06 - तत्पुरुषसमासः

From Samskrita Vyakaranam
9---anye-vyAkaraNa-sambaddha-viShayAH/06---tatpuruShasamAsaH
Jump to navigation Jump to search
ध्वनिमुद्रणानि
१) tatpuruSha-samAsaH---sAmAnyasya-karmadhArayasya-ca-tulanA_2019-08-17



द्वन्द्वो द्विगुरपि चाहं मद्गृहे नित्यमव्ययीभावः।

तत्पुरुष कर्म धारय येनाहं स्यां बहुव्रीहिः॥


I am a married man (द्वन्द्वः) with a measly two cows (द्विगुः) (i.e. a poor man); in my household there is never any money to spend (अव्ययीभावः). My good man, please do something (तत्पुरुष कर्म धारय) so that I can be a rich man (बहुव्रीहिः).


१. संस्कृतभाषायां वाक्यार्थं शब्दक्रमस्य महत्त्वं नास्ति | कारणं ज्ञायते एव—शब्दाः विभक्तिसहिताः, अतः तेषां क्रियया सह सम्बन्धः निश्चितः | "राजा धेनुं हस्तेन निर्धनाय गोष्ठात्‌ गङ्गातीरे ददाति" इत्यस्मिन्‌ वाक्ये, शब्दक्रमो यत्किमपि भवतु नाम, अर्थोऽवगम्यते अस्माभिः |


२. परन्तु समासे तथा नास्ति | समासे विभक्तयः लुप्यन्ते; विभक्त्यभावे अपरेण माध्यमेन अर्थो बुध्यते | समस्तपदे अन्तर्भूतानाम्‌ अङ्गानां क्रमोऽत्यन्तं महत्त्वपूर्णः | अङ्गक्रमेण एषां परस्परः सम्बन्धः कः इति ज्ञायते | एक एव अपवादोऽस्ति द्वन्द्वसमासः—तत्र अङ्गक्रमस्य विकारेण अर्थो न परिवर्तते | रामश्यामदिलिपाः गच्छन्ति; श्यामदिलिपरामाः गच्छन्ति |


तत्पुरुषसमासः [सामान्यः (सप्तविधा), कर्मधारयः (नवविधा), द्विगुः (त्रिविधा), नञ्प्रभृतयः (पञ्चविधा)]


३. तत्पुरुषसमासे अन्तिमपदस्य कश्चन सम्बन्धो वर्तते समस्तपदात् बहिः, क्रियया सह | अन्तिमपदात्‌ प्राक्‌ यावन्ति पदानि सन्ति, तेषां सम्बन्धो वर्तते केवलं समस्तपदस्य अन्तः | यथा "सः नीलपक्षिणं पश्यति", पक्षिन्‌-शब्दस्य गुरुत्वं भवति पदात्‌ बहिः; नीलशब्दस्य गुरुत्वं केवलं पदस्य अन्तः | नीलपदस्य सम्बन्धो वर्तते पक्षिन्‌-पदेन सह; समस्तपदात्‌ बहिः क्रियया सह अन्वयो नैव विद्यते | अतः समस्तपदात्‌ बहिः अन्तिमपदस्य महत्त्वम्‌ | “I took the horse-cart” इत्यस्मिन्‌ वाक्ये अहं शकटं स्व्यकरवम्‌ | “I took the carthorse” इत्यस्मिन्‌ वाक्ये अहं अश्वमेवानयं, न तु शकटम्‌ |


४. तत्पुरुषस्य परिशीलनम्‌ अन्तात्‌ आरभ्यतां यतः अन्तिमपदं प्रमुखम्‌ | दीर्घसमस्तपदं चेदपि चिन्ता नास्त्येव, यदि तथा कुर्मः | जनकतनयास्नानपुण्योदकम्‌ | अत्र उदकम् (जलम्‌) प्रमुखम्‌ | कीदृशोदकम्‌ इति अस्माभिर्बोध्यम्‌ | पुण्यम्‌ उदकम्‌ | कथं पुण्यम्‌? स्नानेन | कस्य स्नानेन? जनकस्य तनयायाः | तर्हि जनकस्य तनयायाः स्नानेन पुण्यम्‌ उदकम्‌ इति विग्रहवाक्यम्‌ |


