12a - धातुपाठे हल्-सन्धि-अभ्यासः
सन्धि-कार्यस्य अभ्यासार्थं यङ्लुगन्तधातवः सर्वोत्तमाः यतोहि प्रक्रियायां विकरणप्रत्ययो नास्ति | धात्वन्ते सर्वे हल्-वर्णाः लभ्यन्ते; एषां च वर्णानां तिङ्-प्रत्ययेन साक्षात् सम्पर्कः भवति | अधुना वास्तविकम् अभ्यासं कुर्मः; पश्येम कीदृशानि रूपाणि लभ्यन्ते लटि, लोटि, लङि, विधिलिङि च | अस्य कृते अस्माकं कार्ये त्रीणि सोपानानि सन्ति | क्रमेण एषां त्रयाणां चिन्तनम् अवश्यं करणीयम्—
सोपानानि
१) अतिदेशः
कित्/ङित् इत्यनयोः मार्गद्वयम् – अनुबन्धः, अतिदेशः | अतः परीक्षणं द्विवारं करणीयम् |
२) अङ्गकार्यम्
३) सन्धिः
कित्/ङित् अङ्गकार्यम्—
१) अङ्गान्ते उपधायां च इकः गुणः निषिद्धः | सार्वधातुकमपित् (१.२.४), क्क्ङिति च (१.१.५) |
२) अनिदित्-धातूनाम् उपधायां न्-लोपः | येषां हलन्तधातूनाम् इत्-संज्ञकः ह्रस्वः इकारः नास्ति, तेषां धातूनाम् उपधायां नकारः अस्ति चेत्, तस्य लोपो भवति | अनिदितां हल उपधायाः क्ङिति (६.४.२४) |
३) सम्प्रसारणिनां धातूनाम् सम्प्रसारणम् | यण्-स्थाने इक्-आदेशः (यण्-सन्धौ यथा भवति, तस्य विपरीतक्रमः), किति ङिति प्रत्यये परे | व्रश्च् + श + ति → वृश्चति | ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च (६.१.१६) |
इग्यणः सम्प्रसारणम् (१.१.४५) = यणः स्थाने यः इक्-प्रत्याहारे स्थितवर्णः आदिष्टः, तस्य सम्प्रसारण-संज्ञा भवति |
सम्प्रसारणाच्च (६.१.१०८) = सम्प्रसारण-संज्ञक-वर्णात् परे अच् अस्ति चेत्, पूर्वपरयोः स्थाने एकः पूर्वरूपादेशो भवति |
न सम्प्रसारणे सम्प्रसारणम् (६.१.३७) = सम्प्रसारणे परे पूर्वं स्थितस्य सम्प्रसारणं न भवति |
४) दीर्घ ॠकारान्तधातुः, प्रत्ययः अजादिः चेत् → इर्, उर् | ॠत इद् धातोः (७.१.१००) | प्रत्ययः हलादिः चेत्, ईर्, ऊर् | हलि च (८.२.७७) |
ॠत इद् धातोः (७.१.१००) = ॠदन्तस्य धातोः अङ्गस्य ह्रस्व-इकारादेशो भवति (किति ङिति प्रत्यये परे) |
उरण् रपरः (१.१.५१) = ऋकारस्य स्थाने यदा अण्-आदेशः भवति, तदा सः अण् सदा रपरः भवति |
हलि च (८.२.७७) = रेफान्तानां वकारान्तानां च धातूनाम् उपधा-स्थितस्य इकः दीर्घत्वं हलि परे |
उदोष्ठ्यपूर्वस्य (७.१.१०२) = ओष्ठ्यपूर्वस्य ॠकारान्ताङ्गस्य ॠकारस्य ह्रस्वः उकारादेशः भवति | पवर्गीयः वर्णः पूर्वः यस्य, सः ओष्ठ्यपूर्वः |
यङ्लुगन्तधातूनां कृते सिद्ध-तिङ्प्रत्ययाः
अधः ये प्रत्ययाः स्थूलाक्षरैः लिखिताः, ते पितः इति धेयम् | यङ्लुगन्तधातूनाम् आत्मनेपदं न भवति |
लट्-लकारः लोट्-लकारः
ति/ईति तः अति तु/ईतु/तात् ताम् अतु
सि/ईषि थः थ हि/तात् तम् त
मि/ईमि वः मः आनि आव आम
लङ्-लकारः विधिलिङ्-लकारः
त्/ईत् ताम् उः यात् याताम् युः
स्(ः)/ईः तम् त याः यातम् यात
अम् व म याम् याव याम
धातवः
लुञ्च् → लोलुञ्च्
ग्रह् → जाग्रह्
