02C - अव्ययीभावसमासः सारांशः

From Samskrita Vyakaranam
14---samAsaH/02C---avyayiibhAvasamAsaH-sArAmshaH
Jump to navigation Jump to search



पञ्च उपाङ्गनि —

१) प्रातिपदिकसंज्ञा

समासस्य अलौकिकविग्रहात् समासप्रक्रिया आरभ्यते | समासस्य प्रातिपदिकसंज्ञा विधीयते कृत्तद्धितसमासाश्च (१.२.४६) इति सूत्रेण | प्रातिपदिकसंज्ञानन्तरं पूर्वोत्तरपदयोः विभक्तिप्रत्ययस्य लोपः क्रियते सुपो धातुप्रातिपदिकयोः (२.४.७१) इति सूत्रेण |

२) पूर्वनिपातः

प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति संज्ञासूत्रेण समासविधायकसूत्रे यत् पदं प्रथमा-विभक्तौ निर्दिष्टम् अस्ति तस्य उपसर्जनसंज्ञा भवति  | यस्य पदस्य उपसर्जनसंज्ञा भवति तत् पदं पूर्वं तिष्ठति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण |

३) लिङ्गवचनयोः निर्णयः

समासस्य लिङ्गस्य, वचनस्य च निर्णयः |

४) समासान्तप्रत्ययाः

समासप्रक्रियायां कुत्रचित् समासान्तप्रत्ययः विधीयते इति स्मर्तव्यम् | अष्टाध्याय्यां समासान्ताधिकारः (५.४.६८) इत्यस्मात् सूत्रात् आरभ्य (५.४.१६०) इति सूत्रपर्यन्तम् अस्ति |

५) उत्तरपदाधिकारः

कुत्रचित् उत्तरपदे इति अधिकारे स्थितस्य सूत्रस्य प्रभावेण पूर्वपदे किञ्चित् कार्यं भवति | अष्टाध्याय्याम् उत्तरपदाधिकारः ( ६.३.१) इत्यस्मात् सूत्रात् आरभ्य ( ६.३.१३९) इति सूत्रपर्यन्तम् अस्ति | यथा विश्वमित्रः इति समासे पूर्वपदस्य स्वरस्य दीर्घत्वं भूत्वा विश्वामित्रः इति भवति  | कुत्रचित् किञ्चित् उत्तरपदे परे पूर्वपदस्य विभक्तेः अलुक् अपि भवति | एतादृशकार्याणि उत्तरपदाधिकारे लभ्यन्ते |


अव्ययीभावासमासः

अव्ययीभावसमासे पूर्वपदम् अव्ययम्, उत्तरपदं च सुबन्तं पदं भवति | अनव्ययम् अव्ययं सम्पद्यते इति अव्ययीभावः | अव्ययीभावसमासे प्रायेण पूर्वपदार्थस्य प्राधान्यम् अस्ति  | यथा- उपवृक्षम् इति अव्ययीभावसमासः, तस्य विग्रहवाक्यम् अस्ति वृक्षस्य समीपम् इति | उपवृक्षम् इति समासस्य अव्ययसंज्ञा भवति अव्ययीभावश्च (१.१.४१) इति सूत्रेण | अव्ययीभावसमासः नपुंसकलिङ्गे भवति  | उपवृक्षम् इति अव्ययं, नपुंसकलिङ्गे अस्ति |


अव्ययीभावः (२.१.५)

अधिकारसूत्रम् इदम्   | नाम अस्मिन् अधिकारे यत् उच्यते तत् सर्वम् अव्ययीभावसमासः भवति | अव्ययीभाव-समास-सम्बद्धसूत्राणि (२.१.६) इत्यस्मात् सूत्रात् आरभ्य (२.१.२१) इति सूत्रपर्यन्तं सन्ति |   सूत्रं स्वयं सम्पूर्णम्  |


अव्ययीभावश्च (१.१.४१)

अव्ययीभावसमासेन निर्मितस्य शब्दस्य "अव्ययम्" इति संज्ञा भवति | अनुवृत्ति-सहित-सूत्रं— अव्ययीभावः च अव्ययम् |


अव्ययम्  —

अव्ययस्य लक्षणं कौमुद्यां दीयते यत् -

सदृशं त्रिषु लिङ्गेषु, सर्वासु च विभक्तिषु |

वचनेषु च सर्वेषु यन्न व्येति (परिवर्तते) तत् अव्ययम् ॥ इति


व्याकरणे केषाञ्चन शब्दानाम् अव्ययसंज्ञा भवति | तेभ्यः यदा सुप्प्रत्ययाः विधीयन्ते तदा तेषां सुप्प्रत्ययानां लुक् (लोपः) भवति अव्ययादाप्सुपः (२.४.८२) इति सूत्रेण | सुबन्तानां तिङन्तानां च पदसंज्ञा भवति सुप्तिङन्तं पदम्‌ (१.४.१४) इति सूत्रेण | अव्ययानाम् अपि पदसंज्ञा भवति सुप्प्रत्ययस्य विधानेन | यद्यपि सुप्प्रत्ययाः लुप्यन्ते तथापि प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) इत्यनेन प्रत्ययस्य लोपानान्तरम् अपि प्रत्ययस्य लक्षणं तिष्ठति इत्यतः पदसंज्ञा अस्त्येव  |


अव्ययीभावश्च (२.४.१८) = अव्ययीभावसमासः नपुंसकलिङ्गे भवति | अनुवृत्ति-सहित-सूत्रम् — अव्ययीभावः च नपुंसकम् |


