19 - संयोगस्य आधारेण पृथक्त्वभेदयोः परस्परवैलक्षण्यम्
"तर्हि सिद्धं नः समीहितं गुणान्तरं पृथक्त्वम् | कथम् ? उच्यते | पृथगाश्रयाश्रितावित्यस्य पृथक्त्ववन्तौ यौ आश्रयौ तदाश्रितौ इत्यर्थः | तादृशयोः वृक्षपक्षिणोः जायते संयोगः | एवं संयोगाजसंयोगेऽपि |” समीहितम् इति इष्टम्, अभिलषितं; भ्वादिगणीयः ईह् चेष्टायां, लटि ईहते, क्तान्ते ईहित | लक्ष्यं 'गुणान्तरं पृथक्त्वम्' इति वक्ष्यमाणम् | पृथगाश्रयाश्रितावित्यस्य इति 'पृथगाश्रयाश्रितौ इत्यस्य'; तस्य च अर्थः 'पृथक्त्ववन्तौ यौ आश्रयौ तदाश्रितौ' | वृक्षस्य अवयवाः, पक्षिणः अवयवेभ्यः पृथक् इति कृत्वा वृक्षस्य अवयवेषु पृथक्त्वम् इति गुणः वर्तते | पुनः पक्षिणः अवयवाः, वृक्षस्य अवयवेभ्यः पृथक् इति कृत्वा पक्षिणः अवयवेषु पृथक्त्वम् इति गुणः वर्तते | अनेन वृक्षस्य अवयवः पृथक्त्ववान्, पक्षिणः अपि अवयवः पृथक्त्ववान् | द्वौ अपि अवयवौ (वृक्षस्य एकः, पक्षिणः च एकः) अवयविनः आश्रयः, अतः इमौ द्वौ अपि पृथक्त्ववन्तौ आश्रयौ | वृक्षः स्वस्य पृथक्त्ववति आश्रये आश्रितः, पक्षी अपि स्वस्य पृथक्त्ववति आश्रये आश्रितः, अनेन पृथक्त्ववन्तौ यौ आश्रयौ तदाश्रितौ वृक्षपक्षिणौ 'पृथगाश्रयाश्रितौ' | पृथगाश्रयाश्रितौ इत्यस्मात् युतसिद्धौ, तस्माच्च वृक्षपक्षिणोः जायते संयोगः |
"कपालभूतलयोः पृथगाश्रयाश्रितत्वेन तयोः संयोगसम्भवेऽपि घटकपालयोः तथाविधत्वाभावात् न तयोः कर्मजसंयोगजसंयोगोत्पत्तिः |” कपालभूतलयोः कर्मजसंयोगश्च संयोगजसंयोगश्च उत्पत्तुम् अर्हति | किमर्थम् ? पृथगाश्रयाश्रितत्वात् | किन्तु घटकपालयोः तथाविधं पृथगाश्रयाश्रितत्वं नास्ति | तथाविधत्वस्य अभावात् न तयोः कर्मजसंयोगजसंयोगस्य उत्पत्तिः |
अत्र गम्भीरतया 'संयोगः कुत्र कुत्र भवति' इति विषये अस्माकं परिशीलनं साधितम् | परन्तु अन्ततः कं विषयं लक्ष्यीकृत्य इयं सर्वा चर्चा जाता ? पृथक्त्वभेदयोः परस्परवैलक्षण्यम् इति विषयमेव लक्ष्यीकृत्य | पृथक्त्वं भेदश्च भिन्नौ स्तः, अथवा समानौ स्तः, इत्यस्य निश्चयार्थम् एतत् सर्वं संयोगसम्बद्धविषयम् अधीतवन्तः | तर्हि संयोगस्य, पुनः पृथक्त्वभेदयोः परस्परवैलक्षण्यस्य, एकस्य अपरेण सह कः सम्बन्धः ? “भेदः एव पृथक्त्वम् इति आक्षेपस्य निरासः"; स च निरासः कुत्र ? अस्मिन् लक्ष्यीकृतविषये न किमपि उक्तम् | —अधुना उच्यते |
एतावता अस्माभिः दृष्टं यत् पृथक्त्वभेदयोः स्थले प्राचीनानां मतं भिन्नं, पुनः नव्यनैयायिकानां मतं भिन्नम् | प्राचीननैयायिकानां मतम् अनुसृत्य पृथक्त्वं गुणत्वात् नवद्रव्यवृत्तिः, नाम गुणे सति द्रव्यभिन्नेषु पदार्थेषु न भवति | 'घटः पटात् पृथक्' इति प्रतीतौ पृथक्त्वरूपगुणः घटे भवति, किन्तु 'रूपं घटात् पृथक्' इति प्रतीतौ वस्तुतः रूपस्य गुणत्वात् पृथक्त्वरूपगुणः तस्मिन् नार्हति; अपि तु 'रूपं घटात् पृथक्' इति वाक्येन "घटभेदः रूपे वर्तते' इत्येव पर्यवसितं यतोहि गुणाः द्रव्येषु एव न तु गुणेषु | किन्तु भेदः तु सर्वपदार्थवृत्तिः, सर्वेषु सप्तसु पदार्थेषु विद्यमानः अयम् अन्योन्याभावः |
अस्य उत्तरे नव्यनैयायिकैः उक्तं यत् 'भेदस्य सर्वपदार्थवृत्तित्वात्, यत्र गुणत्वात् पृथक्त्वं गुणे न सम्भवति तत्र भेदः भवति, पुनः यत्र द्रव्ये पृथक्त्वम् इति गुणः विद्यते, तत्र तस्मिन्नेव अर्थे भेदोऽपि भवति इति कृत्वा सर्वत्र भेदः एव भवतु, तथाकथितगुणरूपिणः पृथक्त्वस्य का आवश्यकता ? सर्वं भेदः एव' |
पुनः प्राचीनानां मतमनुसृत्य विभक्तिभेदः इति अस्माभिः अवलोकितः— 'घटः पटो न', इत्यनेन भेदस्थले प्रतियोग्यनुगिवाचकपदयोः प्रथमाविभक्तिः, किन्तु 'घटः पटात् पृथक्' इत्यनेन पृथक्त्वस्थले अवधिवाचकपदात् पञ्चमी, आश्रयवाचकपदात् प्रथमा | तत्र नव्यैः उत्तररूपेण प्रोक्तं यत् प्रक्रियावशात्, प्रयोगभेदेन च अर्थभेदः न सिध्यति |
ततः अग्रे, देवदत्तमहोदयाः वदन्ति, 'अतः एवं वाच्यं', यस्मात् आरभ्य संयोगस्य विस्तृता चर्चा जायते | अस्माभिः अपि अस्मिन् संयोग-विषये स्म्पूर्णतया परिशीलनं कृतम् | अधुना तस्य फलं द्रष्टव्यम् | प्रसङ्गवशात् पृथगाश्रयाश्रितत्व-शब्दः अस्माभिः ज्ञातः | तत्र पृथगाश्रयाश्रितयोः एव युतसिद्धयोः संयोगः सम्भवति इति दृष्टम् | यथा घटभूतलयोः पृथगाश्रयाश्रितत्वं, युतसिद्धत्वं च अतः तयोः संयोगो जायते | किन्तु पृथगाश्रयाश्रितत्वं यत्र नास्ति, तत्र संयोगः न सम्भवति | यथा घटकपालयोः पृथगाश्रयाश्रितत्वं, युतसिद्धत्वं च नास्ति अतः तयोः संयोगो न जायते |
अधुना आयाति अस्माकं मुख्यबिन्दुः— एषु विषयेषु 'पृथगाश्रयाश्रितत्वम्' इत्यस्य स्थाने किमर्थं 'भिन्नाश्रयाश्रितत्वम्' इति न स्यात् ? 'भिन्नाश्रयाश्रितत्वम्' इति वदामः चेत् काऽपि हानिः वा ? वारं वारं 'पृथगाश्रयाश्रितत्वम्' इति रटामः | अग्रे गत्वा 'भिन्नाश्रयाश्रितत्वम्' इत्येव रटामश्चेत् सम्यक् ? इति अस्मिन् पाठे प्रमुखप्रश्नः |
इतः अग्रे यल्लिखितम् अस्मिन् प्रसङ्गे विद्याधर्यां, तस्मिन् अनेके पारिभाषिकशब्दाः सन्ति, गभीरविचाराः च सन्ति | अतः विषयस्य अवगमनार्थं प्रथमतया सरलरीत्या पृथक्त्वभेदयोः प्रसङ्गे काचित् चर्चा अत्र भवतु | सर्वप्रथमं पृथक्त्वं नाम किं, भेदश्च नाम कः इति अवगच्छेम | अनेन तयोः मध्ये भेदः कः इति मनसि स्पष्टं भवतु | तदा विद्याधर्यां किं लिखितम् अस्ति इत्यस्मिन् विषये अस्माकं प्रबोधः अवश्यं जायेत |
विषयपरिचयः
कपाले यदा क्रिया जायते, तया क्रियया, कपालस्य भूतलेन सह संयोगः भवति | अधुना तस्मिन्नेव कपाले घटः अस्ति | परन्तु कपालस्य घटेन सह संयोगः कुतो न जायते इति प्रश्नः | तस्य समाधानम् उच्यते पृथगाश्रयाश्रितयोरेव संयोगः भवति | अत्र भेदेन निर्वाहो न भवति | कपालस्य च घटस्य च भेदः तु अस्ति | कपालस्य च भूतलस्य चापि भेदः अस्ति | परन्तु यौ पृथगाश्रयाश्रितौ, इत्युक्ते आकाशदेशः भिन्नः याभ्यां व्याप्रियते, तयोरेव 'पृथक्' इति व्यवहारो भवति | अग्रे उदाहरणानि परशील्य इमं विषयं बोधिष्यामः |
पृथक्त्वम्
एका कपालिका वामहस्ते स्थापिता | दक्षिणहस्ते कपालः स्थापितः | तदा किम् उच्यते ? 'इयं कपालिका कपालात् पृथक्' | अधुना केवलं घटः अस्ति, स च कुत्र ? कपाले | कपालं विना घटः भवति वा ? न भवति | स च कपालः कपालिकायाम् | कपालिकां विना कपालः भवति वा ? न भवति | तर्हि यत्र घटः अस्ति, तत्र कपालः अपि अस्ति, कपालिका अपि अस्ति | एतादृशेषु स्थलेषु वक्तुं प्रभवामः वा यत् 'कपालः घटात् पृथक्', 'कपालिका कपालात् पृथक्' ? कुतः ? प्रथमदृष्टान्ते द्वितीयदृष्टान्ते च किं वैलक्षण्यम् ?
यत्र केवलं घटः अस्ति, स च घटः यद्यपि एकाकी, किन्तु कपाले अस्ति एव | तस्यां दशायां घटकपालौ आकाशे भिन्ने देशे न स्तः | येन देशावच्छेदेन घटः अस्ति, तस्मिन् देशे एव कपालोऽपि वर्तते, तद्देशे एव कपालिकाऽपि वर्तते | तस्मात् तत्र पृथक्त्वरूपगुणः नोत्पद्यते | अत्र 'कपालः घटात् पृथक्', 'कपालिका कपालात् पृथक्' इति वक्तुं न शक्यते यतोहि कपालः घटः च एकस्मिन् एव देशे स्तः; पुनः कपालिका कपालः एकस्मिन् एव देशे स्तः | 'एकस्मिन् देशे' इति कारणतः 'पृथक्' इति व्यवहारः न शक्यः |
परन्तु तत्र एव, यत्र केवलं घटः वर्तते स्वस्य कपालादिषु अवयवेषु, यद्यपि 'कपालः घटात् पृथक्' इति व्यवहारो न सम्भवति, तथापि 'भेदः' वर्तते | कपालिका अन्या, कपालः अन्यः, घटः अन्यः | तस्मात् भेदः, अन्योन्याभावः वर्तते | परन्तु एषां देशभेदः यतः नास्ति, एकस्मिन्नेव देशे घटः अपि वर्तते, कपालः अपि वर्तते, कपालिका अपि वर्तते, अतः पृथक्त्वरूपगुणः नोत्पद्यते
|
संयोगः
तर्हि यत्र केवलम् एकः घटः वर्तते स्वस्य कपालादिषु अवयवेषु, तत्र 'कपालः घटात् पृथक्' इति प्रत्ययो न भवति, इत्युक्तम् | किन्तु भेदस्तु अस्ति | नाम घटः कपालो न, तौ द्वौ भिन्नौ | अत्र घटकपालयोः संयोगः सम्भवति किम् ?
अधुना वामहस्ते एकः कपालः स्थाप्यते, तत्र कपालस्य आश्रयः कपालिका यस्मात् तस्मिन् हस्ते कपालिका अपि अस्ति | दक्षिणहस्ते घटः स्थाप्यते— अन्यः घटः | तेन वामहस्ते स्थितेन कपालेन न जातः अयं दक्षिणहस्ते विद्यमानः घटः | दक्षिणहस्ते कपालः अस्ति वा ? अस्ति किल— अयं घटः समवायसम्बन्धेन कपले भवति एव | वामहस्ते यः कपालः वर्तते, दक्षिणहस्ते यः घटः वर्तते, द्वयोः संयोगः सम्भवति किम् ?
