05 - द्वन्द्वसमासः

From Samskrita Vyakaranam
14---samAsaH/05---dvandvasamAsaH
Jump to navigation Jump to search


द्वन्द्वसमासे प्रायः उभयपदार्थस्य प्राधान्यं भवति। उभयोः पदयोः अर्थस्य अपि यदि क्रियया अन्वयो भवति तर्हि द्वन्द्वसमासः इति उच्यते। रामलक्ष्मणौ कार्यं कुरुतः इति वाक्ये रामपदस्य लक्ष्मणपदस्य च करणक्रियायाम् अन्वयः वर्तते। अतः अत्र उभयपदार्थस्य प्राधान्यं भवति। तस्मात् द्वन्द्वः इति उच्यते। समस्तपदस्य लिङ्गं प्रायः उत्तरपदस्य लिङ्गं भवति। द्वन्द्वसमास-सम्बद्धसूत्राणि सन्ति २..२९ इत्यस्मात् सूत्रात् आरभ्य २..२९ इति सूत्रपर्यन्तम्।

द्वन्द्वसमासे घिसंज्ञकस्य, अजादेः अदन्तस्य, अल्पाचः, श्रेष्ठस्य च पूर्वपदत्वेन प्रयोगः भवति।

यथा –

हरिश्च हरश्च= हरिहरौ- हरिशब्दस्य पूर्वं प्रयोगः घिसंज्ञायुक्तत्वात्।

माता च पिता च = मातापितरौ- अत्रा मातुः श्रेष्ठत्वात् पूर्वं प्रयोगः।

ईश्च कृष्णश्च = ईशकृष्णौ – अत्र ईशशब्दस्य अजाद्यदन्तत्वात् पूर्वप्रयोगः।

शिवश्च केशवश्च = शिवकेश्वौ = अत्र शिवशब्दस्य अल्पाच्त्वात् पूर्वप्रयोगः।



चार्थे द्वन्द्वः (..२९) = चकारार्थे वर्तमानम् अनेकं सुबन्तं समस्यते, द्वन्द्वसंज्ञा च भवति।चास्य अर्धश्चार्थः ( षष्ठीतत्पुरुषः) तस्मिन् चार्थे। चार्थे सप्तम्यन्तं, द्वन्द्वः प्रथमान्तं, द्विपदमिदं सूत्रम्। सुबामन्त्रिते पराङ्गवत्‌ स्वरे (..) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति। अनेकमन्यपदार्थे (..२४) इत्यस्मात् सूत्रात् अनेकम् इत्यस्य अनुवृत्तिः। प्राक्कडारात्समासः (..) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः। विभाषा (..११) इत्यस्य अधिकारः। सह सुपा (..) इत्यस्य अधिकारः। विभाषा ( ..११) इत्यस्य अधिकारः ।अनुवृत्ति-सहित-सूत्रं— चार्थे अनेकं सुप् सुपा सह विभाषा द्वन्द्वः समासः।



जिज्ञासा भवति चकारस्य अर्थः कः?

चकारस्य एते अर्थाः भवन्ति -समुच्चायान्वाचयेतरेतरयोगसमाहारशचार्थाः। समुच्चयः, अन्वाचयः, इतरेतरयोगः, समाहारः च । परस्परनिरपेक्षस्य अनेकस्य एकस्मिन् अन्वयः समुच्चयः। यदा परस्परं निरपेक्षस्य अनेकपदस्य एकस्यां क्रियायाम् अन्वयः भवति तदा तत्र समुच्चयार्थे भवति। यथा ईश्वरं गुरुं च भजस्व। अत्र एकं कर्म ईश्वरस्य भजनक्रियया सह अन्वयः भवति अपि च तया क्रियया सह द्वितीयं कर्म गुरोः इत्यस्य अपि अन्वयः भवति। तर्हि अत्र ईश्वरः अपि च गुरुः, द्वयोः परस्परं निरपेक्षा वर्तते। निरपेक्षा इत्यनेन परस्परम् अपेक्षा नास्ति। अतः द्वयोः स्वतन्त्ररूपेण भजनक्रियया सह अन्वयः भवति।

अन्यतरस्य आनुषङ्गिकत्वेऽन्वाचयः। यदा समुच्चीयमानयोः पदयोः एकस्य आनुषङ्गिकतया (गौणरूपेण) अन्वयः भवति तर्हि तस्य अन्वाच्यनामकः चार्थः इति उच्यते। यथा – भिक्षाम् अट गां चानय। भिक्षार्थं भ्रमणं कुरु, यदि मार्गे गवा सह मेलनं भवति तर्हि तां अपि आनय। अस्मिन् वाक्ये भिक्षार्थं भ्रमणम् अनिवार्यः अस्ति परन्तु गोः आनयनम् आनुषङ्गिकम् अस्ति। अतः यः अन्वाचयः इति उच्यते। अनयोः क्रिययोः भिन्नता वर्तते, एकस्याः प्राधान्यम् अस्ति अपरस्याः अप्राधान्यं वर्तते। द्वयोः क्रिययोः अपेक्षा न वर्तते अतः तयोः पदयोः सामर्थ्यं नास्ति। सामर्थ्यं नास्ति इति कारणेन समासः न भवति।

