03 - असाधारणधर्मो लक्षणम्
ध्वनिमुद्रणानि |
---|
१) 01_mAnavasya-asAdhAraNa-dharmaH _2015-11-12 [60+ persons in attendance; please excuse backround noise for 1st 17 minutes, then group mute applied and sound is quite clear for remaining 70 minutes.] |
२) 02_mAnavasya-asAdhAraNa-dharmaH _2015-11-19 |
लक्षणं नाम किम् ? अव्याप्ति-अतिव्याप्ति-असम्भवदोषरहित-असाधारणधर्मः लक्षणम् | असाधारणधर्मः इत्युक्ते कः ? अव्याप्ति-अतिव्याप्ति-असम्भवदोषरहितः असाधारणधर्मः | तर्हि लक्षणं नाम किं पर्यवसितम्— अव्याप्ति-अतिव्याप्ति-असम्भवदोषरहित-धर्मः लक्षणम् | अस्य वाक्यस्य कोऽर्थः इति अग्रे पश्येम |
यथा गौः | गोः लक्षणं किं ? अधुना यस्य लक्षणम् उच्यते तत् लक्ष्यम् | कस्य लक्षणम् उच्यते ? गोः | तर्हि सर्वाः गावः लक्ष्याः | गो-लक्षणं नाम गवि एव विद्यमानो धर्मो भवेत् | अन्यत्र न भवेत् | निखिलासु अपि गोषु भवेत्, गो-अतिरिक्तेषु न भवेत् | तादृशो धर्मः असाधारणधर्मः | गोः लक्षणं कपिलरूपवत्त्वमिति उच्यताम् | रूपम् इत्युक्तौ वर्णः | भूमौ मृदः रूपमेव कपिलरूपमिति | मृद् नाम मृत्तिका | तर्हि कपिलरूपवत्त्वं गवां लक्षणम् | कपिलरूपवत्त्वं सर्वासु गोषु भवति वा ? नहि— काश्चन गावः श्वेतरूपवत्यः, काश्चन कृष्णरूपवत्यः | अतः कपिलरूपवत्त्वस्य अव्याप्तिः | लक्ष्यैकदेश-अवृत्तित्वम् | लक्ष्यस्य एकस्मिन् देशे नास्ति चेत्, लक्ष्यैकदेश-अवृत्तित्वम् | कपिलरूपाश्रयत्वं गवां लक्षणमिति उक्तम् | परन्तु गोषु सर्वत्र कपिलरूपवत्त्वं न वर्तते | अस्माभिः यत् लक्षणम् उच्यते, तत् सर्वासु लक्ष्यासु वर्तते इति प्रदर्शनीयम् | परन्तु कपिलरूपवत्त्वं यत् लक्षणम् उक्तं, सर्वासु गोषु नास्ति | अतः एतत् लक्षणम् अव्याप्ति-दोष-ग्रस्तम् | लक्ष्यैकदेश-अवृत्तित्वम् | कृष्णवर्णीयासु गोषु न वर्तते कपिलरूपाश्रयत्वं, नाम कृष्णवर्णीयगोषु कपिलरूपाश्रयत्व-अवृत्तित्वम् | कासाञ्चित् गवां वृत्तित्वाभावः अस्ति, कपिलरूपाश्रयत्वस्य | अयमेव अव्याप्तिदोषः | अतः कपिलरूपाश्रयत्वं गोः लक्षणमिति मास्तु |
शृङ्गम् | या शृङ्गवती अस्ति सा शृङ्गिणी; तस्यां शृङ्गित्वं वर्तते | गोः असाधारणधर्मः शृङ्गित्वं वा ? अधुना दोषः नास्ति किल ? सर्वासु गोषु शृङ्गित्वं विद्यते | प्रत्येकस्याम् अपि गवि शृङ्गं तु भवत्येव | तर्हि शृङ्गित्वं गोः लक्षणम् इत्युच्यते चेत्, अव्याप्तिदोषः नास्ति | लक्ष्यस्य एकदेशे शृङ्गित्वं नास्ति, इति तु नास्ति एव | निखिलासु गोषु वर्तते शृङ्गित्वम् | परन्तु ! अन्यत्र अस्ति वा ? महिषे हरिणे च शृङ्गित्वं विद्यते किल | तर्हि इदं लक्षणम् अतिव्याप्तम् | सर्वासु गोषु शृङ्गित्वं वर्तते सत्यं, परन्तु गो-अतिरिक्तेषु गतम् एतत् लक्षणम् | महिषेषु अपि अस्ति शृङ्गित्वम्; अत एव अत्रोक्तम् अतिव्याप्तिः | अलक्ष्यवृत्तित्वमिति | अत्र लक्ष्याः गावः; अलक्ष्याः महिषादयः, अत्रापि लभ्यते शृङ्गित्वम् | शृङ्गित्वम् अतिव्याप्तिदोष-ग्रस्तम् | अतिव्याप्तिदोषसहितत्वात् शृङ्गित्वं गोः लक्षणमिति मास्तु |
अनन्तरम् असम्भवः | एकशफत्वं गोः लक्षणमिति वदामः | एकः शफः यस्याः सा एकशफा | गोः पादे विशेषाङ्गं वर्तते, बहु कठिनं चेति | अश्वे अपि भवति | परन्तु गोः पादे कति शफाः भवन्ति ? द्वौ शफौ | एकस्तु न भवति अपि तु द्वावेव | अश्वस्य एक एव शफः; किञ्च गोः द्वौ | तर्हि एकशफत्वं कुत्र वर्तते ? अश्वे | गोषु तु नास्त्येव | अस्माकं लक्ष्याः काः ? निखिलाः गावः | तत्र तु एकशफत्वं नास्ति | लक्ष्यसामान्य-अवृत्तित्वम् | लक्ष्यसामान्ये अभावः, अतः असम्भवः इति उच्यते | गवि सर्वत्र द्विशफत्वम् | स्मर्यतां, लक्ष्यस्य एकदेशे कपिलरूपवत्त्वं न वर्तते स्म | परन्तु अत्र एकशफत्व-विषये सामान्येऽपि नास्ति; कुत्रापि नास्ति | अतः कपिलरूपवत्त्वविषये अव्याप्तिः; एकशफवत्त्वविषये असम्भवः | इत्थम् अत्र उक्तं लक्ष्यसामान्य-अवृत्तित्वं, नाम सर्वासु लक्ष्यासु नास्ति |