५. समासस्य रूपम्‌ | अन्तिमपदस्य स्वस्य सामान्यविभक्तिसहितं रूपं भवति; तद्वर्जयित्वा अवशिष्टानां पदानां प्रातिपदिकरूपम्‌ अथवा प्रातिपदिकस्य विकृतरूपम्‌ (यथा राजन्‌ इत्यस्य “राज”), इति साधारणनियमः | एषाम्‌ अवशिष्टपदानां विभक्तिः वचनं च अवगम्यते वाक्यस्य सन्दर्भेन |


६. कर्मधारयसमासस्य लक्षणं सामानाधिकरण्यम्‌ |


समानम्‌ अधिकरणं इत्यस्य भावः सामानाधिकरण्यम्‌ इति | नाम समासे पदद्वयम्‌ अस्ति चेत्‌, तयोः समानः आधारः अस्ति चेत्‌ तर्हि सामानाधिकरण्यम्‌ अस्ति | समानः आधारः इत्यस्य कृते समान-विभक्तिकत्वम्‌ अपि अपेक्ष्यते, एकार्थबोधकत्वम्‌ अपि अपेक्ष्यते |


दशरथमहाराजो महाहस्तिनं महावने हन्ति |

दशरथो महान्‌ राजा महान्तं हस्तिनं महति वने हन्ति |

दशरथः, महान्‌, राजा | महान्तं हस्तिनम्‌ | महत्‌ वनम्‌ |


दशरथः, महान्‌, राजा एषां शब्दानां समान-विभक्तिकत्वम्‌ अपि अस्ति (प्रथमाविभक्तिः), एकार्थबोधकत्वम्‌ अपि अस्ति (राजा) |


७. तत्पुरुषसमासस्य लक्षणम्‌ असामानाधिकरण्यम्‌ |


रामस्य दूतः → रामदूतः |

निद्रया बाधितः → निद्राबाधितः |


८. कर्मधारयसमासः तत्पुरुषसमासश्च विशेष्यं विशेषणं वा |

समासः   विग्रहः
(तृतीया तत्पुरुषः) नृपोक्त    नृपेण उक्त    = विशेषणम्‌
(षष्ठी तत्पुरुषः)    नृपवचनम्‌   नृपस्य वचनम्‌ = विशेष्यम्‌
(कर्मधारय)   तुङ्गवृक्षः तुङ्गो वृक्षः = विशेष्यम्‌
(कर्मधारय) वृक्षतुङ्ग वृक्ष इव तुङ्ग = विशेषणम्‌


९. क्तान्तसहित-समस्तपदानि

क्तान्तरूपं पूर्वसदस्यः चेत्‌, प्रायः कर्मधारयः, विशेष्यं च | हतपुत्रः (हतः पुत्रः), क्रुद्धब्राह्मणः (क्रुद्धो ब्राह्मणः) | क्रुद्धब्राह्मणो हतपुत्रं पश्यति |

क्तान्तरूपं परसदस्यः चेत्‌, प्रायः तत्पुरुषः, विशेषणं च | रामहत (रावणः) [रामेण हतः (रावणः), शिष्यपठितानि (पुस्तकानि) [शिष्यैः पठितानि (पुस्तकानि)] |


१०. गर्भसमस्तपदानि


क्रुद्धब्राह्मणः नृपहतपुत्रं पश्यति | तत्पुरुषगर्भ-कर्मधारयसमासः |

शिष्यपठितपुस्तकानि न कदापि पठ्यन्तेऽन्यैः जनैः | तत्पुरुषगर्भ-कर्मधारयसमासः |


समासे अन्तिमयुक्तेः स्वभावः पूर्णसमासस्य स्वभावः |


११. समासे पुंवद्भावः यत्र सामानाधिकरण्यं विद्यते |


शुद्धभाषा इति साधु रूपम्‌ | शुद्धाभाषा इति दोषाय |


किमर्थमिति अत्र उच्यते—


समासे पुंवद्भावः सम्भवति यत्र सामानाधिकरण्यं विद्यते | समानम्‌ अधिकरणं इत्यस्य भावः सामानाधिकरण्यम्‌ | नाम समासे पदद्वयम्‌ अस्ति चेत्‌, तयोः समानः आधारः अस्ति चेत्‌ तर्हि सामानाधिकरण्यम्‌ अस्ति | समानः आधारः इत्यस्य कृते समान-विभक्तिकत्वम्‌ अपि अपेक्ष्यते, एकार्थबोधकत्वम्‌ अपि अपेक्ष्यते |


