03 - तिङ्‌-सिद्धेः च लकाराणां च समग्रदृष्टिः

From Samskrita Vyakaranam
04---aShTAdhyAyI-paricayaH/03---ting-siddheH-ca-lakArANaM-ca-samagradRuShTiH
Jump to navigation Jump to search
ध्वनिमुद्रणानि
2016 वर्गः
१) ting-siddheH-ca-lakArANaM-ca-samagradRuShTiH--1__2016-06-15
२) ting-siddheH-ca-lakArANaM-ca-samagradRuShTiH--2__2016-06-22
2014 वर्गः
१) ting-siddheH_ca_lakArANAM_ca_samagradRuShTiH_2014-08-06
२) ting-siddheH_ca_lakArANAM_ca_samagradRuShTiH_II_2014-08-13




लट्‌-लकारे, भ्वादिगणे पा-धातुः → पिबति, जुहोत्यादिगणे दा-धातुः → ददाति, स्वादिगणे आप्‌-धातुः → आप्नोति | दश धातुगणाः सन्ति; गणम्‌ अनुसृत्य विकरणप्रत्ययस्य भेदेन लट्‌-लकारे रूपभेदः दृश्यते | पिबति, ददाति, आप्नोति इति प्रमाणम्‌ | परन्तु लृट्‌-लकारे पा-धातुः → पास्यति, दा-धातुः → दास्यति, आप्‌-धातुः → आप्स्यति | अत्र रूपस्य साम्यं दृश्यते, यतः मध्ये गणीयः विकरणप्रत्ययः नास्ति | लट्‌-लकारः सार्वधातुकलकारः; लृट्‍-लकारः आर्धधातुकलकारः | अयं भेदः कथं निष्पन्नः ? अस्मिन्‌ पाठे परिशीलयाम |


धातुभ्यः विहिताः प्रत्ययाः द्विधाः—तिङ्‌ च कृत्‌ च | एते सर्वे प्रत्ययाः पुनः विभजिताः— सार्वधातुकाः आर्धधातुकाश्च | अस्य महत्त्वम्‌ एवं यत्‌ प्रत्ययः सार्वधातुकञ्चेत्‌, तर्हि कर्त्रर्थे शबादयः विकरणाः आयान्ति कर्तरि शप्‌ इत्यनेन | शबादयः आयान्ति चेत्‌ धातुगणभेदाः भवन्ति | प्रत्ययः सार्वधातुकं नास्ति चेत्‌ आर्धधातुकः एव; आर्धधातुकः चेत्‌ इडागमविचारः करणीयः | अयं विभजनं तिङ्षु अपि भवति, कृत्सु अपि भवति | प्रथमतया तिङ्‌-प्रसङ्गे अवलोकयाम, तदा कृत्‌-प्रसङ्गे |


तिङ्‌-प्रत्ययैः लकाराः निष्पन्नाः; अतः "तिङ्‌-प्रसङ्गः" इत्यस्य वदनेन लकाराणां विषयः आयाति एव | दश लकाराः मूलतः कथं निष्पद्यन्ते इत्यस्य परिशीलनेन बहुकिमपि प्रकाशते |


A. दश लकाराः— मूलतः पूर्णा कथा


दशलकाराः सन्ति | आरम्भे विवक्षाम्‌ अनुसृत्य दश लकाराः गोचराः; तदा अष्टाध्याय्याः पद्धत्या लघुत्वार्थम्‌ सर्वे लकाराः "ल"-कारः [ल्‌] इत्येव भवन्ति; अत्र अभेदः एव दृश्यते | पश्चात्‌ ल्-स्थाने अष्टादश तिङ्‌-प्रत्ययाः; अत्रापि सर्वेषां लकाराणां स्थाने एते समानाः अष्टादश तिङ्‌-प्रत्ययाः अतः तदानीमपि अभेदः एव | अन्ते तिङां सिद्धित्वेन पुनः दशानां भेदाः आयान्ति | अभेदत्वात्‌ भेदत्वस्य आगमनेन लकाराः सार्वधातुकाः आर्धधातुकाः च इत्ययं विभागद्वयम्‌ अत्रैव सृष्टम्‌ |


