08 - धातुपाठे हल्-सन्धिः १
यावन्तः प्रत्ययाः धातुभ्यः विहिताः सन्ति, ते सर्वे आरभ्यन्ते एभिः अच्-वर्णैः (नाम अ, आ, इ, ई, उ, ऊ, ए, ऐ इत्येभिः) अथवा एभिः हल्-वर्णैः— य्, र् / व्, म्, न् / त्, थ्, ध्, स् | यदा प्रत्ययः अज्भिः वर्णैः आरभ्यते अथवा य्, र् इत्येभिः हल्-वर्णैः आरभ्यते, तदा धातुः हलन्तः चेदपि हल्-सन्धिः न भवति (केवलं वर्ण-सम्मेलनं भवति) | धातुः हलन्तः अस्ति चेत् अथवा प्रक्रियायां हलन्तः भवति (यथा धा-धातुः, दधा + तः → दध् + तः → धत्तः), अपि च प्रत्ययः त्, थ्, ध्, स् इत्येभिः वर्णैः आरभ्यते, तस्यां दशायां हल्-सन्धिः प्रचुरः लभ्यते | व्, म्, न् इत्येभिः वर्णैः आरभ्यते चेत्, विशिष्टस्थलेषु लभ्यते* | सन्धिः नाम यत्र द्वयोः वर्णयोः मेलनेन वर्णविकारः भवति | हल्-सन्धिः नाम द्वयोः वर्णयोः एको वा द्वावपि वा हलौ, अपि च हलः विकारो भवति |
(*वक्ष्यमाणसूत्रैः लोपो व्योर्वलि (६.१.६६), च्छ्वोः शूडनुनासिके च (६.४.१९), राल्लोपः (६.४.२१) इति)
A. धातुः हलन्तः, प्रत्ययस्य प्रथमवर्णः अ, आ, इ, ई, उ, ऊ, ए, ऐ; य्, र् → वर्णमेलनमेव (सन्धिः न भवति) | व्, म्, न् चेत् आधिक्येन न भवति |
यथा—
रुन्ध् + अन्ति → रुन्धन्ति (प्रत्ययः अदादिः)
रुणध् + आवहै → रुणधावहै (प्रत्ययः आदादिः)
अरुन्ध् + इ → अरुन्धि (प्रत्ययः इदादिः)
रुन्ध् + ईत → रुन्धीत (प्रत्ययः ईदादिः)
अबिभय् + उः → अबिभयुः (प्रत्ययः उदादिः)
जागर् + ऊकः → जागरूकः (प्रत्ययः ऊदादिः)
रुन्ध् + ए → रुन्धे (प्रत्ययः एदादिः)
रुणध् + ऐ → रुणधै (प्रत्ययः ऐदादिः)
रुन्ध् + यात् → रुन्ध्यात् (प्रत्ययः यकारादिः)
दीप् + रः → दीप्रः (प्रत्ययः रेफादिः)
आधिक्येन सन्धिः न भवति—
रुन्ध् + वः → रुन्ध्वः (प्रत्ययः वकारादिः)
रुन्ध् + मः → रुन्ध्मः (प्रत्ययः मकारादिः)
यत् + नः → यत्नः (प्रत्ययः नकारादिः)
B. धातुः हलन्तः, प्रत्ययस्य प्रथमवर्णः त्, थ्, ध्, स् → हल्-सन्धिः
यथोक्तं हल्-सन्धौ हलः विकारो भवति |
कुत्रचित् पूर्ववर्णस्य विकारः — भिनद् + ति → भिनत् + ति → भिनत्ति
कुत्रचित् परवर्णस्य विकारः — चष् + ते → चष्टे
कुत्रचित् पूर्वपरयोर्विकारः — दोघ् + ति → दोग् + धि → दोग्धि
अग्रिमेषु चतुर्षु पाठेषु हलन्तेभ्यो धातुभ्यः कथं तकारादिप्रत्ययाः, थकारादिप्रत्ययाः, धकारादिप्रत्ययाः, सकारादिप्रत्ययाश्च संयुज्यन्ते इति ज्ञास्यामः |
C. हल्-सन्धि-विधयः चतुर्षु विभागेषु विभक्ताः
१. हलन्तेभ्यो धातुभ्यो लङ्-लकारस्य त्-प्रत्ययः स्-प्रत्ययश्चेत्यनयोः योजनविधिः
२. हलन्तेभ्यो धातुभ्यः सकारादिप्रत्ययानां योजनविधिः (लङ्-लकारस्य स्-प्रत्ययम् अतिरिच्य)
३. हलन्तेभ्यो धातुभ्यः तकारादिप्रत्ययानां थकारादिप्रत्ययानां च योजनविधिः (लङ्-लकारस्य त्-प्रत्ययम् अतिरिच्य)
४. हलन्तेभ्यो धातुभ्यो धकारादिप्रत्ययानां योजनविधिः
D. हलन्तेभ्यो धातुभ्यः लङ्-लकारस्य त्-प्रत्ययः स्-प्रत्ययश्चेत्यनयोः योजनविधिः
लङ्-लकारस्य त्-प्रत्ययः स्-प्रत्ययश्चेत्यनयोः अपृक्त-संज्ञा भवति | अतः तयोर् योजनविधिर्भिन्नः |
अपृक्त एकाल् प्रत्ययः (१.२.४१) = यस्य प्रत्यस्य एकैव अल्, तस्य अपृक्त-संज्ञा भवति | एकश्चासौ अल् एकाल्, कर्मधारयः | अपृक्तः प्रथमान्तम्, एकाल् प्रथमान्तं, प्रत्ययः प्रथमान्तं, त्रिपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— एकाल् प्रत्ययः अपृक्तः |