वस्तुतस्तु अव्ययीभावश्च इति सूत्रं स्थलद्वये वर्तते | अव्ययीभावश्च (१.१.४१) इति एकं सूत्रं तु अव्ययप्रकरणे प्रथमाध्याये अस्ति यत्र अव्ययसंज्ञा क्रियते | अव्ययीभावश्च (२.४.१८) इति अपरसूत्रं द्वितीयाध्याये अस्ति यत्र अव्ययीभावसमासस्य नपुंसकलिङ्गविधानं क्रियते |


अव्ययीभावसमासे समासान्तप्रत्ययाः

अव्ययीभावसमासे यत्र समासान्तप्रत्ययः विधीयते तत्र टच् इति प्रत्ययः एव विधीयते | कुत्रचित् नित्यरूपेण विधीयते, कुत्रचित् विकल्पेन विधीयते | टच् इति प्रत्ययस्य विधानेन प्रक्रियायाम् अव्ययीभावसमासः अदन्तः भवति येन नाव्ययीभावादतोऽम्त्वपञ्चम्याः ( २.४.८३) इत्यनेन सुप्प्रत्ययस्य स्थाने अमादेशः सिद्ध्यति |

सूत्रक्रमाङ्कः सूत्रं प्रत्ययविधानम् उपप्रकरणम्
५.४.१०७ अव्ययीभावे शरत्प्रभृतिभ्यः टच् अव्ययीभावसमासः
५.४.१०८ अनश्च टच् अव्ययीभावसमासः
५.४.१०९ नपुंसकादन्यतरस्याम् वैकल्पिकः टच् अव्ययीभावसमासः
५.४.११० नदीपौर्णमास्याग्रहायणीभ्यः वैकल्पिकः टच् अव्ययीभावसमासः
५.४.१११ झयः वैकल्पिकः टच् अव्ययीभावसमासः
५.४.११२ गिरेश्च सेनकस्य वैकल्पिकः टच् अव्ययीभावसमासः

विभाषा (२.१.११) इति सूत्रस्य अधिकारे यानि सूत्राणि पठितानि तानि सर्वाणि विकल्पेन विधीयन्ते | समासः विकल्पेन विधीयते इति सामान्यः नियमः परन्तु कुत्रचित् विभाषा (२.१.११) इत्यस्य अधिकारः चेत् अपि  समासः नित्यरूपेण विधीयते | यत्र समासः नित्यः तत्र विभाषा (२.१.११) इति सूत्रस्य प्रसक्तिः न भवति | विभाषा (२.१.११) इत्यस्मात् सूत्रात् प्राक् यानि समासविधायकसूत्राणि सन्ति तत्र सर्वत्र समासः नित्यः भवति | अव्ययीभावाधिकारे (२.१.५) इत्यस्मात् सूत्रात् आरभ्य (२.१.१०) इति सूत्रपर्यन्तं षट् सूत्राणि सन्ति यत्र विभाषा (२.१.११) इत्यस्य अधिकारः नास्ति, अत एव तत्र सर्वत्र समासः विकल्पेन न भवति अपि तु नित्यरूपेण भवति |

अव्ययीभावसमास-सम्बद्ध-मुख्यसूत्राणि

१) ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७)

नपुंसकलिङ्गे अजन्तस्य प्रातिपदिकस्य ह्रस्वत्वं स्यात् | अनुवृत्ति-सहितसूत्रम्‌— नपुंसकलिङ्गे अचः प्रातिपदिकस्य ह्रस्वः |


२)नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३)

अदन्तात् अव्ययीभावात्  सुप् प्रत्ययस्य लुक् न भवति, अपि तु पञ्चमीविभक्तिं विहाय अन्यासु विभक्तिषु सुप्प्रत्ययस्य स्थाने अमादेशः विधीयते | अस्मिन् सूत्रे निषेधः इति भागः अपि अस्ति येन सुपः लुक् निषिध्यते, विधिः इति भागः अपि अस्ति येन अमादेशः विधीयते, परन्तु पञ्चमीं विहाय | अनुवृत्ति-सहितसूत्रम्‌—अव्ययीभावाद् अतः तु न सुपः लुक् अपञ्चम्याः अम् |


३)तृतीयासप्तम्योर्बहुलम्‌ (२.४.८४)

अदन्तात् अव्ययीभावात् तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति | बहुलम् इत्युक्ते बहून् अर्थान् लाति( गृह्णाति) इति बहुलम् | अत्र बहुलम् इति शब्दस्य प्रयोगेण कुत्रचित् विकल्पेन अम्-आदेशः भवति, कुत्रचित् अम् आदेशः नित्यः भवति | कुत्र विकल्पेन, कुत्र नित्यः इति निर्णयः प्रयोगं दृष्ट्वा करणीयः | सामान्यतया विकल्पेन इति स्वीकर्तुं शक्यते | यदि विकल्पार्थः इष्टः तर्हि विकल्पः अथवा वा इति शब्दस्य प्रयोगः भवति परन्तु अत्र बहुलम् इत्यनेन विशिष्टार्थः बुध्यते | अनुवृत्ति-सहितसूत्रम्‌— तृतीयासप्तम्योः अव्ययीभावाद् अतः अम् बहुलम् |


४) अमि पूर्वः (६.१.१०५)

अक् वर्णात् अम्-सम्बन्धि-अच् परः चेत् पूर्वपरयोः स्थाने पूर्वरूपम् एकादेशो भवति | अमि सप्तम्यन्तं, पूर्वः प्रथमान्तं, द्विपदमिदं सूत्रम् | अनुवृत्ति सहितसूत्रम् — अकः अमि अचि पूर्वपरयोः एकः पूर्वः संहितायाम् |