*** विवक्षाम्‌ अनुसृत्य दश लकाराः (भेदः) →

                               सर्वे 'ल'काराः 'ल्‌' इत्येव भवन्ति (अभेदः) →

                                                               अष्टादश तिङ्‌-प्रत्ययाः (अभेदः) →

                                                                                            लकाराणां सिद्धप्रत्ययाः (भेदः) →

                                                                                                                दशानां लकाराणां तिङन्तपदानि (भेदः) ***


B. लकारप्रत्ययाः


"लट्‌", "लृट्‌", “लङ्‌" इत्यादयः लकाराणां नामानि इति सामान्यज्ञानम्‌ | परन्तु केवलं नामानि इति न; एते स्वयं प्रत्ययाः सन्ति | दशानां लकाराणां प्रत्ययाः विहिताः भवन्ति एभिः सूत्रैः—


वर्तमाने लट्‌ (३.२.१२३)

अनद्यतने लङ्‌ (३.२.१११)

विधिनिमन्त्रणामन्त्रणाधीष्टसम्प्रश्नप्रार्थेनेषु लिङ्‌ (३.३.१६१)

लोट्‌ च (३.३.१६२)

परोक्षे लिट्‌ (३.२.११५)

अनद्यतने लुट्‌ (३.३.१५)

लृट्‌ शेषे च (३.३.१३)

आशिषि लिङ्‌लोटौ (३.३.१७३)

लुङ्‌ (३.२.११०)

लिङ्‌निमित्ते लृङ्‌ क्रियातिपत्तौ (३.३.१३९)


अस्माकम्‌ एतावता अष्टाध्याय्याः समग्रदृष्टिः मनसि अस्ति खलु; इमानि उपरितनानि सूत्राणि कस्मिन्‌ अध्याये ? तृतीयाध्याये— अतः केषाम्‌ सूत्राणाम्‌ अधिकारः ?


१. प्रत्ययः (३.१.१) = [अधिकारः ३.१.१ - ५.४.१६०] तृतीयः चतुर्थः पञ्चमः इत्येषु त्रिषु अध्यायेषु यत्र यत्र कस्यचित्‌ विधानं भवति, तत्र तत्र प्रत्ययः आगत्य वदति यत्‌ यस्य विधानं सञ्जातं, तस्य प्रत्यय-संज्ञा भवति | एषु त्रिषु अध्यायेषु विधिसूत्रं यत्र यत्र भवति, तत्र सर्वत्र अस्य सूत्रस्य अधिकारः |


२. परश्च (३.१.२) = [अधिकारः ३.१.१ – ५.४.१६०] एषु एव त्रिषु अध्यायेषु यत्र यत्र प्रत्ययः इत्यनेन प्रत्यय-संज्ञा भवति, तत्र तत्र परश्च इति सूत्रम्‌ अपि उपविश्य वदति यत्‌ अयं प्रत्ययः प्रकृतेः अनन्तरम्‌ आयाति |


३. धातोः (३.१.९१) = [अधिकारः ३.१.९१ – ३.४.११७] तृतीये अध्याये कृदन्तानां तिङन्तानां च विधायकसूत्राणि भवन्ति | अस्मिन्‌ तृतीये अध्याये धातोः सर्वत्र आगत्य वदति यत्‌ यः को‍ऽपि प्रत्ययः विहितः, सः धातोः अनन्तरं विहितः |


अतः वर्तमाने लट्‌ (३.२.१२३) = वर्तमानार्थे धातुतः लट्‌-प्रत्ययः भवति; लटः प्रत्यय-संज्ञा भवति प्रत्ययः इत्यनेन | धातोः परे एव आयाति परश्च इत्यनेन | अनुवृत्ति-सहित-सूत्रम्— धातोः परश्च वर्तमाने लट्‌ प्रत्ययः |


अत्र धेयं यत्‌ अनुबन्धलोपे सर्वेषां लकाराणं‌ "ल्‌" इत्येव अवशिष्यते |


C. इत्संज्ञक-वर्णानां लोपः


चत्वारि सूत्राणि, उपदेशावस्थायां, सर्वेषु रूपेषु (धातुषु, प्रत्ययेषु, आदेशेषु, आगमेषु)—

१. उपदेशेऽजनुनासिक इत् (१.३.२) | सूत्रं स्वयं सम्पूर्णम्‌— उपदेशे अच्‌ अनुनासिकः इत् |

