05 - विशेषणं विशेष्यम्
पाठः
"सुन्दरः बालकः गच्छति" इति वाक्ये किं पदं विशेषणं, किञ्च विशेष्यम् ?
इति चेत्, 'सुन्दरः' विशेषणं, 'बालकः' विशेष्यम् इति सामान्यतया वदामः |
अधुना, कश्चन घटः भूतले अस्ति; तदर्थं "भूतलं घटवत्" इति उच्यते | अत्र किं पदं विशेषणम् ? सामान्यतया घटवत् विशेषणम् इति वदामः | तत्र विद्याधरी इति ग्रन्थे लिखितम् अस्ति यत् "भूतले संयोगेन विद्यमानः घटः भूतलस्य विशेषणम्" (p. 34) | तर्हि किं "भूतलं घटवत्" इति वाक्ये घटवत् अपि विशेषणं, घटः अपि विशेषणम् ?
अस्य समाधानार्थं वत्त्वम् इति विषये चर्चा अपेक्षिता |
भूतलं, घटः, घटत्वम् | भूतले कश्चन घटः अस्ति; घटे घटत्वम् अस्ति | एवञ्च स्तरत्रयं वर्तते—
घटत्वम्
घटः
भूतलम्
सर्वोपरितने स्तरे घटत्वम् अस्ति | मध्यमस्तरे घटः अस्ति | अधोभागे भूतलम् अस्ति | उपरि गमनार्थं त्व-प्रत्ययं योजयामः; अधोभागे गमनार्थं मतुप् (पुंसि -वान्, स्त्रियां -वती, नपुंसके -वत्) इति प्रत्ययं योजयामः | अतः घटत्वम् इत्यस्मात् घटस्य दिशि गन्तुम् इच्छामश्चेत्, मतुप् योजयामः | मतुप्-प्रत्ययस्य योजनेन आश्रयत्वं प्राप्यते | घटत्वम् + मतुप् → घटत्ववत्; घटवाचकपदम् अतः पुंसि घटत्ववान् | घटत्ववान् घटः | घटात् भूतलस्य दिशि गन्तुम् इच्छामश्चेत्, मतुप् योजयामः | घटः + मतुप् → घटवत्; भूतलवाचकपदम् अतः नपुंसके घटवत् एव | घटवत् भूतलम् | घटवत् इत्यस्य भावसिद्ध्यर्थं त्व-प्रत्ययं योजयामः | घटवत् + त्व → घटवत्त्वम् | घटवत्त्वं घटस्य स्तरे वर्तते; नियतलिङ्गत्वात् नपुंसके घटवत्त्वम् एव | पुनः अधोभागे गमनार्थं मतुप् योजयामः | घटवत्त्वम् + मतुप् → घटवत्त्ववत् | घटवत्त्ववत् घटवत्त्वस्य आश्रयः अपि च भूतलवाचकपदम्, अतः अधोभगे वर्तते | तर्हि आहत्य परिणामः एवम्—
उपरिस्तरे— घटत्वम्
मध्यमस्तरे— घटत्ववान् घटः घटवत्त्वम्
अधमस्तरे— घटवत् भूतलम् घटवत्त्ववत्
विशेषणस्य कार्यं किम् ?
विशेषणं विशेष्यम् अन्येभ्यः वस्तुभ्यः पृथक् करोति |
उन्नतः वृक्षः |
उन्नत-शब्दः विशेषणं विचिन्त्य विवक्षितं वृक्षम् अन्येभ्यः वृक्षेभ्यः पृथक् करोति, इति सामान्यम् अवगमनम् |
विशेषण-विशेष्ययोः अर्थः
विशेषण-विशेष्यम् इति शब्दद्वयम् अपि अर्थ-सम्बद्धं, न तु शब्द-सम्बद्धम् | अयं सिद्धान्तः मुख्यः |
विशेष्यः पदार्थः न तु पदम् | तर्हि पदं किम् ? विशेष्यवाचकम् | यथा वृक्षः इति विशेष्यं कदापि पदं न भवति | वृक्षः विशेष्यः | वृक्षः लोके जीवित-वस्तु यत्, सः पदार्थः वृक्षः | सः लोके यः प्राणी वृक्षः, स एव विशेष्यः | अतः 'वृक्ष'-शब्दः विशेष्य-वाचकः | न तु स्वयं विशेष्यम् |
विशेष्य = वि + शिष् + ण्यत् |
शिष्लृ विशेषणे, रुधादिगणे | अनुबन्धरहितधातुः, लोके शिष् | लटि शिनष्टि | वि-उपसर्गपूर्वकः विशिष्, लटि कर्तरिप्रयोगे विशिनष्टि | कर्मणिप्रयोगे विशिष्यते |
ऋहलोर्ण्यत् (३.१.१२४) = ऋवर्णान्तेभ्यः हलन्तेभ्यः च धातुभ्यः कर्मण्यर्थे ण्यत्-प्रत्ययो भवति | णकारतकारयोः इत्-संज्ञा, 'य' अवशिष्यते |
ण्यत् णित् | णित्त्वात् द्वे कार्ये—
अचो ञ्णिति (७.२.११५) इत्यनेन अजन्ताङ्गस्य अन्त्यवर्णस्य वृद्धिः ञिति णिति प्रत्यये परे | कृ + य → कार्यम् | हृ + य → हार्यम् | धृ + य → धार्यम् |
अत उपधायाः (७.२.११६) इत्यनेन उपधायाम् अतः वृद्धिः ञिति णिति प्रत्यये परे | वच् + य → वाक्यम् | पच् + य → पाक्यम् |
