06 - आशीर्लिङ् परस्मैपदे
आशीर्लिङ्-लकारः परस्मैपदे
आशिषि लिङ्लोटौ (३.३.१७३) = आशीर्वादार्थे धातुभ्यः लिङ् लोट् च लकारौ भवतः | अप्राप्तस्येष्टस्यार्थस्य प्राप्तुमिच्छा इति काशिका— अप्राप्तं प्राप्तुम् इच्छा इति अर्थः | लिङ् च लोट् च तयोरितरेतरद्वन्द्वः लिङ्लोटौ | आशिषि सप्तम्यन्तं, लिङ्लोटौ प्रथमान्तं, द्विपदमिदं सूत्रम् |
परस्मैपदे आशीर्लिङ्-लकारः अनिडादिषु अन्यतमः | अत्र यासुट्-आगमो भवति इति कारणतः सिद्धतिङ्-प्रत्ययाः यकारादयः; तदर्थं च न वलादयः | प्रेरणार्थे णिच्, कर्मणि भावे यक्, परस्मैपदे आशीर्लिङ्, यङन्ताः, यङ्लुगन्ताः च इत्येते सर्वे अनिडादयः | क्रमेण एषां पाठः जायमानः; परम् इड्व्यवस्था, इडादीनां च पाठः |
आर्धधातुकस्येड्वलादेः (७.२.३५) = आर्धधतुक-प्रत्ययस्य आदौ वल्-प्रत्याहारे अन्यतमवर्णः अस्ति चेत्, तस्य इडागमो भवति | वलादेरार्धधातुकस्येडागमः स्यात् | इट्-आगमः टित् अतः आद्यन्तौ टकितौ (१.१.४६) इत्यनेन प्रत्ययस्य आदौ आयाति | वल्-प्रत्याहारे यकारं विहाय सर्वाणि व्यञ्जनानि अन्तर्गतानि | वल् आदौ यस्य स वलादिः बहुव्रीहिः, तस्य वलादेः | आर्धधातुकस्य षष्ठ्यन्तम्, इट् प्रथमान्तं, वलादेः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अङ्गात् वलादेः आर्धधातुकस्य इट् |
परस्मैपदे सिद्धतिङ्-प्रत्ययाः एते—
यात् यास्ताम् यासुः
याः यास्तम् यास्त
यासम् यास्व यास्म
लिङाशिषि (३.४.११६) = आशीर्वादार्थे यत् लिङ् तस्य स्थाने यत् तिङ्, तस्य आर्धधातुकसंज्ञा भवति | आशिषि लिङः तिङ् आर्धधातुकसंज्ञकः स्यात् | लिङ् लुप्तषष्ठीकम्, आशिषि सप्तम्यन्तं, द्विपदमिदं सूत्रम् | तिङ्शित् सार्वधातुकम् (३.४.११३) इत्यस्मात् तिङ् इत्यस्य अनुवृत्तिः | आर्धधातुकं शेषः (३.४.११४) इत्यस्मात् आर्धधातुकम् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— लिङाशिषि आर्धधातुकं तिङ् |
आर्धधातुकप्रत्यये परे धात्वादेशाः—
आर्धधातुकविषये केषाञ्चित् धातूनां धात्वादेशो भवति |
१. अस्-धातोः आर्धधातुकप्रत्यये परे भू-आदेशः | अस् + यात् → भूयात् |
अस्तेर्भूः (२.४.५२) = आर्धधातुकविवक्षायाम् अस्-धातोः स्थाने भू-आदेशो भवति | अनेकाल्शित् सर्वस्य (१.१.५५) इत्यनेन आदेशः सर्वस्य स्थाने न तु अन्त्यस्य | अस्तेः षष्ठ्यन्तं, भूः प्रथमान्तं, द्विपदमिदं सूत्रम् | आर्धधातुके (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अस्तेः भूः आर्धधातुके |
अनेकाल्शित् सर्वस्य (१.१.५५) = आदेशः अनेकाल् शित् च चेत्, सर्वस्य स्थाने आदेशो भवति न तु अन्त्यस्य | अलोऽन्त्यस्य (१.१.५२) इत्यस्य अपवादः | न एकः अनेकः नञ्तत्पुरुषः | अनेकः अल् यस्य सः अनेकाल्, बहुव्रीहिः | श इत् यस्य सः शित्, बहुव्रीहिः | अनेकाल् च शित् च अनेकाल्शित्, बहुव्रीहि-गर्भ-समाहारद्वन्द्वः | अल् इति प्रत्याहारे सर्वे वर्णाः अन्तर्भूताः; अनेकाल् इत्युक्तौ तादृशः आदेशः यस्मिन् एक एव वर्णः न अपि तु अनेके वर्णाः | अनेकाल् प्रथमान्तं, शित् प्रथमान्तं, सर्वस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | स्थानेऽन्तरतमः (१.१.५०) इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— अनेकाल्शित् सर्वस्य स्थाने |
२. चक्षिङ्-धातोः आर्धधातुकप्रत्यये परे ख्याञ्-आदेशः | चक्ष् + यात् → ख्यायात्, क्शायात् |
चक्षिङः ख्याञ् (२.४.५४) = चक्षिङः ख्याञादेशो भवति आर्धधातुके | चक्षिङः षष्ठ्यन्तं, ख्याञ् प्रथमान्तं, द्विपदमिदं सूत्रम् | आर्धधातुके (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— चक्षिङः ख्याञ् आर्धधातुके |
चक्षिङः ख्याञ् (२.४.५४) इत्यनेन चक्षिङ्-धातोः आर्धधातुकप्रत्यये परे ख्याञ्-आदेशः | किन्तु अत्र भाष्यकारो वदति यत् क्शादिरयमादेशः, इत्युक्तौ आदेशः 'ख्या' न अपि तु 'ख्शा', तदा चर्त्वादेशेन 'क्शा' भवति | अपि च पूर्वत्रासिद्धम् (८.२.१) इति अधिकारे एकं वार्तिकम् अस्ति ख्शाञः शस्य यो वा वक्तव्यः | अनेन ख्शाञ् इति आदेशस्य शकारस्य विकल्पेन यकारादेशो भवति | फलितार्थः अयं यत् आर्धधातुकप्रत्यये परे चक्षिङ्-धातोः स्थाने ख्याञ्, ख्शाञ् इति द्वौ आदेशौ सिद्धौ | एकवारं ख्याञ्, अपरस्मिन् पक्षे ख्शाञ् |
३. अज्-धातोः आर्धधातुकप्रत्यये परे वी-आदेशः | अज् + यात् → वीयात् |
अजेर्व्यघञपोः (२.४.५६) = अजेर्धातोः वी इत्ययमादेशः स्यादार्धधातुकविषये घञ् च अप् च वर्जयित्वा | अजेः षष्ठ्यन्तं, वी प्रथमान्तम्, अघञपोः सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | आर्धधातुके (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अजेः वी आर्धधातुके अघञपोः |
४. ब्रू-धातोः आर्धधातुकप्रत्यये परे वच्-आदेशः | ब्रू + यात् → उच्यात् |
ब्रुवो वचिः (२.४.५३) = ब्रुवो वचिरादेशो भवति आर्धधातुकविषये | इकार उच्चारणार्थः | ब्रुवः षष्ठ्येकवचनं, वचिः प्रथमैकवचनं, द्विपदमिदं सूत्रम् | आर्धधातुके (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— ब्रुवः वचिः आर्धधातुके |
५. हन्-धातोः आशीर्लिङः प्रत्यये परे वध-आदेशः | हन् + यात् → वध्यात् |
हनो वध लिङि (२.४.४२) = हन्तेर् धातोः वध इत्ययम् आदेशो भवति लिङि परे आर्धधातुके | हनः षष्ठ्यन्तं, वध लुप्तप्रथमान्तं, लिङि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | आर्धधातुके (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— हनः वध आर्धधातुके लिङि |
वध-आदेशे अकारस्य लोपः—
अतो लोपः (६.४.४८) = अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन अतः अङ्गस्य नाम न केवलम् ह्रस्व-अकारः इत्यङ्गस्य, अपि तु ह्रस्व-अकारान्तस्य अङ्गस्य | अलोऽन्तस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव लोपः (न तु अङ्गस्य) | उपदेशे अनुवर्तते अतः प्रसक्तिः केवलम् उपदेशावस्थायाम्* | अतः षष्ठ्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम् | अनुदात्तोपदेश-वनति-तनोत्यादीना-मनुनासिकलोपो झलि क्ङिति (६.४.३७) इत्यस्मात् उपदेशे इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१), आर्धधातुके (६.४.४६) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूर्त्रम्— अतः अङ्गस्य लोपः आर्धधातुके उपदेशे |
६. एजन्तधातूनाम् आत्वम्—
आदेच उपदेशेऽशिति (६.१.४५) = उपदेशे एजन्तस्य धातोरात्त्वं न तु शिति | उपदेशे इत्यनेन औपदेशिकधातूनामेव प्रसक्तिः, न तु आतिदेशिकधातूनाम् | उपदेशावस्थायाम्, अशिति प्रत्यये परे, एजन्तधातूनाम् अन्त्यस्य एचः स्थाने आत्वादेशः | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तदन्तविधिः; अलोन्त्यस्य (१.१.५२) इत्यनेन अन्त्यस्य अलः स्थाने | एच् इत्यनेन 'ए, ऐ, ओ, औ' | श् इत् यस्य स शित्, न शित् अशित्, तस्मिन् (विषये) अशिति, नञ्तत्पुरुषः | आत् प्रथमान्तम्, एचः षष्ठ्यन्तम्, उपदेशे सप्तम्यन्तम्, अशिति सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | लिटि धातोरनभ्यासस्य (६.१.८) इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— एचः धातोः आत् उपदेशे अशिति |
यथा—
ग्लै → ग्ला, म्लै → म्ला, ध्यै → ध्या, शो → शा, सो → सा, वे → वा, छो → छा
लिङ्लकारे परस्मैपदे यासुट्-आगमः
विधिलिङ्लकारे आशीर्लिङ्लकारे च परस्मैपदे यासुट्-आगमः भवति |
