30 - हेत्वाभासः
अस्मिन् पाठे हेत्वाभासस्य वर्णनं सक्षेपेण क्रियते | विषयाः एते—
हेत्वाभासः कः
- दोषः कः, आभासः कः
न्यायशास्त्रम् अनुसृत्य यथार्थज्ञानं चतुर्विधं—प्रत्यक्षम्, अनुमितिः, उपमितिः, शाब्दबोधश्च | प्रत्यक्षे इन्द्रियद्वारा यथार्थज्ञानम् उत्पद्यते | परन्तु चक्षुः सम्यक् नास्ति चेत्, यत् ज्ञानम् उत्पद्यते तत् प्रमात्मकं न अपि तु भ्रमात्मकमेव, अयथार्थम् | एवमेव, अनुमाने हेतुद्वारा ज्ञानम् उत्पद्यते | परन्तु हेतुः सम्यक् नास्ति चेत्, यत् ज्ञानम् उत्पद्यते तत् प्रमात्मकं न अपि तु भ्रमात्मकमेव | अनुमाने भ्रमात्मकज्ञानम् उत्पद्यते चेत्, तस्य कारणम् अस्ति यत् हेतौ दोषः अस्ति | हेतौ दोषः अस्ति चेत् अनुमानेन यत् ज्ञानम् उत्पद्यते तत् भ्रमात्मकम् | 'पक्षे साध्यम् अस्ति' इति ज्ञानं प्रति हेतुज्ञानं कारणं; तदर्थं 'हेतुः' इति उच्यते | कस्यचित् अनुमानस्य हेतौ दोषः अस्ति चेत्, यः जनः जानाति यत् 'प्रकृतानुमानस्य हेतौ दोषः अस्ति' सः तदनुमानं न प्रयुङ्क्ते एव अतः अनुमितिः न उत्पद्यते | 'हेतौ दोषः अस्ति' इति न जानाति चेत्, अनुमानं प्रवर्तयति परन्तु या अनुमितिः उत्पद्यते सा प्रमात्मिका न अपि तु भ्रमात्मिका |
हेतौ पञ्चविधदोषाः सम्भवन्ति—
१) हेतुः पक्षे नास्ति;
२) हेतुसाध्ययोर्मध्ये व्याप्यव्यापकभावो नास्ति;
३) हेतुसाध्ययोर्मध्ये विरोधः अस्ति;
४) साध्यं पक्षे नास्ति;
५) साध्याभावसाधकहेत्वन्तरं पक्षे अस्ति |
तदानीं खलु किञ्चन वस्तु 'हेतुः' अस्ति यदा (१) तद्वस्तु प्रकृतपक्षे अस्ति अपि च (२) प्रकृतसाध्यं प्रति तद्वस्तु व्याप्यम् अस्ति | अनयोः द्वयोर्मध्ये यत्किमपि एकं नास्ति चेत्—तद्वस्तु पक्षे नास्ति अथवा साध्यं प्रति व्याप्यं नास्ति—तर्हि कथं वा 'हेतुः' इति वक्तुं शक्नुयाम ? अपि च कोऽपि तादृशं हेतुं प्रयुङ्क्ते चेत्, तस्मिन् हेतौ 'दोषः अस्ति' इति अवश्यं वक्तव्यम् |
उपर्युक्तेषु पञ्चसु दोषेषु प्रथमत्रिषु स्पष्टतया प्रकटम् अस्ति यत् 'अस्मिन् हेतौ दोषो वर्तते' | उदाहरणत्वेन—
१) ‘शब्दः अनित्यः चाक्षुषत्वात्' | अस्मिन् अनुमाने चाक्षुषत्वं—चक्षुर्ग्राह्यत्वं—हेतुरूपेण स्वीकृतम् | 'यत्र यत्र चाक्षुषत्वं तत्र तत्र अनित्यत्वम्' इति व्याप्यव्यापकभावम् आधारीकृत्य, 'चक्षुर्ग्राह्यत्वं शब्दरूपपक्षे अस्ति अतः अनित्यत्वम् अपि शब्दे अस्ति' इति अनुमानम् | परन्तु चाक्षुषत्वं शब्दे नास्ति एव इति जानीमः, नाम हेतुः पाक्षे नास्ति | अतः अस्मिन् हेतौ दोषः अस्ति इति स्पष्टम् | अयं हेतुः 'दुष्टः' | अत्र च व्याप्यव्यापकभावोऽपि नास्ति अतः अस्मिन् हेतौ एकस्मात् अधिकदोषाः सन्ति | परन्तु हेतुः स्वयं पक्षे नास्ति चेत् यथेष्टं वदनार्थं यत् अयं हेतुः दुष्टः |
२) 'पर्वतः धूमवान् वह्नेः' | अस्मिन् अनुमाने धूमः साध्यः, वह्निः हेतुः; धूमं प्रति वह्निः व्याप्यः इत्युक्तम् | परन्तु पर्वते वह्निः अस्ति चेत् धूमः अपि भवेत् इति नास्ति, वह्निः बहुत्र भवितुमर्हति यत्र धूमः न स्यात् | अतः धूमज्ञानं प्रति वह्निज्ञानं कारणम् इति कोऽपि वदति चेत्, नाम धूमसाध्यं प्रति वह्निहेतुः इति कोऽपि वदति चेत्, तस्मिन् हेतौ दोषः अस्ति; स च सद्धेतुः न अपि तु दुष्टः एव | साध्यः व्यापकः, हेतुः व्याप्यः इति अवश्यं भवेत्, तदानीमेव 'हेतुः' इति वदामः | हेतुसाध्ययोर्मध्ये व्याप्यव्यापकभावो नास्ति चेत् तादृशः हेतुः न स्वीकर्तव्यः; तादृशहेतौ दोषः वर्तते |
३) 'पर्वतः वह्निमान् जलात्' | वह्निजलयोर्मध्ये व्याप्यव्यापकभावो नास्ति; वह्निं प्रति जलं व्याप्यं नास्ति | यत्र यत्र जलं तत्र तत्र वह्निः इति नास्ति किल—केवलं तन्न, जलम् अस्ति चेत् वह्निः न भवति एव अतः द्वयोर्मध्ये विरोधः अस्ति | अनेन प्रकटम् अस्ति यत् साध्यवह्निं प्रति जलम् इत्येतादृशहेतौ दोषः अस्ति | कीदृशदोषः ? विरोधदोषः | हेतुसाध्ययोर्मध्ये न केवलं व्याप्यव्यापकभावो नास्ति, अपि तु तयोर्मध्ये विरोधसम्बन्धः अस्ति, नाम एकमस्ति चेत्, अन्यः न भवत्येव | अतः अत्रापि स्पष्टम् अस्ति यत् अनुमितिः नोत्पद्यते यतोहि 'हेतौ दोषः वर्तते' |
उपर्युक्तत्रिषु अनुमानेषु दोषः अस्ति, अपि च स च दोषः हेतौ एव इति प्रकटम् | अवशिष्टद्वयोः स्थलयोः अनुमाने दोषः अस्ति इति अवश्यं, किन्तु स च दोषः हेतौ एव इति तावत् स्पष्टं प्रायः न स्यात् |
४) ‘वह्निः अनुष्णः द्रव्यत्वात्’ | अत्र अनुष्णत्वं साध्यं, किन्तु यः पक्षः वह्निः सः उष्णः एव न तु अनुष्णः अतः तादृशम् अनुष्णत्वं साध्यं वह्निपक्षे नास्ति | अनेन प्रकटम् अस्ति यत् इदम् अनुमानं सम्यक् नास्ति, परन्तु दोषः कुत्र ?
साध्यं पक्षे नास्ति अतः दोषः साध्ये किल न तु हेतौ | हेतौ किमर्थं दोषः वदेम ? एतादृशपरिस्थितौ हेतुः यः कोऽपि भवतु नाम, दोषः अस्ति यत् साध्यं पक्षे नास्ति | परन्तु—यतोहि यस्मिन् किस्मिन्नपि अनुमाने साध्यज्ञानं प्रति हेतुज्ञानं कारणम्, अतः दोषः साक्षात् हेतौ न भाति चेदपि दोषः हेतौ एव इति स्वीक्रियते | अनुमानप्रकरणे हेतुज्ञानस्य साध्यज्ञानं प्रति कारणत्वात् हेतुः केन्द्रितः; हेतोः प्राधान्यम् | विद्याधर्याम् अयं दोषः केन सम्बन्धेन हेतौ इति प्रदर्श्यते |
५) 'ह्रदः वह्निमान् धूमात्' | तत्र अपरः कश्चित् वदति 'ह्रदः वह्न्यभाववान् जलात्' | प्रथमजनः ह्रदे धूमं दृष्ट्वा 'वह्निः अस्ति' इति वदति; द्वितीयजनः तस्मिन्नेव ह्रदे जलं दृष्ट्वा 'वह्निः नास्ति' इति वदति | साध्यः वह्निः, धूमः हेतुः; साध्याभावः वह्न्यभावः, तं वह्न्यभावं प्रति जलं हेतुः | जलं साध्याभावसाधकहेत्वन्तरम् | अत्रापि दोषः हेतौ इति कल्पयितुं शक्नुमः; अनुमानप्रयोगद्वयं वर्तते इति कारणतः इदम् उदाहरणम् अन्ते स्थापितम् |
एतावता उदाहरणानां द्वारा हेतौ दोषः कथमिति अवलोकितम् | अपि च मध्ये मध्ये 'हेतौ दोषः', मध्ये मध्ये 'हेतुः दुष्टः' इति अपि वयम् उक्तवन्तः | दोषपरतया, दुष्टपरतया च वक्तुं शक्यते | यस्मिन् दोषः सः दोषवान्; दोषवान् इति अर्थे 'दुष्टः' इति व्यवहृयते | तदर्थं 'हेत्वाभासः' इति शब्दस्य विग्रहवाक्यद्वयं वर्तते | 'हेतौ आभासः', हेत्वाभासः इति दोषपरतया (तत्र 'हेतोः आभासः' इत्यपि वक्तुं शक्यम्) | अन्यः अस्ति 'हेतुवत् आभासते', हेत्वाभासः इति दुष्टपरतया | अत्र उपपदसमासः |
यत्र 'हेतौ आभासः' इति विग्रहवाक्यं, तत्र 'अभासः' इत्युक्ते 'दोषः' | यत्र 'हेतुवत् आभासते' इति विग्रहवाक्यं, तत्र 'आभासते' नाम 'भाति', ‘प्रतीयते' | यदा हेतौ दोषः अस्ति किन्तु कोऽपि चिन्तयति यत् 'अयं हेतुः सम्यक् अस्ति’, तदा तस्य कृते अयं पदार्थः 'हेतुः' इति भाति, प्रतीयते, आभासते | तत्र हेतुः इति भासते, किन्तु सद्धेतुः नास्ति |
यत्र अनुमितिः भ्रमात्मिका, तत्र सा च अनुमितिः 'भ्रमात्मिका' इत्यस्य प्रदर्शनार्थं 'हेतौ दोषः अस्ति' इति प्रदर्शनीयम् | एतद्भवति प्रतिबन्धकज्ञानद्वारा | प्रतिबन्धकज्ञानस्य विषयः अस्ति स च दोषः | प्रतिबन्धकज्ञानम् अनुमितिः इति ज्ञानं प्रतिबध्नाति; यस्य मनसि प्रतिबन्धकज्ञानम् अस्ति, सः इमाम् अनुमितिं न प्रयुङ्क्ते अतः तत्र अनुमितिः नोत्पद्यते | तर्हि इदं प्रतिबन्धकज्ञानं कीदृशम् इति अस्माभिः अवगन्तव्यम् |
प्रतिबन्धकत्वम्
साधारणसिद्धान्ताः उक्ताः—
१) प्रतिबध्यप्रतिबन्धकज्ञानयोर्मध्ये समानाकारकत्वं भवेत् | विशेष्यः उभयत्र समानः, अपि च एकस्मिन् ज्ञाने यः प्रकारः, तदभावः अपरस्मिन् ज्ञाने प्रकारः | (एतत्तु वस्तुतः केवलं वक्ष्यमाण-प्रथमप्रकारकप्रतिबन्धकत्वे भवति, यत्र स च प्रतिबन्धकः 'तद्वत्ताबुद्धिं प्रति तदभाववत्तानिश्चयमुद्रया' प्रतिबन्धकः अस्ति |)
२) प्रतिबन्धकीभूतं ज्ञानं प्रमात्मकं वा भ्रमात्मकं वा भवितुम् अर्हति | प्रतिबध्यज्ञानमपि प्रमात्मकं वा भ्रमात्मकं वा भवितुम् अर्हति |
३) हेत्वाभासप्रकरणे प्रतिबध्यज्ञानं सर्वदापि भ्रमात्मकमेव; प्रतिबन्धकज्ञानं सर्वदापि प्रमात्मकमेव | तत्र च प्रतिबध्यज्ञानं अनुमितिर्वा परामर्शो वा भवति | प्रतिबन्धकज्ञानं हेत्वाभासनिश्चयः भवति, नाम हेत्वाभासविषयक-निश्चयात्मक-ज्ञानम् अस्ति |
आहत्य—
अनुमानप्रकरणे अनुमितिः प्रमात्मिका, हेतुः च सद्धेतुः | अतः तस्य प्रतिबन्धकज्ञानं नापेक्षितम् | (प्रतिबन्धकज्ञानं सम्भवति किन्तु तत्र यतः अनुमितिः प्रमात्मिका, तस्य प्रतिबन्धकं भवति चेत्, तत्तु भ्रमात्मकमेव, निष्प्रयोजनं च |)
प्रतिबन्धकज्ञानम् अपेक्षितं यत्र अनुमानप्रयोगस्य हेतौ दोषः वर्तते, यस्य फले अनुमितिः यदि जायेत सा तु भ्रमात्मिका स्यात् | अनुमितिः प्रमात्मिका भवेत् अतः जायमानभ्रमात्मिकानुमितेः निवारणार्थं प्रतिबन्धकज्ञानम् अपेक्षितम् |
हेत्वाभासप्रकरणे यत् ज्ञानं प्रतिबन्धकम् अस्ति तत् यथार्थमेव इत्युक्तं, न तु अयथार्थम् | तस्य च अन्यत् नाम 'हेत्वाभासनिश्चयः' | हेत्वाभासः यतोहि तस्य ज्ञानस्य विषयः हेत्वाभासः; निश्चयः यतोहि तच्च ज्ञानं निश्चयात्मकं न तु संशयात्मकम् | 'आभासस्य' अन्यत् नाम अस्ति 'दोषः' | तर्हि 'दोषः' यं वदामः, सः यथार्थज्ञानस्य विषयः न तु अयथार्थज्ञानस्य |
इति चेत् ‘दोषः’ किमर्थं वक्तव्यम् ? यथार्थज्ञानस्य विषयः किमर्थं दोषः इति वदेम ? तद्विषयकनिश्चयेन भ्रमात्मिकानुमितिः न जायते इति एव 'दोषत्वम्' | अनुमानस्य हेतौ दोषं प्रदर्शयति इति कृत्वा अयं प्रसिद्धविषयः 'आभासः' वा 'दोषः' वा इति उच्यते |
तर्हि वस्तुतः स्वयं दोषः नास्ति; तद्विषयकनिश्चयः साधुः एव | अतः अस्मिन् एकं वैचित्र्यम् अस्ति | अनुमितिः न जायेत, तस्य च निवारणार्थं कारणं जातम् इति कृत्वा दोषः | अनुमितेः प्रतिबन्धकीभूत-ज्ञानस्य विषयः इति कारणेन एव तस्य दोषत्वम् | अतः स्वयं दोषः नास्ति; दोषत्वं जायते दुष्टहेतुम् उद्दिष्य | हेतुः दुष्टः इत्यस्य प्रदर्शनार्थम् अयं प्रसिद्धविषयः दोषः जातः | ‘शब्दः अनित्यः चाक्षुषत्वात्' इति स्थले चाक्षुषत्वम् इति हेतुः दुष्टः यतोहि शब्दरूपपक्षे नास्ति | हेत्वाभासनिश्चयः अस्ति 'चाक्षुषत्वाभाववान् शब्दः', अपि च तस्य विषयः तदेव | तर्हि 'चाक्षुषत्वाभाववान् शब्दः' इति विषयः स्वयं प्रसिद्धः एव, परन्तु 'चाक्षुषत्ववान् शब्दः' इति पक्षधर्मताज्ञानविषयः अप्रसिद्धः; तम् उद्दिष्य दोषं प्रदर्शयति अतः अस्मिन् प्रसङ्गे 'चाक्षुषत्वाभाववान् शब्दः' इति विषयः स्वयं 'दोषः' जातः |
अत्र अन्यः प्रश्नः उदेति यत् हेत्वाभासप्रकरणे किमर्थं प्रतिबन्धकज्ञानं सर्वदापि प्रमात्मकमेव | अस्य कारणम् अस्ति यत् हेत्वाभासः अस्ति वास्तविकविषयः | हेत्वाभासः, दोषः, वास्तवः एव भवति | शरीरे रोगः अस्ति चेत्, सः कश्चन दोषः | किन्तु रोगः अस्ति इति वास्तवमेव | अतः दोषः अस्ति चेत्, तत् 'दोषः' इति उक्त्वा अवास्तवमिति न | कुत्रचित् 'दोषः अस्ति' इति कस्यचित् ज्ञानं जायते चेत् तत् ज्ञानं तो प्रमा एव भवति | शरीरे व्याधिः अस्ति चेत्, ‘व्याधिः अस्ति' इति तु सत्यमेव | कोऽपि 'दोषः' इति श्रुत्वा 'सत्यं न' इति भावयति चेत्, सम्यक् नास्ति | ज्ञाने दोषः अस्ति चेत् भ्रमः इति उच्यते | किन्तु शरीरे दोषः (रोगः) अस्ति चेत् भ्रमः इति न वक्तव्यम् | दोषः अस्ति इति तु 'fact’ | अतः वस्तुस्थितिः भिन्ना, तस्य च ज्ञानं भिन्नम् | हेत्वाभासे, प्रकृतहेतौ व्याप्तिः नास्ति अथवा पक्षधर्मता नास्ति इति दोषः | दोषः सत्यम् | यथा 'व्याप्ति-अभावः' इति दोषः; व्याप्तिः नास्ति इति तु सत्यम् | ‘दोषः अस्ति' इति यः जानाति, तस्य कृते तत् ज्ञानं प्रमात्मकम् | 'पर्वतः धूमवान वह्नेः' इति प्रयोगे वह्नौ धूमनिरूपितव्याप्तिः नास्ति | तत्र प्रकृतहेतौ प्रकृतसाध्यनिरूपितव्याप्तेः अभावः एव दोषः | तस्य ज्ञानं कस्यचित् अस्ति चेत्, तत् प्रमात्मकज्ञानमेव | सः एव हेत्वाभासनिश्चयः |