ण्यत् आर्धधातुक-प्रत्ययः | आर्धधातुकत्वात् एकं कार्यम्—
पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन लघूपधस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | छिद् + य → छेद्यम् | शिष् + य → शेष्यम् |
ण्यत्-प्रत्ययेन यः शब्दः निष्पन्नः सः विशेष्यनिघ्नः अतः त्रिषु लिङ्गेषु भवति | विशेष्यः, विशेष्या, विशेष्यम् |
पूर्वोक्त-रीत्या, विशेष्यम् अर्थ-सम्बद्धं, न तु शब्द-सम्बद्धम् | अतः वृक्षः पदं न अपि तु प्राणी | तथैव तस्य विशेषणं—येन सः प्राणी विशिष्यते, पृथक् क्रियते—तत् विशेषणम् अपि पदं न कदापि भवति | प्राणी वृक्षः स्वस्य गुणेन विशिष्यते | अतः यः गुणः प्राणिनि वृक्षे अस्ति, सः गुणः एव विशेषणम् | "उन्नतः वृक्षे अस्ति" इति वक्तुं शक्यते वा ? चिन्तयतु | वृक्षः स्वयम् उन्नतः भवति किल | वृक्षे उन्नतः इति तु नैव उच्यते | तर्हि उन्नतवृक्षे विद्यमानः गुणः कः ? औन्नत्यम् | औन्नत्यं वृक्षे अस्ति | औन्नत्य-गुणेन वृक्षः विशिष्यते, भिद्यते, अतः औन्नत्यम् इति गुणः एव विशेषणम् |
अग्रे | यथा वृक्षः इत्युक्ते लोके यः प्राणी विशेष्यः, अपि च यथा 'वृक्ष'-शब्दः तस्य विशेष्य-वाचकः ; तथैव तस्मिन वृक्षे यः गुणः औन्नत्यं, तस्य विशेषण-वाचकः उन्नत-शब्दः | इत्थञ्च 'वृक्ष'-शब्दः विशेष्य-वाचकः; 'उन्नत'-शब्दः विशेषण-वाचकः |
आहत्य वृक्षः यत् वस्तु, तत् विशेष्यम्; 'वृक्ष'-शब्दः तस्य विशेष्य-वाचकः (न तु स्वयं विशेष्यम्) | औन्नत्यं यः गुणः, सः विशेषणम्; 'उन्नत'-शब्दः तस्य विशेषण-वाचकः (न तु स्वयं विशेषणम्) |
विशेषण-वाचक-शब्दाः सामान्यतया गुण-विषये भवन्ति, अतः गुण-वाचकाः इत्यपि उच्यन्ते | (अत्र न्यायशास्त्रस्य २४ गुणाः इति न; अत्र गुणः सामान्यार्थे अस्ति, यथा दैर्घ्यम्, विस्तारः, औन्नत्यम् [length, width, height] |) यथा, उन्नत-शब्दः इति विशेषण-वाचक-शब्दः 'गुणं वदति', 'औन्नत्यं वदति', अतः गुण-वाचकः इत्यपि उच्यते |
गुण-वाचक-शब्दाः त्रिविधाः (ये गुण-विषये वदन्ति)
१) केवलं गुण-वाचकाः | शक्तिः, श्रद्धा, बलं, धैर्यं, श्रमः, भयम् | गुणम् एव वदन्ति |
२) केवलं गुणि-वाचकाः | उन्नतः, विशालः, उत्तमः, सुन्दरः | गुणवद्वाचकाः |
३) गुणवाचकाः अपि भवन्ति, गुणिवाचकाः अपि भवन्ति | शुक्लः, नीलः, रक्तः, मधुरः, आम्लः, कटुः |
१) केवलं गुण-वाचकशब्दाः | एभिः शब्दैः गुण-विषये एव सूचना प्राप्यते | गुणस्य आश्रयस्य विषये न काऽपि सूचना | 'शक्तिः'— अनेन शब्देन केवलं शक्तिः इति गुणः उच्यते | इयं शक्तिः कुत्र अस्ति, कस्य अस्ति, कस्मिन् अस्ति— शक्ति-शब्देन एतादृशी न काऽपि सूचना लभ्यते |
२) केवलं गुणि-वाचकशब्दाः | एषां विषये बहूनां भ्रमो भवति यतोहि एकदृष्ट्या गुणिवाचकाः एव; अपरया दृष्ट्या 'केवलं गुणिवाचकाः' इति वक्तुं न शक्नुमः |
यथा उन्नत-शब्दः | उन्नतः इत्युक्तौ औन्नत्य-गुण-विशिष्टः | औन्नत्य-गुणः यस्मिन् अस्ति, तादृशः कश्चन | सुन्दरः इत्युक्तौ सौन्दर्यं यस्मिन् अस्ति, तादृशः कश्चन |
एते गुण-विशिष्ट-गुणिवाचकाः | नाम तेन गुणेन युक्तं गुणिनं बोधयति |
उन्नतः = औन्नत्यं यः गुणः, तादृशगुणेन युक्तं यं कमपि पदार्थं, गुणिनं बोधयति | यथा, उन्नतः वृक्षः इत्युक्ते कश्चन वृक्षः यः औन्नत्ययुक्तः अस्ति |
प्रश्नः— द्विवारं वदनस्य का आवश्यकता ? "गुण-विशिष्ट-गुणिवाचकः" | गुणी इत्युक्ते यस्मिन् सः गुणः अस्ति एव; तर्हि पुनः 'गुण-विशिष्ट' इत्यनेन को लाभः ?
