12b - अनुनासिकान्तम् अङ्गम्
सर्वदा सन्धिकार्यात् पूर्वं चिन्तनीयम् अङ्गकार्यप्रसङ्गे | अतः प्रथमतया अङ्गं कीदृशम् ? अङ्गं ग्रह्यादि, वच्यादि, अनिदित्, अनुनासिकान्तम् च | चतुर्षु अङ्गम् अन्यतमं चेत्, विशिष्टम् अङ्गकार्यम् अपेक्षितम् |
अनुनासिकान्तम् अङ्गं चेत्, कित्ङित्-प्रत्यये परे चत्वारि सूत्रणि—
१) अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति (६.४.३७) = वन्-धातोः, अनुनासिकान्त-अनुदात्तोपदेश-धातोः, अनुनासिकान्त-तनादि-धातोः अनुनासिकस्य लोपो भवति झलादि-कित्ङित्-प्रत्यये परे | पञ्चदश धातवः |
२) जनसनखनां सञ्झलोः (६.४.४२) = जन्, सन्, खन् एषां धातूनां नकारस्य स्थाने आकारादेशो भवति झलादि-सन्-प्रत्यये परे झलादि-कित्ङित्-प्रत्यये परे च | त्रयः धातवः |
३) अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) = अनुनासिकान्ताङ्गस्य उपधायाः दीर्घादेशो भवति क्वि च झलादि कित्ङित्-प्रत्यये परे | अवशिष्ट-धातवः |
४) गमहनजनखनघसां लोपः क्ङित्यनङि (६.४.९८) = अजादि-कित्ङित्-प्रत्यये परे गम्, हन्, जन्, खन्, घस् एषां धातूनाम् उपधायाः लोपो भवति | पञ्च धातवः |
मकारान्तानां पदत्वे सति, म्-स्थाने नकारः—
मो नो धातोः (८.२.६४) = मकारान्तस्य धातोः पदस्य नकारादेशो भवति | येन विधिस्तदन्तस्य (१.१.७२) इत्यस्य साहाय्येन मः धातोः इत्यनेन मकारान्तस्य धातोः इत्यस्यापि ग्रहणम् | अलोऽन्त्यस्य (१.१.५२) इत्यस्य साहाय्येन नकारादेशः पूर्णतया धातोः स्थाने न, अपि तु अन्तिमस्य मकारस्य | मः षष्ठ्यन्तं, नः प्रथमान्तं, धातोः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात् अन्ते इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— मः धातोः पदस्य अन्ते नः |
मकारान्तानां अपदत्वे सति, म्-स्थाने नकारः—
म्वोश्च (८.२.६५) = मकारान्तधातोः धात्वन्त-मकारस्य स्थाने नकारादेशो भवति मकारे वकारे च परे | येन विधिस्तदन्तस्य (१.१.७२) इत्यस्य साहाय्येन मः धातोः इत्यनेन मकारान्तस्य धातोः इत्यस्यापि ग्रहणम् | अलोऽन्त्यस्य (१.१.५२) इत्यस्य साहाय्येन नकारादेशः पूर्णतया धातोः स्थाने न, अपि तु अन्तिमस्य मकारस्य | म् च व् च म्वौ, तयोः म्वोः | म्वोः सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | मो नो धातोः (८.२.६४) इत्यस्य पूर्णतया अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— मः धातोः नः म्वोश्च |
अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति (६.४.३७) = वन्-धातोः, अनुनासिकान्त-अनुदात्तोपदेश-धातोः, अनुनासिकान्त-तनादि-धातोः अनुनासिकस्य लोपो भवति झलादि-कित्ङित्-प्रत्यये परे | अनुदात्तः उपदेशे येषां ते, अनुदात्तोपदेशाः बहुव्रीहिः | तनोतिः आदिः येषां ते, तनोत्यादयः बहुव्रीहिः | अनुदात्तोपदेशाश्च वनतिश्च तनोत्यादयश्च तेषामितरेतरद्वन्द्वः अनुदात्तोपदेशवनतितनोत्यादयः, तेषाम् अनुदात्तोपदेशवनतितनोत्यादीनाम् | क् च ङ् तयोरितरेतरद्वन्द्वः क्ङौ, तौ इतौ यस्य तत् क्ङित्, तस्मिन् क्ङिति | अनुदात्तोपदेशवनतितनोत्यादीनां षष्ठ्यन्तम्, अनुनासिक इति लुप्तष्ठीकं पदं, लोपः प्रथमान्तं, झलि सप्तम्यन्तं, क्ङिति सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तादृशम् अङ्गं यस्य अन्ते अनुनासिकवर्णः अस्ति (वनतिं विहाय 'अनुनासिक' इति पदं सर्वेषां विशेषणम्); अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्ते स्थितस्य अनुनासिकवर्णस्य लोपः; यस्मिन् विधिस्तदादावल्ग्रहणे (१.१.७२, वार्तिकम् २९) इत्यनेन झलि क्ङिति इत्युक्तौ झलादौ क्ङिति (तादृशप्रत्ययः यस्य आदौ झल् स्यात्) | अनुवृत्ति-सहितसूत्रम्— अनुनासिक-अनुदात्तोपदेशवनतितनोत्यादीनाम् अङ्गस्य लोपः झलि क्ङिति |
अनेन आहत्य पञ्चदश धातवः निर्दिष्टाः | वन् धातुः (भ्वादिगणे), अनुनासिकान्त-अनुदात्तोपदेश-धातवः (यम्, रम्, नम्, गम्, हन्, मन्), अनुनासिकान्त-तनादि-धातवः (तनु, क्षिणु, क्षणु, ऋणु, तृणु, घृणु, वनु, मनु) | एषु धातुषु मन्-धातुः दिवादिगणे अस्ति; हन्-धातुः अदादिगणे अस्ति; अष्ट धातवः तनादिगणे सन्ति; अवशिष्टाः भ्वादौ एव | एषां धातूनाम् अन्ते स्थितस्य अनुनासिकस्य लोपो भवति झलादि-कित्ङित्-प्रत्यये परे |
जनसनखनां सञ्झलोः (६.४.४२) = जन्, सन्, खन् एषां धातूनां नकारस्य स्थाने आकारादेशो भवति झलादि-सन्-प्रत्यये परे झलादि-कित्ङित्-प्रत्यये परे च | अलोऽन्त्यस्य (१.१.५२) इत्यस्य साहाय्येन आकारादेशः पूर्णतया धातोः स्थाने न, अपि तु अन्तिमस्य नकारस्य | जनश्च सनश्च खन् च तेषामितरेतरद्वन्द्वः जनसनखनः, तेषां जनसनखनाम् | सन् च झल् च तयोरितरेतरद्वन्द्वः सञ्झलौ, तयोः सञ्झलोः | जनसनखनां षष्ठ्यन्तं, सञ्झलोः सप्तम्यन्तं, द्विपदमिदं सूत्रम् | विड्वनोरनुनासिकस्यात् (६.४.४१) इत्यस्मात् आत् इत्यस्य अनुवृत्तिः, अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति (६.४.३७) इत्यस्मात् झलि, क्ङिति इत्यनयोः अनुवृत्तिः | झलि इति अनुवृत्तिः सन् इत्यस्य विशेषणम्; अनेन यत्र सनि इडागमो भवति, तत्र सन् झलादिः नास्ति अतः नकारस्य आत्वं न भवति | सूत्रे स्थितं 'झलि' तु क्ङिति इत्यस्य विशेषणम् | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— जनसनखनाम् अङ्गानाम् आत् झलि सञ्झलोः क्ङिति |
अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) = अनुनासिकान्ताङ्गस्य उपधायाः दीर्घादेशो भवति क्वि च झलादि कित्ङित्-प्रत्यये परे | क्विश्च झल् तयोरितरेतरद्वन्द्वः क्विझलौ, तयोः क्विझलोः | क् च ङ् तयोरितरेतरद्वन्द्वः क्ङौ, तौ इतौ यस्य तत् क्ङित्, तस्मिन् क्ङिति | अनुनासिकस्य षष्ठ्यन्तं, क्विझलोः सप्तम्यन्तं, क्ङिति च सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | नोपधायाः (६.४.७) इत्यस्मात् उपधायाः इत्यस्य अनुवृत्तिः | ढ्रलोपे पूर्वस्य दीर्घोऽणः (६.३.१११) इत्यस्मात् दीर्घः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तादृशम् अङ्गं यस्य अन्ते अनुनासिकवर्णः अस्ति; यस्मिन् विधिस्तदादावल्ग्रहणे (१.१.७२, वार्तिकम् २९) इत्यनेन क्विझलोः क्ङिति इत्युक्तौ क्वि + झलादौ क्ङिति (तादृशप्रत्ययः यस्य आदौ झल् स्यात्) | अनुवृत्ति-सहितसूत्रम्— अनुनासिकस्य अङ्गस्य उपधायाः दीर्घः क्विझलोः क्ङिति |
गमहनजनखनघसां लोपः क्ङित्यनङि (६.४.९८) = अजादि-कित्ङित्-प्रत्यये परे गम्, हन्, जन्, खन्, घस् एषां धातूनाम् उपधायाः लोपो भवति (परन्तु अङ्-प्रत्ययः चेत् लोपः न भवति) | गमश्च हनश्च जनश्च खनश्च घस् च तेषामितरेतरद्वन्द्वो गमहनजनखनघसः, तेषां गमहनजनखनघसाम् | क् च ङ् च क्ङौ, क्ङौ इतौ यस्य सः क्ङित्, तस्मिन् क्ङिति | न अङ् अनङ्, तस्मिन् अनङि | गमहनजनखनघसां षष्ठ्यन्तं, लोपः प्रथमान्तं, क्ङिति सप्तम्यत्नम्, अनङि सप्तम्यतम् अनेकपदमिदं सूत्रम् | अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यस्मात् अचि इत्यस्य अनुवृत्तिः; ऊदुपधाया गोहः (६.४.८९) इत्यस्मात् उपधायाः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— गमहनजनखनघसाम् अङ्गानाम् उपधायाः लोपः अनङि अचि क्ङिति |
नाभ्यस्तस्याचि पिति सार्वधातुके (७.३.८७) = अजादि-पित्-सार्वधातुकप्रत्यये परे अभ्यस्तस्य लघूपधगुणः न भवति | न अव्ययपदम्, अभ्यस्तस्य षष्ठ्यन्तम्, अचि सप्तम्यन्तं, पिति सप्तम्यन्तं, सार्वधातुके सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | पुगन्तलघूपधस्य च (७.३.८६) इत्यस्मात् लघूपधस्य इत्यस्य अनुवृत्तिः, मिदेर्गुणः (७.३.८२) इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अचि पिति सार्वधातुके, अभ्यस्तस्य अङ्गस्य लघूपधस्य गुणः न |
यङ्लुक्-सम्बद्ध-परिभाषा-द्वयम्—
प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणम् (परिभाषा १०१) = अनेन यत् कार्यं औपदेशिकधातौ निर्दिष्टं तत् यङ्लुकि अपि निर्दिष्यते |
किन्तु—
श्तिपा शपाऽनुबन्धेन निर्दिष्टं यद् गणेन च |
यत्रैकाज्ग्रहणं चैव पञ्चैतानि न यङ्लुकि || (परिभाषा १३१)