यं कमपि हेत्वाभासं स्वीकुर्मः, तस्य हेत्वाभासनिश्चयः परामर्शं प्रति वा अनुमितिं प्रति प्रतिबन्धकः भवति | सम्भवति चेत् साक्षात् अनुमितिं प्रति; तथा न भवितुम् अर्हति चेत्, परामर्शं प्रति प्रतिबन्धकः भवति |
अयथार्थनिश्चयः अनुमितिं प्रतिबध्नाति, किन्तु स च अयथार्थनिश्चयः हेत्वाभासनिश्चयो न
कस्यचित् मनसि विचारः जातः यत् पर्वते वह्न्यभावः अस्ति | स च विचारः भ्रमात्मकः; वस्तुतः अस्ति वह्निः | सामान्यप्रतिबध्यप्रतिबन्धकभावे 'पर्वते वह्न्यभावः अस्ति' इति भ्रमात्मकनिश्चयः प्रतिबन्धकः भवति; किन्तु हेत्वाभासे न भवति | पर्वतः वह्यभाववान् इति निश्चयः अस्ति चेत्, अग्रे पर्वतः वह्निमान् इति अनुमितिः न जायते | किन्तु पर्वतः वह्यभाववान् इति निश्चयः हेत्वाभासनिश्चयः नास्ति | अस्ति निश्चयः, अस्ति प्रतिबन्धकः, किन्तु हेत्वाभासनिश्चयः नास्ति |
अस्य बोधनार्थं हेत्वाभासः कः इति अवगन्तव्यः | हेत्वाभासनिश्चयः कदा भवति इति चेत्, प्रकृतः हेतुः दुष्टः चेदेव | ‘पर्वतः वह्निमान् धूमात्' इति प्रयोगे कोऽपि दोषः अस्ति चेदेव अयं दोषः हेत्वाभासः भवति | अयं दोषः हेत्वाभासः चेदेव जातः निश्चयः हेत्वाभसनिश्चयः भवति | यथा प्रकृतहेतुः पक्षे नास्ति, अथवा हेतुसाध्ययोः मध्ये वाप्यव्यापकभावो नस्ति, एतादृशः कश्चनदोषः अस्ति चेदेव हेतुः 'दुष्टः', अपि च तदा एव तेन हेतुना निष्पन्नानुमितिं प्रति यत् प्रतिबन्धकज्ञानं, तत् हेत्वाभासनिश्चयः भवति | आहत्य हेतौ दोषः नास्ति चेत् निश्चयः प्रतिबन्धकः अस्ति किन्तु तस्य प्रतिबन्धकस्य विषयः हेत्वाभासः नास्ति | हेत्वाभासप्रकरणे विरोधिज्ञानं सदा प्रमारूपमेव भवेत्, नो चेत् अनुमितिनामकज्ञाने किमपि मूल्यं न स्थास्यति | यथार्थज्ञानं चतुर्विधम् इत्युक्तं किन्तु भ्रमात्मकप्रतिबन्धकज्ञानं स्वीक्रियते चेत्, प्रत्यक्षे यया रीत्या निष्पन्नं यथार्थज्ञानं निश्चितम् अस्ति, तथा अनुमितौ न भविष्यति; अनुमितौ विश्वासः नष्टो भविष्यति भ्रमात्मकप्रतिबन्धकज्ञानं स्वीक्रियते चेत् |
विषयः, तस्य ज्ञानं, तस्य वाक्यरचना
त्रयः अंशाः सन्ति | कोऽपि वाक्यं प्रयुङ्क्ते चेत्, तस्य वाक्यस्य कश्चन विषयः भवति | द्वितीयः अंशः, तस्य विषयस्य ज्ञानं भवति | तृतीयः अंशः अस्ति वाक्यं-- तत् ज्ञानं कस्मिंश्चित् वाक्ये भवति | विषयः एकः, विषयः नाम लोके विद्यमानं किमपि वस्तु | तद्वस्तु कस्यचित् ज्ञानस्य विषयः यदा भवति, तदा तस्य ज्ञानस्य कश्चन आकारः भवति | वस्तु एकमेव, विषयः एकः एव; किन्तु तस्य विषयस्य बहुविधज्ञानानि सम्भवन्ति; प्रत्येकं ज्ञानस्य विलक्षणः आकारः |
कश्चन उन्नतः वृक्षः अस्ति | 'उन्नतः वृक्षः' अत्र विषयः | तदा कस्यचित् बुद्धौ तद्विषयकं ज्ञानम् उत्पद्यते | एकस्य विषयस्य ज्ञानानि बहूनि भवितुम् अर्हन्ति, आकारभेदात् | किन्तु विषयः बहुविधः न भवति, अपि तु एकः एव | सः कः ? विद्यमानं वस्तु | ‘उन्नतः वृक्षः' विषयः चेत्, स च विषयः एकः एव | विषयः कः इति वक्तव्यं चेत्, शब्दद्वारा वक्तव्यं भवति अतः भिन्नरूपेण वक्तुं शक्यते, किन्तु विषयः एकः एव | ‘उन्नतः वृक्षः' वदामः वा, 'बृहान् तरुः' वदामः वा, विषयः एकः एव स च विद्यमानवृक्षः | अपि च 'विषयः कः' इति पृष्टे सति सामान्यतः विशेषणवाचकपदं पूर्वम् उक्त्वा विशेष्यकवाचकपदम् अन्ते उच्यते | एषा रूढिः सर्वत्रापि | तर्हि ‘उन्नतः वृक्षः' इति विद्यमानः विषयः |
द्वितीयः अंशः ज्ञानम् | ज्ञानं किम् इति पृष्टे सति तस्य ज्ञानस्य आकारः कः इति द्रष्टव्यः | आकाराः भिन्नभिन्नाः भवन्ति | ‘एषः उन्नतः वृक्षः', ‘उन्नतोऽयं वृक्षः', 'अयं वृक्षः उन्नतत्ववान्', ‘अयं वृक्षः उन्नतत्वरूपगुणविशिष्टः' इति बहवः आकाराः सम्भवन्ति | एवं कृत्वा विषयः एकः, ज्ञानानि बहूनि | ज्ञानस्य कथनसमये यद्यपि कोऽपि शब्दक्रमः भवितुम् अर्हति, प्रामुख्यात् विशेष्यपदं प्रथमम् इति रूढव्यवहारः |
अन्ततो गत्वा उन्नतवृक्षस्य ज्ञानं यत् उत्पन्नं, वाक्यरूपेण कथं तं विषयं वदति | प्रयुज्यमानं वाक्यं किमाकारकम् इति | अत्रापि वाक्यस्य स्वरूपं नाना भवितुम् अर्हति | ‘अयं वृक्षः उन्नतः', ‘उन्नतः अयं वृक्षः'; ‘उन्नतत्ववान् वृक्षः', ‘वृक्षः उन्नतत्ववान् ' | एवं वाक्ये शब्दानां पौर्वापर्यम्, इत्युक्ते वाक्ये किं पदं पूर्वं प्रयोक्तव्यं, किं पदं पश्चात् प्रयोक्तव्यम् इत्यत्र कोऽपि नियमः नास्ति | व्याकरणसम्बद्धनियमाः पालनीयाः, तावदेव |
२) हेत्वाभासप्रकरणे ज्ञातव्यविषयाः
पञ्च हेत्वाभासाः सन्ति; प्रत्येकं स्थले—
१) प्रकृतस्थलं किम् ?
- तत्र अनुमितिः का ?
- अनुमितिं प्रति कारणीभूतः परामर्शः कः ?
२) प्रकृतयथार्थनिश्चयः कः, नाम प्रतिबन्धकीभूतं ज्ञानं किम् ?
३) प्रतिबध्यं ज्ञानं किम् ?
- यथार्थनिश्चयः अनुमितिं प्रति वा परामर्शं प्रति वा प्रतिबन्धकः ?
- परामर्शं प्रति इति चेत्, कस्मिन् अंशे प्रतिबन्धकत्वम् ?
४) कथं, कया विधया प्रतिबन्धकम् ?
(१) तद्वत्ताबुद्धिं प्रति तदभाववत्तानिश्चयरूपेण प्रतिबन्धकम्;
(२) तद्वत्ताबुद्धिं प्रति तदभावव्याप्यवत्तानिश्चयरूपेण प्रतिबन्धकम्
५) प्रतिबन्धकीभूत-निश्चयस्य विषयः कः / प्रतिबन्धकीभूते निश्चये विद्यमानः विषयः कः ?
इति एतावत् ज्ञातं चेत् हेत्वाभासप्रकरणस्य मूलविषयः अवबुद्धः |
अग्रे गमनार्थम् एते सामान्यसिद्धान्ताः मनसि भवेयुः—
१) परामर्शस्य स्वरूपम् =साध्यव्याप्यहेतुमान् पक्षः
२) व्याप्तेः स्वरूपत्रयम् (त्रयमपि हेतौ इति अवधातव्यम्)—
(अ) पूर्वपक्षव्यप्तिलक्षणम् (अन्वयव्याप्तेः स्वरूपम्) = साध्याभाववदवृत्तित्वम्
(आ) सिद्धान्तलक्षणम् (अन्वयव्याप्तेः स्वरूपम्) = हेतुव्यापकसाध्यसामानाधिकरण्यम्
(इ) व्यतिरेकव्याप्तिलक्षणम् = साध्याभावव्यापकीभूताभावप्रतियोगित्वम्
३) प्रतिबन्धकं द्विविधम्—
(अ) तद्वत्ताबुद्धिं प्रति तदभाववत्तानिश्चयः प्रतिबन्धकः
यथा 'पर्वतः वह्निमान्' इति ज्ञानं प्रति 'पर्वतः वह्न्यभाववान् इति निश्चयः प्रतिबन्धकः |
(आ) तद्वत्ताबुद्धिं प्रति तदभावव्याप्यवत्तानिश्चयः प्रतिबन्धकः
यथा 'पर्वतः वह्निमान्' इति ज्ञानं प्रति 'पर्वतः जलवान्' इति निश्चयः प्रतिबन्धकः | जलं वह्न्यभावव्याप्यम् | अतः 'पर्वतः वह्न्यभावव्याप्यजलवान्' इति अपि वक्तुं शक्यते |
हेत्वाभ्यासः पञ्चविधः इति उक्तम् | हेत्वाभासाः दोषपरत्वेन अपि उच्यन्ते, दुष्टपरत्वेन अपि उच्यन्ते—नाम दुष्टहेतुपरत्वेन |
३) हेत्वाभासः सङ्क्षेपे
सङ्क्षेपे ते एतादृशाः—
१) बाधः
दोषः = बाधः | तादृशदोषयुक्तः यः हेतुः, नाम दुष्टहेतुः, सः बाधितः इति उच्यते |
२) असिद्धिः
दोषः = असिद्धिः | तादृशदोषयुक्तः यः हेतुः, दुष्टहेतुः, सः असिद्धः इति उच्यते |
३) व्यभिचारः
दोषः = व्यभिचारः | तादृशदोषयुक्तः यः हेतुः, दुष्टहेतुः, सः व्यभिचरितः वा सव्यभिचारः वा व्यभिचारी इति उच्यते |
४) सत्प्रतिपक्षः
दोषः = सत्प्रतिपक्षः | तादृशदोषयुक्तः यः हेतुः, दुष्टहेतुः, सः सत्प्रतिपक्षः इति उच्यते | अतः द्वयमपि सत्प्रतिपक्षः इति समासेन उच्यते; भेदः विग्रहवाक्ये |
विग्रहवाक्यं तदनुसारं वक्तव्यम्—
सत्प्रतिपक्षः = सन् प्रतिपक्षः इति कर्मधारयसमासः इति चेत् दोषपरतया भवति |
सत्प्रतिपक्षः =सन् प्रतिपक्षः यस्य सः इति बहुव्रीहिसमासः इति चेत् दुष्टहेतुपरतया भवति |
सन् = विद्यमानः | शत्रप्रत्ययान्तम् |
दुष्टहेतुपरतया विवक्षा अस्ति चेत्, सत्प्रतिपक्षितः इत्यपि वक्तुं शक्यते |
५) विरोधः
दोषः = विरोधः | तादृशदोषयुक्तः यः हेतुः, नाम दुष्टहेतुः, सः विरुद्धः इति उच्यते |
एवं च पञ्चानामपि दोषपरतया अपि व्यवहारः भवति, दुष्टपरतया अपि व्यहारः भवति; तदनुसारं शब्दः प्रयोक्तव्यः |
अधुना पञ्चानामपि विचारः करिष्यते | क्रमः एतादृशः किमर्थमिति चेत्, सर्वसरलम् इत्यारभ्य सर्वजटिलम् इत्यन्तम्—
१, २, ३ = तद्वत्ताबुद्धिं प्रति तदभाववत्तानिश्चयरूपेण प्रतिबन्धकम् अतः अयं समूहः प्रथमः
- एषु बाधः अनुमितिं प्रति प्रतिबन्धकम् अतः सर्वप्रथमम्
- असिद्धिः च व्यभिचारः च परामर्शं प्रति | तयोः मध्ये असिद्धिः सरलः यतोहि केवलं 'हेतुः पक्षे नास्ति’; व्यभिचारे व्याप्तिः नास्ति (एतादृशव्यवस्था तदपेक्षया किञ्चित् जटिला ) |
४, ५ = तद्वत्ताबुद्धिं प्रति तदभावव्याप्यवत्तानिश्चयरूपेण प्रतिबन्धकम् अतः अयं समूहः द्वितीयः
- अनयोः मध्ये सत्प्रतिपक्षः सरलः
- अन्ते विरोधः
४) पञ्च हेत्वाभासाः क्रमेण
१. बाधः |
वह्निः अनुष्णः द्रव्यत्वात् इति उदाहरणम् | प्रकृतसाध्यं पक्षे नास्ति | बाधस्य सामान्यस्वरूपम् एवं— साध्याभाववत्पक्षः | अनुमितेः आकारो भवति 'पक्षः साध्यवान्’; अतः बाधविषयकनिश्चयस्य रूपं विपरीतमस्ति— पक्षः साध्याभाववान् |
प्रकृतस्थले प्रकृतानुमितिः अस्ति 'वह्निः अनुष्णः', अतः बाधः 'अनुष्णत्वाभाववान् वह्निः’ |
हेत्वाभासनिश्चयः = वह्निः उष्णः (यथापूर्वं प्रदर्शितं विद्याधर्याम्— अनुष्णत्वाभावः इत्युक्ते उष्णः एव)
बाधस्य उदाहरणं यदा दर्शयामः, पक्षं साध्यं च पश्यामः चेत् पर्याप्तम् | प्रकृतसाध्यं पक्षे न स्यात्, तावदेव | हेतुः यः कोऽपि भवतु; हेतोः प्रवेशः एव नास्ति अत्र |
अत्र 'वह्निः अनुष्णः द्रव्यत्वात्' | परामर्शः कः ? 'साध्यव्याप्यहेतुमान् पक्षः' अतः अनुष्णत्वव्याप्यद्वव्यत्ववान् वह्निः | अनुमितिः अस्ति 'वह्निः अनुष्णः' | बाधस्थले यथार्थनिश्चयः साक्षात् अनुमितं प्रति प्रतिबन्धकं, न तु परामर्शं प्रति |
अनुमितिः = वह्निः अनुष्णः
यथार्थनिश्चयः = वह्निः उष्णः
यतोहि साक्षात् अनुमितिं प्रति प्रतिबन्धकत्वं, व्याप्तिः इत्यादिकं यत् भवति परामर्शे, तस्य अवलोकनमेव नापेक्षितम् | वक्ष्यमाणव्यभिचारे असिद्धौ च साक्षात् अनुमितिं प्रति प्रतिबन्धकत्वं वक्तुं न शक्यते; तत्र परामर्शंं प्रति प्रतिबन्धकत्वम् उच्यते | बाधस्थले परामर्शंं प्रति प्रतिबन्धकत्वं वक्तुं न शक्यते; प्रतिबन्धकत्वं भवति अनुमितिं प्रति |
आहत्य बाधस्थले—
प्रकृतस्थलम् = वह्निः अनुष्णः द्रव्यत्वात्
प्रकृतानुमितिः = वह्निः अनुष्णः
अनुमितिं प्रति कारणीभूतः परामर्शः = वह्निः अनुष्णत्वव्याप्यद्रव्यत्ववान्
प्रतिबन्धकीभूतः यथार्थनिश्चयः = वह्निः उष्णः
प्रतिबध्यं ज्ञानम् = अनुमितिः
कया विधया प्रतिबन्धकत्वम् = तद्वत्ताबुद्धिं प्रति तदभाववत्तानिश्चयमुद्रया प्रतिबन्धकत्वम्
हेत्वाभासः यथार्थनिश्चयस्य विषयः = उष्णः वह्निः / अनुष्णत्वाभाववान् वह्निः
प्रतिबन्धकत्वम् उभयथा भवति इत्युक्तं— (१) तद्वत्ताबुद्धिं प्रति तदभाववत्तानिश्चयः प्रतिबन्धकः; (२) तद्वत्ताबुद्धिं प्रति तदभावव्याप्यवत्तानिश्चयः प्रतिबन्धकः | पर्वतः वह्निमान् इति बुद्धिं (ज्ञानं) प्रति पर्वतः वह्न्यभाववान् इति यथा प्रतिबन्धकः, तथैव पर्वतः वह्निमान् इति बुद्धिं प्रति वह्न्यभावव्याप्यवान् इति निश्चयः अपि प्रतिबन्धकः | यतोहि वह्यभावव्याप्यः कश्चित् अस्ति चेत्, वह्यभावः अपि अवश्यम् अस्ति | ‘वह्यभावव्याप्यः' इति वह्यभावस्य प्रतिनिधिः इति चिन्तयितुं शक्यते | व्याप्यः अस्ति चेत् व्यापकः अवश्यमस्ति |