उत्तरम्— वस्तुतः न अपेक्षितम् | किन्तु स्पष्टतार्थम् उच्यते, तावदेव | “गुणी" इत्यनेन 'गुण-विशिष्ट' इत्येव अर्थः; “गुणः अस्मिन् अस्ति" इत्येव गुणी | कश्चन गुणः अस्ति; तादृशगुणेन विशिष्टम् एकं पदार्थं बोधयति | तथापि भ्रमस्य दूरीकरणे महान् लाभः | कथम् इति अग्रे वक्ष्यते |
३) गुणवाचकाः अपि, गुणिवाचकाः अपि | एते शब्दाः गुणवाचकत्वेन अपि प्रयुज्यन्ते, गुणिवाचकत्वेन अपि प्रयुज्यन्ते | यथा शुक्लः, कृष्णः, नीलः इति शब्दाः |
शुक्लः गुणवाचकः इत्युक्ते "white color” इति वक्तव्यं चेत्, 'शुक्लः' | अस्मिन् अर्थे पुंलिङ्गे एव प्रयोक्तव्यम् |
शुक्लवर्णेन युक्तः कश्चन इति चेत् गुणिवाचकः | अस्मिन् अर्थे त्रिषु लिङ्गेषु | श्क्लः घटः, शुक्ला शाटिका, श्क्लं पुष्पम् |
रसवाचकशब्दाः अपि तथा | लवणः, आम्लः, मधुरः, कटुः, तिक्तः, कषायः |
एते शब्दाः गुणवाचकाः चेत् नियतलिङ्गाः, पुंलिङ्गे एव भवन्ति |
यथा मधुरः गुणवाचकः, 'sweet taste' इत्यर्थः | पुंलिङ्गे एव |
मधुररस-युक्तः इति चेत् गुणिवाचकः, त्रिषुलिङ्गेषु | मधुरः शाकः, मधुरा शर्करा, मधुरम् ओदनम् |
अर्थस्य परिवर्तनार्थम्
१) केवलं गुणवाचक-शब्दः → मतुबर्थक-प्रत्ययस्य संयोजनेन → गुणिवाचक-शब्दः निष्पन्नः |
यथा—
श्रद्धा → श्रद्धावान्
बलम् → बलवान्/बली
धैर्यम् → धैर्यवान्
संयमः → संयमी
उत्साहः → उत्साही
२) केवलं गुणिवाचक-शब्दः → भावार्थक-प्रत्ययस्य (त्व, तल्, ष्यञ् इत्यस्य) संयोजनेन → गुणवाचक-शब्दः निष्पन्नः |
यथा—
उत्तमः → उत्तमत्वम्, उत्तमता, औन्नत्यम्
विशालः → विशालत्वम्, विशालता, वैशाल्यम्
सुन्दरः → सुन्दरत्वम्, सुन्दरता, सौन्दर्यम्
३) यः गुणवाचकः अपि, गुणिवाचकः अपि, तस्य अन्वयः उभयत्र अतः कोऽपि प्रत्ययः नापेक्षितः | किन्तु मतुबर्थीयाः/भावार्थीयाः प्रयोक्तुं शक्याः |
पीतः, पीतत्वं च इत्येतौ द्वौ गुणवाचकशब्दौ समानौ |
पीतः इति गुणः | पीतत्वम् इति गुणः | |
वस्त्रम् | पीतं वस्त्रम् → पीतम् इति गुणिवाचकशब्दात् त्वप्रत्ययस्य संयोजनेन गुणवाचकशब्दः निष्पन्नः → पीतत्वम् | वस्त्रम् |
अनेन पीतः, पीतत्वं च इत्येतौ द्वौ गुणवाचकशब्दौ समानौ
तथैव पीतं वस्त्रं, पीतवत् वस्त्रं | पीतं, पीतवत् च इत्येतौ द्वौ गुणिवाचकशब्दौ समानौ |
पीतः इति गुणः | पीतः इति गुणः → तस्मात् गुणवाचकशब्दात् मतुप्-प्रत्ययस्य संयोजनेन गुणिवाचकशब्दः निष्पन्नः → पीतवत् | पीतः इति गुणः |
पीतं वस्त्रम् | पीतवत् वस्त्रम् |
अनेन पीतं, पीतवत् च इत्येतौ द्वौ गुणिवाचकशब्दौ समानौ |
पुनस्स्मरणम्
उन्नतः वृक्षः | उन्नतः गुणिनं (वृक्षं) बोधयति— वृक्षवाचकशब्दः | तर्हि विशेषणं किम् ?
विशेष्यः पदार्थः न तु पदम् इति स्मर्तव्यम् | तर्हि पदं किम् ? विशेष्यवाचकम् | तथैव उन्नतः वस्तुतः विशेषणवाचकः | विशेषणम् औन्नत्यम् | औन्नत्यम् इत्यनेन वृक्षः विशिष्यते, पृथक् क्रियते | अन्येभ्यः वृक्षेभ्यः पृथक् कुर्मः अनेन औन्नत्य-गुणेन | “येन विशिष्यते"— उन्नतः तथा नास्ति | किन्तु औन्नत्यं तथा अस्ति, अतः तदेव विशेषणम् |
समानाधिकरणम् असमानाधिकरणं च
विशेषण-विशेष्ययोः समानाधिकरणं न स्यात् | यथा अत्र उन्नतः वृक्षः | उन्नतः गुणिवाचक-शब्दः अतः वृक्षमेव बोधयति | द्वयोः पदयोः समानविभक्तिकत्वम्, एकार्थबोधकत्वं च | अनेन समानाधिकरणम् | तस्मात् उन्नतः इत्युक्ते वृक्ष एव अतः उन्नत-शब्दः वृक्षं विशेषयितुं न शक्नोति | उन्नतः, वृक्षः च समानवस्तु | कथं वा उन्नत-शब्देन वृक्षः भिद्येत ? किन्तु औन्नत्यं भिन्नवस्तु | औन्नत्य-वृक्षयोः एकार्थबोधकत्वं नास्ति, समानाधिकरणं नास्ति | औन्नत्यं भिन्नं, वृक्षः भिन्नः, अतः औन्नत्ये वृक्षस्य विशेषयितुं सामर्थ्यम् अस्ति |
वृक्षस्य विशेषणद्वयम्
१) औन्नत्यम् इति गुणः, वृक्षस्य एकं विशेषणम् | तस्य कार्यम् = औन्नत्यम् इति गुणः अस्मिन् वृक्षे अस्ति, अपरेषु वृक्षेषु नास्ति अतः इमं वृक्षम् अन्येभ्यः वृक्षेभ्यः पृथक् करोति |
२) वृक्षत्वम् इति जातिः, वृक्षस्य द्वितीयं विशेषणम् | तस्य कार्यम् = सर्वेषु वृक्षेषु विद्यमानं वृक्षत्वम् इति विशेषणं विजातीयेभ्यः सर्वान् वृक्षान् पृथक् करोति | वृक्षः गृहात् भिन्नः, यानात् भिन्नः, मनुष्यात् भिन्नः इति कथम् ? वृक्षे वृक्षत्वम् अस्ति; गृहे, याने, मनुष्ये च वृक्षत्वं नास्ति | अतः वृक्षत्वम् इति जात्या वृक्षः भिद्यते; वृक्षत्वम् इति जातिः वृक्षम् अन्येभ्यः द्रव्येभ्यः पृथक् करोति |
तर्हि विशेषणद्वयम् अस्ति— गुणः, जातिः च | वस्तुतः ततः अधिकविध-विशेषणानि अपि सम्भवन्ति |
अधिकविध-विशेषणानि
विशेषणम् इत्युक्ते येन विशिष्यते | अतः येन केनापि एकं वस्तु अन्येभ्यः वस्तुभ्यः विशिष्यते, तत् विशेषणम्
भूतले नीलः इति गुणः, भूतलत्वम् इति जातिः, घटः इति द्रव्यम् | त्रिभिः भूतलं विशिष्यते, ततः अत्र विशेषणत्रयम् अस्ति |
गुणः | जातिः | द्रव्यम् | |
विशेषणानि | नीलः | भूतलत्वम् | घटः |
भूतलम् |
बालके औन्नत्यम् इति गुणः, बालकत्वम् इति जातिः, धनम् इति द्रव्यं, लेखन-क्रिया इति कर्म, घटाभावः इति अभावः | पञ्चभिः बालकः विशिष्यते अतः विशेषणपञ्चकम् अस्ति | समवाय-विषये विशेष-विषये च अस्य करपत्रस्य अन्ते परिशिष्टं द्रष्टव्यम् |
विशेषणानां विशेषणवाचकपदानि
बालके विद्यमान-औन्नत्यस्य विशेषणवाचकपदं उन्नतः | बालके विद्यमान-धनस्य विशेषणवाचकपदं धनवान् | बालके विद्यमान-लेखन-क्रियायाः विशेषणवाचकपदं लेखनक्रियावान् | बालके विद्यमान-घटाभावस्य विशेषणवाचकपदं घटाभाववान् | बालके विद्यमान-बालकत्वस्य विशेषणवाचकपदं बालकः एव |
एक एव विशेषणम्
यदा कोऽपि केवलं "बालकः" वदति, तदा विशेषणं केवलं बालकत्वम् एव | तथा च तत्र बालके विद्यमान-बालकत्वस्य विशेषणवाचकपदं बालकः एव |
अतः बालकः पूर्वोक्तरीत्या विशेष्यवाचकशब्दः, नव्योक्तरीत्या विशेषणवाचकशब्दः; इदं भूमिकाद्वयम् अस्ति सदा विशेष्यवाचकशब्दस्य
उन्नतः "केवलं गुणिवाचकः" | तर्हि कथं विशेषणवाचकः ?