प्रच्छ् → पाप्रच्छ्
भ्रस्ज पाके → भ्रस्ज् → बाभ्रस्ज्
(षस्ज् गतौ → सासस्ज्, ओलस्जी व्रीडायाम् → लस्ज् → लालस्ज्, टुमस्जो शुद्धौ → मस्ज् → मामस्ज्)
ज्या → जाज्या
व्यधि → वाव्यध्
वश् → वावश्
व्यच् → वाव्यच्
व्रश्च् → वाव्रश्च्
मघि → मामङ्घ्
च्छ्वोः शूडनुनासिके च (६.४.१९) = तुक्-सहित-छकारस्य स्थाने शकारादेशः अपि च वकारस्य स्थाने ऊठ्-आदेशो भवति अनुनासिकादि-प्रत्यये परे, क्वि परे, झलादि-प्रत्यये च परे | च्छ् च व् च तयोरितरेतरद्वन्द्वः च्छ्वौ, तयोः च्छ्वोः | श् च ऊठ् च तयोः समाहारद्वन्द्वः शूड् | झलां जशोऽन्ते (८.२.३९) इत्यनेन ठकारस्य स्थाने डकारः | च्छ्वोः षष्ठ्यन्तं, शूड् प्रथमान्तम्, अनुनासिके सप्तम्यन्तं, च अव्ययपदम्, अनेकपदमिदं सूत्रम् | अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) इत्यस्मात् क्विझलोः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— च्छ्वोः अङ्गस्य शूड् क्विझलोः अनुनासिके च |
संयोगान्तपदे सन्धिकार्यम्
पदं द्विविधं, संयोगान्तम् असंयोगान्तं च | संयोगान्ते पदे सन्धिकार्यं कथं क्रियते इत्यत्र परिशील्यते |
१. संयोगान्तस्य पदस्य लोपः
संयोगान्तस्य लोपः (८.२.२३) = यस्य पदस्य अन्ते संयोगोऽस्ति, तस्य पदस्य अन्तिमवर्णस्य लोपो भवति | अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव लोपः न तु पूर्णपदस्य | संयोगः अन्ते अस्ति यस्य तत् संयोगान्तं, बहुव्रीहिः, तस्य संयोगान्तस्य | संयोगान्तस्य षष्ठ्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम् | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— संयोगान्तस्य पदस्य लोपः |
अबाबन्ध + त् →
२. संयोगादिसकारस्य लोपः
व्रश्च्, भ्रस्ज्, लस्ज्, मस्ज्, षस्ज्
स्कोः संयोगाद्योरन्ते च (८.२.२९) = पदान्ते झलि परे च, संयोगस्य प्रथमसदस्यः सकारः ककारो वा चेत्, संयोगस्य प्रथमसदस्यलोपो भवति न तु द्वितीयसदस्यस्य | स् च क् च तयोरितरेतरद्वन्द्वः स्कौ, तयोः स्कोः | संयोगस्य आदि संयोगादि, तयोः संयोगाद्योः, षष्ठीतत्पुरुषः | संयोगान्तस्य लोपः (८.२.२३) इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः | झलो झलि (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— संयोगाद्योः स्कोः लोपः झलि पदस्य अन्ते च | (धातुप्रसङ्गे झलि इत्युक्तौ तकारादिप्रत्ययेषु, थकारादिप्रत्ययेषु, धकारादिप्रत्ययेषु, सकारादिप्रत्ययेषु च |)
अबाभ्रस्ज् + त् →
अवाव्रश्च् + त् →
अलालस्ज् + त् →
३. संयोगादिककारस्य लोपः
अतातक्ष् + त् →
४. रेफादिसंयोगस्य लोपाभावः
रात्सस्य (८.२.२४) = यस्य पदस्य अन्ते संयोगोऽस्ति, संयोगस्य प्रथमसदस्यः रेफः चेत्, रेफात् परस्य सकारस्य एव लोपो भवति, अन्यवर्णस्य न | रात् पञ्चम्यन्तं, सस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | संयोगान्तस्य लोपः (८.२.२३) इति सूत्रस्य पूर्णतया अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— रात् संयोगान्तस्य पदस्य सस्य लोपः |