अत्र योजनविधौ सोपानत्रयं वर्तते—
१. त्-प्रत्ययः स्-प्रत्ययश्चेत्यनयोः लोपः
२. प्रथमसोपानेन पदं निर्मितम् अतः पदं निमित्तीकृत्य कार्याणि
३. जश्त्वसन्धिः चर्त्वसन्धिश्च
१. हलन्तेभ्यो धातुभ्यः ति, सि-सम्बन्धिनां प्रत्ययानां अपृक्त-प्रत्ययानां लोपो भवति
हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (६.१.६७) = हलन्तात्, दीर्घङ्यन्तात्, दीर्घाबन्तात् च सु-ति-सि इत्येषाम् अपृक्तसंज्ञकस्य हलः लोपः | अनेन प्रथमाविभक्तौ सु इत्यस्य स्-लोपः, लङि प्रथमपुरुषे त्-लोपः, मध्यमपुरुषे स्-लोपश्च | हल् च ङी च आप् च तेषाम् इतरेतरद्वन्द्वः हल्ङ्यापः, तेभ्यः हल्ङ्याब्भ्यः | सुश्च, तिश्च, सिश्च तेषां समाहारद्वन्द्वः, सुतिसि, सुतिसिनः अपृक्तं सुतिस्यपृक्तम् | हल्ङ्याब्भ्यः पञ्चम्यन्तं, दीर्घात् पञ्चम्यन्तं, सुतिस्यपृक्तं प्रथमान्तं, हल् प्रथमान्तम्, अनेकपदमिदं सूत्रम् | लोपो व्योर्वलि (६.१.६५) इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः; अत्र कर्मणि प्रयोगे लुप्यते इति रूपविकारः | अनुवृत्ति-सहितसूत्रम्— दीर्घात् हल्ङ्याब्भ्यो सुतिसि-अपृक्तं हल् लुप्यते |
समग्रदृष्ट्या अस्य सूत्रस्य प्रसक्तिः कुत्र ?
(१) हलन्तधातुतः लङ्-लकारस्य सि, ति च प्रत्यययोः परयोः | अत्र स्, त् इत्यनयोः लोपो भवति |
यथा—
अरुणध् + त् → अरुणध् अरुणध् + स् → अरुणध्
अभिनद् + त् → अभिनद् अभिनद् + स् → अभिनद्
अहन् + त् → अहन् अहन् + स् → अहन्
अधोघ् + त् → अधोघ् अधोघ् + स् → अधोघ्
असंस्त् + त् → असंस्त् असंस्त् + स् → असंस्त्
(२) हलन्तप्रातिपदिकात् सु-प्रत्ययः | तत्र सु-प्रत्ययस्य उकारः अनुनासिकः अतः उपदेशेऽजनुनासिक इत् (१.३.२) इत्यनेन लोपः | तदा स् इति अपृक्तसंज्ञक-प्रत्ययः अवशिष्यते | अनेन हलन्त-प्रातिपदिकानाम् एकवचने प्रथमाविभक्त्यन्त-पदानां विसर्गो नास्ति | उदाहरणार्थम्—
सुहृद् + स् → सुहृद्
मरुत् + स् → मरुत्
वणिज् + स् → वणिज् [→ वणिग्/वणिक्]
वाच् + स् → वाच् [→ वाक्/वाग्]
दिश् + स् → दिश् [→ दिक्/दिग्]
सरित् + स् → सरित्
(३) दीर्घङ्यन्तात् नाम स्त्रिलिङ्गे दीर्घ-ईकारान्तात् प्रातिपदिकात् | नदी + सु → नदी + स् → नदी |
(४) दीर्घाबन्तात् नाम स्त्रिलिङ्गे दीर्घ-आकारान्तात् प्रातिपदिकात् | लता + सु → लता + स् → लता |
लङ्-लकारस्य प्रसङ्गः
अधुना प्रश्नः उदेति, कुत्र कुत्र लङ्-लकारे त्, स् इत्यनयोः लोपः भवति ? हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (६.१.६७) इति सूत्रस्य प्रसक्तिः यत्र, तत्रैव | ज्ञातं खलु यत् अस्य सूत्रस्य प्रसक्तिः तदा भवति यदा धातुः हलन्तः | इदमपि वक्तव्यं यत् धातु-तिङ्-प्रत्यययोः मध्ये कोऽपि अजन्तप्रत्ययः नागच्छेत् | अजन्तप्रत्ययः आयाति चेत्, तिङ्-प्रत्ययात् प्राक् हल्-वर्णः नास्ति अतः सूत्रस्य प्रसक्तिः नास्ति (प्रत्ययात् प्राक् हल्-वर्णः स्यात्—हल्ङ्याब्भ्यो) | इह सर्वे विकरणप्रत्ययाः अजन्ताः अतः मध्ये विकरणप्रत्ययः न स्यात् |
तर्हि सार्वधातुकप्रकरणे धातु-तिङ्-प्रत्यययोः मध्ये कुत्र विकरणप्रत्ययः नास्ति ?