उन्नतः विशेषणवाचक-शब्दः इति अधुना उक्तम् |
उन्नतः केवलं गुणिवाचक-शब्दः इति तु आरम्भतः एव उच्यमानम् |
द्वयमपि कथम् ?
“गुण-विशिष्टं गुणिनम्" इत्यस्य तात्पर्यं तदेव | उन्नतः = औन्नत्य-रूप-गुणविशिष्टः पदार्थः | इत्युक्ते अनेन उन्नत-शब्देन गुणी अपि सूचितः, गुणः अपि सूचितः | “उन्नतः वृक्षः" इति वाक्ये औन्नत्यम् इति गुणः सूचितः अस्ति किल; नाम तेन वाक्येन अवगम्यते यत् औन्नत्यम् इति गुणः वृक्षे अस्ति | केन शब्देन इदम् अवगम्यते ? उन्नत-शब्देन | एतदर्थम् उच्यते यत् गुणिवाचकाः शब्दाः ये ये सन्ति, ते शब्दाः गुण-विशिष्ट-गुणिवाचकाः | अतः उन्नत-शब्दस्य यः अर्थः, तस्मिन् अर्थे गुणः अपि अन्तर्भूतः | नाम औन्नत्य-युक्त-वृक्षः | उन्नत-शब्दस्य यः समग्र-अर्थः, तस्मिन् समग्रे अर्थे औन्नत्यम् इत्यस्य एकदेश-वृत्तिः, इत्युक्ते एकः भागः |
केवलं गुणः वक्तव्यः चेत्, औन्नत्यम् | गुण-विशिष्ट-गुणी यदा वक्तव्यः, तदा उन्नतः इति एव प्रयोक्तव्यः | तदा औन्नत्यम् इति गुणः, उन्नतः इति शब्देन बोधितः | किन्तु केवलं गुणः इति न; औन्नत्य-युक्त-वृक्षः बोधितः | नाम औन्नत्यम् अपि बोधितं, तद्युक्तः वृक्षः अपि बोधितः | अतः उन्नतः विशेषणवाचकः इति वदामः | स्वयं विशेषणं न, परन्तु विशेषणस्य अर्थः अस्मिन् गुणिवाचकशब्दे अन्तर्भूतः |
तर्हि निष्कर्षः एवम्— यद्यपि उन्नत-शब्दः केवलं गुणिवाचकः, किन्तु अस्मिन् कार्ये गुणस्य सङ्केतः अपि अन्तर्भूतः |
उन्नत-शब्दस्य सीमा का ?
तर्हि उन्नतः वृक्षः इत्यत्र, उन्नत-शब्दः विशेषणवाचकः | तत्र उन्नतः इति शब्देन उन्नतत्वम् इति गुणः, तादृशगुणेन युक्तः इति एतावत् एव ज्ञायते | न तु वृक्षः इति | वृक्षः इति ज्ञातव्यं चेत्, अग्रे वृक्षः इति शब्दः प्रयोक्तव्यः | 'उन्नतः' इत्येव वदामश्चेत्, कः उन्नतः इति न ज्ञायते; कश्चन उन्नतः इत्येतावत् एव ज्ञायते | इत्युक्ते वृक्षः, वृक्षः इति शब्देन एव बोध्यते, न तु उन्नतः इति शब्देन | तर्हि उन्नतशब्देन वस्तुतः किं बोध्यते इत्युक्ते औन्नत्य-युक्तः कश्चन पदार्थः इति एतावत् एव |
तदर्थम् एव उच्यते औन्नत्य-रूप-गुणेन युक्तम् इति अखण्डं यत् अस्ति, तस्मिन् अखण्डे अर्थे एकदेशरूपेण औन्नत्यम् इति गुणः तत्र भवति | एकदेशः इत्युक्तौ एकः भागः | अत्र उन्नतशब्दस्य अर्थः औन्नत्ययुक्तपदार्थः | अतः वस्तुतः, उन्नतः इति कथनेन वृक्षस्य भानं न भवति, वृक्षस्य बोधः न भवति | वृक्षस्य बोधः अपेक्षितः चेत्, वृक्षः इति एव शब्दः प्रयोक्तव्यः | उन्नतः इति शब्देन औन्नत्यरूप-गुणेन युक्तः कश्चन पदार्थः इत्येव बोधः अस्माकं भवति | न तु वृक्षस्य बोधः |
तर्हि अग्रे उन्नतः इति शब्दः धर्मिवाचकः किमर्थम् इति चेत्, "औन्नत्यरूप-गुणेन युक्तः कश्चन पदार्थः" इत्युक्तम्; तादृशः विद्यमानधर्मः वृक्षे अतः वृक्षः धर्मी, उन्नतः च तस्य सूचकः धर्मिवाचकः | किन्तु वस्तुतः सः धर्मी कः इति उन्नत-शब्देन न ज्ञायते; तदर्थं वृक्षः वक्तव्यः | इति उन्नत-वृक्षयोः भेदः |
उन्नत-शब्दः गुणिवाचकः एव न तु गुणवाचकः इति सत्यं; तथापि उन्नत-शब्देन गुणी कः इति उन्नतशब्देन न ज्ञायते | पदार्थः वृक्षः वा, पुरुषः वा, बालकः वा, कुक्कुरः वा, इति यावत् विशेष्यवाचकशब्दः न उच्चार्यते, तावत् न बोध्यते |
विशेष्यभूतः यः वृक्षः, सः वृक्ष-शब्देन बोध्यते | औन्नत्यरूपः यः गुणः, सः उन्नतशब्देन बोध्यते | उन्नतशब्दः वस्तुतः गुणवाचकः न | किन्तु उन्नतशब्दस्य यः अर्थः "गुण-विशिष्ट यः गुणी”, तस्य एकदेशरूपेण औन्नत्यरूपगुणः तत्र बोध्यते | अतः एव वदामः उन्नत-शब्दः विशेषणवाचकः |