उत्तमा + बालिका → उत्तमबालिका


अस्मिन्‌ उदाहरणे समान-विभक्तिकत्वम्‌ अपि अस्ति, एकार्थबोधकत्वम्‌ अपि अस्ति | नाम द्वौ अपि शब्दौ प्रथमान्तौ स्तः, अतः तयोः समान-विभक्तिकत्वम्‌ | तथा च द्वयोः अपि अर्थः सा बालिका— अतः एकार्थबोधकत्वम्‌ अपि अस्ति | समान-विभक्तिकत्वम्‌ अपि अस्ति, एकार्थबोधकत्वम्‌ अपि अस्ति— अतः सामानाधिकरण्यम्‌ अस्ति | सामानाधिकरण्यम्‌ अस्ति, अतः पुंवद्भावः सम्भवति | इति नियमः |


समासे यत्र सामानाधिकरण्यं, तत्र स्त्रीलिङ्गे पुंवद्भावः भवति इति साधारणनियमः |


तर्हि सामानाधिकरण्यं केषु समासेषु प्राप्यते? कर्मधारय-समासे बहुव्रीहि-समासे च | अन्यत्र न |


उदाहरणार्थं रामकृष्णौ इति द्वन्द्वसमासः | अत्र समान-विभक्तिकत्वम्‌ अस्ति किल | रामः च कृष्णः च, रामकृष्णौ | रामः अपि प्रथमान्तः, कृष्णः अपि प्रथमान्तः | किन्तु रामः रामं बोधयति, कृष्णः कृष्णं बोधयति | सामानाधिकरण्यम्‌ इत्युक्ते समान-विभक्तिकत्वम्‌ एव न | एकार्थबोधकत्वम्‌ अपि आवश्यकम्‌ | रामकृष्णौ इति पदे एकार्थबोधकत्वं नास्ति | अतः सामानाधिकरण्यं नास्ति |


अतः स्त्रीयां द्वन्द्वसमासः अस्ति चेत्‌, समान-विभक्तिकत्वम्‌ भवेत्‌ किन्तु सामानाधिकरण्यं नास्ति अतः पुंवद्भावः न भवति | लीलासीते इति |


शुद्धभाषा इति पदे सामानाधिकरण्यम्‌ अस्ति, अतः पुंवद्भावः |


अधुना वस्तुतः कर्मधारयसमासः नवविधः | अत्र प्रश्नः उदेति, कुत्र कुत्र पंवद्भावो भवति? यथा आम्रः इति वृक्षः 'आम्रवृक्षः' इति स्थले तादृशवृक्षविशेषः स्त्रीलिङ्गशब्दः अस्ति चेत्‌, पंवद्भावो भवति किम्‌?


उत्तरत्वेन सामानाधिकरण्यम्‌ इति तु अपेक्षितमेव; इदमपि संयोजनीयम्‌ अस्ति यत्‌ भाषितपुंस्कानामेव पंवद्भावो भवति | भाषितपुंस्कः नाम तादृशशब्दः यः पूर्वं पूलिङ्गे आश्रितः | तदा स्त्रीत्वविवक्षायां सत्यां स्त्रीप्रत्ययं योजयित्वा स्त्रीलिङ्गपदं कुर्मः | एतादृशशब्दाः एव भाषितपुंस्काः | भाषितः पुमान्‌ येन सह, भाषितपुंस्कः |


यथा विद्या एव धनं, विद्याधनम्‌ | विद्या-शब्दः भाषितपुंस्कः नास्ति | किमर्थमिति चेत्‌, यद्यपि विद्या इति शब्दे टाप्‌ इति स्त्रीप्रत्ययः अस्ति (प्रमुखेषु स्त्रीप्रत्ययेषु टाप्‌-प्रत्ययः अन्यतमः), तथापि "पूर्वं विद्यः इति शब्दः आसीत्‌, ततः परं टाप्‌-प्रत्ययः योजितः", इति नास्ति | विद्या-शब्दस्य पुंलिङ्गरूपमेव न भवति; सदा टाप्‌-प्रत्ययान्तमेव भवति |


पुंलिङ्गे यस्य प्रयोगो भवति, तस्मात्‌ शब्दात्‌ स्त्रीप्रत्ययस्य योजनेन तस्य स्त्रीलिङ्गत्वं यदि सम्पादितं, तर्हि सः शब्दः भाषितपुंस्कः | 'माला’, 'नासिका’, एतादृशबहवः शब्दाः सन्ति ये नित्यस्त्रीलिङ्गशब्दाः; तेषां स्त्रीप्रत्ययः भवत्येव |


