03B- तत्पुरुषसमासः - नञ्प्रभृतयः

From Samskrita Vyakaranam
14---samAsaH/03B--tatpuruShasamAsaH---naNYprabhRitibhyaH
Jump to navigation Jump to search


2) नञ्प्रभृत्य

तत्पुरुषसमासेषु अन्यतमाः नञ्प्रभृतयः इतिः। नञ्प्रभृत्यः इत्यत्र पञ्चप्रभेदाः सन्ति – १) नञ्तत्पुरुषसमासः २) कुसमासः ३) गतिसमासः ४) प्रादिसमासः ५) उपपदसमासः चेति।



नञ् समर्थेन सुबन्तेन सह समस्यते, तत्पुरुषश्च समासो भवति |


१) नञ्तत्पुरुषसमासः

नञ् इति किञ्चन अव्ययम् अस्ति।तत् सुबन्तेन समासं प्राप्नोति नञ् (२.२.६) इति सूत्रेण। नञ् इत्यत्र ञकारस्य इत्संज्ञा भवति, न इति अवशिष्यते। न लोपो नञ् (६.३.७३) इति सूत्रेण नञः नकारस्य लोपो भवति उत्तरपदे परे। लुप्तनकारात् परं यदि उत्तरपदम् अजादिः अस्ति तर्हि उत्तरपदस्य नुट् आगमः भवति तस्मान्नुडचि (६.३.७४) इति सूत्रेणः । लुप्तनकारात् परं यदि उत्तरपदम् हलादिः अस्ति तर्हि उत्तरपदस्य नुट् आगमः न भवति।



नञ् इति अव्ययं समर्थेन सुबन्तेन सह समस्यते, तत्पुरुषश्च समासो भवति | अत्र नञ् इति अव्ययम् अस्ति | नञ् इत्यस्मिन् ञकारस्य इत् संज्ञा भवति हलन्त्यम् (१.३.३) इत्यनेन, न इति अवशिष्यते | नञ् प्रथमान्तम् एकपदमिदं सूत्रम् | सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | सह सुपा (२.१.४) इत्यस्य अधिकारः | विभाषा (२.१.११) इत्यस्य अधिकारः | तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— नञ् सुप् सुपा सह विभाषा तत्पुरुषः समासः |


अस्मिन् सूत्रे नञ् इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं नञ् इति शब्दस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण |


एकः नञ् तु अव्ययम् अस्ति, तस्य विषये उपरितनसूत्रेण उक्तम् |अपरः नञ् अपि अस्ति | सः नञ् तु प्रत्ययः अस्ति | नञ् इति प्रत्ययः विधीयते अनेन सूत्रेण स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात्‌ (४.१.८७) | स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात्‌ (४.१.८७) इति सूत्रेण पञ्चमाध्यायस्य प्रथमपादस्य समाप्तिं पर्यन्तम् उक्तेषु सर्वेषु अर्थेषु स्त्री-शब्दात् 'नञ्' तथा 'पुंस्' शब्दात् 'स्नञ्' तद्धितप्रत्ययः विधीयते |


निषेधार्थके नञ् इति पदम् अस्ति अपि च न इति पदम् अपि अस्ति, एतौ द्वौ शब्दौ उपलब्धौ स्तः समासार्थम् | द्वयम् अपि अव्ययमेव किन्तु समासः तु नञ् इति शब्देन सह एव भवति न तु “न” इति शब्देन सह |अत एव नैकधा इति प्रयोगः अपि दृश्यते, अत्र तु समासः नास्ति | नाम न +एकधा = नैकधा इति | यदि नञ् इति अव्ययस्य समर्थेन सुबन्तेन सह समासः भवति तर्हि अनेकधा इति रूपं निष्पन्नम् | नञ् + एकधा = अनेकधा |


नञ् इति शब्दस्य षडर्थाः सन्ति | यथा –

तत्सादृशयमभावश्च तदन्यत्वं तदल्पता |

अप्राशस्त्यं विरोधश्च नञर्थाः षट् प्रकीर्तिताः |

अर्थात् येन शब्देन सह नञ् इति शब्दस्य सम्बन्धः भवति सः नञ् शब्दः एतेषु अर्थेषु अन्यतमं अर्थं स्वीकरोति - सादृश्यार्थे, अभावार्थे, अन्यत्वार्थे, अल्पतार्थे, अप्राशस्त्यार्थे, विरोधार्थे वा | प्रकरणानुसारं तत्तत् अर्थं स्वीकुर्मः |