इतरेतरयोगे, समाहारे च सामर्थ्यम् वर्तते अतः तस्मिन् समासः सम्भवति। मिलितानामन्वयः इतरेतरयोगः । यदा पदार्थानां परस्परं मेलनं भूत्वा अग्रे एकया क्रियया सह अन्वितो भवति तदा इतरेतरयोगः चार्थः इति उच्यते। यथा रामलक्षमणौ गच्छतः। रामः अपि च लक्षमणः, द्वौ स्तः अतः द्विवचने रामलक्षमणौ इति इतरेतरयोगे समासः भवति। इतरेतरयोगे समस्यमानानां पदानां सहविवक्षा वर्तते। सहविवक्षायाः तात्पर्यं यत् पदानां एकत्र उच्चारणस्य इच्छा।

समूहः समाहारः। यदा द्वौ अथवा अधिकानां पदार्थानां भिन्नया क्रियया सह अन्वयः अभूत्वा समूहात्मकार्थे अन्वयः भवति तदा समाहारः चार्थः इति उच्यते। समूहः इत्यस्य अर्थः अस्ति समाहारः इति।

यथा संज्ञा च परिभाषा च अनयोः समाहारः = संज्ञापरिभाषम्। अलौकिकविग्रहवाक्यं – संज्ञा+ सु +परिभाषा+सु चार्थे द्वन्द्वः (..२९) इति सूत्रेण द्वन्द्वसमासः भूत्वा, समासप्रयुक्तस्य प्रातिपदिकस्य सुप् प्रत्ययस्य लुक् भवति। संज्ञापरिभाषा इति प्रातिपदिकम्। समाहारार्थे भवति इति कारणेन स नपुंसकम् इति सूत्रेण नपुंसकलिङ्गे समूहार्थे एकवचने भवति।


समाहारार्थे द्वन्द्वः नपुसकलिङ्गे स्यात्।

स नपुंसकम् (..१७) = समाहारे द्विगुर्द्वन्द्वश्च नपुंसकं स्यात् । स प्रथामान्तं, नपुंसकं प्रथमान्तम्। सः इति पदस्य द्वारा द्विगुरेकवचनम् (..) इत्यस्मात् द्विगुः अपि च द्वंद्वश्च प्राणितूर्यसेनाङ्गानाम्‌ (..) इत्यस्मात् द्वन्द्वः इत्यस्य परामर्शः क्रियमाणः अस्ति। अस्य एकवद्भावप्रकरणे समाहारद्विगुः अपि च समाहारद्वन्द्वः, तयोः एकवद्भावं कृत्वा सः नपुंसकलिङ्गे भवति। द्विगुरेकवचनम् (..) इत्यस्मात् द्विगुः इत्यस्य अनुवृत्तिः भवति। द्वंद्वश्च प्राणितूर्यसेनाङ्गानाम्‌ (..) इत्यस्मात् द्वन्द्वः इत्यस्य अनुवृत्तिः भवति। अनुवृत्ति-सहित-सूत्रं— स द्वन्द्वः द्विगुः नपुंसकम्।

स नपुंसकम् (..१७) इति सूत्रं परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (..) इत्यस्य अपवादः अस्ति। द्विगुरेकवचनम् (..) इत्यस्मात् सूत्रात् आरभ्य विभाषा समीपे (..१६) इति सूत्रपर्यन्तं एकवद्भावप्रकरणम् अस्ति। अस्मिन् सूत्रे तद् ( सः) इति शब्देन चतुर्दश सूत्राणां द्वारा यः एकवद्भावः विहितः अस्ति तस्यैव ग्रहणं भवति। तदनुसारेण एकवद्भावप्रकरणे यस्य एकवद्भावं अस्ति तस्यैव स नपुंसकम् (..१७) इति सूत्रेण नपुंसकलिङ्गे भवति।

पञ्चानां गवां समाहारः = पञ्चगवम्।

दन्तश्व औष्ठौ च तेषां समाहारः = दन्तौष्ठम्।

पञ्चानां मूलानां समाहारः = पञ्चमूली।

आबन्तो वा इति वार्तिकेन द्विगुसमास्य उत्तरपदे आप् प्रत्ययान्तः शब्दः अस्ति चेत् तर्हि समस्तपदं विकल्पेन स्त्रीलिङ्गे अपि भवति। यथा पञ्चानां खट्वानां समाहारः = पञ्चखट्वम्/ पञ्चखट्वी।