तर्हि वह्निः अनुष्णः इति बुद्धिं (अनुमितिं) प्रति वह्निः उष्णः इति यथार्थनिश्चयः प्रतिबन्धकः | कया विधया प्रतिबन्धकः ? तद्वत्ताबुद्धिं प्रति तदभाववत्तानिश्चयरूपेण प्रतिबन्धकः | प्रतिबन्धकीभूतः निश्चयः 'वह्निः उष्णः'; तस्य विषयः उष्णत्ववान् वह्निः | अतः उष्णत्ववान् वह्निः इति अत्र हेत्वाभासः |
व्यवहारे कथं भवति इति चेत्, कश्चित् वदति—
वह्निः अनुष्णः द्रव्यत्वात् |
यत्र यत्र द्रव्यत्वं तत्र तत्र अनुष्णत्वम् |
पक्षः कः ? वह्निः | पक्षे अधुना साध्यं सन्दिग्धम् |
अन्यत्र सर्वत्रापि द्रव्यत्वमपि अस्ति, अपि च यत्र यत्र द्रव्यत्वं तत्र तत्र अनुष्णत्वमपि अस्ति | वह्निं विहाय अन्यत्र सर्वत्रापि पश्यतु—तत्र द्रव्यत्वम् अस्ति, अनुष्णत्वमपि अस्ति | उष्णत्वाभावः पृथिव्यामस्ति | जलेऽपि उष्णत्वाभावः | तेजसि इदानीं साध्यं सन्दिग्धम् | वायौ द्रव्यत्वम् अस्ति, अनुष्णत्वमपि अस्ति | आकाशेऽपि तथैव | दिशि, आत्मनि, मनसि अपि तथैव | एषु सर्वेषु द्रव्येषु द्रव्यत्वमपि अस्ति, अनुष्णत्वमपि अस्ति | अनेन व्याप्तिः प्रकटा | अपि च द्रव्यत्वं तु वह्नौ अस्त्येव | तर्हि पक्षधर्मता अस्ति, व्याप्तिः अस्ति—तदाधारेण च पञ्चवाक्यप्रयोगं करोति | अनेन च अनुमितिः जायेत यत् वह्निः अनुष्णः | परन्तु तादृशी अनुमितिः न जायते यतोहि तस्य मनुष्यस्य मनसि कश्चन यथार्थनिश्चयः अस्ति; स च निश्चयः प्रमात्मकः | कः निश्चयः इति चेत्, वह्निः उष्णः | अयं निश्चयः कथं सञ्जातः ? प्रत्यक्षप्रमाणेन | 'वह्निः अनुष्णः' वक्तुं सः 'पक्षे हेतुः अस्ति' इति अवगतवान् स्यात् | सः अपरेषु सर्वेषु द्रव्येषु दृष्ट्वा व्याप्तिं दर्शितवान् स्यात्— यत्र यत्र द्रव्यत्वं तत्र तत्र अनुष्णत्वमपि अस्ति इति | तथापि तस्य कश्चन यथार्थनिश्चयः अस्ति, वह्निः उष्णः | तेन कारणेन वह्निः अनुष्णः इति अनुमितिः न उत्पद्यते | किमर्थमिति चेत्, वह्निः उष्णः, वह्निः अनुष्णः इति ज्ञानं प्रति प्रतिबन्धकं भवति |
२. असिद्धिः |
शब्दः अनित्यः चाक्षुषत्वात् इति उदाहरणम् | असिद्धेः स्वरूपमस्ति हेत्वभाववत्पक्षः |
चाक्षुषत्वम् इत्युक्ते चक्षुरिन्द्रियेण गृह्यमाणत्वम् | चक्षुषः विषयः चाक्षुषः | रूपं चाक्षुषं भवति, द्रव्यम् अपि चाक्षुषं भवति | किन्तु शब्दः चाक्षुषः न भवति; चक्षुरिन्द्रियेण न गृह्यते | तर्हि अत्र दोषः कः इति चेत्, प्रकृतहेतुः पक्षे नास्ति | अत्र अनित्यत्वं साध्यं; परन्तु असिद्धस्थले साध्यं किमपि भवितुमर्हति | केवलं हेतुः पक्षे न स्यात्; तावत् एव पर्याप्तम् |
तर्हि अत्र शब्दः अनित्यः चाक्षुषत्वात् इति अनुमानं, शब्दः अनित्यः इति अनुमितिः | असिद्धौ दोषः कः इत्युक्तम् ? हेतुः पक्षे नास्ति | शब्दः अनित्यः इति अनुमितिं प्रति प्रतिबन्धकत्वम् अपेक्षितं चेत्, (१) तद्वत्ताबुद्धिं प्रति तदभाववत्तानिश्चयः प्रतिबन्धकः; (२) तद्वत्ताबुद्धिं प्रति तदभावव्याप्यवत्तानिश्चयः प्रतिबन्धकः इति द्वयोर्मध्ये अन्यतमम् आवश्यकम् | शब्दः अनित्यः इति अनुमितौ 'शब्दः' विशेष्यः, 'अनित्यत्वं' प्रकारः | प्रथमविधं प्रतिबन्धकत्वं यदि स्यात्, तर्हि विशेष्यः उभयत्र समानः, अपि च प्रतिबध्यज्ञाने यः प्रकारः, तदभावः प्रतिबन्धकज्ञाने प्रकारः | विशेष्यः अत्र 'शब्दः'; असिद्धौ अपि विशेष्यः 'शब्दः' | परन्तु अस्माकम् अनुमितौ प्रकारः अनित्यत्वं; प्रस्तुतप्रतिबन्धकज्ञाने प्रकारः हेत्वभावः न तु प्रकृत-अनुमितेः प्रकारस्य अभावः 'अनित्यत्व-अभावः' | अतः प्रथमविधप्रतिबन्धकत्वम् अत्र न सङ्गच्छते | अपि च द्वितीयविधप्रतिबन्धकत्वस्य कृते प्रतिबध्यज्ञानस्य यः प्रकारः, तदभावव्याप्यत्वम् अपेक्षितं; तदपि नास्ति | अतः असिद्धौ प्रकृत-अनुमितिं प्रति प्रतिबन्धकत्वं भवितुं नार्हति |
हेत्वाभासे प्रतिबन्धकत्वं कुत्रचित् अनुमितिं प्रति, कुत्रचित् परामर्शं प्रति | अनुमितिं प्रति प्रतिबन्धकत्वं नास्ति अतः द्रष्टव्यं यत् परामर्शं प्रति प्रतिबन्धकत्वं सम्भवति | परामर्शस्य स्वरूपं 'साध्यव्याप्यहेतुमान् पक्षः' इति उक्तम् | तर्हि प्रकृतानुमितेः कारणीभूतः परामर्शः कीदृशः इति चेत्, अनित्यत्वव्याप्यचाक्षुषत्ववान् शब्दः | अन्वयव्याप्तिः | असिद्धौ दोषः कः ? हेतुः पक्षे नास्ति—अत्र चाक्षुषत्वं शब्दे नास्ति | नाम शब्दः चाक्षुषत्वाभाववान् | तर्हि अत्र परामर्शं प्रति प्रतिबन्धकत्वं सम्भवति किम् ? बोध्यं यत् परामर्शे अंशद्वयम् अस्ति—व्याप्त्यंशः, पक्षधर्मतांशः च | नाम, 'अनित्यत्वव्याप्यचाक्षुषत्वम्' इति एकः अंशः; अपरः अंशः 'चाक्षुषत्ववान् शब्दः' | द्वयोः मध्ये एकं प्रति प्रतिबन्धकत्वम् अस्ति किम् ?
इदानीं हेत्वाभासनिश्चयः कः ? 'चाक्षुषत्वाभाववान् शब्दः' इति यथार्थज्ञानं हेत्वाभासनिश्चयः | तर्हि चाक्षुषत्वाभाववान् शब्दः इति यथार्थनिश्चयः कं प्रति प्रतिबन्धकः भवति ? 'चाक्षुषत्ववान् शब्दः' इति पक्षधर्मतांशं प्रति प्रतिबन्धकः भवति | कया विधया प्रतिबन्धकत्वम् ? तद्वत्ताबुद्धिं प्रति तदभाववत्तानिश्चयविधया प्रतिबन्धकत्वम् | अत्र परामर्शे प्रतिबन्धकत्वं वर्तते पक्षधर्मतांशे, न तु व्याप्त्यंशे |
परामर्शस्य पक्षधर्मतांशः = शब्दः चाक्षुषत्ववान्
यथार्थनिश्चयः = शब्दः चाक्षुषत्वाभाववान्
अत्र विशेष्यः समानः— शब्दः |
प्रकारः तत्सत्त्वं-तदभावः इति अपि अस्ति | चाक्षुषत्वं, चाक्षुषत्वाभावः इति |
तर्हि शब्दः चाक्षुषत्वाभाववान् इति यतार्थनिश्चयस्य, हेत्वाभासनिश्चयस्य 'शब्दः अनित्यत्वव्याप्यचाक्षुषत्ववान्' इति परामर्शं प्रति प्रतिबन्धकत्वात् परामर्शः न उत्पद्यते | तत्परिणामरूपेण अनुमितिरपि नोत्पद्यते |
आहत्य असिद्धस्थले—
प्रकृतस्थलम् = शब्दः अनित्यः चाक्षुषत्वात्
प्रकृतानुमितिः = शब्दः अनित्यः
अनुमितिं प्रति कारणीभूतः परामर्शः = शब्दः अनित्यत्वव्याप्यचाक्षुषत्ववान्
प्रतिबन्धकीभूतः यथार्थनिश्चयः = शब्दः चाक्षुषत्वाभाववान्
प्रतिबध्यं ज्ञानम् = परामर्शः (तत्र अंशः = पक्षधर्मताज्ञानम्)
कया विधया प्रतिबन्धकत्वम् = तद्वत्ताबुद्धिं प्रति तदभाववत्तानिश्चयमुद्रया प्रतिबन्धकत्वम्
हेत्वाभासः यथार्थनिश्चयस्य विषयः = चाक्षुषत्वाभाववान् शब्दः
एकस्मिन् अनुमाने एकः एव हेत्वाभासः भवेत् इति नियमः नास्ति; एकस्मात् अधिकाः अपि हेत्वाभासाः अपि भवितुम् अर्हन्ति | कुत्रचित् बाधः भवति, व्यभिचारोऽपि भवति | कुत्रचित् सत्प्रतिपक्षोऽपि भवति, विरोधोऽपि भवति | अन्यत्र असिद्धोऽपि भवति, विरोधोऽपि भवति | एकस्मिन् एव स्थाने पञ्च अपि हेत्वाभासाः एकत्र भवितुमर्हन्ति |
तर्हि प्रकृतौ शब्दः अनित्यः चाक्षुषत्वात् | यद्यत् चाक्षुषं, तत्सर्वमपि अनित्यम् | व्यभिचारदोषऽपि अस्ति अत्र | रूपे चाक्षुषत्वम् अस्ति; रूपम् अनित्यम् | रूपत्वे अपि चाक्षुषतम् अस्ति किन्तु रूपत्वं नित्यम् | रूपत्वं जातिः इति कारणेन नित्यम् | अतः यत्र चाक्षुषत्वम् अस्ति, तत्र कुत्रचित् अनित्यत्वम् अस्ति, कुत्रचित् नित्यत्वम् अस्ति | 'येन इन्द्रियेण या व्यक्तिः गृह्यते, तेन इन्द्रियेण तन्निष्ठा जातिः, तदभावः, तत्संसर्गश्च गृह्यते' | अत्र व्यक्तिः इत्युक्ते कश्चन पदार्थः— द्रव्यं, गुणः, कर्म एतेषु त्रिषु अन्यतमम् | रूपत्वं चाक्षुषं; रूपत्वजातिः चाक्षुषी अस्ति | रूपाभावः चाक्षुषः | रूपरूपत्वयोः मध्ये संसर्गः समवायः चाक्षुषः | अतः रूपं विहाय अन्ये चाक्षुषाः सर्वेऽपि नित्याः |
तर्कसंग्रहग्रन्थे असिद्धेः प्रकारत्रयं प्रदर्शितं; उपर्युक्तं निदर्शनं बुद्धं चेत्, प्रकारत्रयमपि सुगम्यम् |
३. व्यभिचारः |
हेतुसाध्ययोः—
व्याप्तिः इत्युक्ते सर्वदापि तयोः साहचर्यं भवति |
व्यभिचारः इत्युक्ते सदा साहचर्यं न भवति; कदाचित् साहचर्यं भवति, कदाचित् साहचर्यं न भवति |
विरोधः इत्युक्ते कदापि साहचर्यं न भवति |
साहचर्यम् इत्युक्ते सामानाधिकरण्यम् |
व्यभिचारे पर्वतः धूमवान् वह्नेः इति उदाहरणम् | व्यभिचारदोषस्य स्वरूपम् अस्ति साध्याभाववद्वृत्तिहेतुः |
धूमः यत्र यत्र भवति, तत्र तत्र वह्निः इति सामान्यं किन्तु अत्र 'पर्वतः धूमवान् वह्नेः' इत्यनेन यत्र यत्र वह्निः तत्र तत्र धूमः इति तात्पर्यं, यत् सम्यक् नास्ति यतोहि वस्तुतः तयोः मध्ये व्याप्तिः नास्ति | अत्र साध्यं धूमः, हेतुः वह्निः | वह्नौ, हेतौ, प्रकृतसाध्यनिरूपितव्याप्तिः नास्ति | व्याप्तेः स्वरूपम् अस्ति साध्याभाववदवृत्तित्वम् | अतः प्रकृतहेतौ वह्नौ धूमाभाववदवृत्तित्वं स्यात् | किन्तु नास्ति— धूमाभाववदवृत्तित्वं प्रकृतहेतौ नास्ति | हेतौ वह्नौ धूमाभाववद्वृत्तित्वम् एव अस्ति | धूमः नास्ति चेदपि वह्निः भवति इति कारणतः धूमाभाववद्वृत्तित्वं वह्नौ अस्ति | उदाहरणम् अस्ति अयोगोलकम् |
तर्हि वस्तुस्थितिः अत्र का ? वह्निः धूमाभाववद्वृत्तिः | यतोहि धूमाभावः यत्र अस्ति तत्र वह्निः भवति | धूमः नास्ति चेदपि वह्निः भवति इति कृत्वा वह्निः वस्तुतः धुमाभाववद्-वृत्तिः, न तु धुमाभाववद्-अवृत्तिः | इदानीं प्रकृतानुमाने व्याप्तिज्ञानं भवति धुमाभाववद्-अवृत्तिः वह्निः | किन्तु यथार्थनिश्चयः भवति धूमाभाववद्-वृत्तिः वह्निः | एषः यथार्थनिश्चयः एव प्रकृतहेत्वाभासनिश्चयः | धूमाभाववद्-वृत्तिः वह्निः एव अत्र दोषः |
अधुना अस्माकं पुरतः प्रश्नाः के ? पूर्वम् उक्तं— प्रकृतस्थलं किम् ? तत्र अनुमितिः का ? अनुमितिं प्रति कारणीभूतः परामर्शः कः ? प्रकृतयथार्थनिश्चयः कः ? स च निश्चयः प्रकृत-अनुमितिं प्रति अथवा प्रकृत-परामर्शं प्रति प्रतिबन्धकः ? तत्र कस्मिन् अंशे प्रतिबन्धकत्वम् ? अपि च कया विधया प्रतिबन्धकत्वम् ? प्रतिबन्धकीभूते निश्चये विद्यमानः विषयः कः ? इति इयं प्रक्रिया अस्माकं पुरतः विद्यमाना |
एतावता जानीमः यत्—
स्थलम् अस्ति— पर्वतः धूमवान् वह्नेः
अत्र अनुमितिः अस्ति— पर्वतः धूमवान्
यथार्थनिश्चयः अस्ति— धूमाभाववद्-वृत्तिः वह्निः
इदानीम् अयं निश्चयः कस्य प्रतिबन्धकः भवति ? अत्र अनुमितिः अस्ति 'पर्वतः धूमवान्' | तं प्रति यथार्थनिश्चयः साक्षत् प्रतिबन्धकः अस्ति किम् ? परिशीलयामः—
अनुमितिः = पर्वतः धूममान्
यथार्थनिश्चयः = वह्निः धूमाभाववद्वृत्तिः
अत्र तद्वत्ताबुद्धिं प्रति तदभाववत्तानिश्चयरूपेण प्रतिबन्धकः नास्ति | विशेष्यम् उभयत्र समानं नास्ति— अनुमितौ विशेष्यः पर्वतः; यथार्थनिश्चये विशेष्यः वह्निः | एकस्मिन् च यः प्रकारः, अपरस्मिन् तदभावः अपि नास्ति |
तद्वत्ताबुद्धिं प्रति तदभावव्याप्यवत्तानिश्चयरूपेण प्रतिबन्धकः अपि नास्ति | अत्र अपि विशेष्यं समानं भवेत्, यन्नास्ति | अनुमितौ प्रकारः धूमः; यथार्थनिश्चये प्रकारः धूमाभाववद्वृत्तित्वं; तच्च वह्निवृत्तित्वं धूमाभावव्याप्यं नास्ति | यत्र यत्र वह्निवृत्तित्वं तत्र तत्र धूमाभावस्तु नास्ति | अतः तद्वत्ताबुद्धिं प्रति तदभावव्याप्यवत्तानिश्चयरूपेण प्रतिबन्धकत्वं नास्ति | अनेन स्पष्टं यत् 'पर्वतः धूममान्’ इति अनुमितिं प्रति 'वह्निः धूमाभाववद्वृत्तिः’ इत्यस्य प्रतिबन्धकत्वं नास्ति |
अयं यथार्थनिश्चयः (धूमाभाववद्-वृत्तिः वह्निः) अनुमितिं प्रति प्रतिबन्धकः नास्ति चेत्, कं प्रति प्रतिबन्धकः ?