१)      सादृश्यार्थे = अब्राह्मणः इति उदाहरणे ब्राह्मणः सदृशः इत्यर्थः |

२)     अभावार्थे = अपापम् इत्यत्र पापस्य अभावः इत्यर्थः |

३)     अन्यत्वार्थे = अनश्वः इत्यत्र अश्वः भिन्नः इत्यर्थः |

४)     अल्पतार्थे = अनुदरा कन्या इत्यत्र अल्पा उदरा कन्या इत्यर्थः |

५)     अप्राशस्त्यार्थे = अपशवः इत्यत्र पशूनां न्यूनतायाः (अप्राशस्त्यस्य) बोधः अस्ति |

६)     विरोधार्थे = अधर्मः इत्यत्र विरोधस्य बोधः भवति |


यथा—

न ब्राह्मणः = अब्राह्मणः – अत्र न लोपो नञ् (६.३.७३) इत्यनेन नकारस्य लोपो जायते |

न पापम् = अपापम् – अत्र न लोपो नञ् (६.३.७३) इत्यनेन नकारस्य लोपो जायते |

न अश्वः = अनश्वः – – अत्र न लोपो नञ् (६.३.७३) इत्यनेन नकारस्य लोपो जायते |तदनन्तरं तस्मान्नुडचि (६.३.७४) इति सूत्रेण नुडागमः भवति अच् वर्णस्य | नुट् टित् अतः आद्यन्तौ टकितौ (१.१.४६) इत्यनेन अश्व इत्यस्य आद्यवयवः भवति |



न लोपो नञ् (६.३.७३) = नञो नकारस्य लोपो भवति उत्तरपदे |न लोपः प्रथमान्तं, नञः षष्ठ्यन्तं, द्विपदमिदं सूत्रम् |अस्मिन् सूत्रे अलुगुत्तरपदे (६.३.१) इत्यस्मात् सूत्रात् उत्तरपदे इत्यस्य अनुवृत्तिः भवति | अनुवृत्ति-सहित-सूत्रम्‌— नञः न लोपः उत्तरपदे |


तस्मान्नुडचि (६.३.७४) = तस्मात् लुप्तनकारात् परे अजादेः उत्तरपदयस्य नुट् आगमः भवति | तस्मात् पञ्चम्यन्तं, नुट् प्रथमान्तम्, अचि सप्तम्यन्तं त्रिपदमिदं सूत्रम् | आद्यन्तौ टकितौ (१.१.४६) इत्यनेन नुडागमः अच् वर्णस्य आद्यवयवः भवति | अस्मिन् सूत्रे अलुगुत्तरपदे (६.३.१) इत्यस्मात् सूत्रात् उत्तरपदे अपि च न लोपो नञ् (६.३.७३) इत्यस्मात् सूत्रात् नञ् इत्यस्य अनुवृत्तिः भवति | अनुवृत्ति-सहित-सूत्रम्‌— तस्मात् नञः नुट् अचि |



अत्र प्रश्नः उदेति यत्‌ अयं नुट्‌ कस्य आगमः? तस्मान्नुडचि (६.३.७४) इत्यनेन तस्मात् नञः अचि नुट् इति उक्तम्। अस्मिन्‌ सूत्रे तस्मादित्युत्तरस्य (१.१.६७) इत्यस्य बलेन अयं नुडागमः अग्रे स्थितस्य अच् -वर्णस्य आगमः स्यात्‌; तस्मिन्निति निर्दिष्टे पूर्वस्य (१.१.६६) इत्यस्य बलेन नुडागमः पूर्वं स्थितस्य नञः आगमः | अस्यां दशायाम्‌ उभयनिर्देशे पञ्चमीनिर्देशः बलीयान् इति परिभाषया, द्वयोः निर्देशयोर्मध्ये पञ्चमीनिर्देशः बलीयान् | इत्युक्तौ अच् वर्णस्य एव आगमः न तु नञः | फलितार्थः एवं यत्‌ सप्तम्यन्तं पदं स्थानिनं निदर्शयति | अनेन तस्मान्नुडचि (६.३.७४) इत्यस्य अनुवृत्ति-सहितसूत्रे 'अचि' सप्तम्यन्तम्‌, अतः तस्य एव नुडागमः भवेत्‌ |