- अदादिगणे
- जुहोत्यादिगणे
- रुधादिगणे
- यङ्-लुकि
अदादिगणेः शपः लुक् (लोपः) भवति अतः धातुः हलन्तः चेत्, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (६.१.६७) इति सूत्रस्य प्रसक्तिः | जुहोत्यादिगणे शपः श्लु (लोपः) भवति अतः धातुः हलन्तः चेत्, तत्रापि सूत्रस्य प्रसक्तिः | रुधादिगणे विकरणप्रत्ययः धातोः मध्ये आयाति अतः धातुः हलन्तः चेत्, सूत्रस्य प्रसक्तिः अस्ति एव; रुधादिगणीयाः धातवः सर्वे हलन्ताः | यङ्लुकि विकरणप्रत्ययः न भवति, अतः धातुः हलन्तः चेत्, अत्रापि सूत्रस्य प्रसक्तिः |
अत्र उक्तं यत् लङ्-लकारे हल्-सन्धिः पदान्ते भवति यत्र धातुः हलन्तः, अपि च विकरणप्रत्ययः न भवति | लङ्-लकारस्य प्रथमपुरुषस्य मध्यमपुरुषस्य च एकवचने— तिपि सिपि इति प्रसङ्गः |
तर्हि एतादृशी स्थितिः कुत्र प्राप्यते इति प्रश्ने सति, अदादिगणे, जुहोत्यादिगणे, रुधादिगणे, यङ्लुगन्ते च इति उत्तरं लब्धम् | तत्र बहूनां जिज्ञासा व्युत्पन्ना, यङ्लुगन्तं नाम किम् ? अत्र तस्मिन् सम्बन्धे किञ्चित् उपस्थाप्यते, परिचयत्वेन |
पाणिनेः धातुपाठे द्विसहस्रं धातवः सन्ति | भू, दा, पठ्, लिख्, ज्ञा, क्री इत्यादयः द्विसहस्रे धातुषु अस्माकं बहवः परिचिताः | इमे पाणिनीय-धातुपाठे स्थिताः सर्वे धातवः औपदेशिकधातवः इत्युच्यन्ते |
तदा द्वादश प्रत्ययाः सन्ति ये एभ्यः धातुभ्यः विधीयन्ते; यदा इमे प्रत्ययाः विहिताः भवन्ति, तदा नूतनधातवः निष्पन्नाः भवन्ति | एषाम् अस्माभिः नूतनया निष्पादित-धातूनां नाम आतिदेशिकधातवः | यथा णिच्-प्रत्ययस्य संयोजनेन णिजन्तधातुः निष्पन्नः | लिख् इति औपदेशिकधातुः; तस्मात् यदा णिच् विहितो भवति, तदा लेखि इति नूतनः णिजन्तधातुः निष्पन्नः | अयं च आतिदेशिकधातुः | सन्नन्तधातवः अपि तथा | कृ इति औपदेशिकधातुः, चिकीर्ष इति सन्नन्तः आतिदेशिकधातुः; लटि चिकीर्षति |
एषु द्वादशसु प्रत्ययेषु यङ्-प्रत्ययः अन्यतमः | वारं वारम् अथवा अधिकाधिकम् इत्यस्मिन् अर्थे भवति | यथा णिच् अपि च सन्, अस्य यङ्-प्रत्ययस्य धातुना संयोजनेन नूतनधातुः निर्मितः भवति | तदा यङन्तधातुः इति वदामः | यङ्-प्रत्ययस्य किञ्चन वैशिष्ट्यम् अस्ति यत् तस्य लोपः (लुक्) अपि भवितुम् अर्हति | यत्र यङः लुक् भवति तत्र यङ्लुगन्तधातुः इत्युच्यते | यङन्तानां यङ्लुगन्तानां च अर्थः समानः, परन्तु रूपं भिद्यते |
यङ्लुगन्तधातवः आदादिकाः इत्युच्यन्ते यतोहि तत्र शपः लुक् भवति, अदादिगणवत् | (अन्ये सर्वे आतिदेशिकधातवः भ्वादिगणीयाः, यथा सन्नन्ताः, णिजन्ताः, यङन्ताः | तेषां सर्वेषां कृते शप्-विकरणप्रत्ययः भवति |)
हल्-सन्धि-विषये अस्माकम् अभिरुचिः यङ्लुगन्तानां, यतोहि तत्र विकरणप्रत्ययः न भवति— अतः यङ्लुगन्तधातुः हलन्तः चेत्, तस्य लङ्-लकारस्य प्रथमपुरुषस्य मध्यमपुरुषस्य च एकवचने, पदान्ते हल्-सन्धिः अर्हः यथासङ्गम् | एतादृशानि बहूनि रूपाणि अग्रे प्रदर्शितानि |
अधुना अनुभवार्थं यङ्लुगन्तानां लट्-लकारः कथं भवति इति पश्येम | अत्रापि हल्-सन्धेः अवसरः |
पठ्-धातुः इति स्वीकुर्मः |
यथा पठ्-धातुः + णिच् → पाठि इति नूतनधातुः | लटि पाठयति |