वामहस्ते यः कपालः अस्ति, तस्मिन् अनुकूलक्रिया भवति चेत्, तया क्रियया दक्षिणहस्ते विद्यमानेन घटेन सह संयोगः अवश्यं भवति |
पूर्वतने उदाहरणे घटकपालयोः संयोगः न सम्भवति स्म, इदानीन्तने उदाहरणे घटकपालयोः संयोगः सम्भवति | पूर्वतने उदाहरणे केवलं घटः अस्ति, स्वस्य अवयवे कपाले च आश्रितः | तस्मिन् घटे यदा क्रिया जायते, तदा अनया क्रियया तत्र वर्तमानेन कपालेन सह संयोगो न भवति | पृथक्त्वरूपगुणः नास्ति, भेदस्तु अस्ति, संयोगो नास्ति | द्वितीये उदाहरणे एकस्मिन् हस्ते कपालः, अपरस्मिन् हस्ते च घटः | अत्र भिन्नदेशे स्तः, तस्मात् पृथक्त्वरूपगुणः उत्पद्यते, अनेन संयोगो भवति |
इदानीं वामहस्ते यः कपालः अस्ति, तम् अपसारयतु | दक्षिणहस्ते यः कपालः अस्ति, तस्मिन् क्रिया जायताम्, अवयविना घटेन संयोगः जायताम् | किन्तु तत्र संयोगः न भवति | कुतः ? तयोः पृथक्त्वं नास्ति | पृथक्त्वरूपगुणः नास्ति | तस्मात् पृथगाश्रयाश्रितौ न स्तः |
यदा स्वातन्त्र्येण स्तः— कपालः वामहस्ते, घटः दक्षिणहस्ते, द्वयोः परस्परपृथक्त्वं वर्तते | भिन्नाकाशदेशे तयोः व्यापारः अस्ति, स्थितिर्वर्तते; तस्मात् पृथक्त्वरूपगुणः उत्पद्यते, येन द्वयोः अपि संयोगः भवति |
पृथगाश्रयाश्रितौ भिन्नाश्रयाश्रितौ च
द्वयोः पृथगाश्रयाश्रितत्वं यत्र वर्तते, तत्र संयोगो जायते | अत्र 'पृथगाश्रयाश्रितौ' इति पदे पृथक्-पदस्य स्थाने 'भिन्न'— 'भिन्नाश्रयाश्रितौ' इति कर्तुं न शक्यते | अवयवावयविनौ घटकपालौ भिन्नाश्रयाश्रितौ स्तः | एकस्मिन् एव हस्ते एकः घटः, तस्मिन् कपालः अपि अस्ति, कपालिका अपि अस्ति, तत्र भिन्नौ यौ आश्रयौ, तदाश्रितौ द्वौ स्तः— परन्तु संयोगः न जायते | घटस्य अवयवः कपालः; कपालस्य अवयवः कपालिका; आश्रयभूतयोः कपालकपालिकयोः भेदस्तु अस्त्येव; द्वयोः परस्परः अन्योन्याभावः अस्त्येव— द्वावपि सर्वथा भिन्नौ |
यद्यपि घटकपालयोः भेदः अस्ति, तथापि द्वयोः मध्ये पृथगाश्रयाश्रितत्वं नास्ति | कुतः ? कपालः स्वस्य समवायिकारणे आश्रितः | घटः कुत्र अस्ति ? स्वस्य समवायिकारणे कपाले | परन्तु घटस्य यत् समवायिकारणं कपालः, एवं कपालस्य यत् समवायिकारणं कपालिका, अनयोर्मध्ये पृथक्त्वं नास्ति | अनेन द्वयोरपि समवायिकारणयोः भिन्नदेशे स्थितत्वं नास्ति | भिन्नदेशे यदा भवतः, तदा एव पृथक्त्वम् इति गुणः उत्पद्यते | तस्मात् पृथगाश्रयाश्रितत्वाभावात् द्वयोः मध्ये संयोगः न सम्भवति | पृथगाश्रयोः आश्रितौ यौ, तयोरेव संयोगः, इति नियमः अङ्गीकृतः |
एकस्मिन्नेव हस्ते यदा केवलं घटः, स्वाश्रये कपाले, स्वाश्रये कपालिकायां, त्रीणि अपि द्रव्याणि सन्ति, तदा घटः भिन्ने आश्रये स्थितः, कपालः भिन्ने आश्रये स्थितः | अनेन भिन्नाश्रयाश्रितौ द्वावपि | तर्हि क्रियया संयोगः कुतो न भवति इति प्रश्नः तदवस्थः | नवीनग्रन्थे तत्र पर्यन्तं न चिन्तितं, नव्यैः च उक्तं 'पृथक्त्वं नापेक्षते; भेदेन एव निर्वाहो भवति' | परन्तु वस्तुतः प्राचीनानाम् आशयः समक् अस्ति, इति विद्याधर्याः ग्रन्थकारस्य अभिप्रायः |
सारांशः
आहत्य भिन्नशब्दः इत्युक्ते 'समानं न', किन्तु पृथक्-शब्दः इत्युक्ते भिन्नदेशे अस्ति | पृथक्त्वं कदा उत्पद्यते ? यदा भिन्ने देशे भवतः तदा एव | एकस्मिन् हस्ते यः घटः, तस्मिन् च कपालः कपालिका च, तत्र पृथक्त्वं नैव उत्पद्यते | पृथक्त्वस्य कृते भिन्नदेशः अपेक्षते | भेदस्य कृते तादात्म्यसम्बन्धावच्छिन्न-प्रतियोगिता अपेक्षते, अधिकरणम् अपेक्षते | यदा द्वयोः द्रव्ययोः परस्परभिन्नदेशः भवति, तदा एव पृथक्त्वम् उत्पद्यते | अतः कदाचित् भवितुम् अर्हति कदचिच्च न भवितुम् अर्हति, देशम् अनुसृत्य | किन्तु भेदस्तु नित्यः— कयोः अपि द्वयोः द्रव्ययोः मध्ये भेदः सर्वदा भवति | यथा पूर्वम् उक्तं विद्याधर्याम्, “सर्वोऽपि पदार्थः तादात्म्यसम्बन्धेन स्वस्मिन् भवति | तेन सम्बन्धेन घटो नास्तीत्यभावः घटं विहाय जगति सर्वत्र भवति | अयमेव च भेदः | प्रतियोगिनं विहाय सः सर्वत्र भवति" | अयं भेदः नित्यः; किञ्चन द्रव्यं विश्वे कुत्र, कस्मिन् देशे अस्ति, इति आधारेण निर्णयः इति किमपि नास्ति; वस्तु कुत्रापि भवतु नाम, प्रतियोगिनं विहाय स च भेदः सर्वत्र सर्वदा भवति |
घटकपालयोः पृथक्त्वाभावः परम्परया इति न
पूर्वम् अस्माभिः उक्तं यत् घटस्य अवयवः कपालः, कपालस्य च अवयवः कपालिका— कपालः कपालिका च 'पृथक्' इत्यस्मात् प्रश्नः आगतः आसीत् यत् अवयवावयविनोः संयोगो भवेत् | तत्र समाधानम् उक्तं यत् परम्परया कपालिका कपालस्य अपि घटस्य अपि अवयवः इति कृत्वा अवयवेषु पृथक्त्वं नास्ति | किन्तु अधुना बुद्धम् अस्माभिः यत् वस्तुतः कपालः कपालिका च पृथक् न यतोहि भिन्नदेशे न स्तः; भिन्नौ स्तः, किन्तु पृथक् न | एतस्मात् 'परम्परया कपालिका कपालस्य अपि घटस्य अपि अवयवः' इति तादृशं 'कथञ्चित्' समाधानं नापेक्षितम् | कपालः कपालिका च पृथक् एव न स्तः, भिन्नौ, किन्तु पृथक् न |
एतावता संयोगस्य आधारेण पृथक्त्वभेदयोः परस्परवैलक्षण्यम् इति विषयः प्रायः स्पष्टः स्यात् | अग्रे एतत् सर्वं कथं प्रतिपादितं भवति विद्याधर्यां, तस्य बोधनार्थं केचन नूतनसिद्धान्ताः अवगन्तव्याः | ते च अत्र उच्यन्ते |
अवधिः इति विषयः
परिचयः
अवधित्वम् इति स्वरूपसम्बन्धविशेषः | फलं वृक्षात् यदा पतति, तदा विभागः इति गुणः उभयत्र वर्तते | विभागः वृक्षे अपि, फले अपि | परन्तु इदं पतनं वृक्षावधिकं वा, फलावधिकं वा ? फलावधिकं न, फलं तु कर्ता— फलं पतति | इदं पतनं वृक्षावधिकम् | विभागः यद्यपि उभयत्र वर्तते, परन्तु यस्मिन् क्रिया नास्ति, सः यदा विभागवान् भवति, तस्य 'अवधिः' इति व्यवहारः भवति | अत्र च 'अपादानकारकम्' इति संज्ञा व्यवह्रीयते |
ध्रुवमपायेऽपादानम् (१.४.२४) [ध्रुवम् अपाये अपादानम्] = ध्रुवं यदपाययुक्तमपाये साध्ये यदवधिभूतं तत् कारकमपादानसंज्ञं भवति | अत्र अपायः इत्युक्ते वियोगः | अपाये यत् ध्रुवं तस्य अपादानसंज्ञा भवति | यस्मात् वियुक्तो भवति, तस्य अपादानसंज्ञा |
यत्र अपादानत्वं भवति, तत्र काचन क्रिया भवति | एतादृशेषु स्थलेषु विभागः इति पदार्थस्य कश्चन अवधिर्भवति | पतनस्यापि अवधिर्भवति | अतः विभागः सावधिकः, पतनमपि सावधिकम् |
अधुना पृथक्त्वस्य स्थले अपादानकारकात् इदं भिन्नम् | तथापि इदं पृथक्त्वं सावधिकम् | अपादानं तु परिष्कृतम् अस्ति— अतिव्याप्तम्, अव्याप्तं मा भूत् इति परिष्कारः | क्रियाजन्यविभागः, क्रियारहितविभागः— एतादृशीषु परिस्थितिषु उभयत्र अपादानत्वं भवत्येव | परन्तु यत्र पृथक्त्वबुद्धिर्जायते, कुत्रापि क्रियाधिकं न भवति | तथापि पृथक्त्वबुद्धिर्जायते | अत्र घटः अस्ति, तत्र कपालः | कुत्रापि क्रिया नास्ति | न कोऽपि विभक्तः | तथापि 'अयम् अस्मात् पृथक्' इति बुद्धिर्जायते, भिन्नदेशे स्तः इत्यस्मात् | विभागः यः वर्तते, तस्य कश्चन अवधिर्भवति | पतनस्यापि अवधिर्भवति | पृथक्त्वस्यापि अवधिर्भवति |
तर्हि इदं पृथक्त्वं, तद्यदा 'घटात् पृथक्' इति वदामः, तदा घटावधिकम् इति उच्यते | कपाले यत् पृथक्त्वं, तत् घटावधिकं पृथक्त्वम् | तत्र क्रिया नोत्पन्ना, विभागः नोत्पन्नः | 'कपालः घटात् पृथक्' इति प्रत्ययः | कदा अयं प्रत्ययः भवति ? भिन्नदेशस्थत्वे एव भवति |
अवधित्वम् अनेकत्र भवति— पतनस्थले, विभागस्थले, पृथक्त्वस्थले | इदम् अवधित्वं स्वरूपसम्बन्धविशेषः; प्रतीयमानः अर्थविशेषः इत्युच्यते | मनसि च एवं बोध्यं यत् 'कपालः घटात् पृतक्' इति प्रत्यये, अवधित्वं घटे, अवधिकत्वं च पृथक्त्वे | सावधिकं पृथक्त्वम् | पृथक्त्वं, विभागः, भेदः, पतनम्, एते सावधिकाः पदार्थाः | धेयं यत् पृथक्त्वं सावधिकं, न तु पृथक्त्वस्य आश्रयः |
अधुना भेदः नित्यः, सर्वदापि भवति; भिन्नदेशस्थत्वं नापेक्षितम् | भेदस्य अवधेः प्रतियोगी इति संज्ञा कृता | कुतः इति चेत्, सः अभावरूपो भवति | तस्मात् भेदस्य 'अवधिः' इति सामान्यतया व्यवहारो नास्ति, प्रतियोगी इति व्यवहारः | किन्तु यद्यपि भेदस्य अवधिः 'प्रतियोगी' इत्युच्यते, अन्ततः भेदः अपि सावधिकपदार्थः इति बोध्यम् |
तर्हि अवधि-विचारः कुत्र कुत्र सम्भवति ? 'घटः कपालात् पृथक्' इति प्रतीतौ कपालः अवधिः, घटः आश्रयः पृथक्त्वस्य | 'कपालः घटात् पृथक्', अत्र कपालः पृथक्त्वस्य आश्रयः, घटः अवधिः | अत्र च अवधेः कृते क्रिया नापेक्षिता | यत्र विभागः भवति, तत्र क्रिया अपेक्षिता | यत्र भेदः अपेक्षितः, तत्र प्रतियोगिता ज्ञातव्या | इदं पृथक्त्वं ज्ञातुं न प्रतियोगिता ज्ञायते, न वा क्रिया ज्ञायते; किन्तु आश्रयस्य भिन्नदेशस्थत्वं ज्ञायते |
अवधि-चिन्तनम्
तर्हि केचन सावधिकपदार्थाः सन्ति, ते च के अपि च कथं निश्चेतुं शक्नुमः कः सावधिकः ? यथा भेदः, विभागः, पृथक्त्वं, पतनम्, इति सावधिकाः | अधुना संयोगः अपि तथा वा इति प्रश्नः | सामान्यतया वदामः उभयत्र विद्यमानः एक एव संयोगः, नाम अयं संयोगः द्विनिष्ठः | किन्तु क्वचित् तस्य प्रतीतिवशात् सावधिकत्वम् उच्यते |
यथा यदा वृक्षात् फलं पतति, तदा एक एव विभागः वृक्षे अपि वर्तते, फले अपि वर्तते | अत्र यद्यपि विभागः उभयत्र विद्यमानः, किन्तु प्रतीतिवशात् यदा 'अपरस्मिन् अधिकरणे अस्ति' इति अस्माभिः ज्ञापनीयं, यथा फलविशिष्टविभागः यदा उच्यते, तदा स च विभागः 'वृक्षावधिकः' इति व्यवहारो भवति | वस्तुतः विभागपदार्थे तादृशवैलक्षण्यं नास्ति | किन्तु यदा तादृशप्रतीतिः वर्णनीया, तदा अवधिकत्वम् आरोप्यते |
दृष्टान्ते क्वचित् विभागस्य अधिकरणत्वेन फलम् एव इष्टं भवति, वृक्षः च अनिष्टः भवति | यथा 'वृक्षात् फलं पतति' इति यदा वर्णयामः, तदा वृक्षावधिकः विभागः फले इति वदामः | यतोहि अत्र अपादानकारकं; वृक्षश्च ध्रुवः | अतः वृक्षः एव अवधिः इति विचिन्त्य, तथा ब्रूमः | किन्तु वस्तुतः विभागः वृक्षे अपि वर्तते, फले अपि वर्तते, इति कृत्वा 'फलात् पतति' इत्येतादृशप्रयोगस्य आपत्तिः स्यात् | तादृशापत्तीनां वारणार्थं 'तत्तदावधिकः विभागः तत्र तत्र' इत्येव स्वीक्रियते | अनेन 'वृक्षावधिकः विभागः फले' इति व्यवहारः |
अत्र यथोक्तम् अस्य विभागपदार्थस्य वैलक्षण्यं नास्ति यतोहि स च विभागः द्विनिष्ठः पदार्थः, किन्तु यदा एकस्मिन् एव पदार्थे विद्यमानः विभागः अस्माकं विवक्षितः, तदानीं सः अन्यावधिकः विभागः इति उच्यते | अनेन वृक्षावधिकः विभागः फले एव इति नियमनं सिध्यति | यद्यपि विभागरूपपदार्थः उभयनिष्ठः— 'वृक्षात् फलं पतति', अत्र विभागः वस्तुतः वृक्षेऽपि अस्ति, फलेऽपि अस्ति— किन्तु यदा एकावधिकः इत्युक्तं, तदा सः अपरस्मिन् एव तिष्ठति, इति प्रतीतेः नियमनम् |
यदा वृक्षे विभागः बोधनीयः, तदा सः फलावधिकः विभागः | फले बोधनीयश्चेत्, वृक्षावधिकः विभागः | उभयत्र एक एव पदार्थः, स्वभावेन द्विनिष्ठः, किन्तु प्रतीतिवशात् वैलक्षण्यम् आनीतम् |
पृथक्त्वं न तथा | पृथक्त्वं न द्विनिष्ठम् अपि तु एकनिष्ठमेव | पृथक्त्वं स्वभावेन सावधिकं, प्रत्येकस्मिन् विद्यमानम् | 'वृक्षः फलात् पृथक्' इति प्रतीतौ, वृक्षे फलावधिकं पृथक्त्वम् अन्यत्; 'फलं वृक्षात् पृथक्' इति प्रतीतौ, फले वृक्षावधिकं पृथक्त्वम् अन्यत् | अत्र द्वयोः पृथक्त्वपदार्थयोः भेदः अस्ति, वस्तुनोः भेदः |
किन्तु विभागः द्विनिष्ठः, उभयत्र विद्यमानः, अतः उभयत्र समानवस्तु, समानविभागः | किन्तु द्विनिष्ठः सन्नपि क्वचित् प्रतीतिसम्पादनार्थम् एकावधिकः अपरस्मिन् एव इति नियम्यते | 'वृक्षात् फलं विभजते' इति प्रतीतौ वृक्षे अपि विभागः, फले अपि विभागः | अत्र विभागः उभयनिष्ठः, अभिन्नः | तथापि वृक्षे विद्यमानः यः विभागः सः फलावधिकः इति व्यवहारः | फले विद्यमानः विभागः वृक्षावधिकः इति व्यवहारः | व्यवहारस्य वैलक्षण्येऽपि विभागः विषयीभूतः एक एव |
किन्तु पृथक्त्वस्य स्थले तथा नास्ति | 'वृक्षात् फलं पृथक्' इत्युक्तौ भिन्नपृथक्त्वं फलमात्रे भासते | यदा 'फलात् वृक्षः पृथक्' इत्युच्यते, तदा वृक्षे भासमानं पृथक्त्वं फले विद्यमानपृथक्त्वापेक्षया अतिरिक्तम् | यथा एकत्वं व्यक्तिभेदेन भिद्यते, तद्वत् पृथक्त्वम् अपि व्यक्तिभेदेन भिद्यते |
अधुना यथा विभागः, संयोगः अपि द्विनिष्ठः | सामान्यतया संयोगः 'सावधिकः' इति न उच्यते | किन्तु क्वचित् प्रतीतिनियमनार्थं तथा व्यवहारः भवति | कुत्रचित् अयं संयोगः 'एकस्मिन् एव विद्यमानः' इति अपेक्षते | विभाग इव यद्यपि अयं संयोगः उभयत्र विद्यमानः, किन्तु प्रतीतिसाधनार्थं 'तदवधिकः संयोगः तत्र भासते' इति व्यवहारो भवति | 'तदवधिकः' इति उक्तत्वात्, यदवधिकः तत् स्वस्मिन् न वर्तते | स्वावधिकः संयोगः स्वस्मिन् नास्ति | इति व्यवहारत्वेन नियमनं भवति |
आहत्य यथा पृथक्त्वस्य स्वभावः सावधिकत्वं, तद्वत् विभागः, संयोगश्च न स्तः | अनयोः द्विष्ठत्वम् | क्वचित् प्रतीतेः वर्णनार्थं तत् द्विष्ठत्वं बाधकं भवति— अयं संयोगः उभयत्र भवति इति क्वचित् बाधकम् | तदा अस्माकं सौकर्यार्थं तदुच्यते— 'एतदवधिकः संयोगः' इति यदा ब्रूमः, तदा किं बुध्यते ? सः अपरमात्रनिष्ठः इति लभ्यते | तादृशप्रतीतीनां सम्पादनार्थं तस्य सावधिकत्वव्यवहारः अस्ति | किन्तु यदि ब्रूमः 'घटपटयोः संयोगः', तदा संयोगः द्विनिष्ठः; सावधिको न |
अधुना संयोगस्थले विभागस्थलात् किञ्चन वैलक्षण्यं वर्तते यत् विभागस्थले पञ्चमीविभक्तिव्यवहारः, संयोगस्थले तथा न भवति | विभागस्थले 'घटात् पटः विभक्तः', पञ्चमी इत्यतः अवधिकत्वं सौकर्येण कल्प्यते | वस्तुतः विभागः अत्र कुत्र उत्पन्नः ? घटे एवं पटे, एक एव विभागः उभयत्र | किन्तु व्यवहारः कथम् ? 'घटात् पटः विभक्तः' | तद्वत् 'पटात् घटः विभक्तः' इत्यपि प्रत्ययः जायते | उभयत्र किं भिन्नविभागः विषयीभूतः ? न भिन्नः; एक एव विभागः, द्विनिष्ठः, विषयीभूतः विभागः नातिरिक्तः, एक एव | किन्तु प्रथमप्रतीतौ, 'घटात् पटः विभक्तः', सः विभागः पटनिष्ठत्वेन विवक्षितः अस्ति | तदर्थं 'घटात्' इत्युक्तम् | घटावधिकः विभागः | यदा पटवृत्तित्वेन बोधनीयः, तदा किम् उच्यते ? 'सः घटावधिकः विभागः' इति व्यवहारो जायते | एवमेव विपरीतत्वेन पटात् इत्यनेन पटावधिकः विभागः | यदवधिकः विभागः अस्माभिः उच्यते तदपेक्षया अतिरिक्तः तद्वृत्तित्वेन विवक्षितः भवति |
संयोगस्थले पञ्चमीविभक्त्या व्यवस्था काऽपि नास्ति | 'घटात् पटः संयुक्तः' इति तथा किमपि नास्ति | तथापि घटपटयोः संयोगः इति प्रतीतौ, 'घटावधिकः संयोगः पटे' इति व्यवहारः क्रियते | अथवा पटावधिकः संयोगः घटे | वस्तुतः एक एव संयोगः, किन्तु प्रतीतिवशात् सावधिकत्वम् आनीयते |
आहत्य पृथक्त्वम् एकनिष्ठमेव, स्वभावेन सावधिकम् | विभागः च संयोगः च द्विनिष्ठः, तस्मात् उभयत्र विद्यमानः | स्वभावेन न सावधिकः किन्तु प्रतीतिवशात् अध्यारोप्यते |
नियतावधिकत्वम्
एतावता अवधिः नाम कः, अवधिकः नाम कः, अवधिकत्वं नाम किम् इति अस्माभिः परिशीलितम् | घटः पटात् पृथक् इति प्रत्यये पटः अवधिः, पृथक्त्वं पटावधिकं, पटावधिकत्वं पृथक्त्वे | अधुना अग्रे द्रष्टव्यम्, इदम् अवधिकत्वं नियमेन प्रतीयते न वा | नाम, अवधिकत्वं यस्मिन् यस्मिन् भवति, तत् कस्यां दशायां भवति— कदाचिदेव भवति, अथवा सर्वदा भवति ?