लोके प्रयोगः भिन्नः
लोके प्रयोगः भिन्नः किमर्थम् इति चेत्, तत्र उन्नत-शब्देन, कस्य बोधः इत्युक्ते औन्नत्यरूपगुणस्य बोधः भवति इत्यतः लोके उन्नत-शब्दः विशेषणम् इति एव तत्र प्रयोगः भवति | किन्तु प्रयोगसमये वस्तुस्थितिः बुद्धिमता अवगम्येत यत् उन्नतशब्दः विशेषणवाचकः न तु विशेषणम् |
औन्नत्यम् = विशेषणम्
उन्नतः = विशेषणवाचकः
वृक्षः = विशेष्यवाचकः
यल्लिङ्गं यद्वचनं या च विभक्तिर्विशेष्यस्य
तल्लिङ्गं तद्वचनं सा च विभक्तिर्विशेषणस्यापि |
अनेन 'विशेष्यवाचकस्य' ... 'विशेषणवाचकस्यापि' इति येषां भाषा किञ्चित् प्रगता, तैः अवगम्येत | सौकर्यार्थं प्रारम्भिकस्तरीयवर्गेषु अस्य श्लोकस्य पाठनेन न दोषः | किन्तु ये इतोऽपि अधीतवन्तः, तैरपि तथा बुध्यते चेत्, दोष एव | श्लोकस्य उच्चारणसमये, जवनिकायाः पृष्ठतः वस्तुस्थितिः का इति अस्माभिः अवश्यं ज्ञेयम् |
तद्वाचकः शब्दः
"उन्नतः वृक्षः" इति वाक्ये वृक्षस्य विशेषणद्वयम् इत्युक्तम् | औन्नत्यम् इति एकं विशेषणं, वृक्षत्वम् इति अपरं विशेषणम् | औन्नत्यम् इति विशेषणं केन पदेन बोध्यते ? तद्वाचकः शब्दः कः ? तद्वाचकः शब्दः उन्नतः इति एव | उन्नत-पदेन एव औन्नत्यं बोध्यते | तर्हि वृक्षत्वम् इति यत् विशेषणं, तद्वाचकः शब्दः कः ? तद्वाचकः शब्दः वृक्षः इति शब्दः एव | तत् कथम् इति चेत्, वृक्षः इति शब्देन पदार्थत्रयं बोध्यते | प्रथमः वृक्षः इति जीवः | द्वितीयः वृक्षत्वम् इति वृक्षे विद्यमाना जातिः | (कुत्रचित् 'धर्मः' इति एव वक्तव्यं भवति; अत्र स च धर्मः जातिः एव |) तृतीयः वृक्ष-वृक्षत्वयोः मध्ये विद्यमानः सम्बन्धः | अत्र समवायसम्बन्धः | इति एते त्रयः अंशाः वृक्षशब्देन बोध्यन्ते |
एवं सर्वैः अपि पदैः एते त्रयः अर्थाः बोध्यन्ते | यथा अत्र वृक्ष-शब्देन "वृक्षत्व-विशिष्ट-वृक्षः" इति अर्थः | नाम वृक्षत्व-सम्बन्धः यत्र अस्ति, तादृशः पदार्थः | इत्युक्तौ वृक्षत्वं, वृक्षः, तयोर्मध्ये विद्यमानः सम्बन्धः | एते त्रयः पदार्थाः ज्ञायन्ते |
अतः उन्नतवृक्षः इति कथनेन वृक्षस्य इदानीं विशेषणद्वयं भवति— उन्नतत्वं, वृक्षत्वं च | उन्नतत्ववाचकशब्दः उन्नतः इति शब्दः | वृक्षत्ववाचकशब्दः वृक्षः इत्येव शब्दः | एषा व्यवस्था भवति |
धनं, धनवत्त्वं च
अधुना धनवत्त्वं, धनम् | धनवान् इति शब्दः अस्ति | यथा वृक्ष-शब्दस्य विशेषणं किम् ? वृक्षत्वम् | वृक्ष-शब्दस्य वदनेन वृक्षपदार्थः, वृक्षत्वं, तयोः सम्बन्धः च एतत् सर्वं पदार्थत्रयं ज्ञायते | अधुना धनवान् इति शब्दः अस्ति इति चिन्तयतु | धनम् इति शब्देन धनवान् इति शब्दः निष्पन्नः; धनम् अस्मिन् अस्ति धनवान् इति | धनवान् कः ? कश्चन पुरुषः | धनवान् इति शब्देन अपि पदार्थत्रयं बोध्यते | किम् इति चेत्, प्रथमः पदार्थः धनवान् एव, नाम धनं यस्य/यस्मिन् अस्ति सः | तस्मिन् पुरुषे विशेषणत्वेन यत् अस्ति, सोऽपि पदार्थः बोध्यते; सः पदार्थः कः ? धनम् एव | वृक्षविषये अस्माभिः विशेषणं वृक्षत्वम् इति स्वीकृतम् | अत्र धनवान् यः अस्ति, तस्मिन् विद्यमानः धर्मः कः इत्युक्ते, अन्यत् किमपि अस्माभिः स्वीकरणीयं नास्ति | धनवान् यः अस्ति, तस्मिन् विद्यमानं विशेषणं धनम् एव | धनवति विद्यमानः धर्मः इत्युक्तौ धनम् एव | कथनस्य आशयः एवं यत् धनम् अपि कश्चन 'धर्मः' भवति | तर्हि धनवान् इति शब्देन के त्रयः पदार्थाः बोध्यन्ते इत्युक्ते धनं, धनं यस्मिन् अस्ति तादृशपुरुषः, तयोर्मध्ये विद्यमानः संयोगसम्बन्धः | एते त्रयः अंशाः ज्ञायन्ते |