अनेन श्तिप्-प्रत्ययेन निर्दिष्टं, शप्-प्रत्ययेन निर्दिष्टम्, अनुबन्धेन निर्दिष्टं, गणेन निर्दिष्टम्, एकाच्-ग्रहणेन च, इमानि पञ्चविधसूत्राणि यङ्लुकि न प्रवर्तनीयानि | अस्मिन् च उक्तं यत् अनुबन्धमात्रेण निर्दिष्टं कार्यं यङ्लुकि न भवति | यथा शीङः सार्वधातुके गुणः (७.४.२१) इति सूत्रे शीङ्-धातोः गुणः विधीयते ङकारः इति इत्-संज्ञकवर्णम् अवलम्ब्य | ङकारः इति इत्-संज्ञकवर्णस्य ग्रहणेन एव गुणः विधीयते | यङ्लुगन्तप्रक्रियायाम् इत्-संज्ञकवर्णम् अवलम्ब्य यत् कार्यं तत् न भवति | अतः यङ्लुकि 'शेशी' धातोः शेशेति-शेशीतः-शेश्यति इति रूपाणि; पित्त्वात् एव गुणः नान्यत्र | एवमेव 'दिवादौ, तुदादौ, स्वादौ, क्र्यादौ' इति सङ्केतेन श्यन् इत्यादयः विकरणप्रत्ययाः न विधीयन्ते यतोहि धातुगणेन निर्दिष्टाः | 'गणेन' इति पदेन गणं निमित्तिकृत्य यावत् कार्यं तत् सर्वमपि निषिद्धं यङ्लुकि | अतः केवलं शप् इत्येव भवति यतोहि शप् गणसम्बद्धं न अपितु धातुसाधारणेन विधीयते, धातुमात्रम् अपेक्षितं, धातोः इति कृत्वा कर्तरि शप् (३.१.६८) | अस्य प्रदर्शनार्थं कौमुदीकारः लिखति अत एव श्यन्नादयो न, गणेन निर्देशात्, किं तु शबेव |
परिभाषायाम् एकाच् ग्रहणम् इत्यस्य कथनेन 'एकाच्' घटितानां सूत्राणां प्रवर्तनं यङ्लुकि न भवति | यथा एकाच उपदेशेऽनुदात्तात् (७.२.१०) इत्यनेन उपदेशे अनुदात्तात् एकाच: अङ्गात् इट् न भवति | अनेन इडागम-निषेधः | यथा डुकृञ् करणे इति धातौ ककारात् परः ऋकारः अनुदात्तः इत्यतः अस्मात् परः इडागमः न भवति | कृ + तृच् → कर्ता | वह प्रापणे इति धातौ वकारात् परः अकारः अनुदात्तः इत्यतः अस्मात् परः इडागमः न भवति | वह् + तृच् → वोढः | किन्तु अयं निषेधः यङ्लुकि न भवति | तदर्थं 'जाहिता, जाहिष्यति, बेभेदिता इत्यादिषु स्थलेषु एकाच उपदेशेऽनुदात्तात् (७.२.१०) इत्यनेन 'इट्' इत्यस्य निषेधो न भवति |
हो हन्तेर्ञ्णिन्नेषु (७.३.५४) = हन्-धातोः हकारस्य स्थाने कवर्गादेशो भवति ञिति णिति प्रत्यये परे, नकारे परे च | स्थानेऽन्तरतमः (१.१.५०) इत्यनेन कवर्गे घकारः आदिष्टो भवति | ञ् च ण् च ञ्णौ इतरेतरद्वन्द्वः, तौ इतौ ययोस्तौ ञ्णितौ, बहुव्रीहिः | ञ्णितौ च नश्च तेषामितरेतरद्वन्द्वो ञ्णिन्नाः, तेषु ञ्णिन्नेषु | इक्श्तिपौ धातुनिर्देशे इति वक्तव्यम् इति वार्तिकेन (३.३.१०८, वार्तिकम्), धातुनिर्देशे हन् धातोः हन्ति, षष्ठीविभक्तौ हन्तेः | हः षष्ठ्यन्तं, हन्तेः षष्ठ्यन्तं, ञ्णिन्नेषु सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | चजोः कु घिण्ण्यतोः (७.३.५२) इत्यस्मात् कुः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— हन्तेः अङ्गस्य हः कु ञ्णिन्नेषु |