अनो नलोपश्च, वा च द्विगुः स्त्रियाम् – अनेन वार्तिकेन अन्नन्त उत्तरपदे द्विगुसमासः विकल्पेन स्त्रीलिङ्गे भवति अपि च अन्नन्तस्य शब्दस्य नकारस्य लोपः भवति। यथा – पञ्चानां तक्षाणां समाहारः = पञ्चतक्षी/ पञ्चतक्षम्।

अकारान्तोत्तरपदो द्विगुः स्त्रियामिष्टः- एतत् वार्तिकं वदति यत् अकारान्तपदं उत्तरपदे भवति चेत् द्विगुसमासः स्त्रीलिङ्गे भवति।

पात्राद्यन्तस्य न इति वार्तिकेन पात्रादिः गणे पठितेभ्यः शब्देभ्यः समाहारद्विगुसमासः स्त्रीलिङ्गे न भवति। एतत् वार्तिकम् अकारान्तोत्तरपदो द्विगुः स्त्रियामिष्टः इति वार्तिकस्य क्षेत्रं सङ्कोचयति। पात्रादिगने कति पदानि सन्ति इति स्पष्टः नास्ति परन्तु एतानि त्रीनि पदानि सन्ति – पात्र, भुवन, युग। अत एव पञ्चपात्रं, द्विपात्रं, त्रिभुवनं, चतुर्युगम् इत्यादिनि उदाहरणानि सन्ति।


परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (..) = द्वन्द्वस्य तत्पुरुषस्य च परस्य यल्लिङ्गं तत् भवति । उत्तरपदलिङ्गं द्वन्द्वतत्पुरुषयोः विधीयते। द्वन्द्वश्च तत्पुरुषश्च द्वन्द्वत्त्पुरुषौ, तयोर्द्वन्द्वतत्पुरुषयोः। परवत् अव्ययं, लिन्ङ्गं प्रथमान्तं, द्वन्द्वतत्पुरुषयोः षष्ठयन्तं, त्रिपदमिदं सूत्रम्। अनुवृत्ति-सहित-सूत्रं— द्वन्द्वतत्पुरुषयोः परवत् लिङ्गं ।

कुक्कुटमयूर्यौ, मयूरीकुक्कुटौ ।


पूर्वनिपात-परनिपातप्रकरणम् – २..३० इत्यस्मात् सूत्रात् आरभ्य २..३८ इति सूत्रपर्यन्तं

उपसर्जनं पूर्वम्‌ (..३०) = उपसर्जनसंज्ञकं समासे पूर्वं प्रयोक्तव्यम्। उपसर्जनं प्रथमान्तं, पूर्वं प्रथमान्तं, द्विपदमिदं सूत्रम्। प्राककडारात्समासः (..) इत्यस्मात् सूत्रात् समासः इत्यस्य अनुवृत्तिः भवति। अत्र समासः इति शब्दस्य विभक्तिपरिमाणः इति कृत्वा सप्तमीविभक्तौ भवति | अनुवृत्ति-सहित-सूत्रम्‌— समासे उपसर्जनं पूर्वम्।

अस्मिन् सूत्रे यत् कार्यं भवति तस्य नाम अस्ति पूर्वनिपातः इति। प्रथमानिर्दिष्टं समास उपसर्जनम् (..४३) इति सूत्रेण उपसर्जनसंज्ञा भवति। समासविधायकसूत्रे यस्य पदस्य उपसर्जनसंज्ञा भवति तस्य पदस्य पूर्वनिपातो भवति।


राजदन्तादिषु परम्‌ (..३१) = राजदन्तादिगणे पूर्वनिपातार्थं यानि पदानि योग्यानि, तेषां परनिपातः भवति। ।राजदन्तादिषु उपसर्जनं परं प्रयोक्तव्यम्। राजदन्तादिर्येषां ते राजदन्तादयः, तेषु राजदन्तादिषु। राजदन्तादिषु सप्तम्यन्तं, परं प्रथमान्तं, द्विपदमिदं सूत्रम्। सूत्रम्। उपसर्जनं पूर्वम्‌ (..३०) इत्यस्यमात् सूत्रात् पूर्वम् इत्यस्य अनुवृत्तिः भवति अपि तेन सह प्रयोगार्हम् इत्यस्य अध्याहारं कृत्वा परम् इत्यस्य अर्थः भवति परनिपातः इति । प्राककडारात्समासः (..) इत्यस्मात् सूत्रात् समासः इत्यस्य अनुवृत्तिः भवति। अनुवृत्ति-सहित-सूत्रं—राजदन्तादिषु परम् ।

यथा –

दन्तानां राजा = राजदन्तः (दन्त इति शब्दस्य उपसर्जनं पूर्वम्‌ (..३०) इति सूत्रेण पूर्वनिपातः भवति परन्तु तत् प्रबाध्य राजदन्तादिषु परम्‌ (..३१) इति सूत्रेण तस्य परनिपातः भवति। अतः राजदन्तः इति षष्ठीतत्पुरुषसमासः भवति।