५) प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३)

समासशास्त्रे प्रथमानिर्दिष्टम् उपसर्जनसंज्ञकं स्यात् | समासविधायकसूत्रे यत् पदं प्रथमा-विभक्तौ निर्दिष्टम् अस्ति, तत् पदम् उपसर्जन-संज्ञकं स्यात् | समासशास्त्रे इत्यनेन समासविधायकसूत्रं, वार्तिकं वा स्यात् | इदं संज्ञा-सूत्रम् अस्ति | अनुवृत्ति-सहित-सूत्रम्‌ — प्रथमानिर्दिष्टं समास उपसर्जनम् |


५) उपसर्जनं पूर्वम्‌ (२.२.३०)

समासे उपसर्जनसंज्ञकः पूर्वं प्रयोक्तव्यः | अनेन सूत्रेण यत् कार्यं भवति तस्य नाम पूर्वनिपातः अथवा पूर्वप्रयोगः इति कथ्यते |

सम्प्रति अष्टाध्यायीक्रमेण अव्ययीभाव-समास-सूत्राणि पठिष्यामः-

1) अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  ( २.१.६)  

विभक्ति - समीप - समृद्धि - व्यृद्धि (ऋद्धेः अभावः) - अर्थाभाव - अत्यय (नाशनम्) - असम्प्रति (अयोग्यं) - शब्दप्रादुर्भाव (शब्दस्य प्रसिद्धिः) - पश्चाद् - यथा (योग्यता, वीप्सा, पदार्थानतिवृत्ति अपि च सादृश्यम्) - आनुपूर्व्य (क्रमशः) - यौगपद्य (एकत्र भवनं) - सादृश्य  - सम्पत्ति - साकल्य (सम्पूर्णता) - अन्तवचनेषु (समाप्तिः) इत्यस्मिन् अर्थे विद्यमानस्य अव्ययस्य समर्थेन सुबन्तेन सह नित्यसमासः भवति, अव्ययीभावश्च समासः भवति | अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि-अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु | अनुवृत्ति-सहित-सूत्रम्‌—अव्ययं सुप् सुपा सह विभक्ति-समीप-समृद्धि-व्यृद्धि-अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु अव्ययीभावः समासः |

अस्मिन् सूत्रे अव्ययस्य षोडश अर्थाः दृश्यन्ते | अव्ययानाम् इतोऽपि अधिकाः अर्थाः अपि भवितुम् अर्हन्ति इति उक्तमेव | अधुना एते अर्थाः दृश्यन्ते –
i)  सूत्रे विभक्त्यर्थे अव्ययम् –

अस्मिन् सूत्रे विभक्त्यर्थे वर्तमानम् अव्ययं सुबन्तेन सह समस्यते, सोऽव्ययीभावः | विभक्त्यर्थः नाम कारकम् इति अर्थः | कारकेषु अपि अधिकरणकारकमेव अत्र इष्यते |  विभक्त्यर्थे अधि,अन्तर् इति अव्ययं समस्यते | अधि इति अव्ययं सप्तम्यर्थे अस्ति | सप्तमीविभक्तेः अधिकरणम् इति अर्थः अस्ति | अस्य उदाहरणम् अस्ति अधिहरि | यथा – हरौ इति = अधिहरि | नाम हरेः विषये इति | वयम् अधिहरि वसामः | शिवः अधिकैलासं वसति

अधिहरि ( उत्तरपदम अनदन्तं चेत्)
अलौकिकविग्रहवाक्यम् -

हरि + ङि + अधि समाससंज्ञा भवति प्राक्कडारात्समासः (२.१.३) इति सूत्रेण | अव्ययीभावः (२.१.५) इत्यनेन सूत्रेण समस्तपदस्य अव्ययीभावसमाससंज्ञा भवति | अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  (२.१.६)   इति सूत्रेण अधि इति अव्ययं समर्थेन हरि इति सुबन्तेन सह समस्यते | एतेन सूत्रेण अव्ययीभावसमासः विधीयते |

हरि + ङि + अधि  समासस्य प्रातिपदिकसंज्ञा भवति कृत्तद्धितसमासाश्च (१.२.४६) इत्यनेन सूत्रेण |

हरि + ङि + अधि →  इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन | अतः हरि + ङि + अधि इत्यस्मिन्‌ ङि इत्यस्य लुक्‌ भवति हरि + अधि |

हरि + अधि सुप्तिङन्तं पदम् (१.४.१४) इत्यनेन यस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति | अत्र च 'अधि' इत्यस्य अन्ते सुप्‌  न दृश्यते, तर्हि प्रश्नः उदेति यत्‌ तस्य पदसंज्ञा अस्ति न वा इति | उत्तरमस्ति यत् प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) इत्यनेन पदसंज्ञा अस्त्येव | अव्ययात् परस्य सुप्-प्रत्ययानां च लुक् अभवत् अव्ययादाप्सुपः ( २.४.८२) इति सूत्रेण | अतः अधि इति अव्ययस्य परस्य सुप् प्रत्ययस्य लोपः जातः अव्ययादाप्सुपः ( २.४.८२) इति सूत्रेण | यद्यपि प्रत्ययस्य लोपः जातः तथापि प्रत्ययस्य लक्षणं तिष्ठति इत्यतः पदसंज्ञा अस्त्येव |