'पर्वतः धूमवान् वह्नेः' इति यदा कश्चित् वदति, तदानीं सः कां व्याप्तिं स्वीकरोति ? वह्निः धूमाभाववदवृत्तिः |
कस्यचित् व्याप्तिज्ञानम् = वह्निः धूमाभाववदवृत्तिः |
अपरस्य यथार्थनिश्चयः = वह्निः धूमाभाववद्वृत्तिः | यतोहि सः कुत्रचित् दृष्टवान्, तादृशस्थलं यत्र वह्निः अस्ति किन्तु धूमः नास्ति | अतः अयं प्रमात्मकः निश्चयः |
तर्हि यथार्थनिश्चयः कं प्रति प्रतिबन्धकः ? प्रकृतव्याप्तिज्ञानं प्रति (धूमाभाववद्-अवृत्तिः वह्निः इति ज्ञानं प्रति) प्रतिबन्धकः भवति | इदानीं व्याप्तिः कुत्र भासते ? परामर्शे व्याप्तिः भासते | 'पर्वतः धूमवान् वह्नेः' इति अनुमानप्रयोगे परामर्शस्य आकारः कीदृशः, नाम यदि परामर्शः उच्येत, तर्हि परामर्शः कीदृशः ?
परामर्शः = धूमव्याप्यवह्निमान् पर्वतः | साध्यव्याप्यहेतुमान् पक्षः इति परामर्शस्य आकारः, रूपसामान्यम् |
अस्मिन् 'व्याप्य'-शब्दः अस्ति | पूर्वपक्षस्य व्याप्तिलक्षणं किम् ? साध्याभाववदवृत्तित्वं हेतौ | अतः प्रकृतपरामर्शे व्याप्य-शब्दस्य स्थाने 'अभाववदवृत्ति' इति स्थापयामः |
धूमव्याप्यवह्निमान् पर्वतः → धूम-अभाववदवृत्ति-वह्निमान् पर्वतः → धूमाभाववदवृत्तिवह्निमान् पर्वतः
धूमाभाववदवृत्तिहेतुः, तादृशहेतुः पक्षे इति कृत्वा धूमाभाववदवृत्तिवह्निमान् पर्वतः इति परामर्शः |
परामर्शः = धूमाभाववदवृत्तिवह्निमान् पर्वतः
यथार्थनिश्चयः = धूमाभाववद्वृत्तिः वह्निः
अत्र च समानाकारकत्वम् आगतम्, अतः प्रतिबध्यप्रतिबन्धकभावः जातः | तद्वत्ताबुद्धिं प्रति तदभाववत्तानिश्चयरूपेण प्रतिबन्धकत्वम् आगतम् | अग्रे तादृशवह्निमान् पर्वतः इति भागः त्यज्यताम् | ततः पूर्वतनभागः यः वर्तते, तत्र अस्माभिः अवधातव्यम् |
परामर्शस्य व्याप्त्यंशः = धूमाभाववदवृत्तिः वह्निः
यथार्थनिश्चयः = धूमाभाववद्वृत्तिः वह्निः
उभयत्र विशेष्यः वह्निः | प्रकारः 'धूमाभाववदवृत्तिः’; यथार्थनिश्चये च तस्य अभावः, भावरूपेण भवति 'धूमाभाववद्वृत्तिः' इति | तर्हि परामर्शस्य व्याप्त्यंशं प्रति प्रतिबन्धकत्वम् | व्यभिचारस्य प्रतिबन्धकत्वं परामर्शं प्रति, तत्रापि व्याप्त्यंशे प्रतिबन्धकत्वम् | परामर्शे व्याप्त्यंशोऽपि अस्ति, पक्षधर्मता इति अंशोऽपि अस्ति | पक्षधर्मतांशे प्रतिबन्धकत्वं नास्ति, केवलं व्याप्त्यंशे प्रतिबन्धकत्वम् | किन्तु सः परामर्शः एक एव परामर्शः इति कारणेन एकस्मिन् अंशे प्रतिबन्धकः भवति चेदपि सम्पूर्णः परामर्शः एव अत्र प्रतिबध्यते | अनेन कारणेन परामर्शस्य उत्पत्तिः न जायते; तत्परिणामवशात् अनुमितेः अपि उत्पत्तिः न जायते | तर्हि कं प्रति प्रतिबन्धकत्वम् ? परामर्शं प्रति | प्रकृतपरामर्शस्य प्रतिबन्धकं, न तु अनुमितेः | अथवा परामर्शस्य साक्षात् प्रतिबन्धकः; परम्परया अनुमितेः प्रतिबन्धकः भवति वक्तुं शक्यते | अत्र प्रतिबध्यं ज्ञानं किमिति चेत्, परामर्शः | प्रकृतहेत्वाभासनिश्चयः परामर्शं प्रतिबध्नाति |
यथार्थनिश्चयः धूमाभाववद्वृत्तिः वह्निः | तस्य विषयः धूमाभाववद्वृत्तिः वह्निः इति एव | स एव हेत्वाभासः | स एव व्यभिचारः इति दोषः | अयमेव दोषः हेतौ भवति |
अत्र 'दोषः' किमर्थम् उच्यते ? उत्तरं जानीमः | धूमाभावसत्त्वे वह्निसत्त्वम् इति वाक्यं सत्यमेव | वाक्यं सत्यमिति कृत्वा दोषः किमर्थम् ? सत्यं कथं वा दोषः स्यात् ? उत्तरमस्ति यत् वाक्यं तु सत्यं, किन्तु यः पर्वतः धूमवान् वह्नेः इति अनुमितिं प्रवर्तयितुम् इच्छति, यः वक्तुमिच्छति यत् पर्वते वह्निः अस्ति इति दृष्ट्वा ज्ञात्वा 'अतः धूमः अपि अस्ति' इति अनुमितिं वक्तुम् इच्छेत्, तस्य चिन्तनविधौ 'हेतुः अस्ति, साध्यं नास्ति' इति दोषः वर्तते | सत्यं 'वह्निरस्ति चेदपि धूमः नापि भवितुमर्हति'—किन्तु इदमेव सत्यवाक्यं कारणमस्ति पर्वतः धूमवान् वह्नेः इति अनुमितेः अयथार्थत्वस्य | अनेन एव कारणेन पर्वतः धूमवान् वह्नेः इति अनुमितिः दोषपूर्णा, इति कृत्वा साध्याभावद्वृत्तिहेतुः इति व्यभिचारदोषः | व्यभिचारे क्षेत्रविषेशस्थले उदारणत्वेन अत्र निरूपितमस्ति; अस्य च रूपसामान्यं भवति साध्याभावद्वृत्तिहेतुः इति व्यभिचारदोषः |
आहत्य व्यभिचारस्थले—
प्रकृतस्थलम् = पर्वतः धूमवान् वह्नेः
प्रकृतानुमितिः = पर्वतः धूमवान्
अनुमितिं प्रति कारणीभूतः परामर्शः = पर्वतः धूमाभाववदवृत्तिवह्निमान्
प्रतिबन्धकीभूतः यथार्थनिश्चयः = वह्निः धूमाभाववद्वृत्तिः
प्रतिबध्यं ज्ञानम् = परामर्शः (तत्र अंशः = व्याप्तिज्ञानम्)
कया विधया प्रतिबन्धकत्वम् = तद्वत्ताबुद्धिं प्रति तदभाववत्तानिश्चयमुद्रया प्रतिबन्धकत्वम्
हेत्वाभासः यथार्थनिश्चयस्य विषयः = धूमाभाववद्वृत्तिः वह्निः
हेत्वाभासे कुत्रचित् परामर्शं प्रति प्रतिबन्धकत्वं; कुत्रचित् साक्षात् अनुमितिं प्रति प्रतिबन्धकत्वम् | एतावता दृष्टं यत् बाधे साक्षात् अनुमितिं प्रति प्रतिबन्धकत्वम् | अनयोः द्वयोः—व्यभिचारे, असिद्धौ च परामर्शं प्रति प्रतिबन्धकत्वम् |
व्यभिचारे परामर्शं प्रति प्रतिबन्धकः किन्तु व्याप्त्यंशे प्रतिबन्धकः | असिद्धौ अपि परामर्शं प्रति एव प्रतिबन्धकः, किन्तु पक्षधर्मतांशे प्रतिबन्धकः | उभयत्र परामर्शं प्रति प्रतिबन्धकत्वं, किन्तु परामर्शे अंशद्वयमस्ति—व्याप्त्यंशः अपि अस्ति, पक्षधर्मतांशः अपि अस्ति—इति कारणेन परामर्शे कस्मिन् अंशे प्रतिबन्धकत्वं वर्तते इत्येतस्मिन् क्षेत्रे भेदः |
तर्कसंग्रहग्रन्थे व्यभिचारेऽपि प्रकारत्रयं प्रदर्शितम् (साधारणः, असाधारणः, अनुपसंहारी इति त्रिधा); उपर्युक्तं निदर्शनं बुद्धं चेत्, प्रकारत्रयमपि सुगम्यम् |
४. सत्प्रतिपक्षः
सत्प्रतिपक्षस्य वैशिष्ट्यम् अस्ति यत् साध्यसाधकम् अपि एकम् अनुमानं भवति अत्र, साध्याभावसाधकम् अपि एकम् अनुमानं भवति | उदाहरणम् अस्ति, कश्चित् वदति ह्रदः वह्निमान् धूमात् | अपरः कश्चित् वदति ह्रदः वह्न्यभाववान् जलात् | यः 'ह्रदः वह्निमान् धूमात्' उक्तवान्, सः धूमं दृष्टवान् आसीत् | शीतकाले ह्रदस्य उपरि शीकरः भवति; तं दृष्ट्वा धूमः अस्ति इति चिन्तयित्वा 'ह्रदे धूमः अस्ति' इति वदति | धूमः अस्ति इति कारणेन वह्निरस्ति इति सः प्रतिपादयति | अपरः तस्मिन् ह्रदे जलं पश्यति | यत्र जलं भवति तत्र वह्निः न भवति इति सः जानाति | अतः सः वदति 'ह्रदः वह्न्यभाववान् जलात्' | तर्हि 'ह्रदः वह्निमान् धूमात्' इत्यस्मिन् साध्यम् अस्ति वह्निः | तस्य साध्यस्य अभावसाधकम् अपि अनुमानं विद्यमानम् | नाम प्रकृतसाध्यस्य यः अभावः, तदभावसाधकः कश्चन हेतुः तस्मिन्नेव पक्षे अस्ति | एतादृशस्थले सत्प्रतिपक्षः दोषः भवति |
सत्प्रतिपक्षस्य स्वरूपम् अस्ति साध्याभावव्याप्यवत्पक्षः | बाधः इति दोषः कीदृशः आसीत् ? साध्याभाववत्पक्षः | तत्तु सरलमासीत् यतोहि पक्षे साध्याभावः अस्ति चेत्, साध्यं तत्र भवितुं नार्हति | इदानीं सत्प्रतिपक्षे साध्याभावः पक्षे अस्ति इति साक्षात् नोक्तं, किन्तु साध्याभावस्य कश्चन प्रतिनिधिः तु पक्षे उपस्थितः—साध्याभावव्याप्यः कश्चन अस्ति | अधुना जानीमः यत् यत्र व्याप्यः अस्ति तत्र तस्य व्यापकः तु तत्रापि भवति एव | अतः साध्याभावव्याप्यः पक्षे अस्ति चेत्, साध्याभावः अपि अस्ति | यतोहि साध्याभावव्याप्यस्य व्यापकः अस्ति साध्याभावः | अत्र प्रकृतौ जलं व्याप्यं, वह्न्यभावः व्यापकः | यत्र यत्र जलमस्ति, तत्र तत्र वह्यभावः अपि अस्ति | जलं व्याप्यं, वह्यभावः व्यापकः |
