12 - इड्व्यवस्था
इट् नाम किम् | प्रायः अस्माभिः सर्वैः अवलोकितं स्यात् यत् तिङन्तेषु कृदन्तेषु च कुत्रचित् इकारः श्रूयते कुत्रचित् न | यथा तिङन्तेषु गमिष्यति इत्यत्र मकारोत्तरः इकारः अस्ति; द्रक्ष्यति इत्यत्र एवं कोऽपि इकारः नास्ति | कृदन्तेषु पठितुम् इत्यत्र ठकारोत्तरः इकारः अस्ति; कर्तुम् इत्यत्र एवं कोऽपि इकारः नास्ति | अस्य इकारस्य नाम इट्-आगमः (इडागमः) | तर्हि कुत्र इडागमः संयुज्यते अपि च कुत्र न, इत्यस्य विज्ञानस्य नाम इड्व्यवस्था | यत्र इडागमस्य योजनार्थं धातोः अनुकूलता वर्तते, तत्र धातुः सेट् इत्युच्यते | सेट् = इटा सह | (तेन सहेति तुल्ययोगे २.२.२८ इत्यनेन तुल्ययोग-बहुव्रीहिसमासः | एतादृश-बहुव्रीहिसमासस्य 'यस्य सः, येन सः' इति शैली न भवति, किन्तु अन्यपदप्राधान्यम् अस्ति; प्रधानं न 'स', न वा 'इट्', अपि तु 'धातुः' |) यत्र इडागमस्य अनुकूलता नास्ति, तत्र धातुः अनिट् इत्युच्यते | अनिट् = न इट् यस्य सः | नञ्तत्पुरुषगर्भ-बहुव्रीहिः | सामान्यतया धातुः सेट् अस्ति चेत् अपि च तस्मात् यः प्रत्ययः विहितः अस्ति सः अपि सेट् अस्ति चेत्, तर्हि तत्र इडनुकूलता विद्यते | नाम तस्यां दशायाम् इडागमः भवितुम् अर्हति | धातुप्रत्यययोः कश्चन इडानुकूलो नास्ति चेत्, सामान्यतया तत्र ईडनुकूलता नास्ति | अपवादाः सन्ति, किन्तु सामान्यनियमः अयम् |
इत्-संज्ञकेन अच्-वर्णेन धातुः किंपदी इति निर्णयः क्रियते, अपि च अवशिष्टस्वरेण निर्णयः क्रियते अयं धातुः इट् अनिट् वा इति अस्माभिः उक्तम् | इत्-संज्ञकानां वर्णानां निष्कासनानन्तरं यः स्वरः अवशिष्यते, तेन स्वरेण धातुः इट् वा अनिट् वा इति निर्णयः क्रियते | अनेन स्वरेण इड्-व्यवस्था ज्ञायते |
धातुषु अचः अधस्तात् या रेखा दृश्यते (यथा "अ॒" इति), सा रेखा अचः अनुदात्तत्वं सूचयति | आसँ॒ उपवेशने इत्यस्मिन् धातौ, सकारोत्तरवर्ती यः अकारः अस्ति, सः अकारः अनुदात्तः इति अधःस्थं चिह्नं सूचयति | धातुषु अचः उपरिष्टात् या रेखा दृश्यते (यथा "अ॑" इति), तया अचः स्वरितत्वं सूच्यते |
तर्हि उपरि चिह्नम् अस्ति चेत् स्वरः स्वरितः, अधः चिह्नम् अस्ति चेत्, अनुदात्तः | उपरि अपि नास्ति, अधः अपि नास्ति, तर्हि सः स्वरः उदात्तः | यथा व॒सँ-धातौ वकारोत्तरवर्ती यः अकारः अस्ति, तस्य अधः चिह्नम् अस्ति अतः सः अकारः अनुदात्तः | परन्तु शिषँ-धातौ शकारोत्तरवर्ती यः इकारः अस्ति, तस्य उपरि अपि अधः अपि चिह्नं नास्ति, अतः सः इकारः उदात्तः |
