4 - केषु गणेषु गुणः सम्भवति धात्वङ्गे ?

From Samskrita Vyakaranam
02A----dhAtugaNAH---sUtra-sahita-dRuShTiH/4---keShu-gaNeShu-guNaH-sambhavati-dhAtvaGge
Jump to navigation Jump to search
ध्वनिमुद्रणम्‌
१) keShu-gaNeShu-guNaH-sambhavati-dhAtvange_2015-12-30


एतावता अस्माभिः दृष्टं यत्‌ भ्वादिगणे चुरादिगणे च गुणकार्यं सम्भवति यथासङ्गम्‌ | तुदादिगणे गुणः नार्हः इत्यपि दृष्टम्‌ | अपरेषु गणेषु का गतिः ? तेषु गुणः अर्हः चेत्‌ किमर्थं; नार्हः चेत्‌ किमर्थमित्यपि प्रश्नः उदेति | तत्र स्थितिः कीदृशी इति अवलोकयाम | नाम आहत्य सर्वदशगणान्‌ मनसि निधाय किं वक्तुं शक्येत ?


१. प्रथमतया "गुणः सम्भवति न वा" इत्यनेन "धातौ गुणः सम्भवति न वा" इति अत्र आशयः | तिङन्तपदे भागत्रयं वर्तते— धातुः, विकरणप्रत्ययः, तिङ्‌-प्रत्ययः च | केषुचित्‌ गणेषु विकरणप्रत्यये अपि गुणः सम्भवति (शक्नु → शक्नोति); इदम् अग्रे, अपरस्मिन्‌ पाठे परिशीलयाम | अधुना केवलं धात्वङ्गे गुणः कुत्र-कुत्र सम्भवति इति प्रश्नः |


२. सूत्रद्वयेन एव गुणः सिद्धः इति पूर्वमेव ज्ञातम्‌ अस्माभिः— सार्वधातुकार्धधातुकयोः, पुगन्तलघूपधस्य च इति | अनुवृत्ति-सहितसूत्रे द्वयोः अपि 'सार्वधातुकार्धधातुकयोः' इति पदम्‌ आगच्छति |


सार्वधातुकार्धधातुकयोः (७.३.८४) इति सूत्रस्य तात्पर्यं— सार्वधातुकार्धधातुकयोः परयोः इगन्तस्य अङ्गस्य इकः गुणः स्यात्‌ |

पुगन्तलघूपधस्य च (७.३.८६) इति सूत्रस्य तात्पर्यं— सार्वधातुकार्धधातुकयोः परयोः पुगन्तस्य लघूपधस्य च अङ्गस्य इकः गुणः स्यात्‌ |


तर्हि द्वयोः सूत्रयोः 'सार्वधातुकार्धधातुकयोः' इति पदं भवति | नाम अङ्गम्‌ इगन्तं चेदपि, अङ्गस्य उपधायां ह्रस्व-इक्‌-वर्णः चेदपि गुणः तदा सम्भवति यदा सार्वधातुकप्रत्ययः वा आर्धधातुकप्रत्ययः वा परे अस्ति | अतः सार्वधातुकसंज्ञा आर्धधातुकसंज्ञा इति संज्ञाद्वयं सम्यक्तया अवगन्तव्यम्‌ | इदं संज्ञाद्वयं सम्प्रति पश्याम |


३. सार्वधातुकसंज्ञा का इति पूर्वमेव दृष्टम्‌ | तिङ्‌शित्‌ सार्वधातुकम्‌ (३.४.११३) इति सूत्रेण यः प्रत्ययः तिङ्‌ वा शित्‌ वा अस्ति, तस्य प्रत्ययस्य सार्वधातुकसंज्ञा भवति | भवति-भवतः-भवन्ति इत्यादिषु रूपेषु -ति, -तः, -अन्ति इति तिङ्‌-प्रत्ययाः | यस्मिन्‌ प्रत्यये शकारः इत्‌-संज्ञकवर्णः अस्ति, सः शित्‌ |