अपि च अत्र 'भवति' इत्यस्य स्थाने 'व्यवहारः' कथम् अस्ति इति द्रष्टव्यम् | वस्तुस्थितिः अन्या, व्यवहारः अन्यः | अस्माकम् अवधानम् अत्र नास्ति यत् 'अवधिः भवति न वा', अपि तु 'व्यवहारक्षेत्रे अवधिः अस्ति न वा' |
यथा, यदा भेदविषयकव्यवहारो भवति, तदा नियमेन अवधेः उल्लेखः भवति | भेदकथनस्यावसरे प्रतियोगिनः उल्लेखः नास्ति चेत्, तादृशः भेदस्य व्यवहारः अप्रसिद्धः | केवलं भेदः, भिन्नः इत्युक्तं चेत्, बोधो न जायते | कस्मात् भिन्नः इति प्रश्नः भवति | अतः वस्तुस्थितिः इति क्वचित् अन्या, किन्तु व्यवहारः द्रष्टव्यः | व्यवहारः अत्र विलक्षणः |
'इदं पुस्तकं भिन्नम्' इति यदा वदामः, तदा प्रश्नः अवश्यम् आयाति 'कस्मात् ?' कस्मात् भिन्नम् इति यावत् न वदामः, तावत् शब्दबोधः पूर्णः न भवति | अनेन भेदविषयकव्यवहारावसरे अवधेः उल्लेखः अवश्यं भवति |
अतः वस्तुस्थितिः अन्या, किन्तु व्यवहारः कथं भवति इति अस्माकं चिन्ता | पूर्वं विभागस्य स्थले तादृशवैलक्षण्यं विस्पष्टम् | विभागस्य उदाहरणम् अत्र उक्त्वा एव अग्रे सरणं— कथं कुत्रचित् वस्तुस्थितिः अन्या, व्यवहारः च अन्यः | विद्यमानं, ज्ञायमानम् इत्यनयोर्मध्ये किञ्चिन वैलक्षणं सर्वत्र उच्यते |
तर्हि यथा पूर्वं दृष्टं, विभागः एक एव, किन्तु प्रतीतिवशात् कुत्रचित् सावधिकव्यवहारः क्रियते | 'वृक्षफलयोः विभागः', अत्र अवधेः उल्लेखः नास्ति | अवधित्वेन रूपेण उल्लेखः नास्ति |
यद्विषयकप्रतीतौ नियमेन अवधिः भासते, तस्य नियतावधिकत्वम् | नियतावधिकत्वम् इत्युक्ते यदा यदा तादृशपदार्थविषयकः प्रत्ययः जायते, तदा तदा नियमेन, नाम सर्वदा, अवधिः भासते | यथा, यदा यदा भेदस्य प्रत्ययः तदा तदा अवधिः भासते | अतः भेदः नियतावधिकः | भेदे च नियतावधिकत्वम् |
किन्तु विभागः ? तस्मिन् नियतावधिकत्वं नास्ति | 'वृक्षात् विभक्तः', पुनः 'वृक्षफलयोः विभागः' | वृक्षात् फलं विभक्तम् इति प्रतीतौ अवधिः भासते | एवं च 'वृक्षफलयोः विभागः' इत्यत्र सावधिकव्यवहारो नास्ति | उभयप्रतीत्या विभागः ज्ञातः | किन्तु एकस्मिन् विभागविषयकव्यवहारे अवधेः उल्लेखः क्रियते, अपरस्मिन् न क्रियते |
एतादृशं भेदस्थले न भवति | 'कस्मात् भिन्नः' इति नियमेन अवधेः उल्लेखः कर्तव्यः | पृथक्त्वस्य स्थलेऽपि तुल्यम् | 'कस्मात् पृथक्' इति नियमेन वक्तव्यं भवति | अन्यथा आकाङ्क्षा न शाम्यते, शब्दबोधः न जायते | इदं नियतावधिकत्वम् |
तर्हि संयोगस्य का गतिः ? विभागस्य इव, संयोगस्य अपि नियतावधिकत्वं नास्ति | इत्युक्तौ नियमेन तद्विषयकप्रत्यये अवधिः भासते इति न | कदाचित् स्यात्, कदाचित् न स्यात् | व्यवहारं बुद्धौ निधाय चिन्तनीयम् |
निखिलावधिकत्वम्
अधुना निखिलावधिकत्वम् इत्युक्तौ किम् ? यस्यां व्यक्तौ कश्चन विभागः पृथक्त्वं वा सावधिकपदार्थः वर्णनीयः, ताम् आश्रयभूत-व्यक्तिं च विहाय अतिरिक्तं यद्यत् जगति विद्यमानं द्रव्यं, तदवधिकत्वं तस्मिन् सावधिकपदार्थे भवति चेत् निखिलावधिकत्वम् अस्ति तस्मिन् इति उच्यते | अतः स च सावधिकपदार्थः निखिलावधिकः |
यथा पृथक्त्वम् इति स्वीकुर्मः | 'घटे पृथक्त्वम् अस्ति' | घटं विहाय ये अवशिष्टाः जगति सर्वे स्थिताः द्रव्यरूपपदार्थः, तत्सकलावधिकत्वं स्यात् पृथक्त्वे | तथा भवति वा ? अस्य परिशीलनार्थं कीदृशचिन्तनं करणीयम् अस्माभिः ? 'घटः पटात् पृथक्'— अस्मिन् व्यवहारे, घटे पृथक्त्वम् अस्ति; तस्य च पृथक्त्वस्य अवधिः कः ? पटः | इदं पटावधिकपृथक्त्वम् |
अधुना घटः वृक्षात् पृथक् | वृक्षावधिकपृथक्त्वं घटे | घटः पुस्तकात् पृथक्, पुस्तकावधिकपृथक्त्वं घटे | घटः पर्वतात् पृथक्, पर्वतावधिकपृथक्त्वं घटे | अधुना जगति घटं विहाय ये अवशिष्टाः सर्वे द्रव्यरूपपदार्थाः तत्सकलावधिकत्वं पृथक्त्वे अस्ति चेत्, पृथक्त्वं निखिलावधिकं, पृथक्त्वे च निखिलावधिकत्वम् अस्ति | तर्हि तथा अस्ति वा, किं चिन्तनम् ?
तादृशी स्थितिः भवति चेत्, नाम घटं विहाय तत्सकलावधिकत्वं घटे विद्यमानपृथक्त्वे अस्ति चेत्, निखिलावधिकत्वं पृथक्त्वे भवति | अत्र पृथक्त्वं भवतु, विभागो वा भवतु, संयोगो भवतु, भेदो भवतु— सर्वत्र परिशीलनार्थं चिन्तनं समानम् | यदि वयं ज्ञातुम् इच्छामः तस्मिन् निखिलावधिकत्वम् अस्ति न वा, तर्हि तादृशं परिशीलनम् अपेक्षितम् | तर्हि पृथक्त्वम् अवलम्ब्य कश्चन पदार्थः अस्ति वा यदवधिकत्वं पृथक्त्वे न भवति ? घटे पृथक्त्वम् अस्ति | घटः स्वं विहाय कस्माच्चित् पदार्थात् पृथक् न भवति इति वा ?
सत्यम् | घटः स्वावयवात् कपालात् पृथक् न भवति | अतः कपालावधिकत्वं घटपृथक्त्वे नास्ति | तस्मात्, घटपृथक्त्वे निखिलावधिकत्वं नास्ति | अपि च एवमेव रीत्या कस्मिन् अपि द्रव्ये यत् पृथक्त्वं वर्तते, तस्मिन् पृथक्त्वे तदाश्रयभूतद्रव्यस्यावयवाविधिकत्वं नास्ति | अतः पृथक्त्वे निखिलावधिकत्वं न भवति एव |
तर्हि निखिलावधिकत्वम् इति पदार्थस्य कः अर्थः ? यस्यां व्यक्तौ कश्चन विभागो वा, पृथक्त्वं वा वर्णनीयं, तद्विहाय अतिरिक्तं यद्यत् जगति विद्यमानं द्रव्यं, तदवधिकत्वम् इत्युक्तौ निखिलावधिकत्वम् | तच्च पृथक्त्वस्य नास्ति |
पृथक्त्वस्य किमवधिकत्वं भवति ? स्वाश्रयावयवपरम्परायां यानि यानि मूर्तद्रव्याणि भवन्ति, तानि विहाय जगति यावद्द्रव्यम् अस्ति, तदवधिकत्वं भवति पृथक्त्वे | अतः पृथक्त्वे अनेकावधिकत्वं वर्तते; किन्तु निखिलावधिकत्वं न | पृथक्त्वस्य यदवधिकत्वं नास्ति, तद्विहाय सर्वावधिकत्वं वर्तते |
अधुना नूतनबिन्दुः— अवधिभेदेन पृथक्त्वं भिद्यते इति वा ? घटः पटात् पृथक् इत्यनेन पटावधिकपृथक्त्वम् | घटः मठात् पृथक् इत्यनेन मठावधिकपृथक्त्वम् | पटावधिकपृथक्त्वं, मठावधिकपृथक्त्वात् भिन्नम् इति वा ? अवधिः पृथक्त्वस्य अवच्छेदकः वा ? किं चिन्तनम् ?