यासुट् परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) = लिङ्-लकारस्य परस्मैपदि-प्रत्ययानां यासुट्-आगमो भवति; स च आगमो ङिद्वत् उदात्तः च | विधिसूत्रम् अतिदेशसूत्रं च | लिङः सीयुट् (सामान्यसूत्रं किन्तु अनेन आत्मनेपदानांम् एव कृते) इत्यस्य अपवादः | आद्यन्तौ टकितौ (१.१ .४६) इत्यनेन यासुट्, प्रत्ययात् प्राक् आयाति | यासुट् प्रथमान्तं, परस्मैपदेषु सप्तम्यन्तम्, उदात्तः प्रथमान्तं, ङित् प्रथमान्तं, च अव्ययपदम्, अनेकपदमिदं सूत्रम् | लिङः सीयुट् (३.४.१०२) इत्यस्मात् लिङः इत्यस्य अनुवृत्तिः | लस्य (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— लिङः लस्य परस्मैपदानां यासुट् उदात्तः ङित् च |
तिङ्-प्रत्ययसिद्धिः
परस्मैपदिधातूनां मूल-तिङ्प्रत्ययाः
तिप् तस् झि
सिप् थस् थ
मिप् वस् मस्
यासुट् परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) इत्यनेन लिङ्-लकारस्य परस्मैपदि-प्रत्ययानां यासुट्-आगमो भवति | तर्हि यासुट्-आगमः तिङ्-प्रत्ययानामेव अस्ति; अयञ्च आगमः टित् अतः आद्यन्तौ टकितौ (१.१ .४६) इत्यनेन प्रत्ययात् प्राक् आयाति |
सूत्राणि
१) इतश्च (३.४.१००) = ङित्-लकारस्य स्थाने यः परस्मैपद-ह्रस्व-इकारान्त-तिङ्प्रत्ययः, तस्य अन्त्य-इकारस्य लोपो भवति |
२) तस्थस्थमिपां तान्तन्तामः (३.४.१०१) = "तस्, थस्, थ, मिप्" ङित्सु लकारेषु एतेषां प्रत्ययानां स्थाने क्रमेण "ताम्, तम्, त, अम्" एते आदेशाः |
३) झेर्जुस् (३.४.१०८) = लिङ्-लकारस्य झि इत्यस्य स्थाने जुस्-आदेशो भवति |
४) नित्यं ङितः (३.४.९९) = ङितः लकारस्य सकारान्त-उत्तमपुरुष-प्रत्ययस्य अन्त्यसकार-लोपो भवति |
विचन्त्य सिद्धतिङ्प्रत्ययान् व्युत्पादयामः—
तिप् → यासुट् + तिप् → यास् + ति → इतश्च (३.४.१००) इत्यनेन इकारलोपः → यास् + त् → यास्त् → स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यनेन सकारलोपः → यात्
तस् → यासुट् + तस् → यास् + तस् → तस्थस्थमिपां तान्तन्तामः (३.४.१०१) इत्यनेन ङित्सु लकारेषु तस् इत्यस्य स्थाने ताम् → यास् + ताम् → 'स्त्' इति संयोगः न पदान्ते, न वा झल्परः अतः सकारलोपो न → वर्णमेलने → यास्ताम्
झि → यासुट् + झि → यास् + झि → झेर्जुस् (३.४.१०८) इत्यनेन लिङ्-लकारस्य झि-स्थाने जुस्-आदेशः → यास् + जुस् → अनुबन्धलोपे → यास् + उस् → वर्णमेलने → यासुस् → रुत्वविसर्गौ → यासुः
सिप् → यासुट् + सिप् → यास् + सि → इतश्च (३.४.१००) इत्यनेन इकारलोपः → यास् + स् → वर्णमेलने → यास्स् → स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यनेन सकारलोपः → यास् → रुत्वविसर्गौ → याः
थस् → यासुट् + थस् → यास् + थस् → तस्थस्थमिपां तान्तन्तामः (३.४.१०१) इत्यनेन ङित्सु लकारेषु थस् इत्यस्य स्थाने तम् → यास् + तम् → 'स्त्' इति संयोगः न पदान्ते, न वा झल्परः अतः सकारलोपो न → वर्णमेलने → यास्तम्
थ → यासुट् + थ → यास् + थ → तस्थस्थमिपां तान्तन्तामः (३.४.१०१) इत्यनेन ङित्सु लकारेषु थ इत्यस्य स्थाने त → यास् + त → 'स्त्' इति संयोगः न पदान्ते, न वा झल्परः अतः सकारलोपो न → वर्णमेलने → यास्त
मिप् → यासुट् + मिप् → यास् + मि → तस्थस्थमिपां तान्तन्तामः (३.४.१०१) इत्यनेन ङित्सु लकारेषु मिप् इत्यस्य स्थाने अम् → यास् + अम् → वर्णमेलने → यासम्
वस् → यासुट् + वस् → यास् + वस् → नित्यं ङितः (३.४.९९) इत्यनेन ङितः लकारस्य सकारान्त-उत्तमपुरुष-प्रत्ययस्य अन्त्यसकार-लोपः → यास् + व → वर्णमेलने → यास्व
मस् → यासुट् + मस् → यास् + मस् → नित्यं ङितः (३.४.९९) इत्यनेन ङितः लकारस्य सकारान्त-उत्तमपुरुष-प्रत्ययस्य अन्त्यसकार-लोपः → यास् + म → वर्णमेलने → यास्म
आशीर्लिङः प्रत्ययसिद्धिबोधो यदा मनसि आगतः, तदा अग्रे गमनात् प्राक् एकवारं तुलनात्मकदृष्ट्या परिशील्यतां विधिलिङः सिद्धतिङ्प्रत्ययाः | अदन्ताङ्गस्य कृते अत्र प्रत्ययसिद्धिः प्रदर्शितः; अनदन्ताङ्गस्य कृते अत्र प्रत्ययसिद्धिः प्रदर्शितः | त्रिषु स्थलेषु साम्यं कुत्र भेदश्च कुत्र इति द्रष्टव्यम् |
इतश्च (३.४.१००) = ङित्-लकारस्य स्थाने यः परस्मैपद-ह्रस्व-इकारान्त-तिङ्प्रत्ययः, तस्य अन्त्य-इकारस्य लोपो भवति | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन इकारान्तः इत्यर्थः | अलोऽन्त्यस्य (१.१.५२) इत्यनेन प्रत्ययस्य अन्तिमवर्णस्य (इकारस्य) लोपः न तु पूर्णप्रत्ययस्य | इतश्च लोपः परस्मैपदेषु (३.४.९७) इत्यस्मात् लोपः, परस्मैपदेषु इत्यनयोः अनुवृत्तिः | नित्यं ङितः (३.४.९९) इत्यस्मात् ङितः इत्यस्य अनुवृत्तिः | लस्य (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— ङितः लस्य इतः परस्मैपदस्य लोपः |
स्कोः संयोगाद्योरन्ते च (८.२.२९) = संयोगस्य प्रथमसदस्यः सकारः ककारः वा चेत्, संयोगस्य प्रथमसदस्यलोपो भवति न तु द्वितीयसदस्यस्य, झलि पदान्ते च | स् च क् च तयोरितरेतरद्वन्द्वः स्कौ, तयोः स्कोः | संयोगस्य आदि संयोगादि, तयोः संयोगाद्योः, षष्ठीतत्पुरुषः | संयोगान्तस्य लोपः (८.२.२३) इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः | झलो झलि (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— संयोगाद्योः स्कोः लोपः झलि पदस्य अन्ते च |
तस्थस्थमिपां तान्तन्तामः (३.४.१०१) = "तस्, थस्, थ, मिप्" ङित्सु लकारेषु एतेषां प्रत्ययानां स्थाने क्रमेण "ताम्, तम्, त, अम्" एते आदेशाः | तश्च थश्च थश्च मिप् च तेषामितरेतरद्वन्द्वः तस्थस्थमिपः, तेषां तस्थस्थमिपाम् | ताम् च तम् च तश्च अम् च तेषामितरेतरद्वन्द्वः तान्तन्तामः | तस्थस्थमिपां षष्ठ्यन्तं, तान्तन्तामः प्रथमान्तं, द्विपदमिदं सूत्रम् | नित्यं ङितः (३.४.९९) इत्यस्मात् ङितः इत्यस्य अनुवृत्तिः | लस्य (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— ङितः लस्य तस्थस्थमिपां तान्तन्तामः |
झेर्जुस् (३.४.१०८) = लिङ्-लकारस्य झि इत्यस्य स्थाने जुस्-आदेशो भवति | झेः षष्ठ्यन्तं, जुस् प्रथमान्तं, द्विपदमिदं सूत्रम् | लिङः सीयुट् (३.४.१०२) इत्यस्मात् लिङः इत्यस्य अनुवृत्तिः | लस्य (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— लिङः लस्य झेः जुस् | झोऽन्तः (७.१.३) इत्यस्य अपवादः |
नित्यं ङितः (३.४.९९) = ङितः लकारस्य सकारान्त-उत्तमपुरुष-प्रत्ययस्य अन्त्यसकार-लोपो भवति | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन सकारान्तः इत्यर्थः | अलोऽन्त्यस्य (१.१.५२) इत्यनेन प्रत्ययस्य अन्तिमवर्णस्य (सकारस्य) लोपः न तु पूर्णप्रत्ययस्य | नित्यं द्वितीयान्तं क्रियाविशेषणम्, ङितः षष्ठ्यन्तम्, द्विपदमिदं सूत्रम् | स उत्तमस्य (३.४.९८) इति सूत्रस्य पूर्णतया अनुवृत्तिः; इतश्च लोपः परस्मैपदेषु (३.४.९७) इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः | लस्य (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— ङितः लस्य सः उत्तमस्य नित्यं लोपः |
एवञ्च परस्मैपदे सिद्धतिङ्-प्रत्ययाः एते—
यात् यास्ताम् यासुः
याः यास्तम् यास्त
यासम् यास्व यास्म
अतिदेशः
लिङ्लकारे यासुट्-आगमः ङिद्वत् इत्युक्तं यासुट् परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) इति सूत्रेण | किन्तु तदग्रिमे सूत्रे (किदाशिषि) उच्यते यत् आशीर्लिङि स च यासुट् कित् भवति | अतः यासुट् परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) इत्यनेन लिङि यासुट्-आगमस्य ङित्त्वं सामान्यातिदेशः; किदाशिषि (३.४.१०४) तस्य अपवादः |