आर्धधातुकसंज्ञा का इति एतावता न उक्तम्‌ | वस्तुतः अतिसरलम्‌ अस्ति— सूत्रं आर्धधातुकं शेषः(३.४.११४) | धातुभ्यः ये प्रत्ययाः विहिताः, तेषां सर्वेषां प्रत्ययानां सार्वधातुकसंज्ञा‌ अथवा आर्धधातुकसंज्ञा भवति | अतः ये ये प्रत्ययाः धातोः परे सन्ति, ते सार्वधातुकसंज्ञकाः न सन्ति चेत्‌, अवश्यम्‌ आर्धधातुकसंज्ञकाः सन्ति एव | आर्धधातुकं शेषः(३.४.११४) इति सूत्रेण अयमेव सन्देशः— धातोः अनन्तरं यः प्रत्ययः सः सार्वधातुकम् नास्ति चेत्‌, आर्धधातुकः‌ अस्ति एव |


४. विकरणप्रत्ययाः धातोः परे सन्ति, अतः सर्वे विकरणप्रत्ययाः सार्वधातुकसंज्ञकाः अथवा आर्धधातुकसंज्ञकाः |


धातुगणम्‌ अनुसृत्य विकरणप्रत्ययाः—


१. भ्वादिगणे शप्‌

२. अदादिगणे नास्ति (शपः लुक्‌, नाम लोपः)

३. जुहोत्यादिगणे नास्ति (शपः श्लु, नाम लोपः)

४. दिवादिगणे श्यन्‌

५. स्वादिगणे श्नु

६. तुदादिगणे श

७. रुधादिगणे श्नम्‌

८. तनादिगणे उ

९. क्र्यादिगणे श्ना

१०. चुरादिगणे शप्‌


अधुना, प्रत्येकं विकरणप्रत्ययः कीदृशः इति परिशीलयाम |


- यत्र यत्र प्रत्यये इत्‌-संज्ञकः शकारः वर्तते, तत्र तत्र सार्वधातुकसंज्ञा भवति | किमर्थम्‌ इति चेत्‌, तिङ्‌शित्‌ सार्वधातुकम्‌ (३.४.११३) इति सूत्रेण यः प्रत्ययः शित्‌, तस्य सार्वधातुकसंज्ञा भवति |

- यः विकरणप्रत्ययः सार्वधातुक-संज्ञकः नास्ति, सः आर्धधातुक-संज्ञकः अस्ति एव |


अग्रे पठनात्‌ पूर्वं, एकैकस्य विकरणप्रत्ययस्य स्वभावः कः इति उच्चार्यताम्‌ | (सार्वधातुक-संज्ञकः वा आर्धधातुक-संज्ञकः वा इति)


५. उत्तरम्‌

सार्वधातुक-संज्ञक-विकरणप्रत्ययाः = शप्‌, श्यन्‌, श्नु, श, श्नम्‌, श्ना

आर्धधातुक-संज्ञक-विकरणप्रत्ययाः = उ


६. शित्त्वात्‌ सार्वधातुकसंज्ञकः प्रत्ययः अस्ति चेत्‌, सार्वधातुकार्धधातुकयोः, पुगन्तलघूपधस्य च इति सूत्राभ्यां गुणकार्यस्य प्रसक्तिः अस्ति इति ज्ञातम्‌ | किन्तु गतपाठे अस्माभिः दृष्टं यत्‌ सार्वधातुकमपित्‌ (१.२.४) इत्यनेन सूत्रेण यः प्रत्ययः अपित्‌, सः ङिद्वत्‌ | तथा च क्क्ङिति च (१.१.५) इति गुण-बाधक-सूत्रेण यः ङित्‌ (अथवा ङित्‌ इव) अस्ति, तस्य गुणकार्यं बाधितम्‌ | अतः येषु सार्वधातुकप्रत्ययेषु इत्‌-संज्ञक-पकारस्य अभावः, तैः प्रत्ययैः गुणकार्यस्य प्राप्तिः न भवति | श्यन्‌, श्नु, श, श्नम्‌, श्ना इति प्रत्ययाः शितः तु सन्ति अतः शित्त्वात्‌ गुणकार्यस्य प्रसक्तिरस्ति, परन्तु पित्त्वस्य अभावात्‌ न गुणः | तर्हि दिवादिगणे, स्वादिगणे, तुदादिगणे, रुधादिगणे, क्र्यादिगणे च गुणकार्यस्य प्रसक्तिः आसीत्‌, किन्तु अपित्त्वात्‌ बाधितम्‌ |