तर्हि सत्प्रतिपक्षस्य स्वरूपम् अस्ति साध्याभावव्याप्यवत्पक्षः | प्रकृतोदाहरणे साध्याभावव्याप्यम् अस्ति जलम् | तद्वान् पक्षः, तद्वान् ह्रदः | आहत्य 'वह्न्यभावव्याप्यजलवान् ह्रदः' | अयमेव यथार्थनिश्चयः | कं प्रति च प्रतिबन्धकः ? साक्षात् अनुमितिं प्रति | किमर्थमिति चेत्, प्रतिबध्यप्रतिबन्धकभावः द्विधा इति अस्माभिः दृष्टम् | (१) तद्वत्ताबुद्धिं प्रति तदभाववत्तानिश्चयरूपेण प्रतिबन्धकः; (२) तद्वत्ताबुद्धिं प्रति तदभावव्याप्यवत्तानिश्चयरूपेण प्रतिबन्धकः | 'ह्रदः वह्निमान्' इति ज्ञानं प्रति 'ह्रदः वह्न्यभाववान्' इति निश्चयः प्रतिबन्धकः; 'ह्रदः वह्न्यभावव्याप्यवान्’ इति निश्चयः अपि प्रतिबन्धकः | उभयत्र प्रतिबध्यं ज्ञानं 'ह्रदः वह्निमान्' इति एव |
पूर्वम् अस्माभिः उक्तं यत्—
"प्रतिबध्यप्रतिबन्धकज्ञानयोर्मध्ये समानाकारकत्वं भवेत् | विशेष्यः उभयत्र समानः, अपि च एकस्मिन् ज्ञाने यः प्रकारः, तदभावः अपरस्मिन् ज्ञाने प्रकारः | (एतत्तु वस्तुतः केवलं प्रथमप्रकारकप्रतिबन्धकत्वे भवति, यत्र स च प्रतिबन्धकः 'तद्वत्ताबुद्धिं प्रति तदभाववत्तानिश्चयमुद्रया' प्रतिबन्धकः अस्ति |)"
अधुना इयं वार्ता स्पष्टा जाता | यदि वदामः यत् सर्वत्र प्रतिबध्यप्रतिबन्धकज्ञानयोर्मध्ये तत्प्रकारः-तदभावः प्रकारः इति सम्बन्धः भवेत्, तर्हि सत्प्रतिपक्षस्थले प्रतिबन्धकत्वं न भविष्यति एव | तदर्थं द्वितीयप्रकारकप्रतिबन्धकत्वम् अपेक्षितं, यत्र एतादृशसम्बन्धो नास्ति |
प्रतिबध्यज्ञानम् = ह्रदः वह्निमान्
प्रतिबन्धकनिश्चयः = ह्रदः वह्न्यभावव्याप्यजलवान्
अत्र प्रतिबध्यज्ञाने यह प्रकारः 'वह्निः', प्रतिबन्धकनिश्चये यः प्रकारः सः 'तदभावः' , वह्न्यभावरूपः, नास्ति | तथापि प्रतिबन्धकत्वं स्वीक्रियते यतोहि एकं द्वितीयप्रकारकं प्रतिबन्धकत्वं वर्तते—तद्वत्ताबुद्धिं प्रति तदभावव्याप्यवत्तानिश्चयमुद्रया प्रतिबन्धकत्वम् |
आहत्य सत्प्रतिपक्षस्थले—
प्रकृतस्थलम् = ह्रदः वह्निमान् धूमात्
प्रकृतानुमितिः = ह्रदः वह्निमान्
अनुमितिं प्रति कारणीभूतः परामर्शः = ह्रदः वह्निव्याप्यधूमवान्
प्रतिबन्धकीभूतः यथार्थनिश्चयः = ह्रदः वह्न्यभावव्याप्यजलवान्
प्रतिबध्यं ज्ञानम् = अनुमितिः
कया विधया प्रतिबन्धकत्वम् = तद्वत्ताबुद्धिं प्रति तदभावव्याप्यवत्तानिश्चयमुद्रया प्रतिबन्धकत्वम्
हेत्वाभासः यथार्थनिश्चयस्य विषयः = वह्न्यभावव्याप्यजलवान् ह्रदः
'साध्याभावव्याप्यहेतुः' इति सत्प्रतिपक्षे उक्तम् | साध्याभावव्याप्यवत्पक्षः सत्प्रतिपक्षः | अस्मिन् "साध्याभावव्याप्यः" इत्यंशे 'व्याप्तिः' प्रकटीभूता अस्ति | सा च व्याप्तिः त्रिविधा भवति | पूर्वपक्षव्याप्तिः, सिद्धान्तव्याप्तिः, व्यतिरेकव्याप्तिश्च | प्रथमव्याप्तिद्वयं स्वीक्रियते चेत्, सत्प्रतिपक्षः इति संज्ञा |
इत्युक्तौ—
१) साध्याभावाभावदवृत्तिमत्पक्षः | (पूर्वपक्षलक्षणस्य प्रवेशः)
२) हेतुव्यापकसाध्याभावसमानाधिकरणहेतुमत्पक्षः | (सिद्धान्तलक्षणस्य आधारेण, हेतुव्यापकसाध्यसामानाधिकरण्यं घटयित्वा)
यथा पूर्वपक्षलक्षणस्थले ह्रदः वह्न्यभावव्याप्यजलवान् → 'व्याप्य'-शब्दस्य स्थाने 'अभाववदवृत्ति' → वह्न्यभावाभाववदवृत्तिजलवान् ह्रदः → वह्निमदवृत्तिजलवान् ह्रदः | अनेन 'वह्निः अस्ति चेत् जलं न भवति’, पुनः 'तादृशजलम् अस्ति पक्षे' | एतदाधारेण प्रतिबन्धकत्वम् | (नाम 'वह्निः अस्ति चेत् जलं न भवति’; किन्तु जलम् अस्ति | अतः 'वह्निः अस्ति चेत् जलं न भवति' इत्यस्य पालनम् असम्भवं वह्निः अस्ति चेत् | तदर्थं जानीमः यत् वह्निः नास्ति |)
'साध्याभावव्याप्यहेतुः' इत्यस्मिन् यदि 'व्याप्य'-शब्दस्य स्थाने व्यतिरेकव्याप्तिः स्वीकृता तर्हि 'विरोधः' इति संज्ञा | साध्यव्यापकीभूताभावप्रतियोगिहेतुमत्पक्षः | अस्मिन् प्रसङ्गे अग्रे उच्यते |
५. विरोधः
विरोधः इति नामकरणं किमर्थमिति चेत्, अत्र हेतुसाध्ययोः परस्परविरोधः | अस्य उदाहरणं भवति— पर्वतः वह्निमान् जलात् | यत्र जलम् अस्ति तत्र वह्निः नास्ति |
हेतुसाध्ययोः—
व्याप्तिः इत्युक्ते सर्वदापि तयोः साहचर्यं भवति | यथोक्तं पूर्वंं, साहचर्यम् इत्युक्ते सामानाधिकरण्यम् |
व्यभिचारः इत्युक्ते सदा साहचर्यं न भवति; कदाचित् साहचर्यं भवति, कदाचित् साहचर्यं न भवति |
विरोधः इत्युक्ते कदापि साहचर्यं न भवति | विरोधस्य लक्षणद्वयं मतभेदात्— (१) साध्यासमानाधिकरणो हेतुः विरोधः, (२) साध्यव्यापकीभूताभावप्रतियोगिहेतुः विरोधः | आधिक्येन प्रक्रियायां द्वितीयस्य उपयोगः क्रियते; अत्र च तदाधारेण चिन्तनं कुर्मः | साध्याभावव्याप्यहेतुः इति स्वरूपम् आदाय व्यतिरेकव्याप्तेः उपयोगेन विरोधो निष्पन्नः भवति |
पर्वतः वह्निमान् जलात् इति विरोधस्थले जलरूपहेतुः वह्निं प्रति व्याप्यः न भवति किन्तु वह्न्यभावं प्रति व्याप्यः भवति | यत्र यत्र जलं, तत्र तत्र वह्न्यभावः | ह्रदे जलं भवति, तत्र वह्न्यभावः अपि भवति |
विरोधस्य व्यवस्था कीदृशी इति ज्ञात्वा व्यभिचार-विरोधयोः मिलित्वा चिन्तनं करिष्यते | प्रथमतया विरोधव्यवस्था—
प्रतिबध्यं ज्ञानं त्रिविधम् इति एतावता अस्माभिः दृष्टम्—कुत्रचित् अनुमितिः, कुत्रचित् परामर्शस्य व्याप्त्यंशः, कुत्रचित् च परामर्शस्य पक्षधर्मतांशः | विरोधस्थलं किञ्चित् जटिलम् अतः अत्र साक्षात् तस्य स्वभावं प्रदर्शयामः | अनन्तरं परिशीलनं करिष्यते | तर्हि विरोधस्थले त्रिषु ज्ञानेषु प्रतिबध्यं भवति अनुमितिः |
अनुमितिः = पर्वतः वह्निमान्
प्रतिबन्धकः निश्चयः द्विविधः इति एतावता अस्माभिः दृष्टम् | नाम कुत्रचित् तद्वत्ताबुद्धिं प्रति तदभाववत्तानिश्चयरूपेण प्रतिबन्धकः, अन्यत्र च तद्वत्ताबुद्धिं प्रति तदभावव्याप्यवत्तानिश्चयरूपेण प्रतिबन्धकः | विरोधस्थले प्रतिबन्धकत्वं तद्वत्ताबुद्धिं प्रति तदभावव्याप्यवत्तानिश्चयरूपेण अस्ति |
तर्हि विरोधस्थले अनुमितिं प्रति प्रतिबन्धकत्वम् इति उक्तम् | अपि च विरोधः साध्याभावव्याप्यहेतुः इत्यपि उक्तम् |
अतः पर्वतः वह्निमान् जलात् इति स्थले प्रतिबध्या अनुमितिः पर्वतः वह्निमान् इति चेत्, अपि च विरोधः साध्याभावव्याप्यहेतुः इति चेत्, प्रतिबन्धकनिश्चयः कः स्यात् ?
प्रतिबन्धकः निश्चयः = पर्वतः वह्न्यभावव्याप्यजलवान्
तर्हि प्रतिबध्यज्ञानम् (अनुमितिः) = पर्वतः वह्निमान्
अपि च प्रतिबन्धकः निश्चयः = पर्वतः वह्न्यभावव्याप्यजलवान्
अत्र च प्रतिबन्धकनिश्चये 'व्याप्य'-शब्दः वर्तते | वह्न्यभावव्याप्यजलवान् इति |
अस्य च 'व्याप्य'-शब्दस्य विस्तारक्रमे त्रैविध्यं वर्तते—
१) पूर्वपक्षव्यप्तिलक्षणम् = साध्याभाववदवृत्तित्वम् (अन्वयव्याप्तेः स्वरूपम्)
२) सिद्धान्तलक्षणम् = हेतुव्यापकसाध्यसामानाधिकरण्यम् (अन्वयव्याप्तेः स्वरूपम्)
३) व्यतिरेकव्याप्तिलक्षणम् = साध्याभावव्यापकीभूताभावप्रतियोगित्वम् (व्यतिरेकव्याप्तेः स्वरूपम्)
अधुना विरोधस्थले व्याप्तेः व्यतिरेकव्याप्तिलक्षणं स्वीकुर्मः | साध्याभावव्याप्यवान् पक्षः इति विरोधस्य रूपसामान्यम् |
साध्याभावव्याप्यहेतुमान् पक्षः इति प्रतिबन्धकनिश्चयः → व्याप्य-शब्दस्य स्थाने अभावव्यापकीभूताभावप्रतियोगि → द्वयं मिलित्वा → साध्याभाव-अभावव्यापकीभूताभावप्रतियोगि-हेतुमान् → स्थलेविशेषे वह्यभावाभावव्यापकीभूताभावप्रतियोगिजलवान् → पर्वतः वह्निव्यापकीभूताभावप्रतियोगिजलवान् इति विरोधनिश्चयः (वह्न्यभावव्याप्यवान् इत्यस्य विस्तारः) |
आहत्य विरोधस्थले—
प्रकृतस्थलम् = पर्वतः वह्निमान् जलात्
प्रकृतानुमितिः = पर्वतः वह्निमान्
अनुमितिं प्रति कारणीभूतः परामर्शः = पर्वतः वह्निव्याप्यजलवान्
प्रतिबन्धकीभूतः यथार्थनिश्चयः = पर्वतः वह्निव्यापकीभूताभावप्रतियोगिजलवान्
प्रतिबध्यं ज्ञानम् = अनुमितिः
कया विधया प्रतिबन्धकत्वम् = तद्वत्ताबुद्धिं प्रति तदभावव्याप्यवत्तानिश्चयमुद्रया प्रतिबन्धकत्वम्
हेत्वाभासः यथार्थनिश्चयस्य विषयः = वह्निव्यापकीभूताभावप्रतियोगिजलवान् पर्वतः
अत्र सावित्री-भगिनी पञ्चहेत्वाभासविचारस्य सारांशम् उपस्थापितवती सुन्दररीत्या -
६) चिन्तनार्थम्
'वायुः गन्धवान् स्नेहात्' इति स्थले दोषः कः ?