द्वन्द्वे घि (..३२) = द्वन्द्वे घिसंज्ञकः शब्दः पूर्वं प्रयोक्तव्यः।।द्वन्द्वे सप्तम्यन्तं, घि प्रथमान्तं, द्विपदमिदं सूत्रम्। उपसर्जनं पूर्वम्‌ (..३०) इत्यस्यमात् सूत्रात् पूर्वम् इत्यस्य अनुवृत्तिः । अनुवृत्ति-सहित-सूत्रं— द्वन्द्वे घि पूर्वं ।

द्वन्द्वसमासे सर्वेषां पदानां प्राधान्यं वर्तते। यस्य कस्यापि पदस्य उपसर्जनसंज्ञा न भवति। अतः कस्य पदस्य पूर्वनिपातः भवति? एतस्य प्रश्नस्य उत्तरम् अस्मिन् सूत्रे अस्ति। यदि घिसंज्ञकः शब्दः द्वन्द्वसमासे आयाति तर्हि तादृशस्य शब्दस्य पूर्वनिपातः भवति।

यथा—

हरिश्च हरश्च= हरिहरौ। अलौकिकविग्रहवाक्यं – हरि+ सु +हर+सु चार्थे द्वन्द्वः (..२९) इति सूत्रेण द्वन्द्वसमासः भूत्वा, समासप्रयुक्तस्य प्रातिपदिकस्य सुप् प्रत्ययस्य लुक् भवति। हरि+हर इति भवति। इदानीं प्रश्नः उदेति कस्य शब्दस्य पूर्वनिपातः भवति इति। तदर्थम् अत्र द्वन्द्वे घि (..३२) इति सूत्रस्य साहाय्येन निर्णयं कुर्मः यत् घिसंज्ञकस्य पूर्वनिपात; भवति। हरि इति ह्रस्व-इकारान्तः शब्दः अस्ति, अतः तस्य पूर्वनिपातः भवति अनेन सूत्रेण। हरिहर इति प्रातिपदिके द्वे पदे स्तः अतः समस्तपदं द्विवचने भवति। अतः हरिहरौ इति समस्तपदं भवति। यद्यपि विग्रहवाक्यं हरश्च हरिश्च इति वदामः, तथापि हरिहरौ इत्येव समस्तपदं भवति।

अनेकप्राप्तावेकत्र नियमोऽनियमः शेषे इति वार्तिकेन यत्र एकाधिकाः घिसंज्ञकशब्दाः सन्ति तत्र एकस्य घिसंज्ञकस्यैव पूर्वनिपातः भवति, अवशिष्टानां घिसंज्ञकशब्दानां न कोपि नियमः। तात्पर्यं यत् एकस्य घिसंज्ञकस्य शब्दस्य पूर्वनिपातनं कृत्वा अपरेषां घिसंज्ञकानां शब्दानां न कोपि नियमः। द्वितीयः शब्दः घिसंज्ञकः भवितुम् अर्हति नो चेत् अघिसंज्ञकः अपि भवितुम् अर्हति।

यथा—

हरिश्च गुरुश्च हरश्च = हरिगुरहराः । अस्मिन् उदाहरणे हरि इति शब्दः इकारान्तः अस्ति अतः तस्य घिसंज्ञा अस्ति। एवमेव गुरु इति शब्दः उकारान्तः अस्ति अतः तस्यापि घिसंज्ञा अस्ति। अस्यां स्थित्याम् अनेकप्राप्तावेकत्र नियमोऽनियमः शेषे वार्तिकेन यस्य कस्यचित् अधिकपूज्यार्थकस्य घिसंज्ञकस्य पदस्य पूर्वनिपातः भवति। अन्येषां घिसंज्ञकानां मध्ये वा अन्ते वा प्रयोगं कर्तुं शक्नुमः। द्वयोः घिसंज्ञकयोः हरि शब्दः अधिकपूज्यः अस्ति अतः तस्य पूर्वनिपातः भवति। हरिगुरुहर इति प्रातिपदिकं भवति। अत्र त्रीणि पदानि सन्ति अतः समस्तपदं बहुवचने हरिगुरुहराः इति भवति। उक्तनियमानुसारेण गुरु इति घिसंज्ञकः शब्दः अन्ते अपि भवितुम् अर्हति। तथा चेत् हरिहरगुरवः इति समस्तपदं निष्पन्नं भवति। एकः घिसंज्ञकस्य पूर्वनिपातः निश्चितः किन्तु द्वितीयं घिसंज्ञकं पदं वयं मध्ये वा अन्ते वा स्थापयितुं शक्नुमः।