हरि + अधि → अत्र प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण प्रथमाविभक्त्या यत्  पदं निर्दिश्यते समासविधायकसूत्रे तत् उपसर्जनसंज्ञकं भवति | अत्र अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  (२.१.६) इति  समासविधायकसूत्रेण समासः विधीयते नित्यरूपेण | अस्मिन् सूत्रे अव्ययम् इति पदं प्रथमाविभक्तौ अस्ति अतः तस्य उपसर्जन-संज्ञा भवति | अधुना उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण उपसर्जन-संज्ञकपदस्य पूर्वनिपातः भवति | अत्र अधि इति अव्ययम् अस्ति, तस्य उपसर्जन-संज्ञा भूत्वा पूर्वनिपातः भवति |

अधिहरि → अव्ययीभावश्च (१.१.४१) इत्यनेन अव्ययीभावसमासेन निर्मितस्य शब्दस्य "अव्ययम्" इति संज्ञा भवति | अधिहरि इति शब्दः अव्ययसंज्ञकः भवति |

अधिहरि इदानीं लिङ्गस्य निर्णयः क्रियते | अव्ययीभावश्च (२.४.१८) इत्यनेन अव्ययीभावसमासस्य लिङ्गं भवति नपुंसकलिङ्गम् | अतः अधिहरि इति समस्तपदस्य लिङ्गं भवति नपुंसकलिङ्गम् |

अधिहरि → ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७) इति सूत्रेण नपुंसकलिङ्गे अजन्तस्य प्रातिपदिकस्य हस्वः भवति | अतः अधिहरि इति भवति|

अधिहरि + सु अधिहरि इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | अधुना सुप् प्रत्ययस्य उत्पत्तिः ङ्याप्प्रातिपदिकात्‌ ( ४.१.१),

स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ (४.१.२) इत्याभ्यां सूत्राभ्याम् |

अधिहरि + सु अत्र अव्ययादाप्सुपः (२.४.८२) इति सूत्रेण अव्ययात् परस्य सु प्रत्ययस्य लोपः भवति | अव्ययीभावश्च (१.१.४१) इत्यनेन सूत्रेण अधिहरि इति अव्ययम् अस्ति इत्यतः सु प्रत्ययस्य लोपः भवति अव्ययादाप्सुपः (२.४.८२) इति सूत्रेण | अधिहरि इति समस्तपदं निष्पन्नम् | अत्र अधिहरि इत्यस्य अदन्तम् अङ्गं नास्ति अतः नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३), तृतीयासप्तम्योर्बहुलम्‌ (२.४.८४) च, अनयोः सूत्रयोः प्रसक्तिः नास्ति | एतस्मिन् विषये अग्रे वक्ष्यते |

वयं सर्वे अधिहरि वसामः | अधिहरि जगतः सृष्टिः भवति |

सर्वासु विभक्तिषु अधिहरि इत्येव रूपं भवति |

अधिगोपम् ( उत्तरपदम् अदन्तं चेत् )
गोपि इति = अधिगोपम् | गाः पाति इति गोपाः, तस्मिन् इति अधिगोपाः | पा-धातुः रक्षणार्थे अस्ति |


अलौकिकविग्रहवाक्यम्

गोपा + ङि + अधि समाससंज्ञा भवति प्राक्कडारात्समासः (२.१.३) इति सूत्रेण | अव्ययीभावः (२.१.५) इत्यनेन सूत्रेण समस्तपदस्य अव्ययीभावसमाससंज्ञा भवति | अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  (२.१.६)   इति सूत्रेण अधि इति अव्ययं समर्थेन गोपा इति सुबन्तेन सह समस्यते | एतेन सूत्रेण अव्ययीभावसमासः विधीयते |

गोपा + ङि + अधि समासस्य प्रातिपदिकसंज्ञा भवति कृत्तद्धितसमासाश्च (१.२.४६) इत्यनेन सूत्रेण |

गोपा + ङि + अधि इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन | अतःगोपा + ङि + अधि इत्यस्मिन्‌ ङि इत्यस्य लुक्‌ भवति गोपा + अधि

गोपा + अधि सुप्तिङन्तं पदम् (१.४.१४) इत्यनेन यस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति | अत्र च 'अधि' इत्यस्य अन्ते सुप्‌ न दृश्यते, तर्हि प्रश्नः उदेति यत्‌ तस्य पदसंज्ञा अस्ति न वा इति | उत्तरमस्ति यत् प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) इत्यनेन पदसंज्ञा अस्त्येव | अव्ययात् परस्य सुप्-प्रत्ययानां च लुक्-भवति अव्ययादाप्सुपः ( २.४.८२) इति सूत्रेण | अतः अधि इति अव्ययस्य परस्य सुप् प्रत्ययस्य लोपः जातः | यद्यपि प्रत्ययस्य लोपः जातः तथापि प्रत्ययस्य लक्षणं तिष्ठति इत्यतः पदसंज्ञा अस्त्येव |

गोपा + अधि अत्र प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण प्रथमया विभक्त्या यत् निर्दिश्यते समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति | अत्र अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु (२.१.६) इति  समासविधायकसूत्रेण समासः विधीयते नित्यरूपेण | अस्मिन् सूत्रे अव्ययम् इति पदं प्रथमाविभक्तौ अस्ति अतः तस्य उपसर्जन-संज्ञा भवति | अधुना उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण उपसर्जन-संज्ञकपदस्य पूर्वनिपातः भवति | अत्र अधि इति अव्ययं, तस्य उपसर्जन-संज्ञा भूत्वा पूर्वनिपातः भवति |