अमृज् + त् → मृजेर्वृद्धिः (७.२.११४) इत्यनेन वृद्धिः → अमार्ज् + त् →
मृजेर्वृद्धिः (७.२.११४) = मृज्-धातोः इकः वृद्धिः भवति (सार्वधातुके च आर्धधातुके च प्रत्यये परे) | अङ्गकार्यत्वात् प्रत्ययः परे अस्त्येव; स च प्रत्ययः धातोः भवति इति कृत्वा सार्वधातुकः अथवा आर्धधातुकः भवेदेव | मृजेः षष्ठ्यन्तं, वृद्धिः प्रथमान्तं, द्विपदमिदं सूत्रम् | इकोगुण्वृद्धी (१.१.३) इत्यस्मात् परिभाषासूत्रात् इकः इत्यस्य षष्ठ्यन्ता अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— मृजेः अङ्गस्य इकः वृद्धिः |
अचोकूर्द् + त् →
५. रेफपूर्वः छकारः
राल्लोपः (६.४.२१) = रेफात् परस्य छकारस्य वकारस्य च लोपो भवति क्वि, झलादि-प्रत्ययः, अनुनासिकः च परे अस्ति चेत् | रात् पञ्चम्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम् | च्छ्वोः शूडनुनासिके च (६.४.१९) इत्यस्मात् च्छ्वोः इत्यस्य अनुवृत्तिः; अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) इत्यस्मात् अनुनासिकस्य, क्विझलोः इत्यनयोः अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अङ्गस्य रात् च्छ्वोः लोपः अनुनासिके क्विझलोः |
अजोहुर्छ् + त् →
६. रेफपूर्वः वकारः
अतोतुर्व् + त् →
रेफवकारयोः परयोः इकः दीर्घः
पदान्ते--
र्वोरुपधाया दीर्घः इकः (८.२.७६) = पदान्ते रेफान्तस्य वकारान्तस्य च धातोः उपधायाः इकः दीर्घादेशो भवति | र् च व् र्वौ इतरेतरद्वन्द्वः, तयोः र्वोः | र्वोः षष्ठ्यन्तम्, उपधायाः षष्ठ्यन्तं, दीर्घाः प्रथमान्तम्, इकः षष्ठ्यन्तम्, अनेकपदमिदं सूत्रम् | सिपि धातो रुर्वा (८.२.७४) इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात् अन्ते इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— र्वोः धातोः उपधायाः दीर्घः इकः पदस्य अन्ते |
अपदान्ते--
हलि च (८.२.७७) = रेफान्तानां वकारान्तानां च धातूनाम् उपधायां स्थितः इक्-वर्णः दीर्घो भवति हलि परे | हलि सप्तम्यन्तम्, च अव्ययपदम्, द्विपदमिदं सूत्रम् | सिपि धातो रुर्वा (८.२.७४) इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः; र्वोरुपधाया दीर्घ इकः (८.२.७६) इत्यस्य पूर्णतया अनुवृत्तिः | येन विधिस्तदन्तस्य (१.१.७२) इत्यस्य साहाय्येन तदन्तविधिः अतः र्वोः इत्यनेन येषाम् धातूनाम् अन्ते रेफः वकारश्च, तेषामपि ग्रहणम् | अनुवृत्ति-सहितसूत्रम्— हलि च र्वोः धातोः उपधायाः इकः दीर्घः |