तथैव पठ्-धातुः + यङ्-लुक् → पापठ् इति नूतनधातुः | लटि पापट्टि | बालकः वारं वारं अथवा अधिकाधिकं पठति इत्यस्मिन् अर्थे, बालकः पापट्टि |
अत्र पश्यतु यत् औपदेशिकः पठ्-धातुः चेत् रूपम् एवम्—
पठ् + अ + ति → पठति
परन्तु यङ्लुगन्तधातुः चेत्, मध्ये विकरणप्रत्ययः नास्ति | पापठ् + ति | अतः अत्र हल्-सन्धिः भविष्यति | तेन एव कारणेन हल्-सन्धेः अभ्यासार्थं यङ्लुगन्तधातवः समीचीनाः | यथा—
पापठ् + ति → ष्टुत्वम् (ष्टुना ष्टुः) → पापठ् + टि → चर्त्वं (खरि च) → पापट् + टि → वर्णमेलने → पापट्टि |
धेयं यत् औपदेशिक-पठ्-धातोः लट्-लकारे हल्-सन्धेः अवकाशो नास्ति— पठ् + अ + ति → पठति | केवलं वर्णमेलनं, विकरणप्रत्ययस्य कारणात् | परन्तु यङ्लुकि हल्-सन्धि-अवकाशो भवति, विकरणप्रत्ययस्य अभावात् | अतः हल्-सन्धेः अभ्यासार्थं यङ्लुगन्तधातवः समीचीनाः |
अदादिगणे, जुहोत्यादिगणे, रुधादिगणे एषाम् औपदेशिकधातूनां हल्-सन्धेः अवसरः तु अस्ति, विकरणप्रत्ययस्य अभावात् | परन्तु तत्र धातवः परिगणिताः, अपि च एषां गणीय-धातूनाम् अन्ते सर्वे हल्-वर्णाः न प्राप्यन्ते— अतः बहूनां हल्-वर्णानां सन्ध्यभ्यासः तत्र न लभ्यते | दृष्टान्ते यङ्लुकि पापठ् इति ठकारान्तधातुः प्राप्तः, येन ठकारस्य हल्-सन्धि-अभ्यासः भवति | परन्तु अदादिगणे, जुहोत्यादिगणे, रुधादिगणे च कोऽपि ठकारन्तधातुः नास्ति | इत्थञ्च यङ्लुकि सुन्दररीत्या हल्-सन्धेः अभ्यासो भवति | यङ्लुगन्तधातूनाम् अन्ते प्रायः सर्वे हल्-वर्णाः प्राप्यन्ते |
अत्र यङ्लुगन्तधातूनां तावत् एव विषयः | यङ्लुगन्तधातुः कथं निर्मीयते इति भिन्नवार्ता— अग्रे गत्वा, अपरस्मिन् पाठे तामपि प्रक्रियां करिष्यामः | किन्तु अधुना केवलं यङ्लुगन्तधातुम् आदाय हल्-सन्धेः अभ्यासः क्रियते— अस्मिन् पाठे अभ्यासार्थं बहुत्र यङ्लुगन्तधातूनाम् उदाहरणानि दत्तानि |
लङ्-लकारस्य अपृक्तप्रत्यये परे इतोऽपि एकः प्रसङ्गः अस्ति यत्र हल्-सन्धेः अवसरः प्राप्यते | यदि गुणकार्येण वृद्धिकार्येण च कोऽपि धातुः हलन्तो भवति, तत्रापि लङ्-लकारस्य त्-प्रत्ययः स्-प्रत्ययः चेत्यनयोः लोपः |
यथा—
अजागृ + त् → गुणः → अजागर् + त् → हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् इत्यनेन त्-लोपः → अजागर् → खरवासयोर्विसर्जनीयः इत्यनेन र्-स्थाने विसर्गः → अजागः
अजागृ + स् → गुणः → अजागर् + स् → हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् इत्यनेन स्-लोपः → अजागर् → खरवासयोर्विसर्जनीयः इत्यनेन र्-स्थाने विसर्गः → अजागः
२. प्रथमसोपानेन पदं निर्मितम् अतः पदं निमित्तीकृत्य कार्याणि
प्रथमे सोपाने तिङ्-प्रत्ययः संयोजितः अतः सुप्तिङन्तं पदम् (१.४.१४) इत्यनेन पदं जातम् | यद्यपि त्-प्रत्ययः स्-प्रत्ययश्चेत्यनयोर् लोपो जातः, तथापि तिङ्-प्रत्ययस्तु विहित एव अतः प्रत्ययलोपे प्रत्ययलक्षणम् (१.१.६२) इत्यनेन अधुना धातुः न, अपि तु तिङन्तं पदमेव | अधुना अरुणध्, अभिनद्, अहन्, अधोघ्, असंस्त् इति इमानि पदानि एव, अपि च एषां पदानाम् अन्ते यः हल्-वर्णः वर्तते, सः "पदान्तः हल्-वर्णः" | अनेन कारणेन अग्रे गत्वा इमानि विशिष्टानि कार्याणि भवन्ति यत्र यत्र प्राप्तिरस्ति—