१. गुणेन द्रव्यम् अवच्छिद्यते, भिद्यते, विशिष्यते | गुणविशिष्टद्रव्यम् | उन्नतः बालकः, औनत्यं बालके | बालके विद्यमान-औनत्यात् सः बालकः अपरेभ्यः बालकेभ्यः भिद्यते, विशिष्यते | अतः औनत्यविशिष्टबालकः | औनत्यम् अवच्छेदकं बालकस्य |
२. एवमेव गुणः अवच्छिद्यते, भिद्यते, विशिष्यते तदाश्रयभूतद्रव्येण | आश्रयभूतबालकेन तस्मिन् आश्रित-औनत्यं भिद्यते, विशिष्यते | अपरेभ्यः औनत्येभ्यः इदं औनत्यं भिद्यते, विशिष्यते तदाश्रयेण बालकेन | बालकविशिष्टौनत्यम् | बालकः औनत्यस्य अवच्छेदकः |
३. तद्वत् पृथक्त्वगुणः घटे | पृथक्त्वं भिद्यते, विशिष्यते तदाश्रयेण घटेन | गुणत्वात् पृथक्त्वम् अवच्छिद्यते, भिद्यते, विशिष्यते तदाश्रयभूतद्रव्येण | अतः घटविशिष्टपृथक्त्वम् | तच्च घटविशिष्टपृथक्त्वं पटे विद्यमानपृथक्त्वात् भिन्नं, मठे विद्यमानपृथक्त्वात् च भिन्नम् | अपि च घटे विद्यमानपृथक्त्वम् एकमेव, यतोहि घटविशिष्टम् | घटे अनेकपृथक्त्वानि न सन्ति; घटविशिष्टं पृथक्त्वम् एकमेव |
तस्मात् घटे विद्यमान-पृथक्त्वस्य यः कोऽपि अवधिः भवतु नाम, घटे विद्यमानं पृथक्त्वम् एकमेव | घटः भूतलात् पृथक्, पटात् पृथक्, पुस्तकात् पृथक् | घटे भूतलावधिकपृथक्त्वं, पटावधिकपृथक्त्वं, पुस्तकावधिकपृथक्त्वम्— इदं सर्वम् एकमेव पृथक्त्वं घटविशिष्टम् |
अत्र प्रश्नः उदेति 'अवधिभेदेन पृथक्त्वं न भिद्यते चेत्, अवधेः वदनस्य का आवश्यकता ?' अपि च 'अवधिभेदेन पृथक्त्वं न भिद्यते चेत्, किमर्थं तर्हि वदामः यत् यावत् अवधिं न वदामः, तावत् शब्दबोधः न जायते ?' स्मर्यतां, केचन शब्दाः साकाङ्क्षाः; तेषां स्वातन्त्र्येण भानं न भवति | यथा 'पिता'; पिता इत्यस्य वदनेन मनसि आयाति 'पुत्रः कः ?' कश्चन पुत्रः स्यात्; स च पुत्रः कः इति विशेषजिज्ञासा नास्ति; सः अपेक्षते, तावदेव | एवमेव पृथक् इत्यस्य वदनेन 'कस्मात्' इति मनसि प्रश्नः भवति | अत्र धेयं यत् पृथक् यस्मात् कस्मात् अपि भवतु नाम, कस्माच्चित् भवेत् तावदेव | यस्मात् पृथक् सः कः इति न मुख्यं; कोऽपि स्यात्, तावत् एव | यतोहि पृथक् इति साकाङ्क्ष-शब्दः | पृथक्त्वव्यवहारे 'भूतलावधिकमेव वा', अथवा 'घटावधिकमेव वा' इति जिज्ञासा न भवति; कोऽपि अवधिः स्यात्; कः इति महत्त्वपूर्णं नास्ति | अवधिमात्रस्य जिज्ञासा; 'कः अवधिः' इति अत्र सारस्यं नास्ति | पृथक्त्वव्यवहारे अवधिः नियमेन जायते इति तु कॢप्तम् | यः न्यायशास्त्रं न जानाति, सोऽपि कथं व्यवहरति ? 'भूतलं घटात् पृथक्' इत्यादिकं व्यवहरति | 'भूतलं पृथक्' इति न कोऽपि व्यवहरति | अतः शास्त्रेण व्यवहारः न नियम्यते; व्यवहारः उपपाद्यते | पृथक्त्वस्य यः स्वभावः, सः सावधिकः इत्यस्मात् अवधिना सह एव बुध्यते | अतः निष्कर्षः इत्थं— घटे भूतलावधिकपृथक्त्वं, पटावधिकपृथक्त्वं, पुस्तकावधिकपृथक्त्वम्— इदं सर्वम् एकमेव पृथक्त्वं घटविशिष्टम् |
तदर्थम् उपर्युक्तं यत् 'पृथक्त्वे अनेकावधिकत्वं वर्तते' | घटे विद्यमानं पृथक्त्वम् एकमेव, अवधयः च बहवः | घटः भूतलात् पृथक्, पटात् पृथक्, पुस्तकात् पृथक् | असङ्ख्याः अवधयः सन्ति; तत्तन्निरूपितं घटे विद्यमानं पृथक्त्वं अन्यत् वा ? न अन्यत् | इदं सर्वं घटे विद्यमानं पृथक्त्वम् एकमेव |
नो चेत् अवधिभेदेन यदि पृथक्त्वं भिद्येत, तर्हि घटे अनेके पृथक्त्वगुणाः स्युः | प्रत्येकं च पृथक्त्वस्य एक एव अवधिः इति स्यात् | किन्तु पृथक्त्वस्य गुणत्वात् तथा नास्ति | गुणः अवच्छिद्यते, भिद्यते तदाश्रयभूतद्रव्येण, न तु अवधिभेदेन |
किञ्च यद्यपि घटे भूतलावधिकपृथक्त्वं, पटावधिकपृथक्त्वं, पुस्तकावधिकपृथक्त्वम्, इदं सर्वम् एकमेव पृथक्त्वं घटविशिष्टं, नाम यद्यपि एकम् आश्रयभूतद्रव्यविशिष्टं पृथक्त्वम् अवधिभेदेन न भिद्यते, तथापि अवधिसमुदायभेदेन पृथक्त्वम् अवश्यं भिद्यते | कथम् इति उच्यते | घटे यत् पृथक्त्वं, तत् किं किम् अवधिकम् ? घटस्य यादृशदेशे व्यापकत्वं, तादृशदेशातिरिक्तदेशे जगति यावन्तः पदार्थाः, तत्सर्वावधिकं पृथक्त्वं घटे भवति | तेषु अवधिभूतपदार्थेषु पटः वर्तते वा ? आं, वर्तते एव | इदानीं पटे विद्यमानं पृथक्त्वं कथम् इति पश्येम | पटपृथक्त्वस्य अवधयः के इति चर्चावसरे तत्र घट-घटिताः पदार्थाः अन्तर्भूताः; पट-घटिताः पदार्थाः नायान्ति | तान् पट-घटितान् पदार्थान् अतिरिच्य जगति यावन्तः पदार्थाः, तत्सर्वावधिकं पृथक्त्वं पटे भवति | अनेन द्वयोः पृथक्त्वयोः अवधिसमुदायौ भिन्नौ | अवधिसमुदायभेदेन च घटविशिष्टपृथक्त्वं पटविशिष्टपृथक्त्वात् भिन्नम् |
अतः अवधिसमुदायभेदेन पृथक्त्ववैलक्षण्यं सिध्यति | प्रत्येकं पृथक्त्वम् अनेकावधिकं, किन्तु विश्वे स्थितेषु सर्वेषु पदार्थेषु प्रत्येकं पृथक्त्वस्य भिन्नः अवधिसमुदायः भवति | यतोहि घटः यत्र व्याप्तः, तादृशदेशव्याप्तपदार्थाः नान्तर्भवन्ति घटपृथक्त्वस्य अवधिसमुदाये | अपि च पटः यत्र व्याप्तः, तादृशदेशव्याप्तपदार्थाः नान्तर्भवन्ति पटपृथक्त्वस्य अवधिसमुदाये | अतः घटे विद्यमानपृथक्त्वनिरूपित-अवधीनां भिन्नः समुदायः भवति | पटे विद्यमानपृथक्त्वनिरूपित-अवधीनां भिन्नः समुदायः भवति |
अपि च अपरैः शब्दैः स एव सन्देशः व्यक्तीक्रियते एवं रीत्या— 'पृथक्त्वम् इति गुणः अपरस्मात् पृथक्त्वात् भिद्यते तदाश्रयभूतद्रव्येण' | अपि च अनेन एकं पृथक्त्वम् अवधिभेदेन न भिद्यते | आहत्य पृथक्त्वस्य अनेकावधिकत्वम् अस्ति न तु एकावधिकत्वम् | अपि च निखिलावधिकत्वम् अपि नास्ति | किमवधिकत्वं नास्ति ? पृथक्त्वाश्रयावयवपरम्परायां परमाणुपर्यन्तं यानि मूर्तद्रव्याणि, तदवधिकत्वं नास्ति | तेन किं सिध्यति ? तद्विहाय ये अवशिष्टाः पदार्थाः, तदवधिकत्वं तु अस्ति | किन्तु न निखिलावधिकत्वम् | कस्मात् ? आश्रयावयवावधिकत्वाभावात् |
विभागस्य निखिलावधिकत्वम् अस्ति वा ? तस्य बोधार्थं प्रथमतया संयोगस्य स्थितिः द्रष्टव्या | यत्र संयोगो जायते, तत्र प्रतीतिम् अवलम्ब्य संयोगस्य अवधिकत्वम् अपि जायते | घटपटयोः संयोगः, पटावधिकसंयोगः घटे | किन्तु घटस्वावयवकपलयोः स्थितौ, कपालावधिकसंयोगः घटे भवति वा ? न भवति किल | अतः घटे विद्यमानः संयोगः निखिलावधिको न | (स च घटे विद्यमानः संयोगः नियतावधिकः वा ?)
अधुना तदाधारेण विभागः निखिलावधिकः न वा इति पश्येम | तर्कसङ्ग्रहवाक्यं— संयोगनाशको गुणो विभागः | संयोगस्य नाशेन एव विभगो जायते | अतः विभागेन नाश्यः यः संयोगः, स च संयोगाश्रयावधिकत्वमेव विभागस्य अपि भवति | न तु तदतिरिक्तावधिकत्वम् | अत्र विभागस्थले यत् सूचनीयम् आसीत्, तदुक्तम् | अधुना दृष्टान्तं दत्वा पाठकेन ततः अग्रे प्रतिपादनीयम् |
नियतावधिकत्वं, निखिलावधिकत्वम् अनयोः कः सम्बन्धः
तर्हि नियतावधिकत्वं, निखिलावधिकत्वम् अनयोः कः सम्बन्धः ? नियतावधिकत्वम् इत्यस्य अर्थः स्मर्यताम् | यद्विषयकप्रत्यये नियमेन अवधिः भासते, तत् नियतावधिकत्वम् | पृथक्त्वस्थले 'घटः पटात् पृथक्' इति कथनेन एव प्रत्ययः जायते | केवलं 'घटः पृथक्' इति कथनेन शब्दबोधः न जायते | 'घटः पृथक्', तावत् एव उच्यते चेत् वयं किं पृच्छामः ? 'कस्मात्' | काचन आकाङ्क्षा अवशिष्यते | 'घटः पटात् पृथक्' इति कथनेन एव शब्दबोधः जायते | एवं च यत्र यत्र पृथक्त्वविषयकप्रत्ययः जायते, तत्र तत्र कश्चन अवधिः भवति एव | तदर्थम् उक्तं यत् पृथक्त्वं नियतावधिकम् | तर्हि इदं नियतावधिकत्वम्, अपि च यत् निखिलावधिकत्वं यस्य विषये अधुना चर्चा जाता, तयोः कः सम्बन्धः ? यत्र नियतावधिकत्वम् अस्ति तत्र निखिलावधिकत्वम् अस्ति, अथवा यत्र नियतावधिकत्वम् अस्ति तत्र निखिलावधिकत्वं नास्ति— कः सम्बन्धः ? इति चेत्, तादृशं नास्ति, यद्यपि द्वयोः कश्चन सीमितसम्बन्धो वर्तते एव यः अधः दत्तः |
नियतावधिकत्वं, निखिलावधिकत्वम् अनयोः परस्परं कः सम्बन्धः इति अवलोकयाम | नियतावधिकत्वम् इत्यनेन यत्र यत्र कस्यचित् विषयस्य प्रतीतिः जायते, तत्र तत्र तस्यां प्रतीतौ अवधिः नियमेन भवति | (सर्वत्र तद्विषयकप्रतीतिः भवेत् इति नास्ति; यत्र भवति, तत्र अवधिः तस्यां प्रतीतौ अवश्यम् अस्ति | यत्र च तद्विषयकप्रतीतिः न जायते, तत्र 'अवधिः भवति न वा' इति प्रश्नः तु न उदेति |) किन्तु निखिलावधिकत्वम् इत्युक्तौ तद्विषयकप्रतीतिः जगति सर्वत्र भवति एव, जगति तासु प्रतीतिषु च अवधिः नियमेन सदा भवति |
अस्य सर्वस्य परिशीलनेन कश्चन सीमितसम्बन्धः स्फुरति— यस्य नियतावधिकत्वं नास्ति, तस्य निखिलावधिकत्वं तु न सम्भवति एव; यस्य च नियतावधिकत्वम् अस्ति तस्यैव निखिलावधिकत्वसम्भावना वर्तते | अधुना नियतावधिकत्वम् अस्ति चेत् निखिलावधिकत्वम् अपि स्यात्, तत्र पर्यन्तं किन्तु नितरां न भवति | अपि च 'यस्य निखिलावधिकत्वं तस्य न नियतावधिकत्वम्' इति तादृशं किमपि नास्ति |
पूर्वञ्च उक्तं यत् पृथक्त्वं नियतावधिकम् | अधुना उच्यते यत् पृथत्वम् अनेकावधिकम् | यः सीमितसम्बन्धः नियतावधिकत्व-निखिलावधिकत्वयोः अस्ति, तादृशः किन्तु नियतावधिकत्व-अनेकावधिकत्वयोः न भवति | एकस्य अर्थः अपरस्मात् नितरां भिन्नः | पृथक्त्वस्य संयोगस्य च दृष्टान्तं परिशील्य पाठकेन प्रतिपादनीयम् |
भेदस्य निखिलावधिकत्वं भवति किम् ?
अत्र स्मर्यतां निखिलावधिकत्वम् इत्यस्य निखिलशब्दस्य अत्र कः अर्थः ? यदा निखिलशब्दः स्वातन्त्र्येण उच्यते तदा गगनमात्रम् आयाति | किन्तु अत्र तथा नास्ति | एतादृशसर्वनाम्नां तथा स्वभावः अस्ति | वाक्यं दृष्ट्वा एव एषाम् अर्थनिर्धारणं कर्तव्यम् | सर्व इति पदं यथा, तद्वत् इदं निखिलम् | अत्र अवधिकत्वविषये यस्मिन् वाक्ये निखिलशब्दः निविष्टः, निखिलपदेन किं विवक्षितम् इत्युक्तौ घटातिरिक्तं यावत् जगति विद्यमानं, सर्वं विवक्षितम् | घटातिरिक्तं यत्, तदवधिकत्वं विवक्षितम् अस्मिन् सन्दर्भे |
एतावता अस्माभिः दृष्टं यत् पृथक्त्वस्य निखिलावधिकत्वं नास्ति, संयोगस्य वियोगस्य च एवमेव निखिलावधिकत्वं नास्ति | अधुना भेदस्य का गतिः ? भेदस्य निखिलावधिकत्वं भवति वा ? पूर्वम् अस्माभिः दृष्टं यत् प्रतियोगिनं विहाय, भेदः सर्वत्र भवति किल |
पृथक्त्वं न तथा; 'पृथक्त्वाश्रयभूतघटं विहाय तत्तदवधिकत्वं घटपृथक्त्वे अस्ति' इति नास्ति | 'घटः स्वस्मात् पृथक्' इति न भवति इति तु जानीमः एव, नाम पृथक्त्वम् अधिकृत्य घटस्य स्वस्य अवधित्वं नास्ति, किन्तु घटं विहाय सर्वस्मिन् जगति घटपृथक्त्वं प्रति अवधित्वं भवति वा ?
सर्वस्मिन् जगति पृथक्त्वं प्रति तादृशम् अवधित्वं नास्ति चेत्, कुत्र भवति, कुत्र च न भवति ? अपि च पृथक्त्वस्य यादृशी स्थितिः, तथा भेदस्य अपि वा ? प्रथमतया पृथक्त्वस्य स्थितिः वक्तव्या, तदा भेदस्य |
विद्याधर्यां दत्तम् अस्ति यत् "सर्वोऽपि पदार्थः तादात्म्यसम्बन्धेन स्वस्मिन् भवति | तेन सम्बन्धेन घटो नास्तीत्यभावः घटं विहाय जगति सर्वत्र भवति | अयमेव च भेदः | प्रतियोगिनं विहाय सः सर्वत्र भवति | एवं पटो न इति भेदः पटं प्रतियोगिनं विहाय सर्वत्र भवति |” तर्हि प्रतियोगिनं विहाय भेदः सर्वत्र भवति इत्यस्य कोऽर्थः ?