तर्हि अत्र इड्व्यवस्था कीदृशी इति द्रष्टव्यम् | वृत्तान्ते पठँ इति धातुः | ठकारोत्तरवर्ती यः अकारः अस्ति सः अनुनासिकः उदात्तः च, अतः धातुः परस्मैपदी | पकारोत्तरवर्ती यः अकारः अस्ति, सः अवशिष्टः स्वरः इति उच्यते | अयम् अकारः कीदृशः इति धेयम् | अवशिष्टः स्वरः अनुदात्तः चेत्, धातुः अनिट् | अयम् अवशिष्टः स्वरः उदात्तः स्वरितो वा, धातुः सेट् | पकारोत्तरवर्ती अकारः उदात्तः, अतः धातुः सेट् | गै॒ धातौ ऐकारः अनुदात्तः, अतः धातुः अनिट् | मे॒ङ् धातौ ङकारस्य इत्-संज्ञा, मे॒ अवशिष्यते | एकारः अनुदात्तः, अतः धातुः अनिट् | क्षिवुँ इति धातौ उकारः अनुनासिकः अतः तस्य इत्-सज्ञा लोपः च | क्षिव् इति अवशिष्यते | क्षकारोत्तरवर्ती यः इकारः सः उदात्तः, अतः धातुः सेट् | उपर्युक्तस्य नियमस्य कारणं यदि अवगन्तुम् इच्छेम, तर्हि सूत्रद्वयं द्रष्टव्यं भवति |
प्रत्ययस्य स्वभावः
आर्धधातुकस्येड्वलादेः (७.२.३५) = आर्धधतुक-प्रत्ययस्य आदौ वल्-प्रत्याहारे अन्यतमवर्णः अस्ति चेत्, तस्य इडागमो भवति | वलादेरार्धधातुकस्येडागमः स्यात् | इट्-आगमः टित् अतः आद्यन्तौ टकितौ (१.१.४६) इत्यनेन प्रत्ययस्य आदौ आयाति | वल्-प्रत्याहारे यकारं विहाय सर्वाणि व्यञ्जनानि अन्तर्गतानि | वल् आदौ यस्य स वलादिः बहुव्रीहिः, तस्य वलादेः | आर्धधातुकस्य षष्ठ्यन्तम्, इट् प्रथमान्तं, वलादेः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अङ्गात् वलादेः आर्धधातुकस्य इट् |
वलादिः नाम वल् प्रत्याहारः आदौ यस्य सः | वलि यकारं विहाय सर्वाणि व्यञ्जनानि | कस्यचित् आर्धधातुकप्रत्ययस्य आदौ यदि वल्-प्रत्याहारस्य कश्चन सदस्यः अस्ति, तर्हि इडागमः तस्य प्रत्यस्य आदौ आयाति | आदौ कथं ज्ञायते ? किमर्थं मध्ये अपि न, अन्ते अपि न ? आद्यन्तौ टकितौ (१.१.४६) इति सूत्रेण यत् आगमः टित् अस्ति, सः यस्य आगमः अस्ति तस्य आदौ आयाति, कित् अस्ति चेत् यस्य आगमः अस्ति तस्य अन्ते आयाति | इट्-आगमः टित् अस्ति (टकारः इट् यस्य सः), अतः अनेन सूत्रेण इट्-आगमः प्रत्ययस्य आदौ आयाति | इडागमः प्रत्ययस्य आदौ न तु धातोः आदौ, यतोहि आर्धधातुकस्येड्वलादेः (७.२.३५) इत्यनेन इडागमः प्रत्ययस्य आगमः (न तु धातोः) |
आर्धधातुकप्रत्ययः कः इति स्मर्यताम् | प्रत्येकं प्रत्ययः यः धातुतः विहितः, सः सार्वधातुकम् आर्धधातुकम् वा | प्रत्ययः तिङ् शित् वा चेत्, तिङ्-शित्सार्वधातुकम् (३.४.११३) इत्यनेन स च प्रत्ययः सार्वधातुकम् | तिङ् शित् नास्ति चेत्, आर्धधातुकं शेषः (३.४.११४) इत्यनेन प्रत्ययः आर्धधातुकः |
तर्हि इडागमविधायकं सूत्रम् आर्धधातुकस्येड्वलादेः | अनेन धातुभ्यः वलादि-आर्धधातुकप्रत्ययः विधीयते चेत्, तस्य प्रत्ययस्य इडागमः भवति | नाम अनेन सूत्रेण यः कोऽपि आर्धधातुक-प्रत्ययः वलादिः अस्ति, सः प्रत्ययः सेट् | अयं नियमः तिङ्-प्रत्यय-प्रसङ्गे पर्याप्तम् | किन्तु धातुभ्यः विहिताः प्रत्ययाः द्विविधाः—तिङ् कृत् च | कृत्-प्रत्ययेषु द्वितीयप्रमुखसूत्रेण प्रत्ययः वशादिः चेत्, इडागमो निषिध्यते—