धेयं यत् अग्रिमेषु सर्वेषु स्थलेषु [a – g] कार्यं विहितं 'पदान्ते' यतः पदस्य (८.१.१६) इति सूत्रस्य अधिकारः | पदस्य (८.१.१६) इत्यस्य अधिकारः ८.१.१७ - ८.३.५५ यावत् | अत्र आहत्य पाठः सप्तसु विभागेषु विभक्तः—
a) पदान्ते संयोगः
b) चवर्गान्तधातवः
c) हकारान्तधातवः
d) भष्-भावः
e) सकारान्तधातवः
f) दकारान्तधातवः
g) मकारान्तधातवः
a) पदान्ते संयोगः
1. पदस्य अन्ते संयोगोऽस्ति चेत्, तस्य पदस्य अन्तिमवर्णस्य लोपो भवति |
संयोगान्तस्य लोपः (८.२.२३) = यस्य पदस्य अन्ते संयोगोऽस्ति, तस्य पदस्य अन्तिमवर्णस्य लोपो भवति | अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव लोपः न तु पूर्णपदस्य | संयोगः अन्ते अस्ति यस्य तत् संयोगान्तं, बहुव्रीहिः, तस्य संयोगान्तस्य | संयोगान्तस्य षष्ठ्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम् | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— संयोगान्तस्य पदस्य लोपः |
यथा— बन्ध् इति औपदेशिकधातुः | तस्य यङ्लुगन्तधातुः बाबन्ध् |
अबाबन्ध् + त् → हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (६.१.६७) इत्यनेन त्-लोपः → अबाबन्ध् इति तिङन्तं संयोगान्तं पदम् → संयोगान्तस्य लोपः (८.२.२३) इत्यनेन पदस्य अन्तिमवर्णस्य लोपः → अबाबन्
2. संयोगस्य प्रथमसदस्यः रेफः चेत्, रेफात् परस्य सकारस्य एव लोपो भवति, अन्यवर्णस्य न |
रात्सस्य (८.२.२४) = यस्य पदस्य अन्ते संयोगोऽस्ति, संयोगस्य प्रथमसदस्यः रेफः चेत्, रेफात् परस्य सकारस्य एव लोपो भवति, अन्यवर्णस्य न | रात् पञ्चम्यन्तं, सस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | संयोगान्तस्य लोपः (८.२.२३) इति सूत्रस्य पूर्णतया अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— रात् संयोगान्तस्य पदस्य सस्य लोपः |
वस्तुतः इदं सूत्रं केवलं वदति यत् पदान्ते संयोगः अस्ति चेत्, संयोगस्य प्रथमसदस्यः रेफः चेत्, रेफात् परस्य सकारस्य लोपो भवति | अयं च सकार-लोपः संयोगान्तस्य लोपः (८.२.२३) इत्यनेन एव सिद्धं खलु | तर्हि पुनः रात्सस्य इति कथनस्य का आवश्यकता ? सिद्धे सति आरभ्यमाणो विधिर्नियमाय भवति | अयं सकार-लोपः पुनः उक्तः यतोहि अनेन नियमयति; इदं सूत्रं नियमसूत्रम् | अस्य सकारलोपस्य पुनः कथनेन केवलं सकारलोपः, अपरवर्णस्य न इति फलितार्थः |
अमृज् + त् → अमृज् → मृजेर्वृद्धिः (७.२.११४) इत्यनेन वृद्धिः → अमार्ज् → संयोगान्तस्य लोपः (८.२.२३) इत्यनेन ज्-लोपः प्राप्तः, रात्सस्य (८.२.२४) इत्यनेन ज्-लोपः बाधितः → अमार्ज्
[अग्रे द्रक्ष्यामः यत्— अमार्ज् → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इत्यनेन ज्-स्थाने षकारादेशः → अमार्ष् → झलां जशोऽन्ते (८.२.३९) इत्यनेन पदान्ते जश्त्वम् → अमार्ड् → वाऽवसाने (८.४.५६) इत्यनेन विकल्पेन पदान्ते चर्त्वम् → अमार्ट्]
यदाकदा प्रश्नः आयाति, सकारलोपस्य उदाहरणं किम् ? एतादृशः धातुः प्रायः न स्यात् यस्य अन्ते रेफसकारयोः संयोगः विद्यते | परन्तु सुबन्तेषु दृष्टान्तः लभ्यते | ऋकारान्त-सुबन्तानां पञ्चम्यन्तं रूपं षष्ठ्यन्तं रूपं च अनेन सिध्यति | यथा—
