08 - यङ्लुगन्तधातूनां सार्वधातुकलकारेषु तिङन्तरूपाणि
पूर्वतनपाठे दृष्टं यत् यङ्लुगन्तधातुभ्यः विधीयमान-सिद्धतिङ्प्रत्ययाः एते—
लट्-लकारः
ति, ईति | तः | अति |
सि, ईषि | थः | थ |
मि, ईमि | वः | मः |
लोट्-लकारः
तु, ईतु, तात् | ताम् | अतु |
हि, तात् | तम् | त |
आनि | आव | आम |
लङ्-लकारः
त् , ईत् | ताम् | उः |
स् (:), ईः | तम् | त |
अम् | व | म |
विधिलिङ्-लकारः
यात् | याताम् | युः |
याः | यातम् | यात |
याम् | याव | याम |
सम्प्रति क्रमेण अजन्तधातूनां, तदा हलन्तधातूनां सार्वधातुकलकारेषु तिङन्तरूपाणि परिशीलनीयानि |
आकारान्तधातवः
१. सामान्याकारान्ताः
वा → वावा
धै → ध्या → दाध्या
ग्लै → ग्ला → जाग्ला
हलादिषु पित्सु = किमपि कार्यं नास्ति, केवलं योजनम् | अङ्गस्य आकारान्तत्वे सति गुणकार्यं न सम्भवति | वावा + ति → वावाति
अजादिषु पित्सु = केवलं सन्धिकार्यम् | वावा + आनि → वावानि
हलादिषु अपित्सु = धात्वन्तस्य आकार-स्थाने ई-कारादेशः (ई हल्यघोः इति सूत्रेण) | वावा + तः → वावीतः
अजादिषु अपित्सु = धात्वन्तस्य आकार-लोपः (श्नाभ्यस्तयोरातः इति सूत्रेण) | वावा + अति → वावति
श्नाभ्यस्तयोरातः (६.४.११२) = श्ना-प्रत्ययान्तस्य अभ्यस्तसंज्ञकस्य च अङ्गस्य आकारस्य लोपो भवति, किति ङिति सार्वधातुकप्रत्यये परे | श्नाश्च अभ्यस्तश्च तयोरितरेतरद्वन्द्वः श्नाभ्यस्तौ, तयोः श्नाभ्यस्तयोः | श्नाभ्यस्तयोः षष्ठ्यन्तम्, आतः षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | श्नसोरल्लोपः (६.४.१११) इत्यस्मात् लोपः, इत्यस्य अनुवृत्तिः | गमहनजनखनघसां लोपः क्ङित्यनङि (६.४.९८) इत्यस्मात् क्ङिति इत्यस्य अनुवृत्तिः | अत उत्सार्वधातुके (६.४.११०) इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— श्नाभ्यस्तयोः अङ्गस्य आतः लोपः क्ङिति सार्वधातुके |
अनेन सूत्रेण न केवलम् अजाद्यपिति अपि तु हलाद्यपिति अपि कार्यं विहितं, किन्तु हलादिषु अपित्सु ई हल्यघोः इति सूत्रम् एतत् कार्यं प्रबाध्य आकारस्य स्थाने ई-कारादेशं विदधाति |
ई हल्यघोः (६.४.११३) = श्ना-प्रत्ययान्तस्य अभ्यस्तसंज्ञकस्य च अङ्गस्य स्थाने ई-कारादेशो भवति, किति ङिति हलादिसार्वधातुकप्रत्यये परे—परन्तु घुसंज्ञक-धातुः चेत्, न भवति (घुसंज्ञक-धातुः नाम दा धा च धातू) | न घुः अघुः, तस्य अघोः | ई लुप्तप्रथमाकं पदं, हलि सप्तम्यन्तम्, अघोः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | श्नाभ्यस्तयोरातः (६.४.११२) इत्यस्मात् श्नाभ्यस्तयोः, आतः चेत्यनयोः अनुवृत्तिः | गमहनजनखनघसां लोपः क्ङित्यनङि (६.४.९८) इत्यस्मात् क्ङिति इत्यस्य अनुवृत्तिः; अत उत्सार्वधातुके (६.४.११०) इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अङ्गस्य श्नाभ्यस्तयोः आतः ई क्ङिति हलि सार्वधातुके अघोः |
उस्-प्रत्यये परे उस्यपदान्तात् (६.१.९६) इत्यनेन पररूपादेशः | अवावा + उः → अवावुः |
उस्यपदान्तात् (६.१.९६) = अपदान्तात् अकारात् उसि प्रत्यये परे पूर्वपरयोः पररूपम् एकादेशः भवति; आद्गुणस्य अपवादः | अवा + उः → अव् + उः → अवुः | न पदान्तम् अपदान्तं, तस्मात् अपदान्तात् | उसि सप्तम्यन्तम्, अपदान्तात् पञ्चम्यन्तं, द्विपदमिदं सूत्रम् | आद्गुणः (६.१.८७) इत्यस्मात् आत् इत्यस्य अनुवृत्तिः | इको यणचि (६.१.७७) इत्यस्मात् अचि इत्यस्य अनुवृत्तिः; अनुवर्तते अत्र यतोहि परेषु सूत्रेष्वपि तस्य आवश्यकता | एङि पररूपम् (६.१.९४) इत्यस्मात् पररूपम् इत्यस्य अनुवृत्तिः | एकः पूर्वपरयोः (६.१.८४), संहितायाम् (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्— अपदान्तात् आत् अचि उसि एकः पूर्वपरयोः पररूपम् संहितायाम् |
चतुर्षु सार्वधातुकलकारेषु तिङन्तरूपाणि कल्पनीयानि |
२. विशेषाकारान्तधातवः
घुसंज्ञकधातवः—
दा → दादा
हलादिषु पित्सु = किमपि कार्यं नास्ति, केवलं योजनम् | अङ्गस्य आकारान्तत्वे सति गुणकार्यं न सम्भवति | दादा + ति → दादाति
अजादिषु पित्सु = केवलं सन्धिकार्यम् | दादा + आनि → दादानि
हलादिषु अपित्सु = धात्वन्तस्य आकार-लोपः (श्नाभ्यस्तयोरातः इति सूत्रेण) | दादा + तः → दात्तः
अजादिषु अपित्सु = धात्वन्तस्य आकार-लोपः (श्नाभ्यस्तयोरातः इति सूत्रेण) | दादा + अति → दादति
उस्-प्रत्यये परे उस्यपदान्तात् (६.१.९६) इत्यनेन पररूपादेशः | अदादा + उः → अदादुः |
उस्यपदान्तात् (६.१.९६) = अपदान्तात् अकारात् उसि प्रत्यये परे पूर्वपरयोः पररूपम् एकादेशः भवति; आद्गुणस्य अपवादः | अनुवृत्ति-सहितसूत्रम्— अपदान्तात् आत् अचि उसि एकः पूर्वपरयोः पररूपम् संहितायाम् |
लोट्-लकारस्य मध्यमपुरुषे दादा + हि → दे + हि → देहि | सूत्रमिदम्—
घ्वसोरेद्धावभ्यासलोपश्च (६.४.११९) = हि-परे, घुसंज्ञक-धातोः अस्-धातोः च स्थाने एकारादेशो भवति; अभ्यासः अस्ति चेत् तस्य लोपो भवति | अलोऽन्त्यस्य (१.१.५२) इत्यनेन धातुरूप्यङ्गस्य अन्तिमवर्णस्य स्थाने एकारादेशः, न तु पूर्णतया अङ्गस्य | घुश्च अस् च तयोरितरेतरद्वन्द्वो घ्वसौ, तयोः घ्वसोः | अभ्यासस्य लोपः, अभ्यासलोपः षष्ठीतत्पुरुषः | घ्वसोः षष्ठ्यन्तं, एत् प्रथमान्तं, हौ सप्तम्यन्तम्, अभ्यासलोपः प्रथमान्तं, च अव्ययपदम्, अनेकपदमिदं सूत्रम् | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— घ्वसोः अङ्गस्य एत् अभ्यासलोपः च हौ |
चतुर्षु सार्वधातुकलकारेषु तिङन्तरूपाणि कल्पनीयानि |
धा → दाधा