शेषो घ्यसखि (..) = सखि-शब्दं वर्जयित्वा अन्ये ह्रस्व-इकारान्तः शब्दाः, ह्रस्व-उकारान्ताः शब्दाः नदी-संज्ञावर्जिताः शब्दाः घि-संज्ञकाः भवन्ति ।अर्थात् ह्रस्व-इकारान्ताः अपि च ह्रस्व-उकारान्ताः घिसंज्ञकाः यदि तेषां नदीसंज्ञा नास्ति।



अजाद्यदन्तम्‌ (..३३) = द्वन्दसमासे यः शब्दः अजादिः अदन्तः अस्ति तस्य पूर्वप्रयोगः भवति। अजाद्यदन्तं शब्दरूपं द्वन्द्वे समासे पूर्वं प्रयोक्तव्यम्। अच् आदिर्यस्य तद् अजादि, बहुव्रीहिः। अत् अन्तो यस्य तद् अदन्तम्, बहुव्रीहिः। अजादि च तद् अदन्तम् अजाद्यदन्तम्, कर्मधारयः। अजाद्यदन्तं प्रथमान्तम् एकपदमिदं सूत्रम्। द्वन्द्वे घि (..३२) इत्यस्मात् सूत्रात् द्वन्द्वे इत्यस्य अनुवृत्तिः । उपसर्जनं पूर्वम्‌ (..३०) इत्यस्मात् सूत्रात् पूर्वम् इत्यस्य अनुवृत्तिः । अनुवृत्ति-सहित-सूत्रं— द्वन्द्वे अजाद्यदन्तं पूर्वम् ।


यथा—

ईशश्च कृष्णश्च = ईशकृष्णौ। अलौकिकविग्रहवाक्यं – ईश+ सु +कृष्ण+सु चार्थे द्वन्द्वः (..२९) इति सूत्रेण द्वन्द्वसमासः भूत्वा, समासप्रयुक्तस्य प्रातिपदिकस्य सुप् प्रत्ययस्य लुक् भवति। ईश+कृष्ण अत्र कोपि शब्दः घिसंज्ञकः नास्ति।अधुना अजाद्यदन्तम्‌ (..३३) इति सूत्रं वदति यः शब्दः अजादिः अदन्तः अस्ति तस्य पूर्वप्रयोगः भवति। अत्र ईश इति शब्दः अजादिः अपि अस्ति अदन्तः अपि अस्ति अतः तस्य पूर्वनिपातः भवति। अतः ईशकृष्ण इति प्रातिपदिकं भवति। अत्र द्वे पदे स्तः अतः समस्तपदं द्विवचने ईशकृष्णौ इति भवति।

बहुष्वनियमः इति वार्तिकेन यत्र बहूनि पदानि अजन्तानि अदन्तानि सन्ति तत्र एकस्य शब्दस्य पूर्वनिपातः भवति, अवशिष्टानां पदानां विषये नियमः नास्ति अतः अस्माकम् इच्छानुसारेण एते शब्दाः मध्ये अपि भवितुम् अर्हन्ति अन्ते अपि भवितुम् अर्हन्ति ।

यथा –

अश्वश्च रथश्च इन्द्रश्च = अश्वरथेन्द्राः/इन्द्राश्वरथाः। अश्व अपि च इन्द्र, पदद्वयम् अपि अजादिः अदन्तः अस्ति। अजाद्यदन्तम्‌ (..३३) इति सूत्रं वदति यः शब्दः अजादिः अदन्तः अस्ति तस्य पूर्वप्रयोगः भवति। अश्व अपि च इन्द्र इति शब्दयोः मध्ये एकस्य पूर्वनिपातः भवति। तदनन्तरं बहुष्वनियमः इति वार्तिकेन यत्र बहूनि पदानि अजन्तानि अदन्तानि सन्ति तत्र एकस्य शब्दस्य पूर्वनिपातः भवति। यत्र अश्व इति पदस्य पूर्वनिपातः भवति तत्र समस्तपदम् अस्ति अश्वरथेन्द्राः। यत्र इन्द्र इति पदस्य पूर्वनिपातः भवति तत्र समस्तपदम् अस्ति इन्द्राश्वरथाः।


यत्र एकत्र द्वन्द्वे घि (..३२), अजाद्यदन्तम्‌ (..३३), द्वयोः सूत्रयोः प्रसक्तिः अस्ति तत्र किं करणीयम्? अत्र एकं वार्तिकं वर्तते – घ्यन्तादजाद्यन्तं विप्रतिषेधेन इति। एतत् वार्तिकं वदति यत् यत्र एकत्र द्वन्द्वे घि (..३२), अजाद्यदन्तम्‌ (..३३), द्वयोः सूत्रयोः प्रसक्तिः अस्ति तत्र विप्रतिषेधे परं कार्यं (..) इति सूत्रस्य नियमानुसारेण समानकाले तुल्यबले सूत्रे कार्यं कर्तुम्‌ आयातश्चेत्‌, परसूत्रस्य कार्यं पूर्वं भवति । यदि द्वे सूत्रे स्तः ययोः द्वयोरपि अन्यत्र क्वचित्‌ कार्यं कर्तुम्‌ अवकाशोऽस्ति, अपि च यदि इमे द्वे सूत्रे युगपत्‌ एकस्मिन्‌ स्थले कार्यं कर्तुम्‌ आगच्छतः, तर्हि इमे द्वे सूत्रे तुल्यबले इत्युच्यते | अपि च समानस्थले समानकाले कार्यं कर्तुं तयोः द्वयोः यः परस्परः सङ्घर्षः, सः तुल्यबलविरोधः इत्युच्यते । अर्थात् अजाद्यदन्तम्‌ (..३३) इति परसूत्रम् अस्ति अतः तस्य कार्यं प्रथमं भवति। यस्य शब्दस्य अन्ते घिसंज्ञकः शब्दः ह्रस्व इकारान्तः वा उकारान्तः अस्ति सः घ्यन्तः इति उच्यते।

