3 - तुदादिगणे न गुणः

From Samskrita Vyakaranam
02A----dhAtugaNAH---sUtra-sahita-dRuShTiH/3---tudAdigaNe-na-guNaH
Jump to navigation Jump to search
ध्वनिमुद्रणानि
) tudAdigaNe-guNaH-na---paricayaH_2015-12-09
२) tudAdigaNe-guNaH-na---सार्वधातुकमपित्‌_+_क्क्ङिति च_2015-12-16



भ्वादिगणः तुदादिगणः इत्यनयोः विकरणप्रत्ययस्य अनुबन्ध-लोपानन्तरम्, 'अ' एव अवशिष्यते इति अस्माभिः दृष्टम्‌ | तयोः गणयोः तिङन्तपदानां साम्यम्‌ अपि अस्ति— यथा भ्वादौ 'भवति', तुदादौ 'लिखति'— उभयत्र 'ति' इत्यस्मात्‌ पूर्वम्‌ अकारः | तर्हि किमर्थं गणद्वयम्‌ ? एतावता प्रायः सर्वे जानीयुः यत्‌ भ्वादिगणे गुणकार्यं भवति, तुदादिगणे च गुणकार्यं निषिध्यते | अस्मिन्‌ पाठे किमर्थं तुदादिगणे गुणः न भवति इति परिशीलयिष्यामः |


दृष्टान्ते, भू-धातुः इगन्तः अस्ति | शप्‌-प्रत्यये परे इगन्त-भू-धातोः ऊकारस्य गुणादेशो भवति, सार्वधातुकार्धधातुकयोः (७.३.८४) इति सूत्रेण | बुध्‌-धातोः उपधायां लघु इक्‌-वर्णः अतः शप्‌-प्रत्यये परे तस्य बुध्‌-धातोः उकारस्य गुणादेशो भवति पुगन्तलघूपधस्य च (७.३.८६) इति सूत्रेण | आहत्य भ्वादिगणे इगन्तधातूनाम्‌ इक्‌-वर्णस्य गुणः; उपधायां ह्रस्व-इक्‌-वर्णस्य गुणः च | अधुना तुदादिगणे तत्‌ अवस्थाद्वयम्‌ अस्ति चेदपि गुणः न | इत्युक्तौ, (१) इगन्तधातूनाम्‌ इक्‌-वर्णस्य गुणः न; (२) तथा हि उपधायां ह्रस्व-इक्‌-वर्णस्य गुणः न | यद्यपि तुदादिगणे श-विकरणप्रत्ययः शित्‌ अस्ति (भ्वादिगणस्य शप्‌ इव), तथापि तुदादौ गुणः न भवति |


भ्वादिगणस्य धात्वङ्गे गुणः यत्र यत्र भवति, तस्य गुणस्य कारणम्‌ अस्माभिः ज्ञायते | इगन्तधातुः भवतु, लघूपधधातुः भवतु, उभयत्र गुणस्य निमित्तं शप्‌ इति विकरणप्रत्ययः |  


शप्‌-विकरणप्रत्यये शकारस्य इत्‌-संज्ञा, लोपः च इति कारणतः शप्‌ "शित्‌" (यस्य शकरः इत्‌, सः शित्‌); तिङ्‌-शित्सार्वधातुकम्‌ इत्यनेन सूत्रेण शप्‌ सार्वधातुकम्‌; शप्‌ सार्वधातुकसंज्ञक-प्रत्ययः इति कारणात्‌ सार्वधातुकार्धधातुकयोः इति सूत्रेण इगन्तधातौ इकः गुणः, पुगन्तलघूपधस्य च इति सूत्रेण धातोः उपधायां ह्रस्व-इकः गुणः च इति दृष्टवन्तः | नाम गुणकार्ये शपः प्रेरणादायिनी शक्तिः अस्ति इति ज्ञातवन्तः |


अधुना तुदादिगणे विकरणप्रत्ययः श; स च विकरणप्रत्ययः श इत्यस्य शकारस्य इत्‌-संज्ञा, लोपः च इति कारणतः श "शित्‌" (यस्य शकरः इत्‌, सः शित्‌); तिङ्‌-शित्सार्वधातुकम्‌ इत्यनेन सूत्रेण श-प्रत्ययः सार्वधातुकसंज्ञ्कः; तर्हि तुदादिगणे अपि सार्वधातुकार्धधातुकयोः इति सूत्रेण इगन्तधातौ इकः गुणः भवेत्‌, पुगन्तलघूपधस्य च इति सूत्रेण धातोः उपधायां ह्रस्व-इकः गुणः च भवेत्‌ | इदं सर्वं सत्यं सत्यपि गुणः न भवति | तर्हि कः भेदः ? श-प्रत्यये गुणकार्यार्थं प्रेरणादायिनी शक्तिः अस्ति चेत्‌, किमर्थं भ्वादिगणे यत्र गुणः भवति, तत्र तुदादिगणे न भवति ?