पितृ + ङस् → अनुबन्धलोपे → पितृ + अस् → ऋत उत् (६.१.१०९) इत्यनेन ऋकारान्तात् उत्तरयोः ङसिङसोः अति परे पूर्वपरयोः उकारः एकादेशः → पित् + उ + स् → उरण् रपरः (१.१.५१) इत्यनेन ऋ-स्थाने यः अण्, सः रपरः भवति → पित् + उर् + स् → रात्सस्य (८.२.२४) इत्यनेन स्-लोपः → पितुर् → खरवसानयोर्विसर्जनीयः इत्यनेन अवसाने र्-स्थाने विसर्गादेशः → पितुः
3. झलादि-प्रत्यये परे, रेफात् परस्य छकारस्य वकारस्य च लोपो भवति
राल्लोपः (६.४.२१) = रेफात् परस्य छकारस्य वकारस्य च लोपो भवति क्वि, झलादि-प्रत्ययः, अनुनासिकः च परे अस्ति चेत् | रात् पञ्चम्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम् | च्छ्वोः शूडनुनासिके च (६.४.१९) इत्यस्मात् च्छ्वोः इत्यस्य अनुवृत्तिः; अत्र धेयं यत् अनुवृत्तौ 'तुक्-सहितः छकारः' सत्यपि व्याख्याने तुगागमो नापेक्षितः अतः न स्वीकृतः | अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) इत्यस्मात् अनुनासिकस्य, क्विझलोः इत्यनयोः अनुवृत्तिः* | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अङ्गस्य रात् च्छ्वोः लोपः अनुनासिके क्विझलोः |
मुर्छा → मुर्छ्-धातुः, यङ्लुकि मोमुर्छ्-धातुः—
अमोमुर्छ् + त् → राल्लोपः (६.४.२१) इत्यनेन छ्-लोपः → अमोमुर् + त् → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन उपधा-गुणः → अमोमोर् + त् → हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (६.१.६७) इत्यनेन त्-लोपः → अमोमोर्
अत्र राल्लोपः (६.४.२१) सर्वप्रथमं भवति परत्वात् अङ्गकार्यत्वात् च | तदा एव सन्धिकार्यस्य त्-लोपः | राल्लोपः (६.४.२१) इत्यस्मात् पूर्वं च इमे द्वे सूत्रे प्रसक्ते किन्तु पूर्वत्रासिद्धम् (८.२.१) इत्यनेन असिद्धे— उपधायां च (८.२.७८), संयोगान्तस्य लोपः (८.२.२३) च | उपधायां च (८.२.७८) इत्यनेन 'धातोः उपधाभूतयोः रेफवकारयोः हल्परयोः इकः दीर्घः स्यात्' | तस्य कृते पदसंज्ञा नापेक्षिता अपि तु धातु-संज्ञा एव अपेक्षिता | अत्र मोमुर्छ् इति धातौ निमित्तानि सन्ति अतः प्रसक्तिः आसीत्, किन्तु राल्लोपः (६.४.२१) इति सूत्रं प्रति उपधायां च (८.२.७८) असिद्धं भवति |** संयोगान्तस्य लोपः (८.२.२३) इति सूत्रस्य कृते पदसंज्ञा अपेक्षिता; अमोमुर्छ् + त् इति स्थितौ तिप् अस्ति अतः पदसंज्ञा अस्ति; पदान्ते च छकारतकारयोः संयोगः अस्ति अतः प्रसक्तिः आसीत्, किन्तु राल्लोपः (६.४.२१) इति सूत्रं प्रति संयोगान्तस्य लोपः (८.२.२३) असिद्धं भवति |
*'अनुनासिकस्य, क्विझलोः इत्यनयोः अनुवृत्तिः' इत्युक्तम् | काशिकायाम् 'अनुनासिकस्य' इत्यस्य पर्युदासे 'क्ङिति' इत्यस्य अनुवृत्तिः दत्ता, सा च दोषाय | 'क्ङिति' स्वीक्रियते चेत्, 'अमोमुर्छ् + त्' इति स्थितौ इष्टं रूपं न सिध्यति त्-प्रत्ययस्य पित्त्वात् | अपि च 'अनुनासिकस्य' इत्यस्य अनुवृत्तिः अपेक्षिता एव | यथा—
मोमुर्छ् + मि (लटि) → मकारस्य अनुनासिकत्वात् राल्लोपः (६.४.२१) इत्यनेन छलोपः → मोमुर् + मि → पुगन्तलघूपधस्य च (७.३.८६) → मोमोर्मि
मोमुर्छ् + मः → मकारस्य अनुनासिकत्वात् राल्लोपः (६.४.२१) इत्यनेन छलोपः → मोमुर् + मः → हलि च (८.२.७७) → मोमूर्मः