आद्यन्तौ टकितौ (..४६) = यस्य आगमः टित्‌, तस्य आदौ आयाति; यस्य आगमः कित्‌, तस्य अन्ते आयाति | आदिश्च अन्तश आद्यन्तौ, टश्च कश्च टकौ, इतरेतरद्वन्द्वः, टकौ इतौ ययोः तौ टकितौ, बहुव्रीहिः | आद्यन्तौ प्रथमान्तं, टकितौ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्— आद्यन्तौ टकितौ |




) कुसमासः, ) गतिसमासः, ) प्रादिसमासः – त्रीन् प्रभेदान् मिलित्वा पठामः यतोहि अत्र विधायकं सूत्रम् एकमेव वर्तते। एते समासाः नित्यं भवति न तु विकल्पेन।

कुगतिप्रादयः (..१८) = कुगतिप्रादयः समर्थेन सुबन्तेन सह नित्यं समस्यन्ते, तत्पुरुषश्च समासो भवति। कुश्च गतिश्च प्राद्यश्च तेषामितरेतरद्वन्द्वः कुगतिप्रादयः। कुगतिप्रादयः प्रथमान्तमेकपदं सूत्रम्। नित्यं क्रीडाजीविकयोः (..१७) इत्यस्मात् सूत्रात् नित्यम् इत्यस्य अनुवृत्तिः भवति। सुबामन्त्रिते पराङ्गवत्‌ स्वरे (..) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति। प्राक्कडारात्समासः (..) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः। सह सुपा (..) इत्यस्य अधिकारः। तत्पुरुषः (..१२) इत्यस्य अधिकारः ।अनुवृत्ति-सहित-सूत्रम्‌— कुगतिप्रादयः सुपः सुपा सह नित्यं तत्परुषः समासः।

एतेन सूत्रेण यः समास: विधीयते तस्य नाम गतिसमासः, प्रादिसमासः इत्यादिकं नामकरणं भवति। अस्मिन् सूत्रे कार्यं विकल्पेन न भवति अपि तु नित्यं भवति। क्रियायोगे प्रादयः उपसर्गसंज्ञकाः भवन्ति उपसर्गाः क्रियायोगे (..५९) इति सूत्रेण। गतिश्च (..६०) इति सूत्रेण प्रादयः क्रियायोगे गतिसंज्ञकाः अपि भवन्ति।

अस्मिन् सूत्रे कुगतिप्रादयः इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (..४३) इति सूत्रेण उपसर्जन-संज्ञा भवति। उपसर्जन-संज्ञानन्तरं कुगतिप्रादयः इति शब्दस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (..३०) इति सूत्रेण।

यथा-

कुत्सितः पुरुषः = कुपुरुषः (कु इत्यस्य अर्थः भवति कुत्सितः नाम निन्दितः पुरुषः)

कुत्सिता माता = कुमाता

कुत्सिता दृष्टिः = कुदृष्टिः



पादिसमासस्य उदाहरणानि

शोभनः पुरुषः = सुपुरुषः


प्रदयो गताद्यर्थे प्रथमया इति वार्तिकेन।

प्रगत आचार्यः = प्राचार्यः। श्रेष्ठः आचार्यः इत्यर्थः

प्रगतः पितामहः = प्रपितामहः

विरुद्धः पक्षः = विपक्षः

प्रकृष्टः वीरः = प्रवीरः

अत्यादयः क्रान्ताद्यर्थे द्वितीयया इति वार्तिकेन। क्रान्त, अति इत्यादीनां निपातानां द्वितीयान्तेन समर्थेन सुबन्तेन तत्पुरुषसमासः भवति।

अतिक्रान्तः खट्वाम् = अतिखट्वः।

अतिक्रान्तः मालाम्= अतिमालः। अतिक्रान्तः मालाम्, अतिक्रान्तेन मालाम्, अतिक्रान्ताय मालाम्, अतिक्रान्तात् मालाम्, अतिक्रान्तस्य मालाम् इत्यादि विग्रहवाक्ये मालाम् इति पदे द्वितीया विभक्तिः यथावत् तिष्ठति किन्तु अतिक्रान्त इति शब्दयस्य विभिक्तिः परिवर्तते।

अवादयः क्रुष्टाद्यर्थे तृतीयया इति वार्तिकेन- क्रुष्ट (कूजित, आहूत) इत्यादिषु अर्थेषु अव इत्यादीनां निपातानां तृतीयान्त -सुबन्तेन सह नित्यं तत्पुरुषसमासः भवति