वायुः पक्षः, गन्धः साध्यः, स्नेहः हेतुः | स्नेहः कुत्र भवति ? केवलं जले भवति | गन्धः कुत्र भवति ? गन्धः केवलं पृथिव्यां भवति | अनेन ज्ञायते यत् स्नेहः कदापि वायौ न भवति; स्नेहरूपहेतुः कदापि वायुरूपपक्षे न भवति चेत्, हेतुः पक्षे नास्ति चेत्, असिद्धदोषः | गन्धरूपसाध्यं न कदापि वायुरूपपक्षे भवति चेत्, साध्यं पक्षे नास्ति चेत्, बाधदोषः | तर्हि 'वायुः गन्धवान् स्नेहात्' इति स्थले असिद्धदोषः अपि अस्ति, बाधदोषः अपि अस्ति |
अधुना गन्ध-स्नेहयोः कः सम्बन्धः ? गन्धः केवलं पृथिव्यां भवति इत्युक्तं, स्नेहः केवलं जले भवति इत्युक्तं; तथा अस्ति चेत्, तयोः मिलित्वा सहवासः न कदापि स्यात् | हेतुसाध्ययोः साहचर्यं न कदापि भवति चेत् तयोः विरोधः इति उच्यते | साध्य-असमानाधिकरणहेतुः इति विरोधः | अतः 'वायुः गन्धवान् स्नेहात्' इति स्थले विरोध-दोषः अपि भवति |
अधुना व्यभिचारप्रसङ्गे चिन्तनं कुर्मः |
हेतुसाध्ययोः व्याप्तिः इत्युक्ते सर्वदापि तयोः साहचर्यं भवति | व्यभिचारः इत्युक्ते कदाचित् साहचर्यं भवति, कदाचित् साहचर्यं न भवति | विरोधः इत्युक्ते कदापि साहचर्यं न भवति | तथा अस्ति चेत्, व्यभिचारः अपि च विरोधः, तयोः मिलित्वा सहावस्थानं कथं वा स्यात् ? ‘कदाचित् भवति' इत्यनेन मध्ये मध्ये भवेत् | इति कृत्वा ‘कदाचित्' अपि च 'न कदापि' इत्यनयोः विरोधसम्बन्धः किल | यत्र व्यभिचारः अस्ति, तत्र विरोधो नास्ति; यत्र विरोधः अस्ति तत्र व्यभिचारः नास्ति |
पुनः अन्यरीत्या चिन्तयामः चेत्, ‘न कदापि' तु 'कदाचित् भवति कदाचित् न भवति' इत्यस्य अन्तर्गते स्यात् | नाम, ‘न कदापि', ‘कदाचित् न भवति' इत्यस्य अंशः | एवं चेत्, विरोध-व्यभिचारयोः सहवासः स्वीकर्तुं शक्यते; तथा भवति चेत्, यत्र यत्र विरोधः, तत्र सर्वत्र व्यभिचारः | एवं नास्ति यत् यत्र व्यभिचारः नास्ति, तत्र कुत्रचित् विरोधः स्यात्; द्वयोः सहवासः सम्भवति चेत्, सदा भवति |
लक्षणदृष्ट्या चिन्तयामः चेत्, व्यभिचारः नाम साध्याभाववद्वृत्तिहेतुः | 'वायुः गन्धवान् स्नेहात्' इत्यतः गन्धाभाववद्वृत्तिः स्नेहः | नाम गन्धः नास्ति चेदपि स्नेहः भवितुम् अर्हति | तत्तु सत्यमेव | अतः अनया दृष्ट्या अपि विरोध-व्यभिचारयोः सामानाधिकरण्यं भवति | 'वायुः गन्धवान् स्नेहात्' इति स्थले गन्धस्नेहयोः विरोधः तु अस्त्येव; द्वयोः सामानाधिकरण्यं न कदापि भवति | साध्याभाववद्वृत्तिहेतुः इत्यस्य आधारेण व्यभिचारः अपि अस्ति |
अपि च व्याप्तिः नास्ति चेत्, नाम यत्र व्याप्तिः नास्ति, तत्र सर्वत्र साध्याभाववद्वृत्तिहेतुः सङ्गच्छते किम् ? व्याप्तिः अस्ति चेत्, साध्याभवे सति हेत्वभावः अवश्यम् अस्ति | परन्तु व्याप्त्यभावे, साध्यां नास्ति चेत् हतुः भवतुम् अर्हति, नापि भवितुम् अर्हति | नाम यत्र यत्र व्याप्तिः नास्ति, तत्र सर्वत्र साध्याभाववद्वृत्तिहेतुः—व्यभिचारस्य स्वरूपं—सङ्गच्छते |
अस्य सर्वस्य आधारेण अवगच्छामः यत्—
१) 'यत्र यत्र व्याप्तिः नास्ति तत्र सर्वत्र व्यभिचारः' | व्यभिचारस्य क्षेत्रं बृहत् | वस्तुतस्तु व्याप्तेः अन्यत् नाम अस्ति अव्यभिचरितत्त्वम् | व्याप्तिव्यभिचारयोः विरोधसम्बन्धः |
२) तथा सति, 'यत्र यत्र विरोधः तत्र तत्र व्यभिचारः' | विरोधः व्याप्यः, व्यभिचारः व्यापकः | व्यभिचारविरोधयोः व्याप्तिसम्बन्धः |
एवं भवति चेत्—यत्र यत्र विरोधः तत्र तत्र व्यभिचारः इति चेत्—विरोधः व्यभिचारस्य कश्चन लघुभागः, उपप्रकारः | व्यभिचारक्षेत्रस्य अन्तः भवति विरोधः | यत्र यत्र व्यभिचारः तत्र तत्र विरोधः अस्ति इति तु नास्ति—यथा 'पर्वतः धूमवान् वह्नेः' | अत्र व्यभिचारः अस्ति किन्तु विरोधो नास्ति | परन्तु विरोधः अस्ति चेत्, व्यभिचारः अवश्यम् अस्ति | अतः विरोधः व्यभिचारस्य उपप्रकारः भवतु | नाम व्यभिचारस्य अन्तर्गते उपप्रकारद्वयं—ययोः साहचर्यं कदाचित् भवति इति एकविधं (साध्याभाववद्वृत्तित्वं), ययोः साहचर्यं न कदापि भवति इति द्वितीयविधं (साध्यासमानाधिकरण्यम्) | कदापि न भवति चेत् विरोधः | एवं कृत्वा विरोधः व्यभिचारस्य अन्तरङ्गम् इति कृत्वा तस्य एकः प्रकारः |
परन्तु व्यभिचारं प्रति विरोधः 'व्याप्यः' इत्युक्तं; 'व्याप्यः' अपि च ‘उपप्रकारः' इत्यनयोः साम्यं नास्ति | यथा वह्निं प्रति धूमः व्याप्यः, परन्तु धूमः वह्नेः उपप्रकारो नास्ति | अन्ततो गत्वा विरोधव्यभिचारयोः मध्ये व्याप्यव्यापकभावो वर्तते | परन्तु प्रकार-उपप्रकारसम्बन्धो नास्ति | 'यत्र यत्र व्याप्तिः नास्ति तत्र सर्वत्र व्यभिचारः' इत्यस्य आधारेण व्याप्तिः यत्र नास्ति, तत्र एकम् अपि स्थलं नास्ति यत्र व्यभिचारः न स्यात् अपि च 'व्याप्तिः नास्ति' इति क्षेत्रे विरोधः अस्ति इति कृत्वा विरोधः यत्र भवति तत्र व्यभिचारः अपि अवश्यं स्यात् | एवं सति, ‘वायुः गन्धवान् स्नेहात्' इति स्थले विरोधो वर्तते इत्यस्माभिः दृष्टं; विरोधः अस्ति इत्यस्मात् व्यभिचारः अपि अवश्यं भवेत् |
तर्हि एतावत् 'वायुः गन्धवान् स्नेहात्' इति स्थले असिद्धदोषः अस्ति, बाधदोषः अस्ति, विरोधदोषः अस्ति, अपि च व्यभिचारदोषः अस्ति |
अन्ते सत्प्रतिपक्षः | सत्प्रतिपक्षः नाम साध्यसाधकम् अपि एकम् अनुमानं भवति अत्र, साध्याभावसाधकम् अपि एकम् अनुमानं भवति | एतदृशदोषः अत्र अस्ति वा ? एकः वदति 'वायुः गन्धवान् स्नेहात्' | अन्यः वदति 'वायुः गन्धाभाववान् पृथिवीत्वाभावात्' | वायोः मध्ये पृथिवीत्वं नास्ति; पृथिवीत्वं नास्ति चेत् गन्धोऽपि नास्ति | सत्प्रतिपक्षस्य स्वरूपम् अस्ति साध्याभावव्याप्यवत्पक्षः | पृथिवीत्वाभावः, गन्धाभावं प्रति व्याप्यः | अतः अत्र सत्प्रतिपक्षस्य स्वरूपम् अपि सङ्गच्छते | आहत्य 'वायुः गन्धवान् स्नेहात्' इति स्थले सर्वेऽपि हत्वाभासाः सन्ति इति पर्यवसितम् |
७) विरोध-व्यभिचारयोः तुलना
अत्र अस्माकम् अन्तिमविषयः | विरोधप्रतिपादनसमये उक्तं यत् "विरोधक्षेत्रे किञ्चित् जाटिल्यं वर्तते अतः व्यवस्था साक्षात् उपस्थापयिष्यते; प्रतिबन्धकत्वम् एतादृशं किमर्थम् इत्यादिषु प्रसङ्गेषु अनन्ततरं चिन्तनं भवतु"—अधुना चिन्तनस्य समयः आगतः | पूर्वतने भागे उक्तं यत् विरोधः व्यभिचारं प्रति व्याप्यः; उपप्रकारो न परन्तु व्याप्यस्त्वस्ति | तथापि उपप्रकारः किमर्थं न इति प्रसङ्गे इतोऽपि परिशीलनीयम् | अत्र अनयोः—व्यभिचारविरोधयोः—सम्बन्धश्च भेदश्च किञ्चित् इतोऽपि दृढं, प्रकर्षेण वक्ष्यते |
अस्माभिः दृष्टं यत् व्यभिचारस्थले प्रतिबन्धकत्वं जायते परामर्शं प्रति, तत्र च व्याप्त्यंशं प्रति | विरोधस्थले किन्तु प्रतिबन्धकत्वं जायते अनुमितिं प्रति | प्रश्नः उदेति यत् किमर्थं व्यभिचारस्थले प्रतिबन्धकत्वं नार्हति अनुमितिं प्रति, अपि च विशेषतया किमर्थं विरोधस्थले प्रतिबन्धकत्वं नार्हति परामर्शस्य व्याप्त्यंशं प्रति |
उक्तं यत् यत्र यत्र व्याप्तिः नास्ति तत्र सर्वत्र व्यभिचारः | अतः व्यभिचारस्य क्षेत्रं बृहत्, अपि च अनेन विरोधः व्यभिचारस्य क्षेत्रे अन्तर्गच्छति इति भाति | अतः प्रतिबन्धकक्षेत्रे न्यूनातिन्यूनं किञ्चित् साम्यं भासेत; तत्प्रसङ्गे अवलोकयाम |
प्रथमतया यथार्थनिश्चयः यया रीत्या विरोधक्षेत्रे अनुमितिं प्रतिबध्नाति, तथा व्यभिचारक्षेत्रे अर्हति किम् ? तत्र व्यभिचारपाठे उदाहरणविशेषे, ‘पर्वतः धूमवान् वह्नेः’ इति स्थले तादृशप्रतिबन्धकत्वं न जायते इति परिशीलितवन्तः | अधुना सैद्धान्तिकरीत्या पश्यामः |
'पक्षः साध्यवान् हेतुमत्त्वात्' इति अनुमानसाधारणम् |
अत्र अनुमितिः अस्ति—
पक्षः साध्यवान्
अनुमितिं प्रति प्रथमविधमुद्रया प्रतिबन्धकः एतादृशः—
पक्षः साध्याभाववान्
अनुमितिं प्रति द्वितीयविधमुद्रया प्रतिबन्धकः एतादृशः—
पक्षः साध्याभावव्याप्यवान्
व्यभिचारस्य स्वरूपम् अस्ति साध्याभाववद्वृत्तिहेतुः |
तदाधरेण यथार्थनिश्चयः भवति—
हेतुः साध्याभाववद्वृत्तिः | अत्र विशेष्यः हेतुः न तु पक्षः, अपि च प्रकारः साध्याभावो नास्ति |
तर्हि पक्षम् आनयामः चेत् यथार्थनिश्चयः कीदृशः स्यात् इति चेत्—
पक्षः साध्याभाववद्वृत्तिहेतुमान् | पक्षे तादृशहेतुः अस्ति यः साध्याभावे भवितुम् अर्हति, नापि भवितुम् अह्रति | नाम तादृशहेतुः अस्ति, यस्य उपस्थित्या साध्यप्रसङ्गे किमपि न वक्तुं शक्यते | अतः एतादृशः हेतुः अस्ति चेत्, 'साध्यं नास्ति' इत्येतादृशं ज्ञानं नास्त्येव |
अधुना अनुमितिं प्रति द्वितीयविधप्रतिबन्धकः अस्ति 'पक्षः साध्याभावव्याप्यवान्’ | अत्र 'व्याप्य' शब्दः अस्ति; तस्य च 'व्याप्य'-शब्दस्य स्थाने त्रिविधव्याप्त्यर्थं स्थापयितुं शक्यते |
- साध्याभाववदवृत्तित्वम् इति चेत्—
पक्षः साध्याभावव्याप्यवान् → पक्षः साध्याभावाभाववदवृत्तिमान् → पक्षः साध्यवदवृत्तिहेतुमान्
- हेतुव्यापकसाध्यसामानाधिकरण्यम् इति चेत्—
पक्षः साध्याभावव्याप्यवान् → पक्षः हेतुव्यापकसाध्याभावसमानाधिकरणहेतुमान्
- साध्याभावव्यापकीभूताभावप्रतियोगित्वम् इति चेत्—
पक्षः साध्याभावव्याप्यवान् → पक्षः साध्याभावाभावव्यापकीभूताभावप्रतियोगिहेतुमान् → पक्षः साध्यव्यापकीभूताभावप्रतियोगिहेतुमान्
व्यभिचारस्य लक्षणम् अस्ति साध्याभाववद्वृत्तिहेतुः | अस्माभिः द्रष्टव्यं यत् एतेषु त्रिषु उपर्युक्तेषु प्रतिबन्धकरूपेषु साध्याभाववद्वृत्तिहेतुः इति लक्षणं सङ्गच्छते न वा |
तर्हि द्वितीयविध-प्रतिबन्धकनिश्चयः अस्ति—
पक्षः साध्याभावव्याप्यहेतुमान्
व्यभिचारस्य यथार्थनिश्चयः अस्ति—
पक्षः साध्याभाववद्वृत्तिहेतुमान्
व्याप्य-शब्दस्य स्थाने त्रीन् अर्थान् संस्थाप्य निष्पन्नप्रतिबन्धकैः सह तुलना क्रियताम् | अनेन ज्ञायते यत् त्रिषु कुत्रचित् व्यभिचारस्य स्वरूपम् अन्तर्भवति न वा | इति अभ्यासः करणीयः |
अस्मिन् चिन्तनक्रमे प्रश्नद्वयम् उदेति; एकः प्रश्नः व्यभिचारस्य प्रतिबन्धकत्वम् अनुमितिं प्रति भवति न वा | अन्यः प्रश्नः व्यभिचारस्य अर्थप्रसङ्गे किञ्चित् स्पष्टीकरणम् अपेक्षितम्, अर्थः कः इति | एकः प्रश्नः अपरम् अवलम्ब्य न तिष्ठति | प्रथमतया व्यभिचारस्य प्रतिबन्धकत्वम् अनुमितिं प्रति भवति न वा इति | अत्र अस्माकं भ्रमः न भवेत् यत् प्रतिबन्धकत्वस्य निर्णयार्थं "प्रश्नः एवम् अस्ति यत् 'पक्षः साध्यवदवृत्तिहेतुमान्' इति क्षेत्रम् 'पक्षः साध्याभाववद्वृत्तिहेतुमान्' इति क्षेत्रस्य अन्तः अस्ति न वा" इति | सत्यं, 'पक्षः साध्यवदवृत्तिहेतुमान्' इत्युक्ते विरोधः, अपि च सत्यं यत् विरोधः व्यभिचारं प्रति व्याप्यः | नाम 'पक्षः साध्यवदवृत्तिहेतुमान्' इत्यस्य क्षेत्रं 'पक्षः साध्याभाववद्वृत्तिहेतुमान्' इति क्षेत्रस्य लघुः अंशः | परन्तु 'प्रतिबन्धकत्वार्थं न वा' इति अस्माकं पुरतः यः प्रश्नः, सः तादृशः नास्ति | प्रश्नः अस्ति यत् "पक्षः साध्याभाववद्वृत्तिहेतुमान्" इति जानीमः चेत्, "पक्षः साध्यवदवृत्तिहेतुमान्" इति अपि जानीमः किम् ? उत्तरम् अस्ति यत्, न— न जानीमः | व्यापकज्ञानम् अस्ति चेत् तद्व्याप्यज्ञानमपि अस्ति इति तथा किमपि नास्ति किल | "पक्षः साध्याभाववद्वृत्तिहेतुमान्" इति ज्ञानेन न जानीमः यत् "पक्षः साध्याभावव्याप्यहेतुमान्" | तादृशज्ञानस्य अभावे, 'व्यापकः अस्ति इति जानीमः चेत् व्याप्यः अपि अस्ति' इति तु सत्यं नास्ति इति कारणतः "पक्षः साध्याभाववद्वृत्तिहेतुमान्" इति निश्चयः द्वितीयमुद्रया प्रतिबन्धकः नास्ति अनुमितिं प्रति |
द्वितीयः प्रश्नः वास्तविकव्यभिचारः कः ? उक्तं यत् व्यभिचारः नाम साध्याभाववद्वृत्तित्वम् | पुरतः त्रीणि वाक्यानि सन्ति—
- साध्याभाववति भवति, साध्यवति अपि भवति |