दाधा-धातोः कृते तिङ्प्रत्यय-निमित्तकम् अङ्गकार्यंम् उपर्युक्तमेव यथा दादा इत्यस्य; लोट्-लकारस्य मध्यमपुरुषे दाधा + हि → धे + हि → धेहि; सूत्रं पूर्वोक्तम् | अन्यच्च इतोऽपि एकं कार्यम् अस्ति—
दधस्तथोश्च (८.२.३८) = द्वित्वकृतस्य झषन्तस्य धाञ्-धातोः बशो भष् स्यात् तथोः स्ध्वोः च परयोः | 'दधा' इत्यस्य यत्र आकारलोपः, तत्र 'दध्' इति झषन्तरूपं सिध्यति | तादृशस्य 'दध्' इत्यस्य दकारस्य स्थाने धकारादेशो भवति तकारे, थकारे, सकारे ध्व-शब्दे च परे | इदं कार्यं वर्णनिमित्तकं न तु अङ्गनिमित्तकं; हल्-सन्धिकार्यम् एव, अष्टमाध्याये च | झष्-प्रत्याहारे वर्गस्य चतुर्थवर्णाः अन्तर्भूताः— झ्, भ्, घ्, ढ्, ध् | बश्-प्रत्याहारे ब्, ग्, ड्, द् इत्येते वर्णाः | भष्-प्रत्याहारे भ्, घ्, ढ्, ध् इत्येते वर्णाः | तश्च थ् च तथौ, तकारादकारः उच्चारणार्थः, तयोः तथोः | दधः षष्ठ्यन्तं, तथोः सप्तम्यन्तं, च अव्ययपदं, त्रिपदमिदं सूत्रम् | एकाचो बशो भष् झषन्तस्य स्ध्वोः (८.२.३७) इत्यस्मात् बशो, भष्, झषन्तस्य, स्ध्वोः इत्येषाम् अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— झषन्तस्य दधः बशः भष् स्ध्वोः तथोः च |
यथा—
दाधा + तः → श्नाभ्यस्तयोरातः (६.४.११२) इत्यनेन आकारस्य लोपः → दाध् + तः → दधस्तथोश्च (८.२.३८) इत्यनेन द्-स्थाने ध् → धाध् + तः → खरि च इत्यनेन चर्त्वसन्धिः → धात्तः
ज्या → जाज्या
हलादिषु पित्सु = किमपि कार्यं नास्ति, केवलं योजनम् | अङ्गस्य आकारान्तत्वे सति गुणकार्यं न सम्भवति | जाज्या + ति → जाज्याति
अजादिषु पित्सु = केवलं सन्धिकार्यम् | जाज्या + आनि → जाज्यानि
हलादिषु अपित्सु = ग्रहि ज्या वयि इत्यनेन सम्प्रसारणं, तदा हलः इत्यनेन दीर्घः | जाज्या + तः → जाजीतः
अजादिषु अपित्सु = सम्प्रसारणं, दीर्घत्वं, तदा धात्वन्तस्य ईकारस्य यण्-आदेशः (एरनेकाचोऽसंयोगपूर्वस्य इति सूत्रेण) | जाज्या + अति → जाजी + अति → जाज्यति
सम्प्रसारणम्—
ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च (६.१.१६) = ग्रह्, ज्या, वय्, व्यध्, वश्, व्यच्, व्रश्च्, प्रच्छ्, भ्रस्ज्, एषां सम्प्रसारणं भवति किति ङिति प्रत्यये परे |
इग्यणः सम्प्रसारणम् (१.१.४५) = यणः स्थाने यः इक्-प्रत्याहारे स्थितवर्णः आदिष्टः, तस्य सम्प्रसारण-संज्ञा भवति | इक् प्रथमान्तं, यणः षष्ठ्यन्तं, सम्प्रसारणम् प्रथमान्तं, त्रिपदमिदं सूत्रम् | सूत्रं सम्पूर्णम्— यणः इक् सम्प्रसारणम् |
सम्प्रसारणाच्च (६.१.१०८) = सम्प्रसारण-संज्ञक-वर्णात् अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशो भवति | सम्प्रसारणात् पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | इको यणचि (६.१.७७) इत्यस्मात् अचि, अमि पूर्वः (६.१.१०७) इत्यस्मात् पूर्वः इत्यनयोः अनुवृत्तिः भवतः | एकः पूर्वपरयोः (६.१.८४), संहितायाम् (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्— सम्प्रसारणात् च अचि पूर्वपरयोः एकः पूर्वः संहितायाम् |
यथा—
जाज्या + तः → जाज् + य् + आ + तः → ग्रहि ज्या (३.१.१३) इत्यनेन यकारस्य स्थाने इ-आदेशः → जाजि + आ + तः → सम्प्रसारणाच्च (६.१.१०८) इत्यनेन सम्प्रसारण-संज्ञक-वर्णात् अचि परे पूर्वपरयोः एकः पूर्वरूपादेशः → जाजि + तः → हलः (६.४.२) इत्यनेन अङ्गावयवात् हलः यदुत्तरं संप्रसारणं तदन्तस्याङ्गस्य दीर्घादेशः → जाजी + तः → जाजीतः
हलः (६.४.२) = अङ्गावयवात् हलः यदुत्तरं संप्रसारणं तदन्तस्याङ्गस्य दीर्घो भवति | यः हल्-वर्णः अङ्गस्य अवयवः, तस्मात् परे स्थितं यत् अङ्गान्तं सम्प्रसारणं, तस्य दीर्घत्वं भवति | हलः पञ्चम्यन्तम् एकपदमिदं सूत्रम् | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तादृशम् अङ्गं यस्य अन्ते सम्प्रसारणसंज्ञकवर्णः अस्ति; अचश्च (१.२.२८), अलोऽन्त्यस्य (१.१.५२) इत्याभ्यां तस्य अङ्गस्य अन्तिमवर्णस्य अचः दीर्घादेशः | सम्प्रसारणस्य (६.३.१३९) इत्यस्मात् सम्प्रसारणस्य इत्यस्य अनुवृत्तिः | ढ्रलोपे पूर्वस्य दीर्घोऽणः (६.३.१११) इत्यस्मात् दीर्घः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— हलः सम्प्रसारणस्य अङ्गस्य दीर्घः |
एरनेकाचोऽसंयोगपूर्वस्य (६.४.८२) = असंयोगपूर्व-अनेकाच्-इकारान्ताङस्य यण्-आदेशो भवति अचि परे | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तादृश-धातुः यस्य अन्ते इकारः (न तु केवलम् इकाररूप्यङ्गम्; अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्त्यस्य अल्-वर्णस्य यणादेशः (न तु पूर्णाङ्गस्य) | न एकम्, अनेकम्, अनेके एकाचः यस्मिन् सः अनेकाच् नञ्तत्पुरुषगर्भो बहुव्रीहिः, तस्य अनेकाचः | नास्ति संयोगः पूर्वे यस्य स असंयोगपूर्वः बहुव्रीहिः, तस्य असंयोगपूर्वस्य | एः षष्ठ्यन्तम्, अनेकाचः षष्ठ्यन्तम्, असंयोगपूर्वस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | इणो यण् (६.४.८१) इत्यस्मात् यण् इत्यस्य अनुवृत्तिः | अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यस्मात् अचि, धातोः (विपरिणामेन षष्ठ्यन्तम्) इत्यनयोः अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अनेकाचः असंयोगपूर्वस्य एः धातोः अङ्गस्य यण् अचि |
चतुर्षु सार्वधातुकलकारेषु तिङन्तरूपाणि कल्पनीयानि |
असंयोगपूर्वाः इकारान्ताः ईकारान्ताः च धातवः
नी → नेनी
भी → बेभी
जि → जेजि
चि → चेचि
हलादिषु पित्सु = गुणः, सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन | नेनी + ति → नेनेति
अजादिषु पित्सु = गुणः, सार्वधातुकार्धधातुकयोः (७.३.८४); अय्-आदेशः, एचोऽयवायावः (६.१.७७) | नेनि + आनि → नेनयानि