अवक्रुष्टः कोकिलया = अवकोकिलः। तादृशः प्रदेशः यत्र कोकिलाभि कूजितम्।

पर्यादयो ग्लानाद्यर्थे चतुर्थ्या इति वार्तिकेन-

परिग्लानो अध्ययनाय = पर्यध्ययनः। अध्ययनेन श्रान्तः

निरादयः क्रान्ताद्यर्थे पञ्चम्या इति वार्तिकेन-

निष्क्रान्तः कौशाम्ब्याः = निष्कौशाम्बिः। कौशाम्बी नगरात् बहिष्कृतः

निष्क्रान्तः वारणासि= निर्वाराणसिः।



कर्मप्रवचनीयानां प्रतिषेधः इति वार्तिकेन- प्रति, परि, अनु इत्यादीनां शब्दानां कर्मप्रवचनीयसंज्ञा भवति कारकप्रकरणे। एतेषां पदानां योगे उक्तस्य प्रादिसमासस्य निषेधः भवति अनेन वार्तिकेन।

वृक्षं प्रति – अत्र प्रति शब्दः कर्मप्रवचनीयसंज्ञकः अस्ति, तस्य योगे वृक्ष इति शब्दः कर्मप्रवचनीयुयुक्ते द्वितीया (..) इति सूत्रेण द्वितीया विभक्तिं प्राप्नोति। अत्र सूत्रेण प्राप्तस्य समासस्य निषेधः भवति कर्मप्रवचनीयानां प्रतिषेधः इति वार्तिकेन।


इवेन सह समासो विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं च वक्तव्यम्।

वाससी इव = वस्त्रे इव।



प्रादयः (..५८) = प्रादिगणे निर्दिष्टाः शब्दाः अद्रव्यवाचिने अर्थे निपातसंज्ञकाः भवन्ति । प्र, परा, अप, सम्, अनु, अव, निस्, निर्, दुस्, दुर्, वि, आङ्, नि, अधि, अपि, अति, सु, उत्, अभि, प्रति, परि, उप- एते द्वाविंशतिः शब्दाः प्रादिगणे समाविष्टाः सन्ति। एतेषाम् "अद्रव्यवाचिषु" अर्थेषु निपातसंज्ञा भवति । "लिङ्गसङ्ख्यान्वितम् द्रव्यम्" इत्युच्यते । नाम यस्य शब्दस्य लिङ्निर्देशः सङ्ख्यानिर्देशः वा भवितुम् अर्हति, सः शब्दः "द्रव्यवाची" इति उच्यते । यदि एतादृशः निर्देशः न भवितुम् अर्हति, तर्हि सः शब्दः अद्रव्यवाची इति उच्यते ।



गतिश्च ( ..६०) = प्रादिगणे पठिताः शब्दाः क्रियायोगे गतिसंज्ञकाः भवन्ति । प्र, परा, अप, सम्, अनु, अव, निस्, निर्, दुस्, दुर्, वि, आङ्, नि, अधि, अपि, अति, सु, उत्, अभि, प्रति, परि, उप - एते द्वाविंशतिः शब्दाः प्रादिगणे समाविष्टाः सन्ति । एतेषाम् "अद्रव्यवाचिषु" अर्थेषु निपातसंज्ञा भवति । एते निपातसंज्ञकाः शब्दाः यदि धातुना सह प्रयुञ्जते, तर्हि उपसर्गाः क्रियायोगे ( ..५९) इत्यनेन तेषाम् उपसर्ग-संज्ञा भवति । वर्तमानसूत्रेण एतेषाम् शब्दानां "गति" संज्ञा अपि भवति ।

वस्तुतस्तुः अष्टाध्यायां १..६० इति सूत्रात् आरभ्य १..७९ इति सूत्रपर्यन्तं गतिसंज्ञकसम्बद्धसूत्राणि सन्ति।



उपसर्गाः क्रियायोगे (..५९) = प्रादिगणे निर्दिष्टाः शब्दाः यदा निपातसंज्ञकाः सन्ति, तदा क्रियायाः योगे उपसर्गसंज्ञकाः अपि भवन्ति । प्र, परा, अप, सम्, अनु, अव, निस्, निर्, दुस्, दुर्, वि, आङ्, नि, अधि, अपि, अति, सु, उत्, अभि, प्रति, परि, उप - एते द्वाविंशतिः शब्दाः प्रादिगणे समाविष्टाः सन्ति ।