नेड् वशि कृति (७.२.८) = कृत्-प्रत्ययस्य आदौ वश्-प्रत्याहारे अन्यतमवर्णः अस्ति चेत्, तस्य इडागमो न भवति | वश्-प्रत्याहारे वर्गीयव्यञ्जनानां तृतीयः, चतुर्थः, पञ्चमश्च सदस्याः, वकाररेफलकाराः च | नाम कृत्सु प्रत्ययस्य आदौ वर्गीयव्यञ्जनानां प्रथमः, द्वितीयः अथवा श्, ष्, स्, ह् चेत्, इडानुकूलः | न अव्ययपदम्, इट् प्रथमान्तं, वशि सप्तम्यन्तं, कृति सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अङ्गात् न इट् वशि कृति |
तितुत्रतथसिसुसरकसेषु च (७.२.९) = ति, तु, त्र, त, थ, सि, सु, सर, क, स एषाम् आर्धधतुक-कृत्-प्रत्ययानाम् इट्-आगमः न भवति | तिश्च तुश्च त्रश्च तश्च थश्च सिश्च सुश्च सरश्च कश्च सश्च तेषामितरेतरद्वन्द्वः तितुत्रतथसिसुसरकसाः, तेषु तितुत्रतथसिसुसरकसेषु | तितुत्रतथसिसुसरकसेषु सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | नेड् वशि कृति (७.२.८) इत्यस्मात् न, इट्, कृति इत्येषाम् अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अङ्गात् न इट् तितुत्रतथसिसुसरकसेषु कृत्सु च |
शास् + त्र → शास्त्रम् | यु + त्र → योत्रम् | युज् + त्र → योक्त्रम् | स्तु + त्र → स्तोत्रम् | तुद् + त्र → तोत्रम् | सि + त्र → सेत्रम् | सिच् + त्र → सेक्त्रम् | मिह + त्र → मेढ्रम् | पत् + त्र → पत्त्रम् |
सूत्रे उक्ताः प्रत्ययाः अनुबन्ध-रहिताः | अतः केवलम् एक एव प्रत्ययः इति न अपि तु तदधिकाः अपि अर्हन्ति कुत्रचित् | उदाहरणानि अधः दत्तानि—
ति = क्तिच्-प्रत्यये तन्तिः, किन्तु तनिता, तनितुम् | क्तिन्-प्रत्यये दीप्तिः, किन्तु दीपिता, दीपितुम् |
तु = तुन्-प्रत्यये सक्तुः, किन्तु सचिता, सचितुम् |
त्र = ष्ट्रन्-प्रत्यये पत्रं, किन्तु पतिता, पतितुम् |
त = तन्-प्रत्येय हस्तः, किन्तु हसिता, हसितुम् | अत्र उनादिः त-प्रत्ययः न तु क्त-प्रत्ययः; हसितम् | लीतः, पीतः, घूर्त्तः, किन्तु लविता, पविता, घूर्वित्ता |
थ = क्थन्-प्रत्यये कुष्ठम्, किन्तु कोषिता, कोषितुम् | काष्ठम्, किन्तु काशिता, काशितुम् |
सि = क्सि-प्रत्यये कुक्षिः, किन्तु कोषिता, कोषितुम् |
सु = क्सु-प्रत्यये इक्षुः, किन्तु एषिता, एषितुम् |
सर = सरन्-प्रत्यये अक्षरम्, किन्तु अशिता, अशितुम् |
क = कन्-प्रत्यये शल्कः, किन्तु शलिता, शलितुम् |
स = स-प्रत्यये वत्सः, किन्तु वदिता, वदितुम् |
अत्र धेयं यत् ति,त्र-प्रत्ययौ एव पाणिनेः; अस्मिन् सूत्रे अवशिष्टसर्वे प्रत्ययाः उणादिप्रत्ययाः | अनेन ज्ञायते यत् 'त'-प्रत्ययः क्त-प्रत्ययः नास्ति अपि तु उणादिः त-प्रत्ययः एव |
