07 - भूतले समवायसम्बन्धेन घटो नास्ति

From Samskrita Vyakaranam
10---nyAyashAstram/07---bhUtale-samavAyasambandhena-ghaTo-nAsti
Jump to navigation Jump to search


प्रतिपक्षी— "भूतले समवायसम्बन्धेन घटो नास्ति" इति कथनप्रसङ्गे प्रश्नः | भूतले घटः अस्ति संयोगसम्बन्धेन न तु समवायसम्बन्धेन | तर्हि अस्य वाक्यस्य अर्थः कः, मूल्यं च किम्‌ ? समवायसम्बन्धेन, भूतले घटः न कदापि भवति |


सिद्धान्ती—

अवयवावयविनोः समवायसम्बन्धः भवति | घटः अवयवी; तस्य अवयवः अस्ति कपालः | तयोः कः सम्बन्धः ? समवायः | इत्थञ्च घटः समवायसम्बन्धेन कुत्र अस्ति ? कपाले | भूतले तु नास्ति | तर्हि समवायसम्बन्धावच्छिन-घटत्वावच्छिन-प्रतियोगिताक-घटाभावः भूतले भवति | कुत्र नास्ति ? कपाले |



प्रतिपक्षी— अधुना कस्मिं`श्चित्‌ भूतले एकः घटः अस्ति | मम पुरतः अस्ति घटः, स च घटः संयोगसम्बन्धेन भूतले | शारीरिकरूपेण भूतले घटं पश्यामि | घटः भूतले सत्यपि समवायेन तु नास्ति अपि तु संयोगसम्बन्धेन | अतः घटः भूतले नास्ति समवायसम्बन्धेन इति तु वाक्यं सत्यं किन्तु निरर्थकम्‌ अस्ति यतोहि घटः भूतले अस्त्येव | तर्हि अस्य कथनेन लाभः कः ? वस्तुतः अभावः नास्ति | घटः संयोगसम्बन्धेन भूतले अस्ति एव | पश्यामि घटम्‌ | तर्हि वाक्यं "भूतले समवायसम्बन्धेन घटः नास्ति" इति तु सत्यं, किन्तु घटः तु भूतले अस्ति एव | केवलं समवायसम्बन्धेन वक्तुं न शक्यते यतोहि संयोगसम्बन्धेन अस्ति न तु समवायसम्बन्धेन | अपि सर्वोपरि अस्ति इदं तथ्यं यत्‌ अभावः नास्ति— घटः शारीरिकरूपेण अस्ति भूतले |


सिद्धान्ती— इदानीं यदुक्तं भवता, घटः अस्ति, घटाभावः नास्ति | किन्तु अस्मिन्‌ प्रसङ्गे किञ्चित्‌ चिन्तनीयं भवति | यतोहि समवायसम्बन्धेन घटः भूतले नास्ति इति वाक्यं तु सत्यमेव | सत्यम्‌ इत्युक्तौ कथम्‌ उत्पादनीयम्‌ ? तत्‌ वाक्यम्‌ सत्यम्‌ इति चेत्‌, विस्तरेण कथं वक्तव्यम्‌ अस्माभिः येन वार्ता स्पष्टं स्यात्‌ ?


भूतले संयोगसम्बन्धावच्छिन्नप्रतियोगिताकघटाभावः नास्ति; समवायसम्बन्धावच्छिनप्रतियोगिताकघटाभावः अस्ति | अतः तत्‌ वाक्यं सत्यं; ज्ञानस्य सत्यत्व-प्रतिपादनार्थम्‌ एवं विवरणाम्‌ उचितम्‌ एव |


यथा चैत्रः धनवान्‌ | धनं वित्तकोषे अस्ति | चैत्रस्य हस्ते न, अतः संयोगसम्बन्धेन धनं नास्ति | संयोगसम्बन्धावच्छिन्नप्रतियोगिताकधनाभावः सत्वेऽपि, स्वस्वामित्वसम्बन्धावच्छिन्नप्रतियोगिताकधनाभावः नास्ति | चैत्रः तस्य धनस्य स्वामी अस्ति अतः एतत्‌ वाक्यं सत्यम्‌ अस्ति | एवं रीत्या ज्ञानप्रमाणनिरूपणार्थं विवरणं दातव्यं भवति |


प्रकृतौ यद्यपि घटः भूतले अस्ति संयोगसम्बन्धेन, समवायसम्बन्धावच्छिनप्रतियोगिताकघटाभावः अस्ति | प्रतियोगिभेदेन अभावः भिन्नः भवति | प्रतियोगितावच्छेदकसम्बन्धभेदेन, प्रतियोगितावच्छेदकधर्मभेदेन अभावः भिन्नः भवति |


यथा भूतले संयोगसम्बन्धेन द्रव्यं नास्ति | अत्र प्रतियोगितावच्छेदकधर्मः द्रव्यत्वम्‌ | अन्यत्र भूतले पटो नास्ति | प्रतियोगितावच्छेदकधर्मः पटत्वम्‌ | यत्र पटो नास्ति इति कथयामः, तत्रैव घटः अस्ति चेत्‌, संयोगसम्बन्धेन द्रव्यं नास्ति इति वक्तुं न शक्नुमः, यतोहि पटः नास्ति किन्तु घटस्तु अस्ति | अतः द्रव्यत्वावच्छिन्नप्रतियोगितकः अभावः नास्ति; केवलं पटत्वावच्छिन्नप्रतियोगितक-अभावः अस्ति | एवं च प्रतियोगितावच्छेदकभेदेन अभावः भिन्नः | प्रतियोगितावच्छेदकसम्बन्धभिन्नत्वेनापि अभावः भिन्नः भवति | तथैव धनसम्बन्धे संयोगसम्बन्धावच्छिन्नप्रतियोगिताकधनाभावः सत्वेऽपि, स्वस्वामित्वसम्बन्धावच्छिन्नप्रतियोगिताकधनाभावः नास्ति | इत्थञ्च अभावाः नानाः भवन्ति |


एवं रीत्या भूतले समवायेन घटो नास्ति, कपाले संयोगेन घटो नास्ति, कपाले विषयितासम्बन्धेन घटो नास्ति इति तिसृषु स्थितिषु तिस्रः पृथक्‌ प्रतियोगिताः, त्रयश्च पृथक्‌ अभावाः |


[सन्दर्भः— विद्याधरी, सप्तचत्वारिंशत्तमे पृष्ठे |]


Swarup - December 2015

---------------------------------

.


०७ - भूतले समवायसम्बन्धेन घटो नास्ति.pdf