२. हलन्त्यम्‌ (१.३.३) | अनुवृत्ति-सहितसूत्रम्— उपदेशे अन्त्यम्‌ हल्‌ इत् |

३. न विभक्तौ तुस्माः (१.३.४) | अनुवृत्ति-सहितसूत्रम्— उपदेशे विभक्तौ अन्त्याः हलः तुस्माः न इतः |

४. आदिर्ञिटुडवः (१.३.५) | अनुवृत्ति-सहितसूत्रम्— उपदेशे धातोः आदयः ञिटुडवः इतः |


त्रीणि सूत्राणि, उपदेशावस्थायां, प्रत्ययेषु एव—

५. षः प्रत्ययस्य (१.३.६) | अनुवृत्ति-सहितसूत्रम्— उपदेशे प्रत्ययस्य आदिः षः इत् |

६. चुटू (१.३.७) | अनुवृत्ति-सहितसूत्रम्— उपदेशे प्रत्ययस्य आदी चुटू इतौ |

७. लशक्वतद्धिते (१.३.८) | अनुवृत्ति-सहितसूत्रम्— उपदेशे प्रत्ययस्य आदि लशकु इत् अतद्धिते |


अन्ते इत्‌-लोप-विधिः—

८. तस्य लोपः (१.३.९) | अनुवृत्ति-सहितसूत्रम्— तस्य इतः लोपः |


यथा अत्र लकाराणां प्रसङ्गे—


लट्‌-लकारस्य लट्‌ इति प्रत्ययः

लँट्‌ → हलन्त्यम्‌ (१.३.३) इत्यनेन टकारस्य इत्संज्ञा, उपदेशेऽजनुनासिक इत् (१.३.२) इत्यनेन अँकारस्य इत्संज्ञा → तस्य लोपः (१.३.९) इत्यनेन टकार-अकारयोः लोपः → ल्‌ इति अवशिष्यते |


लङ्‌-लकारस्य लङ्‌ इति प्रत्ययः

लँङ्‌ → हलन्त्यम्‌ (१.३.३) इत्यनेन ङकारस्य इत्संज्ञा, उपदेशेऽजनुनासिक इत् (१.३.२) इत्यनेन अँकारस्य इत्संज्ञा → तस्य लोपः (१.३.९) इत्यनेन ङकार-अकारयोः लोपः → ल्‌ इति अवशिष्यते |


एवमेव सर्वेषां लकाराणामपि |


D. लकारप्रत्ययानाम्‌ अनुबन्धरहित-रूपम्‌


अतः एतत्‌ सर्वं दृष्ट्वा अस्माभिः अवगम्यते यत्‌ यद्यपि दश लकाराः सन्ति, तथापि अनुबन्धलोपानन्तरं सर्वे "ल्‌" इत्येव भवन्ति |


लट्‌

लङ्‌

लिङ्‌

लोट्‌

लिट्‌                                             ========> ल्‌

लुट्

लृट्‌

आशीर्लिङ्‌

लुङ्‌

लृङ्‌


धेयं यत्‌ आरम्भे लट्‌, लङ्‌, लिट्‌ इत्यादयः विभिन्न-लकाराः दृश्यन्ते अतः तत्र भेदः इत्येव स्थितिः | किन्तु अनुबन्धानन्तरं 'ल्' इत्येव अवशिष्यते इति कृत्वा सर्वेषाम्‌ अभेदः | अनेन अतीव लाघवं सिध्यति यतोहि अग्रे एकेन एव सूत्रेण—लस्य (३.४.७७)—सर्वेषां लकाराणां स्थाने प्रत्ययादेशः 'लादेशः' भवति |


E. लाधिकारः


एतावता दशानां लकार-प्रत्ययानाम्‌ अनुबन्धलोपे ल्‌ इत्येव अवशिष्यते | अधुना अस्य लः स्थाने अष्टादश तिङ्‌-प्रत्ययाः विहिताः भवन्ति | एतदर्थं विशिष्टं सूत्रद्वयम्‌—


लस्य (३.४.७७) = अधिकारसूत्रम्‌ इदम्‌ | षष्ठ्यन्तम्‌ | अकारः उच्चारणार्थः | ३.४.७८ - ३.४.११२ पर्यन्तम्‌ अस्य अधिकारः | प्रत्येकस्मिन्‌ सूत्रे उपविश्य वदति यत्‌ तत्तत्सूत्रे यः प्रत्ययः विहितः, सः लस्य (ल्‌ इत्यस्य) स्थाने विहितः |


तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ (३.४.७८) = तिङन्तपदानां साधनार्थं मूले अष्टादश तिङ्‌ प्रत्ययाः भवन्ति | लस्य इत्यनेन ल्‌ इत्यस्य स्थाने एते अष्टादश विहिताः | तिप्‌ तस्‌ झि, सिप्‌ थस्‌ थ, मिप्‌ वस्‌ मस्‌‍, त आताम् झ, थास्‌ आथाम्‌ ध्वम्‌, इड्‌ वहि महिङ्‌ इति अष्टादश तिङ्‌ प्रत्ययाः | ति‌प्‌ इत्यस्मात्‌ आरभ्य महिङ्‌ पर्यन्तम्‌, आहत्य तिङ्‌-प्रत्ययाः इत्युच्यते |


इदं पूर्णप्रकरणं लस्य इति सूत्रस्य अधिकारे, अतः लाधिकारः इत्युच्यते | कार्यम्‌ अस्ति ल्‌-स्थाने आदेशः, अतः कार्यं लादेशः इत्युच्यते |


आरम्भे एते सर्वे अष्टादश तिङ्‌ परस्मैपदप्रत्ययाः भवन्ति, लः परस्मैपदम्‌ (१.४.९९) इत्यनेन | तदा तङानावात्मनेपदम्‌ (१.४.१००) इत्यनेन तङ्‌ ( इत्यस्मात्‌ आरभ्य महिङ्‌ पर्यन्तम्‌) आत्मनेपदप्रत्ययाः  |


परस्मैपदिधातूनां मूल-तिङ्‌प्रत्ययाः

तिप्‌     तस्‌     झि

सिप्‌    थस्‌      थ

मिप्‌    वस्‌     मस्‌‍


आत्मनेपदिधातूनां मूल-तिङ्‌प्रत्ययाः

त     आताम्     झ

थास्‌  आथाम्‌     ध्वम्‌

इड्‌    वहि       महिङ्‌


लः परस्मैपदम्‌ (१.४.९९) = लस्य स्थाने ये प्रत्ययाः आयान्ति, ते सर्वे परस्मैपदसंज्ञकाः |

तङानावात्मनेपदम्‌ (१.४.१००) = लस्य स्थाने ये तङ्‌ आनः (शानच्‌, कानच्‌) च प्रत्ययाः आयान्ति, ते सर्वे आत्मनेपदसंज्ञकाः | तङ्‌ आनश्च तयोः इतरेतरद्वन्द्वः, तङानौ | तङानौ प्रथमान्तम्‌, आत्मनेपदं प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | लः परस्मैपदम्‌ इत्यस्मात्‌ लः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— लः तङानौ आत्मनेपदम्‌ |


द्वयोः संज्ञयोः मध्ये एका एव स्यात्‌ इति निधारयितुम्‌ आकडारादेका संज्ञा (१.४.१) |


आकडारादेका संज्ञा (१.४.१) इत्यनेन कडाराः कर्मधारये (२.२.३८) इति सूत्रावधिंं यावत्‌ एकस्य एकैव संज्ञा भवति | लः परस्मैपदम्‌ (१.४.९९), तङानावात्मनेपदम्‌ (१.४.१००) चेति सूत्रद्वयम्‌ एतदभ्यन्तरे आयाति इति कृत्वा एकस्य परस्मैपदसंज्ञा अथवा आत्मनेपदसंज्ञा सम्भवति; द्वयमपि युगपत्‌ न भवति |


लघुत्वविषये


अत्र प्रश्नः उदेति 'एकस्य इयं संज्ञा भवतु, अन्या संज्ञा न' इति निधारयितुम्‌ एतादृशी शैली किमर्थम्‌ ? अन्यत्र अन्या पद्धतिः 'शेषात्‌' इत्युक्तं किल—


अनुदात्तङित‌ आत्मनेपदम्‌ (१.३.१२)

स्वरितञितः कर्त्रभिप्राये क्रियाफले (१.३.७१)

शेषात्कर्तरि परस्मैपदम्‌ (१.३.७८)


अत्र 'शेषात्‌' इत्यनेन 'ये धातवः अवशिष्यन्ते, ते सर्वे परस्मैपदसंज्ञकाः' इति पर्यवसितम्‌ | अत्र एतादृशी शैली किमर्थं, प्रत्ययानां विषये च अन्या शैली किमर्थम्‌ ?