सारांशः एवम्‌— सार्वधातुकसंज्ञक-विकरणप्रत्ययं निमित्तीकृत्य, भ्वादिगणे चुरादिगणे चैव गुणकार्यं सम्भवति |


आर्धधातुक-विकरणप्रत्ययाः के ? केवलम्‌ उ | स च कस्य गणस्य विकरणप्रत्ययः ? तनादिगणस्य | सार्वधातुकार्धधातुकयोः इत्यनेन सूत्रेण यत्र आर्धधातुकप्रत्ययः अस्ति, तत्र गुणः विहितः | अत्रापि क्क्ङिति च (१.१.५) इत्यनेन गित्त्वात्‌, कित्त्वात्‌, ङित्त्वात्‌ च गुणकार्यं बाध्यते; अतः गित्‌, कित्‌, ङित्‌ च नास्ति चेत्‌ बाधा नास्ति | आर्धधातुकप्रत्ययस्य प्रसङ्गे सार्वधातुकमपित्‌ (१.२.४) इति सूत्रस्य प्रसङ्गः नास्त्येव, अतः अपित्त्वात्‌ न बाधा | तनादिगणे उ इति विकरणप्रत्ययः; गित्‌, कित्‌, ङित्‌ च नास्ति अतः अत्रापि गुणः अर्हः | यथा— कृ + उ → कर्‌ + उ → करु → करु + ति → करोति |


७. तर्हि भ्वादौ, तनादौ, चुरादौ च धात्वङ्गे गुणः अर्हः | दिवादिगणे, स्वादिगणे, तुदादिगणे, रुधादिगणे, क्र्यादिगणे च धात्वङ्गे गुणकार्यस्य प्रसक्तिः आसीत्‌, किन्तु अपित्त्वात्‌ बाधितम्‌ |


अधुना अदादिगणे जुहोत्यादिगणे च ? तयोः का गतिः ? तयोः विकरणप्रत्ययः नास्ति | अत्र अङ्गं नाम किमिति स्मर्यताम्‌ | अङ्गसिद्धान्तम्‌ अनुसृत्य प्रत्ययात्‌ प्राक्‌ यावत्‌ अस्ति, तत्‌ सर्वम्‌ अङ्गम्‌ इति उच्यते | अङ्गं नाम प्रत्ययस्य कार्यक्षेत्रम्‌ | १,४,५,६,७,८,९,१० इत्येषु गणेषु तिङ्‌-प्रत्ययान् निमित्तीकृत्य अङ्गम्‌ (कार्यक्षेत्रम्‌) अस्ति धातुः + विकरणप्रत्ययः (चुरादिगणे धातुः + णिच्‌ + विकरणप्रत्ययः) | किन्तु अदादिगणे जुहोत्यादिगणे च गणयोः तिङ्‌-प्रत्ययानाम्‌ अङ्गम्‌ (कार्यक्षेत्रम्‌) अस्ति धातुः एव |


भवति-भवतः-भवन्ति इत्येषु रूपेषु -ति, -तः, -अन्ति इति तिङ्‌प्रत्ययाः इत्युक्तम्‌ | तेषां प्रत्ययानां मूलरूपाणि एवम्‌— तिप्‌, तस्‌, झि | तिप्‌ इत्यस्मिन्‌ पकार‌स्य इत्‌-संज्ञां कृत्वा लोपं कृत्वा 'ति' इति शेषः | तथा अन्येषामपि तिङ्‌-प्रत्ययानाम्‌ अनुबन्ध-लोपानन्तरं सिद्ध-रूपाणि सन्ति |


एवं च मूल-परस्मैपदिधातूनां तिङ्‌ प्रत्ययाः—


ए.व. द्वि.व. ब.व.
प्र.पु. तिप्‌  तस्‌  झि
म.पु. सिप्‌ थस्‌
उ.पु. मिप्‌ वस्‌ मस्‌


एते सर्वे तिङः, अतः तिङ्‌शित्‌ सार्वधातुकम्‌ (३.४.११३) इत्यनेन सूत्रेण सार्वधातुकसंज्ञकाः | एकवचने तिप्‌, सिप्‌, मिप्‌ इत्येते प्रत्ययाः पितः‌, अतः तत्र गुणः विहितः | द्विवचने बहुवचने च तिङ्‌प्रत्ययः सर्वत्र अपित्‌ इति कारणतः सार्वधातुकमपित्, क्क्ङिति च‌ इत्याभ्यां सूत्राभ्याम्‌ अङ्गे गुणः नार्हः |