- साध्याभाववति भवति |
- साध्याभाववति एव भवति |
एषु त्रिषु कः अर्थः, अपि च त्रयाणां मध्ये कः भेदः इति वक्तव्यम् |
अत्र व्यभिचारप्रसङ्गे प्राचीननैयायिकानां मतस्य सामान्यपरिचयः दीयते—
व्यभिचारः नाम कः इति वक्तव्यं चेत्, द्वयोः वस्तुनोः मध्ये (हेतुसाध्ययोः मध्ये) 'व्यभिचारः अस्ति' इत्यस्य वदनार्थं, साध्याभाववति अपि वर्तेत, साध्यवति अपि कुत्रचित् वर्तेत | यः हेतुः साध्याभाववति अपि वर्तते, साध्यवति अपि वर्तते, अपि च यः हेतुः साध्याभाववति एव वर्तते न तु साध्यवति कुत्रापि, अनयोर्मध्ये भेदः अस्ति | प्रथमस्थले हेतुसाध्ययोः मध्ये सामानाधिकरण्यं कुत्रचित् भवति एव; द्वितीयस्थले हेतुसाध्ययोः सामानाधिकरण्यं कुत्रचिदपि नास्ति |
व्याप्तिः, व्यभिचारः, विरोधः इति त्रयः पदार्थाः; एतेषां समानः कश्चन दृष्टान्तः इति चेत् यथार्थज्ञानं, संशयः, भ्रमः | यथार्थज्ञानम् इत्युक्ते तद्वति तत्प्रकारकं ज्ञानम् | कश्चित् रज्जुं पश्यति; तस्य ज्ञानम् 'इयं रज्जुः' इति भवति चेत्, यथार्थज्ञानं यतोहि प्रकारः अस्ति रज्जुत्वम् | अपरः कश्चित् रज्जुं पश्यति; तस्य ज्ञानं जायते 'अयं सर्पः' इति चेत्, भ्रमः | अयथार्थस्य लक्षणम् अस्ति 'तदभाववति तत्प्रकारकः अनुभवः' | तत्र विशेष्ये रज्जौ सर्पत्वम् इति प्रकारः | रज्जोः दर्शनेन च तृतीयस्य कस्यचित् ज्ञानं जायते 'अयं रज्जुर्वा सर्पो वा' इति चेत्, संशयः | यथार्थज्ञाने रज्जौ रज्जुत्वभानम् एव भवति | भ्रमे, रज्जौ सर्पत्वभानमेव भवति | संशये रज्जौ रज्जुत्वस्य भानमपि भवति, सर्पत्वस्य अपि भानं भवति | तदभाववति तत्प्रकारकत्वं संशये अपि अस्ति, भ्रमे अपि अस्ति | सर्पत्वाभववत्यां रज्जौ सर्पत्वभानं भवति उभयत्र भ्रमे संशते च | अतः संशयोऽपि अयथार्थः, भ्रमोऽपि अयथार्थः | परन्तु तावता यत्र यत्र भ्रमः तत्र तत्र संशयः इति वक्तुं न शक्नुमः | तथा चेत् तयोः भेदः एव न स्यात् | अतः संशयस्य लक्षणवदनावसरे तदभाववति तत्प्रकारकत्वं पर्याप्तं न भवति | केवलं तदभाववति तत्प्रकारकत्वम् इति वदामः चेत्, सः 'भ्रमः' न तु 'संशयः' | अतः संशयस्य प्रतिपादनार्थं किं वक्तव्यम् ? तदभाववति तत्प्रकारकत्वम् अपि अस्ति, तद्वति तत्प्रकारकत्वम् अपि अस्ति | अधुना भ्रमस्य संशयस्य च व्याप्यव्यापकभावः भवितुम् अर्हति वा इति प्रश्नः | यत्र यत्र भ्रमः तत्र तत्र संशयः | भ्रमः इति भिन्नमेव ज्ञानं, संशयः भिन्नमेव ज्ञानम् | अनयोर्मध्ये व्याप्यव्यापकभावो च नास्ति | तद्वदेव व्याप्तिः, व्यभिचारः, विरोधः | व्याप्तिः नाम सर्वदा साहचर्यं भवति | यथार्थज्ञानम् इव | व्यभिचारः संशयः इव अस्ति | साध्याभावति अपि हेतुः भवति, साध्यवति अपि हेतुः भवति | विरोधः भ्रमः इव अस्ति | साध्याभाववति एव हेतुः भवति | यया रीत्या यथार्थज्ञानं, संशयः, भ्रमः इत्येषां मध्ये व्याप्यव्यापकभावः कुत्रचिदपि नास्ति, त्रयः नितरां पृथक्, तद्वत् व्याप्तिः, व्यभिचारः, विरोधः इत्येषु त्रिष्वपि व्याप्यव्यापकभावः नास्त्येव इत्येकं मतम् |
यथा द्वयोः वस्तुनोः मध्ये विरोधः इति सम्बन्धः वर्तते चेत्, अनयोः मध्ये 'कुत्रचित् साहचर्यं वर्तते कुत्रचित् न वर्तते' इति सम्बन्धः भवितुं नार्हति | स्नेहस्य गन्धस्य मध्ये विरोधः अस्ति | यत्र यत्र गन्धः तत्र तत्र स्नेहः नास्ति, यत्र यत्र स्नेहः तत्र तत्र गन्धः नास्ति | कुत्रापि कदापि तयोः साहचर्यं न भवति | तयोः मध्ये कदापि एतादृशः सम्बन्धः भवितुं नार्हति यत् 'क्वचित् गन्धे सत्यपि स्नेहः अस्ति, क्वचित् गन्धे सति स्नेहः नास्ति' | व्यभिचारः कुत्र भवितुम् अर्हति ? रूपस्पर्शयोर्मध्ये | वायौ स्पर्शः अस्ति, तत्र रूपं नास्ति | पृथिव्यां रूपमपि अस्ति, स्पर्शः अपि अस्ति | स्पर्शवति कुत्रचित् रूपम् अस्ति, स्पर्शवति कुत्रचित् रूपं नास्ति | एवमेव रूपवति कुत्रचित् स्पर्शः अस्ति, रूपाभावति कुत्रचित् स्पर्शः अस्ति | अतः व्यभिचारः अनयोर्मध्ये वर्तते | अपि च अनयोर्मध्ये विरोधः अस्ति इति वक्तुं न शक्नुमः | द्वयोः साहचर्यं कदापि नास्ति चेत् विरोधः | तथा नास्ति अत्र |
अधुना व्याप्यव्यापकभावस्य वदनार्थं वस्तुतस्तु प्रकारः-उपप्रकारः इति सम्बन्धः अपेक्षितः | भिन्नरीत्य वक्तव्यम् अस्ति, किन्तु सम्बन्धः अस्त्येव | प्रदर्शनार्थं 'पृथिवी द्रव्यम्' इति प्रयोगं कर्तुं शक्नुमः | यत्र पृथिवीत्वम् अस्ति, तत्र सर्वत्र द्रव्यत्वम् अपि अस्ति | पृथिवी द्रव्यस्य उपप्रकारः | सर्वत्र यत्र व्यप्यव्यापकभावः अस्ति, तथा वक्तुं शक्नुमः | अत्र प्रश्नः उदेति, “यत्र यत्र धूमः तत्र तत्र वह्निः इति स्थले धूमः व्याप्यः, वह्निः व्यापकः | परन्तु 'धूमः वह्निः' इति प्रयोगं कर्तुं न शक्नुमः | उत्तरम् अस्ति यत् 'पृथिवी द्रव्यम्' इति स्थले, पृथिवी-द्रव्ययोः व्यप्यव्यापकभावः नास्ति अपि तु पृथिवीत्व-द्रव्यत्वयोः | अतः वह्निदूमयोः स्थले 'धूमाश्रयः वह्न्याश्रयः' इति प्रयोगं कर्तुं शक्नुमः | धूमाश्रयः एव वह्न्याश्रयः; धूमाश्रयः वह्न्याश्रयः अस्ति | धुमाश्रयः वह्न्याश्रयस्य एकः लघुः अंशः | धुमाश्रयः वह्न्याश्रयस्य एकः उपप्रकारः | 'पृथिवी द्रव्यम्', ‘धूमाश्रयः वह्न्याश्रयः' | व्याप्यस्य आधारः व्यापकस्य आधारस्य उपप्रकारः |
तर्हि प्राचीनमते विरोधाश्रयः व्यभिचाराश्रयस्य एकः लघुः अंशः किम् ? विरोधस्य आश्रयः गन्धः, स्नेहश्च | व्यभिचारस्य आश्रयः गन्धः, स्नेहश्च न वा इति द्रष्टव्यम् | अत्र पुनः एकः स्तरः अधोभागे द्रष्टव्यं भवति— गन्धस्नेहयोः आश्रयः कदाचित् समानः, कदाचित् समानो न इति एवं भवति चेत्—साध्याभाववति अपि वर्तेत, साध्यवति अपि कुत्रचित् वर्तेत—तर्हि विरोधः व्यभिचारं प्रति व्याप्यः; नो चेत् न | एतावता प्रायः स्पष्टः जातः यत् प्राचीनमते विरोधः व्यभिचारं प्रति व्याप्यः नास्ति |
अधुना व्यभिचारः कः इति शास्त्रीयरीत्या अवलोकयामः | प्राचीनानां मतं भिन्नं, नव्यानां च मतं भिन्नम् | नव्यानां मतमनुसृत्य व्यभिचारस्य लक्षणं तदेव भवति यत् अस्माभिः अनेकवारं दृष्टं, साध्याभाववद्वृत्तिहेतुः | प्राचीनानां मतमनुसृत्य सपक्षविपक्ष-उभयवृत्तित्वम् अस्ति चेदेव व्यभिचारः | तस्य च साधनार्थं लक्षणे दलद्वयं भवति, साध्यवद्वृत्तित्वे सति साध्याभाववद्वृत्तित्वम् | सपक्षः नाम कः ? निश्चितसाध्यवान् सपक्षः | विपक्षः नाम कः ? निश्चितसाध्याभाववान् विपक्षः | अतः साध्यवद्वृत्तित्वम् इत्युक्तौ सपक्षवृत्तित्वं, साध्याभाववद्वृत्तित्वम् इत्युक्तौ विपक्षवृत्तित्वम् |
अत्र प्रश्नः उदेति यत् नव्यनैयायिकाः किमर्थं द्वयोः दलयोः मध्ये एकं (साध्यवद्वृत्तित्वं) त्यक्तवन्तः ? कारणम् अस्ति यत् साध्यवद्वृत्तित्वम् इति दलं सद्धेतोः साधारणम् | व्यभिचारी इत्युक्तौ असद्धेतुः | यदा असद्धेतोः लक्षणम् उच्यते, तदा सद्धेतुलक्षणस्य विद्यमानः अंशः न वक्तव्यः, न निवेशनीयः | सपक्षवृत्तित्वम् इति अंशः असद्धेतोः व्यभिचारिणः लक्षणे न प्रवेशनीयः | यः अंशः सद्धेतुं व्यावर्तयति, सः एव अंशः असद्धेतोः लक्षणे वक्तव्यः इति नव्यानां मतम् | अतः तेषां व्यभिचारलक्षणम् अस्ति साध्याभाववद्वृत्तिहेतुः |
तर्हि व्यभिचारलक्षणक्षेत्रे द्वयोः मध्ये मतभेदस्य कारणद्वयम् अस्ति—
१) प्राचीनानां च नव्यानां मते, द्वयोः मतम् अनुसृत्य दोषाणां भेदः वक्तव्यः | नाम विरोधस्य लक्षणं व्यभिचारस्य लक्षणस्वरूपात् भिन्नं भवेत् | अपि च उभयत्र तथा सिद्धम् अस्ति | परन्तु प्राचीनमतम् अनुसृत्य दुष्टानामपि भेदः वक्तव्यः; दोषभेदात् दुष्टानामपि भेदः | एकस्मिन् काले एकः असद्धेतुः व्यभिचारी तथा विरोधी भवितुं नार्हति | नव्यानां मते दुष्टानां भेदस्य आवश्यकता नास्ति | तेषां कृते दुष्टानां भेदः न अनिवार्यः |
२) असद्धेतोः लक्षणे सद्धेतोः सम्बद्धः अंशः तस्मिन् न प्रविशेत् इति नवीनानां मतम् |
तर्हि सद्धेतोः लक्षणं किम् ? सद्धेतोः तादृशम् एकं लक्षणं कुत्रापि नोक्तं; केवलं सद्धेतोः केचन अंशाः स्वीकृताः | इत्युक्ते यदि कश्चित् सद्धेतुः भवेत्, तर्हि तत्र एते पञ्च अंशाः अपेक्षिताः—पक्षसत्त्वं, सपक्षसत्त्वं, विपक्ष-असत्त्वं, अबाधितत्त्वं, असत्प्रतिपक्षितत्त्वम् |
एतावता अस्माभिः ज्ञातं यत् प्राचीनाः अपेक्षन्ते यत् दोषाणाम् अपि भेदः भवेत्, दुष्टानाम् अपि भेदः भवेत् | नवीनाः अपेक्षन्ते यत् असद्धेतोः लक्षणे सद्धेतोः अंशः तस्मिन् न प्रविशेत् | अनयोः द्वयोः मेतभेदयोः कारणेन प्राचीननव्ययोः मध्ये व्यभिचारलक्षणे भेदः सञ्जातः |
तर्हि दोषस्य लक्षणे सद्धेतोः अंशः न भवेत् इति नव्यानां मतं, तदर्थं च एकं दलं नव्यनैयायिकाः त्यक्तवन्तः | तेन 'हानिः' का ? तथा सति दोषाणां कुत्रचित् संग्रहो भवति एकत्र एकस्मिन् दुष्टहेतौ | समानः एकः दुष्टः हेतुः कुत्रचित् व्यभिचारी (व्यभिचारदोषवान्) अपि भवति, विरोधी (विरोधदोषवान्) अपि भवति | नव्यानां विचारम् अनुसृत्य दोषस्य भेदो वर्तते; दुष्टभेदो नास्ति चेदपि चिन्ता नास्ति | दोषस्य भेदः स्वीकरणीयः— विरोधदोषः भिन्नः, व्यभिचारदोषः भिन्नः | किन्तु दुष्टानां भेदः भवितुम् अर्हति, नापि भवितुमर्हति | अनेन एकस्मिन् दुष्टे दोषद्वयं भवितुम् अर्हति | अतः यत्र विरोधः अस्ति तत्र व्यभिचारः अपि भवितुम् अर्हति |
विरोधस्य लक्षणं साध्यव्यापकीभूताभावप्रतियोगित्वम् | व्यभिचारस्य लक्षणं साध्याभाववद्वृत्तित्वम् | द्वयोः दोषयोः स्वरूपं परस्परं भिन्नम् | अनेन विरोधः भिन्नः दोषः, व्यभिचारः पुनः भिन्नः दोषः | परन्तु इदं दोषद्वयम् एकस्मिन् दुष्टे भवितुम् अर्हति इति नव्यानां वैशिष्ट्यम् |
प्राचीनाः वदन्ति यत् दोषाणाम् अपि भेदः वक्तव्यः, दुष्टानामपि भेदः वक्तव्यः | दुष्टानां भेदः नाम एकस्मिन् काले एकः असद्धेतुः व्यभिचारी तथा विरोधी भवितुं नार्हति | अतः यः विरोधदोषवान्, सः व्यभिचारदोषवान् न; अपि च यः व्यभिचारदोषवान्, सः विरोधदोषवान् न | प्राचीनाः दुष्टानां भेदं साधयितुं साध्यवद्वृत्तित्वे सति साध्याभाववद्वृत्तित्वम् इति व्यभिचारस्य लक्षणम् उक्तवन्तः | अत्र व्यभिचारस्य लक्षणकथनेन व्यभिचारिणः लक्षणम् अपि उक्तं भवति | इत्युक्ते अनेन व्यभिचारिणः स्वरूपं भिन्नं भवति, विरोधिनः स्वरूपं भिन्नं भवति | न केवलं दोषाः भिन्नाः अपि तु दुष्टाः अपि भिन्नाः; एकस्मिन् दुष्टे एक एव दोषः |
प्राचीनानां कृते विरोधस्य लक्षणं साध्यव्यापकीभूताभावप्रतियोगित्वम् | व्यभिचारस्य लक्षणं साध्यवद्वृत्तित्वे सति साध्याभाववद्वृत्तित्वम् | अनेन दोषाः तु भिन्नाः; दुष्टाः अपि भिन्नाः | एकस्मिन् दुष्टहेतौ विरोधदोषः व्यभिचारदोषः एकत्र असम्भवः—कारणम् अस्ति साध्यवद्वृत्तित्वम् इति दलं, यतोहि साध्यवद्वृत्तित्वम् इति उक्तं चेत् विरोधः भवितुं नार्हति | तर्हि प्राचीनानां वैशिष्ट्यम् अस्ति येत् एकस्मिन् दुष्टे विरोधः व्यभिचारः च इति दोषद्वयं न सम्भवति |
नव्यानां कथनानुसारं विरोधसाधारणं व्यभिचारस्य अन्तर्गते चेदपि चिन्ता नास्ति | प्राचीनमते व्यभिचारलक्षणे विरोधव्यावर्तकं विशेषणं; नव्यानां मते विरोधव्यावर्तकविशेषणं नावश्यकम् | यः विरुद्धहेतुः सः भिन्नः न इति वक्तुं शक्यते, परन्तु दोषः— विरोधः व्यभिचारः च—तयोः भेदः अस्ति इति नवीनैः स्वीकृतः | विरुद्धः यः हेतुः, तस्मिन् व्यभिचारित्वं भवतु चिन्ता नास्ति परन्तु विरोधव्यभिचारयोः भेदः भवत्येव | दोषस्य भेदः उभयत्र अङ्गीकृतः; दुष्टक्षेत्रे मतभेदः | प्राचीनानां व्यभिचारलक्षणे साध्यवद्वृत्तित्वम् उक्तं विरोधस्य अतिव्याप्ति-वारणाय | नव्यानां मतमस्ति यत् विरोधः व्यभिचारं प्रति व्याप्यः; प्राचीनानां कथनानुसारं विरोधः व्याप्यः नास्ति, अपि तु विरोधव्यभिचारयोः सामानाधिकरण्यं न भवति एव | उभयक्षेत्रे किन्तु स्वस्य इष्टं कार्यं सिध्यति |