यथा—

इन्द्रश्च अग्निश्च = इन्द्राग्नी। अत्र इन्द्र इति शब्दः अजादिः अदन्तः अतः अजाद्यदन्तम्‌ (..३३) इति सूत्रस्य प्रसक्तिः अस्ति। अग्नि इति शब्दः घिसंज्ञकः अतः द्वन्द्वे घि (..३२) इति सूत्रस्य प्रसक्तिः अस्ति। तर्हि एकत्र द्वन्द्वे घि (..३२), अजाद्यदन्तम्‌ (..३३), द्वयोः सूत्रयोः प्रसक्तिः अस्ति, अतः विप्रतिषेधे परं कार्यं (..) इति सूत्रस्य नियमानुसारेण परसूत्रस्य बलं भवति। अजाद्यदन्तम्‌ (..३३) इति परसूत्रस्य कार्येण इन्द्र इति शब्दस्य पूर्वनिपातः भवति। अनेन इन्द्राग्नी इति समस्तपदं भवति।


अल्पाच्तरम्‌ (..३४) = द्वन्द्वसमासे सर्वेषु पदेषु यस्य पदस्य अल्पाः अच् वर्णाः सन्ति, तस्य पूर्वप्रयोगः भवति।अल्पाच्तरं शब्दरूपं द्वन्द्वे समासे पूर्वं प्रयोक्तव्यम्।अल्पः अच् यस्य तद् अल्पाच् (पदम्) बहुव्रीहिः। अल्पाच् एव अल्पाच्तरम्, स्वार्थे तरप्। अल्पाच्तरं प्रथमान्तम् एकपदमिदं सूत्रम् ।द्वन्द्वे घि (..३२) इत्यस्मात् सूत्रात् द्वन्द्वे इत्यस्य अनुवृत्तिः । उपसर्जनं पूर्वम्‌ (..३०) इत्यस्मात् सूत्रात् पूर्वम् इत्यस्य अनुवृत्तिः । अनुवृत्ति-सहित-सूत्रं— द्वन्द्वे अल्पाच्तरं पूर्वम् ।


अनेकप्राप्तावेकत्र नियमोऽनियमः शेषे इति वार्तिकेन यदि एकाचः पूर्वप्रयोगः अस्ति तदनन्तरं अन्ये शब्दानां विषये नियमः नास्ति।

यथा—

शिवश्वच केशवश्च = शिवकेशवौ। अलौकिकविग्रहवाक्यं – शिव+ सु +केशव+सु →'चार्थे द्वन्द्वः(..२९) इति सूत्रेण द्वन्द्वसमासः भूत्वा, समासप्रयुक्तस्य प्रातिपदिकस्य सुप् प्रत्ययस्य लुक् भवति। शिव+केशव → ' अत्र कोपि शब्दः घिसंज्ञकः नास्ति, अतः द्वन्द्वे घि (..३२) इति सूत्रस्य कार्यं नास्ति। अपि च कोपि शब्दः अजादिः अदन्तः च नास्ति अतः अजाद्यदन्तम्‌ (..३३) इति सूत्रस्य किमपि कार्यं नास्ति। अत्र अल्पाच्तरम्‌ (..३४) इति सूत्रेण यस्य पदस्य अल्प अच् वर्णः अस्ति तस्य पूर्वप्रयोगः क्रियते। शिव इति शब्दे द्वौ अच् वर्णौ वर्तेते, केशव इति शब्दे त्रयः अच् वर्णाः सन्ति अतः अनयोः शब्दयोः शिवः इति शब्दस्यैव अल्पाच्तरः, तस्यैव पूर्वप्रयोगः क्रियते। शिवकेशवौ इति समस्तपदं निष्पन्नं भवति।