उतरम्‌ एवं यत्‌ यथासङ्गं यस्य लघुत्वं, तदनुसृत्य शैली | अत्र धातूनां प्रसङ्गे धातवः बहुविधाः | यः कोऽपि धातुः ङित्‌ अपि नास्ति, अनुदात्तेत् अपि नास्ति, ञित्‌ अपि नास्ति, स्वरितेत्‌ अपि नास्ति, सः धातुः कर्त्रर्थे चेत्‌ परस्मैपदी एव | तर्हि धातुः उदात्तेत्‌ अस्ति चेत्, परस्मैपदी | किन्तु उदात्तेत्‌ नास्ति चेदपि, यदि ङित्‌, अनुदात्तेत्, ञित्‌, स्वरितेत्‌ नास्ति, तर्हि सः धातुः परस्मैपदी एव | यथा रिषँ, गै॒— रिषँ इति उदात्तेत्‌; गै॒ इति उदात्तेत्‌ न; उभयत्र परस्मैपदित्वम्‌ इति कृत्वा 'शेषात्‌' इत्यनेन लघुत्वम्‌ | अत्र परस्मैपदिसंज्ञा केषाम्‌ इति वदनार्थं 'उदात्तेत्‌ अथवा इत्‌संज्ञकस्वरः नास्ति चेदपि तथा' इत्यस्मिन्‌ लघुत्वं नितरां नास्ति | तदर्थं 'शेषात्‌' इत्युक्तम्‌ |


किन्तु यत्र प्रत्ययाः सन्ति तत्र द्वैविध्यम्‌ एव, अतः 'तिङ्क्षु शेषात्‌ तङ् आन च आत्मनेपदम्' इत्यस्य अपेक्षया तङानौ आत्मनेपदम्‌ इत्येनेन लघुत्वम्‌ |


पुरुषवचनविधिः


विवक्षायां प्रथमपुरुषः, मध्यमपुरुषः, उत्तमपुरुषः; एकवचनम्‌, द्विवचनम्‌‍, बहुवचनम्‌ च प्रत्ययाः विहिताः | सूत्राणि च इमानि—


तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः (१.४.१०१)

तान्येकवचनद्विवचनबहुवचनान्येकशः (१.४.१०२)

युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः (१.४.१०५)

अस्मद्युत्तमः (१.४.१०७)

शेषे प्रथमः (१.४.१०८)


यथा यदि वक्तुः इच्छा अस्ति भू-धातुः, प्रथमपुरुषस्य एकवचने, तर्हि तिप्‌-प्रत्ययः विहितः | भू + तिप्‌ | यदि वक्तुः इच्छा अस्ति वृत्‌ (आत्मनेपदि-धातुः, वर्तते लटि), उत्तमपुरुषस्य द्विवचने, तर्हि वहि-प्रत्ययः विहितः | वृत्‌ + वहि | यः को‍ऽपि लकारः भवतु नाम, प्रत्ययाः एते एव अष्टादश | अतः यद्यपि वक्तुः इच्छाम्‌ अनुसृत्य दशानां लकाराणां भेदाः सन्त्येव आरम्भे— लट्‌, लोट्‌, लङ्‌ इत्यादिकम्‌ — परन्तु इदानीम्‌ अभेद एव दृश्यते |


भू + लट्‌ → भू + तिप्‌

भू + लङ्‌ → भू + तिप्‌

भू + लिट्‌ → भू + तिप्‌


F. तिङ्‌-प्रत्ययानां सिद्धिः


लाधिकारे ३.४.७८ - ३.४.११२, अपि च प्रत्ययादेशे ७.१.१ – ७.१.४९ तिङ्‌-प्रत्ययाः सिद्धाः भवन्ति | एभिः सूत्रैः मूलाः तिङ्‌-प्रत्ययाः, ये दशानां लकाराणां कृते समानाः, विभिन्नानि रूपाणि स्वीकृत्य लट्‌, लोट्‌, लङ्‌ इत्यादीनां लकाराणां सिद्धाः तिङ्‌-प्रत्ययाः भवन्ति | यथा तिप्‌ लटि ति, लोटि तु/तात्‌, लङि त्‌ इत्यादिकं भवति | अतः अत्र पुनः भेदः आयाति |