सुन्दरी इति शब्दः भाषितपुंस्कः यतोहि सन्दरः इत्येवं पुंलिङ्गे व्यवहारः अस्ति; स्त्रीलिङ्गविवक्षायां ङीप्‌-प्रत्ययः योज्यते, अनेन च सुदरी इति रूपं भवति | इदं विशेष्यनिघ्नपदमिति उच्यते |


त्रिषु लिङ्गेषु सम्भावना अस्ति यस्य, तादृशविशेषणं पूर्वपदमस्ति चेदेव पुंवद्भावो भवति | अतः विशेषणपूर्वपद-कर्मधारयसमासः अस्ति चेत्‌ भवति | सुन्दरी नदी → सुन्दरनदी |


बहुव्रीहिसमासे अपि भवति | तत्र समानाधिकरणबहुवीहिसामासः इति कश्चन प्रमुकप्रकारकः बहुव्रीहिः | यथा विशाला नासिका यस्य सः, विशालनासिकः | अपि च विशाला नासिका यस्याः सा, विशालनासिका | विशाला इति शब्दः भाषितपुंस्कः | तर्हि तादृशबहुव्रीहिसमासः यः अपरस्मिन्‌ सन्दर्भे, अपरस्मिन्‌ अर्थे विशेषणपूर्वपद-कर्मधारयसमासः भवितुम्‌ अर्हति स्म, तस्मिन्नपि पुंवद्भावो भवति | उभयत्र सामानाधिकरण्यम्‌ अस्ति |


कर्मधारयसमासे विशेषणोत्तरपदः इत्यपि अस्ति; तत्र पुंवद्भावः न सम्भवति यतोहि पूर्वपदं विशेष्यं, नियतलिङ्गम्‌ | विशेषणोभयपदे कर्मधारये पूर्वपदं भाषितपुंस्कम्‌ अस्ति चेत्‌, पुंवद्भावो भवति | यथा शीतम्‌ उष्णं, शीतोष्णम्‌ | रोटिका पूर्णतया शीता अपि नास्ति, पूर्णतया उष्णा अपि नास्ति इति कृत्वा द्वयोः गुणयोः तस्यां समावेशः | शीता च सा उष्णा च, शीतोष्णा रोटिका |


आहत्य विशेषणपूर्वपद-कर्मधारयसमासः, विशेषणोभयपद-कर्मधारयसमासः, समानाधिकरणबहुवीहिसामासे च, एतेषु त्रिषु स्थलेषु पुंवद्भावो भवति |


अपरेषु स्थलेषु कर्मधारयसमासः भवति— मेघः इव श्यामः मेघश्यामः इति उपमानपूर्वपद-कर्मधारयसमसः, नरः व्याघ्रः इव नरव्याघ्रः इति उपमानोत्तरपद-कर्मधारयसमसः, किन्तु एषु प्रकारेषु पूर्वपदं विशेषणं नास्ति इति कारणतः पुंवद्भावः न सम्भवति |


अतः यत्र सामानाधिकरण्यम्‌ अस्ति (अनेन एकार्थबोधकत्वम्‌ अस्ति, समान-विभक्तिकत्वञ्च अस्ति),अपि च (१) पूर्वपदं विशेषणं अस्ति,(२) स च पूर्वपदं भाषितपुंस्कम्‌ अस्ति, तत्र पुंवद्भावः |


१२. समासे पूर्वपदं विशेष्यम्, अन्तिमपदं सकर्मकक्तान्तं वर्जयित्वा विशेषणं चेत्‌, प्रायः उपमानपूर्वपद-कर्मधारयसमासः | यथा मेघश्यामः → मेघः इव श्यामः | एषु समासेषु तुलना, उपमा क्रियते अतः विग्रहवाक्ये इव इति शब्दः श्रूयते |


वृक्षतुङ्गः → वृक्षः इव तुङ्गः (तुङ्ग इत्युक्ते उन्नत)

काककृष्णः → काकः इव कृष्णः


१३. विशेषरूपाणि

a) पूर्वपदं नकारान्तपदं चेत्‌, प्रातिपदिकस्य विकृतिर्भवति | नकारस्य लोपो भवति |

प्रातिपदिकम्‌ समासः विग्रहवाक्यम्‌
राजन्‌ → राजपुरुषः राज्ञः पुरुषः
आत्मन्‌ → आत्महत्या आत्मनो हत्या
हस्तिन्‌ → हस्तिनासा हस्तिनो  नासा
राजन्‌ → राजर्षिः राजा ऋषिः


b) राजन्‌-शब्दः यदा उत्तरपदं भवति, तदा सामान्य-अकारान्तपदं भवति |


दशरथो राजा → दशरथराजः

राज्ञां राजा → राजराजः (King of kings)