किदाशिषि (३.४.१०४) = आशिषि लिङ: यासुट् कित् | आशीर्लिङ्लकारस्य परस्मैपदेषु प्रत्ययेषु यः यासुट् आगमो भवति, सः कित् भवति | काशिकाकारो वदति यत् वस्तुतः प्रत्ययस्यैव कित्त्वं भवति आगमस्य कित्त्वप्रयोजनाभावात्; अतः फलितार्थः एवं यत् प्रत्ययस्य कित्त्वम् | कित् प्रथमान्तम्, आशिषि सप्तम्यन्तं, द्विपदमिदं सूत्रम् | लिङः सीयुट् (३.४.१०२) इत्यस्मात् लिङः इत्यस्य अनुवृत्तिः | यासुट् परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) इत्यस्मात् परस्मैपदेषु, यासुट् इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— आशिषि लिङ: परस्मैपदेषु यासुट् कित् |
धेयं यत् तृतीयाध्याये सर्वत्र एते अधिकाराः अनुवर्तन्ते— प्रत्यय: (३.१.१) , परश्च (३.१.२), धातो: (३.१.९१), लस्य (३.४.७७)
आशीर्लिङि गुणनिषेधः अपेक्षते | यासुट् परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) इत्यनेन यासुट् ङित् भवति; ङित्त्वात् क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधः सिध्यति | तर्हि कित्त्वस्य किमर्थम् आवश्यकता ? कित्त्वेन न केवलं क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधः सिध्यति, अपि तु वचिस्वपियजादीनां किति (६.१.१५) इत्यनेन सम्प्रसारणम्, अपि च जाग्रोऽविचिण्णल्ङित्सु (७.३.८५) इत्यनेन जागृ-धातोः प्रसङ्गे गुणः भवति न तु गुणनिषेधः |
जाग्रोऽविचिण्णल्ङित्सु (७.३.८५) = जागृ-धातोः गुणो भवति वि, चिण्, णल्, ङित् इत्येषां प्रत्ययाणां पर्युदासे | वि इति प्रत्ययविशेषः, चिण् इति लुङ्-लकारस्य, णल् इति लिट्-लकारस्य, ङित् इत्यनेन इत्-संज्ञकः ङकारः यस्य | वि, ङित् इत्यनयोः विषये गुणनिषेधः इदानीमपि भवति | चिण्, णल् इत्यनयोः विषये वृद्धिः इदानीमपि भवति | अन्यत्र सर्वत्र गुणः भवति एव | अचो ञ्णिति (७.२.११५), क्क्ङिति च (१.१.५) इत्यनयोः अपवादः | विश्च चिण् च णल् च ङित् च, तेषामितरेतरद्वन्द्वः विचिण्णल्ङितः, न विचिण्णल्ङितः अविचिण्णल्ङितः, तेषु अविचिण्णल्ङित्सु | जाग्रः षष्ठ्यन्तम्, अविचिण्णल्ङित्सु सप्तम्यन्तम् | मिदेर्गुणः (७.३.८२) इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— जाग्रः गुणः अविचिण्णल्ङित्सु |
आशीर्लिङि तिङन्तव्युत्पादनविधिः
अस्माभिः ज्ञायते यत् आर्धधातुकप्रक्रियायां धातुगणम् अनुसृत्य चिन्तनं न भवति यतोहि धातुगणविशिष्टविकरणप्रत्ययाः न भवन्ति | अत्र तिङन्तरूपाणां निर्माणविधिः विशिष्यते धातोः अन्तिमस्वरम् अनुसृत्य | सूत्राणाम् आयोजनं तादृशम्, अतः प्रक्रियायाः आयोजनमपि तादृशं भवेत् | तदर्थं यथापूर्वम् आर्धधातुकप्रक्रियायां चिन्तनम् अजन्तधातूनां हलन्तधातूनां कृते विभक्तम् | तत्र पुनः उपविभजनम् अजन्तधातुषु आकारान्ताः, इकारान्ताः, ईकारान्ताः, उकारान्ताः, ऊकारान्ताः, ऋकारान्ताः, ॠकारान्ताः, एजन्ताः च | उपविभजनं हलन्तधातुषु अदुपधाः, इदुपधाः, उदुपधाः, ऋदुपधाः, अवशिष्टाः च |
आशीर्लिङ् परस्मैपदे इति पाठस्य तिङन्तव्युत्पत्तिविधिः चतुर्षु भागेषु विभक्तः—
1. सामान्याः अजन्तधातवः हलन्तधातवः च
2. सम्प्रसारणिनः धातवः
3. अनिदितः धातवः
4. चुरादिगणीयधातवः प्रेरणार्थे णिजन्तधातवः च
1. सामान्याः अजन्तधातवः हलन्तधातवः च
a) अजन्तधातवः
१. आकारान्ताः एजन्ताः च धातवः
अत्र मूले आकारान्ताः, एजन्ताः च धातवः मिलित्वा द्रष्टव्याः यतोहि अशिति प्रत्यये परे, सर्वे एजन्तधातवः आदेच उपदेशेऽशिति (६.१.४५) इति सूत्रेण आकारान्ताः भवन्ति | आशीर्लिङि ये प्रत्ययाः धातुभ्यः विधीयन्ते ते सर्वे अशितः, अतः अत्र एजन्तधातवः आकारान्ताः भवन्ति |
अ) सामान्याः आकारान्तधातवः
एषां किमपि कार्यं नास्ति, केवलं धातु-प्रत्यययोः मेलनम् | यथा वा + यात् → वायात्, पा + यात् → पायात्, भा + यात् → भायात् |
वायात् वायास्ताम् वायासुः
वायाः वायास्तम् वायास्त
वायासम् वायास्व वायास्म
सर्वे सामान्याकारान्तधातूनाम् आशीर्लि`ङि रूपाणि एवमेव भवन्ति |
आ) आकारान्तानाम् एत्वम्
द्वादशानाम् आकारान्तानां धातूनाम् एत्वं भवति |
एर्लिङि (६.४.६७) = घुमास्थागापाजहातिसामङ्गानाम् एत्वं स्यादार्धधातुके किति लिङि | घुमास्थागापाजहातिसां हलि (६.४.६६) इत्यनेन एषां धातूनाम् आकारस्य स्थाने ईकारादेशो भवति स्म; प्रकृतसूत्रम् अस्य अपवादः | एः प्रथमान्तं, लिङि सप्तम्यन्तं, द्विपदमिदं सूत्रम् | घुमास्थागापाजहातिसां हलि (६.४.६६) इत्यस्मात् घुमास्थागापाजहातिसाम् इत्यस्य अनुवृत्तिः | दीङो युडचि क्ङिति (६.४.६३) इत्यस्मात् किति इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१), आर्धधातुके (६.४.४६) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रं— घुमास्थागापाजहातिसाम् अङ्गस्य एः आर्धधातुके किति लिङि |
घुमास्थागापाजहातिसां हलि (६.४.६६) = घु, मा, स्था, गा, पा, हा (ओहाक्), सा (षो) एषां धातूनाम् आकारस्य स्थाने ईकारादेशो भवति हलादि-कित्ङित्-आर्धधातुकप्रत्यये परे | धात्वादेः षः सः (६.१.६४), आदेच उपदेशेऽशिति (६.१.४५) इत्याभ्यां षो → सा | घुश्च, माश्च, स्थाश्च, गाश्च, पाश्च, जहातिश्च, साश्च तेषामितरेतरद्वन्द्वः, घुमास्थागापाजहातिसाः, तेषां घुमास्थागापाजहातिसाम् | घुमास्थागापाजहातिसां षष्ठ्यन्तं, हलि सप्तम्यन्तं, द्विपदमिदं सूत्रम् | दीङो युडचि क्ङिति (६.४.६३) इत्यस्मात् क्ङिति इत्यस्य अनुवृत्तिः | आतो लोप इटि च (६.४.६४) इत्यस्मात् आतः इत्यस्य अनुवृत्तिः | ईद्यति (६.४.६५) इत्यस्मात् ईत् इत्यस्य अनुवृत्तिः | आर्धधातुके (६.४.४६) इत्यस्य अधिकारः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— घुमास्थागापाजहातिसाम् आतः अङ्गस्य ईत् हलि क्ङिति आर्धधातुके |
घुमास्थागापाजहातिसां हलि (६.४.६६) इत्यनेन यक्-प्रत्यये परे दा + यक् → दीय → दीयते | परन्तु परस्मैपदे आशीर्लिङि एर्लिङि (६.४.६७) इत्यनेन एत्वं न तु ईकारादेशः | दा + यात् → दे + यात् → देयात् | (प्रकृतसूत्रे 'आर्धधातुके किति लिङि' इत्युक्तम् | अस्य फलितार्थः परस्मैपदे आशीर्लिङि एव | विधिलिङ् सार्वधातुकत्वात् तस्य न भवति; किदाशिषि (३.४.१०४) इत्यनेन आशिषि लिङ: परस्मैपदेषु एव कित्त्वम् अतः आत्मनेपदे न भवति |)
दाधाघ्वदाप् (१.१.२०) इत्यनेन दो → दा, डुधाञ् → धा, देङ् → दा, धेट् → धा, डुदाञ् → दा, दाण् → दा इति षट् धातवः घु-सज्ञकाः भवन्ति |
(दाण्, डुधाञ् = to give; दो = to cut, divide; देङ् = to protect; डुधाञ् = to hold, bring up; धेट् = to suck, drink)
अनेन एते षट् घु-संज्ञकधातावः च मा, स्था, गा, पा पाने (भ्वादिगणे), हा, सा (षो) इति द्वादशानां धातूनाम् एत्वं भवति किति लिङि प्रत्यये परे |
यथा दा + यात → देयात् |
देयात् देयास्ताम् देयासुः
देयाः देयास्तम् देयास्त
देयासम् देयास्व देयास्म
एवमेव— धा + यात् → धेयात्, मा + यात् → मेयात्, स्था + यात् → स्थेयात्, गा + यात् → गेयात्, पा + यात् → पेयात्, हा + यात् → हेयात्, सा + यात् → सेयात् |
धेयं यत् 'मा' इत्यनेन मा मापने इत्येव ग्राह्यंं; मेङ्, माङ् इति न गृह्येते यतोहि तौ द्वौ ङित्त्वात् आत्मनेपदसंज्ञकौ | आत्मनेपदे लिङ् कित् नास्ति | किदाशिषि (३.४.१०४) इत्यनेन केवलम् आशिषि लिङ: परस्मैपदेषु यासुट् कित् इत्युक्तम् | अन्यच्च पा-धातुः इत्युक्तौ पा पाने एव (नाम भ्वादौ, पिबति लटि); अदादिगणस्य पा-धातोः एत्वं न भवति अतः तत्र पायात् एव भवति |
इ) संयोगपूर्व-आकारान्तधातवः