ऊर्यादिच्विडाचश्च ( ..६१)= ऊर्यादयः, च्विप्रत्ययान्त-शब्दाः, डाच्प्रत्ययान्त-शब्दाः च क्रियायोगे गतिसंज्ञकाः भवन्ति। ऊर्यादिगणे एते शब्दाः सन्ति- ऊरी, उररी, तन्थी, ताली, आताली, बेताली, धूली, धूसी, शकला, शंसकला, भ्रंसकला, गुलगुधा, सजूस्, फल, फली, विक्ली, आक्ली, आलोष्ठी, केवली, पर्याली, शेवाली, वर्षाली, अत्यूमसा, वश्मसा, मस्मसा, मसमसा, औषट्, वौषट्, वषट्, स्वाहा, स्वधा, पांपी, प्रादुस्, श्रत्, आविस्।

उरी कृत्वा =उरीकृत्य,

अशुक्लं शुक्लं कृत्वा = शुक्लीकृत्य,

पटपटा इति शब्दं कृत्वा= पटपटाकृत्य

कारिकाशब्दस्योपसंख्यानम् इति वार्तिकेन कारिका इति क्रियावाचिशब्दस्य गतिसंज्ञा भवति।

कारिकां कृत्वा = कारिकाकृत्य ।



) उपपदसमासः

उपपदं नाम किम् इति अग्रिमेण सूत्रेण निर्दिश्यते। उपपदसमासः नित्यः भवति न तु विकल्पः। धातुतः केचन प्रत्ययाः विधीयन्त्ते यदा पूर्वपदे उपपदम् अस्ति चेत्।

तत्रोपपदं सप्तमीस्थम् (..९२) = "धातोः (..९१)" इत्यस्मिन् अधिकारे विद्यमानेषु सूत्रेषु सप्तमीविभक्त्या यः शब्दः निर्दिश्यते, तेन वाचितं पदम् "उपपद"संज्ञकं स्यात् । ।तत्र सप्तम्यन्तम्, उपपदं प्रथमान्तं, सप्तमीस्थं प्रथमान्तं, त्रिपदमिदं सूत्रम्। धातोः (..९१) इति सूत्रस्य अधिकारः अस्ति। उपपदसंज्ञायाः प्रयोगः कृदन्तप्रकरणे, समासप्रकरणे, तद्धितप्रकरणे च भवति।

कौमुदिकारः वदति सप्तम्यन्ते पदे कर्मणि इत्यादौ वाच्यत्वेन स्थितं कुम्भादि तद्वाचकं पदमुपपदसंज्ञं स्यात्। तस्मिंश्च सत्येव वक्ष्यमाणः प्रत्ययः स्यात।

सप्तम्यन्ते पदे कर्मणि इत्यादौ वाच्यत्वेन स्थितं कुम्भादि तद्वाचकं पदमुपपदसंज्ञं स्यात्। अर्थात् कर्मण्यण् (..) इत्यादिषु सूत्रेषु कर्मणि इत्यादिषु सप्तम्यन्तपदानि उपस्थितानि भवन्ति। तेषु पदेषु कुम्भ इत्यादयः वाच्यरूपेण तिष्ठन्ति। तेभ्यः पदेभ्यः कुम्भं करोतीति कुम्भकारः इत्यादीनि उदाहरणानि भवन्ति। अनेन सूत्रेण कुम्भ इति शब्दस्य उपपदसंज्ञा भवति।

तस्मिंश्चित् सत्येव वक्ष्यमाणः प्रत्ययः स्यात्। अर्थात् कुम्भकारः इति समस्तपदे कर्मण्यण् (..) इति सूत्रेण अण् प्रत्ययः तदा एव विधीयते यदा निमित्तस्वरूपेण सप्तम्यन्तं पदं कर्मणि इति वाच्यरूपेण कुम्भ इति द्वितीयान्तं पदं उपस्थितं भवति। कुम्भ इति पदस्य उपपदसंज्ञा भवति।