इदं सूत्रं पदस्य (८.१.१६) इत्यस्य अधिकारे अस्ति; तर्हि पदान्ते एव भवति वा ? “हलि च" इत्यस्य सामर्थ्येन अपदान्ते इति भवति | झलो झलि (८.२.२६) अपि तथा | यदा कदापि अग्रे निमित्तम् अस्ति, तदा बलात् अपदान्ते इति भवति | यत्र सप्तम्यन्तं निमित्तम् अस्ति, तत्र पदस्य (८.१.१६) इति न गच्छति, यद्यपि तस्य अधिकारे स्यात् |
अपदान्ते--
उपधायां च (८.२.७८) = येषां धातूनाम् उपधायां रेफवकारौ हल्परौ, ताभ्यां प्राक् वर्तमानस्य इकः दीर्घादेशो भवति | हलन्तधातूनाम् उपधायां रेफः वा वकारः वा अस्ति चेत्, तयोः वर्णयोः पूर्वम् इकः दीर्घः भवति | उपधायां सप्तम्यन्तं, च अव्ययं, द्विपदमिदं सूत्रम् | सिपि धातो रुर्वा (८.२.७४) इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः | र्वोरुपधाया दीर्घः इकः (८.२.७६) इत्यस्मात् र्वोः, इकः, दीर्घः एषाम् अनुवृत्तिः | हलि च (८.२.७७) इत्यस्मात् हलि इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— धातोः हलि र्वोः उपधायां च, उपधायाम् इकः दीर्घः |
सुप्-प्रत्ययाः सङ्ख्यया एकविंशतिः, ते च एते—
स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् (४.१.२) =
स्वौ-जसमौट्-छष्टाभ्याम्-भिस्-ङे-भ्याम्-भ्यस्-ङसि-भ्याम्-भ्यस्-ङसोसाम्-ङ्योस्-सुप्
सु औ जस्
अम् औट् शस्
टा भ्याम् भिस्
ङे भ्याम् भ्यस्
ङसि भ्याम् भ्यस्
ङस् ओस् आम्
ङि ओस् सुप्
स् औ अस्
अम् औ अस्
आ भ्याम् भिस्
ए भ्याम् भ्यस्
अस् भ्याम् भ्यस्
अस् ओस् आम्
इ ओस् सु
१) गॄ इति धातुः (गॄ निगरणे तुदादौ, गिरति)
गॄ → गॄ + क्विप् → “क्विबन्ता विजन्ता धातुत्वं न जहति” इति परिभाषया क्विप् प्रत्ययः संयुज्यते चेदपि धातोः धातु-संज्ञा तिष्ठति → क्विप्-प्रत्ययस्य सर्वापहार-लोपः → लशक्वतद्धिते (१.३.८) ककारस्य, हलन्त्यम् (१.३.३) पकारस्य इत्-संज्ञा, तस्य लोपः (१.३.९) → गॄ + वि → इकारः उच्चारणार्थः → गॄ + व् → अपृक्त एकाल् प्रत्ययः (१.२.४१) इत्यनेन तस्य अपृक्त-संज्ञा, वेरपृक्तस्य (६.१.६७) इत्यनेन अपृक्त-संज्ञक-वकारस्य लोपः → गॄ [धातुः अपि, प्रातिपदिकम् अपि कृत्तद्धितसमासाश्च (१.२.४६) इति सूत्रेण] → ॠत इद्धातोः (७.१.१००) → गि → उरण् रपरः (१.१.५१) → गिर् इति धातुरूपि प्रातिपदिकम्
गिर् + सु → गिर् + स् → हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (६.१.६७) → गिर् → प्रत्ययलोपे प्रत्ययलक्षणम् (१.१.६२) इत्यस्मात् सुप्तिङन्तं पदम् (१.४.१४) इत्यनेन पदसंज्ञा → गिर् इति धातुः अपि, प्रातिपदिकम् अपि, पदम् अपि → र्वोरुपधाया दीर्घः इकः (८.२.७६) → गीर् → खरवसानयोर्विसर्जनीयः (८.३.१५) → गीः इति प्रथमाविभक्तौ एकवचने |
तथैव भ्याम्, भिस्, भ्यस्, सु | स्वादिष्वसर्वनामस्थाने (१.४.१७) इत्यनेन एषु स्थलेषु पूर्वभागस्य पद-संज्ञा |
अजाज्वर् + त् → ज्वरत्वरस्रिव्यविमवामुपधायाश्च (६.४.२०) → अजाजूर् + त् → अजाजूर् → अत्र र्वोरुपधाया दीर्घः इकः (८.२.७६) इत्यस्य सूत्रस्य प्रसक्तिः अस्ति वा ?