एतदपि वक्तव्यम् अस्ति, धनवान् इति शब्दः गुणिवाचकः उन्नत-शब्दः इव | अतः यथा उन्नतः इत्यस्य कथनेन वृक्षः इत्यस्य साक्षात् बोधः न भवति | नाम कस्मिन् उन्नतत्वम् अस्ति इति न ज्ञायते यावत् वृक्षः इति शब्दः न उच्येत; तावत् एव ज्ञायते यत् कश्चन अस्ति यस्मिन् उन्नतत्वम् इति गुणः विद्यमानः | धनवान् अपि तथा— धनं कस्मिन् अस्ति, पुरुषे, बालके, राष्ट्रपतौ, अभियन्तरि, तन्न ज्ञायते | केवलं धनयुक्तः कश्चन अस्ति, इत्येतावदेव ज्ञायते | सः कः इति वक्तव्यं चेत्, अग्रे अन्यत् पदं प्रयोक्तव्यम् | “धनवान् बालकः" इति वक्तव्यम् |
किन्तु धनवान् इति शब्देन धनम् अस्ति इति ज्ञायते, धनयुक्तः कश्चन अस्ति इत्यपि ज्ञायते, तयोर्मध्ये संयोगसम्बन्धः अस्ति इत्यपि ज्ञायते | धनवान् इति शब्देन एते त्रयः पदार्थाः ज्ञायन्ते |
धनवत्त्वम् | अत्र कथं व्यवस्था इति उच्यते | धनवान् इति शब्दात् त्व-प्रत्ययः संयोजितः, तेन धनवत्त्वम् इति पदं सञ्जातम् | त्व-प्रत्ययः भावप्रत्ययः; भावार्थे विद्यमानः प्रत्ययः | वस्तुतः भावः इत्यस्य अर्थः कः इति चेत्, “तस्मिन् विद्यमानः धर्मः" | इदानीं वृक्षः इति शब्दः अस्ति | वृक्षस्य भावः वृक्षत्वम् | 'वृक्षस्य भावः' इत्यस्य अर्थः कः ? इति चेत्, "वृक्षे विद्यमानः कश्चन धर्मः" | अतः त्वप्रत्ययं योजयामश्चेत् वृक्ष-शब्दात्, तेन किं भवति ? वृक्षे विद्यमानः धर्मः बोध्यते | तत्र एक एव धर्मः, वृक्षत्वम् | एवमेव, यः कोऽपि शब्दः भवतु— शुक्लः इति अस्ति | शुक्लः इति गुणवाचकशब्दः इति स्वीक्रियताम् | तत्र शुक्लत्वम् इति धर्मः अस्ति, आङ्ग्लाभाषायां 'whiteness' | तर्हि शुक्ल-शब्दात् भावार्थे त्व-प्रत्ययं योजयामः चेत्, तस्य अर्थः कः भवति ? “शुक्लः इति गुणः, तस्मिन् विद्यमानः धर्मः" इति | तर्हि शुक्लत्वम् इत्युक्ते “शुक्ले विद्यमानः धर्मः" | मनुष्ये विद्यमानः धर्मः मनुष्यत्वम् |
इदानीं धनवत्त्वम् | धनवान् इति शब्दात् त्व-प्रत्ययं संयोजयामः | पूर्वं यत्र यत्र उदाहरणं दर्शितं, तत्र यथा नियमः, तथैव नियमः अत्रापि स्वीकर्तव्यः | धनवान् + त्व → धनवत्त्वम् | अनेन धनवत्त्वम् इत्यस्य कः अर्थः ? धनवान् यः अस्ति, तस्मिन् विद्यमानः धर्मः | सः धर्मः कः इत्युक्ते धनम् एव | तदेव अस्माभिः पूर्वं स्वीकृतम् | धनवति विशेषणरूपेण विद्यमानः धर्मः, अत्र धनमेव | अतः अत्र निष्कर्षः कः इति चेत्, धनवत्त्वम् इत्युक्तौ धनम् इति सिद्धम् |
अत्र धने धनवत्त्वस्य पर्यवसानं कृतम् | नाम धनवत्त्व-शब्दस्य उच्चारणेन तर्कस्य पङ्क्तिः धनम् एव अधिगच्छति | पर्यवसानं नाम तत्स्वरूपम् | धनं पार्थिवद्रव्यं यस्य स्पर्शो भवति; धनवत्त्वम् अपि तथा | धने धनवत्त्वस्य पर्यवसानं, तत्स्वरूपं कृतम् इत्युक्तौ धनवत्त्वम् अन्यत्र कुत्रापि न भवितुम् अर्हति; धनवत्त्वम् इति धनम् एव |
अधुना एतत् सर्वम् उक्तं; वस्तुतः न्यायशास्त्रे अत्र पक्षद्वयम् अस्ति | द्वाभ्याम् अपि पक्षाभ्याम् अस्माकं लक्षणकार्यं सिध्यति | एकस्मिन् पक्षे धनवत्त्वम् इत्युक्तौ धनमेव | अपरस्मिन् पक्षे धनवत्त्वम् इत्युक्ते धनाधिकरणत्वम् | धनस्य अधिकरणं, तस्मिन् अधिकरणे विद्यमानः धर्मः धनाधिकरणत्वम् | धनवत्त्वं धनमेव इति चेत्, धनवत्त्वं संयोगसम्बन्धेन धनवति अस्ति | धनवत्त्वं धनाधिकरणत्वम् इति चेत्, स्वरूपसम्बन्धेन धनवति अस्ति |