घटः स्वस्मिन् अस्ति तादात्म्यसम्बन्धेन इति कारणेन 'घटः स्वस्मात् भिन्नः', 'घटभेदः घटे' इति न भवति | घटभेदस्य प्रतियोगी कः ? (प्रतियोगी नाम कः ? अभावस्य विरोधी | यस्य आनयनेन घटभेदः, घटस्य अन्योन्याभावः, न भवितुमर्हति | घटः अस्ति चेत्, तस्मिन् घटस्य अन्योन्याभावः नास्ति | अतः घटभेदस्य प्रतियोगी घटः एव |) घटरूपप्रतियोगिनि घटभेदो नास्ति; घटं विहाय सर्वत्र घटभेदः अस्ति | 'पटः घटात् भिन्नः' इत्यनेन घटभेदः पटे | मठः घटात् भिन्नः इत्यनेन घटभेदः मठे | वृक्षः घटात् भिन्नः इत्यनेन घटभेदः वृक्षे | प्रतियोगिनं घटं विहाय घटभेदः सर्वत्र अस्ति |
अधुना 'भेदः प्रतियोगिनं विहाय सर्वत्र भवति' इत्यस्य अर्थः एवं यत् 'भेदस्य निखिलावधिकत्वम् अस्ति', इति चिन्तनीयम् | निखिलावधिकत्वं नाम किम् ? प्रतियोगिनं विहाय सर्वत्र भेदः भवति चेत् इदं निखिलावधिकत्वम् इति चेत्, भेदस्य निखिलावधिकत्वं भवेत् | यतोहि प्रतियोगिनं विहाय भेदः सर्वत्र तु अस्ति |
प्रतियोगितावच्छेदकभेदेन भेदः भिद्यते, नाम प्रतियोगिभेदेन भेदः भिद्यते | भेदस्य स्वरूपं स्मर्यताम् | घटत्वावच्छिन्नतादात्म्यावच्छिन्नप्रतियोगिताकाभावः यः भेदः तद्वान् पटः | घटत्वमपि प्रतियोगितायाः अवच्छेदकं; तादात्म्यसम्बन्धः अपि प्रतियोगितायाः अवच्छेदेकः | घटः तादात्म्यसम्बन्धेन स्वस्मिन् | अनेन सिध्यति यत् घट-घटभेदयोः विशिष्टसम्बन्धः | यत्र घटत्वं नास्ति, यत्र घटस्य तादात्म्यसम्बन्धः नास्ति, तत्र तादृशी तदवच्छिन्नप्रतियोगिता नास्ति, तादृशप्रतियोगिताकाभावः, भेदः नास्ति |
अतः घटे यः कपालभेदः, 'कपालात् भिन्नः' इत्यत्र विलक्षणः भेदः | तादृशभेदस्य कः प्रतियोगी इत्युक्तौ कपाल एव | एवं घटः भूतलात् भिन्नः इत्युक्तौ पुनः भिन्नः भेदः | भूतलभेदस्य प्रतियोगी भूतलमेव | तस्मात् भूतलप्रतियोगिकः भेदः, कपालप्रतियोगिकः भेदः च एक एव इति न | यद्यपि भेदद्वयमपि घटे | पृथक्त्वस्य स्थितिः तथा नास्ति | घटः भूतलात् पृथक्, पुस्तकात् पृथक्, गृहात् पृथक्, पर्वतात् पृथक्, इदं सर्वं पृथक्त्वम् एकमेव, घटे | किन्तु घटः कपालात् भिन्नः, भूतलात् भिन्नः इत्यत्र पृथक्त्वम् इव समानौ भेदौ इति नास्ति |
तर्हि घटभेदः घटं विहाय अन्यत्र सर्वत्र वर्तते इति तु सत्यम् | किन्तु 'घटः कपालात् भिन्नः' इति प्रतीतौ 'घटः भिन्नः, भेदः घटे', स च भेदः कपालावधिकः | 'घटः भूतलात् भिन्नः' इति प्रतीतौ 'घटः भिन्नः, भेदः घटे', स च भेदः भूतलावधिकः | द्वावपि भेदौ घटे भिन्नौ; कपालभेदस्य कपालावधिकत्वं, भूतलभेदस्य भूतलावधिकत्वम् |
अधुना कपालभेदस्य अवधिः पटः भवितुम् अर्हति वा ? घटे विद्यमानः यः कपालभेदः तस्य कपालभेदस्य कपालं विहाय अन्यः कोऽपि अवधिः भवितुम् अर्हति वा ? 'घटः कपालात् भिन्नः' इति प्रतीतिः | अनेन कपालभेदः घटे | तर्हि कपालभेदस्य पटादयः अवधयः भवन्ति किम् ?
घटभेदः घटे नास्ति, तद्विहाय सर्वत्र घटभेदः इति कृत्वा एव निखिलावधिकत्वम्— इति विचारस्य का गतिः ? कः अवधिः तस्य घटभेदस्य ? घटः एव किल | घटातिरिक्तः अविधिर्वा ? नास्ति | घटभेदः इत्युक्ते कः प्रत्ययः ? घटात् भिन्नः | न तु अन्यस्मात् | अतः कपालभेदस्य अवधिः कपालः एव न तु अन्यः | यः निखिलावधिकः, तस्य अवधयः निखिलम् अपेक्षते | भेदः निखिलावधिको नास्ति, यतोहि एकस्य भेदस्य एक एव अवधिः— भेदस्य अवधिः प्रतियोगिरूपः |
अतः घटभेदः घटं विहाय सर्वत्र भवति इति तु सत्यं, किन्तु अत्र तथा नास्ति विषयः | अपि तु तदवधिकत्वम् | घटभेदः घटावधिकः | घटावधिकत्वं घटभेदे | घटभिन्नपदार्थेषु सर्वविद्यमानः यः घटभेदपदार्थः, तस्मिन् घटभेदे किं किम् अवधिकत्वं भवति इति प्रश्नः | निखिलावधिकत्वम् इति चेत्, घटं विहाय यः अन्यः सर्वोऽपि, तदवधिकः कश्चन भेदपदार्थः अपेक्षते |
अधुना घटे विद्यमानं पृथक्त्वं निखिलावधिकम् इति चिन्तयतु | नास्ति वस्तुगत्वा, किन्तु आपाततः स्वीकुर्मः | घटे विद्यमानं पृथक्त्वं निखिलावधिकम् अस्तीति | तस्य कः अर्थः ? घटे विद्यमानं यत् पृथक्त्वं, तस्य घटं विहाय सर्वे अपि अवधयः | एवं घटं विहाय ये, तत् सर्वावधिकं पृथक्त्वं घटे अस्ति | इत्युक्तौ घटे निखिलावधिकं पृथक्त्वम् अस्ति, इति वाक्यस्य अर्थः |
अधुना भेदविषये, तादृशभेदमात्रं सर्वत्र वर्तते— घटभेदः घटं विहाय 'सर्वत्र' वर्तते इति तु सत्यम् | किन्तु यत्र यत्र घटभेदः वर्तते, तत्तदवधिकः, कश्चन निखिलावधिकः, भेदः घटे आगच्छति वा पुनः ? नायाति | इति वैलक्षण्यम् | एतावता केवलं घटं विहाय घटभेदः अन्यत्र सर्वत्र विद्यमानः इत्येव उच्यते | तथा वार्ता अस्माकम् अत्र नास्ति | घटं विहाय यो यः अन्यः तदवधिकः पदार्थः घटे अपेक्षते | यथा एकमेव पृथक्त्वं घटे भूतलावधिकं, पुस्तकावधिकं, वृक्षावधिकं, तथैव एक एव भेदः घटे अपक्षते यः भूतलावधिकः, पुस्तकावधिकः, वृक्षावधिकः— तादृशः एव एकः भेदः निखिलावधिकः | स च विश्वे कोऽपि नास्ति |
आहत्य यः भेदः सर्वत्र अस्ति (प्रतियोगिनं विहाय), तस्य भेदस्य एक एव अवधिः | घटभेदः 'सर्वत्र' अस्ति, किन्तु तस्य घटभेदस्य एक एव अवधिः— घटः | पृथक्त्वस्य अनेकावधिकत्वम् अस्ति, किन्तु स्वयं सर्वत्र नास्ति | भेदः प्रतियोगिनं विहाय सर्वत्र अस्ति, किन्तु अनेकावधिकत्वं नास्ति | घटे विद्यमानं च पृथक्त्वम् एकमेव, किन्तु घटे विद्यमानाः भेदाः असङ्ख्यकाः |
तर्हि बोध्यं यत् 'प्रतियोगिनं घटं विहाय घटभेदः सर्वत्र अस्ति' इत्यस्य अर्थः नास्ति यत् घटभेदस्य निखिलावधिकत्वम् अस्ति | घटभेदस्य अवधिः कः ? पटः घटात् भिन्नः इति प्रतीतौ घटभेदः कुत्र ? पटे | अस्यां च प्रतीतौ अवधिः कः ? घटः | 'घटात् भिन्नः' किल | अत्र घट एव अवधिः | अतः घटभेदस्य अवधिः घटः एव | घटभेदः घटं विहाय सर्वत्र भवति | किन्तु यत्र यत्र घटभेदः भवति— पटे, मठे, वृक्षे— तत्र सर्वत्र तस्य घटभेदस्य अवधिः भवति घटः एव | 'घटात् भिन्नः' इति सर्वस्यां घटभेदविषयक-प्रतीतौ श्रूयते किल |
बहु पूर्वञ्च अस्माभिः उक्तं यत् भेदविषये अवधिः प्रतियोगी एव; अधुना सिद्धं यत् तत्सत्यमपि | अतः वस्तुतः घटभेदः निखिलावधिकः अपि नास्ति, अनेकावधिकः अपि नास्ति; घटभेदः एकावधिकः एव | घटभेदस्य एक एव अवधिः— घटः एव | यद्यपि घटभेदः बहुत्र अस्ति— घटं विहाय सर्वत्र— किन्तु तत्र सर्वत्र घटभेदस्य अवधिः घटः एव, अतः घटभेदः एकावधिकः |
अपि च भेदस्य विषये सर्वत्र तथा | पटभेदः अपि तथा एकावधिकः, मठभेदः अपि तथा एकावधिकः | अतः भेदस्य स्वभावः एवं, तस्मिन् एकावधिकत्वम् | पृथक्त्वस्य अनेकावधिकत्वं, भेदस्य एकावधिकत्वं, द्वयोः नियतावधिकत्वम्, अपि च द्वयोः मध्ये कस्यापि निखिलावधिकत्वं नास्ति | तर्हि विश्वे कस्य निखिलावधिकत्वम् ?
कस्य निखिलावधिकत्वम् ?
पृथक्त्वस्य निखिलावधिकत्वं नास्ति, भेदस्य निखिलावधिकत्वं नास्ति, संयोगस्य निखिलावधिकत्वं नास्ति, विभागस्य निखिलावधिकत्वं नास्ति | वस्तुतः विश्वे निखिलावधिकत्वं कस्यापि नास्ति | निखिलावधिकत्वं न भवति एव | कस्यचिदपि पदार्थस्य निखिलावधिकत्वं न भवितुम् अर्हति | किन्तु कुत्रचित् पूर्वपक्षिणः सिद्धान्तिनः वा विचारस्य प्रतिपादनार्थं निखिलावधिकत्वम् आरोपणीयं भवति | तस्य च निखिलावधिकत्वस्य सम्प्रति 'भेदः एव पृथक्त्वम्' इति आक्षेपस्य निरासावसरे आपादनम् उपयुज्यते |
तस्मात् पूर्वं किन्तु, प्रश्नः उदेति यत् परमाणोः का गतिः ? पृथक्त्वं तत्रैव न भवति किल, यत्र अवयवावयविनोः सम्बन्धः | परमाणुः सावयवः नास्ति | तर्हि यः परमाणुः एकाकी अस्ति— यः परमाणुः स्वयं कस्यचिदपि अन्यस्य भागः नास्ति— तादृशपरमाणौ विद्यमानस्य पृथक्त्वस्य निखिलावधिकत्वं स्यात् |
पूर्वं विद्याधर्याम् अवलोकितं यत्— "एकः पाषाणः द्विधा खण्डितः | तयोः शकलयोः 'क' एवं 'ख' इति संज्ञा कृता | ततः 'क'-शकलस्य द्वे शकले साधिते | तयोः क्रमेण 'ग' एवं 'घ' इति संज्ञे कृते | तयोरपि 'ग'-शकलं गृहीत्वा तस्य द्वे शकले, तयोरपि शकलमेकमादाय द्वे शकले इति एवंविधशकलपरम्परा कुत्रचित् स्थगनीया | कोऽर्थः ? एकं तादृशं शकलं स्वीकर्तव्यं यस्य पुनः शकलं न भवति | तच्चरमं शकलमेव परमाणुः इत्युच्यते"(पृ०स० १२) |
अनेन परमाणोः अस्तित्वं कथं सिध्यति इति चेत्, अवयवावयविनोः परम्परायामेव | तादृशपरमाणुः अस्माभिः वक्तुं न शक्यते यस्मिन् न कोऽपि अवयवी उत्पन्नः | किमर्थम् इत्युक्तौ द्व्यणुकं सावयवम् इत्यादि अनुमानम् अस्ति | न्यायशास्त्रे परमाणुविषये तद्घठितः अवयवी भवति एव | यस्मिन् देशे परमाणुः अस्ति, तद्देशे परमाणुद्वयजनितं द्व्यणुकमपि अस्ति |
पूर्वमपि विचारितं यदत्यन्तं सूक्ष्मं दृश्यते त्र्यणुकं तत् सावयवम् इति साधकम् अनुमानम् अस्ति | तस्यापि अवयवः द्व्यणुकं सावयवम् इति अनुमानेन परमाणुः सिध्यति | अतः यादृशपरमाणौ द्व्यणुकं नैव उत्पन्नं, तादृशपरमाणुः न सिध्यति एव; तावान् सङ्कोचः अस्ति | यदावश्यकं, तदेव सिध्यति; अनावश्यकं न सिध्यति | प्रमाणस्य एतादृशी मर्यादा |
आहत्य परमाणुः एकाकी न भवति यतोहि तादृशपरमाणोः कृते प्रमाणं नास्ति | परमाणुः साक्षात् न सिध्यति; परमाणुसाधकं किमस्ति इति चेत्, 'द्व्यणकं सावयवम्" इति | अतः द्व्यणुकावयवत्वेन एव अयं परमाणुः प्रमाणितः | तस्मात्, यस्मिन् परमाणौ द्व्यणुकं नास्ति, तादृशपरमाणुः नैव सिद्धः | तदर्थं यः कोऽपि परमाणुः भवति, तस्य अवश्यं कश्चन अवयवी अस्ति; तत्र च तदवधिकं पृथक्त्वं नास्ति | अतः परमाणोः विषयेऽपि पृथक्त्वस्य अनेकावधिकत्वं न तु निखिलावधिकत्वम् |
पृथक्त्वस्य अवच्छेदकः कः, भेदस्य च अवच्छेदकः कः
पूर्वम् उक्तं यत् पृथक्त्वस्य गुणत्वात्, पृथक्त्वम् अवच्छिद्यते, भिद्यते, विशिष्यते तदाश्रयभूतद्रव्येण | पृथक्त्वगुणः घटे इति चेत् पृथक्त्वं भिद्यते, विशिष्यते तदाश्रयेण घटेन | अतः घटविशिष्टपृथक्त्वम् | तच्च घटविशिष्टपृथक्त्वं पटे विद्यमानपृथक्त्वात् भिन्नं, मठे विद्यमानपृथक्त्वात् च भिन्नम् | अपि च घटे विद्यमानपृथक्त्वम् एकमेव, यतोहि घटविशिष्टम् | घटे अनेकपृथक्त्वानि न सन्ति; घटविशिष्टं पृथक्त्वम् एकमेव |
किन्तु भेदः न तथा | भेदः तदाश्रयभूतद्रव्येण न अवच्छिद्यते, अपि तु अवधिभेदेन अवच्छिद्यते | इति अन्योन्याभावस्य स्वरूपम् | घटभेदः पुस्तके, पटे, भूतले इति अश्रयभेदेन न भिद्यते, एक एव घटभेदः सर्वत्र | भेदः विशिष्यते प्रतियोगिना | अतः पटे घटभेदः, पुस्तकभेदः, सङ्गणकभेदः इत्येते त्रयः यद्यपि सर्वे पटे, किन्तु त्रयः भिन्नः भेदाः अवधिभेदात् |
अधुना मनसि इदमपि धेयं यत् भेदस्थले 'प्रतियोगितायाः अवच्छेदकं किम्' इति कथं वक्तव्यं, भेदस्य अवच्छेदकः कः चेति कथं वक्तव्यम् | घटभेदः, तस्य प्रतियोगिता घटे विद्यमानतादात्म्यसम्बन्धेन अवच्छिन्ना | तादात्म्यावच्छिन्ना प्रतियोगिता | घटभेदः घटावधिकः, नाम घटावच्छिन्नः | आहत्य— घटत्वावच्छिन्नतादात्म्यावच्छिन्नप्रतियोगिताकः अभावः यः घटभेदः, तद्वान् पटः |
भेदः एव पृथक्त्वम् इति आक्षेपस्य निरासः
एतावता नूतनपारिभाषिकशब्दाः सिद्धान्ताश्च यावदपेक्षते विद्याधर्यां प्रदत्ताक्षेपनिरासबोधनार्थं, तत्सर्वं साधितम् अतः अग्रे साक्षात् लिखितं यत्तत्परिशीलयाम | पृथक्त्वं, भेदः, अवधिः, नियतावधिकत्वं, निखिलावधिकत्वम् इत्येषाम् अर्थं मनसि निधाय अग्रे विद्याधर्यां लिखितान् विचारान् परिशीलयामश्चेत्, सौकर्येण बोधः उत्पत्स्येत |