हलि च (८.२.७७) = रेफान्तानां वकारान्तानां च धातूनाम् उपधायां स्थितः इक्-वर्णः दीर्घो भवति हलि परे | येन विधिस्तदन्तस्य (१.१.७२) इत्यस्य साहाय्येन तदन्तविधिः अतः र्वोः इत्यनेन येषाम् धातूनाम् अन्ते रेफः वकारश्च, तेषामपि ग्रहणम् | हलि सप्तम्यन्तम्, च अव्ययपदम्, द्विपदमिदं सूत्रम् | सिपि धातो रुर्वा (८.२.७४) इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः; र्वोरुपधाया दीर्घ इकः (८.२.७६) इत्यस्य पूर्णतया अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— र्वोः धातोः उपधायाः इकः दीर्घः हलि च |
भ्वादौ तुर्वी-धातुः → तुर्व् → यङ्लुगन्तधातुः तोतुर्व्
तोतुर्व् + मि → मकारस्य अनुनासिकत्वात् राल्लोपः (६.४.२१) इत्यनेन वलोपः → तोतुर् + मि → पुगन्तलघूपधस्य च (७.३.८६) → तोतोर्मि
तोतुर्व् + मः → मकारस्य अनुनासिकत्वात् राल्लोपः (६.४.२१) इत्यनेन वलोपः → तोतुर् + मः → हलि च (८.२.७७) → तोतूर्मः
(**जिज्ञासुभिः पृच्छ्यते यत् उपधायां च (८.२.७८) इत्यस्य कृते धातुसंज्ञा एव अपेक्षते अतः तिङ्-प्रत्ययस्य विधानात् प्रागेव अनेन उपधादीर्घः क्रियेत | तस्मिन् समये राल्लोपः (६.४.२१) इत्यस्य प्रसक्तिरेव नास्ति | तथा कुर्मश्चेत्, न केवलं राल्लोपः (६.४.२१) इत्यनेन दैर्घ्यस्य कार्यम् असिद्धम् अपि तु पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन अपि | अतः अन्ततो गत्वा ह्रस्व-उकारः एव दृश्यते इति कारणतः तस्य गुणो भवति एव | अमोमोः इति |)
अत्र प्रश्नः उदेति, अमोमुर्छ् + त् इति स्थितौ रात्सस्य (८.२.२४) इत्यपि आगत्य प्रसक्तं भूत्वा असिद्धम् इति वा ? पदसंज्ञा अस्ति, पदान्ते संयोगोऽपि अस्ति | किन्तु अत्र पदान्ते कः संयोगः अस्ति ? छकारतकारयोः एव | भाष्यकारः प्रतिपादयति यत् संयोगो भवति द्वयोः हल्वर्णयोरेव*** | अतः अत्र रेफछकारयोः संयोगः यद्यपि अस्ति तथापि पदान्ते न; अनेन कारणेन अत्र रात्सस्य (८.२.२४) इत्यस्य प्रसक्तिरेव नास्ति |
(***काशिकाकारो वदति यत् तदधिकानामपि संयोगसंज्ञा भवति | किन्तु तथा कुर्मश्चेत् कुत्रचित् रूपं न सिध्यति | यथा अधः 'असन्' इति अवलोक्यताम् | अतः महाभाष्ये यत्प्रतिपादितं, तदेव मन्तव्यम् |)
[अग्रे अमोमोर् → खरवसानयोर्विसर्जनीयः (८.३.१५) इत्यनेन विसर्गादेशः → अमोमोः]
4. पदान्ते संयोगस्य प्रथमसदस्यः सकारः ककारो वा चेत्, संयोगस्य प्रथमसदस्यलोपो भवति |
स्कोः संयोगाद्योरन्ते च (८.२.२९) = संयोगस्य प्रथमसदस्यः सकारः ककारः वा चेत्, संयोगस्य प्रथमसदस्यलोपो भवति न तु द्वितीयसदस्यस्य, झलि पदान्ते च | स् च क् च तयोरितरेतरद्वन्द्वः स्कौ, तयोः स्कोः | संयोगस्य आदि संयोगादि, तयोः संयोगाद्योः, षष्ठीतत्पुरुषः | संयोगान्तस्य लोपः (८.२.२३) इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः | झलो झलि (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— संयोगाद्योः स्कोः लोपः झलि पदस्य अन्ते च |
यथा—
भ्रस्ज् इति औपदेशिकधातुः | तस्य यङ्लुगन्तधातुः बरीभ्रस्ज् |
अबरीभ्रस्ज् + त् → हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (६.१.६७) इत्यनेन त्-लोपः → अबरीभ्रस्ज् → स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यनेन सकारलोपः → अबरीभ्रज्