उपपदविधायकं सूत्रम्—


उपपदं कृदन्तेन सह नित्यं समस्यते।



उपपद-मतिङ् (..१९) = उपपदसंज्ञकस्य सुबन्तस्य समर्थेन सुबन्तेन सह नित्यं समस्यते तत्पुरुषश्च समासो भवति।उपपदं प्रथमान्त, अतिङ् प्रथमान्तं, द्विपदमिदं सूत्रम् । अतिङ् इत्यनेन तिङन्तपदेन सह समासस्य निषेधः भवति। नित्यं क्रीडाजीविकयोः (..१७) इत्यस्मात् सूत्रात् नित्यम् इत्यस्य अनुवृत्तिः भवति। सुबामन्त्रिते पराङ्गवत्‌ स्वरे (..) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति। प्राक्कडारात्समासः (..) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः। सह सुपा (..) इत्यस्य अधिकारः। तत्पुरुषः (..१२) इत्यस्य अधिकारः ।अनुवृत्ति-सहित-सूत्रम्‌— उपपदं अतिङ् सुप् सुपा सह नित्यं तत्परुषः समासः।



कुम्भं करोति इति कुम्भकारः ।



कुम्भं करोति इति = कुम्भकारः। कुम्भकारः इति समस्तपदस्य शास्त्रीय-प्रक्रिया अधो लिखितः अस्ति।

अलौकिकविग्रहवाक्यं कुम्भ + अम् + कृ कुम्भ + अम् इत्यस्य उपपद-मतिङ् (..१९) इति सूत्रेण उपपदसंज्ञां कृत्वा कर्मण्यण् (..) इति सूत्रेण कृ इति धातुतः अण् इति प्रत्ययः विधीयते। अण् इति प्रत्ययः णित् अतः अचो ञ्णिति (..११५) इत्यनेन अजन्ताङ्गस्य अन्तिमवर्णस्य वृद्धिः भवति णिति ञिति प्रत्यये परे। अतः कारः इति रूपं निष्पन्नं भवति। कार इति शब्दः कृत्तद्धितसमासाश्च (..४६) इत्यनेन सूत्रेण कृदन्त-प्रातिपदिकम् अस्ति। कार इति शब्दः कृदन्तम् अस्ति इति कारणेन कर्तृकर्मणोः कृतिः ( ..६५) इति सूत्रेण कुम्भ इति शब्दस्य षष्ठीविभक्तिः भवति। अर्थात् अण् प्रत्ययस्य आनयनार्थं विग्रहवाक्ये या द्वितीया विभक्तिः आसीत् तस्याः निवृत्तिः भूत्वा तस्याः स्थाने ङस् इति षष्ठीविभक्तिप्रत्ययः आयाति। इदानीं समासस्य कृते द्वितीयं विग्रहवाक्यं करणीयम्। कुम्भ+ङस् +कार इति विग्रहवाक्यम्।

कुम्भ+ङस् +कार समाससंज्ञा भवति प्राककडारात्समासः (..) इति सूत्रेण। पुनः अत्र तत्पुरुषः (..२२) इति सूत्रेण तत्पुरुषसंज्ञा अपि भवति।

कुम्भ+ङस् +कार समासस्य प्रातिपदिकसंज्ञा भवति कृत्तद्धितसमासाश्च (..४६) इत्यनेन सूत्रेण।

कुम्भ+ङस् +कार →' इदानीं ' सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति सुपो धातुप्रातिपदिकयोः (..७१) इत्यनेन।

कुम्भ+ङस् +कार इत्यस्मिन्‌ ङस् लुक्‌ → कुम्भ+कार |

कुम्भ+कार अत्र प्रथमानिर्दिष्टं समास उपसर्जनम् (..४३) इति सूत्रेण प्रथमया विभक्त्या यत् निर्दिश्यते समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति। अत्र समासविधायकसूत्रम् अस्ति उपपद-मतिङ् (..१९)। अस्मिन् सूत्रे उपपदम् इति पदं प्रथमाविभक्तौ अस्ति अतः तस्य उपसर्जन-संज्ञा भवति। अधुना उपसर्जनं पूर्वम्‌ (..३०) इति सूत्रेण उपसर्जन-संज्ञकपदस्य पूर्वनिपातः भवति। अत्र कुम्भ इति पदस्य उपसर्जन-संज्ञा भूत्वा पूर्वनिपातः भवति।

कुम्भ+कार इदानीं लिङ्गस्य वचनस्य च निर्णयः भवति। परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (..) इत्यनेन उत्तरपदस्य लिङ्गं द्वन्द्वतत्पुरुषयोः विधीयते। उत्तरपदम् अस्ति कार इति, तस्य लिङ्गं पुल्लिङ्गं विवक्षितम्, अतः कुम्भकार इति समस्तपदस्य लिङ्गं भवति पुल्लिङ्गं→ कुम्भकार + सु → कुम्भकारः इति समस्तपदम् प्रथमाविभक्तौ एकवचने