अत्र केचन प्रश्नाः

  • शपि (शप्‌ प्रत्यये) पकारस्य किं कार्यम्‌ ?
  • पकारः नास्ति चेत्‌ कः प्रभावः ?
  • तुदादि गणे विकरणप्रत्ययः श एव, शप्‌ न; नाम, पकारः नास्ति | तर्हि पकारस्य अभावे किं भवति ?


अस्माकम्‌ अध्ययनस्य आरम्भे एव एवम्‌ उक्तम्‌ आसीत्‌ –

१) विकरणप्रत्यये इत्‌-संज्ञक-शकारस्य कार्यं— गुणस्य कृते प्रेरयति | (धातौ अन्तर्भूतस्य स्वरस्य गुणं कारयति |)

२) विकरणप्रत्यये इत्‌-संज्ञक-पकारस्य कार्यं— तस्य पकारस्य अभावे गुणस्य अवरोधः भवति |


इत्‌-संज्ञक-शकारस्य कार्यं कथं भवति इति अधुना सूत्रसहितां व्याख्यां जानीमः | सूत्र-दृष्ट्या पकारस्य कार्यं कथं भवति ?


भ्वादिगणे, विकरणप्रत्ययस्य पकारस्य उपस्थितौ गुणकार्यार्थम्‌ अनुमतिः अस्ति— अतः सारल्यार्थं भ्वादिगणे पकार-संबद्ध-सूत्रसहित-चर्चा न जाता | परन्तु तुदादिगणे, पकारस्य अभावे गुणावरोधः | स च अवरोधः कथम्‌ इति अवश्यं द्रष्टव्यम्‌ |

लिख्‌-धातोः उदाहरणम्‌ अत्र अवलोकयाम—

१. लिख्‌ [लट्लकार-विवक्षायां, प्रथमपुरुषैकवचने; विकरणप्रत्ययस्य योजने]

२. लिख्‌ + श + ति [लशक्वतद्धिते इत्यनेन सूत्रेण शकारस्य इत्संज्ञा, तस्य लोपः इत्यनेन शकार-लोपः]

३. लिख्‌ + अ + ति


श ('अ') शित्‌ अस्ति अतः तिङ्‌-शित्सार्वधातुकम्‌ इत्यनेन सूत्रेण श-प्रत्ययः सार्वधातुक-संज्ञकः अपि अस्ति | पुगन्तलघूपधस्य च इत्यनेन सूत्रेण लिख्‌-धातोः उपधायां ह्रस्व-इकारस्य गुण-प्रसक्तिः अस्ति | अतः अनेन “लेखति" इति स्यत्‌ |


किन्तु श-विकरणप्रत्ययः न केवलं शित्‌, अपि तु अपित्‌ |


अपित्‌ = यस्मिन्‌ इत्‌-संज्ञकः पकारः नास्ति, सः अपित्‌ इति उच्यते |

[विकरणप्रत्ययः श शित्‌ अस्ति इति स्मरतु | नाम, यद्यपि शकारस्य लोपः जातः‌, तथापि शकारस्य प्रभावः अस्ति एव यतः लोपः इत्युक्ते अदृश्यः, न तु अपगतः | परन्तु तुदादिगणे, विकरणप्रत्ययस्य पकारः नासीत्‌ एव | पकार-लोपः इति न; पकारः नास्ति एव | अतः श-विकरणप्रत्ययः अपित्‌ इति उच्यते |]  


४. सार्वधातुकमपित्‌ (१.२.४) [अपित्‌ = ङित्‌]

अनुवृत्ति-सहितं सूत्रम्‌— सार्वधातुकम्‌ अपित्‌ ङित् | अर्थः एवम्‌— अपित्‌ सार्वधातुकम्‌ ङित्‌ इव अस्ति | अयम्‌ "अतिदेशः" इत्युच्यते | अतिदेशः नाम यस्य स्वभावः तथा नास्ति, सः "तथा भवतु" इति विधानम्‌ | यथा "सिंहो माणवकः"— माणवकः (बालकः) सिंहः नास्ति परन्तु वीरो माणवकः सिंहः इव, अतः माणवके सिंहस्य वीरलक्षणम्‌ अध्यारोपितम्‌ |


यस्मिन्‌ प्रत्यये ङकारस्य इत्‌-संज्ञा अस्ति, सः प्रत्ययः ङित्‌ (यस्य ङकारः इत्‌, सः ङित्‌) | ङित्‌ प्रत्ययानां किञ्चन विशिष्टं कार्यम्‌ अस्ति | तत्‌ किं कार्यम्‌ इति सम्प्रति उच्यते; अत्र तावदेव अवगच्छतु— सार्वधातुकमपित्‌ इति सूत्रेण यः प्रत्ययः अपित्‌, सः यद्यपि साक्षात्‌ ङित्‌ नास्ति, तथापि ङित्‌ इव भवति | अतः यथा ङित्‌-प्रत्ययः कार्यं करोति, तथा अपित्‌-प्रत्ययः अपि कार्यं करोतु | तच्च कार्यं किम्‌ इति इदानीं पश्याम |