अधिगोपा → अव्ययीभावश्च (१.१.४१) इत्यनेन अव्ययीभावसमासेन निर्मितस्य शब्दस्य "अव्ययम्" इति संज्ञा भवति | अधिगोपा इत्यस्य अव्ययसंज्ञा भवति |

अधिगोपा इदानीं लिङ्गस्य निर्णयः क्रियते | अव्ययीभावश्च (२.४.१८) इत्यनेन अव्ययीभावसमासस्य लिङ्गं भवति नपुंसकलिङ्गम् | अतः अधिगोपा इति समस्तपदस्य लिङ्गं भवति नपुंसकलिङ्गम् |

अधिगोपा → ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७) इति सूत्रेण अजन्तस्य नपुंसकलिङ्गे प्रातिपदिकस्य हस्वः भवति | अतः अधिगोप इति भवति |

अधिगोप + सु अधिगोप इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | अधुना सुप् प्रत्ययस्य उत्पत्तिः स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ (४.१.२) इति सूत्रेण |

अधिगोप + सु अत्र अव्ययादाप्सुपः (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रेण निषिध्यते | नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात्  सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी-विभक्तिं विहाय | पञ्चमी-विभक्तौ अम् आदेशः न भवति, तत्र  यथा सामान्यं सुप्प्रक्रिया भूत्वा रूपं भवति अधिगोपात् | अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति |

अधिगोप + अम् अत्र अमि पूर्वः (६.१.१०५) इत्यनेन अक्-वर्णात् अम् सम्बन्धी अच् परः चेत् पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात् | पञ्चमीविभक्तिं विहाय अपरासु विभक्तिषु अधिगोपम् इति रूपं सिद्धं भवति | तृतीयासप्तम्योर्बहुलम्‌ (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् तृतीयासप्तम्योः च स्थाने विकल्पेन अमादेशः भवति | अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयं सम्भवति अधिगोपम् / अधिगोपेन, अधिगोपम् / अधिगोपे | अन्यासु विभक्तिषु अधिगोपम् इति रूपं सिद्धं भवति |

पञ्चमीविभक्तौ सुप् लुक् न भवति इति उक्तम् नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रेण | तर्हि प्रक्रिया अधो भागे प्रदर्शिता –

अधिगोप + ङसि → टाङसिङसामिनात्स्याः (७.१.१२) इत्यनेन सूत्रण अदन्तात् अङ्गात् परस्य टा, ङसि, ङस् च प्रत्ययानां स्थाने  क्रमेण इन, आत्, स्य इत्येते आदेशाः भवन्ति | अतः पञ्चमीविभक्तौ अदन्तात् अङ्गात् ङसि इत्यस्य स्थाने आत् इति आदेशः भवति |

अधिगोप + आत् → अकः सवर्णे दीर्घः (६.१.१०१) इति सूत्रस्य कार्यानन्तरम् अधिगोपात् इति रूपं निष्पन्नं भवति |

अधः सर्वासु विभक्तिषु रूपाणि प्रदर्शितानि |

अध्यात्मम् ( उत्तरपदं हलन्तं चेत्)
आत्मनि इत्येव = अध्यात्मम्|

अलौकिकविग्रहवाक्यम्

आत्मन् + ङि + अधि समाससंज्ञा भवति प्राक्कडारात्समासः (२.१.३) इति सूत्रेण | अव्ययीभावः (२.१.५) इत्यनेन सूत्रेण समस्तपदस्य अव्ययीभावसमाससंज्ञा भवति | अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  (२.१.६)  इति सूत्रेण अधि इति अव्ययं समर्थेन आत्मनि इति सुबन्तेन सह समस्यते | एतेन सूत्रेण अव्ययीभावसमासः विधीयते |

आत्मन् + ङि + अधि समासस्य प्रातिपदिकसंज्ञा भवति कृत्तद्धितसमासाश्च (१.२.४६) इत्यनेन सूत्रेण |

आत्मन् + ङि + अधि इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन | अतःआत्मन् + ङि + अधि इत्यस्मिन्‌ ङि इत्यस्य लुक्‌ भवति→ आत्मन् + अधि इति |

आत्मन् + अधि सुप्तिङन्तं पदम् (१.४.१४) इत्यनेन यस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति | अत्र च 'अधि' इत्यस्य अन्ते सुप्‌ न दृश्यते, तर्हि प्रश्नः उदेति यत्‌ तस्य पदसंज्ञा अस्ति न वा इति | उत्तरमस्ति यत् प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) इत्यनेन पदसंज्ञा अस्त्येव | अव्ययात् परस्य सुप्-प्रत्ययानां च लुक्-भवति अव्ययादाप्सुपः ( २.४.८२) इति सूत्रेण | अतः अधि इति अव्ययस्य परस्य सुप् प्रत्ययस्य लोपः जातः | यद्यपि प्रत्ययस्य लोपः जातः तथापि प्रत्ययस्य लक्षणं तिष्ठति इत्यतः पदसंज्ञा अस्त्येव |

आत्मन् + अधि अत्र प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण प्रथमया विभक्त्या यत् निर्दिश्यते समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति | अत्र अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  (२.१.६) इति  समासविधायकसूत्रेण समासः विधीयते नित्यरूपेण | अस्मिन् सूत्रे अव्ययम् इति पदं प्रथमाविभक्तौ अस्ति अतः तस्य उपसर्जन-संज्ञा भवति | अधुना उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण उपसर्जन-संज्ञकपदस्य पूर्वनिपातः भवति | अत्र अधि इति अव्ययं, तस्य उपसर्जन-संज्ञा भूत्वा पूर्वनिपातः भवति | अधि + आत्मन् → अव्ययीभावश्च (१.१.४१) इत्यनेन अव्ययीभावसमासेन निर्मितस्य शब्दस्य "अव्ययम्" इति संज्ञा भवति |