एवमेव सूत्रं करोति इति सूत्रकारः इति समस्तपदं निष्पन्नं भवति।

अष्टाध्यायां तृतीयाध्याये द्वितीयपादे उपपदसम्बन्द्धसूत्राणि सन्ति। तेषाम् अध्ययनं विना उपपद-मतिङ् (..१९) इति सूत्रस्य कार्यं सम्पूर्णतया अवागन्तुं न शक्यते।


अमैवाव्ययेन (..२०) = अव्ययेन उपपदस्य यः समासः सः अमा एव भवति, न अन्येन। अव्ययसंज्ञकेन शब्देन सह उपपदसमासस्य विशेषव्यवस्था अस्ति। अस्मिन् सूत्रे एव इति शब्दः अवधारणार्थं अस्ति। एतत् सूत्रं नित्यसूत्रम् अस्ति। एतत् सूत्रं नियमयति यत् अव्ययेन सह यदि उपपदसमासः भवति तर्हि सः अमन्त-अव्ययेन सह एव भवति न तु अन्येन अव्ययेन सह। अनेन सूत्रेण अन्येषाम् अव्ययानां निवृत्तिः भवति। कस्मिंश्चित् प्रत्यये अनुबन्धलोपानन्तरं केवलम् अम् अवशिष्यते चेत् तादृशस्य प्रत्ययस्य ग्रहणं भवति अमा इति शब्देन। प्रत्ययग्रहणे तदन्तग्रहणम् इति परिभाषायाः बलेन अम् शब्दयस्य द्वारा अमन्त-शब्दस्य ग्रहणं भवति ।अनेन अमन्तेन इति तृतीयान्तं पदं भवति। अमा तृतीयान्तम्, एव अव्ययम्, अव्ययेन तृतीयान्तम्। नित्यं क्रीडाजीविकयोः (..१७) इत्यस्मात् सूत्रात् नित्यम् इत्यस्य अनुवृत्तिः भवति। सुबामन्त्रिते पराङ्गवत्‌ स्वरे (..) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति। प्राक्कडारात्समासः (..) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः। उपपद-मतिङ् (..१९) इत्यस्मात् सूत्रात् उपपदम् इत्यस्य अनुवृत्तिः भवति। सह सुपा (..) इत्यस्य अधिकारः। तत्पुरुषः (..१२) इत्यस्य अधिकारः ।अनुवृत्ति-सहित-सूत्रम्‌— उपपदं सुप् अमा अव्ययेन सुपा सह नित्यं तत्परुषः समासः।

यथा-

स्वादुं कृत्वा भुङ्क्ते = स्वादुङ्कारम् स्वादु+अम्+ कृ+ण्मुल् इति अलौकिक-विग्रहवाक्यम्। स्वादुमि णमुल् (..२६) इति सूत्रेण कृ इति धातुतः ण्मुल् प्रत्ययः विधीयते। ण्मुल् प्रत्यये अनुबन्धलोपानन्तरम् अम् इति अवशिष्यते। अत्र अमैवाव्ययेन (..२०) इति सूत्रेण स्वादुङ्कारम् इति समासः भवति।


तृतीयाप्रभृतीन्यन्यतरस्याम् (..२१) = उपदंशस्तृतीयायाम् ( ..४७) इत्यस्मात् सूत्रात् आरभ्य अन्वच्यानुलोम्ये ( ..६४) इति सूत्रपर्यन्तं सर्वत्र यत् उपपदम् अस्ति, तस्य अमन्त-अव्ययेन सह विकल्पेन समासः भवति। प्रत्ययग्रहणे तदन्तग्रहणम् इति परिभाषायाः बलेन अम् शब्दयस्य द्वारा अमन्त-शब्दस्य ग्रहणं भवति ।अनेन अमन्तेन इति तृतीयान्तं पदं भवति। तृतीया प्रभृतिर्येषां तानि तृतीयाप्रभृतीनि, बहिव्रीहिः। तृतीयाप्रभृतीनि प्रथमान्तम्, अन्यतरस्याम् विभक्तिप्रतिरूपकमव्ययम्। सुबामन्त्रिते पराङ्गवत्‌ स्वरे (..) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति। प्राक्कडारात्समासः (..) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः। उपपद-मतिङ् (..१९) इत्यस्मात् सूत्रात् उपपदम् इत्यस्य अनुवृत्तिः भवति। अमैवाव्ययेन (..२०) इत्यस्य सम्पूर्णरीत्या अनुवृत्तिः भवति। सह सुपा (..) इत्यस्य अधिकारः। तत्पुरुषः (..१२) इत्यस्य अधिकारः ।अनुवृत्ति-सहित-सूत्रम्‌— तृतीयाप्रभृतीनि सुपः अमा अव्ययेन सुपा सह तत्परुषः समासः अन्यतरस्याम्।