हलादिषु अपित्सु = गुणनिषेधः सार्वधातुकमपित् (१.२.४), क्क्ङिति च (१.१.५) | नेनी + तः → नेनीतः
अजादिषु अपित्सु = गुणनिषेधः, तदा यण्-आदेशः एरनेकाचोऽसंयोगपूर्वस्य इत्यनेन | नेनी + अति → नेन्यति
अजाद्यपित्-प्रत्ययक्षेत्रे विशेषः—
उस्-प्रत्यये परे जुसि च (७.३.८३) इत्यनेन अजादौ जुसि परे इगन्ताङ्गस्य गुणः भवति |
अनेनी + उः → अनेने + उः → अनेनय् + उः → अनेनयुः
जुसि च (७.३.८३) = अजादौ जुसि परे इगन्ताङ्गस्य गुणः भवति | जुसि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन इगन्तस्य अङ्गस्य; अलोऽन्त्यस्य (१.१.५२) इत्यनेन अङ्गान्तस्य इकः स्थाने गुणादेशः | क्सस्याचि (७.३.७२) इत्यस्मात् अचि इत्यस्य अनुवृत्तिः | मिदेर्गुणः (७.३.८२) त्यस्मात् गुणः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | इको गुणवृद्धी (१.१.३) इति परिभाषासूत्रेण इकः स्थानी भवति | अनुवृत्ति-सहितसूत्रम्— इकः अङ्गस्य गुणः अचि जुसि च |
किमर्थम् 'अजादौ जुसि परे' इति चेत् 'शृणुयुः' | अत्र जुस् भवति किन्तु स च जुस् अजादिः नास्ति, अतः इगन्ताङ्गस्य गुणो न भवति | यासुट्-आगमे सति गुणः न भवति |
सार्वधातुकमपित् (१.२.४) = अपित् सार्वधातुकम् ङित् इव अस्ति | सार्वधातुकम् प्रथमान्तम्, अपित् प्रथमान्तं, द्विपदमिदं सूत्रम् | गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इत्यस्मात् ङित् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्— सार्वधातुकम् अपित् ङित् |
क्क्ङिति च (१.१.५) = यः प्रत्ययः गित्, कित् अथवा ङित् अस्ति, अपि च तस्मात् प्रत्ययात् पूर्वं तस्य एव प्रत्ययस्य कारणतः इकः स्थाने गुणः वा वृद्धिः वा भवति स्म, सः (गुणः वृद्धिः) न भवति | ग् च क् च ङ् च तेषाम् इतरेतरद्वन्द्वः क्क्ङः; क्क्ङः इतः यस्य सः क्क्ङित्, तस्मिन् परे क्क्ङिति | द्वन्द्वगर्भबहुव्रीहिसमासः | अत्र ग्-स्थाने ककारः खरि च इत्यनेन चर्त्वसन्धिः | क्क्ङिति सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | इको गुणवृद्धी (१.१.३) इत्यस्य पूर्णतया अनुवृत्तिः; न धातुलोप आर्धधातुके (१.१.४) इत्यस्मात् न इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्— क्क्ङिति च इकः गुणवृद्धी न |
चतुर्षु सार्वधातुकलकारेषु तिङन्तरूपाणि कल्पनीयानि |
संयोगपूर्वाः इकारान्ताः ईकारान्ताः च धातवः
क्री → चेक्री
नेनी इति धातोः यथा, तथा अत्र कार्यं समानम् एकं कार्यं वर्जयित्वा | तदेकं भिन्नं कर्यम् इदम्—
अजादिषु अपित्सु = गुणनिषेधः, तदा इयङ्-आदेशः अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यनेन | चेक्री + अति → चेक्रिय् + अति → चेक्रियति
अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) = श्नुप्रत्ययान्ताङ्गस्य (स्वादिगणस्य अङ्गस्य यथा शक्नु इत्यस्य), इकारान्त-उकारान्तधातुरूपि-अङ्गस्य, भ्रू-प्रातिपदिकस्य च— एषाम् इकारस्य उकारस्य स्थाने क्रमेण इयङ् उवङ् च आदेशो भवति अजादि-प्रत्यये परे | श्नु-प्रसङ्गे प्रत्ययग्रहणे तदन्ता ग्राह्याः (परिभाषा #२३) इति परिभाषया तदन्तविधिः; अनेन यस्य अङ्गस्य अन्ते श्नु-प्रत्ययः स्यात्, तस्मात् इत्यर्थः | य्वोः इति विशेषणं 'धातु' शब्दस्य एव यतोहि श्नुप्रत्ययान्ताङ्गं, भ्रू-प्रातिपदिकं च उकारान्तः एव अतः तत्र इयङ् इत्यस्य प्रसक्तिः नास्ति | तर्हि 'धातु' इत्येव अवशिष्यते यस्य कृते य्वोः इति विशेषणं योग्यम् | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन यस्य धातोः अन्ते इकार-उकारः स्यात् इति अर्थः | श्नुश्च धातुश्च भ्रुश्च तेषाम् इतरेतरद्वन्द्वः श्नुधातुभ्रुवः, तेषां श्नुधातुभ्रुवाम् | इश्च उश्च तयोः इतरेतरद्वन्द्वः यू, तयोः य्वोः | इयङ् च उवङ् च तयोः इतरेतरद्वन्द्वः, इयङुवङौ | अचि सप्तम्यन्तं, श्नुधातुभ्रुवां षष्ठ्यन्तं, य्वोः षष्ठ्यन्तम्, इयङुवङौ प्रथमान्तम्, अनेकपदमिदं सूत्रम् | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— य्वोः श्नुधातुभ्रुवाम् अङ्गानाम् इयङुवङौ अचि |
चतुर्षु सार्वधातुकलकारेषु तिङन्तरूपाणि कल्पनीयानि |
उकारान्ताः ऊकारान्ताः च धातवः
भू → बोभू
पू → पोपू
लू → लोलू
हलादिषु पित्सु = गुणः, सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन | बोभू + ति → बोभोति
अजादिषु पित्सु = गुणः, सार्वधातुकार्धधातुकयोः (७.३.८४); अव्-आदेशः, एचोऽयवायावः (६.१.७७) | बोभू + ईति → बोभो + ईति → बोभव् + ईति → बोभवीति
हलादिषु अपित्सु = गुणनिषेधः सार्वधातुकमपित् (१.२.४), क्क्ङिति च (१.१.५) | बोभू + तः → बोभूतः
अजादिषु अपित्सु = गुणनिषेधः, तदा उवङ्-आदेशः अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यनेन | बोभू + अति → बोभुव् + अति → बोभुवति
अजाद्यपित्-प्रत्ययक्षेत्रे विशेषः—
उस्-प्रत्यये परे जुसि च (७.३.८३) इत्यनेन अजादौ जुसि परे इगन्ताङ्गस्य गुणः भवति |
अबोभू + उः → अबोभो + उः → अबोभव् + उः → अबोभवुः
चतुर्षु सार्वधातुकलकारेषु तिङन्तरूपाणि कल्पनीयानि |
ऋकारान्ताः धातवः
चर्कृ, चरिकृ, चरीकृ
जर्हृ, जरिहृ, जरीहृ
बर्भृ, बरिभृ, बरीभृ
हलादिषु पित्सु = गुणः, सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन | चर्कृ + ति → चर्कर्ति
अजादिषु पित्सु = गुणः, सार्वधातुकार्धधातुकयोः (७.३.८४) | चर्कृ + ईति → चर्करीति
हलादिषु अपित्सु = गुणनिषेधः सार्वधातुकमपित् (१.२.४), क्क्ङिति च (१.१.५) | चर्कृ + तः → चर्कृतः