अत्र विकल्पेन एत्वं भवति | वाऽन्यस्य संयोगादेः (६.४.६८) इति सूत्रेण | घ्रा, ध्मा, म्ना, ष्णा, श्रा, द्रा, प्रा, ख्या, प्रा, ज्ञा इत्यादीनां विकल्पेन एत्वम् | ग्ला + यात् → ग्लेयात् / ग्लायात् इत्यादिकम् |
वाऽन्यस्य संयोगादेः (६.४.६८) = घुमास्थादिभ्यः भिन्नानां संयोगादीनां धातूनाम् आकारस्य विकल्पेन एकारादेशो भवति आर्धधातुके किति लिङि प्रत्यये परे | घुमास्थादेरन्यस्य संयोगादेर्धातोरात एत्वं वार्धधातुके किति लिङि | 'अन्यस्य' इत्यनेन घुमास्थागापाजहातिभिन्नस्य | 'अन्यस्य इति किम् ? स्थेयात् |’ स्था इति एक एव तादृशः धातुः घुमास्थादिषु इति कृत्वा 'स्थेयात् अन्यस्य' | 'आतः अङ्गस्य' इत्यस्मिन् तदन्तविधिः | संयोगः आदिर्यस्य स संयोगादिः, तस्य संयोगादेः | वा अव्ययपदम्, अन्यस्य षष्ठ्यन्तं, संयोगादेः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | एर्लिङि (६.४.६७) इत्यस्मात् एः, लिङि इत्यनयोः अनुवृत्तिः | आतो लोप इटि च (६.४.६४) इत्यस्मात् आतः इत्यस्य अनुवृत्तिः | दीङो युडचि क्ङिति (६.४.६३) इत्यस्मात् किति इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— अन्यस्य संयोगादेः आतः अङ्गस्य एः वा आर्धधातुके किति लिङि |
२. इकारान्त/ईकारान्त, उकारान्त/ऊकारान्त च धातवः
इगन्तधातुप्रसङ्गे आर्धधातुक-तिङ्-प्रत्ययानां प्रभावेन सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन धातोः इकः गुणो भवति स्म सर्वत्र, तदा किदाशिषि (३.४.१०४) इत्यनेन आशिषि लिङ: यासुट् कित्, तेन च सम्पूर्णतिङ्-प्रत्ययः कित् | तस्मात् क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधः |
अकृत्सार्वधातुकयोर्दीर्घः (७.४.२५) इति सूत्रेण एते सर्वे धातवः दीर्घाः भवन्ति | यथा—
जि + यात् → जीयात्
हु + यात् → हूयात्
भू + यात् → भूयात्
अकृत्सार्वधातुकयोर्दीर्घः (७.४.२५) = अजन्ताङ्गस्य दीर्घादेशो भवति यकारादिप्रत्यये परे, किन्तु स च प्रत्ययः कृत्-संज्ञकः अथवा सार्वधातुकं चेत् न भवति | अजन्ताङ्गस्य दीर्घो यादौ प्रत्यये न तु कृत्सार्वधातुकयोः | अचश्च (१.२.२८) इत्यनेन अचः एव दीर्घत्वम् | येन विधिस्तदन्तस्य (१.१.७२), अलोऽन्त्यस्य (१.१.५२) | कृत् च सार्वधातुकञ्च कृत्सार्वधातुके, न कृत्सार्वधातुके अकृत्सार्वधातुके, तयोः अकृत्सार्वधातुकयोः | अकृत्सार्वधातुकयोः सप्तम्यन्तं, दीर्घः प्रथमान्तं, द्विपदमिदं सूत्रम् | अयङ् यि क्ङिति (७.४.२२) इत्यस्मात् यि इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अचः अङ्गस्य दीर्घः यि अकृत्सार्वधातुकयोः |
अचश्च (१.२.२८) = यत्र यत्र ह्रस्वः, दीर्घः, प्लुतः च विधीयन्ते, तत्र तत्र अचः इति षष्ठ्यन्तं पदम् आगत्य उपस्थितं भवति | परिभाषा-सूत्रम् | अचः षष्ठ्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | ऊकालोऽज्झ्रस्वदीर्घप्लुतः (१.२.२७) इत्यस्मात् अच्, ह्रस्वदीर्घप्लुतः इत्यनयोः अनुवृत्तिः | तत्र विभक्तिपरिणामेन तृतीयान्तं भवति, ह्रस्वदीर्घप्लुतैः (शब्दैः) | अनुवृत्ति-सहितसूत्रम्— ह्रस्वदीर्घप्लुतैः अचः च अच् |
परन्तु ब्रू-धातोः आर्धधातुकप्रत्यये परे वच्-आदेशः | ब्रू + यात् → उच्यात् |
ब्रुवो वचिः (२.४.५३) = ब्रुवो वचिरादेशो भवति आर्धधातुकविषये | अनुवृत्ति-सहितसूत्रम्— ब्रुवः वचिः आर्धधातुके |
३. ऋकारान्तधातवः
रिङ्शयग्लिङ्क्षु (७.४.२८) इत्यनेन ऋकारान्तधातूनां धात्वन्तऋकारस्य स्थाने रिङ्-आदेशो भवति श-प्रत्यये परे, यक्-प्रत्यये परे, लिङ्-लकारस्य च यकारादिप्रत्यये परे | ङकारः इत्संज्ञकः | यथा—
कृ + यात् → रिङ् शयग्लिङ्क्षु (७.४.२८) → क् + रिङ् + यात् → क्रि + यात् → क्रियात्
हृ + यात् → ह्रियात्
भृ + यात् → भ्रियात्
सृ + यात् → स्रियात्
रिङ् शयग्लिङ्क्षु (७.४.२८) = ऋकारान्तस्य अङ्गस्य रिङ्-आदेशो भवति श-प्रत्यये, यक्-प्रत्यये, यकारादि-आर्धधातुक-लिङ्-प्रत्यये च परे | शश्च यक् च लिङ् च तेषामितरेतरद्वन्द्वः शयग्लिङः, तेषु शयग्लिङ्क्षु | रिङ् प्रथमान्तं, शयग्लिङ्क्षु सप्तम्यन्तं, द्विपदमिदं सूत्रम् | अयङ् यि क्ङिति (७.४.२२) इत्यस्मात् यि, अकृत्सार्वधातुकयोर्दीर्घः (७.४.२५) इत्यस्मात् असार्वधातुके, रीङ् ऋतः (७.४.२७) इत्यस्मात् ऋतः इत्येषाम् अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— ऋतः अङ्गस्य रिङ् यि असार्वधातुके शयग्लिङ्क्षु |
यस्मिन् विधिः तदादावल्ग्रहणे इति परिभाषया यि नाम यकारादौ (यस्य आदौ यकारः, तस्मिन् परे) | यि असार्वधातुके च लिङः विशेषणम् | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन ऋतः अङ्गस्य नाम न केवलम् ऋकारस्य इत्यङ्गस्य, अप तु ऋकारान्तस्य अङ्गस्य | रिङ् ङित्, अतः अलोऽन्त्यस्य (१.१.५२) इत्यस्य बाधकसूत्रम् अनेकाल् शित्सर्वस्य (१.१.५५), तत् प्रबाध्य ङिच्च (१.१.५३) इति सूत्रेण आदेशः ङित् चेत्, तर्हि अनेकाल् चेदपि अङ्गस्य अन्त्यस्य एव स्थाने आदेशः |
येन विधिस्तदन्तस्य (१.१.७२) = विशेषणं तदन्तस्य अपि भवति, स्वस्यापि भवति | परिभाषासूत्रम् | सोऽन्ते यस्य स तदन्तः, तस्य तदन्तस्य बहुव्रीहिः | विधीयते इति विधिः | येन तृतीयान्तम्, विधिः प्रथमान्तम्, तदन्तस्य षष्ठ्यन्तम्, त्रिपदमिदं सूत्रम् | स्वं रूपं शब्दस्याऽशब्दसंज्ञा (१.१.६८) इत्यस्मात् स्वम्, रूपम् इत्यनयोः अनुवृत्तिः | विभक्तिपरिणामः इत्यनेन षष्ठ्यन्ते भवतः, स्वस्य रूपस्य | अनुवृत्ति-सहितसूत्रम्— येन विधिः तदन्तस्य स्वस्य रूपस्य (च) |
ङिच्च (१.१.५३) = ङित्-आदेशः अनेकाल् चेदपि अन्त्यस्य एव स्थाने भवति | इदं सूत्रम् अनेकाल्शित् सर्वस्य (१.१.५५) इति सूत्रस्य अपवादः; अनेकाल्शित् सर्वस्य (१.१.५५) तु अलोऽन्त्यस्य (१.१.५२) इत्यस्य अपवादः | ङकारः इत यस्य सः ङित्, बहुव्रीहिः | ङित् प्रथमान्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | अलोऽन्त्यस्य (१.१.५२) इत्यस्मात् अलः, अन्त्यस्य इत्यनयोः अनुवृत्तिः | स्थानेऽन्तरतमः (१.१.५०) इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— ङित् च अन्त्यस्य अलः स्थाने |
अस्य द्वौ अपवादौ—
अ) ऋ-धातुः संयोगादि-ऋकारान्तधातवः च
गुणोऽर्तिसंयोगाद्योः (७.४.२९) इत्यनेन ऋकारान्तधातोः आदौ संयोगः अस्ति चेत्, धातोः गुणादेशो भवति श-प्रत्यये परे, यक्-प्रत्यये परे, लिङ्-लकारस्य यकारादिप्रत्यये च परे |
यथा—
स्मृ + यात् → स्म + यात् → स्मर् + यात् → स्मर्यात्
ध्वृ + यात् → ध्व + यात् → ध्वर् + यात् → ध्वर्यात्
ह्वृ + यात् → ह्व + यात् → ह्वर् + यात् → ह्वर्यात्
स्वृ + यात् → स्व + यात् → स्वर् + यात् → स्वर्य → स्वर्य + ते → स्वर्यात्
ऋ-धातुः अपि तथा—
ऋ + यात् → अ + यात् → अर् + यात् → अर्यात्
गुणोऽर्तिसंयोगाद्योः (७.४.२९) = ऋधातोः संयोगादिऋकारान्तधातोः च अङ्गस्य गुणो भवति यकि परे यकारादि-लिङि-आर्धधातुकप्रत्यये परे च | अर्ति इत्यनेन ऋ-धातुः, धातुनिर्देशे श्तिपि | ऋतः इत्यस्य विशेषणं संयोगादिः यतोहि ऋ-धातोः आदौ संयोगः न सम्भवति | अर्तिश्च संयोगादिश्च तयोरितरेतरद्वन्द्वः, अर्तिसंयोगादी, तयोः अर्तिसंयोगाद्योः | असार्वधातुके इत्यनेन आर्धधातुके | तदन्तविधिः, अलोऽन्त्यस्य, तदादिविधिः इति त्रयः प्रवर्तन्ते | संयोगादिः संयोगः आदिर्यस्य सः बहुव्रीहिः | गुणः प्रथमान्तम्, अर्तिसंयोगाद्योः षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | रीङृतः (७.४.२७) इत्यस्मात् ऋतः इत्यस्य अनुवृत्तिः | अकृत्सार्वधातुकयोर्दीर्घः (७.४.२५) इत्यस्मात् असार्वधातुके इत्यस्य अनुवृत्तिः | रिङ् शयग्लिङ्क्षु (७.४.२८) इत्यस्मात् यग्लिङोः इत्यस्य अनुवृत्तिः ('श' इति न आनीयते यतोहि तुदादौ संयोगादिऋदन्तधातुः नास्ति एव) | अयङ् यि क्ङिति (७.४.२२) इत्यस्मात् यि इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अर्तिसंयोगाद्योः ऋतः अङ्गस्य गुणः यकि यि लिङि असार्वधातुके |