यथा—

मूलकेन उपदंशं भुङ्क्ते = मूलकोपदेशम् । यः कन्दमूलं देन्तेन छित्त्वा छित्त्वा खादति।

उच्चिः कृत्वा = उच्चैः कारम्।



सूत्रे तीयाप्रभृतीनि इति पदस्य ग्रहणेन यः सूचितः यत् उपदंशस्तृतीयायाम् (..४७) इत्यस्मात् सूत्रात् आरभ्य अन्वच्यानुलोम्ये (..६४) इति सूत्रपर्यन्तं निर्दिष्टस्य तृतीयान्त-उपपदस्य क्त्वा-प्रत्ययान्त-अव्ययेन सह समासः न भवति। अतः अलं कृत्वा, खलु कृत्वा इत्यादिः समासः न भवति।

समासप्रकरणस्य महाविभाषा इत्युक्ते विभाषा (..) इति सूत्रस्य अधिकारः अस्ति तथापि अस्मिन् सूत्रे किमर्थं अन्यतरस्यां इति पदस्य प्रयोगः कृतः? यतो हि नित्यं क्रीडाजीविकयोः (..१७) इत्यस्मात् सूत्रात् नित्यम् इत्यस्य अनुवृत्तिः भवति स्म तन्न स्यात् इति कृत्वा अस्मिन् सूत्रे अन्यतरस्याम् इति शब्दस्य प्रयोगः कृतः ।


क्त्वा च (..२२) = उपदंशस्तृतीयायाम् ( ..४७) इत्यस्मात् सूत्रात् आरभ्य अन्वच्यानुलोम्ये ( ..६४) इति सूत्रपर्यन्तं सर्वत्र यत् उपपदम् अस्ति, तस्य क्त्वा-अव्ययेन सह विकल्पेन समासः भवति। । प्रत्ययग्रहणे तदन्तग्रहणम् इति परिभाषायाः बलेन क्त्वा शब्दयस्य द्वारा क्त्वा-शब्दस्य ग्रहणं भवति ।अनेन क्त्वाप्रत्ययन्तेन इति तृतीयान्तं पदं भवति। क्त्वा अव्ययं चाव्ययम्। सुबामन्त्रिते पराङ्गवत्‌ स्वरे (..) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति। प्राक्कडारात्समासः (..) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः। उपपद-मतिङ् (..१९) इत्यस्मात् सूत्रात् उपपदम् इत्यस्य अनुवृत्तिः भवति। अमैवाव्ययेन (..२०) इत्यस्य सम्पूर्णरीत्या अनुवृत्तिः भवति। सह सुपा (..) इत्यस्य अधिकारः। तत्पुरुषः (..१२) इत्यस्य अधिकारः ।अनुवृत्ति-सहित-सूत्रम्‌— तृतीयाप्रभृतीनि सुपः क्त्वा-अव्ययेन सुपा सह तत्परुषः समासः अन्यतरस्याम्।

यथा –

अच्चैस्+कृत्वा - अव्ययेऽयथाभिप्रेताख्याने कृञः क्त्वाणमुलौ (..५९) इति सूत्रेण क्त्वा प्रत्ययः विधीयते। अत्र क्त्वा च (..२२) इति सूत्रेण विकल्पेन समासः भवति। समासस्य विधानन्तरं समासेऽनञ्पूर्वे क्त्वो ल्यप्‌ (..३७) इति सूत्रेण ल्यप् आदेशः भवति क्त्वा प्रत्ययस्य स्थाने। तत्पश्चात् ह्रस्वस्य पिति कृति तुक् (..७१) इति सूत्रेण तुगागमः भूत्वा उच्चैः कृत्य इति भवति। यस्मिन् पक्षे समासः न भवति तस्मिन् पक्षे उच्चैः कृत्वा इत्येव तिष्ठति।



इत्यनेन नञ्प्रभृतयः इति विषयः समाप्तः।

Vidhya  March 2020