"कपालभूतलयोः पृथगाश्रयाश्रितत्वेन तयोः संयोगसम्भवेऽपि घटकपालयोः तथाविधत्वाभावात् न तयोः कर्मजसंयोगजसंयोगोत्पत्तिः | न च गुणरूपस्य तस्य रूपादिवत् मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य नियतावधिकत्वे मानाभावात् भूतलावधिकत्वस्येव कपालावधिकत्वस्यापि आवश्यकत्वात् तद्दोषतादवस्थ्यमिति वाच्यम् |”
प्रथमं वाक्यं स्पष्टं स्यात् | ततः अग्रे क्रमेण सोपानेन सर्वं प्रतिपाद्यते | द्वितीयवाक्यस्य आकृतिः कीदृशी इति अवलोकनीयम् | "न च गुणरूपस्य तस्य रूपादिवत् ... नियतावधिकत्वे मानाभावात् ... कपालावधिकत्वस्यापि आवश्यकत्वात् तद्दोषतादवस्थ्यमिति वाच्यम्" | अत्र 'न च' इत्यस्य अन्वयः 'वाच्यम्' इति शब्देन सह | इयं च आकृतिः न्यायशास्त्रे सामान्या— यत्र कश्चन दोषः अस्ति, 'स च दोषः न वक्तव्यः' इति विवक्षायां, 'न च', तदा दोषः, तदा अन्ते 'वाच्यम्' | 'न च [अमुकः दोषः] 'वाच्यम्' | अतः यत्र 'न च' इति दृश्यते वाक्यस्य आरम्भे, तत्र कश्चन दोषः आयाति इति चिन्तयतु, तदनन्तरमेव '... वाच्यम्' | इयम् आकृतिः न परिचिता चेत्, 'न'-शब्दस्य अन्वयः अन्यत्र कुत्रापि स्यात् इति भ्रमः स्वाभाविकः | किन्तु सावधानतया पठति चेत्, 'न च' इति अभिजानाति चेत्, वाक्यं दीर्घं चेदपि वाक्यान्ते यदा 'वाच्यं' भवति, तत्रैव 'न च' इत्यस्य अन्वयः मनसि अभिज्ञानं स्यात् | आहत्य 'न च' इत्यस्मात्, 'वाच्यम्' इति यावत्— इदं वाक्यं सिद्धान्तिनः | मध्ये 'गुणरूपस्य' इत्यस्मात् 'आवश्यकत्वात्' इति यावत्— अयं भागः पूर्वपक्षिणः मतम् |
पूर्वपक्षी आपादनद्वयम् आक्षिपति | 'गुणरूपस्य तस्य रूपादिवत् मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य नियतावधिकत्वे मानाभावात्' इति प्रथमम् आपादनम् | 'भूतलावधिकत्वस्येव कपालावधिकत्वस्यापि आवश्यकत्वात्' इति द्वितीयम् आपादनम् | द्वयोः आपादनयोः अनन्तरं, सिद्धान्ती उत्तररूपेण वदति, 'तद्दोषतादवस्थ्यमिति न च वाच्यम्' | 'तद्दोषतादवस्थ्यम्' इत्यनेन 'पुनः तद्दोषः आयाति' इति | 'तदवस्थ' इत्यनेन 'पुनः सा एव अवस्था'; यस्य अवस्था इदानीमपि पूर्ववत्, सः तदवस्थः | तस्य भावः तादवस्थ्यम् |
सम्प्रति पूर्वपक्षिणः मतं किमिति पश्येम | प्रथमे आपादने 'मूर्तोत्पत्तिद्वितीयक्षणे जायमानः' इत्युक्तम् | गुणानां सृष्टिविधिः तथा | पूर्वमपि अस्माभिः दृष्टं— यदा मूर्तद्वव्यम् उत्पद्यते, युगपत् तस्मिन् द्रव्ये गुणोऽपि उत्पद्यते इति नास्ति; प्रथमतया मूर्तद्रव्यं, तदा तस्य उत्पत्तेः द्वितीयक्षणे गुणः समुद्भवति | नीलः पटः, पटे नीलरूपं; प्रथमतया पटः जायते, तदा एव नीलरूपम् | किमर्थम् इति चेत्, नीलरूपं समवायसम्बन्धेन पटे, तस्मात् पटः नीलरूपस्य समवायिकारणम् | नीलरूपं च कार्यम् | कार्यकारणभावस्य साधनार्थं कारणं कार्याधिकरणे भवेत्, कार्योत्पत्तेः पूर्वक्षणे च भवेत् | कार्योत्पत्तेः पूर्वक्षणे कारणं न विद्यते चेत्, तस्य कार्यस्य कारणं न भवितुमर्हति एव इति कृत्वा उत्पन्नं द्रव्यं क्षणमेकं निर्गुणं, तदा मूर्तोत्पत्तिद्वितीयक्षणे तस्मिन् गुणः जायते | तर्हि गुणस्य स्वभावः तथा— द्रव्ये विद्यमानः, मूर्तोत्पत्तिद्वितीयक्षणे जायमानः |
अधुना 'गुणरूपस्य तस्य रूपादिवत् मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य नियतावधिकत्वे मानाभावात्' इति पूर्वपक्षिणः प्रथमम् आपादनम् | अत्र 'गुणरूपस्य तस्य रूपादिवत्' इत्यनेन कस्य इति चेत्, पूर्वतने वाक्ये संयोगः इति विषयः प्रवर्तमानः इति कृत्वा संयोग एव स्यात् | किन्तु वाक्यस्य आशयं दृष्ट्वा भिन्नरीत्या चिन्तनीयं भवति | अनुच्छेदद्वयात् प्राक् उक्तम् आसीत्, 'तर्हि सिद्धं नः समीहितं गुणान्तरं पृथक्त्वं'; तस्य उल्लेखः अत्र क्रियते 'तस्य' इत्यनेन | अतः 'गुणरूपस्य तस्य पृथक्त्वस्य रूपादिवत् मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य नियतावधिकत्वे मानाभावात्' इति भवति |
अनेन पूर्वपक्षिणः आक्षेपः कः ? अत्र पूर्वपक्षी 'गुणरूपस्य पृथक्त्वस्य नियतावधिकत्वे मानाभावः' इति आशङ्कयति | 'घटः पटात् पृथक्' इति प्रतीतिः उभाभ्यां पक्षाभ्यां साधनीया एव यतोहि लोके तादृशव्यवहारः प्रसिद्धः | प्रश्नः अयं यत् इदं विद्यमानं पृथक्त्वं कीदृशं— प्राचीनानां मतं यादृशम्, अथवा नव्यानां मतं तादृशम् | एतावता पृथक्त्वं गुणः इति न सिद्धम् | के सिद्धाः गुणाः ? संयोगादयः | तेषु सिद्धगुणेषु कस्य नियतावधिकत्वम् अस्ति ? कस्यापि नास्ति | ये नियतावधिकाः तेषां सर्वेषाम् एव पूर्वपक्षिणः मतम् अनुसृत्य असिद्धत्वं; येषां गुणानां नियतावधिकत्वम् अस्ति, तेषां सर्वेषाम् इयमापत्तिः 'गुणरूपस्य नियतावधिकत्वे मानाभावः' | नियतावधिकत्वम् इति स्वभावः कस्यापि सिद्धगुणस्य न दृष्टः | कस्य दृष्टः ? भेदस्य | अतः पृथक्त्वस्य नियतावधिकत्वात् भेदरूपता एव | तथैव परत्वापरत्वयोः नियतावधिकत्वं; तयोरपि गुणत्वं नास्ति अपि तु भेदरूपता एव | पृथिवीत्वात् द्रव्यत्वं परं सामान्यम् इति व्यवहारे परत्वस्य भेदरूपता न तु गुणरूपता |
यदा यदा नियतावधिकस्य तद्विषयिनी प्रतीतिः जायते, व्यवहारः जायते, तादृशव्यवहारे नियमेन पञ्चम्यन्तं पदम् उपयुज्यते | तेषु सर्वेषु स्थलेषु सः 'नियतावधिकगुणः' मास्तु, तत्स्थाने भेदः अस्तु इति शङ्का अवतरति | अनेन ये गुणाः नियतावधिकाः, तेषां सर्वेषाम् इदानीम् असिद्धता, इति आपादनार्थमेव एषा पङ्क्तिः— 'गुणरूपस्य तस्य रूपादिवत् मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य नियतावधिकत्वे मानाभावः' | प्रत्येकस्मिन् नियतावधिकगुणे विवादः अस्ति इति कारणतः युगपत् सर्वेषाम् अनुवादः अत्र भवति | यत्र यत्र गुणक्षेत्रे नियतावधिकत्वम् उच्यते, तत्र सर्वत्र पूर्वपक्षी ब्रूयात् 'मास्तु, तस्यापि भेदत्वमेव इष्टम्' | अनेन यदि कोऽपि वदति यत् पृथक्त्वस्य च परत्वस्य च नियतावधिकत्वं, पूर्वपक्षी उत्तरयति 'तस्यापि भेदत्वे इष्टापत्तिः' |
नियतावधिकपदार्थस्य व्यवहारे पञ्चम्यन्तं पदम् आयाति; पञ्चम्यन्तं पदं विना तु तस्य अवधित्वं वर्णयितुम् एव न शक्यते | यत्र च पञ्चम्यन्तं पदं नियमेन आयाति तत्र भेदस्यैव विषयः भवतु इति शङ्का उदेति | अधुना संयोगविभागौ न तथा, तयोः पञ्चम्यन्तपदेन सह व्यवहारः न आवश्यकः; कारणम् अस्ति यत् तयोः तु नियतावधिकत्वम् एव नास्ति | अतः भवतु क्वचित् गुणक्षेत्रे सावधिकत्वं दृष्टं; किन्तु गुणेषु नियतावधिकत्वं न मन्यते | तर्हि अनेन पृथक्त्वस्य नियतावधिकत्वात् भेदरूपता एव इति पूर्वपक्षिणा इयं प्रथमा आपत्तिः उपपाद्यते |
अत्र च पुनः किञ्चित् वक्तव्यम् | पूर्वम् उक्तं, 'गुणस्य स्वभावः तथा— द्रव्ये विद्यमानः, मूर्तोत्पत्तिद्वितीयक्षणे जायमानः' इति | तत्र प्रश्नः उदेति, "पृथक्त्वं गुणो नास्ति चेदपि द्रव्ये विद्यमानं, मूर्तोत्पत्तिद्वितीयक्षणे जायमानं किल | तर्हि पूर्वपक्षिणा किमर्थं तावत् वक्तव्यम् आसीत्, 'द्रव्ये विद्यमानः, मूर्तोत्पत्तिद्वितीयक्षणे जायमानः' इति ? पृथक्त्वं गुणः अस्ति चेदपि नास्ति चेदपि तस्यापि तथा स्वभावः किल ?” किन्तु स्मर्यताम् इदं— पूर्वपक्षिणा आपाद्यते यत् पृथक्त्वस्य नियतावधिकत्वात् भेदरूपता | भेदस्तु प्रतियोगिनं विहाय विश्वे सर्वत्र, नित्यश्च | भेदः— अन्योन्याभावः— न केवलं द्रव्येषु अपि तु सर्वत्र सप्तसु अपि पर्दार्थेषु | गुणः केवलं द्रव्ये भवति, तत्र च केवलं द्रव्योत्पत्तिद्वितीयक्षणे जायते | पृथक्त्वं भेदः एव चेत् सर्वत्र विद्यमानं— न केवलं द्रव्येषु अपि तु गुणे, कर्मणि, सामान्ये, विशेषे, समवाये, अभावे च | अपि च तादृशं यत् भेदरूपि-पृथक्त्वं द्रव्ये, तत् द्रव्योत्पत्तिद्वितीयक्षणे जायमानं न यतोहि द्रव्यं स्वस्मिन् विद्यमानभेदस्य, अन्योन्याभावस्य, कारणं न | अन्योन्याभावः नित्यः अतः तस्य कारणं तु न भवति एव | नित्यत्वाच्च तस्य आरम्भो न भवति | अतः आहत्य पूर्वपक्षिणा आपाद्यते यत् पृथक्त्वस्य नियतावधिकत्वात् न गुणत्वम् अपि तु भेदत्वं; भेदत्वात् मूर्तोत्पत्तिद्वितीयक्षणे जायमानं नास्ति | इदं सर्वं प्रथमापादने अन्तर्भूतम् |
पूर्वपक्षिणः द्वितीयम् आपादनम्
इतः अग्रे पूर्वपक्षिणः द्वितीयम् आपादनम् | वस्तुगत्या गुणक्षेत्रे नियतावधिकं पृथक्त्वमित्यादीनां मानं नास्ति तस्य, किन्तु तादृशः कश्चन नियतावधिकः गुणः स्वीकृतश्चेत् अपि द्वितीयम् आपादनं किम् इत्युक्तौ, 'भूतलावधिकत्वस्येव कपालावधिकत्वस्यापि आवश्यकत्वम्' | अनेन पूर्वपक्षी आपादयति यत् 'अस्तु, यदि पृथक्त्वस्य गुणरूपेण नियतावधिकत्वं स्वीकुर्मः, तर्हि तस्य तस्मिन् क्षेत्रे किमपि नियामकं नोक्तम्, अतः भूतलावधिकत्वम् इव कपालावधिकत्वमपि स्यात् | कुत्र ? घटपृथक्त्वे |
'भूतलावधिकत्वस्येव कपालावधिकत्वस्यापि आवश्यकत्वम्' इत्यनेन यद्यपि नियतावधिकगुणस्य मानं नास्ति, तथापि यदि कश्चन नियतावधिकगुणः स्वीकृतः, तर्हि यद्युक्त्या भवतां मते भूतलावधिकपृथक्त्वरूपगुणः घटे प्रतीयते, तद्युक्त्या कपालावधिकपृथक्त्वस्य प्रत्ययः अपि स्यादेव | किं बाधकम् ? इति पूर्वपक्षी पृच्छति | एवं च प्रथमापादनेन पृथक्त्वस्य भेदरूपतायाः युक्तिः; द्वीतीयेन च यथा भूतलावधिकपृथक्त्वस्य प्रत्ययः जायते, तद्वत् कपालावधिकपृथक्त्वस्य प्रत्ययः स्यात् |
अधुना सिद्धान्ती उत्तरयति यत् द्वयोः आपादनयोः फलत्वेन पूर्वतनदोष आयाति | "गुणरूपस्य तस्य [पृथक्त्वस्य] रूपादिवत् मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य नियतावधिकत्वे मानाभावात् भूतलावधिकत्वस्येव कपालावधिकत्वस्यापि आवश्यकत्वात् तद्दोषतादवस्थ्यम्" | कः दोषः ? कपालावधिकपृथक्त्वं सीकृतं चेत्, परस्परावधिकपृथक्त्वाश्रयौ कौ जातौ ? कपालः घटश्च | यदा द्वितीयापादने कपालावधिकपृथक्त्वं घटे स्वीकृतं, तदा तुल्ययुक्त्या घटावधिकपृथक्त्वं कस्मिन् आगतम् ? कपाले | अनेन किं जातम् ? युतसिद्धत्वम् आगतम् | कपालघटौ युतसिद्धौ भवतः | युतसिद्धौ यदा भवतः, तदा तयोः संयोगापत्तिः | अतः तद्दोषतादवस्थ्यमिति न च वाच्यम् | घटकपालयोः संयोगापत्तेः कॢप्तत्वात् |
उभयोः पक्षिणोः मनसि घटकपालयोः संयोगापत्तेः कॢप्तत्वं किमर्थम् इति चेत्, घटकपालयोः विभागो न जायते इति प्रसिद्धं— सामान्यः अनुभवः | तयोः नित्यसम्बन्धः | ययोः विभागो न सम्भवति, तयोः संयोगोऽपि न जायते | तस्मात् उच्यते घटः समवायसम्बन्धेन कपाले, न तु संयोगसम्बन्धेन | निगमने घटकपालयोः संयोगापत्तिः, कॢप्तत्वात् |
तर्हि अग्रे गत्वा किं वारणीयम् ? घटकपालयोः युतसिद्धत्वं वारणीयम् | तदर्थं किं कर्तव्यम् ? कपालावधिकपृथक्त्वं घटे नास्ति, घटावधिकपृथक्त्वं कपाले नास्ति इति अवश्यं स्वीकर्तव्यम् | अधुना इदं वक्तुं शक्यते वा ? कपालावधिकभेदः घटे नास्ति, इति वर्णयितुं शक्यते वा ? न वर्णयितुं शक्यते किल | घटः कपालात् भिन्नः | इति इदानीं वैलक्षण्यं सम्पन्नम् |
इत्थञ्च 'मानाभावात्' इति एकम् आपादनं; यदि तथापि पृथक्त्वस्य नियतावधिकत्वं स्वीकृतं तर्हि अपरम् आपादनम् | अग्रे अस्य द्वितीयस्य आपादनस्य वारणं क्रियते | एवं तदनुरोधेन एव तस्य पृथक्त्वस्य भेदरूपता वार्यते |
ततः अग्रे द्वितीयापादनस्य वारणार्थं सिद्धान्तिना उच्यते,'वक्ष्यमाणविभागस्य द्रव्योत्पत्तिद्वितीयादिक्षणेषु जायमानस्यापि न निखिलावधिकत्वं किन्तु स्वनाश्यसंयोगाश्रयावधिकत्वमेव हि नियमेन स्वीक्रियते' | अत्र किमर्थं निखिलावधिकत्वम् उक्तम् ? पूर्वपक्षिणः आपादने निखिलावधिकत्वम् इति विचारः एव न आगतः | तर्हि निखिलावधिकत्वस्य वारणस्य का आवश्यकता ?