५. क्क्ङिति च (१.१.५) [गुण-बाधकं सूत्रम्‌]

अनुवृत्ति-सहितं सूत्रम्‌— क्क्ङिति च इकः गुणवृद्धी न | यः प्रत्ययः गित्‌, कित्‌ अथवा ङित्‌ अस्ति, अपि च तस्य प्रत्ययस्य कारणात्‌ अङ्गे इकः स्थाने गुणः अथवा वृद्धिः भवति स्म, सः न भवति | गुणस्य वृद्धेः च बाधकं सूत्रं इदम्‌ | (सम्प्रति अस्माकम्‌ अवधानं गुणे, न तु वृद्धौ |)


"क्क्ङिति" सप्तम्यन्तं हलन्तं पदम्‌ | तस्य अर्थः एवम्‌— ग्‌ च क्‌ च ङ्‌ च ते इत्‌-संज्ञक-वर्णाः यस्य सः प्रत्ययः क्क्ङित्‌ | तस्मिन्‌ इति | सप्तम्यन्तं यतः कार्यं तस्मात्‌ पूर्वं भवति स्म; तस्मात्‌ प्रत्ययात्‌ पूर्वम्‌ इकः गुणः च वृद्धिः च न भवति |


६. सार्वधातुकमपित्‌ इत्यनेन सूत्रेण यः प्रत्ययः अपित्‌, सः ङित्‌ इव अस्ति | अतः यत्‌ कार्यं ङित्‌ प्रत्ययः करोति, तदेव कार्यं अपित्‌ प्रत्ययः अपि करोति | तुदादिगणे श-विकरणप्रत्ययः अपित्‌ अस्ति, अतः ङित्‌ इव कार्यं करोति | नाम, गुण-बाधकं-कार्यं करोति |


७. गुणाभावे, वर्णमेलने लिख्‌ + अ + ति → लिखति इति भवति |


तर्हि सारांशः एवं यत्‌ यत्र विकरणप्रत्यये पकारः नास्ति‌, तत्र शकारस्य गुणार्थं प्रेरणादायिनी शक्तिः अवरुद्धा भवति | तुदादिगणे, विकरणप्रत्यये गुणार्थं प्रेरणादायकः शकारः अस्ति, किन्तु स च शकारः स्वस्य कार्यं कर्तुं न अर्हः यतः इत्‌-संज्ञक-पकारस्य अभावे गुणार्थं बाधा भवति |


पूर्णसूत्रार्थः


सार्वधातुकमपित्‌ (१.२.४) = सार्वधातुकं यदपित्‌ तद्‌ ङिद्वत्‌ भवति | सार्वधातुकम्‌ प्रथमान्तम्‌, अपित्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | गाङ्‌कुटादिभ्योऽञ्णिन्ङित्‌ (१.२.१) इत्यस्मात्‌ ङित्‌ इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— सार्वधातुकम्‌ अपित्‌ ङित् |


क्क्ङिति च (१.१.५) = यः प्रत्ययः गित्‌, कित्‌ अथवा ङित्‌ अस्ति, अपि च तं प्रत्ययं निमित्तीकृत्य इकः स्थाने गुणः अथवा वृद्धिः भवति स्म, सः (गुणः वृद्धिः) न भवति | ग्‌ च क्‌ च ङ्‌ च तेषाम्‌ इतरेतरद्वन्द्वः क्क्ङः; क्क्ङः इतः यस्य सः क्क्ङित्‌, तस्मिन्‌ परे क्क्ङिति | द्वन्द्वगर्भबहुव्रीहिसमासः | अत्र ग्‌-स्थाने ककारः खरि च इत्यनेन चर्त्वसन्धिः | क्क्ङिति सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | इको गुणवृद्धी (१.१.३) इत्यस्य पूर्णतया अनुवृत्तिः; न धातुलोप आर्धधातुके (१.१.४) इत्यस्मात्‌ इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— क्क्ङिति च इकः गुणवृद्धी न |


पाणिनीयसूत्राणि षड्‌विधा—


संज्ञा च परिभाषा च विधिर्नियम एव च |

अतिदेशोऽधिकारश्च षड्विधं सूत्रलक्षणम्‌ |


क्क्ङिति च (१.१.५) निषेधकं सूत्रम्‌; नाम अनेन कार्यं निषिध्यते | निषेधकं सूत्रं विधिसूत्रेषु अन्तर्भवति |

सार्वधातुकमपित्‌ (१.२.४) कीदृशं सूत्रम् ?



3_-_tudAdigaNe_na_guNaH.pdf

Swarup – August 2012 (Updated Oct 2014 & Dec 2015)