वस्वेकाजाद्घसाम् (७.२.६७) = कृतद्विर्वचनानामेकाचामादन्तानां घसेश्च वसोरिट् नान्येषाम् | वस्-प्रत्ययस्य इडागमो भवति केवलं (१) द्वित्वानन्तरम् अपि ये धातवः एकाचः, तेभ्यः; (२) आकारान्तधातुभ्यः; (३) घस्-धातुतः (घस् अदने च अद् भक्षणे इत्यस्य घस् इति धात्वादेशः लिट्यन्तरस्याम् (२.४.४०) इति सूत्रेण) |
अयं क्वसु-प्रत्ययः वेदे एव भवति | कृत्-प्रत्ययः अस्ति, किन्तु लिट्-लकारस्य स्थाने विकल्पेन भवति, लिट्-लकारस्य एव अर्थे |
आहत्य त्रिंशत् वलाद्यार्धधातुक-प्रत्ययाः इडनुकूलाः
आर्धधातुकस्येड्वलादेः (७.२.३५), नेड् वशि कृति (७.२.८), तितुत्रतथसिसुसरकसेषु च (७.२.९), इत्येषां परिशीलनानन्तरम् आहत्य त्रिंशत् वलाद्यार्धधातुक-प्रत्ययाः इडनुकूलाः—
चतुर्दश तकारादि-प्रत्ययाः = क्त, क्तवतु, क्त्वा, तुमुन्, तव्य, तव्यत्, तृच्, तृन्, तास्, तवै, तवेन्, तोसुन्, त्वन्, तवङ् |
अष्ट सकारादि-प्रत्ययाः = सिच्, सीयुट्, सन्, स्य, क्से, से, सेन्, सिप् |
वस्वेकाजाद्घसाम् (७.२.६७) इत्यनेन एकः क्वसु-प्रत्ययः |
लिट्-लकारे सप्त प्रत्ययाः = थल्, व, म, से, ध्वे, वहे, महे |
अतः आहत्य त्रिंशत् वलाद्यार्धधातुक-प्रत्ययाः इडनुकूलाः |
प्रश्नः
एवं सति अत्र नूतनप्रश्नः उदेति | आर्धधातुकस्येड्वलादेः इत्यनेन सर्वेभ्यः धातुभ्यः वलादि-आर्धधातुकप्रत्ययः विधीयते चेत्, तस्य प्रत्ययस्य इडागमः भवति | किन्तु तथा सर्वेभ्यः धातुभ्यः प्रत्ययः इडनुकूलः चेदपि कुत्रचित् इडागमः न भवति | वृत्तान्ते तुमुन्-प्रत्ययः | तुमुन् आर्धधातुकः (तिङ् शित् न), वलादिः किन्तु वशादिः न (तकारः आदौ अस्ति; स च तकारः वलि अस्ति किन्तु वशि न); तर्हि आर्धधातुकस्येड्वलादेः, नेड् वशि कृति इति सूत्राभ्यां सर्वेभ्यः धातुभ्यः तुमुन्-प्रत्यये विहिते सति प्रत्ययादौ इडागमः भवेत्—'इतुम्' इति रूपं, यथा पठितुम्, लेखितुम्, चिन्तयितुम् | किन्तु कृ-धातोः कर्तुम्, श्रु-धातोः श्रोतुम् इत्यनयोः इडामः नास्ति | किमर्थम् ? धातुः अपि इडनुकूलः न वा इति ज्ञेयम् |
धातोः स्वभावः
एकाच उपदेशेऽनुदात्तात् (७.२.१०) = यः औपदेशिकधातुः एकाच् अपि अनुदात्तः अपि अस्ति, तस्मात् विहितस्य प्रत्ययस्य इडागमो न भवति | उपदेशे यो धातुरेकाज् अनुदात्तश्च तत आर्धधातुकस्येड् न | यस्मिन् धातौ एकः एव स्वरः वर्तते, सः धातुः एकाच् | उपदेशे नाम पाणिनेः धातुपाठे अयं धातुः अन्तर्भूतः | औपदेशिकधातुः यथा पठँ, लिखँ, डुपचँष्, न तु आतिदेशिकधातुः यथा प्रेरणार्थकणिचि पाठि, लेखि, पाचि | एकोऽच् यस्मिन् स एकाच् बहुव्रीहिः, तस्मात् एकाचः | एकाचः पञ्चम्यन्तम्, उपदेशे सप्तम्यन्तम्, अनुदात्तात् पञ्चम्यन्तं, त्रिपदमिदं सूत्रम् | ॠत इद् धातोः (७.१.१००) इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः; नेड् वशि कृति (७.२.८) इत्यस्मात् न, इट् इत्यनयोः अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— उपदेशे एकाचः अनुदात्तात् धातोः अङ्गात् न इट् |