अधि + आत्मन् → अव्ययीभावश्च (१.१.४१) इत्यनेन अव्ययीभावसमासेन निर्मितस्य शब्दस्य "अव्ययम्" इति संज्ञा भवति |

अधि + आत्मन् → अत्र इको यणचि (६.१.७६) इति सूत्रेण यण् सन्धिं कृत्वा → अध्यात्मन् इति भवति, तस्य अव्ययसंज्ञा भवति |

अध्यात्मन् इदानीम् अनश्च (५.४.१०८) इति सूत्रेण अव्ययीभावसमासस्य अन्ते "अन्" इति विद्यते चेत् तस्मात् टच् इति समासान्तप्रत्ययः भवति |

अध्यात्मन् + टच् टच् इति समासान्तप्रत्ययः समासस्य अवयवः भवति | टच् इति प्रत्यये इतसंज्ञकवर्णयोः लोपानन्तरम् अकारः अवशिष्यते | अध्यात्मन् + अ आत्मन् इति पुंलिङ्गशब्दः अस्ति, अतः नपुंसकादन्यतरस्याम् (५.४.१०९) इति सूत्रस्य प्रसक्तिः नास्ति | नपुंसकादन्यतरस्याम् (५.४.१०९) इति सूत्रेण नपुंसकलिङ्गे अन्नन्तप्रातिपदिकात् टच् इति समासान्तप्रत्ययः विकल्पेन भवति |

अध्यात्मन् + अ इदानीं नस्तद्धिते (६.४.१४४) इति सूत्रेण तद्धितप्रत्यये परे नकारान्तस्य भसंज्ञकस्य शब्दस्य टिसंज्ञकस्य लोपः भवति → नस्तद्धिते (६.४.१४४) इति सूत्रेण अन् इति टि-भागस्य लोपानन्तरम् अध्यात्म् + अ अध्यात्म इति भवति |

अध्यात्म इदानीं लिङ्गस्य निर्णयः क्रियते | अव्ययीभावश्च (२.४.१८) इत्यनेन अव्ययीभावसमासस्य लिङ्गं भवति नपुंसकलिङ्गम् | अतः अध्यात्म इति समस्तपदस्य लिङ्गं भवति नपुंसकलिङ्गम् |

अध्यात्म + सु अध्यात्म इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | अधुना सुप् प्रत्ययस्य उत्पत्तिः ङ्याप्प्रातिपदिकात्‌  (४.१.१), स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ (४.१.२) इत्याभ्यां सूत्राभ्याम् |

अध्यात्म + सु →  अव्ययादाप्सुपः (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रेण निषिध्यते | नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी-विभक्तिं विहाय | पञ्चमी-विभक्तौ अम् आदेशः न भवति, तत्र  यथा सामान्यं सुप्प्रक्रिया भूत्वा रूपं भवति अध्यात्मात् | अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति | अध्यात्म + अम्  अमि पूर्वः (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात्|पञ्चमी-विभक्तिं विहाय अपरासु विभक्तिषु अध्यात्मम् इति रूपं सिद्धं भवति | तृतीयासप्तम्योर्बहुलम्‌ (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने विकल्पेन अमादेशः भवति | अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयं सम्भवति अध्यात्मम् / अध्यात्मेन, अध्यात्मम् / अध्यात्मे | अन्यासु विभक्तिषु अध्यात्मम् इति रूपं सिद्धं भवति | पञ्चमी-विभक्तौ अध्यात्मात् इति रूपं भवति |

अध्यात्म + अम्  अमि पूर्वः (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात्|पञ्चमी-विभक्तिं विहाय अपरासु विभक्तिषु अध्यात्मम् इति रूपं सिद्धं भवति | तृतीयासप्तम्योर्बहुलम्‌ (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने विकल्पेन अमादेशः भवति | अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयं सम्भवति अध्यात्मम् / अध्यात्मेन, अध्यात्मम् / अध्यात्मे | अन्यासु विभक्तिषु अध्यात्मम् इति रूपं सिद्धं भवति | पञ्चमी-विभक्तौ अध्यात्मात् इति रूपं भवति |

पञ्चमीविभक्तौ सुप् लुक् न भवति इति उक्तम् नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रेण | तर्हि प्रक्रिया अधो भागे प्रदर्शिता –

अध्यात्म + ङसि → टाङसिङसामिनात्स्याः (७.१.१२) इत्यनेन सूत्रण अदन्तात् अङ्गात् परस्य टा, ङसि, ङस् च प्रत्ययानां स्थाने  क्रमेण इन, आत्, स्य इत्येते आदेशाः भवन्ति | अतः पञ्चमीविभक्तौ अदन्तात् अङ्गात् ङसि इत्यस्य स्थाने आत् इति आदेशः भवति | अध्यात्म+ आत् → अकः सवर्णे दीर्घः (६.१.१०१) इति सूत्रस्य कार्यानन्तरम् अध्यात्मात् इति रूपं निष्पन्नं भवति |

अध्यात्म+ आत् → अकः सवर्णे दीर्घः (६.१.१०१) इति सूत्रस्य कार्यानन्तरम् अध्यात्मात् इति रूपं निष्पन्नं भवति |