वस्तुतः द्वितीयम् आपादनं यत् पूर्वपक्षिणा चिन्तितं 'भूतलावधिकत्वस्य इव कपालावधिकत्वस्यापि' इति कदा वक्तुं शक्यते ? यदा पृथक्त्वस्य निखिलावधिकत्वं स्वीक्रियते तदा एव इदं वर्णयितुं शक्यते, अमुं दोषम् | नाम 'यथा भूतलावधिकत्वं तथा कपालावधिकत्वम् अपि अवश्यं वक्तव्यम्' इति कदा वर्णयितुं शक्यते ? घटे घटं विहाय ये ये पदार्थाः तत्तदविधिकं पृथक्त्वम् अस्ति चेदेव तादृशम् आपादनं भवति | इदमेव निखिलावधिकत्वम् |
अधुना पूर्वमेव अस्माभिः उक्तं यत् विश्वे निखिलावधिकत्वं नास्ति कस्यापि | किन्तु तत् स्वीकृत्य एव किल पूर्वपक्षिणा दोषः आपादनीयः | 'भूतलावधिकत्वस्य इव कपालावधिकत्वस्यापि आवश्यकत्वम्', अनेन पूर्वपक्षिणा आपाद्यते यत् 'अस्तु, यदि पृथक्त्वस्य गुणरूपेण नियतावधिकत्वं स्वीकुर्मः, तर्हि तस्य तस्मिन् क्षेत्रे किमपि नियामकं नोक्तम्, अतः भूतलावधिकत्वस्य इव कपालावधिकत्वस्यापि आवश्यकत्वात् घटकपालयोः परस्परावधिकपृथक्त्वं स्यात्; नाम पृथक्त्वस्य नियतावधिकत्वम् इति स्वीकुर्मः चेत्, तस्य निखिलावधिकत्वम् अपि भवतु | यतोहि तदानीं किल वक्तुं शक्यते यत् 'भूतलावधिकत्वस्य इव कपालावधिकत्वस्यापि', तदा तादृशं वर्णयितुं शक्यते, यदा पृथक्त्वस्य निखिलावधिकत्वं वर्तेत |
अस्य च 'नियतावधिकत्वम् अस्ति चेत् निखिलावधिकत्वम् अपि स्यात्' इत्यस्य आपादनस्य निरासः क्रियते सिद्धान्तिना अग्रे विभागस्य उदाहरणं दत्वा, पृथक्त्वस्य अनेकावधिकत्वं च प्रतिपाद्य | अस्मात् सिद्धं भवति यत् 'यत्र यत्र नियतावधिकत्वं तत्र तत्र निखिलावधिकत्वम्' इति आक्षेपः दोषपूर्णः |
'वक्ष्यमाणविभागस्य द्रव्योत्पत्तिद्वितीयादिक्षणेषु जायमानस्यापि न निखिलावधिकत्वं किन्तु स्वनाश्यसंयोगाश्रयावधिकत्वमेव हि नियमेन स्वीक्रियते' | द्रव्योत्पत्तिद्वितीयक्षणे जायमानस्य विभागस्य न निखिलावधिकत्वम् अपि तु स्वनाश्यसंयोगाश्रयावधिकत्वमेव | विभागः कुत्र जायते ? स्वेन नाश्यः यः संयोगः, तदधिकरणे एव | घटभूतलविभागेन नाश्यः यः संयोगः— घटभूतलसंयोगः | घटभूतलविभागेन कस्य नाशो जायते ? घटभूतलसंयोगस्य नाशो जायते | घटकपालयोः संयोगः जायते किम् ? न जायते | अतः तयोः विभागः अपि न सम्भवति | यत्र संयोगः अर्हः, तत्रैव विभागः अपि भवति | तादृशावधिकत्वम् अपि भवति विभागस्य, न अन्यत् |
स्वनाश्यसंयोगाश्रयावधिकत्वमेव, तन्निखिलावधिकत्वं नास्ति | 'वक्ष्यमाणविभागस्य ... न निखिलावधिकत्वं किन्तु स्वनाश्यसंयोगाश्रयावधिकत्वमेव हि नियमेन स्वीक्रियते' | अत्र 'नियमेन स्वीक्रियते' इत्युक्ते किम् ? नियमः कः ? अपरं न स्वीक्रियते इति तात्पर्यम् | विभागः कयोः भवति ? विभागः तयोर्मध्ये भवति यः एकः तदवधिकत्वं न स्वीक्रियते इति अत्र नियमः | यतोहि विभागः द्विनिष्ठः | तस्मात् कस्यचित् चिन्तनं स्यात् यत् 'घटभूतलयोः विभागः' इति कथनेन अयं विभागः घटावधिकः अपि, भूतलावधिकः अपि | किन्तु तथा नास्ति; प्रत्ययवशात् 'घटावधिकः विभागः' इति यदा भवति, तदा स च विभागः केवलं भूतले स्थितः; तत्र च भूतलं तस्य भूतले स्थितस्य विभागस्य अवधिः नास्ति | विपरीतत्वेनापि |
अत्र विभागः दृष्टान्तविधया उच्यते न तु प्रमाणविधया | किञ्चित् अवधिकत्वं वार्यते विभागस्य, किञ्चित् अवधिकत्वं च स्वीक्रियते | व्यवहारस्य दर्शनेन किञ्चित् अवधिकत्वं यथा विभागस्य वार्यते, तद्वदेव पृथक्त्वस्थलेऽपि किञ्चित् अवधिकत्वं वार्यते | किं तत् इत्युक्तौ स्वावयवपरम्परायां ये विद्यमानाः, ते | तदवधिकत्वं यदा वारितं, तदा परस्परं तदवधिकपृथक्त्वप्रत्ययः न जायते | पृथक्त्वप्रत्ययाभावात् तयोः युतसिद्धत्वं न भवति | युतसिद्धत्वाभावात् तयोः न संयोगव्यवहारः |
'तथा इदं पृथक्त्वमपि द्वितीयादिक्षणे जायमानं स्वाश्रयसमवायिकारणपरम्परायां परमाण्वन्तं यन्मूर्तं तदतिरिक्तावधिकमेव जायते इति स्वीकारात्' | निखिलपदार्थघटकीभूतः यः स्वावयवपरम्परायां विद्यमानः पदार्थः, तदवधिकत्वं नास्ति, स्वस्मिन् विद्यमानपृथक्त्वे | अतः न निखिलावधिकत्वम् इति सङ्गच्छते | यदा निखिलावधिकत्वं ब्रूमः, तदा स्वं विहाय अन्यः भवति स्वावयवपरम्परायां विद्यमानोऽपि अवयवः | यदा तदवधिकत्वं स्वस्मिन् विद्यमानपृथक्त्वे स्यात्, तदा तत् पृथक्त्वं निखिलावधिकं स्यात् | किन्तु तन्नास्ति, इत्युच्यते |
स्वं यस्मिन् देशे व्याप्तः, तावन्मात्रदेशावच्छेदेन व्याप्ताः ये स्वावयवपरम्परायां विद्यमानाः मूर्ताः, तदवधिकं पृथक्त्वं यस्मिन् नास्ति, इति ब्रूमः | ते निखिलान्तर्गताः | यतोहि अस्मिन् वाक्ये अस्माभिः निखिलपदार्थस्य कः अर्थः उक्तः ? स्वाश्रयं विहाय अन्यत् सर्वं, तदन्तर्गतम् | इदानीं घटपटपृथक्त्वस्य निखिलावधिकत्वं किं स्यात् इत्युक्तौ, स्वाश्रयः यः घटः, तद्विहाय ये ये पदार्थाः, तदवधिकत्वम् | इदं घटे विद्यमानपृथक्त्वस्य निखिलावधिकत्वं स्यात् |
इदानीं किं पर्यवसितम् अत्र ? स्वाश्रयः घटः, सः यस्मिन् देशे व्याप्तः, तावन्मात्रदेशे व्याप्ताः ये अवयवाः, तदवधिकत्वं घटपृथक्त्वे नास्ति | अतः निखिलावधिकत्वं नास्ति | यदा निखिलावधिकत्वं नास्ति, तदानीं पूर्वं तद्दोषतादावस्थ्यम् इति नास्ति | न निखिलावधिकत्वम् अपि तु स्वावयवातिरिक्ते | नाम स्वं यस्मिन् देशे व्याप्तः, तावत् मात्रदेशे व्याप्तः यः स्वावयवः, स्वावयवपरम्परायां विद्यमानं यद्यत् मूर्तं, तद्भिन्नावधिकं पृथक्त्वमेव स्वस्मिन् भवति इति द्वितीयदोषस्य समाधानम् | अत्र घटकपालयोः परस्परावधिकपृथक्त्वं नास्ति इत्यर्थः | घटे कपलावधिकपृथक्त्वं नास्ति; कपाले घटावधिकपृथक्त्वं नास्ति | इत्यादिकं यदा आगतं तदा तयोः युतसिद्धत्वं नास्ति | युतसिद्धत्वाभावात् तयोः संयोगदोषस्यापि वारणं भवति |
संयोगस्य साधकं भवति युतसिद्धत्वम् | युतसिद्धत्वं नाम किम् ? पृथगाश्रयाश्रितत्त्वम् इत्युक्तम् | इदानीं पृथक्त्वस्य स्थाने यदा भेदः स्वीकृतः, तदा कपाले घटभेदः अस्ति, घटे च कपालभेदः अस्ति | अतः घटस्य कपालभेदाश्रयत्वात्, कपालस्य च घटभेदाश्रयत्वात् तयोः युतसिद्धत्वं स्यात् | युतसिद्धत्वे तयोः संयोगः स्यात् | इति आपादनम् | तस्मात् किं कर्तव्यम् ? युतसिद्धत्वं कस्य इत्युक्तौ पृथक्त्वाश्रयस्य | पृथक्त्वं च भेदापेक्षया किञ्चिदतिरिक्तम् इति स्वीकर्तव्यम् | इयं मुख्यावृत्तिः |
तर्हि पृथक्त्वाश्रयत्वे युतसिद्धत्वम् | तत्र घटकपालयोः युतसिद्धत्वं नास्ति इति वर्णनीयम् अस्ति | 'तद् अस्ति' इति आपादनार्थं सर्वम् आगतम् | तर्हि तद् उक्त्वा, तदुत्तरं यथा विभागस्थले यत् वक्ष्यमाणम् अस्ति, तया रीत्या अनयोरपि परस्परावधिकपृथक्त्वं न स्वीक्रियते | इति यदा ब्रूमः, तदा तयोः युतसिद्धत्वं वार्यते | पूर्वं यत् प्रतिज्ञातं कौ युतसिद्धौ, पृथगाश्रयाश्रितौ | इदानीं तयोरपि परस्परं पृथक्त्वाश्रयत्वं वर्तते चेत्, तर्हि स्यादेव तयोः युतसिद्धत्वम् | तस्य खण्डनार्थं इदं सर्वं परिशीलनम् | अत्रैव इदं सर्वम् उपकारकं भवति | अनेन पृथक्त्वं भेदः इति इमौ द्वौ पदार्थौ समानौ न स्तः इति सिध्यति यतोहि पृथक्त्वं भेदरूपं चेत्, घटकपालयोः युतसिद्धत्वात् संयोगापत्तिः |
द्वयोः परमाण्वोः संयोगापत्तिः
'न चैवं परमाणुद्वयसंयोगानुपपत्तिः | तयोः अनाश्रितत्वादिति वाच्यम् | तत्र स्वतन्त्रक्रियावत्त्वस्य निमित्तत्वात्' | पूर्वम् उक्तं यत् तयोः संयोगो जायते, यौ पृथगाश्रयाश्रितौ | परमाणोः आश्रयः एव नास्ति, इत्यस्मात् द्वयोः परमाण्वोः संयोगः कथं वा जायेत ? इति चेत् 'स्वतन्त्रक्रियावत्त्वस्य निमित्तत्वात्' द्वयोः परमाण्वोः संयोगस्तु भवत्येव | अनेन च अवगम्यते यत् वस्तुतः 'यौ पृथक् तयोः संयोगः' इत्येव पर्याप्तम् | एतावता यौ पृथगाश्रयाश्रितौ तयोः संयोगः भवति स्म | किन्तु अत्र परमाण्वोऽपि संयोगः जायते इति कृत्वा स्वतन्त्रक्रियावतोः संयोगः भवति इति स्पष्टम् | संयोगः कुत्र सम्भवति इत्यस्य बोधनार्थमेव पृथगाश्रयाश्रितत्वं प्रदर्शितम् |
अन्यच्च परमाणोः आश्रयः न भवति एव इति अत्र न विचारः | अनाश्रितत्वेन, समवायसम्बन्धेन आश्रयः नास्ति इति बोध्यम् | 'परमाणुः उत्पीठिकायाम् अस्ति' इति प्रतीतिर्जायते; तत्र आश्रयः संयोगसम्बन्धेन किन्तु | अवयवाभावात् परमाणोः समवायिकारणं नास्ति |
मूर्तविभुसंयोगापत्तिः
'इथमेव मूर्तविभुसंयोगस्थले संयुक्तयोः पृथगाश्रयाश्रित्वस्य असम्भवेऽपि एकस्य मूर्तस्य पृथगाश्रयाश्रितत्वात् संयोगोपपत्तिः' | पूर्वमपि उक्तं सङ्ख्या, परिमाणं, पृथक्त्वं, संयोगः, विभागः इत्येषां पञ्चानां सर्वद्रव्यवृत्तित्वम् | तत्र उपाधिभेदात् घटः आकाशात् पृथक्, घटाकाशयोः संयोगः, घटाकाशयोः विभागश्च भवति |
घटकपालयोः पृथगाश्रयाश्रितत्वस्य संयोगापत्तिः
'नचैवं घटकपालयोः मध्येऽपि कपालस्य कपालिकाश्रितत्वात् घटस्य च कपालाश्रितत्वात् पृथगाश्रयाश्रितत्वस्य सम्भवेन कपालक्रियया घटकपालयोः संयोगापत्तिः सर्वादौ उक्ता अनिवार्या एव इति वाच्यम् | समानदिग्भागव्यापिनां दिगुपाधिभूतानां घटावयवपरम्परागतानां कपालकपालिकादीनां परस्परावधिकपृथक्त्वस्य अस्वीकारात् |'