G. सार्वधातुकप्रत्ययाः आर्धधातुकप्रत्ययाः च


आरम्भे एते सर्वे तिङ्‍-प्रत्ययाः तिङ्‌-शित्सार्वधातुकम्‌ (३.४.११३) इत्यनेन सार्वधातुकसंज्ञकाः |


(इयं पाणिनेः शैली— प्रथमं सर्वे समानाः इति वदति सः; तदा अन्यसूत्रेण अपवादः उक्तः येन भिद्यन्ते | प्रथमतया सामान्यं दीयते, तदा विशेषः | परस्मैपदम्‌ आत्मनेपदम्‌ अपि तथा, सार्वधातुकम्‌ आर्धधातुकम्‌ अपि तथा | अन्यत्‌ उदा० कर्तरि शप्‌ इत्यनेन सर्वेभ्यः धातुभ्यः शप्‌; तदा अपवादत्वेन गणम्‌ अनुसृत्य विभिन्नाः विकरणप्रत्ययाः विहिताः दिवादिभ्यः श्यन्‌, स्वादिभ्यः श्नु इत्यादयः |)


एवं चेत्‌ कर्त्रर्थे कर्तरि शप्‌ इत्यस्य सर्वेषां लकाराणां कृते प्रसक्तिः भविष्यति |


कर्तरि शप्‌ (३.१.६८) = धातुतः शप्‌-प्रत्ययः भवति, कर्त्रर्थक-सार्वधातुकप्रत्यये परे | अनुवृत्ति-सहितसूत्रम्‌— धातोः शप्‌ प्रत्ययः परश्च कर्तरि सार्वधातुके |


अदिप्रभृतिभ्यः शपः (२.४.७२) = शपः लोपः

जुहोत्यादिभ्यः श्लुः (२.४.७५) = शपः लोपः

दिवादिभ्यः श्यन्‌ (३.१.६९)

स्वादिभ्यः श्नुः (३.१.७३)

तुदादिभ्यः शः (३.१.७७)

रुधादिभ्यः श्नम्‌ (३.१.७८)

तनादिकृञ्भ्यः उः (३.१.७९)

क्र्यादिभ्यः श्ना (३.१.९७)


अत्रास्ति महत्त्वपूर्णो बिन्दुः— सर्वे सिद्धाः तिङ्‌-प्रत्ययाः सार्वधातुकाः भवन्ति चेत्‌, तर्हि कर्त्रर्थे सर्वेषु लकारेषु कर्तरि शप्‌ इत्यस्य प्रसक्तिः | एवं चेत्‌, गण-भेदः भविष्यति सर्वेषु लकारेषु | परन्तु तथा नास्ति; चतुर्षु एव लकारेषु गणीयो भेदः दृश्यते— लटि, लोटि, लङि, विधिलिङि च | षट्सु लकारेषु गणीयभेदो नास्ति— लिटि, लृटि, लृङि, लुटि, लुङि, आशीर्लिङि च | अतः कथञ्चित्‌ एषां लकाराणां सिद्ध-प्रत्ययाः सार्वधातुकाः न स्युः | पाणिनिः एषां लकाराणां सिद्ध-प्रत्ययानाम्‌ आर्धधातुकत्वं साधयति मार्गद्वयेन |


H. सार्वधातुकलकाराः आर्धधातुकलकाराः च


अत्र कश्चन सिद्धान्तः अवगन्तव्यः | धातुना यः प्रत्ययः साक्षात्‌ पुरतः दृश्यते, तस्य प्रत्ययस्य स्वभावानुगुणं कार्यं भविष्यति | सः प्रत्ययः सार्धधातुकश्चेत्‌, तर्हि कर्त्रर्थे (कर्तरि प्रयोगे) कर्तरि शप्‌ इत्यनेन शप्‌-विकरणप्रत्ययः विहितः भवति, धातु-तिङ्‌प्रत्यययोः मध्ये | सः प्रत्ययः आर्धधातुकश्चेत्‌, तर्हि कर्तरि शप्‌ इत्यस्य प्रसक्तिर्नास्त्येव; अपि तु इडागमो विचारः विहितः | अतः अस्माकं चिन्तनम्‌ इदानीम्‌ इदम्— धातोः साक्षात्‌ पुरतः यः प्रत्ययः अस्ति, तस्य स्वभावः कः ?