अत्र धातुसंज्ञा अपि अस्ति, पदसंज्ञा अपि अस्ति | अतः प्रसक्तिरस्ति | पर्जन्यवत् | किन्तु कार्यं किमपि नास्ति यतोहि ऊठ्-आदेशः पूर्वमेव जातः |
घुर्, तुर्, पुर्, क्षुर् | यङ्लुकि जोघुर् → अजोघुर् + त् → एषु स्थलेषु गुणो भवति एव इति कारणतः तिङन्तस्य प्रसङ्गे र्वोरुपधाया दीर्घः इकः (८.२.७६) इत्यस्य कर्यं न कुत्रापि भवति |
अत्र तर्हि प्रश्नः उदेति यत् यदि अजाजूर् इत्यस्य त्-प्रत्ययलोपानन्तरं धातुसंज्ञा अपि अस्ति, पदसंज्ञा अपि अस्ति, तर्हि उपरितने उदाहरणे “क्विबन्ता विजन्ता धातुत्वं न जहति” इति कथनस्य का आवश्यकता ? यया रीत्या त्-प्रत्ययलोपानन्तरं धातुसंज्ञा अपि अस्ति, पदसंज्ञा अपि अस्ति, तया एव रीत्या क्विप् इत्यस्य लोपानन्तरं धातुसंज्ञा अपि प्रातिपदिकसंज्ञा अपि स्यात् |
गॄ-धातुः यदा क्विबन्तं भवति तदा कृत्तद्धितसमासाश्च (१.२.४६) इत्यनेन प्रातिपदिकसंज्ञको भवति | क्विप्-प्रत्ययस्य सर्वापहार-लोपानन्तरमपि धातुसंज्ञा स्यात् | अत्र वार्ता अस्ति यत् अत्र पर्यन्तं समस्या नास्ति | अजाज्वर् + त् → 'अजाज्वर्' इति रूपं प्रत्ययान्तम् इति दृष्ट्या पदसंज्ञकम्; अप्रत्ययान्तम् ति दृष्ट्या धातुसंज्ञकम् | त्-प्रत्ययस्य लक्षणं यदा कुर्मः, तदा धातुसंज्ञा नास्त्येव | धातुसंज्ञा कदा भवति ? यदा भूवादयो धातवः (१.३.१) अथवा सनाद्यन्ता धातवः (३.१.३२) इति सूत्रेण धातुसंज्ञा विधीयते | इत्थञ्च 'अजाज्वर्' इति रूपम् एकया दृष्ट्या धातुः, अन्यया दृष्ट्या पदम् |
गॄ + क्विप् → क्विपः सर्वापहार-लोपः → गॄ इति रूपमपि तथैव प्रत्ययरहितं चेत् धातुसंज्ञकं, लक्षणेन प्रत्ययसहितं चेत् प्रातिपदिकसंज्ञकम् | अत्र पर्यन्तं च समस्या नास्ति | यया रीत्या अजाजूर् + त् → 'अजाजूर्' इत्यस्मिन् संज्ञाद्वयम् आसीत् | गॄ → गिर् इति यावदपि संज्ञाद्वयम् |
परन्तु अग्रे गिर् इति प्रातिपदिकात् यदा सु विधीयते, तत्र अस्माकं दृष्टिद्वयं स्थातुं न पारयति | यतोहि सुबादयः विधीयन्ते तदा यदा प्रातिपदिकसंज्ञा अस्ति; प्रातिपदिकसंज्ञा च अस्ति तदा यदा रूपं निश्चिततया क्विबन्तम् अस्ति येन कृत्तद्धितसमासाश्च (१.२.४६) इत्यनेन प्रातिपदिकसंज्ञा स्यात् | अत्र “क्विबन्ता विजन्ता धातुत्वं न जहति” वक्तव्यम् अस्ति येन धातुसंज्ञा तिष्ठेत्— येन सुबादयः आगन्तुं शक्नुयुः अपि च येन र्वोरुपधाया दीर्घः इकः (८.२.७६) इत्यनेन दीर्घादेशः स्यात् |
सारांशः एवं यत् यः प्रत्ययान्तः अस्ति—यथा क्विबन्ताः—तस्य धातुसंज्ञा न भवति | भूवादयो धातवः (१.३.१) इत्यनेन ये पाणिनेः धातुपाठे उपदिष्टाः ते एव धातवः | सनाद्यन्ता धातवः (३.१.३२) इत्यनेन ये द्वादश धातुप्रत्ययाः, ते एव धातुभ्यः विधीयन्ते चेत् धातुसंज्ञा भवति | अतः क्विबन्तम् अस्ति चेत्, धातुसंज्ञा नास्ति | यथा लिख् + श → लिख; अत्रापि लिख् इति अन्तर्भूतभागस्य धातुसंज्ञा वर्तते, किन्तु लिख इति प्रत्ययान्तरूपस्य धातुसंज्ञा नास्ति |
अत्र कासां कासां संज्ञानां सहवासः सम्भवति इति प्रसङ्गे एकं विशिष्टसूत्रं ज्ञातव्यम्—आकडारादेका संज्ञा (१.४.१) |
इमानि संज्ञासूत्राणि अवलोकताम्—