ऋतुनक्षत्राणां समाक्षराणामानुपूर्व्येण इयि वार्तिकेन यत्र ऋतुवाचकशब्दः अपि च नक्षत्रवाचकशब्दः, तयोः यदा द्वन्द्वः भवति अपि च तयोः समानाक्षराणि सन्ति चेत् तदा कालक्रमाणुसारेण पूर्वनिपातः भवति। अर्थात् ऋतुनां प्रादुर्भावस्य क्रमेण अपि च नक्षत्राणां उदयकृत् क्रमेण पूर्वनिपातः भवति। हेमन्तः, शिशिरः, वसन्तः, ग्रीष्मः, वर्षा, शरद्, इति ऋतुक्रमः अस्ति। अश्विनी, भरणी, कृतिका, रोहिणी इति नक्षत्रक्रमः।

यथा—

हेमन्तश्च, शिशिरश्च, वसन्तश्च = हेमन्तशिशिरवसन्ताः। अत्र ऋतुनक्षत्राणां समाक्षराणामानुपूर्व्येण इति वार्तिकेन कालक्रमेण समानाक्षराणाम् ऋतुवाचकानां पूर्वनिपातः भवति। हेमन्त, शिशिर, वसन्त इति त्रीणि पदानि अपि समानाक्षराणि सन्ति अतः कालक्रमेण पूर्वनिपातः भवति। कालक्रमेण हेमन्तः इति पदस्य पूर्वनिपातः भवति। अवशिष्टानां पदानां बहुष्वनियमः इति वार्तिकेन यत्र बहूनि पदानि समानाक्षराणि तत्र एकस्य शब्दस्य पूर्वनिपातः भवति, अवशिष्टानां पदानां विषये नियमः नास्ति अतः अस्माकम् इच्छानुसारेण एते शब्दाः मध्ये अपि भवितुम् अर्हन्ति अन्ते अपि भवितुम् अर्हन्ति । अत्र हेमन्तः इति पदस्य पूर्वनिपातः भवति, अवशिष्टानां पदानां न कोपि नियमः अस्ति। = हेमन्तशिशिरवसन्ताः अथवा हेमन्तवसन्तशिशिराः इति समस्तपदं भवितुम् अर्हति।

कृत्तिका च रोहिणी च = कृत्तिकारोहिण्यौ । कृत्तिका अपि च रोहिणी इति पदद्वयम् अपि समानाक्षरम् अस्ति अतः ऋतुनक्षत्राणां समाक्षराणामानुपूर्व्येण इयि वार्तिकेन समानाक्षराणाम् नक्षत्रवाचकानाम् उदयक्रमेण पूर्वनिपातः भवति। उदयक्रमेण कृत्तिका इति पदस्य पूर्वनिपातः भवति। अतः कृत्तिकारोहिण्यौ इति समस्तपदं भवति।

ग्रीष्मश्च वसन्तश्च = ग्रीष्मवसन्तौ। अत्र द्वयोः पदयोः समानाक्षरं नास्ति अतः ऋतुनक्षत्राणां समाक्षराणामानुपूर्व्येण इति वार्तिकस्य प्रयोगः न करणीयः। अत्र अल्पाच्तरम्‌ (..३४) इति सूत्रेण अल्पाच् शब्दस्य पूर्वनिपातः भवति। ग्रीष्म इति शब्दः अल्पाच् अस्ति अतः तस्य पूर्वनिपातः भूत्वा ग्रीष्मवसन्तौ इति समस्त्पदं भवति।

लष्वक्षरं पूर्वम् इति वार्तिकेन समानाक्षराणां शब्दानां मध्ये लघ्वक्षरस्य शब्दस्य पूर्वनिपातः भवति। लघुसंज्ञकं अक्षरं यस्मिन् शब्दे अस्ति तस्य पूर्वनिपातः भवति।