तथैव गन्धः गन्धवत्त्वं च | गन्धवत्त्वं गन्धः एव इति चेत्, समवायसम्बन्धेन पृथिव्याम् अस्ति | गन्धवत्त्वं गन्धाधिकरणत्वम् इति चेत्, स्वरूपसम्बन्धेन पृथिव्याम् अस्ति | उभयत्र गन्धवत्त्वं पृथिव्याः लक्षणम् | गन्ध-निष्ठ-आधेयता-निरूपित-अधिकरणताश्रयः पृथिवी | अनेन आधाराधेयभावः प्रदर्शितः; गन्धवत्त्वं, गन्धाधिकरणत्वम् इति पृथिव्याः लक्षणम् | गन्धवत्त्वं गन्धः एव इति चेदपि, गन्धवत्त्वं पृथिव्याः लक्षणम् |
Swarup – November 2015
- - - - - - -
परिशिष्टम्
अस्मिन् पाठे अस्माभिः उक्तं यत् पञ्चानां पदार्थानां विशेषणत्वं भवति; अवशिष्टयोः द्वयोः पदार्थयोः का गतिः ? समवायः विशेषश्च, तयोः विशेषणत्वं सम्भवति किम् ? अत्र लघु उत्तरम् अस्ति, आं सम्भवति | किन्तु पृथक्तया उच्यते यतोहि तयोः विशेषणार्थं निकषः इतोऽपि नियमितः |
प्रथमतया सामान्यनियमः उच्चारणीयः, विशेषणत्वं कुत्र, कस्यां दशायां सम्भवति | विशेषण-विशेष्य-भावः ज्ञानसम्बद्धः; यत्र ज्ञाता अस्ति, कस्यचित् ज्ञानम् अस्ति, तत्र ज्ञानस्य विषयः भवति | यदा किञ्चन वस्तु ज्ञानस्य विषयः भवति, तदा प्रथमनिकषः सम्पूर्णः— इदं वस्तु विशेषणं भवितुम् अर्हति | यत्र ज्ञानं नास्ति, वने उन्नतवृक्षः अस्ति | तस्मिन् वृक्षे औन्नत्यम् इति गुणः वर्तते | यावत् कोऽपि ज्ञाता नास्ति, यावत् औन्नत्य-वृक्षौ ज्ञानस्य विषयः न भवतः, तावत् औन्नत्यसय विशेषणत्वं न सम्भवति | किन्तु तस्मिन् वने ज्ञाता-रूपेण कोऽपि मनुष्यः नास्ति चेदपि गुण-गुणि-सम्बन्धः भवति | अत्र भेदः अस्ति यतोहि विशेषण-विशेष्य-भावः ज्ञानसम्बद्धः, गुण-गुणिनोः सम्बन्धः पदार्थ-सम्बद्धः |
आधार-आधेय-भावः अपि पदार्थ-सम्बद्धः न तु ज्ञानसम्बद्धः | अतः घटः भूतले अस्ति इति स्थितौ, घटः आधेयः, भूतलम् आधारः | ज्ञानस्य विषयः नास्ति चेदपि, ज्ञाता कोऽपि नास्ति चेदपि, तत्र आधार-आधेय-भावः यतोहि अयं भावः पदार्थसम्बद्धः | अतः आधाराधेयभावः गुणगुणिभावः चेत्यनयोः कृते ज्ञाता नापेक्षितः | किन्तु विशेषणविशेष्यभावः ज्ञानसम्बद्धः अतः तत्र ज्ञाता तत्र नितराम् अपेक्षितः | इति सार्वत्रकनियमः | बालके बालकत्वम् इति जातिः अस्ति | तत्र जातिव्यक्त्योः सम्बन्धः अस्ति एव, किन्तु सा च जातिः तदानीं विशेषणम् इति वदामः यदा तादृशं ज्ञानं कस्यचित् मनसि अस्ति |
आहत्य बालके औन्नत्यम् इति गुणः, बालकत्वम् इति जातिः, धनम् इति द्रव्यं, लेखन-क्रिया इति कर्म, घटाभावः इति अभावः— एते सर्वे विशेषणं भवन्ति यदा ज्ञानस्य विषयः सन्ति; नो चेत् ना | इति सामान्यनियमः |
इतः अग्रे, एषु पञ्चसु आधाराधेयभावः अस्त्येव | औन्नत्यं, बालकत्वं, धनं, लेखन-क्रिया, घटाभावः, एते सर्वे आधेयाः, बालकः च तेषाम् आधारः | अतः प्रश्नः उदेति, यत्र यत्र विशेषणविशेष्यभावः तत्र तत्र विशेषणम् आधेयम् इति वा ?
अत्र उदाहृयते यत् एकस्मिन् प्रकोष्ठे केचन बालकाः सन्ति, तेषु अन्यतमः रामबालकः; स च लेखनीम् इच्छति | रामस्य पुरतः चतस्रः लेखन्यः सन्ति, किन्तु ताः लेखन्यः न इच्छति सः | तस्य मित्रं तं पृच्छति "का लेखनी इष्यते भवता ?” प्रकोष्ठे अन्यबालकः श्यामः लिखति, हस्ते अस्ति लेखनी | रामः वदति "श्यामस्य हस्ते या लेखनी अस्ति, ताम् इच्छामि" | अत्र लेखनी विशेष्या, श्यामः विशेषणं लेखन्याः | किन्तु लेखनी विशेष्या सत्यपि आधेया न तु आधारः | श्यामः विशेषणं सत्यपि आधारः न तु आधेयः | अतः यत्र आधाराधेयभावः अस्ति, तत्र विशेषणम् आधेयम् अपि भवितुम् अर्हति, आधारः अपि भवितुम् अर्हति |
अग्रे प्रश्नः उदेति, यत्र यत्र विशेषणविशेष्यभावः तत्र तत्र आधाराधेयभावः इति वा ? इत्युक्तौ विशेषणं सदा आधेयम् अथवा आधारः, द्वयोर्मध्ये एकः भवति एव इति वा ? कुत्रचित् यत्र आधाराधेयभावः नास्ति, तत्रापि विशेषणत्वम् अर्हति वा ?