यथा— अदादिगणे इ-धातुः गतौ, इ + तिप्‌, सार्वधातुकार्धधातुकयोः इत्यनेन सूत्रेण इगन्ताङ्गस्य इकः गुणः, एति इति रूपं सिद्धम्‌ | किन्तु द्विवचने तस्‌ इति तिङ्‌-प्रत्ययः अपित्‌ अतः गुण-निषेधः, इ + तः → इतः इति रूपम्‌ |


विस्तरेण प्रदर्श्यते चेत्—


इ + तस्‌ → सकारस्य रुत्वविसर्गौ 'तः' इति सिद्धप्रत्ययः → इ + तः → तः इति तिङ्‌-प्रत्ययः सार्वधातुकसंज्ञकः अतः सार्वधातुकार्धधातुकयोः (७.३.८४) इति सूत्रेण गुणस्य प्रसक्तिः → तः-प्रत्ययस्य अपित्त्वात्‌ सार्वधातुकमपित्‌ (१.२.४) इत्यनेन तः ङिद्वत्‌; क्क्ङिति च (१.१.५) इत्यनेन ङिद्वत्त्वात्‌ गुणनिषेधः → इ + तः → इतः इति रूपं निष्पन्नम्‌ |


तथैव अदादिगणे रुद्‌-धातुः, रुद्‌ + तिप्‌, पुगन्तलघूपधस्य च इत्यनेन सूत्रेण एकवचने उपधायाम्‌ इकः गुणः, रोदिति इति सिद्धम्‌ | किन्तु द्विवचने तस्‌ इति तिङ्‌-प्रत्ययः अपित्‌ अतः गुण-निषेधः, रुद्‌ + तः → रुदितः इति रूपम्‌ | जुहोत्यादिगणे अपि तथा— हु-धातोः द्वित्वं कृत्वा जुहु इति अङ्गं; जुहु + ति → गुणकार्यं → जुहोति इति रूपं निष्पन्नम्‌ | परन्तु द्विवचने जुहु + तस्‌ → जुहुतः; अपित्त्वात्‌ गुणाभावः |


८. सारांशः कः इति चेत्‌, १,२,३,८,१० इत्येषु गणेषु धात्वङ्गे गुणः सम्भवः; ४,५,६,७,९ इत्येषु गणेषु धात्वङ्गे गुणः नार्हः |


धात्वङ्गे गुणः सम्भवः

भ्वादिगणः

अदादिगणः

जुहोत्यादिगणः

तनादिगणः

चुरादिगणः

धात्वङ्गे गुणः असम्भवः

दिवादिगणः

स्वादिगणः

तुदादिगणः

रुधादिगणः

क्र्यादिगणः


९. अभ्यासः | एषां धातूनां लट्‌-लकारस्य प्रथमपुरुषैकवचनान्तं रूपंं निर्मातु | गुणकार्यं भवति चेत्‌, केन सूत्रेण; सन्धिकार्यं भवति चेत्‌, केन सूत्रेण इति वक्तव्यम्‌ |


भ्वादौ - ध्रु, नख्‌, चुप्‌, क्षि, पिठ्‌, कुच्‌, श्रि, गै, तॄ
अदादौ - वी, इ
जुहोत्यादौ - भृ → बिभृ → बिभर्ति, ह्री → जिह्री → जिह्रेति, भी → बिभी → बिभेति
दिवादौ - तप्‌, लुभ्‌, दस्‌, स्विद्‌, खिद्
तुदादौ - क्षिप्‌, कृष्‌, गुज्‌, मिल्‌, सृज्‌, स्पृश्‌, इल्
चुरादौ - मुच्‌, तिज्‌, वर्ध्


इति गुणस्य परिचयः | अग्रे सार्वधातुकप्रकरणम्‌ इत्यस्मिन्‌ पाठे, इतोऽपि विस्तरेण वक्ष्यते |



4 - keShu gaNeShu guNaH sambhavati dhAtvaGge.pdf


Swarup – August 2012 (updated December 2015)



परिशिष्टम्‌

अत्र वंशी सुधा भगिनी अतीव सुन्दररीत्या, सूत्रसहितदृष्ट्या गुणकार्याणि चित्रत्वेन निरूपितवती—