अर्थवदधातुरप्रत्ययः प्रातिपदिकम् (१.२.४५)
कृत्तद्धितसमासाश्च (१.२.४६)
भूवादयो धातवः (१.३.१)
सुप्तिङन्तं पदम् (१.४.१४)
'आकडारादेका' संज्ञा (१.४.१) = २.२.३.८ इति यावत् | ययोः प्रत्यययोः अस्मिन् सूत्रपरिधौ संज्ञा विधीयते, तयोः समावेशो न भवति |
तर्हि अत्र प्रश्नः उदेति यत् अर्थवदधातुरप्रत्ययः प्रातिपदिकम् (१.२.४५) इति सूत्रे 'अधातुः' इति किमर्थम् उक्तम् |
हन् + लङ् → लुङ्लङ्लृङ्क्ष्वडुदात्तः (६.४.७१) इत्यनेन लुङ् लङ् लृङ् च परं चेत्, धातुरूपि-अङ्गस्य अट्-आगमो भवति → अहन् → अहन् इत्यस्य धातुसंज्ञा इति तु अस्त्येव → अहन् + त् → हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (६.१.६७) → अहन् → अधुना प्रत्ययलक्षणेन सुप्तिङन्तं पदम् (१.४.१४) इत्यनेन पदसंज्ञा अपि अस्ति | यदि अर्थवदधातुरप्रत्ययः प्रातिपदिकम् (१.२.४५) इति सूत्रे 'अधातुः' इति नोक्तं स्यात्, तर्हि यतोहि अहन् इति धातुः अर्थवान्, अतः अर्थवदप्रत्ययः प्रातिपदिकम् (१.२.४५) इति सूत्रेण तस्य प्रातिपदिकसंज्ञा अपि भवति स्म | तदा च न लोपः प्रातिपदिकान्तस्य (८.२.७) इत्यनेन तस्य न-लोपः इति भवति स्म | अर्थवदप्रत्ययः प्रातिपदिकम् (१.२.४५) इत्यनेन या प्रातिपदिकसंज्ञा, सा आकडारादेका संज्ञा (१.४.१) इत्यनेन एकाकिनी एव भवति इति तु नास्ति | अतः अत्र न काऽपि बाधा— त्रयाणामपि संज्ञानाम् एकत्र प्राप्तिः | तदा अत्र ङ्याप्प्रातिपदिकात् (४.१.१), स्वौजस्...(४.१.२) इत्याभ्यां सु, औ, जस् इत्यादयः प्रत्ययाः विधीयमानाः स्युः | अस्य निवारणार्थम् अर्थवदधातुरप्रत्ययः प्रातिपदिकम् (१.२.४५) इति सूत्रे 'अधातुः' इति वक्तव्यम् आसीत् |
यदा सुबादीनां विधानार्थं गिर् इति क्विबन्तं निश्चिततया जातं, तदा सामान्यचिन्तनेन तस्य धातुसंज्ञा नष्टा | तदा र्वोरुपधाया दीर्घः इकः (८.२.७६) इत्यस्य प्रसक्तिः न भवति सम | एवमेव नी-धातुः | नी + औ |
अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) = श्नुप्रत्ययान्ताङ्गस्य (स्वादिगणस्य अङ्गस्य यथा शक्नु, चिनु इत्यनयोः), इकारान्त-उकारान्तधातुरूपि-अङ्गस्य, भ्रू-प्रातिपदिकस्य च— एषाम् इकारस्य उकारस्य स्थाने क्रमेण इयङ् उवङ् च आदेशः भवति अजादि-प्रत्यये परे | श्नु-प्रसङ्गे प्रत्ययग्रहणे तदन्ता ग्राह्याः (परिभाषा #२३) इति परिभाषया तदन्तविधिः; अनेन यस्य अङ्गस्य अन्ते श्नु-प्रत्ययः स्यात्, तस्मात् इत्यर्थः | अनुवृत्ति-सहितसूत्रम्— य्वोः श्नुधातुभ्रुवाम् अङ्गानां इयङुवङौ अचि |
२) जॄ + श्यन् + ति →
३) चुरादौ-- कॄत्
कॄत् → कित् उपधायाश्च (७.१.१०१)
कित् → किर्त् उरण रपरः (१.१.५१)
किर्त् → कीर्त् उपधायां च (८.२.७८)
उपधायाश्च (७.१.१०१) = धातोरुपधाभूतस्य ॠतः इत्स्यात् | धातोः उपधायां स्थितस्य दीर्घ-ॠकारस्य स्थाने ह्रस्व-इकारादेशो भवति | उपधायाः षष्ठ्यन्तं, चाव्ययं, द्विपदमिदं सूत्रम् | ॠत इद्धातोः (७.१.१००) इत्यस्य सूत्रस्य पूर्णतया अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— ॠतः धातोः अङ्गस्य इत् उपधायाश्च |
स्वादौ चिरि, जिरि |
४) मुर्छा-धातुः
धातुः मुर्छ्, मूर्छ्, मुर्च्छ्, मूर्च्छ् ?