दशसु लकारेषु चतुर्णां लकाराणां कृते धातुना साक्षात्‌ सार्वधातुक-तिङ्‌-प्रत्ययः दृश्यते | ते च चत्वारः लकाराः के ? लट्‌, लोट्, लङ्‌, विधिलिङ्‌ | पुनः स्मर्यतां यत्‌ तिङ्‌शित्सार्वधातुकम्‌ (३.४.११३) इत्यनेन सर्वे अष्टादश तिङ्‌ प्रत्ययाः सार्वधातुकसंज्ञकाः सन्ति एव | अतः प्रत्ययस्य सार्वधातुकत्वं सामान्यं, नाम default | अग्रे इतोऽपि किमपि न क्रियते चेत्‌, सर्वेषां लकाराणाम्‌ एषा एव स्थितिः भविष्यति |


उदा०— लट्‌-लकारः

आप्‌ + लट्‌ → कर्तरि शप्‌, तदा तत्‌ प्रबाध्य स्वादिभ्यः श्नुः → आप्‌ + श्नु + ति → आप्‌ + नु + ति → आप्नु‌ इति अङ्गम्‌ + ति → सार्वधातुकार्धधातुकयोः इत्यनेन इकः गुणः → आप्नो + ति → वर्णमेलने → आप्नोति


परन्तु षण्णां लकाराणाम्‌ आर्धधातुकत्वं वर्तते | इत्युक्तौ कर्त्रथेऽपि शप्‌ विकरणप्रत्ययः नैव विहितः | एतत्‌ कथं सम्भवति ? कथम्‌ एतादृशी स्थितिः निष्पद्यते ? पाणिनिः एषां षण्णां लकाराणां सिद्ध-प्रत्ययानाम्‌ आर्धधातुकत्वं साधयति मार्गद्वयेन |


१) द्वयोः लकारयोः कृते— लिट्‌ च आशीर्लिङ्‌ च —पाणिनिः तयोः आर्धधातुकत्वं साक्षात्‌ विदधाति |


साक्षात्‌


तिङ्‌शित्सार्वधातुकम्‌ (३.४.११३)

आर्धधातुकं शेषः (३.४.११४)

लिट्‌ च (३.४.११५)

लिङाशिषि (३.४.११६)


एषां सूत्राणां सूत्रसङ्ख्यां पश्यन्तु— क्रमेण सर्वाणि | अतः अनुवृत्तिः सरला | तिङ्‌शित्सार्वधातुकम्‌ इत्यनेन सर्वे तिङ्‌-प्रत्ययाः शित्‌-प्रत्ययाः च सार्वधातुकाः | आर्धधातुकं शेषः वक्ति यत्‌ ये ये प्रत्ययाः धातुभ्यः विहिताः तिङ्‌शित्‌-भिन्नाः, ते सर्वे आर्धधातुकाः | तदा लिट्‌ च इत्यनेन पाणिनिः वदति यत्‌ लिटः तिङ्‌ प्रत्ययाः यद्यपि तिङः, परन्तु तेऽपि आर्धधातुकाः | लिङाशिषि इत्यनेन आशीर्लिङः अष्टादश तिङ्‌-प्रत्ययाः अपि तथैव साक्षात्‌ अपवादत्वेन आर्धधातुकाः |


अत्र लिटः आशीर्लिङः च अष्टादशानां तिङ्‌-प्रत्ययानां स्वभावं साक्षात्‌ परिवर्तयति | प्रथमतया तिङ्‌शित्सार्वधातुकम्‌ इत्यनेन अनयोरपि द्वयोः लकारयोः तिङ्‌-प्रत्ययाः सार्वधातुकसंज्ञकाः | परन्तु लिट्‌ च, लिङाशिषि इत्याभ्यां सूत्राभ्याम्‌ आर्धधातुकत्वं विहितम्‌ | अतः अत्र इडागमो विचारः, न तु विकरणप्रत्ययागमनम्‌ | कर्त्रर्थे अनयोर्लकारयोः गणभेदो नास्ति |


२) चतुर्णां लकाराणां कृते धातु-तिङ्‌ इत्यनयोर्मध्ये अन्यप्रत्ययः विहितो भवति यः स्वयम्‌ आर्धधातुकः |


स्यतासी लृ-लुटोः (३.१.३३) = लृटि लृङि च परे धातुतः स्यः; लुटि परे धातुतः तासि भवति | अनुवृत्ति-सहितसूत्रम्— लृलुटोः धातोः परश्च स्यतासी प्रत्ययौ |

