् डकारोत्तरवर्ती यः उकारः अस्ति, सः उकारः अनुनासिकः नास्ति | तत्र "डु" इत्येव एकम् unit अस्ति अतः अपरेण सूत्रेण इत्-संज्ञा साध्येत |)
तर्हि प्रथमं कार्यम् इत्-संज्ञा इति | तदर्थं सप्त सूत्राणि सन्ति; तेषु त्रीणि सूत्राणि धातुषु अपि प्रत्ययेषु अपि, नाम सर्वेषु उपदेशेषु प्रयुज्यन्ते; त्रीणि केवलं प्रत्ययेषु एव प्रयुज्यन्ते, न धातुषु; अपि च एकं सूत्रं निषेधकं सूत्रम्|
इत्संज्ञाप्रकरणम्
चत्वारि सूत्राणि, उपदेशावस्थायां, सर्वेषु रूपेषु (धातुषु, प्रत्ययेषु, आदेशेषु, आगमेषु)—
१. उपदेशेऽजनुनासिक इत् (१.३.२) = उपदेशे (धातौ, प्रत्यये, आदेशे, आगमे) अच्-वर्णः अनुनासिकः चेत्, तस्य इत्-संज्ञा भवति | उपदेशे सप्तम्यन्तम्, अच् प्रथमान्तम्, अनुनासिकः प्रथमान्तम्, इत् प्रथमान्तम्, अनेकपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— उपदेशे अच् अनुनासिकः इत् |
२. हलन्त्यम् (१.३.३) = उपदेशस्य अन्ते हल् वर्णः अस्ति चेत्, तस्य हल्-वर्णस्य इत्-संज्ञा भवति | हल् प्रथमान्तम्, अन्त्यं प्रथमान्तं, द्विपदमिदं सूत्रम् | अनुवृत्ति-सहितसूत्रम्— उपदेशे अन्त्यम् हल् इत् |
३. न विभक्तौ तुस्माः (१.३.४) = विभक्त्यां तवर्गीयवर्णः, सकारः, मकारः च इत्-सज्ञकाः न भवन्ति | विभक्तिश्च (१.४.१०४) इत्यनेन सुप्-प्रत्ययाः तिङ्-प्रत्ययाः च सर्वे विभक्ति-संज्ञकाः | इदं सूत्रं हलन्त्यम् इत्यस्य अपवादः | तुश्च स् च मश्च, तेषाम् इतरेतरद्वन्द्वः, तुस्माः | न अव्ययपदं, विभक्तौ सप्तम्यन्तं, तुस्माः प्रथमान्तं, त्रिपदमिदं सूत्रम् | अनुवृत्ति-सहितसूत्रम्— उपदेशे विभक्तौ अन्त्याः हलः तुस्माः न इतः |
४. आदिर्ञिटुडवः (१.३.५) = उपदेशस्य आदौ ञि, टु, डु इति त्रिषु एकः वर्णसमूहः अस्ति चेत्, तस्य इत्-संज्ञा भवति | ञि, टु, डु एते निबन्धाः धातुषु एव भवन्ति अतः इदं सूत्रं वस्तुतः धातूनां कृते | ञिः च, टुः च, डुः च, तेषाम् इतरेतरद्वन्द्वः ञिटुडु, बहुवचने ञिटुडवः (गुरु-शब्दः इव) | आदिः प्रथमान्तं, ञिटुडवः प्रथमान्तं, द्विपदमिदं सूत्रम् | आदिः इति इत् इति च बहुत्वे एकवचनम् | अनुवृत्ति-सहितसूत्रम्— उपदेशे धातोः आदयः ञिटुडवः इतः |