आ) जागृ-धातुः
जाग्रोऽविचिण्णल्ङित्सु (७.३.८५) इत्यनेन किति प्रत्यये परेऽपि गुणः—
जागृ + यात् → जागर् + यात् → जागर्यात्
जाग्रोऽविचिण्णल्ङित्सु (७.३.८५) = जागृ-धातोः गुणो भवति वि, चिण्, णल्, ङित् इत्येषां प्रत्ययाणां पर्युदासे | वि इति प्रत्ययविशेषः, चिण् इति लुङ्-लकारस्य, णल् इति लिट्-लकारस्य, ङित् इत्यनेन इत्-संज्ञकः ङकारः यस्य | वि, ङित् इत्यनयोः विषये गुणनिषेधः इदानीमपि भवति | चिण्, णल् इत्यनयोः विषये वृद्धिः इदानीमपि भवति | अन्यत्र सर्वत्र गुणः भवति एव | अचो ञ्णिति (७.२.११५), क्क्ङिति च (१.१.५) इत्यनयोः अपवादः | विश्च चिण् च णल् च ङित् च, तेषामितरेतरद्वन्द्वः विचिण्णल्ङितः, न विचिण्णल्ङितः अविचिण्णल्ङितः, तेषु अविचिण्णल्ङित्सु | जाग्रः षष्ठ्यन्तम्, अविचिण्णल्ङित्सु सप्तम्यन्तम् | मिदेर्गुणः (७.३.८२) इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— जाग्रः गुणः अविचिण्णल्ङित्सु |
४. ॠकारान्ताः धातवः
अ) अनोष्ठ्यपूर्व-ऋकारान्तधातवः
यस्य धातोः अन्तिमवर्णः दीर्घॠकारः, अपि च तस्मात् प्राक् यः वर्णः सः ओष्ठ्यवर्णो नास्ति नाम पवर्गीयः अथवा वकारो नास्ति, स च धातुः अनोष्ठ्यपूर्व-ऋकारान्तधातुः | यथा तॄ, जॄ, गॄ, कॄ, शॄ इत्यादयः धातवः |
एतादृशानां धातूनां कार्यम् एवं भवति—
तॄ + यात् → ॠत इद्धातोः (७.१.१००) इत्यनेन ॠदन्तधातोः अङ्गस्य ह्रस्व-इकारादेशः → ति + यात् → उरण् रपरः (१.१.५१) इत्यनेन ऋकारस्य स्थाने अण्-आदिष्टः चेत्, सः अण् सदा रपरः → तिर् + यात् → हलि च (८.२.७७) इत्यनेन रेफान्तधातूनाम् उपधायां स्थितः इक्-वर्णः दीर्घो हलि परे → तीर् + यात् → तीर्यात्
ॠत इद्धातोः (७.१.१००) = ॠदन्तस्य धातोः अङ्गस्य ह्रस्व-इकारादेशो भवति | किति ङिति प्रत्यये परे एव इति बोध्यं; नो चेत् गुणः | कित्-ङित् भिन्नप्रत्ययः परश्चेत्, गुणे सति इकारादेशस्य प्रसक्तिर्न भवति | येन विधिस्तदन्तस्य (१.१.७२) इत्यस्य साहाय्येन ॠतः इत्यनेन ॠदन्तस्य इत्यस्यापि ग्रहणम् | अलोऽन्त्यस्य (१.१.५२) इत्यस्य साहाय्येन पूर्णतया धातोः स्थाने न, अपि तु अन्तिमस्य ॠकारस्य स्थाने ह्रस्व-इकारादेशः |
अङ्गस्य (६.४.१) इत्यस्य अधिकारः; प्रत्ययः न भवति चेत् इदं कार्यं न स्यादेव, नो चेत् अनेन धातोः अपि मूलरूपं परिवर्तेत | ॠतः षष्ठ्यन्तम्, इत् प्रथमान्तम्, धातोः षष्ठ्यन्तम्, त्रिपदमिदं सूत्रम् | अनुवृत्ति-सहितसूत्रम्— ॠतः धातोः अङ्गस्य इत् |
उरण् रपरः (१.१.५१) = ऋकारस्य स्थाने यदा अण्-आदेशः भवति, तदा सः अण् सदा रपरः भवति | ऋकारेण त्रिंशत्-प्रकारकः ऋकारः भवति इति बोध्यम् | रः परो यस्य सः रपरः | उः षष्ठ्यन्तम्, अण् प्रथमान्तम्, रपरः प्रथमान्तम्, त्रिपदमिदं सूत्रम् | स्थानेऽन्तरतमः (१.१.५०) इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— उः स्थाने अण् रपरः |
हलि च (८.२.७७) = रेफान्तानां वकारान्तानां च धातूनाम् उपधायां स्थितः इक्-वर्णः दीर्घो भवति हलि परे | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तदन्तविधिः अतः र्वोः इत्यनेन येषाम् धातूनाम् अन्ते रेफः वकारश्च, तेषां ग्रहणम् | हलि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | सिपि धातो रुर्वा (८.२.७४) इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः; र्वोरुपधाया दीर्घ इकः (८.२.७६) इत्यस्य पूर्णतया अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— र्वोः धातोः उपधायाः इकः दीर्घः हलि |
एवमेव—
जॄ + यात् → जि + यात् → जिर् + यात् → जीर्यात्
गॄ → गीर्यात्,
कॄ → कीर्यात्
दॄ → दीर्यात्
शॄ → शीर्यात्
आ) ओष्ठ्यपूर्व-ऋकारान्तधातवः
यस्य धातोः अन्तिमवर्णः दीर्घॠकारः, अपि च तस्मात् प्राक् यः वर्णः सः ओष्ठ्यवर्णः नाम पवर्गीयः अथवा वकारः, स च धातुः ओष्ठ्यपूर्व-ऋकारान्तधातुः | यथा पॄ, वॄ इत्यादयः धातवः |
एतादृशानां धातूनां कार्यम् एवं भवति—
पॄ + यात् → उदोष्ठ्यपूर्वस्य (७.१.१०२) इत्यनेन ओष्ठ्यपूर्वस्य ॠकारान्ताङ्गस्य ऋकारस्य ह्रस्वः उकारादेशः → पु + यात् → उरण् रपरः (१.१.५१) इत्यनेन ऋकारस्य स्थाने अण्-आदिष्टः चेत्, सः अण् सदा रपरः → पुर् + यात् → हलि च (८.२.७७) इत्यनेन रेफान्तधातूनाम् उपधायां स्थितः इक्-वर्णः दीर्घो हलि परे → पूर् + यात् → पूर्यात्
उदोष्ठ्यपूर्वस्य (७.१.१०२) = ओष्ठ्यपूर्वस्य ॠकारान्ताङ्गस्य ॠकारस्य ह्रस्वः उकारादेशो भवति | येन विधिस्तदन्तस्य (१.१.७२) इत्यस्य साहाय्येन तदन्तविधिः अतः तादृशम् अङ्गं यस्य अन्ते ॠकारः अस्ति, न तु ॠकारः इति अङ्गम्; अलोऽन्त्यस्य (१.१.५२) इत्यनेन अङ्गान्तस्य वर्णस्य स्थाने उदादेशः, न तु अङ्गस्य पूर्णस्य | ओष्ठ्याः नाम पवर्गीय-वर्णाः | ओष्ठयोः भवः ओष्ठ्यः | ओष्ठ्यः पूर्वो यस्मात्, सः ओष्ठ्यपूर्वः बहुव्रीहिः, तस्य ओष्ठ्यपूर्वस्य (ॠवर्णस्य) | उत् प्रथमान्तम्, ओष्ठ्यपूर्वस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | ॠत इद् धातोः (७.१.१००) इत्यस्मात् ॠतः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— ओष्ठ्यपूर्वस्य ॠतः अङ्गस्य उत् |
एवमेव—
वॄ + यात् → वु + यात् → वुर् + यात् → वूर्यात्
भॄ → भूर्यात्
इति सामान्य-अजन्तधातूनां परस्मैपदे आशीर्लिङि पाठः समाप्तः |
b) हलन्तधातवः
परस्मैपदे आशीर्लिङः किदाशिषि (३.४.१०४) इत्यनेन कित्त्वं भवति | कित्त्वात् क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधः | गुणनिषेधं विहाय अन्यत् किमपि कार्यं नास्ति |
यथा—
पठ् + यात् → पठ्यात्
लिख् + यात् → लिख्यात्
नन्द् + यात् → नन्द्यात्
धात्वादेशाः
धात्वादेशो यत्र प्रसक्तः, तत्र सदा स्मर्तव्यः कर्तव्यश्च |
सर्वेषु आर्धधातुकप्रत्ययेषु परेषु एते धात्वादेशाः अवश्यं भवन्ति—
अस् + यत् → अस्तेर्भूः (२.४.५२) → भूयात्
चक्ष् + यात् → चक्षिङः ख्याञ् (२.४.५४) → ख्यायात्
अज् + यात् → अजेर्व्यघञपोः (२.४.५६) → वीयात् |
हन्-धातोः आशीर्लिङः प्रत्यये परे वध-आदेशः—
हन् + यात् → हनो वध लिङि (२.४.४२) → वध्यात् |
इति सामान्य-हलन्तधातूनां परस्मैपदे आशीर्लिङि पाठः समाप्तः |
2. सम्प्रसारणिधातवः
किदाशिषि (३.४.१०४) इत्यनेन आशीर्लिङ्लकारस्य परस्मैपदेषु सर्वे तिङ्प्रत्ययाः कितः, अतः वचिस्वपियजादीनां किति (६.१.१५), ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च (६.१.१६) इति सूत्राभ्यां सम्प्रसारणं भवति | आहत्य द्वाभ्यां सूत्राभ्यां नवदशानां धातूनां सम्प्रसारणम् | प्रथमे सूत्रे एकादश धातवः उक्ताः, द्वितीये च नव धातवः उक्ताः | परन्तु वेञ्-धातुः वय्-धातुः च वस्तुतः एक एव समानः अतः मिलित्वा नवदश न तु विंशतिः धातवः |