अजादिषु अपित्सु = गुणनिषेधः, तदा यण्-आदेशः इको यणचि (६.१.७७) इत्यनेन | चर्कृ + अति → चर्क्रति
अजाद्यपित्-प्रत्ययक्षेत्रे विशेषः—
उस्-प्रत्यये परे जुसि च (७.३.८३) इत्यनेन अजादौ जुसि परे इगन्ताङ्गस्य गुणः भवति |
अचर्कृ + उः → अचर्कर् + उः → अचर्करुः
इको यणचि (६.१.७७) = इकः स्थाने यण्-आदेशः स्यात् अचि परे संहितायां विषये | इकः यण् स्यात् असवर्णे अचि परे इति सूत्रस्य फलितः अर्थः इति ज्ञेयम् (सवर्णे अचि परे अकः सवर्णे दीर्घः (६.१.१०१) इत्येनेन यण् बाधितम्) | इकः षष्ठ्यन्तं, यण् प्रथमान्तं, अचि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | संहितायाम् (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— इकः यण् अचि संहितायाम् |
चतुर्षु सार्वधातुकलकारेषु तिङन्तरूपाणि कल्पनीयानि |
अनोष्ठ्यपूर्वॠकारान्ताः धातवः
तॄ → तातॄ
जॄ → जाजॄ
शॄ → शाशॄ
१) हलादिषु पित्सु = गुणः, सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन | तातॄ + ति → तातर्ति
२) अजादिषु पित्सु = गुणः, सार्वधातुकार्धधातुकयोः (७.३.८४) | तातॄ + ईति → तातरीति
३) हलाद्यपित्सु = गुणनिषेधः सार्वधातुकमपित् (१.२.४), क्क्ङिति च (१.१.५) | ॠत इद्धातोः (७.१.१००) इत्यनेन इकारादेशः, उरण् रपरः (१.१.५१) इत्यनेन रपरत्वं, हलि च (८.२.७७) इत्यनेन उपधायाः उकारस्य दीर्घत्वम् | तातॄ + तः → तातिर् + तः → तातीर् + तः → तातीर्तः
४) अजाद्यपित्सु = गुणनिषेधः सार्वधातुकमपित् (१.२.४), क्क्ङिति च (१.१.५) | ॠत इद्धातोः (७.१.१००) इत्यनेन इकारादेशः, उरण् रपरः (१.१.५१) इत्यनेन रपरत्वम् | तातॄ + अति → तातिर् + अति → तातिरति
अजाद्यपित्-प्रत्ययक्षेत्रे विशेषः—
उस्-प्रत्यये परे जुसि च (७.३.८३) इत्यनेन अजादौ जुसि परे इगन्ताङ्गस्य गुणः भवति |
अतातॄ + उः → अतातर् + उः → अतातरुः
ॠत इद्धातोः (७.१.१००) = ॠदन्तस्य धातोः अङ्गस्य ह्रस्व-इकारादेशो भवति | किति ङिति प्रत्यये परे एव इति बोध्यं; नो चेत् गुणः | कित्-ङित् भिन्नप्रत्ययः परश्चेत्, गुणे सति इकारादेशस्य प्रसक्तिर्न भवति | येन विधिस्तदन्तस्य (१.१.७२) इत्यस्य साहाय्येन ॠतः इत्यनेन ॠदन्तस्य इत्यस्यापि ग्रहणम् | अलोऽन्त्यस्य (१.१.५२) इत्यस्य साहाय्येन पूर्णतया धातोः स्थाने न, अपि तु अन्तिमस्य ॠकारस्य स्थाने ह्रस्व-इकारादेशः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः; प्रत्ययः न भवति चेत् इदं कार्यं न स्यादेव, नो चेत् अनेन धातोः अपि मूलरूपं परिवर्तेत | ॠतः षष्ठ्यन्तम्, इत् प्रथमान्तम्, धातोः षष्ठ्यन्तम्, त्रिपदमिदं सूत्रम् | अनुवृत्ति-सहितसूत्रम्— ॠतः धातोः अङ्गस्य इत् |
उरण् रपरः (१.१.५१) = ऋकारस्य स्थाने यदा अण्-आदेशः भवति, तदा सः अण् सदा रपरः भवति | ऋकारेण त्रिंशत्-प्रकारकः ऋकारः भवति इति बोध्यम् | रः परो यस्य सः रपरः | उः षष्ठ्यन्तम्, अण् प्रथमान्तम्, रपरः प्रथमान्तम्, त्रिपदमिदं सूत्रम् | स्थानेऽन्तरतमः (१.१.५०) इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— उः स्थाने अण् रपरः |
हलि च (८.२.७७) = हलि परे रेफान्तानां वकारान्तानां च धातूनाम् उपधायां स्थितः इक्-वर्णः दीर्घो भवति | हलि सप्तम्यन्तम्, च अव्ययपदम्, द्विपदमिदं सूत्रम् | सिप धातो रुर्वा (८.२.७४) इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः; र्वोरुपधाया दीर्घ इकः (८.२.७६) इत्यस्य पूर्णतया अनुवृत्तिः | येन विधिस्तदन्तस्य (१.१.७२) इत्यस्य साहाय्येन तदन्तविधिः अतः र्वोः इत्यनेन येषाम् धातूनाम् अन्ते रेफः वकारश्च, तेषामपि ग्रहणम् | अनुवृत्ति-सहितसूत्रं— हलि च र्वोः धातोः उपधायाः इकः दीर्घः |
चतुर्षु सार्वधातुकलकारेषु तिङन्तरूपाणि कल्पनीयानि |
ओष्ठ्यपूर्वॠकारान्ताः धातवः
पॄ → पापॄ
वॄ → वावॄ
भॄ → बाभॄ
मॄ → मामॄ
१) हलादिषु पित्सु = गुणः, सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन | पापॄ + ति → पापर्ति
२) अजादिषु पित्सु = गुणः, सार्वधातुकार्धधातुकयोः (७.३.८४) | पापॄ + ईति → पापरीति
३) हलाद्यपित्सु = गुणनिषेधः सार्वधातुकमपित् (१.२.४), क्क्ङिति च (१.१.५) | उदोष्ठ्यपूर्वस्य इत्यनेन उकारादेशः, उरण् रपरः इत्यनेन रपरत्वं, हलि च इत्यनेन उपधायाः उकारस्य दीर्घत्वम् | पापॄ + तः → पापुर् + तः → पापूर् + तः → पापूर्तः
४) अजाद्यपित्सु = गुणनिषेधः सार्वधातुकमपित् (१.२.४), क्क्ङिति च (१.१.५) | उदोष्ठ्यपूर्वस्य इत्यनेन उकारादेशः, उरण् रपरः इत्यनेन रपरत्वम् | पापॄ + अति → पापुर् + अति → पापुरति
अजाद्यपित्-प्रत्ययक्षेत्रे विशेषः—
उस्-प्रत्यये परे जुसि च (७.३.८३) इत्यनेन अजादौ जुसि परे इगन्ताङ्गस्य गुणः भवति |
अपापॄ + उः → अपापर् + उः → अपापरुः
उदोष्ठ्यपूर्वस्य (७.१.१०२) = ओष्ठ्यपूर्वस्य ॠकारान्ताङ्गस्य ॠकारस्य ह्रस्वः उकारादेशो भवति | येन विधिस्तदन्तस्य (१.१.७२) इत्यस्य साहाय्येन तदन्तविधिः अतः तादृशम् अङ्गं यस्य अन्ते ॠकारः अस्ति, न तु ॠकारः इति अङ्गम्; अलोऽन्त्यस्य (१.१.५२) इत्यनेन अङ्गान्तस्य वर्णस्य स्थाने उदादेशः, न तु अङ्गस्य पूर्णस्य | ओष्ठ्याः नाम पवर्गीय-वर्णाः | ओष्ठयोः भवः ओष्ठ्यः | ओष्ठ्यः पूर्वो यस्मात्, सः ओष्ठ्यपूर्वः बहुव्रीहिः, तस्य ओष्ठ्यपूर्वस्य (ॠवर्णस्य) | उत् प्रथमान्तम्, ओष्ठ्यपूर्वस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | ॠत इद् धातोः (७.१.१००) इत्यस्मात् ॠतः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— ओष्ठ्यपूर्वस्य ऋतः अङ्गस्य उत् |