*इँर इत्संज्ञा वाच्या [नेटि (७.२.४) इति सूत्रस्य अन्तर्गतम्] एकं वार्त्तिकम् =धातोः 'इँर्' इत्यस्य शब्दसमुदायस्य इत्-संज्ञा भवति | छिदिँर् इत्यादिषु धातुषु इरः इत्संज्ञा भवति.| भिदिँर् → भिद्, छिदिँर् → छिद्, दृशिँर् → दृश्, णिजिँर् → णिज्, युजिँर् → युज्, ईशुचिँर् → शुच् | धेयं यत् इँकारस्य रेफस्य च भिन्नरीत्या इत्संज्ञा न करणीया |
त्रीणि सूत्राणि, उपदेशावस्थायां, प्रत्ययेषु एव—
१. षः प्रत्ययस्य (१.३.६) = प्रत्ययस्य आदौ षकारः अस्ति चेत्, तस्य इत्-संज्ञा भवति | षः प्रथमान्तं, प्रत्ययस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | अनुवृत्ति-सहितसूत्रम्— उपदेशे प्रत्ययस्य आदिः षः इत् |
२. चुटू (१.३.७) = प्रत्ययस्य आदौ चवर्गीयः (च्, छ्, ज्, झ्, ञ्), अथवा टवर्गीयः (ट्, ठ्, ड्, ढ्, ण्) वर्णः भवति चेत्, तस्य वर्णस्य इत्-संज्ञा भवति | चुश्च टुश्च तयोः इतरेतरद्वन्द्वः, चुटू (द्विवचने, गुरु-शब्दः इव) | चुटू प्रथमान्तम्, एकपदमिदं सूत्रम् | वचनविपरिणामं क्रियते | अनुवृत्ति-सहितसूत्रम्— उपदेशे प्रत्ययस्य आदी चुटू इतौ |
३. लशक्वतद्धिते (१.३.८) = प्रत्ययस्य आदौ लकारः, शकारः, कवर्गीयः (क्, ख्, ग्, घ्, ङ्) च वर्णः अस्ति चेत्, तस्य इत्-संज्ञा भवति; किन्तु तद्धितप्रत्यये न | लश्च, शश्च, कुश्च, तेषां समाहारद्वन्द्वः, लशकु | न तद्धितम्, अतद्धितं नञ्तत्पुरुषः, तस्मिन् अतद्धिते | लशकु प्रथमान्तम्, अतद्धिते सप्तम्यन्तं, द्विपदमिदं सूत्रम् | अनुवृत्ति-सहितसूत्रम्— उपदेशे प्रत्ययस्य आदि लशकु इत् अतद्धिते |
इत्-लोप-विधिः
एकवारं यदा कस्यचित् वर्णस्य वर्णसमूहस्य च इत्-संज्ञा भवति, तदा तस्य लोपः इति सूत्रेण, तस्य लोपो भवति |
तस्य लोपः (१.३.९) = इत्-संज्ञकस्य वर्णस्य लोपो भवति | तस्य षष्ठ्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम् |
उपदेशेऽजनुनासिक इत् (१.३.२) इत्यस्मात् इत् इत्यस्य अनुवृत्तिः, षष्ठ्यर्थे | अनुवृत्ति-सहितसूत्रम्— तस्य इतः लोपः |
अनुवृत्तिः
एतेषाम् अनुवृत्ति-क्रमः सुलभः |
उपदेशेऽजनुनासिक इत् (१.३.२) इत्यस्मिन् न काऽपि अनुवृत्तिः | सर्वं सूत्रे एव वर्तते |
हलन्त्यम् (१.३.३) इत्यस्मिन् सूत्रे उपदेशेऽजनुनासिक इत् इत्यस्मात् सूत्रात् "उपदेशे", “इत्" इत्यनयोः अनुवृत्तिः | अतः "उपदेशे अन्त्यं हल् इत्” इति वाक्यम् |