वचिस्वपियजादीनां किति (६.१.१५) = वच्, स्वप्, यज्, वप्, वह्, वस्, वद्, वेञ्, ह्वेञ्, श्वि, व्येञ् इत्येषां धातूनां सम्प्रसारणं भवति किति प्रत्यये परे | यज् आदिर्येषां ते यजादयः | वचिश्च स्वपिश्च यजादयश्च तेषामितरेतरद्वन्द्वो वचिस्वपियजादयः, तेषां वचिस्वपियजादीनाम् | वचिस्वपियजादीनां षष्ठ्यन्तं, किति सप्तम्यन्तं, द्विपदमिदं सूत्रम् | ष्यङः सम्प्रसारणम् पुत्रपत्योस्तत्पुरुषे (६.१.१३) इत्यस्मात् सम्प्रसारणम् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— वचिस्वपियजादीनां सम्प्रसारणं किति |
ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च (६.१.१६) = ग्रह्, ज्या, वय्, व्यध्, वश्, व्यच्, व्रश्च्, प्रच्छ्, भ्रस्ज्, एषां सम्प्रसारणं भवति किति ङिति प्रत्यये परे | इतरेतरद्वन्द्वः, षष्ठीविभक्तौ | ग्रहि-ज्या-वयि-व्यधि-वष्टि-विचति-वृश्चति-पृच्छति-भृज्जतीनां षष्ठ्यन्तं, ङिति सप्तम्यन्तं, च अव्ययं, त्रिपदमिदं सूत्रम् | वचिस्वपियजादीनां किति (६.१.१५) इत्यस्मात् किति इत्यस्य अनुवृत्तिः; ष्यङः सम्प्रसारणम् पुत्रपत्योस्तत्पुरुषे (६.१.१३) इत्यस्मात् सम्प्रसारणम् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति किति च सम्प्रसारणम् |
इग्यणः सम्प्रसारणम् (१.१.४५) = यणः स्थाने यः इक्-प्रत्याहारे स्थितवर्णः आदिष्टः, तस्य सम्प्रसारण-संज्ञा भवति | इक् प्रथमान्तं, यणः षष्ठ्यन्तं, सम्प्रसारणम् प्रथमान्तं, त्रिपदमिदं सूत्रम् | सूत्रं सम्पूर्णम्— यणः इक् सम्प्रसारणम् |
सम्प्रसारणाच्च (६.१.१०८) = सम्प्रसारण-संज्ञक-वर्णात् अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशो भवति | सम्प्रसारणात् पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | इको यणचि (६.१.७७) इत्यस्मात् अचि, अमि पूर्वः (६.१.१०७) इत्यस्मात् पूर्वः इत्यनयोः अनुवृत्तिः भवतः | एकः पूर्वपरयोः (६.१.८४), संहितायाम् (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्— सम्प्रसारणात् च अचि पूर्वपरयोः एकः पूर्वः संहितायाम् |
न सम्प्रसारणे सम्प्रसारणम् (६.१.३७) = सम्प्रसारणे परे पूर्वं स्थितस्य सम्प्रसारणं न भवति | न अव्ययपदं, सम्प्रसारणे सप्तम्यन्तं, सम्प्रसारणं प्रथमान्तं, त्रिपदमिदं सूत्रम् | सूत्रं सम्पूर्णम्— न सम्प्रसारणे सम्प्रसारणम् |
अभ्यासः—
सम्प्रसारणिधातुषु हलन्तधातवः—
ग्रह् + यात् → गृ + अ + ह् + यात् → गृ + ह् + यात् → गृह्यात्
व्रश्च् + यात् →
प्रच्छ् + यात् →
भ्रस्ज्* + यात् →
व्यध् + यात् →
व्यच् + यात् →
वच् + यात् →
स्वप् + यात् →
यज् + यात् →
वप् + यात् →
वह् + यात् →
वद् + यात् →
वश् + यात् →
*सम्प्रसारणं कृत्वा श्चुत्वं, तदा जश्त्वम् अपेक्षितम् |
शासिवसिघसीनाञ्च (८.३.६०) = शास्, वस्, घस् इत्येषां धातूनाम् इण्-प्रत्याहारस्थवर्णोत्तरस्य कवर्गीयवर्णोत्तरस्य च सकारस्य षत्वादेशो भवति | सकारः आदेशस्य प्रत्ययस्य च अवयवः नास्ति इति कारणेन आदेशप्रत्यययोः (८.३.५९) इत्यनेन षत्वं न सम्भवति; तस्माच्च अस्य सूत्रस्य आवश्यकता | शासिश्च वसिश्च घसिश्च तेषामितरेतरद्वन्द्वः, शासिवसिघसयः, तेषां शासिवसिघसीनाम् | शासिवसिघसीनां षष्ठ्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | सहेः साडः सः (८.३.५६) इत्यस्मात् सः इत्यस्य अनुवृत्तिः | अपदान्तस्य मूर्धन्यः (८.३.५५) इत्यस्मात् मूर्धन्यः इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अनुवृत्तिः | इण्कोः (८.३.५७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— शासिवसिघसीनां च इण्कोः सः मूर्धन्यः संहितायाम् |
वस् + यात् → वचिस्वपियजादीनां किति (६.१.१५) → उस् + यात् → शासिवसिघसीनाञ्च (८.३.६०) → उष्यात्
सम्प्रसारणिधातुषु अजन्तधातवः—
हलः (६.४.२) = अङ्गावयवात् हलः यदुत्तरं संप्रसारणं तदन्तस्याङ्गस्य दीर्घो भवति | यः हल्-वर्णः अङ्गस्य अवयवः, तस्मात् परे स्थितं यत् अङ्गान्तं सम्प्रसारणं, तस्य दीर्घत्वं भवति | हलः पञ्चम्यन्तम् एकपदमिदं सूत्रम् | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तादृशम् अङ्गं यस्य अन्ते सम्प्रसारणसंज्ञकवर्णः अस्ति; अचश्च (१.२.२८), अलोऽन्त्यस्य (१.१.५२) इत्याभ्यां तस्य अङ्गस्य अन्तिमवर्णस्य अचः दीर्घादेशः | सम्प्रसारणस्य (६.३.१३९) इत्यस्मात् सम्प्रसारणस्य इत्यस्य अनुवृत्तिः | ढ्रलोपे पूर्वस्य दीर्घोऽणः (६.३.१११) इत्यस्मात् दीर्घः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— हलः सम्प्रसारणस्य अङ्गस्य दीर्घः |
अकृत्सार्वधातुकयोर्दीर्घः (७.४.२५) = अजन्ताङ्गस्य दीर्घादेशो भवति यकारादिप्रत्यये परे, किन्तु स च प्रत्ययः कृत्-संज्ञकः अथवा सार्वधातुकं चेत् न भवति | अनुवृत्ति-सहितसूत्रम्— अचः अङ्गस्य दीर्घः यि अकृत्सार्वधातुकयोः |
ज्या + यात् → जि + आ + यात् → जि + यात् → हलः (६.४.२) → जी + यात् → अकृत्सार्वधातुकयोर्दीर्घः (७.४.२५) → जी + यात् → जीयात्
श्वि + यात् →
एजन्तधातूनाम् आत्वम्—
आदेच उपदेशेऽशिति (६.१.४५) = उपदेशे एजन्तस्य धातोरात्त्वं न तु शिति | उपदेशे इत्यनेन औपदेशिकधातूनामेव प्रसक्तिः, न तु आतिदेशिकधातूनाम् | उपदेशावस्थायाम्, अशिति प्रत्यये परे, एजन्तधातूनाम् अन्त्यस्य एचः स्थाने आत्वादेशः | अनुवृत्ति-सहितसूत्रम्— एचः धातोः आत् उपदेशे अशिति |
व्येञ् + यात् →
वेञ् + यात् →
ह्वेञ् + यात् →
3. अनिदितः धातवः
अनिदितां हल उपधायाः क्ङिति (६.४.२४) इत्यनेन अनिदितां हलन्तानां धातूनाम् उपधायां स्थितस्य नकारस्य लोपो भवति किति ङिति प्रत्यये परे | किदाशिषि (३.४.१०४) इत्यनेन आशीर्लिङ्लकारस्य परस्मैपदेषु सर्वे तिङ्प्रत्ययाः कितः, अतः अनिदितां धातूनाम् उपधा-स्थितस्य नकारस्य लोपः |
अनिदितां हल उपधायाः क्ङिति (६.४.२४) = येषां हलन्त-धातूनां ह्रस्व-इकारस्य इत्-संज्ञा नास्ति, तेषाम् उपधायां नकारः अस्ति चेत्, तस्य नकारस्य लोपः भवति किति ङिति प्रत्यये परे | इत् इत् अस्ति येषाम् ते इदितः, न इदितः, अनिदितः, बहुव्रीहिगर्भः नञ्तत्पुरुषसमासः, तेषाम् अनिदिताम् | क् च ङ् च तयोः इतरेतरद्वन्द्वः क्ङौ | क्ङौ इतौ यस्य सः क्ङित्, द्वन्द्वगर्भः बहुव्रीहिसमासः, तस्मिन् क्ङिति | अनिदितां षष्ठ्यन्तं, हलः षष्ठ्यन्तम्, उपधाया षष्ठ्यन्तं, क्ङिति सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | श्नान्नलोपः (६.४.२३) इत्यस्मात् न, लोपः इत्यनयोः अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्— अनिदितां हलः अङ्गस्य उपधायाः नः लोपः क्ङिति |
पाणिनेः धातुपाठे अनिदित्-धातवः इमे—
अञ्च् | कुञ्च् | क्रुञ्च् | ग्लुञ्च् | चञ्च् | तञ्च् | त्वञ्च् | म्रुञ्च् | म्लुञ्च् | लुञ्च् |
वञ्च् | अञ्ज् | रञ्ज् | भञ्ज् | सञ्ज् | ष्वञ्ज् | कुन्थ् | ग्रन्थ् | मन्थ् | श्रन्थ् |
उन्द् | बुन्द् | स्कन्द् | स्यन्द् | इन्ध् | बन्ध् | शुन्ध् | तुम्प् | त्रुम्प् | ऋम्फ् |
गुम्फ् | तुम्फ् | त्रुम्फ् | तृम्फ् | दृम्फ् | उम्भ् | दम्भ् | शुम्भ् | श्रम्भ् | षृम्भ् |
स्रम्भ् | हम्म् | दंश् | भ्रंश् | ध्वंस् | भ्रंस् | शंस् | स्रंस् | तृन्ह् |
परस्मैपदे आशीर्लिङि उपधास्थितनकारलोपः | यथा—
स्कन्द् + यात् → अनिदितां हल उपधायाः क्ङिति (६.४.२४) इत्यनेन किति परे नलोपः → स्कद् + यात् → स्कद्यात्
एवमेव सर्वेषाम् अनिदितां हलन्तानां आशीर्लिङि तिङन्तरूपाणि वक्तव्यानि |
धेयं यत् इदितां धातूनां न्-लोपो न भवति
यथा वदिँ इति इदित् धातुः | इदितो नुम् धातोः (७.१.५८) इत्यनेन नुमागमः, वन्द् इति धातुः | अस्य न्-लोपः न भवति |
वदिँ → वद् → वन्द् → वंद् → वन्द्
वदिँ → वद् उपदेशेऽजनुनासिक इत्
वद् → वन्द् इदितो नुम् धातोः