लोपो व्योर्वलि (६.१.६६) = वल्-प्रत्याहारे परे पूर्वं विद्यमानयोः वकारयकारयोः लोपो भवति | व् च य् च व्यौ इतरेतरद्वन्द्वः, तयोः व्योः | लोपः प्रथमान्तं, व्योः षष्ठ्यन्तं, वलि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— व्योः लोपः वलि
यङ्लुगन्तधातूनां कृते सिद्ध-तिङ्प्रत्ययाः
अधः ये प्रत्ययाः स्थूलाक्षरैः लिखिताः, ते पितः इति धेयम् | यङ्लुगन्तधातूनाम् आत्मनेपदं न भवति |
लट्-लकारः लोट्-लकारः
ति/ईति तः अति तु/ईतु/तात् ताम् अतु
सि/ईषि थः थ हि/तात् तम् त
मि/ईमि वः मः आनि आव आम
लङ्-लकारः विधिलिङ्-लकारः
त्/ईत् ताम् उः यात् याताम् युः
स्(ः)/ईः तम् त याः यातम् यात
अम् व म याम् याव याम
धातवः
गम् → जङ्गम् [यङ्लुकि]
क्षिनु हिंसायाम् → क्षिन् → चेक्षिन्* [यङ्लुकि]
खनु अवदारणे → खन् → चङ्खन् [यङ्लुकि]
जन् → जञ्जन् [यङ्लुकि]
हन् हिंसागत्योः → जङ्घन् [यङ्लुकि]
तन् → तन्तन् [यङ्लुकि]
यकारान्तधातवः
हय् गतौ → जाहय् [यङ्लुकि]
*अत्र निमित्तत्वात् णत्वम्; अग्रे प्रक्रियावशात् यथासङ्गं णत्वं कर्तव्यम् | अतः क्षन्, क्षिन्, रन्, ऋन् इति मूलधातवः न तु क्षण्, क्षिण्, रण्, ऋण् | किन्तु कण्-धातुः स्वभावेन णकारान्तः | चेक्षिन् + ति → नश्चापदान्तस्य झलि (८.३.२४) | चेक्षिन् + ईति → अट्कुप्वाङ्नुम्व्यवायेऽपि (८.४.२) |
लोटि—
केषुचित् स्थलेषु असिद्धवदत्राभात् (६.४.२२) इत्यनेन आभीयकार्यप्रसङ्गवशात् अतो हेः (६.४.१०५) इत्यस्य दृष्ट्या पूर्वकार्यम् असिद्धम् इति कारणतः हि-प्रत्ययस्य लुक् न भवति | अस्य उदाहरणम् उपदिष्ट-हन्-धातोः प्रसङ्गे लभ्यते |
हन्तेर्जः (६.४.३६) = हि-प्रत्यये परे हन्-धातोः स्थाने ज-आदेशो भवति | हन्तेः षष्ठ्यन्तं, जः प्रथमान्तं, द्विपदमिदं सूत्रम् | ज-आदेशः अनेकाल् अतः अनेकाल्शित् सर्वस्य (१.१.५५) इत्यनेन सर्वस्य स्थाने भवति न तु अन्त्यस्य | शा हौ (६.४.३५) इत्यस्मात् हौ इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकाराः | अनुवृत्ति-सहितसूत्रम्— हन्तेः अङ्गस्य जः हौ |
अनेकाल्शित् सर्वस्य (१.१.५५) = आदेशः अनेकाल् शित् च चेत्, सर्वस्य स्थाने आदेशः भवति न तु अन्त्यस्य | अलोऽन्त्यस्य (१.१.५२) इत्यस्य अपवादः | न एकः अनेकः नञ्तत्पुरुषः | अनेकः अल् यस्य सः अनेकाल्, बहुव्रीहिः | श इत् यस्य सः शित्, बहुव्रीहिः | अनेकाल् च शित् च अनेकाल्शित्, बहुव्रीहि-गर्भ-समाहारद्वन्द्वः | अल् इति प्रत्याहारे सर्वे वर्णाः अन्तर्भूताः; अनेकाल् इत्युक्तौ तादृशः आदेशः यस्मिन् एक एव वर्णः न अपि तु अनेके वर्णाः | अनेकाल् प्रथमान्तं, शित् प्रथमान्तं, सर्वस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | स्थानेऽन्तरतमः (१.१.५०) इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— अनेकाल्शित् सर्वस्य स्थाने |