न विभक्तौ तुस्माः (१.३.४) इत्यस्मिन् उपदेशेऽजनुनासिक इत् इत्यस्मात् "उपदेशे", “इत्" इत्यनयोः अनुवृत्तिः | हलन्त्यम् इत्यस्मात् "हल्", “अन्त्यम्" इत्यनयोः अनुवृत्तिः | अतः "उपदेशे विभक्तौ अन्त्याः हलः तुस्माः न इतः" इति वाक्यम् |
आदिर्ञिटुडवः (१.३.५) इत्यस्मिन् उपदेशेऽजनुनासिक इत् इत्यस्मात् सूत्रात् "उपदेशे", “इत्" इत्यनयोः अनुवृत्तिः; भूवादयो धातवः (१.३.१) इत्यस्मात् "धातोः" इत्यस्य अनुवृत्तिः (वचनपरिणामं विभक्तिपरिणामं च कृत्वा) | अतः "उपदेशे धातोः आदयः ञिटुडवः इतः” इति वाक्यम् |
षः प्रत्ययस्य (१.३.६) इत्यस्मिन् आदिर्ञिटुडवः इत्यस्मात् "आदिः”, उपदेशेऽजनुनासिक इत् इत्यस्मात् "उपदेशे", “इत्", अतः "उपदेशे प्रत्ययस्य आदिः षः इत्" इति वाक्यम् |
चुटू (१.३.७) इत्यस्मिन् षः प्रत्ययस्य इत्यस्मात् "प्रत्ययस्य", आदिर्ञिटुडवः इत्यस्मात् "आदिः", उपदेशेऽजनुनासिक इत् इत्यस्मात् "उपदेशे", "इत्", अतः "उपदेशे प्रत्ययस्य आदिः चुटू इतौ" इति वाक्यम् |
लशक्वतद्धिते (१.३.८) इत्यस्मिन् पुनः षः प्रत्ययस्य इत्यस्मात् "प्रत्ययस्य", आदिर्ञिटुडवः इत्यस्मात् "आदिः", उपदेशेऽजनुनासिक इत् इत्यस्मात् “उपदेशे”, "इत्", अतः "उपदेशे प्रत्ययस्य आदिः ल, श, कु अतद्धिते इत्" इति वाक्यम् |
तस्य लोपः (१.३.९) इत्यस्मिन् उपदेशेऽजनुनासिक इत् इत्यस्मात् इत् इत्यस्य अनुवृत्तिः अतः "तस्य इतः लोपः" इति वाक्यम् |
अभ्यासः
धातवः—
डुपचँष् = "डु" आदिर्ञिटुडवः इत्यनेन इत्-संज्ञा, हलन्त्यम् इत्यनेन षकारस्य इत्-संज्ञा, चकारोत्तरवर्ती अँकारः उपदेशेऽजनुनासिक इत् इत्यनेन इत्-संज्ञा, तस्य लोपः इत्येनेन सर्वेषां लोपः → पच् इति धातुः
लिखँ = उपदेशेऽजनुनासिक इत् इत्यनेन अँकारस्य इत्-संज्ञा → लिख् इति धातुः
डुकृञ् =
ञिमिदाँ =
गम्ऌँ =
दृशिँर्
जीवँ
युजिँर्
प्रत्ययाः—
णिच्
षाकन् =
जुस् =
टा =
शप् =
ङस् =
श्ना =
क्त =
ष्वुञ् =
ण्वुल् =
ख्युन् =
श्यन् =
ल्युट् =
तृच् =
ष्वुन् =
क्तिन् =
तव्यत् =
शानच् =
अनीयर् =
शतृँ =
णिनिँ =
क्लुकँन् =
अवधेयम्— यत्र प्रत्ययाः समानाः दृश्यन्ते, अनुबन्धैः ते भिद्यन्ते |
Swarup – April 2013 (Updated Sept 2016)
परिशिष्टम्
अत्र वंशी सुधा भगिनी अतीव सुन्दररीत्या, सूत्रसहितदृष्ट्या इत्संज्ञाप्रकरणं चित्रत्वेन निरूपितवती—