उत्तरत्वेन चैत्रः इति पुरुषस्य किञ्चित् धनम् अस्ति; किन्तु पार्श्वे नास्ति अपितु वित्तकोशस्य पेटिकायाम् | अत्र धनं पेटिकायां न तु चैत्रस्य सविधे, अतः आधाराधेयभावः नस्ति | किन्तु स्वत्व-स्वामित्व-भावः अस्ति अतः मतुप्-प्रत्ययस्य प्रयोगः योग्यः— "चैत्रः धनवान्" | विशेषणविशेष्यभावः अस्ति किन्तु आधाराधेयभावः नास्ति यतोहि चैत्रः अत्र, धनम् अन्यत्र | शारीरिकरूपेण यदा धनं पार्श्वे नास्ति, तदा आधाराधेयभावः नास्ति; किन्तु धनं चैत्रस्य तु अस्ति | आधाराधेयभावः धनपेटिकयोः “धनं पेटिकायां,” तदाधारेण कस्यचित् तादृशं ज्ञानम् अस्ति चेत् विशेषणविशेष्यभावः अपि अस्ति | स्वत्व-स्वामित्व-भावः धनचैत्रयोः, अतः तदाधारेण कस्यचित् तादृशं ज्ञानम् अस्ति चेत् विशेषणविशेष्यभावः अपि अस्ति— "चैत्रः धनवान्" |
एतावता सारांशः यत् विशेषणविशेष्यभावार्थं ज्ञानस्य विषयः भवेत्; आधाराधेयभावः अस्ति चेत् विशेषणम् आधेयं भवितुम् अर्हति, आधारः भवितुम् अर्हति | किन्तु विशेषणत्वार्थम् आधाराधेयभावस्य आवश्यकता नास्ति; कुत्रचित् विशेषणविशेष्यभावः भवति यत्र आधाराधेयभावः नास्त्येव |
अधुना समवायसम्बन्धः विशेषणं भवितुम् अर्हति वा, इति प्रश्नः | उदाहरणार्थम् अभावविषये | वायौ रूपं नास्ति | अत्र यदि रूपं वायौ अभविष्यत्, तर्हि समवायसम्बन्धेन अभविष्यत् | अतः वायौ रूपं नास्ति समवायसम्बन्धेन | तत्र रूपाभावस्य प्रतियोगिता रूपे | इयं प्रतियोगिता समवायसम्बन्धावच्छिन्ना | समवायसम्बन्धः अस्याः प्रतियोगितायाः अवच्छेदकसम्बन्धः | अतः इयं प्रतियोगिता भिद्यते समवायसम्बन्धेन | कस्याः प्रतियोगितायाः भिद्यते इति चेत्—इयं समवायसम्बन्धावच्छिन्ना प्रतियोगिता कस्याः भिन्ना इति चेत्— कालिकसम्बन्धेन रूपं वायौ अस्ति, रूपाभावः नास्ति | कालिकसम्बन्धेन वायुः अपि अस्ति, रूपम् अपि अस्ति | अतः यत्र कालिकसम्बन्धः अवच्छेदकः भवति, तत्र रूपाभावः नास्ति | यत्र समवायसम्बन्धस्य अवच्छेदकत्वम् अस्ति, तत्र प्रतियोगिता भिन्ना, इयं च कालिकसम्बन्धावच्छिन्ना प्रतियोगिता भिन्ना |
अधुना स्मर्यते यत्र घटः भूतले अस्ति, तत्र आधाराधेयभावः अस्ति; कस्यचित् ज्ञानस्य विषयः नास्ति चेदपि आधाराधेयभावः अस्ति यतोहि आधाराधेयभावः पदार्थसम्बद्धः नतु ज्ञानसम्बद्धः | अवच्छेदकावच्छेद्यभावः अपि तथा— ज्ञाता नास्ति चेदपि एतादृशभावः भवति | किन्तु विशेषणत्वं तदा भवति यदा कस्यचित् ज्ञानस्य विषयो भवति | अतः ज्ञाता नास्ति चेत्, अवच्छेदकावच्छेद्यभावः अस्ति किन्तु विशेषणविशेष्यभावः नास्ति | केवलं वदामः यत् प्रतियोगिता भिद्यते समवायसम्बन्धस्य अवच्छेदक्त्वेन, तत् तु विशेषणार्थं पर्याप्तं नास्ति | समवायसम्बन्धस्य ज्ञानाभावे अवच्छेदकत्वं भवति किन्तु विशेषणत्वं नास्ति; ज्ञानम् अस्ति चेत्, अवच्छेदकत्वम् अपि अस्ति, विशेषणत्वम् अपि अस्ति |
अग्रे, कुत्रचित् समवायसम्बन्धः अवच्छेदेकः, अन्यत्र संयोगसम्बन्धः अवच्छेदः, तत्र सम्बन्धस्य प्रकारभेदात् भिद्यते | यथा गन्धः समवायसम्बन्धेन पृथिव्याम्, अपि च घटः संयोगसम्बन्धेन भूतले | अत्र पृथिवी भिद्यते भूतलात् न केवलं गन्धघटभेदात् अपि तु समवायसम्बन्ध-संयोगसम्बन्धभेदात् | समवायसम्बन्धः अस्ति पृथिव्यां, संयोगसम्बन्धः अस्ति भूतले; समवायसम्बन्धस्य प्रकारभेदात् विशेषणत्वं अस्ति |
किन्तु अग्रे, गन्धः समवायसम्बन्धेन पृथिव्यां, शैत्यं समवायसम्बन्धेन जले | उभयत्र समवायसम्बन्धः; अपि च तर्कसङ्ग्रहग्रन्थे उच्यते यत् समवायः इति पदार्थः एक एव | एक एव इति चेत्, गन्धः शैत्यं च यद्यपि भिन्नं, किन्तु गन्धः च शैत्यं च समानसमवायसम्बन्धेन स्वस्य आधारे युक्तम् | अत्र समस्या व्युत्पन्ना | समवायसम्बन्धः सर्वत्र समानः इति चेत्, यत्र द्वे वस्तू समवायसम्बन्धेन युक्ते, कथं वा सम्बन्धभेदात् भिद्येत ? अत्र प्राचीननैयायिकैः उच्यते यत् यथा अकाशः एक एव, तथापि उपाधिभेदात् नाम देशभेदात् भिन्नः (उत्तरस्यां दिशि, दक्षिणस्यां दिशि), तथैव अत्र गन्धयुक्तसमवायः, शैत्ययुक्तसमवायः इत्यनेन भेदः साध्यते | किन्तु अन्ते तावत् सन्तोषजनकं नासीत् इति भाति यतोहि नव्यनैयायिकैः समवायः एक एव इति सिद्धान्तः त्यक्तः |
अग्रे विशेषः | विशेषः विशेषणं भवति वा ? भवति आं, किन्तु केवलं परमाणोः, अपि च केवलं ज्ञानसन्दर्भे | कोपि न जानाति चेत् विशेषणत्वं नास्ति, अपि च परमाणुः इति विषयो नासित चेत्, विशेषस्य प्रसङ्गः नास्ति |
एतदर्थं सर्वं विचिन्त्य, अस्मिन् करपत्रे बालकस्य दृष्टान्तावसरे, पञ्च विशेषणानि दत्तानि | बालके औन्नत्यम् इति गुणः, बालकत्वम् इति जातिः, धनम् इति द्रव्यं, लेखन-क्रिया इति कर्म, घटाभावः इति अभावः | पञ्चभिः बालकः विशिष्यते अतः विशेषणपञ्चकम् अस्ति | समवायस्य च विशेषस्य च कुत्रचित् विशेषणत्वं विद्यते; अत्र पृथक्तया प्रतिपादितं यतोहि तयोः विशेषणार्थं निकषः इतोऽपि नियमितः |
Swarup – November 2015
---------------------------------