एवमेव राज्ञः समीपम् = उपराजम् इति भवति |


अनश्च (५.४.१०८)

यस्य अव्ययीभावसमासस्य अन्ते "अन्" इति विद्यते तस्मात् टच् इति समासान्तप्रत्ययः भवति | अनः पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | अनुवृत्ति-सहितसूत्रम्‌— अनश्च अव्ययीभावात् प्रादिपदिकात् टच् प्रत्ययः परश्च तद्धितः समासान्तः |


नस्तद्धिते (६.४.१४४)

तद्धितप्रत्यये परे नकारान्तस्य भसंज्ञकस्य अङ्गस्य टिसंज्ञकस्य लोपः भवति | नः षष्ठ्यन्तं, तद्धिते सप्तम्यन्तं, द्विपदमिदं सूत्रम् |



ii)   सूत्रे समीपार्थे अव्ययम्–

समीपार्थे उप इति अव्ययं प्रयुज्यते |

यथा – नद्याः समीपम् = उपनदम्/उपनदि

उपनदम् इति समस्तपदस्य रूपसाधनार्थं नदीपौर्णमास्याग्रहायणीभ्यः (५.४.११०) इति सूत्रेण टच् इति समासान्तप्रत्ययः विकल्पेन विधीयते | यस्मिन् पक्षे टच् इति समासान्तप्रत्ययः विधीयते तत्र उपनदम् इति रूपं निष्पन्नं भवति | यस्मिन् पक्षे टच् इति प्रत्ययः न विधीयते तत्र उपनदि इति रूपं सिद्ध्यति | उपनदम् / उपनदि इति समस्तपदस्य शास्त्रीय-प्रक्रिया अधो लिखिता वर्तते |

नदीपौर्णमास्याग्रहायणीभ्यः (५.४.११०)

अव्ययीभावसमासस्य अन्ते "नदी", "पौर्णमासी (day of full moon)", "आग्रहायणी" (day of full moon in the month of आग्रहायणम्) इत्येतेषु कश्चन शब्दः विद्यते चेत्, तस्मात् विकल्पेन "टच्" इति समासान्तप्रत्ययः भवति | अनुवृत्ति-सहितसूत्रम्‌— अव्ययीभावे ङ्याप्प्रातिपदिकेभ्यः नदीपौर्णमास्याग्रहायणीभ्यः परश्च तद्धितः समासान्तः टच् प्रत्ययः अन्यतरस्याम् |


यस्येति च (६.४.१४८)

भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च ईकारे परे, तद्धितप्रत्यये परे च लोपः भवति | इश्च अश्च,  समाहारद्वन्द्वः, तस्य यस्य | अनुवृत्ति-सहितसूत्रम्‌—  भस्य अङ्गस्य यस्य च लोपः ईति तद्धिते




३) समृद्ध्यर्थे (ऋद्धेः आधिक्यं - excessive prosperity) – 'सु' इति अव्ययस्य प्रयोगः क्रियते | यथा – मद्राणां समृद्धिः = सुमद्रम् | मद्रदेशवासिनां समृद्धिः | भिक्षाणां समृद्धिः = सुभिक्षम् |  सुमद्रं जनाः आनन्देन वसन्ति स्म |




४) व्यृद्ध्यर्थे (ऋद्धेः अभावः, वैकृत्यम्,  deterioration) –  विगता ऋद्धिः = व्यृद्धिः | 'दुर्' इति अव्ययस्य प्रयोगः क्रियते | यथा – यवनानां व्यृद्धिः = दुर्यवनम् | एवमेव शकानां व्यृद्धिः = दुःशकम् | दुर्यवनं प्रजाः दुखिताः अभवन् |




५) अर्थाभावार्थे (अभावार्थे, पदार्थस्य असत्ता ) – 'निर्' इति अव्ययस्य प्रयोगः क्रियते | यथा – मक्षिकाणाम् अभावः = निर्मक्षिकम् | विघ्नानाम् अभावः = निर्विघ्नम्|बालकः निर्मक्षिकम् आनन्देन शेते |




६) अत्ययार्थे (नाशः) – 'अति', निर्, निस् इत्येषाम् अव्ययानां प्रयोगः क्रियते | यथा – हिमस्य अत्ययः =अतिहिमम् | अतिशीतम्, निर्हिमम्  इत्यादयः | अतिहिमं परिसरस्य हानिः भवति | रामः अतिकोपात् शान्तिं प्राप्तवान् |




७) असम्प्रत्यर्थे (अयुक्तः, अयोग्यकाले इति) – 'अति' इति अव्ययस्य प्रयोगः क्रियते | असम्प्रति = न युज्यते इत्यर्थः | यथा – निद्रा सम्प्रति न युज्यते = अतिनिद्रम् | कम्बलं सम्प्रति न युज्यते इति अतिकम्बलम् | अतिनिद्रम् आरोग्याय न भवति | अतिनिद्रं पुरुषः उत्तिष्ठति |




८) शब्दप्रादुर्भावार्थे (शब्दस्य प्रसिद्धिः, शब्दस्य प्रकाशः, appearance of the word) – 'इति' इति अव्ययस्य प्रयोगः क्रियते | यथा – हरिशब्दस्य प्रकाशः = इतिहरि |पणिनिशब्दस्य प्रकाशः = इतिपाणिनि | ज्ञानशब्दस्य प्रकाशः = इतिज्ञानम् | शङ्काराचर्यस्य कारणेन भारते इतीश्वरम् आरब्धम् | तिरुपत्याम् इतिगोविन्दं श्रवणेन सर्वे ध्यानमग्नाः भवन्ति |