अन्ततो गत्वा च द्वयोरपि व्यभिचारलक्षणस्य अर्थमवलम्ब्य व्यभिचारस्य प्रतिबन्धकत्वम् अनुमितिं प्रति न जायते | पक्षोल्लेखस्य अभावे व्याप्त्यभावे च व्यभिचारस्य हस्ते किमपि यन्त्रं नास्ति अनुमितिं प्रति प्रतिबन्धकत्वग्रहणार्थम् | ‘वृत्तित्वम्' इत्यस्य कथनेन परामर्शस्य व्याप्त्यंशं प्रति प्रतिबन्धकत्वं जायते, तद्द्वारा एव च परम्परया अनुमितिः बाधते |
अत्र एकं चिन्तनम् | नव्यनैयायिकाः किमर्थं प्राचीनानां व्यभिचारलक्षणं न स्वीकुर्वन्ति इति चेत्, सद्धेतोः लक्षणस्य अंशः असद्धेतोः लक्षणे न प्रविशेत् | समस्या एषा एव | कुत्र समस्या ? लक्षणकथने समस्या; अर्थगत-आपत्तिः नास्ति | अतः एकरीत्या लक्षणकथनं पृथगेव वार्ता; अर्थः च तम्सात् पृथक् वार्ता | नाम पदार्थस्य स्वरूपचिन्तनं भिन्नं, लक्षणचिन्तनं भिन्नम् | यतोहि लक्षणकथनसमये निर्बन्धाः सन्ति— (१) अव्याप्त्यादयः दोषाः न भवेयुः; (२) अखण्डम् एकं पदं भवेत्; (३) सद्धेतोः लक्षणस्य अंशः दुष्टहेतुलक्षणे न प्रविशेत् | एतान् सर्वान् अपि निर्बन्धान् अनुसृत्य किमपि एकं लक्षणं वक्तव्यं, समीचीनमेव | किन्तु तद्द्वारा पदार्थस्य स्वरूपं निश्चेतुं न शक्नुमः | अस्माभिः पदार्थस्य स्वरूपं ज्ञातव्यं चेत् पृथगेव चिन्तनं करणीयं, यत्र एते सर्वे निर्बन्धाः न स्युः | तथा चिन्तयामः चेत्, प्राचीनानां व्यभिचारलक्षणं सहकारी भवति | यद्यपि सद्धेतोः लक्षणस्य अंशः तत्र प्रविष्टः, तथापि साध्यवद्वृत्तित्वे सति साध्याभाववद्वृत्तित्वम् इत्यनेन पदार्थस्य अर्थः स्पष्टः जायते | सद्धेतोः अंशः तस्मिन् प्रविष्टः चेदपि का हानिः, सा अपि तु स्पष्टा नास्ति; नेच्छन्ति, तावदेव उच्यते | परन्तु भवतु नाम, नव्यानां लक्षणस्य अद्यत्वे प्रचलनं वर्तते अपि च यथोक्तं प्रतिबन्धकक्षेत्रे कार्यं तु करोति एव अतः अग्रे गमनार्थं तदेव स्वीक्रियते |
अधुना विरोधप्रसङ्गे चिन्तयामः | उक्तं यत् अनुमितिं प्रति तस्य प्रतिबन्धकत्वम् | प्रश्नः उदेति, विरोधः परामर्शं प्रति प्रतिबन्धकत्वं वक्तुं न शक्नुमः, न भवति एव, इति वा ? अथवा यतोहि अनुमितिं प्रति सम्भवति, अतः परामर्शं प्रति यद्यपि शक्यते परन्तु वदनस्य आवश्यकता नास्ति अतः न वदामः इति वा ? यत्र यत्र व्यभिचारः तत्र तत्र व्याप्तिः नास्ति इति कृत्वा व्यभिचारस्य यथार्थनिश्चयः व्याप्त्यंशं प्रतिबध्नाति | विरोधः व्यभिचारं प्रति व्याप्यः इति कृत्वा व्यभिचारस्य यथार्थनिश्चयः व्याप्तिं प्रतिबध्नाति चेत्, विरोधस्य यथार्थनिश्चयः अपि तथा कुर्यात् |अन्यच्च विरोधस्य स्वरूपम् अस्ति 'साध्याभावव्याप्यहेतुः' इति | अस्मिन् स्वरूपे पक्षस्य उल्लेखः एव नास्ति | केवलं हेतुसाध्ययोः उल्लेखः | पक्षस्य उल्लेखः एव नास्ति चेत्, कथं वा अनुमितिं प्रति प्रतिबन्धकत्वम् ? अनुमाने हेतुसाध्ययोः सम्बन्धः नाम व्याप्ति-सम्बन्धः | निश्चये हेतुसाध्ययोः उल्लेखः भवति चेत्, प्रतिबन्धकत्वं जायते चेत् परामर्शस्य व्याप्त्यंशं प्रति भवेत् | परस्परप्रतिबन्धकत्वं वक्तव्यं चेत्, विरोधनिश्चयस्य अपि च परामर्शस्य च द्वयोः मध्ये विषयविरोधः अपेक्षितः |
विरोधस्य स्थलं स्वीकुर्मः—पर्वतः वह्निमान् जलात् | विरोधस्थले व्यतिरेकव्याप्तिः उपयुज्यते इति जानीमः | तर्हि—
परामर्शस्य स्वरूपम् अस्ति 'साध्यव्याप्यहेत्मान् पक्षः' | अधुना 'व्याप्य'-शब्दस्य स्थाने व्यतिरेकव्याप्तिः (साध्याभावव्यापकीभूताभावप्रतियोगित्वम्) स्थाप्यते चेत्—
साध्यव्याप्यहेत्मान् पक्षः → साध्य-अभावव्यापकीभूताभावप्रतियोगि-हेतुमान् पक्षः → साध्याभावव्यापकीभूताभावप्रतियोगिहेतुमान् पक्षः → 'पर्वतः वह्निमान् जलात्’ इति स्थलविशेषे → वह्न्यभावव्यापकीभूताभावप्रतियोगिजलवान् पर्वतः
अत्र च व्याप्त्यंशे प्रतिबन्धकत्वं जायेत इति कृत्वा अस्य परामर्शस्य व्याप्त्यंशः अस्ति—
वह्न्यभावव्यापकीभूताभावप्रतियोगिजलम्
अपि च विरोधस्य स्वरूपम् अस्ति 'साध्याभावव्याप्यहेतुः’ | तस्मिन् व्यतिरेकव्याप्तिः (साध्याभावव्यापकीभूताभावप्रतियोगित्वम्) स्थाप्यते चेत्—
साध्याभावव्याप्यहेतुः → साध्याभावाभावव्यापकीभूताभावप्रतियोगिहेतुः → साध्यव्यापकीभूताभावप्रतियोगिहेतुः → 'ह्रदः वह्निमान् जलात्’ इति स्थलविशेषे → वह्निव्यापकीभूताभावप्रतियोगिजलम्
प्रतिबध्यज्ञानम् (परामर्शस्य व्याप्त्यंशः) = वह्न्यभावव्यापकीभूताभावप्रतियोगिजलम्
विरोधस्य प्रतिबन्धकनिश्चयः = वह्निव्यापकीभूताभावप्रतियोगिजलम्
उभयत्र विशेष्यम् अस्ति जलम् | अपि च प्रतिबध्यज्ञानस्य प्रकारे वह्न्यभावः अस्ति, विरोधनिश्चये च तदभावः वह्निः अस्ति | अतः परामर्शास्य व्याप्त्यंशं प्रति प्रतिबन्धकत्वम् अस्ति | तद्वत्ताबुद्धिं प्रति तदभाववत्तानिश्चयमुद्रया प्रतिबन्धकत्वम् | एवं कृत्वा यया रीत्या व्यभिचारनिश्चयस्य परामर्शे व्याप्त्यंशं प्रति प्रतिबन्धकत्वं, तया रीत्या विरोधनिश्चयस्य अपि परामर्शे व्याप्त्यंशं प्रति प्रतिबन्धकत्वं भवति |
अत्र एकं वैशिष्ट्यम् अस्ति यत् अस्माभिः बोध्यम् | चिन्तयतु एका उत्पीठिका अस्ति; उत्पीठिकायां जलम् अस्ति | ‘उत्पीठिकायां जालम् अस्ति' इति कश्चन जनः श्यामः ज्ञातवान् | ‘उत्पीठिका जलवती' इति ज्ञानम् | ‘उत्पीठिका जलवती' इति ज्ञानं प्रति प्रतिबन्धकनिश्चयः कः भवितुम् अर्हति ?‘उत्पीठिका जलाभाववती' इति निश्चयः तस्य प्रतिबन्धकः भवति |
अधुना उत्पीठिकायां शीतजलम् अस्ति | ‘उत्पीठिकायां शीतजालम् अस्ति' इति श्यामः ज्ञातवान् | ‘उत्पीठिका शीतजलवती' इति ज्ञानम् | ‘उत्पीठिका शीतजलवती' इति ज्ञानं प्रति प्रतिबन्धकनिश्चयः कः भवितुम् अर्हति ? ‘उत्पीठिका शीतजलवती' इति ज्ञानं प्रति ‘उत्पीठिका उष्णजलवती' इति निश्चयः प्रतिबन्धकः भवति वा इति प्रश्नः | उत्तरम् अस्ति यत् नैव, ‘उत्पीठिका शीतजलवती' इति ज्ञानं प्रति उत्पीठिका उष्णजलवती' इति निश्चयः प्रतिबन्धकः न भवति | किमर्थम् इति चेत्, द्वयोः ज्ञानयोः परस्परविरोधो नास्ति | उत्पीठिकायाम् उभयमपि युगपत्—शीतजलं च उष्णजलं च—भवितुम् अर्हति | उत्पीठिकायां शीतजलम् अस्ति चेदपि, तस्यामेव उत्पीठिकायां, तस्मिन्नेव समये उष्णजलमपि भवितुमर्हति | समानकाले एकस्मिन् स्थले द्विप्रकारकजलं भवितुमर्हति | तर्हि ‘उत्पीठिका शीतजलवती' इति ज्ञानं प्रति प्रतिबन्धकनिश्चयः कः भवितुम् अर्हति ?‘उत्पीठिका शीतजलाभाववती' इति निश्चयः एव प्रतिबन्धकः भवितुमर्हति, न तु 'उत्पीठिका उष्णजलवती' इति निश्चयः |
अधुना प्रकृतौ किं जातम् ?
प्रतिबध्यज्ञानम् (परामर्शस्य व्याप्त्यंशः) = वह्न्यभावव्यापकीभूताभावप्रतियोगिजलम्
विरोधनिश्चयः = वह्निव्यापकीभूताभावप्रतियोगिजलम्
तद्वत्ताबुद्धिं प्रति तदभाववत्तानिश्चयमुद्रया प्रतिबन्धकत्वम् इत्यस्य आधारेण विशेष्यं समानं भवेत्, अपि च प्रतिबध्यज्ञाने यः प्रकारः, प्रतिबन्धकनिश्चये तदभावः प्रकारः भवेत् | अत्र प्रकृतौ उभयत्र विशेष्यं जलम् | प्रतिबध्यज्ञाने प्रकारः कः ? वह्न्यभावव्यापकीभूताभावप्रतियोगित्वम् | विरोधनिश्चये च प्रकारः कः ? वह्निव्यापकीभूताभावप्रतियोगित्वम् | उभयत्र प्रकारिभूतं प्रतियोगित्वम् | उभयोः मध्ये भेदः कः ? प्रतियोगित्वम् कीदृशम् इत्येव भेदः | एकत्र प्रतियोगित्वम् इति प्रकारः, अन्यत्र अप्रतियोगित्वं (प्रतियोगित्वाभावः) इति नास्ति | एकत्र एकविधप्रतियोगित्वम्, अन्यत्र अन्यविधप्रतियोगित्वं, तावदेव | प्रतिबन्धकज्ञाने तदभावप्रकारः कः भवेत् ? वह्न्यभावव्यापकीभूताभाव-अप्रतियोगित्वाम् | किन्तु विरोधनिश्चये तादृशप्रकारः नास्ति, अपि तु वह्निव्यापकीभूताभावप्रतियोगित्वम् इति प्रकारः | नाम उभयत्र प्रतिबध्यज्ञाने च विरोधनिश्चये च प्रकारः प्रतियोगित्वम् एव, केवलं भिन्नप्रकारकप्रतियोगित्वम् | अतः उष्णजलं शीतजलम् इति वार्ता आगता | अतः प्रतिबध्यप्रतिबन्धकभावो नास्ति |
अत्र इतोऽपि स्पष्टीकर्तुं शक्नुमः यत् विशेष्ये मुख्यविशेषणं प्रकारः | गौणविशेषणानि भवितुमर्हन्ति, परन्तु तैः गौणविशेषणैः विरोधः न जायते | केवलम् उष्णजलं शीतलं इति जायते, यत्र परस्परविरोधो नास्ति | प्रकृतौ प्रतियोगित्वं मुख्यविशेषणं; प्रतिबन्धकस्य निर्णयार्थम् अत्र एव द्रष्टव्यम् अस्ति—प्रतियोगित्वस्य विशेषणानि न द्रष्टव्यानि |
पदार्थाः
साध्यम्
साध्याभावः
तद्व्यापकत्वम्
तादृशः अभावः
प्रतियोगित्वम्
जलम्
मुख्यविशेष्यम् अस्ति जलम् | तत्र प्रकारः अस्ति प्रतियोगित्वम् | तत्र प्रकारः अभावः | तत्र प्रकारः व्यापकत्वम् | व्यापकत्वे प्रकारः अस्ति अभावः (साध्यस्य) | तस्मिन् अभावे प्रकारः अस्ति साध्यम् | जले एकत्र प्रतियोगित्वम् अस्ति, अन्यत्र प्रतियोगित्वं नास्ति चेदेव परस्परज्ञानयोः विरोधः | किन्तु उभयत्र प्रतियोगित्वम् अस्ति | एकत्र किञ्चिन्निरूपितप्रतियोगित्वाम्, अपरत्र अन्यत् किञ्चिन्निरूपितप्रतियोगित्वाम् इत्यतः उष्णजलं शीतजलम् इति प्रसङ्गः | वह्न्यभावव्यापकीभूताभावीयं प्रतियोगित्वं, अपरत्र वह्निव्यापकीभूताभावीयं प्रतियोगित्वम् | एकत्र प्रतियोगित्वम् एकविधम् अस्ति, अपरत्र प्रतियोगित्वम् अपरविधम् अस्ति, तावदेव | किन्तु उभयत्र प्रतियोगित्वम् अस्ति |
अधुना अन्ततो गत्वा यद्यपि व्यभिचारं प्रति विरोधः व्याप्यः—यत्र यत्र विरोधः तत्र तत्र व्यभिचारः—तथापि प्रतिबध्यज्ञानभेदः किमर्थम् ? व्यभिचारनिश्चयः परामर्शस्य व्याप्त्यंशं प्रतिबध्नति, किन्तु विरोधनिश्चयः अनुमितिं प्रतिबध्नाति—किमर्थम् अयं भेदः ?
विरोधनिश्चयः = साध्याभावव्याप्यहेतुमान् पक्षः
व्यभिचारनिश्चयः = साध्याभाववद्वृत्तिहेतुमान् पक्षः
अनयोः मध्ये भेदः कः ? विरोधनिश्चये व्याप्य-शब्दः अस्ति, व्यभिचारनिश्चये वृत्ति-शब्दः अस्ति | अनयोः शब्दयोः महान् भेदः | व्याप्य-शब्दस्य कथनेन विरोधस्थले तादृशः हेतुः पक्षे अस्ति यस्य उपस्थितौ साध्याभावः भवति एव, नाम हेतुः पक्षे अस्ति चेत् तत्र साध्यं न भवति एव | अनुमितिः नाम साध्यपक्षयोः सम्बन्धः—पक्षः साध्यवान् | अतः अत्र विरोधस्य शक्तिः अस्ति |
किन्तु वृत्ति-शब्दस्य कथनेन तादृशहेतुः पक्षे अस्ति यस्य उपस्थितौ साध्यं भवितुम् अर्हति, नापि भवितुम् अर्हति | फलितार्थः यत् हेतुः पक्षे अस्ति चेत्, साध्यप्रसङ्गे किमपि वक्तुं न शक्नुमः | अपि च अनुमितिः नाम साध्यपक्षयोः सम्बन्धः—पक्षः साध्यवान् | तदर्थं व्यभिचारस्थले अनुमितेः सम्बन्धे किमपि वक्तुं न शक्यते |
परन्तु व्याप्ति-प्रसङ्गे व्यभिचारनिश्चयस्य शक्तिः अस्ति यतोहि व्याप्ति-व्यभिचारयोः मध्ये विरोधः अस्ति | व्याप्तिः नाम अव्यभिचरितत्त्वम् | यत्र व्याप्तिः अस्ति व्यभिचारः नास्ति; यत्र व्यभिचारः अस्ति व्याप्तिः नास्ति | साध्याभाववदवृत्तित्वं च साध्याभाववद्वृत्तित्वम् |
अपरत्र विरोधस्थले किमर्थं व्याप्त्यंशं प्रति प्रतिबन्धकत्वं नास्ति ? प्रतिबध्यनिश्चययोः मुख्यविशेषणयोः मध्ये परस्परविरोधो नास्ति इत्यस्मात् अभावात् प्रतिबन्धकत्वाभावः | तेन पर्यवसितं यत् केवलम् अनुमितिं प्रति प्रतिबन्धकत्वम् |
तर्हि आहत्य परामर्शं प्रति प्रतिबन्धकत्वं भवति असिद्धेः च व्यभिचारस्य च | अवशिष्टाः त्रयः बाधः, सत्प्रतिपक्षः, विरोधः च इत्येतेषां प्रतिबन्धकत्वं जायते साक्षात् अनुमितिं प्रति |
अनेन हेत्वाभासस्य सारांशः परिसमाप्तः |
Swarup - February 2021