चतुर्षु सार्वधातुकलकारेषु तिङन्तरूपाणि कल्पनीयानि |
अनेन अजन्त-यङ्लुगन्तधातूनां सार्वधातुकलकारेषु चिन्तनं समाप्तम् |
हलन्त-यङ्लुगन्तधातूनां सार्वधातुकलकारेषु तिङन्तरूपाणि
यथासामान्यम् अत्र द्विस्तरीयकार्यम्—
१) अङ्गकार्यम्
२) सन्धिकार्यम्
हलन्तधातवः पञ्च श्रेणीषु विभज्यन्ते—
१) सामान्यधातवः, उपधायां च लघु इक्-वर्णो नास्ति
२) लघूपधधातवः
३) अनिदित्-धातवः
४) सम्प्रसारणिनः धातवः
५) अनुनासिकान्त-धातवः
सम्प्रति मिलित्वा प्रथमद्वयोः प्रकारयोः रूपाणि कल्पनीयानि | तदा पृथक्तया क्रमेण अनिदित्-धाततूनां, सम्प्रसारणि-
धाततूनाम्, अनुनासिकान्त-धाततूनां च रूपाणि कल्पनीयानि |
१) सामान्यधातवः, उपधायां च लघु इक्-वर्णो नास्ति इति चेत् अङ्गकार्यं नास्ति | अतः साक्षात् सन्धिकार्यं कृत्वा प्रकृति-प्रत्यययोः मेलनं करणीयम् |
२) लघूपधधातुः इति चेत् अङ्गकार्यं साधनीयं, तदा सन्धिकार्यं, प्रकृति-प्रत्यययोः मेलनं च | अत्र अङ्गकार्यं किमिति प्रदर्श्यते—
हलादिषु पित्सु = गुणः, पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन; तदा सन्धिकार्यम् | लिख् → लेलिख् + ति → लेलेख् + ति → लेलेक्ति | मुद् → मोमुद् + ति → मोमोद् + ति → मोमोत्ति | वृष् → वरीवृष् + ति → वरीवर्ष् + ति → वरीवर्ष्टि |
अजादिषु पित्सु = गुणनिषेधः, नाभ्यस्तस्याचि पिति सार्वधातुके (७.३.८७) इत्यनेन | लेलिख् + ईति → लेलिखीति | मोमुद् + ईति → मोमुदीति | वरीवृष् + ईति → वरीवृषीति |
हलादिषु अपित्सु = गुणनिषेधः सार्वधातुकमपित् (१.२.४), क्क्ङिति च (१.१.५); तदा सन्धिकार्यम् | लेलिख् + तः → लेलिक्तः | मोमुद् + तः → मोमुत्तः | वरीवृष् + तः → वरीवृष्टः |
अजादिषु अपित्सु = गुणनिषेधः, सार्वधातुकमपित् (१.२.४), क्क्ङिति च (१.१.५) | लेलिख् + अति → लेलिखति | मोमुद् + अति → मोमुदति | वरीवृष् + अति → वरीवृषति |
अस्य अपवादः मृज्-धातुः, यस्य इकः वृद्धिः भवति सार्वधातुके च आर्धधातुके च प्रत्यये परे | मृज् → मरीमृज् + ति → मरीमार्ष्टि |
पुगन्तलघूपधस्य च (७.३.८६) = पुगन्तस्य अङ्गस्य लघूपधस्य च इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | पुक् अन्ते यस्य तत् पुगन्तम्, लघ्वी उपधा यस्य तत् लघूपधम् | पुगन्तञ्च लघूपधञ्च तयोः पुगन्तलघूपधं समाहारद्वन्द्वः, तस्य पुगन्तलघूपधस्य | पुगन्तलघूपधस्य षष्ठ्यन्तं पदम्, च अव्ययपदं, द्विपदमिदं सूत्रम् | मिदेर्गुणः (७.३.८२) इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः; सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यस्य पूर्णानुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | इको गुणवृद्धी (१.१.३) इत्यनेन परिभाषा-सूत्रेण, इकः स्थानी भवति यत्र स्थानी नोक्तम् | अनुवृत्ति-सहितसूत्रम्— पुगन्तलघूपधस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः |
नाभ्यस्तस्याचि पिति सार्वधातुके (७.३.८७) = अभ्यस्तस्य लघूपधगुणः न भवति अजादि-पित्-सार्वधातुकप्रत्यये परे | न अव्ययपदम्, अभ्यस्तस्य षष्ठ्यन्तम्, अचि सप्तम्यन्तं, पिति सप्तम्यन्तं, सार्वधातुके सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | पुगन्तलघूपधस्य च (७.३.८६) इत्यस्मात् लघूपधस्य इत्यस्य अनुवृत्तिः, मिदेर्गुणः (७.३.८२) इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अभ्यस्तस्य अङ्गस्य लघूपधस्य गुणः न अचि पिति सार्वधातुके |
मृजेर्वृद्धिः (७.२.११४) = मृज्-धातोः इकः वृद्धिः भवति सार्वधातुके च आर्धधातुके च प्रत्यये परे | अङ्गकार्यत्वात् प्रत्ययः परे अस्त्येव; स च प्रत्ययः धातोः भवति इति कृत्वा सार्वधातुकम् अथवा आर्धधातुकम् भवेदेव | मृजेः षष्ठ्यन्तं, वृद्धिः प्रथमान्तं, द्विपदमिदं सूत्रम् | इकोगुण्वृद्धी (१.१.३) इत्यस्मात् परिभाषासूत्रात् इकः इत्यस्य षष्ठ्यन्ता अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— मृजेः अङ्गस्य इकः वृद्धिः |
एतदाधारेण यथानिर्दिष्टम् अङ्गकार्यं सन्धिकार्यं च कृत्वा एषां धातूनां चतुर्षु सार्वधातुकलकारेषु तिङन्तरूपाणि कल्पनीयानि |
ककारान्तधातवः— तिक् → तेतिक्
खकारान्तधातवः— लिख् → लेलिख्
गकारान्तधातवः— तिग् → तेतिग्
घकारान्तधातवः— ष्टिघ → धात्वादेः षः सः (६.१.६३), उपदेशेऽजनुनासिक इत् (१.३.२) → स्तिघ् → तेष्टिघ्
चकारान्तधातवः— षिच → सिच् → सेषिच्, व्रश्च् → वाव्रश्च्
छ्कारान्तधातवः— प्रच्छ् → पाप्रच्छ्
जकारान्तधातवः— त्यज् → तात्यज्, भ्रस्ज् → बाभ्रस्ज्, मृज् → मरीमृज्
टकारान्तधातवः— लुट् → लोलुट्
ठकारान्तधातवः— लुठ् → लोलुठ्
डकारान्तधातवः— तुड् → तोतुड्
तकारान्तधातवः— च्युत् → चोच्युत्
थकारान्तधातवः— कुथ् → चोकुथ्
दकारान्तधातवः— भिद् → बेभिद्
धकारान्तधातवः— रुध् → रोरुध्
पकारान्तधातवः— गुप् → जोगुप्
फकारान्तधातवः— रिफ् → रेरिफ्
बकारान्तधातवः— लम्ब् → लालम्ब्
भकारान्तधातवः— शुभ् → शोशुभ्
यकारान्तधातवः— हय् → जाहय्
वकारान्तधातवः— तुर्व् → तोतुर्व्, मव् → मामव्
रेफान्तधातवः— ज्वर् → जाज्वर्
शकारान्तधातवः— क्रुश् → चोक्रुश्
षकारान्तधातवः— कृष् → चरीकृष्
सकारान्तधातवः— वस् → वावस्
हकारान्तधातवः— गाह् → जागाह्, गुह् → जोगुह्
ऊदुपधाया गोहः (६.४.८९) = गोहोऽङ्गस्य उपधायाः ऊकारादेशो भवति अजादौ प्रत्यये परे | गुह उपधाया ऊत् स्याद् गुणहेतावजादौ प्रत्यये | अजादौ प्रत्यये परे यत्र गुह्-धातोः उपधागुणो भवति, तत्र तस्य गोह्-धातुरूप्यङ्गस्य ओकारस्य ऊकारादेशो भवति | ऊत् प्रथमान्तम्, उपधायाः षष्ठ्यन्तं, गोः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यस्मात् अचि इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— गोहः अङ्गस्य उपधायाः ऊत् अचि |