छे च (६.१.७२) = छकारे परे ह्रस्वस्वरस्य तुक्-आगमो भवति | तुक् कित् अस्ति अतः आद्यन्तौ टकितौ (१.१.४६) इत्यनेन यस्य आगमः अस्ति (अत्र 'ह्रस्वस्वरस्य'), तस्य अन्ते आयाति | छे सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | ह्रस्वस्य पिति कृति तुक् (६.१.७०) इत्यस्मात् ह्रस्वस्य, तुक् इत्यनयोः अनुवृतिः | संहितायाम् (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— ह्रस्वस्य तुक् छे च संहितायाम् |
५) मोमुर्छ्
६) सुबन्तेषु हल्-सन्धि-अभ्यासः
अर्थवदधातुरप्रत्ययः प्रातिपदिकम् (१.२.४५) = अर्थवत् शब्दस्वरूपं यत् धातुः, प्रत्ययः, प्रत्ययान्तं च नास्ति, तस्य प्रातिपदिकसंज्ञा भवति | अर्थः अस्य अस्ति इति अर्थवत्, मतुप्-प्रत्ययः | न धातुः अधातुः, न प्रत्ययः अप्रत्ययः, नञ्तत्पुरुषः| अर्थवत् प्रथमान्तम्, अधातुः प्रथमान्तम्, अप्रत्ययः प्रथमान्तं, प्रातिपदिकं प्रथमान्तम्, अनेकपदमिदं सूत्रम् | सूत्रं स्वयं पूर्णम्— अर्थवद् अधातुः अप्रत्ययः प्रातिपदिकम् |
कृत्तद्धितसमासाश्च (१.२.४६) = कृदन्ताः, तद्धितान्ताः, समासाः च अपि प्रातिपदिकसंज्ञकाः | कृच्च, तद्धितश्च, समासश्च, कृत्तद्धितसमासाः इतरेतरद्वन्द्वः | कृत्तद्धितसमासाः प्रथमान्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | अर्थवदधातुरप्रत्ययः प्रातिपदिकम् (१.२.४५) इत्यस्मात् अर्थवत्, प्रातिपदिकम् इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्— अर्थवन्तः कृत्तद्धितसमासाः च प्रातिपदिकानि |
सुडनपुंसकस्य (१.१.४३) = सुट्-प्रत्याहारे सु-आदीनां पञ्चानां प्रत्ययानां सर्वनामस्थान-संज्ञा भवति परन्तु नपुंसकलिङ्गे न | सुट्-प्रत्याहारे सु, औ, जस्, अम्, औट् इतीमे प्रत्ययाः अन्तर्भूताः | न नपुंसकम्, अनपुंसकम् नञ्तत्पुरुषः, तस्य अनपुंसकस्य | सुट् प्रथमान्तम्, अनपुंसकस्य षष्ठ्यन्तम्, द्विपदमिदं सूत्रम् | शि सर्वनामस्थानम् (१.१.४२) इत्यस्मात् सर्वनामस्थानम् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— सुट् सर्वनामस्थानम् अनपुंसकस्य |
शि सर्वनामस्थानम् (१.१.४२) = शि इति आदेशस्य सर्वनामस्थानसंज्ञा भवति | शि लुप्तप्रथमान्तम्, सर्वनामस्थानम् प्रथमान्तम्, द्विपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूरणम्— शि सर्वनामस्थानम् |
स्वादिष्वसर्वनामस्थाने (१.४.१७) = सर्वनामस्थानसंज्ञक-प्रत्ययान् अतिरिच्य सु-प्रत्ययात् आरभ्य कप्-प्रत्ययपर्यन्तम्, एषु कश्चन परे अस्ति चेत् पूर्वतन-शब्दस्वरूपस्य पद-संज्ञा भवति | इयं पदसंज्ञा केवलं व्याकरणक्षेत्रे न तु लोके | स्वौजसमौट् (४.१.२) इत्यस्मात् आरभ्य उरः प्रभृतिभ्यः कप् (५.४.१५१) पर्यन्तम् इमे सर्वे प्रत्ययाः 'स्वादयः' इत्युच्यन्ते | न सर्वनामस्थानम्, असर्वनामस्थानम्, नञ्तत्पुरुषः, तस्मिन् असर्वनामस्थाने | स्वादिषु सप्तम्यन्तम्, असर्वनामस्थाने सप्तम्यन्तम्, द्विपदमिदं सूत्रम् | सुप्तिङन्तं पदम् (१.४.१४) इत्यस्मात् पदम् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— स्वादिषु असर्वनामस्थाने पदम् |