हन् + हि → ज + हि
अधुना अङ्गम् अदन्तं जातम् अतः अतो हेः (६.४.१०५) इत्यनेन हि इत्यस्य लुक् विधीयते |
अतो हेः (६.४.१०५) = ह्रस्व-अकारात् अङ्गात् परस्य हि इत्यस्य लुक् (लोपः) भवति | अतः पञ्चम्यन्तं, हेः षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | चिणो लुक् (६.४.१०४) इत्यस्मात् लुक् इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः (अत्र अङ्गात् भवति विभक्तिपरिणाम इति सिद्धान्तेन) | अनुवृत्ति-सहितसूत्रम्— अतः अङ्गात् हेः लुक् |
असिद्धवदत्राभात् (६.४.२२) = कमपि आश्रयम् अधिकृत्य आभीय-कार्यं, द्वितीयं समानाश्रितम् आभीय-कार्यं प्रति असिद्धं भवति | अधिकारसूत्रम् | भस्य (६.४.१२९) इति अधिकारसूत्रेण भ-संज्ञा सम्बद्धकार्याणि भवन्ति षष्ठाध्यायस्य अन्तपर्यन्तम् | असिद्धवदत्राभात् (६.४.२२) इत्यनेन ६.४.२३ इत्यस्मात् आरभ्य, भस्य इत्यस्य अधिकारस्य अन्तपर्यन्तम् (६.४.१७५), एषां कार्याणां नाम आभीय-कार्यम् | असिद्धवत् अव्यपदयम्, अत्र अव्यपदयम्, आ अव्यपदयं, भात् पञ्चम्यन्तम्, अनेकपदमिदं सूत्रम् | 'असिद्धवत्' इत्युक्ते 'यथा न अजनिष्यत' | सूत्रस्य विधानं जातं, कार्यञ्च सिद्धं; किन्तु अनेन सूत्रेण द्वितीयसूत्रं प्रति प्रथमस्य कार्यं 'यथा नाभविष्यत्' अतः 'असिद्धवत्' इत्युक्तम् | ‘समानाश्रितं कार्यम्' इति अर्थः उदेति 'अत्र' इति अव्ययपदेन | अस्मिन् + त्रल् → 'अत्र' | 'अस्मिन्' इत्यस्य सप्तम्यन्तत्वेन निमित्तत्वम् इति आशयः | सूत्रं स्वयं सम्पूर्णम्— असिद्धवत् अत्र आ भात् |
हन्तेर्जः (६.४.३६), अतो हेः (६.४.१०५) इत्याभ्यां यत् कार्यं सिध्यति, उभयत्र तत् कार्यं आभीयकार्यम् | द्वाभ्यां च सूत्राभ्यां यत् कार्यं विधीयते, तस्य कार्यस्य आश्रयः 'हि'-प्रत्ययः | अतः एकवारं यदा एकम् हि-प्रत्ययाश्रितम् आभीयकार्यं जातं, तदा यदा द्वितीयं हि-प्रत्ययाश्रितम् आभीयकार्यं विधीयते, तत् कार्यं प्रति प्रथमम् आभीयकार्यं असिद्धं भवति |
असिद्धवदत्राभात् (६.४.२२) इत्यनेन अतो हेः (६.४.१०५) इति सूत्रस्य दृष्ट्या हन्तेर्जः (६.४.३६) इति सूत्रेण यत् कार्यं जातं, तत् कार्यम् असिद्धम् अस्ति अतः अतो हेः (६.४.१०५) इत्यस्य दृष्ट्या हन्-धातोः स्थाने ज-आदेशः न जातः | तस्मात् अङ्गम् अदन्तं नास्ति, अतः अतो हेः (६.४.१०५) इत्यनेन हि इत्यस्य लुक् न भवति |
हन् + हि → ज + हि → जहि
१२d - अनुनासिकान्तम् अङ्गम्.pdf
Swarup – October 2015