वन्द् → वंद् नश्चापदान्तस्य झलि
वंद् → वन्द् अनुस्वारस्य ययि परसवर्णः
लाछिँ → लाछ् → लान्छ् → लांछ् → लाञ्छ्
कपिँ → कप् → कन्प् → कंप् → कम्प्
लबिँ → लब् → लन्ब् → लंब् → लम्ब्
इदितो नुम् धातोः (७.१.५८) = इदितः धातोः नुम् आगमो भवति | इदित् इत्युक्ते इत् इत् यस्य सः | तत्र प्रथमः इत् नाम ह्रस्वः इकारः | द्वितीयः इत् नाम इत्-संज्ञा | ह्रस्व इकारस्य इत्-संज्ञा यस्य, सः धातुः इदित् | इत् इत् यस्य स इदित्, तस्य इदितः, बहुव्रीहिः | इदितः षष्ठ्यन्तं, नुम् प्रथमान्तं, धातोः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— इदितो धातोः नुम् |
यदि वदिँ-धातौ नकारादेशः भवति एव, तर्हि किमर्थं वन्द् मूलधातुः न स्यात् ? तथैव यदि लबि मकारः आयाति एव, तर्हि किमर्थं लम्ब् इत्येव मूलधातुः न स्यात् ? इदित् चेत् अस्माभिः यः नकारः आनीतः, तस्य नकारस्य लोपः कस्यामपि दशायां न भवति | किन्तु साक्षत् आरम्भतः नकारः अस्ति चेत्, तस्य लोपः किति ङिति च भवति | अनिदितां हल उपधायाः क्ङिति (६.४.२४) इत्यनेन यः धातुः इदित् नास्ति, तस्य धातोः उपधायां स्थितस्य नकारस्य लोपो भवति किति ङिति परे | यथा बन्ध-धातोः नकारो भवति मूलधातौ, अतः किति ङिति परे तस्य नकारलोपः | ल्युटि "बन्धनं" (नकारः उपस्थितः यतोहि ल्युट् प्रत्ययः कित् अपि नास्ति, ङित् अपि नास्ति); परन्तु क्तान्तरूपं 'बद्ध' (नकारलोपः यतोहि क्त प्रत्ययः कित् अस्ति) | लबि धातोः इदितो नुम् धातोः (७.१.५८) इत्यनेन नुम् आगमः → लम्ब् | अस्य नकारस्य लोपः किति ङिति न भवति— यथा क्तान्तरूपं लम्बितः |
4. चुरादिगणीयधातवः प्रेरणार्थे णिजन्तधातवः च
चुरादिगणे णिच्-प्रत्ययः स्वार्थे विधीयते एव, यथा चुर् + णिच् → चोरि; तदा सनाद्यन्ता धातवः (३.१.३२) इत्यनेन 'चोरि', 'क्षालि', इत्यादीनाम् आतिदेशिकधातूनां धातुसंज्ञा भवति |
चुर् → भूवादयो धातवः (१.३.१) इत्यनेन चुर् इत्यस्य धातु-संज्ञा → सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण-चुरादिभ्यो णिच् (३.१.२५) इत्यनेन चुरादिगणीयधातुभ्यः णिच्-प्रत्ययः विधीयते → चुर् + इ → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन उपधायां लघु-इकः गुणः आर्धधातुकप्रत्यये परे → चोरि → सनाद्यन्ता धातवः (३.१.३२) इत्यनेन धातु-संज्ञा → चोरि इति आतिदेशिकधातुः
तथा च प्रेरणार्थे णिचि अपि आतिदेशिकधातुः निष्पद्यते |
पठ् → हेतुमति च (३.१.२६) इत्यनेन प्रेरणार्थे धातोः णिच् → पठ् + इ → अत उपधायाः (७.२.११६) इत्यनेन उपधायाम् अतः वृद्धिः ञिति णिति प्रत्यये परे → पाठि
सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण-चुरादिभ्यो णिच् (३.१.२५) = एभ्यः द्वादशभ्यः प्रातिपदिकेभ्यः, सर्वेभ्यः चुरादिगणीयधातुभ्यः च णिच्-प्रत्ययः विधीयते | एभ्यः प्रातिपदिकेभ्यः णिच्-प्रत्ययस्य संयोजनेन नामधातवः भवन्ति | चुर् आदिर्येषां ते चुरादयः | सत्यापश्च, पाशश्च, रूपञ्च, वीणा च, तूलञ्च, श्लोकश्च, सेना च, लोम च, त्वचश्च, वर्म च, वर्णञ्च, चूर्णञ्च, चुरादयश्च तेषमितरेतरद्वन्द्वः, सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण-चुरादयः तेभ्यः, बहुव्रीहिगर्भो द्वन्द्वः | सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यः पञ्चम्यन्तं, णिच् प्रथमान्तं, द्विपदमिदं सूत्रम् | प्रत्ययः (३.१.१) परश्च (३.१.२) इत्यनयोः अधिकारः | धातोरेकाचो हलादेः क्रियासमभिहारे यङ् (३.१.२२) इत्यस्मात् धातोः इत्यस्य अधिकारः, वचनपरिणामेन पञ्चमीविभक्तौ धातुभ्यः | अनुवृत्ति-सहितसूत्रम्— सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण-चुरादिभ्यः धातुभ्यः णिच् प्रत्ययः परश्च |
हेतुमति च (३.१.२६) = प्रयोजकव्यापारे प्रेषणादौ वाच्ये धातोर्णिच् स्यात् | णिच् विधायकं सूत्रम् | क्रियार्थं यः प्रयोज्यं प्रेरयति, सः प्रयोजकः क्रियायाः हेतुः; तस्मिन् प्रयोजके हेतुः अस्ति अतः सः हेतुमान् | अस्यां स्थितौ—यत्र हेतुमान् प्रयोजकः अपि अस्ति, प्रेरितः प्रयोज्यः अपि अस्ति—तत्र धातोः णिच्-प्रत्ययः विधीयते | हेतुमति सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण-चुरादिभ्यो णिच् (३.१.२५) इत्यस्मात् णिच् इत्यस्य अनुवृत्तिः | प्रत्ययः (३.१.१) परश्च (३.१.२) इत्यनयोः अधिकारः | धातोरेकाचो हलादेः क्रियासमभिहारे यङ् (३.१.२२) इत्यस्मात् धातोः इत्यस्य अधिकारः, वचनपरिणामेन पञ्चमीविभक्तौ धातुभ्यः | अनुवृत्ति-सहितसूत्रम्— हेतुमति च धातोः णिच् प्रत्ययः परश्च |
सनाद्यन्ता धातवः (३.१.३२) = द्वादश प्रत्ययाः सन्ति येषां संयोजनेन नूतनाः धातवः सृष्टाः भवन्ति— सन्, क्यच्, काम्यच्, क्यष्, क्यङ्, क्विप्, णिङ्, ईयङ्, णिच्, यक्, आय, यङ् इति | एषां प्रकृतिः (अङ्गम्) क्वचित् धातुः, क्वचित् प्रातिपदिकम् | सन् आदौ येषां ते सनादयः, सनादयः अन्ते येषां ते सनाद्यन्ताः | सनाद्यन्ताः प्रथमान्तं, धातवः प्रथमान्तं, द्विपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— सनाद्यन्ता धातवः |
एवञ्च चुरादौ, प्रेरणार्थे णिचि च, उभयत्र णिजन्तः आतिदेशिकधातुः निष्पद्यते | चुरादौ स्वार्थे चोरि, क्षालि इत्यादयः धातवः; प्रेरणार्थे पाठि, लेखि, नायि इत्यादयः धातवः | उभयत्र चुरादौ प्रेरणार्थे णिचि च यत् किमपि रूपं निष्पादयितुम् इष्येत, सर्वप्रथमं णिचः विधानं भवति | तदनन्तरमेव अन्यानि कार्याणि करणीयानि | तथैव भवति आशीर्लिङि च— सर्वप्रथमं णिच्, तदा धातुसंज्ञा, तदा आशीर्लिङः तिङ्प्रत्ययसंयोजनम् | यथा—
चुर् + इ → चोरि → आशीर्लिङः विवक्षायाम् → चोरि + यात्
अस्यां दशायां णेरनिटि (६.४.५१) इत्यनेन यस्य आर्धधातुकप्रत्ययस्य इडागमो नास्ति, तस्मात् पूर्वं णि-प्रत्ययस्य लोपो भवति | परस्मैपदे आशीर्लिङि सिद्ध-तिङ्प्रत्ययाः वलादिनः न सन्ति इति कारणतः तेषाम् इडागमो न कदापि भवति | अनेन चुरादिगणे प्ररणार्थे णिचि च कश्चन णिजन्तधातुः अस्ति चेत्, णेरनिटि (६.४.५१) इत्यनेन णिचः लोपो भवति |
चुर् → सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण-चुरादिभ्यो णिच् (३.१.२५) इत्यनेन चुरादिगणे णिच्-प्रत्ययः विधीयते स्वार्थे → चुर् + णिच् → चोरि → चोरि + यात् → णेरनिटि (६.४.५१) इत्यनेन णिचः लोपः → चोर् + यात् → चोर्यात्
णेरनिटि (६.४.५१) = यस्य आर्धधातुकप्रत्ययस्य इडागमो नास्ति, तस्मात् पूर्वं णि-प्रत्ययस्य लोपो भवति | अत्र 'णि' इत्यस्य अनुबन्धरहितत्वात् णिङ्, णिच् द्वयोः ग्रहणम्; उभयत्र 'इ' इत्येव अवशिष्यते | णेः षष्ठ्यन्तम्, अनिटि सप्तम्यन्तं, द्विपदमिदं सूत्रम् | अतो लोपः (६.४.४८) इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः | आर्धधातुके (६.४.४६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— णेः लोपः अनिटि आर्धधातुके |
एवमेव—
कथ + णिच् → अतो लोपः (६.४.४८) इत्यनेन अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे → कथ् + णिच् → अत उपधायाः (७.२.११६) इत्यनेन उपधायां स्थितस्य अतः वृद्धिः ञिति णिति प्रत्यये परे भवति स्म → अचः परस्मिन् पूर्वविधौ (१.१.५७) इत्यनेन परनिमित्तकः अजादेशः स्थानिवत् भवति, पूर्वविधौ कर्तव्ये → कथ्-धातोः अन्त्यः लोपः अत् इव दृश्यते → अत उपधायाः इति सूत्रेण "कथ" दृश्यते इति कारणतः उपधायाम् अधुना थकारः वर्तते → अतः वृद्धिः न भवति → कथि → सनाद्यन्ता धातवः (३.१.३२) इत्यनेन धातु-संज्ञा → कथि → कथि + यात् → णेरनिटि (६.४.५१) इत्यनेन णिचः लोपः → कथ् + यात् → कथ्यात्