यचि भम् (१.४.१८) = सर्वनामस्थानसंज्ञक-प्रत्ययान् अतिरिच्य सु-प्रत्ययात् आरभ्य कप्-प्रत्ययपर्यन्तम् ये प्रत्ययाः यकारादयः अजादयश्च, एषु कश्चन परे अस्ति चेत् पूर्वतन-शब्दस्वरूपस्य भ-संज्ञा भवति | य् च, अच् च यच् समाहारद्वन्द्वः, तस्मिन् यचि | यचि सप्तम्यन्तं, भम् प्रथमान्तम्, द्विपदमिदं सूत्रम् | स्वादिष्वसर्वनामस्थाने (१.४.१७) इत्यस्य पूर्णतया अनुवृतिः | अनुवृत्ति-सहितसूत्रम्— स्वादिषु असर्वनामस्थाने यचि भम् |
आकडारादेका संज्ञा (१.४.१) = अस्मात सूत्रात् आरभ्य कडारा कर्मधारये (२.२.३८) पर्यन्तम् एकस्य रूपस्य एका एव संज्ञा अर्हा | तत्र सर्वत्र परस्य संज्ञासूत्रस्य बलं, विप्रतिषेधे परं कार्यम् (१.४.२) इत्यनेन अथवा अपवादभूतत्वात् |
सर्वनामस्थाने चासम्बुद्धौ (६.४.८) = नः अङ्गस्य उपधायाः दीर्घः सर्वनामस्थाने असम्बुद्धौ च |
न लोपः प्रातिपदिकान्तस्य (८.२.७) = प्रातिपदिकसंज्ञक-पदस्य अन्ते विद्यमानस्य नकारस्य लोपः | न लुप्तषष्ठीकं पदं, लोपः प्रथमान्तम, प्रातिपदिक लुप्तषष्ठीकं पदं, अन्तस्य षष्ठ्यन्तम्, अनेकपदमिदं सूत्रम् | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— प्रातिपदिकस्य पदस्य अन्तस्य नः लोपः |
अल्लोपोऽनः (६.४.१३४) = भसंज्ञकाङ्गावयवः अन् इति भागस्य अकारस्य लोपो भवति | अङ्गावयवोऽसर्वनामस्थानयजादिस्वादिपरो योऽन् तस्याकारस्य लोपः | अत् लुप्तषष्ठीकं पदं, लोपः प्रथमान्तम्, अनः षष्ठ्यनं, त्रिपदमिदं सूत्रम् | अनः इत्यस्य अवयवष्ठीविभक्तिः | भस्य (६.४.१२९) , अङ्गस्य (६.४.१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्— भस्य अङ्गस्य अनः अतः लोपः |
खरवसानयोर्विसर्जनीयः (८.३.१५) = पदान्त-रेफस्य स्थाने विसर्गादेशो भवति खरि अवसाने च | रः 'पदस्य' इत्यस्य विशेषणम्; येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तादृशम् पदं यस्य अन्ते रेफः अस्ति; अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य स्थाने आदेशः | खर् च अवसानं च खरवसाने तयोरितरेतरद्वन्द्वः, तयोः खरवसानयोः | खरवसानयोः सप्तम्यन्तं, विसर्जनीयः प्रथमान्तं, द्विपदमिदं सूत्रम् | रो रि (८.३.१४) इत्यस्मात् रः इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— रः पदस्य विसर्जनीयः खरवसानयोः संहितायाम् |
Swarup – September 2015