९) पश्चादर्थे (अनन्तरम्) – 'अनु' इति अव्ययस्य प्रयोगः क्रियते | यथा – विष्णोः पश्चात् = अनुविष्णु | रथानां पश्चात् = अनुरथम् | पदानां पश्चात् = अनुपदम् | अनुशिष्यम्, अनुगोपालम् इत्यादीनि उदाहरणानि | रामः अनुमृगं धावति |अनुवृष्टि सस्यानि वर्धन्ते | अन्वर्चकं भक्ताः रामनाम जपन्ति स्म |




१०) यथा इत्यस्य चत्वारः अर्थाः सन्ति – योग्यता, वीप्सा, पदार्थानतिवृत्तिः, सादृश्यम् च | अत्र 'यथा' इति अव्ययस्य प्रयोगः क्रियते |


a. योग्यता (अर्हता) – अस्मिन् अर्थे 'अनु' इति अव्ययं समस्यते | यथा – रूपस्य योग्यम् = अनुरूपम् | गुणानां योग्यम् = अनुगुणम् | लेखस्य योग्यम् = अनुलेखम् |विद्यालयस्य योग्यम् = अनुविद्यालयम् | अनुरूपं सः युतकं क्रीणाति | एतानि उत्तराणि अनुप्रश्नं भवन्ति |

b. वीप्सा (पौनः पुण्यः) – 'प्रति' इति अव्ययस्य प्रयोगः क्रियते | यथा – अर्थमर्थं प्रति = प्रत्यर्थम् | प्रतिमासं, प्रतिगृहं, प्रत्येकम् इत्यादीनि उदाहरणानि | यथा प्रतिवृक्षं सिञ्चति इत्यस्य एकैकं वृक्षं सिञ्चति इत्यर्थः | रामः प्रतिदिनं कार्यालयं गच्छति |

c. पदार्थानतिवृत्तिः (अनतिक्रमः – not exceeding) – 'यथा' इति अव्ययस्य प्रयोगः क्रियते | यथा – शक्तिम् अनतिक्रम्य = यथाशक्ति | यथाशक्ति पठति इत्यस्य शक्तिम् अनतिक्रम्य पठति इत्यर्थः | यथाप्रीति | यथाबुद्धि, यथाज्ञानम् इत्यादीनि उदाहरणानि | छात्राः यथामति अध्ययनं कुर्वन्ति | शिष्यः आचर्यस्य वचनं यथोक्तम् अवगच्छति | यथासम्भवं विद्यार्थिभिः सह  सर्वोऽपि संलापः संस्कृतभाषैव कर्तव्यः | यथाकुलं पुरुषाः व्यापारं कुर्वन्ति |

  d. सादृश्यम् (औपम्यम् -Similarity) – 'सह' इति अव्ययस्य प्रयोगः क्रियते|यथा  हरेः सादृश्यम् = सहरि | सहरि प्रद्युम्ने दृश्यते | सादृश्यस्य प्राधान्यम् अस्ति |




११) आनुपूर्व्यार्थे (क्रमशः -Sequentially) – 'अनु' इति अव्ययस्य प्रयोगः क्रियते | यथा – ज्येष्ठस्य आनुपूर्व्येण = अनुज्येष्ठम् | अनुज्येष्ठं मानवकः प्रणमति | अनुकनिष्ठं माता भोजनं परिवेषयति | वृद्धस्य आनुपूर्व्येण = अनुवृद्धम् |




१२) यौगपद्यार्थे (युगपत्, समानकाले) – 'सह' इति अव्ययस्य प्रयोगः क्रियते | चक्रेण युगपत् = सचक्रम् | सचक्रं शङ्खं धेहि | सरामं लक्ष्मणः, सीता च वनं गच्छतः |




१३) सादृश्यार्थे (तुल्यत्वं, गौणम्) – 'सह' इति अव्ययस्य प्रयोगः क्रियते | सह स्थाने 'स' आदेशः भवति | यथा – सदृशः सख्या = ससखि|ससखि रमा सुन्दरी आसीत् | प्रकृत्या ससखि रामः अस्ति | सकृष्णं प्रद्युम्नः गुणवान् आसीत् | अत्र सादृश्यस्य प्राधान्यं नास्ति |




१४) सम्पत्त्यर्थे (अनुरूपः आत्मभावः, Appropriate) – 'सह' इति अव्ययस्य प्रयोगः क्रियते | सह स्थाने 'स' आदेशः भवति | यथा क्षत्राणां सम्पत्तिः = सक्षत्रम् | सक्षत्रं रामः रावणेन युद्धम् अकरोत् | सबुद्धि बालकः पाठम् अवगच्छति |




१५) साकल्यार्थे (सम्पूर्णता -Entirety, अशेषता) – 'सह' इति अव्ययस्य प्रयोगः क्रियते | सह स्थाने 'स' आदेशः भवति | यथा – तृणम् अपि अपरित्यज्य अत्ति = सतृणम् | सः सतृणम् अत्ति | अर्थात् लेशमात्रम् अपि अपरित्यज्य खादति |




१६) अन्तार्थे (समाप्ति:) – 'सह' इति अव्ययस्य प्रयोगः क्रियते | सह स्थाने 'स' आदेशः भवति | यथा – अग्निग्रन्थपर्यन्तम् अधीते = साग्नि | साग्नि  अधीते |