तर्हि गोः लक्षणं, गोः असाधारणधर्मः कोऽर्हति ? सास्नावत्त्वम् | गोः कण्ठभागे अङ्गविशेषः भवति | चर्मविशेषः; कण्ठभागे इतोऽपि चर्म बहिर्भागे अस्ति | कण्ठस्य अधोभागे लोलति सास्ना इति | सास्ना-आश्रयत्वं गवि मात्रम् अस्ति | अश्वे नास्ति, महिषे नास्ति | अलक्ष्ये महिषादौ न वर्तते | अपि च गोषु सर्वत्र वर्तते | श्वेतगौः वा स्वीक्रियतां, कपिलगौः वा स्वीक्रियताम्—गोषु सास्नावत्त्वं भवति एव | इत्थञ्च सास्नावत्त्वं, सास्ना-आश्रयत्वं गोः लक्षणम् |
असाधारणधर्मः सर्वेषु लक्ष्येषु भवेत्, अन्यत्र कुत्रापि न भवेत् | तादृशलक्षणं असाधारणधर्म इति | अव्याप्तिः न भवेत्, अतिव्याप्तिः न भवेत्, असम्भवः न भवेत् | अतः उच्यते यत्—अव्याप्ति-अतिव्याप्ति-असम्भवदोषरहित-असाधारणधर्मः लक्षणम् |
गो-शब्दः धेन्वर्थे, स्त्रियां च
गौः गावौ गावः
गाम् गावौ गाः
गवा गोभ्याम् गोभिः
गवे गोभ्याम् गोभ्यः
गोः गोभ्याम् गोभ्यः
गोः गवोः गवाम्
गवि गवोः गोषु
- - - - - - - - - - - - -
* ये जनाः "वत्त्वं" विषये न जानन्ति, तेभ्यः इदम्—
गुणवान् इत्युक्तौ अस्य अस्मिन् वा गुणः वर्तते, सः गुणवान् | मतुप् इति प्रत्ययः | मतुप् इत्यस्य अर्थः अस्य अस्मिन् वा इति | प्रातिपदिकं (मूलरूपं) गुणवत् इति |
त्व-प्रत्ययः इत्युक्ते अस्य भावः | घटत्वम् इत्युक्ते घटस्य भावः | उन्नतत्वम्, उन्नतस्य भावः | गुणवत्त्वं, गुणवतः (गुणवान् इत्यस्य) भावः | घटत्वं घटे अस्ति, उन्नतत्वम् उन्नते अस्ति, गुणवत्त्वं गुणवति अस्ति |
दृष्टान्ते भूतलं, घटः, घटत्वम् | भूतले कश्चन घटः अस्ति; घटे घटत्वम् अस्ति | एवञ्च स्तरत्रयं वर्तते—
घटत्वम्
घटः
भूतलम्
सर्वोपरितने स्तरे घटत्वम् अस्ति | मध्यमस्तरे घटः अस्ति | अधोभागे भूतलम् अस्ति | उपरि गमनार्थं त्व-प्रत्ययं योजयामः; अधोभागे गमनार्थं मतुप् (पुंसि -वान्, स्त्रियां -वती, नपुंसके -वत्) इति प्रत्ययं योजयामः | अतः घटत्वम् इत्यस्मात् घटस्य दिशि गन्तुम् इच्छामश्चेत्, मतुप् योजयामः | मतुप्-प्रत्ययस्य योजनेन आश्रयत्वं प्राप्यते | घटत्वम् + मतुप् → घटत्ववत्; घटवाचकपदम् अतः पुंसि घटत्ववान् | घटत्ववान् घटः | घटात् भूतलस्य दिशि गन्तुम् इच्छामश्चेत्, मतुप् योजयामः | घटः + मतुप् → घटवत्; भूतलवाचकपदम् अतः नपुंसके घटवत् एव | घटवत् भूतलम् | घटवत् इत्यस्य भावसिद्ध्यर्थं त्व-प्रत्ययं योजयामः | घटवत् + त्व → घटवत्त्वम् | घटवत्त्वं घटस्य स्तरे वर्तते; नियतलिङ्गत्वात् नपुंसके घटवत्त्वम् एव | पुनः अधोभागे गमनार्थं मतुप् योजयामः | घटवत्त्वम् + मतुप् → घटवत्त्ववत् | घटवत्त्ववत् घटवत्त्वस्य आश्रयः अपि च भूतलवाचकपदम्, अतः अधोभगे वर्तते | तर्हि आहत्य परिणामः एवम्—
उपरिस्तरे— घटत्वम्
मध्यमस्तरे— घटत्ववान् घटः घटवत्त्वम्
अधमस्तरे— घटवत् भूतलम् घटवत्त्ववत्
अधुना गोः विषये स्थितिः अपि तथैव | गौः कपिलरूपवती चेत्, कपिलरूपवत्त्वं इति भावः गवि अस्ति | शृङ्गित्वम् अपि गवि अस्ति, अतः गौः शृङ्गवती च शृङ्गित्ववती चेति |
Swarup – September 2013 (Updated November 2015)
---------------------------------