लृट्‌, लृङ्‌ = स्य

लुट्‌ = तास्‌


च्लि लुङि (३.१.४३) = लुङि धातोः च्लि प्रत्ययः परश्च |

लुङ्‌ = च्लि


धेयं यत्‌ स्य, तास्‌, च्लि एते त्रयः प्रत्ययाः न तिङ्‌, न वा शित्‌, अतः तिङ्‌शित्सार्वधातुकम्‌ इत्यनेन नैव सार्वधातुकाः | अपि तु आर्धधातुकं शेषः इत्यनेन आर्धधातुकाः |


यथा— लृट्‌-लकारः

आप्‌ + लृट्‌ → आप्‌ + ल्‌ → स्यतासी लृ-लुटोः (३.१.३३) इत्यनेन लृटि परे धातुतः स्यः → आप्‌ + स्य + ल्‌ → धातोः परः स्य-प्रत्ययः आर्धधातुकः अतः कर्तरि शप्‌, स्वादिभ्यः श्नुः इत्यनयोः प्रसक्तिर्नास्ति → आप्‌ + स्य + ल्‌ → प्रथमपुरुषैकवचने तिबादेशः → आप्‌ + स्य + तिप्‌ → अनुबन्धलोपे → आप्‌ + स्य + ति → वर्णमेलने → आप्स्यति


एवं कृत्वा लृट्‌, लृङ्‌, लुट्‌, लुङ्‌ चैषां लकाराणां तिङ्‌-प्रत्ययाः यद्यपि सार्वधातुकाः, किन्तु धातु-तिङ्‌प्रत्यययोः मध्ये अन्यः प्रत्ययः उपविशति यः स्वयम्‌ आर्धधातुकः | यतः पाणिनेः कार्यपद्धत्या सर्वं कार्यं साक्षात्‌ पूर्वं परं च भवति, अपि च यतः एते सार्वधातुक-तिङ्‌प्रत्ययाः अधुना धातुना साक्षात्‌ नैव दृश्यन्ते, अतः सार्वधातुकप्रत्यय-निमित्तकम्‌ अङ्गकार्यं नार्हम्‌ | नाम कर्तरि शप्‌ इत्यनेन शप्‌-प्रत्ययः नानीयते | तस्य स्थाने आर्धधातुकप्रत्यय-निमित्तकम्‌ अङ्गकार्यं विहितम्‌ | नाम इडागमः विचारः |


कार्यं साक्षात्‌ पूर्वं परं च भवति इति किम्‌ ?

तस्मिन्निति निर्दिष्टे पूर्वस्य (१.१.६६) = सप्तमीविभक्तिः इत्यनेन कार्यं साक्षात्‌ पूर्वं स्यात्‌ |

तस्मादित्युत्तरस्य (१.१.६७) = पञ्चमीविभक्तिः इत्यनेन कार्यं साक्षात्‌ परे स्यात्‌ |


येषु लकारेषु कर्त्रर्थे कर्तरि शप्‌ इत्यनेन शबादयः विकरणप्रत्ययाः आनीयन्ते, तेषु तिङन्तपदेषु गणीयभेदः वर्तते | अनेन दश धातुगणाः निष्पद्यन्ते— भ्वादिः इत्यस्मात्‌ आरभ्य चुरादिपर्यन्तम्‌ | अत्र सार्वधातुकलकारः इत्युच्यते | लट्‌, लोट्‌, लङ्‌, विधिलिङ्‌ इति |


येषु लकारेषु कर्त्रर्थे धातुतः सार्वधातुकप्रत्ययः नास्त्येव अथवा यत्र अस्ति परन्तु साक्षात्‌ न (अतः न दृश्यते), तेषु तिङन्तपदेषु शप्‌ न भवति; स्थाने इडागमो विचारः | अत्र आर्धधातुकलकारः इत्युच्यते | लिट्‌, लृट्‌, लृङ्‌, लुट्‌, लुङ्‌, आशिर्लिङ्‌ इति |


अनेन चत्वारः सार्वधातुकलकाराः भवन्ति, षट्‌ च आर्धधातुकलकाराः भवन्ति |

Swarup – August 2014 (Updated June 2016)

---------------------------------


०३ - तिङ्‌-सिद्धेः च लकाराणां च समग्रदृष्टिः.pdf (71k) Swarup Bhai, Oct 14, 2019, 6:32 PM v.1