३) अनिदित्-धातवः
मन्थ् → मामन्थ्
वञ्च् → वनीवञ्च्
ध्वंस् → दनीध्वंस्
हम्म् → जंहम्म्
अनिदितां हल उपधायाः क्ङिति (६.४.२४) = येषां हलन्त-धातूनां ह्रस्व-इकारस्य इत्-संज्ञा नास्ति, तेषाम् उपधायां नकारः अस्ति चेत्, तस्य नकारस्य लोपः भवति किति ङिति प्रत्यये परे | इत् इत् अस्ति येषाम् ते इदितः, न इदितः, अनिदितः, बहुव्रीहिगर्भः नञ्तत्पुरुषसमासः, तेषाम् अनिदिताम् | क् च ङ् च तयोः इतरेतरद्वन्द्वः क्ङौ | क्ङौ इतौ यस्य सः क्ङित्, द्वन्द्वगर्भः बहुव्रीहिसमासः, तस्मिन् क्ङिति | अनिदितां षष्ठ्यन्तं, हलः षष्ठ्यन्तम्, उपधाया षष्ठ्यन्तं, क्ङिति सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | श्नान्नलोपः (६.४.२३) इत्यस्मात् न, लोपः इत्यनयोः अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्— अनिदितां हलः अङ्गस्य उपधायाः नः लोपः क्ङिति |
नुगतोऽनुनासिकान्तस्य (७.४.८५) = अनुनासिकान्ताङ्गस्य अदन्त-अभ्यासस्य नुक्-आगमो भवति यङि यङ्लुकि च | धातोः अभ्यासस्य अन्ते अत् चेत्, धातोः अन्ते अनुनासिकहल्-वर्णः (ञ्, म्, ङ्, ण्, न्) चेत् इदं कार्यं प्रवर्तते | नुक्-आगमः कित् | ककारः इत्-संज्ञकः, उकारः उच्चारणार्थः | अनुनासिकः अन्ते यस्य तत् अनुनासिकान्तं, तस्य | नुक् प्रथमान्तं, अतः षष्ठ्यन्तम्, अनुनासिकान्तस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः | गुणो यङ्लुकोः (७.४.८२) इत्यस्मात् यङ्लुकोः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— अनुनासिकान्तस्य अङ्गस्य अतः अभ्यासस्य नुक् यङ्लुकोः |
४) सम्प्रसारणिनः धातवः
श्तिपा शपानुबन्धेन निर्दिष्टं यद् गणेन च |
यत्रैकाज्ग्रहणं किञ्चित् पञ्चैतानि न यङलुकि |
अनेन श्तिपा निर्दिष्टानां पञ्चानां यङ्लुकि न सम्प्रसारणम् |
ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च (६.१.१६) = ग्रह्, ज्या, वय्, व्यध्, वश्, व्यच्, व्रश्च्, प्रच्छ्, भ्रस्ज्, एषां सम्प्रसारणं भवति किति ङिति प्रत्यये परे | इतरेतरद्वन्द्वः, षष्ठीविभक्तौ | ग्रहि-ज्या-वयि-व्यधि-वष्टि-विचति-वृश्चति-पृच्छति-भृज्जतीनां षष्ठ्यन्तम्, ङिति सप्तम्यन्तम्, च अव्ययम्, त्रिपदमिदं सूत्रम् | वचिस्वपियजादीनां किति (६.१.१५) इत्यस्मात् किति इत्यस्य अनुवृत्तिः; ष्यङः सम्प्रसारणम् पुत्रपत्योस्तत्पुरुषे (६.१.१३) इत्यस्मात् सम्प्रसारणम् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्— ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति किति च सम्प्रसारणम् |
ग्रह् → जाग्रह्
ज्या → जाज्या
व्यध् → वाव्यध्
वश् → वावश्
व्यच् → वाव्यच्
व्रश्च् → वाव्रश्च्
प्रच्छ् → पाप्रच्छ्
भ्रस्ज पाके → भ्रस्ज् → बाभ्रस्ज्
एषु प्रथमत्रयाणां सम्प्रसारणं भवति यङ्लुकि; अन्तिमपञ्चानां तु यङ्लुकि सम्प्रसारणं नास्ति |
धेयं यत् अस्मिन् सूत्रे 'वयि' तु धातुः नास्ति अपि तु धात्वादेशः | मूलधातुः अस्ति वेञ् | वेञ्-धातोः स्थाने लिट्-लकारे एव 'वय्' इति धात्वादेशो भवति | तस्य च धात्वादेशस्य लिट्-लकारे किति प्रत्यये परे सम्प्रसारणं भवति; ग्रहि ज्या वयि इति सूत्रे 'वयि' इत्यस्य कार्यं केवलं लिट्-लकारे | लिट्-लकारं विहाय अस्य कार्यं अन्यत्र कुत्रापि न भवति | वेञ्-धातोः सम्प्रसारणं प्राप्यते वच्यादौ (वचिस्वपियजादीनां किति ६.१.१५), किन्तु तत्र किति प्रत्यये एव सम्प्रसाणम् इति हेतोः यङ्लुकि सार्वधातुकलकारेषु कित्वाभावात् सम्प्रसारणं न कुत्रापि भवति | वेञ् → वे → आदेच उपदेशेऽशिति (६.१.४५) → वा वा → वावा |
५) अनुनासिकान्त-धातवः
१) अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति (६.४.३७) = वन्-धातोः, अनुनासिकान्त-अनुदात्तोपदेश-धातोः, अनुनासिकान्त-तनादि-धातोः अनुनासिकस्य लोपो भवति झलादि-कित्ङित्-प्रत्यये परे | पञ्चदश धातवः |
यङ्लुकि मन्, हन्, गम्, रम्, नम्, यम् इति षण्णामेव धातूनाम् अनुनासिकलोपो भवति | अस्मिन् सूत्रे तनोत्यादीनां गणनिर्देशेन भवति इति कारणेन एषां यङ्लुकि अनुनासिकलोपो न भवति | यङ्लुगन्तानां धातुगणाभावात् | ‘वनति' इति तु श्तिप् इत्यनेन निर्दिष्टम् |
२) जनसनखनां सञ्झलोः (६.४.४२) = जन्, सन्, खन् एषां धातूनां नकारस्य स्थाने आकारादेशो भवति झलादि-सन्-प्रत्यये परे झलादि-कित्ङित्-प्रत्यये परे च | त्रयः धातवः |
३) अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) = अनुनासिकान्ताङ्गस्य उपधायाः दीर्घादेशो भवति क्वि च झलादि कित्ङित्-प्रत्यये परे | अवशिष्ट-धातवः | उपर्युक्तद्वाभ्यां सूत्राभ्यां ये नव धातवः कथिताः, तान् धातून् अतिरिच्य अवशिष्टानाम् अनुनासिकान्तानाम् अनेन सूत्रेण उपधादीर्घो भवति |
४) गमहनजनखनघसां लोपः क्ङित्यनङि (६.४.९८) = अजादि-कित्ङित्-प्रत्यये परे गम्, हन्, जन्, खन्, घस् एषां धातूनाम् उपधायाः लोपो भवति | पञ्च धातवः |
मकारान्तानां पदत्वे सति, म्-स्थाने नकारः—
मो नो धातोः (८.२.६४) = मकारान्तस्य धातोः पदस्य नकारादेशो भवति | येन विधिस्तदन्तस्य (१.१.७२) इत्यस्य साहाय्येन मः धातोः इत्यनेन मकारान्तस्य धातोः इत्यस्यापि ग्रहणम् | अलोऽन्त्यस्य (१.१.५२) इत्यस्य साहाय्येन नकारादेशः पूर्णतया धातोः स्थाने न, अपि तु अन्तिमस्य मकारस्य | मः षष्ठ्यन्तं, नः प्रथमान्तं, धातोः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात् अन्ते इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— मः धातोः पदस्य अन्ते नः |