अत्र कपालस्य कपालिकाश्रितत्वात् घटस्य च कपालाश्रितत्वात् द्वयोः पृथगाश्रयाश्रितत्वं खलु इति कृत्वा घटकपालयोः संयोगः जायेत इति न च वाच्यम् | किमर्थम् इति चेत् द्वयोः आश्रययोः स्थानभेदो नास्ति | अस्य बोधनार्थम् अग्रे उच्यते, 'समानदिग्भागव्यापिनां दिगुपाधिभूतानां घटावयवपरम्परागतानां कपालकपालिकादीनां परस्परावधिकपृथक्त्वस्य अस्वीकारात्' |
अत्र समानदिग्भागव्यापित्वं, दिगुपाधिभूतत्वं, घटावयवपरम्परागतत्वम् इत्येते कपालकपालिकादीनां विशेषणानि | समानदिग्भागव्यापिनाम् इत्यनेन किं विवक्षितम् ? यादृशदेशे कपालः अस्ति, तस्मिन्नेव देशे कपालिका अपि अस्ति | समानदेशे उभयमस्ति इति बोधनीयम् | यावती दिक् तेन कपालेन व्यापिता, तदपेक्षया अतिरिक्ता दिक् नैव कपालिकया व्यापिता | यतोहि कपालिका इत्युक्तौ तस्यैव कपालस्य अवयवः | समानदिक्व्यापकत्वं, समानदेशत्वं तुल्यमेव | पुनः इतोऽपि स्पष्टतया विशिष्टतया व्यक्तीकर्तुं समानदिग्भगः इति |
अपि च मूर्तद्रव्यस्य दिगुपाधित्वं भवत्येव | तदवच्छिन्ना दिक् यदा बोधनीया, तदा देशः इत्युच्यते | वस्तुतः दिक् विभ्वी; तस्याः च विभुत्वात् विभजनं न भवति | यदा दिक् मूर्तद्रव्यावच्छिन्ना भवति, तदा अनेन देशः लभ्यते | अतः मूर्तद्रव्यं दिगुपाधिः, मूर्तद्रव्ये दिगुपाधित्वम् | यथा महाकालस्य लोके व्यवहारः न कर्तुं शक्यते, तदर्थञ्च अस्माभिः 'दशवादने' इत्यादिकम् उच्यते उपाधित्वेन, तद्वत् 'अस्मिन् देशे' इत्युक्ते 'तादृशोपाध्यवच्छिन्नदिशि' इति अर्थः | घटः अपि दिगुपाधिभूतः, कपालिका अपि दिगुपधिभूता | सामान्यतया दिगुपाधयः दिशि पृथक्त्वं कल्पयन्ति, किन्तु समानदिग्भागिषु तैः दिगुपाधिभिः पृथक्त्वं न कल्प्यते इति वैशिष्ट्यम् |
आहत्य 'समानदिग्भागव्यापिनां दिगुपाधिभूतानां घटावयवपरम्परागतानां कपालकपालिकादीनां परस्परावधिकपृथक्त्वस्य अस्वीकारात् घटकपालयोः संयोगापत्तिः सर्वादौ उक्ता अनिवार्या एव इति न च वाच्यम्' |
निगमनम्
"किञ्च विभागे विभिन्नदेशव्यापिमूर्तवृत्तिपृथक्त्वे च विस्पष्टं प्रतीयमानम् अवधित्वं, भेदीयप्रतियोगिता च तादात्म्याद्यनेकपदार्थज्ञानाधीनज्ञानविषयः इत्यनयोः विषययोः चिन्तनेऽपि पृथक्त्वम् अतिरिक्तः गुणः इति प्राचीनानामाशयः न स्थूलबुद्ध्या विचारणीयः इति तावत् मम प्रतिभाति इति दिक् |” 'हस्तः वृक्षात् पृथक्' इति स्थितौ वृक्षः अवधिः, वृक्षे अवधित्वम् | 'हस्तः वृक्षात् भिन्नः' इति स्थितौ वृक्षः प्रतियोगी, वृक्षे प्रतियोगिता | वृक्षे यत् अवधित्वं, पुनः वृक्षे या प्रतियोगिता— परिशीलनेन इदम् अवधित्वं इयं च प्रतियोगिता, द्वयमपि समानं न अपि तु द्वयोर्मध्ये महत् वैलक्षण्यम् |
अत्र अस्माकं कर्मजसंयोगविषयात् आरभ्य, पृथगाश्रयाश्रितविषयमाध्यमेन, अवधिविषयमाध्यमेन, नियतावधिकत्वविषयमाध्यमेन, निखिलावधिकत्वविषयमाध्यमेन, भेद-एव-पृथक्त्व-निरासपर्यन्तम् इति दीर्घचर्चायाः सारांशः उच्यते | मूलवाक्यम् इदं— विभागे पृथक्त्वे च यत् अवधित्वं, पुनः भेदीयप्रतियोगिता, अनयोः द्वयोः गभीर-तुलनया विस्पष्टं भवति यत् पृथक्त्वम् अतिरिक्तः गुणः |
विभिन्नदेशव्यापिमूर्तवृत्तिपृथक्त्वम् इत्यनेन विभिन्नदेशव्यापिमूर्तानि यानि द्रव्याणि, तेषु यत् पृथक्त्वम् | पुनः विभागे पृथक्त्वे च तादृशयोः यत् अवधित्वम् | तादात्म्याद्यनेकपदार्थज्ञानाधीनज्ञानविषयः या भेदीयप्रतियोगिता | अनयोः पृथग्विषयकावधित्व-भेदीयप्रतियोगितयोः चिन्तनेन स्पष्टं भवति यत् पृथक्त्वम् अतिरिक्तः गुणः | यत् अस्माभिः विस्तरेण एतावता साधितम् |
अत्र तादात्म्याद्यनेकपदार्थज्ञानाधीनज्ञानविषयः इति पदं भेदीयप्रतियोगिता इत्यस्य विशेषणम् | तादात्मादयः ये अनेके पदार्थाः, तेषां यत् ज्ञानं— तादात्म्याद्यनेकपदार्थानां यत् ज्ञानं, तादृशज्ञानस्य अधीनं यत् ज्ञानं, तद्विषयः प्रतियोगिता इत्यर्थः | अग्रे विस्तरेण उच्यते |
भेदस्य विषये यदा सम्यक् ज्ञानं भवति, नाम भेदस्य स्वभावः कः, भेदस्य ज्ञानञ्च कथं जायते, तदा पृथक्त्वभेदयोः वैलक्षण्यं स्पष्टं प्रतीयते | यतोहि भेदस्य ज्ञानं विशिष्टं; ततः पूर्वं बहु किमपि ज्ञातव्यं; यदा भेदः ज्ञातव्यः, तदा ज्ञानपरम्परा अपेक्षते | साक्षात् भेदस्य ज्ञानं न सम्भवति | पृथक्त्वस्य स्थले तथा नास्ति; पृथक्त्वस्य गुणत्वात् साक्षात् ज्ञानं भवति तस्य |
भेदीयप्रतियोगिता कीदृशी ? तादात्म्याद्यनेकपदार्थज्ञानाधीनज्ञानविषयः | यदा घटभेदः स्वीकृतः— घटात् भिन्नः इति प्रतीतिः | तावता भेदीयप्रतियोगिता सिद्धा नास्ति | सा प्रतियोगिता घटत्वावच्छिन्ना, तादात्म्यसम्बन्धावच्छिन्ना च | तादृशप्रतियोगितायाः ज्ञानार्थम् इदं सर्वं प्रथमं ज्ञातव्यं भवति | अन्यथा किं भवति ? अन्यत्र पटे विद्यमाना या प्रतियोगिता, तदपेक्षया घटे विद्यमाना प्रतियोगिता कथं विलक्षणा इति न ज्ञायते | अतः सर्वोऽपि अवच्छेद्यावच्छेदकभावः ज्ञातव्यः भवति | अनेन इयं प्रतियोगिता घटत्वावच्छिन्ना, तादात्म्यसम्बन्धावच्छिन्ना, इति ज्ञातं चेदेव सा स्पष्टा ज्ञायते | पृथक्त्वस्थले गुणत्वात् तथा नास्ति | इति वैलक्षण्यम् |
यतोहि प्रतियोगिता इत्युक्ते कः पदार्थः ? सा नियमेन केनचित् धर्मेण अवच्छिन्ना भवति, केनचिच्च सम्बन्धेन अवच्छिन्ना भवति | प्रतियोगिता ज्ञातव्या चेत् इदं सर्वं ज्ञातव्यं भवति | प्रतियोगिताविषयिणी यदा प्रतितीर्जायते, तदा अवश्यं प्रतियोगितायां किञ्चित् धर्मावच्छिन्नत्वं, किञ्चित् सम्बन्धावच्छिन्नत्वं ज्ञायते | अत्यन्ताभावस्थले, भेदस्थले एवमस्ति | अतः इदम् अस्मात् भिन्नम् इति ज्ञातव्यं चेत्, प्रतियोगिता भासते इति वक्तव्यं चेत्, ततः इतोऽपि बहु किं किं ज्ञातव्यं भवति, पूर्वम् | सा केन अवच्छिन्ना, केन धर्मेण अवच्छिन्ना, केन सम्बन्धेन अवच्छिन्ना— एतत् सर्वं ज्ञातं चेदेव सा प्रतियोगिता ज्ञातुं शक्यते | तदर्थं किम् उक्तम् ? तादात्म्याद्यनेकपदार्थज्ञानाधीनज्ञानविषयः | नाम प्रतियोगिताज्ञानार्थम् इदं सर्वं पूर्वम् अपेक्षते; तदधीनं ज्ञानं भवति प्रतियोगितायाः | तादात्म्यादि-पदार्थानां यत् ज्ञानं, तद् ज्ञानं जायते चेदेव तदुत्तरप्रतियोगितायाः ज्ञानं सम्भवति | अनेन प्रतियोगितायाः ज्ञानं कीदृशम् ? तादात्म्याद्यनेकपदार्थानां यत् ज्ञानं, तद् अधीनं यत् ज्ञानम्, इति प्रतियोगितायाः विषयः |
अधीन-शब्दस्य अर्थद्वयं भवति न्यायशास्त्रे | क्वचित् प्रयोज्य-प्रयोजकभावे अस्ति, अन्यत्र च जन्य-जनकभावे अस्ति | अधीनशब्दस्य उभयथा अर्थो भवति | क्वचित् ज्ञानाधीनज्ञानम् इत्युक्तौ ज्ञानजन्यज्ञानं; क्वचिच्च ज्ञानाधीनज्ञानम् इत्युक्तौ ज्ञानप्रयुक्तज्ञानम् | क्वचित् कार्यकारणभावः तस्य, अन्यत्र प्रयोज्यप्रयोजकभावः अस्ति | अत्र जन्यजनकभावः |
विशेष्यस्य ज्ञानार्थं प्रथमतया विशेषणस्य ज्ञानम् अपेक्षितं भवति; तद्वत् अत्र | धर्मावच्छिन्नत्वं, तादात्म्यसम्बन्धावच्छिन्नत्वं च प्रतियोगिता इति विशेष्यस्य द्वे विशेषणे | 'तादात्म्यसम्बन्धावच्छिन्ना प्रतियोगिता', अत्र तादात्म्यसम्बन्धावच्छिन्ना इति विशेषणवाचकपदम् | विशेषणस्य ज्ञानं पूर्वम् अपेक्षते | विशेषणज्ञानं विशेष्यस्य जनकं; विशेषणज्ञानजन्यं विशिष्टस्य ज्ञानं भवति | अतः अत्र अधीनशब्दस्य अर्थः 'जन्यः' |
अत्र कः कार्यकारणभावः इत्युक्तौ, विशिष्टविषयकज्ञानं प्रति विशेषणविषयकज्ञानं कारणं भवति | विशिष्टज्ञानार्थं पूर्वं विशेषणस्य ज्ञानम् आवश्यकम् | अतः घटभेदप्रतियोगितायाः ज्ञानार्थं प्रथमतया धर्मावच्छिन्नत्व-तादात्म्यसम्बन्धावच्छिन्नत्वयोः पूर्वं ज्ञानम् अपेक्षते | तदुत्तरा, तदवच्छिन्ना प्रतियोगिता | अतः घटत्वज्ञानाधीनं घटत्वावच्छिन्नप्रतियोगिता इति ज्ञानम् |
अत्र प्रश्नः उदेति, तादात्म्याद्यनेकपदार्थज्ञानाधीनज्ञानविषयः प्रतियोगिता, किन्तु पृथक्त्वस्य अवधित्वं तथा ज्ञानाधीनं नास्ति इत्युक्तम् | परञ्च घटः पटात् पृथक् इति प्रतीतौ अवधित्वम् अपि पटत्वावच्छिन्नं भवति इति भाति | एवं रीत्या अत्रापि पूर्वज्ञानम् अपेक्षितमेव | तर्हि उभौ अपि कथञ्चित् ज्ञानाधीनौ खलु ? प्रतियोगिता ज्ञानाधीना किन्तु पृथक्त्वस्य स्थले अवधित्वं तथा नास्ति इत्यनेन तयोः वैलक्षण्यम् इति कथं वक्तुं शक्यते ?
उत्तरत्वेन उच्यते— पृथक्त्वस्य अवगमनार्थम् एतत् सर्वं परिशीलनं नापेक्षितम् | घटः पटात् पृथक् इति प्रतीतौ पृथक्त्वं घटे, घटेन च विशिष्यते | घटः पटात् भिन्नः इति प्रतीतौ भेदः घटे, किन्तु घटेन न विशिष्यते इति कारणनतः अयं भेदः कीदृशः इत्यस्य अवगमनार्थम् इतोऽपि परिशीलनम् अपेक्षितम् | प्रतियोगी कः, तस्मिन् विद्यमाना प्रतियोगिता कीदृशी इति परिशीलनीयं भवति | यावत् न क्रियते, तावत् प्रतीतिः एव न बुध्यते | किन्तु पृथक्त्वं, तस्य अवधित्वं च, न तथा | यद्यपि पृथक्त्वस्य अवधित्वस्य वर्णनं वक्तुं शक्यते यया रीत्या प्रश्ने उक्तं, तस्य आवश्यकता नास्ति | अत्र किमुक्तम् ? "विभिन्नदेशव्यापिमूर्तवृत्तिपृथक्त्वे विस्पष्टं प्रतीयमानम् अवधित्वं"— यत्र विभिन्नदेशव्यापिमूर्तवृत्तिपृथक्त्वं वर्तते, तत्र प्रतीयमानम् अवधित्वं विस्पष्टं; ततः अग्रे परिशीलनस्य आवश्यकता नास्ति-- पृथक्त्वस्य गुणत्वात्, आश्रयद्रव्येण विशिष्टत्वात्, विभिन्नदेशव्यापिमूर्तवृत्तित्वात् |
Swarup – January 2017
Subpages (1): वर्गसदस्यानां व्याख्यानानि ---------------------------------