c) कर्मधारये महत्‌-शब्दः पूर्वपदं चेत्‌, सदा "महा" इति रूपं भवति तस्य |


महान्‌ राजा → महाराजः

महन्तो मुनयः → महामुनयः

महती देवी → महादेवी

महद्यानम्‌ → महायानम्‌


d) समासेषु सर्वनाम सर्वदा पूर्वपदं भवति |


१. सर्वनाम उत्तमपुरुषस्य मध्यमपुरुषस्य वा चेत्‌, सदा तस्य पञ्चम्यन्तं भवति |


अहम्‌ → मत्‌; वयम्‌ → अस्मद्‌; त्वम्‌ → त्वत्‌; यूयम्‌ → युष्मद्‌


मम मनः → मन्मनः

अस्माकं वियोगः → अस्मद्वियोगः

युष्माकं मित्रम्‌ → युष्मन्मित्रम्‌

तव कृते → त्वत्कृते

त्वयि स्नेहः → त्वत्स्नेहः


२. सर्वनाम प्रथमपुरुषः चेत्‌, सदा "तत्‌" इत्येव भवति—विभक्तिः, वचनं, लिङ्गं यत्‌ किमपि भवतु |


सः, तौ, ते, सा, ते, ताः, तत्‌, ते, तानि → तत्‌


तस्य पुरुषः → तत्पुरुषः (his man [servant])

तस्याः पतिः → तत्पतिः

तस्मिन्रतः → तद्रतः (devoted to that)


e) उपपदसमासः


वस्तुतः अयं समासः नञ्‌प्रभृतयः इत्यस्यां श्रेण्यां भवति; इयं श्रेणी तत्पुरुषसमासस्य कश्चन उपभागः | तत्पुरुषसमासः अस्ति इति अभिज्ञातुं शक्नुमः यतोहि तस्य उत्तरपदप्राधान्यम्‌ | अतः बोधार्थं तत्पुरुषस्य नाम्ना चर्चा अधः कृता |


केचन द्वितीयतत्पुरुषाः सन्ति येषाम्‌ उत्तरपदं धातोः विकृतरूपं भवति | एषु पूर्वपदं धातोः कर्मपदं भवति | एषां विकृतधातूनां स्वतन्त्रतया न कोऽपि प्रयोगः, अतः विग्रहवाक्ये सामान्यतया तेषां लट्‌-लकाररूपस्य प्रयोगो भवति |


धातूनां विकृतरूपनिर्माणार्थं केचन नियमाः सन्ति | आकारान्तधातुः चेत्‌, अकारान्तः भवति; यथा पा → प | इकारान्तः, उकारान्तः, ऋकारान्तश्चेत्‌, अन्ते तकारः संयुज्यते; यथा कृ → कृत्‌ |

द्वितीयतत्पुरुषे

धातुः विग्रहः समासः अर्थः
विद्‌ वेदान्‌ वेत्ति वेदवित्‌ Knower of the Vedas
ज्ञा शास्त्राणि जानाति शास्त्रज्ञः Knower of the Shastras
हन्‌ वृत्रं हन्ति वृत्रहन्‌ Slayer of Vrutra
पा सोमं पिबति सोमपः Drinker of Soma
दा वरं ददाति वरदः Granting boons
जि विश्वं जयति विश्वजित्‌ All-conquering
कृ कर्म करोति कर्मकृत्‌ Doing work, laborious, laborer
कृ लोकानां क्षयं करोति लोकक्षयकृत्‌ Destroyer of the worlds


द्वितीयतत्पुरुषं विहाय


धातुः विग्रहः समासः अर्थः
गम्‌ खे गच्छति खगः Sky-goer [bird]
स्था गृहे तिष्ठति गृहस्थः Householder
जन्‌ ब्रह्मणो जायते ब्रह्मजः Born from Brahma
पा पादेन पिबति पादपः Foot-drinker [tree]


f) केषुचित्‌ तत्पुरुषेषु पूर्वपदस्य विभक्ति-सहितं रूपं तिष्ठति एव |


धनञ्जयः         Winning booty

परस्मैपदम्‌      Word for another

वाचस्पति       Lord of speech

युधिष्ठिरः       Firm in battle



Swarup – May 2014


ardhaphalam.jpeg (431k) Swarup Bhai, Oct 24, 2014, 4:43 PM v.1

tatpuruShasamAsaH.pdf (54k) Swarup Bhai, Sep 7, 2019, 1:28 PM v.1