अत्र यद्यपि "उपदेशे" इत्यनेन मूलधातुः इत्युक्तम्, परन्तु "एकाच्" इत्यस्य कृते यदा स्वराणां गणनं भवति, तदा अनुबन्धेषु ये स्वराः सन्ति, ते गणने नान्तर्भूताः | यथा डुकृञ् इति धातौ यद्यपि उकारः अपि ऋकारः अपि स्तः, किन्तु उकारः अनुबन्धे अस्ति अतः तस्य गणनं न भवति | डुकृञ् एकाच् अस्ति |
इडागमनिषेधकं सूत्रम् इदम् | अनेन इडागमः तदा निषिध्यते यदा धातुः एकाच् अपि स्यात्, अनुदात्तः अपि स्यात् | अनेन ज्ञायते यत्—
१) अनेकाचः धातवः सर्वे सेटः भवन्ति | उपदेशे च अष्ट अनेकाच् धातवः सन्ति— जागृ, ऊर्णु, दरिद्रा, चकासृ, चिरि, जिरि, दीधीङ्, वेवीङ् | अनेकाच्त्वात् एते सर्वेऽपि सेटः |
२) ये धातवः एकाचः सन्ति, तेषु ये उदात्तः स्वरितः सन्ति, ते अपि सेटः | यतः अनुदात्तात् धातोः एव वलादि-आर्धधातुक-प्रत्ययस्य इडागमः निषिद्धः इति सूत्रेण उक्तम् | तर्हि अनुदात्ताः ये एकाचः धातवः सन्ति, ते अनिटः, अन्येऽपि सर्वे सेटः भवन्ति |
निष्कर्षत्वेन अनेन सूत्रेण अवगच्छेम यत् एकाच्-धातुषु अनुदात्ताः अनिटः; उदात्ताः स्वरिताः च सेटः इति |
आर्धधातुकस्येड्वलादेः, नेड् वशि कृति इति सूत्राभ्यां प्रत्ययस्य वर्णनं क्रियते | तिङ्-प्रत्ययः आर्धधातुकः अपि वलादिः अपि चेत्, अयं प्रत्ययः इडागमानुकूलः | कृत्-प्रत्ययः वलादिः अवशादिः चेत्, अयं प्रत्ययः इडागमानुकूलः | धातुः यः कोऽपि भवतु नाम, प्रत्ययः इडागमानुकूलः अस्ति चेत्, इडागमस्य प्रसक्तिः अस्ति एव | तदा एकाच उपदेशेऽनुदात्तात् इति सूत्रं धातोः वर्णनं करोति | अनेन सूत्रेण वलाद्यार्धधातुकप्रत्ययानुगुणम् इडागमस्य प्रसक्तिः चेदपि यत्र धातुः एकाच् अनुदात्तः, तत्र इडागमो निषिध्यते |
यथा डुकृञ् (डुकृ॒ञ्) धातुः | अयं धातुः एकाच् अपि अस्ति, अनुदात्तः अपि अस्ति | तदा तुमुन् प्रत्ययः—तुमुन् आर्धधातुकप्रत्ययः (तिङ् अपि नास्ति, शित् अपि नास्ति अतः आर्धधातुकप्रत्ययः—तिङ्-शित्सार्वधातुकम्; आर्धधातुकं शेषः) | वलादिः अवशादिः अपि अस्ति | अतः आर्धधातुकस्येड्वलादेः इति सूत्रेण इडागमस्य प्राप्तिः अस्ति | किन्तु डुकृ॒ञ् एकाच् अनुदात्तः, अतः एकाच उपदेशेऽनुदात्तात् इति सूत्रम् इडागमं निषेधयति | तदर्थं 'कर्तुम्' इति रूपं भवति (न तु 'करितुम्') |
धातोः एकाच्त्वं दृष्ट्वा एव बुध्यते, परन्तु तस्य अनुदात्तत्वं तु दर्शनेन न ज्ञायते | वस्तुतः अनुदात्ताः एकाचः धातवः परिगणिताः | अतः ते सर्वे मनसि भवन्ति चेत् महान् लाभः | अजन्ताः धातवः आधिक्येन अनिटः अतः ये सेटः, ते ज्ञातव्याः; हलन्त-धातवः आधिक्येन सेटः, अतः ये अनिटः ते स्मर्तव्याः |
Swarup – November 2015
१२_-_इड्_व्यवस्था.pdf (file size: 54 KB)