यथा –

कुशश्च काशश्च = कुशकाशम् । अलौकिकविग्रहवाक्यं – कुश+ सु +काश+सु →'चार्थे द्वन्द्वः(..२९) इति सूत्रेण द्वन्द्वसमासः भूत्वा, समासप्रयुक्तस्य प्रातिपदिकस्य सुप् प्रत्ययस्य लुक् भवति। शिव+केशव → ' अत्र कोपि शब्दः घिसंज्ञकः नास्ति, अतः द्वन्द्वे घि (..३२) इति सूत्रस्य कार्यं नास्ति। अपि च कोपि शब्दः अजादिः अदन्तः च नास्ति अतः अजाद्यदन्तम्‌ (..३३) इति सूत्रस्य किमपि कार्यं नास्ति। अत्र कोपि शब्दः अल्पाच् नास्ति अतः अल्पाच्तरम्‌ (..३४) इति सूत्रस्यापि प्रसक्तिः अपि नास्ति। लष्वक्षरं पूर्वम् इति वार्तिकेन निर्णयः क्रियते। अनेन वार्तिकेन समस्यमानयोः शब्दयोः समानाक्षराणि सन्ति चेत् तर्हि यस्य शब्दस्य लघुसंज्ञकवर्णः अस्ति तस्य पूर्वनिपातः भवति। अत्र कुश इति शब्दे अकारस्य लघुसंज्ञा अस्ति, काश इति शब्दे आकारस्य गुरुसंज्ञा अस्ति अतः कुश इति शब्दस्य पुर्वनिपातः भवति। कुशकाशौ इति समस्तपदं भवेत् परन्तु अत्र समस्तपदं कुशकुशम् इति नपुंसकलिङ्गे एकवचने अस्ति। किमर्थम् इत्युक्ते अत्र समाहारद्वन्द्वसमासस्य विवक्षा अस्ति अतः स नपुंसकम् ( ..१७) इति सूत्रेण नपुंसकत्व भवति अपि च वक्ष्यमाणेन जातिरप्राणिनाम् ( ..) इति सूत्रण जातिवाचिनां शब्दानां द्वन्द्वे एकवद् भवति प्राणिनो वर्जयित्वा। अनेन सूत्रेण समाहारद्वन्द्वपूर्वकः एकवचने भवति। फलतः सु प्रत्ययस्य आनयनेन, तस्य स्थाने अतोऽम् ( ..२४) इति सूत्रेण अकारान्त-नपुंसकलिङ्गशब्दात् परस्य प्रथमा-द्वितीया-एकवचनस्य सु , अम्-प्रत्यययोः अम्-आदेशः भवति ।अनन्तरं अमि पूर्वः ( ..१०७) इति सूत्रेण अक्-वर्णात् परस्य अम्-प्रत्यये परे पूर्वपरयोः एकः पूर्वरूपादेशः भवति । अनेन कुशकाशम् इति समस्तपदं सिद्धं भवति।

'अभ्यर्हितंच इति वार्तिकेन द्वन्द्वसमासे श्रेष्ठः, पूज्यः, अनयोः पूर्वनिपातः भवति। इदं वार्तिकं द्वन्द्वे घि (..३२), ' अजाद्यदन्तम्‌ (..३३), अल्पाच्तरम्‌ (..३४), इत्येतेषां सूत्राणाम् अपवादः अस्ति।

यथा—

तापश्च पर्वतश्च = तापसपर्वतौ। अत्र लष्वक्षरं पूर्वम् इति वार्तिकेन पर्वत इति शब्दस्य पूर्वप्रयोगः प्राप्तः आसीत्। तत् वार्तिकं बाधयित्वा अभ्यर्हितं इति वार्तिकेन तापस इति शब्दस्य पूर्वनिपातः भवति यतोहि पर्वत इति शब्दस्य अपेक्षया तपस्वी इति शब्दः पूज्यः। अतः तापस इति शब्दस्य पूर्वप्रयोगं कृत्वा तापसपर्वतौ इति समस्तपदं निष्पन्नं भवति।

एवमेव वासुदेवश्च अर्जुनश्च इति विग्रहे अल्पाच्तरम्‌ (..३४) इति सूत्रेण अर्जुन इति शब्दः अल्पाच् अस्ति अतः तस्य पूर्वनिपात भवेत् किन्तु अर्जुनस्य अपेक्षया वासुदेवः पूज्यनीयः अतः वासुदेव इति शब्दस्य पूर्वनिपातः भवति अभ्यर्हितं इति वार्तिकेन। अतः वासुदेवार्जुनौ इति समस्तपदं भवति। एवमेव मातापितरौ, श्रद्धामेधे इति समस्तपदानि अपि भवन्ति।

वर्णानामानुपूर्व्येण इति वार्तिकेन वर्णानां तेषां क्रमेण एव पूर्वनिपातः भवति। अत्र वर्णशब्दः अकारादीनां बोधकः अभूत्वा ब्राह्मणः, क्षत्रियः इत्यादीनां बोधकः भवति। आनुपूर्व्यः इति शब्दस्य अर्थः अस्ति क्रमः इति। श्रुतिः, स्मृतिः च, तयोः प्रमाणेन एव सृष्टिक्रमाणुसारम् अपि वर्णक्रमः अस्ति - ब्राह्मणः, क्षत्रियः, वैश्यः, शूद्रः च। यथा – ब्राह्मणश्च, क्षत्रियश्च विट् च शूद्रश्च = ब्राह्मणक्षत्रियविट्छूद्राः ।

भ्रातुज्यार्यसः इति वार्तिकेन सहोदरयोः मध्ये ज्येष्ठस्य भ्रातुः पूर्वनिपातः भवति। इदं वार्तिकम् अल्पाच्तरम्‌ (..३४) इति सूत्रस्य अपवादः अस्ति। यथा – युधिष्ठिरश्च अर्जुनश्च = युधिष्ठिरार्जुनौ। अत्र युधिष्ठिरः ज्येष्ठः अतः तस्य पूर्वनिपातः भवति यद्यपि अर्जुन इति शब्दः अल्पाच् अस्ति।

इति द्वन्द्वसमासः समाप्तः।



Vidhya    March 2020