मकारान्तानाम् अपदत्वे सति, म्-स्थाने नकारः—
म्वोश्च (८.२.६५) = मकारान्तधातोः धात्वन्त-मकारस्य स्थाने नकारादेशो भवति मकारे वकारे च परे | येन विधिस्तदन्तस्य (१.१.७२) इत्यस्य साहाय्येन मः धातोः इत्यनेन मकारान्तस्य धातोः इत्यस्यापि ग्रहणम् | अलोऽन्त्यस्य (१.१.५२) इत्यस्य साहाय्येन नकारादेशः पूर्णतया धातोः स्थाने न, अपि तु अन्तिमस्य मकारस्य | म् च व् च म्वौ, तयोः म्वोः | म्वोः सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | मो नो धातोः (८.२.६४) इत्यस्य पूर्णतया अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— मः धातोः नः म्वोश्च |
एषां यङ्लुगन्तधातूनां सार्वधातुकलकारेषु तिङन्तरूपाणि वक्तव्यानि—
गम् → जंगम् / जङ्गम्*
हन् हिंसागत्योः → जङ्घन्
जन् → जञ्जन्
खनु अवदारणे → खन् → चङ्खन्
सन् → संसन्
मन् → मम्मन्
रम् → रंरम्
नम् → नन्नम्
यम् → यंयम् / यँय्यम्*
तन् → तन्तन्
क्षिनु हिंसायाम् → क्षिन् → चेक्षिन्**
*नुगतोऽनुनासिकान्तस्य (७.४.८५) = अनुनासिकान्ताङ्गस्य अदन्त-अभ्यासस्य नुक्-आगमो भवति यङि यङ्लुकि च | अस्य सूत्रस्य अन्तर्गते वार्तिकम् अस्ति पदान्तवच्चेति वक्तव्यम् | अनेन अनुनासिकान्ताङ्गस्य अदन्त-अभ्यासस्य नुक्-आगमे सति स च अभ्यासः पदान्तवत् इति मन्तव्यम् | तस्मात् वा पदान्तस्य (८.४.५९) इत्यनेन परसवर्णविकल्पः | अनुनासिकान्तधातुप्रसङ्गे सर्वत्र तथा कल्पनीयं यथासङ्गं— नाम यत्र अभ्यासः अदन्तः |
अनुस्वारस्य ययि परसवर्णः (८.४.५८) = अनुस्वारस्य स्थाने परसवर्णादेशो भवति ययि परे |
वा पदान्तस्य (८.४.५९) = पदान्तस्य अनुस्वारस्य परसवर्णादेशो वा भवति ययि परे |
**अत्र निमित्तत्वात् णत्वम्; अग्रे प्रक्रियावशात् यथासङ्गं णत्वं कर्तव्यम् | अतः क्षन्, क्षिन्, रन्, ऋन् इति मूलधातवः न तु क्षण्, क्षिण्, रण्, ऋण् | किन्तु कण्-धातुः स्वभावेन णकारान्तः | चेक्षिन् + ति → नश्चापदान्तस्य झलि (८.३.२४) | चेक्षिन् + ईति → अट्कुप्वाङ्नुम्व्यवायेऽपि (८.४.२) |
अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति (६.४.३७) = वन्-धातोः, अनुनासिकान्त-अनुदात्तोपदेश-धातोः, अनुनासिकान्त-तनादि-धातोः अनुनासिकस्य लोपो भवति झलादि-कित्ङित्-प्रत्यये परे | अनुदात्तः उपदेशे येषां ते, अनुदात्तोपदेशाः बहुव्रीहिः | तनोतिः आदिः येषां ते, तनोत्यादयः बहुव्रीहिः | अनुदात्तोपदेशाश्च वनतिश्च तनोत्यादयश्च तेषामितरेतरद्वन्द्वः अनुदात्तोपदेशवनतितनोत्यादयः, तेषाम् अनुदात्तोपदेशवनतितनोत्यादीनाम् | क् च ङ् तयोरितरेतरद्वन्द्वः क्ङौ, तौ इतौ यस्य तत् क्ङित्, तस्मिन् क्ङिति | अनुदात्तोपदेशवनतितनोत्यादीनां षष्ठ्यन्तम्, अनुनासिक इति लुप्तष्ठीकं पदं, लोपः प्रथमान्तं, झलि सप्तम्यन्तं, क्ङिति सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तादृशम् अङ्गं यस्य अन्ते अनुनासिकवर्णः अस्ति (वनतिं विहाय 'अनुनासिक' इति पदं सर्वेषां विशेषणम्); अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्ते स्थितस्य अनुनासिकवर्णस्य लोपः; यस्मिन् विधिस्तदादावल्ग्रहणे (१.१.७२, वार्तिकम् २९) इत्यनेन झलि क्ङिति इत्युक्तौ झलादौ क्ङिति (तादृशप्रत्ययः यस्य आदौ झल् स्यात्) | अनुवृत्ति-सहितसूत्रम्— अनुनासिक-अनुदात्तोपदेशवनतितनोत्यादीनाम् अङ्गस्य लोपः झलि क्ङिति |
अनेन आहत्य पञ्चदश धातवः निर्दिष्टाः | वन् धातुः (भ्वादिगणे), अनुनासिकान्त-अनुदात्तोपदेश-धातवः (यम्, रम्, नम्, गम्, हन्, मन्), अनुनासिकान्त-तनादि-धातवः (तनु, क्षिणु, क्षणु, ऋणु, तृणु, घृणु, वनु, मनु) | एषु धातुषु मन्-धातुः दिवादिगणे अस्ति; हन्-धातुः अदादिगणे अस्ति; अष्ट धातवः तनादिगणे सन्ति; अवशिष्टाः भ्वादौ एव | एषां धातूनाम् अन्ते स्थितस्य अनुनासिकस्य लोपो भवति झलादि-कित्ङित्-प्रत्यये परे |
जनसनखनां सञ्झलोः (६.४.४२) = जन्, सन्, खन् एषां धातूनां नकारस्य स्थाने आकारादेशो भवति झलादि-सन्-प्रत्यये परे झलादि-कित्ङित्-प्रत्यये परे च | अलोऽन्त्यस्य (१.१.५२) इत्यस्य साहाय्येन आकारादेशः पूर्णतया धातोः स्थाने न, अपि तु अन्तिमस्य नकारस्य | जनश्च सनश्च खन् च तेषामितरेतरद्वन्द्वः जनसनखनः, तेषां जनसनखनाम् | सन् च झल् च तयोरितरेतरद्वन्द्वः सञ्झलौ, तयोः सञ्झलोः | जनसनखनां षष्ठ्यन्तं, सञ्झलोः सप्तम्यन्तं, द्विपदमिदं सूत्रम् | विड्वनोरनुनासिकस्यात् (६.४.४१) इत्यस्मात् आत् इत्यस्य अनुवृत्तिः, अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति (६.४.३७) इत्यस्मात् झलि, क्ङिति इत्यनयोः अनुवृत्तिः | झलि इति अनुवृत्तिः सन् इत्यस्य विशेषणम्; अनेन यत्र सनि इडागमो भवति, तत्र सन् झलादिः नास्ति अतः नकारस्य आत्वं न भवति | सूत्रे स्थितं 'झलि' तु क्ङिति इत्यस्य विशेषणम् | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— जनसनखनाम् अङ्गानाम् आत् झलि सञ्झलोः क्ङिति |
अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) = अनुनासिकान्ताङ्गस्य उपधायाः दीर्घादेशो भवति क्वि च झलादि कित्ङित्-प्रत्यये परे | क्विश्च झल् तयोरितरेतरद्वन्द्वः क्विझलौ, तयोः क्विझलोः | क् च ङ् तयोरितरेतरद्वन्द्वः क्ङौ, तौ इतौ यस्य तत् क्ङित्, तस्मिन् क्ङिति | अनुनासिकस्य षष्ठ्यन्तं, क्विझलोः सप्तम्यन्तं, क्ङिति च सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | नोपधायाः (६.४.७) इत्यस्मात् उपधायाः इत्यस्य अनुवृत्तिः | ढ्रलोपे पूर्वस्य दीर्घोऽणः (६.३.१११) इत्यस्मात् दीर्घः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तादृशम् अङ्गं यस्य अन्ते अनुनासिकवर्णः अस्ति; यस्मिन् विधिस्तदादावल्ग्रहणे (१.१.७२, वार्तिकम् २९) इत्यनेन क्विझलोः क्ङिति इत्युक्तौ क्वि + झलादौ क्ङिति (तादृशप्रत्ययः यस्य आदौ झल् स्यात्) | अनुवृत्ति-सहितसूत्रम्— अनुनासिकस्य अङ्गस्य उपधायाः दीर्घः क्विझलोः क्ङिति |
गमहनजनखनघसां लोपः क्ङित्यनङि (६.४.९८) = अजादि-कित्ङित्-प्रत्यये परे गम्, हन्, जन्, खन्, घस् एषां धातूनाम् उपधायाः लोपो भवति (परन्तु अङ्-प्रत्ययः चेत् लोपः न भवति) | गमश्च हनश्च जनश्च खनश्च घस् च तेषामितरेतरद्वन्द्वो गमहनजनखनघसः, तेषां गमहनजनखनघसाम् | क् च ङ् च क्ङौ, क्ङौ इतौ यस्य सः क्ङित्, तस्मिन् क्ङिति | न अङ् अनङ्, तस्मिन् अनङि | गमहनजनखनघसां षष्ठ्यन्तं, लोपः प्रथमान्तं, क्ङिति सप्तम्यत्नम्, अनङि सप्तम्यतम् अनेकपदमिदं सूत्रम् | अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यस्मात् अचि इत्यस्य अनुवृत्तिः; ऊदुपधाया गोहः (६.४.८९) इत्यस्मात् उपधायाः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— गमहनजनखनघसाम् अङ्गानाम् उपधायाः लोपः अनङि अचि क्ङिति |
लोटि—
केषुचित् स्थलेषु असिद्धवदत्राभात् (६.४.२२) इत्यनेन आभीयकार्यप्रसङ्गवशात् अतो हेः (६.४.१०५) इत्यस्य दृष्ट्या पूर्वकार्यम् असिद्धम् इति कारणतः हि-प्रत्ययस्य लुक् न भवति | अस्य उदाहरणम् उपदिष्ट-हन्-धातोः प्रसङ्गे लभ्यते |
हन्तेर्जः (६.४.३६) = हि-प्रत्यये परे हन्-धातोः स्थाने ज-आदेशो भवति | हन्तेः षष्ठ्यन्तं, जः प्रथमान्तं, द्विपदमिदं सूत्रम् | ज-आदेशः अनेकाल् अतः अनेकाल्शित् सर्वस्य (१.१.५५) इत्यनेन सर्वस्य स्थाने भवति न तु अन्त्यस्य | शा हौ (६.४.३५) इत्यस्मात् हौ इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकाराः | अनुवृत्ति-सहितसूत्रम्— हन्तेः अङ्गस्य जः हौ |
अनेकाल्शित् सर्वस्य (१.१.५५) = आदेशः अनेकाल् शित् च चेत्, सर्वस्य स्थाने आदेशः भवति न तु अन्त्यस्य | अलोऽन्त्यस्य (१.१.५२) इत्यस्य अपवादः | न एकः अनेकः नञ्तत्पुरुषः | अनेकः अल् यस्य सः अनेकाल्, बहुव्रीहिः | श इत् यस्य सः शित्, बहुव्रीहिः | अनेकाल् च शित् च अनेकाल्शित्, बहुव्रीहि-गर्भ-समाहारद्वन्द्वः | अल् इति प्रत्याहारे सर्वे वर्णाः अन्तर्भूताः; अनेकाल् इत्युक्तौ तादृशः आदेशः यस्मिन् एक एव वर्णः न अपि तु अनेके वर्णाः | अनेकाल् प्रथमान्तं, शित् प्रथमान्तं, सर्वस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | स्थानेऽन्तरतमः (१.१.५०) इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— अनेकाल्शित् सर्वस्य स्थाने |
हन् + हि → ज + हि
अधुना अङ्गम् अदन्तं जातम् अतः अतो हेः (६.४.१०५) इत्यनेन हि इत्यस्य लुक् विधीयते |
अतो हेः (६.४.१०५) = ह्रस्व-अकारात् अङ्गात् परस्य हि इत्यस्य लुक् (लोपः) भवति | अतः पञ्चम्यन्तं, हेः षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | चिणो लुक् (६.४.१०४) इत्यस्मात् लुक् इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः (अत्र अङ्गात् भवति विभक्तिपरिणाम इति सिद्धान्तेन) | अनुवृत्ति-सहितसूत्रम्— अतः अङ्गात् हेः लुक् |
असिद्धवदत्राभात् (६.४.२२) = कमपि आश्रयम् अधिकृत्य आभीय-कार्यं, द्वितीयं समानाश्रितम् आभीय-कार्यं प्रति असिद्धं भवति | अधिकारसूत्रम् | भस्य (६.४.१२९) इति अधिकारसूत्रेण भ-संज्ञा सम्बद्धकार्याणि भवन्ति षष्ठाध्यायस्य अन्तपर्यन्तम् | असिद्धवदत्राभात् (६.४.२२) इत्यनेन ६.४.२३ इत्यस्मात् आरभ्य, भस्य इत्यस्य अधिकारस्य अन्तपर्यन्तम् (६.४.१७५), एषां कार्याणां नाम आभीय-कार्यम् | असिद्धवत् अव्यपदयम्, अत्र अव्यपदयम्, आ अव्यपदयं, भात् पञ्चम्यन्तम्, अनेकपदमिदं सूत्रम् | 'असिद्धवत्' इत्युक्ते 'यथा न अजनिष्यत' | सूत्रस्य विधानं जातं, कार्यञ्च सिद्धं; किन्तु अनेन सूत्रेण द्वितीयसूत्रं प्रति प्रथमस्य कार्यं 'यथा नाभविष्यत्' अतः 'असिद्धवत्' इत्युक्तम् | ‘समानाश्रितं कार्यम्' इति अर्थः उदेति 'अत्र' इति अव्ययपदेन | अस्मिन् + त्रल् → 'अत्र' | 'अस्मिन्' इत्यस्य सप्तम्यन्तत्वेन निमित्तत्वम् इति आशयः | सूत्रं स्वयं सम्पूर्णम्— असिद्धवत् अत्र आ भात् |
हन्तेर्जः (६.४.३६), अतो हेः (६.४.१०५) इत्याभ्यां यत् कार्यं सिध्यति, उभयत्र तत् कार्यं आभीयकार्यम् | द्वाभ्यां च सूत्राभ्यां यत् कार्यं विधीयते, तस्य कार्यस्य आश्रयः 'हि'-प्रत्ययः | अतः एकवारं यदा एकं हि-प्रत्ययाश्रितम् आभीयकार्यं जातं, तदा यदा द्वितीयं हि-प्रत्ययाश्रितम् आभीयकार्यं विधीयते, तत् कार्यं प्रति प्रथमम् आभीयकार्यं असिद्धं भवति |
असिद्धवदत्राभात् (६.४.२२) इत्यनेन अतो हेः (६.४.१०५) इति सूत्रस्य दृष्ट्या हन्तेर्जः (६.४.३६) इति सूत्रेण यत् कार्यं जातं, तत् कार्यम् असिद्धम् अस्ति अतः अतो हेः (६.४.१०५) इत्यस्य दृष्ट्या हन्-धातोः स्थाने ज-आदेशः न जातः | तस्मात् अङ्गम् अदन्तं नास्ति, अतः अतो हेः (६.४.१०५) इत्यनेन हि इत्यस्य लुक् न भवति |
हन् + हि → ज + हि → जहि
अनेन सर्वेषां यङ्लुगन्तधातूनां सार्वधातुकलकारेषु तिङन्तचिन्तनं परिसमाप्तम् |
Swarup - August 2018
०८_-_यङ्लुगन्तधातूनां_सार्वधातुकलकारेषु_तिङन्तरूपाणि.pdf (file size: 111 KB)