अतो लोपः (६.४.४८) = अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन अतः अङ्गस्य नाम न केवलम् ह्रस्व-अकारः इत्यङ्गस्य, अपि तु ह्रस्व-अकारान्तस्य अङ्गस्य | अलोऽन्तस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव लोपः (न तु अङ्गस्य) | उपदेशे अनुवर्तते अतः प्रसक्तिः केवलम् उपदेशावस्थायाम्* | अतः षष्ठ्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम् | अनुदात्तोपदेश-वनति-तनोत्यादीना-मनुनासिकलोपो झलि क्ङिति (६.४.३७) इत्यस्मात् उपदेशे इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१), आर्धधातुके (६.४.४६) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूर्त्रम्— अतः अङ्गस्य लोपः आर्धधातुके उपदेशे |
*अतो लोपः (६.४.४८) इति सूत्रे प्रश्नः उदेति किमर्थम् उपदेशे इत्युक्तम् | उत्तरम् एवं यत् अनुवृत्तौ उपदेशे इति यदि नाभविष्यत्, तर्हि कासुचित् स्थितिषु (अनुपदेशावस्थायाम्) इष्टं रूपं न प्राप्स्यत् | यथा— भ्वादिगणे अय् गतौ इति धातुः; उदाहरणार्थं कश्चन आर्धधातुक-प्रत्ययः अस्ति क्विप् |
अय् + क्विप् → अनुबन्धलोपे → अय् + व् → लोपो व्योर्वलि (६.१.६५) इत्यनेन यकार-लोपः → अ + व् → अतो लोपः (६.४.४८) इत्यनेन अ-लोपः, वेरपृक्तस्य (६.१.६६) इत्यनेन व्-लोपः → शून्यम् अवशिष्यते |
अतः उपदेशे नास्ति चेत् इष्टं रूपं न प्राप्यते | उपदेशे अस्ति चेत् अ-लोपः न भवति यतोहि 'अ' इति उपदेश-अवस्थायां नास्ति |
अ + व् → ह्रस्वस्य पिति कृति तुक् (६.१.७०) इत्यनेन तुक्-आगमः → अत् + व् → वेरपृक्तस्य (६.१.६६) इत्यनेन व्-लोपः → अत् इति इष्टं रूपं प्राप्तम् |
अचः परस्मिन् पूर्वविधौ (१.१.५७) = परनिमित्तकः अजादेशः स्थानिवत् भवति, पूर्वविधौ कर्तव्ये | अचः स्थाने यः आदेशः सः अजादेशः | यस्य स्थाने आदेशः विधीयते सः स्थानी | 'अजादेशः स्थानिवत्' नाम यः आदेशः अचः स्थाने विहितः, सः पुनः मूलः अच् इव— 'स्थानिवत्' भवति | पूर्वविधौ नाम सा स्थितिः यदा स्थानिनः अचः पूर्वस्थितस्य कार्यं विधीयते | परस्मिन् इति निमित्तसप्तमी | पूर्वविधौ इति विषयसप्तमी | पूर्वस्य विधिः पूर्वविधिः षष्ठीतत्पुरुषः, तस्मिन् पूर्वविधौ | अचः षष्ठ्यन्तं, परस्मिन् सप्तम्यन्तं, पूर्वविधौ सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | स्थानिवदादेशोऽनल्विधौ (१.१.५६) इत्यस्मात् स्थानिवत्, आदेशः इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहितसूर्त्रम्— अचः आदेशः स्थानिवत् परस्मिन् पूर्वविधौ |
पठ् → हेतुमति च (३.१.२६) इत्यनेन प्रेरणार्थे धातोः णिच् → पठ् + इ → अत उपधायाः (७.२.११६) इत्यनेन उपधायाम् अतः वृद्धिः ञिति णिति प्रत्यये परे → पाठि → सनाद्यन्ता धातवः (३.१.३२) इत्यनेन धातु-संज्ञा → पाठि → पाठि + यात् → णेरनिटि (६.४.५१) इत्यनेन णिचः लोपः → पाठ् + यात् → पाठ्यात्
दा + णिच् → अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ (७.३.३६) इत्यनेन आकारान्तधातुभ्यः पुक्-आगमः भवति णिच्-प्रत्यये परे → दा + पुक् + इ → दा + प् + इ → दापि → सनाद्यन्ता धातवः (३.१.३२) इत्यनेन धातु-संज्ञा → दापि → दापि + यात् → णेरनिटि (६.४.५१) इत्यनेन णिचः लोपः → दाप् + यात् → दाप्यात्
पै पाने → पै + णिच् → आदेच उपदेशेऽशिति (६.१.४५) इत्यनेन उपदेशे एजन्तस्य धातोः आत्वं न तु शिति → पा + णिच् → शाच्छासाह्वाव्यावेपां युक् (७.३.३७) इत्यनेन शो, छो, सो, ह्वे, व्ये, वे, पै इत्येषां धातूनां युक्-आगमो भवति णिचि परे → पा + युक् + णिच् → पा + य् + इ → पायि → सनाद्यन्ता धातवः (३.१.३२) इत्यनेन धातु-संज्ञा → पायि → पायि + यात् → णेरनिटि (६.४.५१) इत्यनेन णिचः लोपः → पाय् + यात् → पाय्यात्
नी + णिच् → अचो ञ्णिति (७.२.११५) इत्यनेन अजन्ताङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति ञिति णिति प्रत्यये परे → नै + इ → नायि →
लिख् + णिच् → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन लघूपधस्य इकः गुणः सार्वधातुके आर्धधातुके च प्रत्यये परे → लेखि →
भू* + णिच् → कृ + णिच् → छो छेदने + णिच् → वद् + णिच् → क्षिप् + णिच् → बुध् + णिच् → कृष्** + णिच् → एध् + णिच् → गण + णिच् →
*अत्र प्रश्नः उदेति भू + णिच् → भावि + यात् इत्यवसरे णेरनिटि (६.४.५१), अकृत्सार्वधातुकयोर्दीर्घः (७.४.२५) अनयोः द्वयोः युगपत् प्रसक्तिः, अन्यत्रान्यत्रलब्धावकाशः च भवतः | अकृत्सार्वधातुकयोर्दीर्घः इति परसूत्रम् अतः तस्य प्राप्तिः भवेत् न तु णेरनिटि (६.४.५१) इत्यस्य | परन्तु—
ण्यल्लोपावियङ्यण्गुणवृद्धिदीर्घेभ्यः पूर्वविप्रतिषेधेन इति वार्तिकेन इयङ्, यण्, गुणः, वृद्धिः, दीर्घः इत्येषां कार्याणां णिलोपेन अत्-लोपेन सह युगपत् प्राप्त्यवसरे पूर्वविप्रतिषेधः णिलोपः अल्लोपः च बलवन्तौ भवतः | इत्युक्तौ णिलोपस्य अल्लोपस्य च विधायकसूत्रं पूर्वसूत्रं चेदपि तस्य बलं भवति |
**अत्र कृष् गुणं कृत्वा कष्, तदा अत उपधायाः (७.२.११६), उरण् रपरः (१.१.५१) इत्यनयोः एकत्रप्राप्तिरस्ति किम् ? भवति चेत्, अत उपधायाः (७.२.११६) परसूत्रम् अपि च तयोः अन्यत्रान्यत्रलब्धावकाशः अस्ति, तदाधारेण तस्य बलं स्यात् | किन्तु नैव तथा यतोहि रपरबलेन ऋकारस्य स्थाने गुणादेशः अकारः भवति | रपरत्वं न भवति चेत्, ऋकारस्य स्थाने गुणादेशो न भवति एव | अतः यद्यपि उरण् रपरः (१.१.५१) इत्यस्य अपेक्षया अत उपधायाः (७.२.११६) परसूत्रम् अपि च तयोः अन्यत्रान्यत्रलब्धावकाशः अस्ति, तथापि अत्र अत उपधायाः (७.२.११६) इत्यस्य अत्र प्रसक्तिः एव नास्ति |
अत उपधायाः (७.२.११६) इत्यनेन उपधायाम् अतः वृद्धिः ञिति णिति प्रत्यये परे |
उरण् रपरः (१.१.५१) = ऋकारस्य स्थाने यदा अण्-आदेशः भवति, तदा सः अण् सदा रपरः भवति |
5. सन्नन्तधातवः
औपदेशिकधातुभ्यः सन्-प्रत्ययः विधीयते चेत् सन्नन्तधातुः इति आतिदेशिकधातुर्भवति | एषां सर्वेषां सन्नन्तानाम् अन्ते अकारो भवति; नाम एते सर्वे अदन्तधातवः | अतः अतो लोपः (६.४.४८) इत्यनेन आर्धधातुके प्रत्यये परे तस्य अकारस्य लोपो भवति |
अतो लोपः (६.४.४८) = अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन अतः अङ्गस्य नाम न केवलम् ह्रस्व-अकारः इत्यङ्गस्य, अपि तु ह्रस्व-अकारान्तस्य अङ्गस्य | अलोऽन्तस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव लोपः (न तु अङ्गस्य) | उपदेशे अनुवर्तते अतः प्रसक्तिः केवलम् उपदेशावस्थायाम् | अतः षष्ठ्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम् | अनुदात्तोपदेश-वनति-तनोत्यादीना-मनुनासिकलोपो झलि क्ङिति (६.४.३७) इत्यस्मात् उपदेशे इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१), आर्धधातुके (६.४.४६) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूर्त्रम्— अतः अङ्गस्य लोपः आर्धधातुके उपदेशे |
आशीर्लिङि सर्वे तिङ्-प्रत्ययाः आर्धधातुकसंज्ञकाः अतः सर्वत्र परस्मैपदे आशीर्लिङि सन्नन्तधातूनां धात्वन्ते अकारस्य लोपः | यथा—
जिगमिष + यात् → अतो लोपः (६.४.४८) इत्यनेन अकारस्य लोपः → जिगमिष् + यात् - जिगमिष्यात्
सर्वेभ्यः सन्नन्तधातुभ्यः यासुट्-प्रत्यये परे एवं रीत्या अतो लोपः (६.४.४८) इत्यनेन अकारस्य लोपो भवति |
अनेन आशीर्लिङि सर्वेभ्यः धातुभ्यः समग्रचिन्तनं सम्पूर्णम् |
Swarup – April 2018