षस्ति → सन्स्त् धातुः अदादिगणे |
षस्ति → उपदेशेऽजनुनासिक इत् → षस्त् → धात्वादेः षः सः (६.१.६४) → सस्त् → इदितो नुम् धातोः (७.१.५८), मिदचोऽन्त्यात्परः (१.१.४७) → सन्स्त् इति धातुः
असन्स्त् + त् → हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (६.१.६८) → असन्स्त् → स्कोः संयोगाद्योरन्ते च (८.२.२९) → असन्त् → संयोगान्तस्य लोपः (८.२.२३) → असन्
अत्र कश्चन प्रश्नः उदेति, 'असन्स्त्' इति स्थित्यां पदान्ते संयोगान्तस्य लोपः (८.२.२३), स्कोः संयोगाद्योरन्ते च (८.२.२९), इति द्वयोः अपि प्रसक्तिः | सूत्रद्वयं त्रिपाद्याम्, अतः किमर्थं न पूर्वत्रासिद्धम् (८.२.१) इत्यनेन परशास्त्रम् असिद्धम्, असिद्धत्वात् संयोगान्तस्य लोपः (८.२.२३) अत्र भवेत् ? उत्तरम् अस्ति यत् पदान्ते, स्कोः संयोगाद्योरन्ते च (८.२.२९) इति सूत्रं, संयोगान्तस्य लोपः (८.२.२३) इत्यस्य अपवादः; यत्र पदान्तसंयोगे प्रथमसदस्यः सकारः ककारः च, तत्रापि संयोगान्तस्य लोपः (८.२.२३) भवति चेत्, पदान्ते स्कोः संयोगाद्योरन्ते च (८.२.२९) निरवकाशं भवति | अतः अपवादत्वात् पदान्ते अवसरे सति स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्येव प्रवर्तनीयं भवति | पूर्वत्रासिद्धम् (८.२.१) इत्यस्यापि अपवादः |
अस्मिन्नेव प्रसङ्गे कोऽपि प्रष्टुं शक्नोति यत् लङि त्-लोपे सति 'असन्स्त्' इति स्थितौ संयोगः अस्ति त्रयाणां वर्णानां—नकारसकारतकाराणाम् | तस्मात् सकारः संयोगस्य आदौ नास्ति इति कृत्वा स्कोः संयोगाद्योरन्ते च (८.२.२९) इति प्रसक्तं न | किन्तु यथोक्तम् उपरि संयोगः द्वयोर्वर्णयोः एव न तु त्रयाणाम् | अतः अत्र संयोगद्वयं वर्तते— नकारसकारयोः, सकारतकारयोश्च | सकारतकारयोः संयोगः पदान्ते, तत्र च प्रथमसदस्यः सकारः इत्यस्मात् स्कोः संयोगाद्योरन्ते च (८.२.२९) इति सूत्रं प्रसक्तं प्राप्तञ्च |
अन्यः प्रश्नः उदेति किमर्थं न पूर्वमेव नश्चापदान्तस्य झलि (८.३.२४) इत्यनेन अनुस्वारः, आरम्भे एव असंस्त्, तदा स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यनेन असंत्, तदा अनुस्वारस्य ययि परसवर्णः (८.४.५८) इत्यनेन नकारः, असन्त्, तदा पूर्वत्रासिद्धम् (८.२.१) इत्यनेन संयोगान्तस्य लोपः (८.२.२३) इत्यस्य दृष्ट्या नकारः असिद्धः अतः असन्त् इत्येव स्यात् ? उत्तरम् अस्ति यत् अस्मिन् क्रमे नश्चापदान्तस्य झलि (८.३.२४) इत्यस्य अवसरः न भवति एव, स्वस्य त्रिपाद्यां परत्वात् | स्कोः संयोगाद्योरन्ते च (८.२.२९), संयोगान्तस्य लोपः (८.२.२३), सूत्रद्वयमपि अष्टमाध्यायस्य द्वितीयपादे अतः पूर्वं भवन्ति, असन् इति रूपं सिध्यति | असन् इति दशायां नकारात् परे झल् तु नास्ति एव अतः अस्यां प्रक्रियायां नश्चापदान्तस्य झलि (८.३.२४) न कुत्रापि भवति | आरम्भात् अन्तपर्यन्तं नुम्-आगमस्य नकारः 'न्' इत्येव तिष्ठति |
पुनः अन्यप्रश्नः— स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यनेन यः सकारलोपः, सः तु संयोगान्तस्य लोपः (८.२.२३) इत्यनेन न दृश्येत ननु कार्यासिद्धत्वात् ? उत्तरमस्ति यत् तथा नास्ति यतोहि स्कोः संयोगाद्योरन्ते च (८.२.२९) अपवादत्वात् प्रथमतया प्रवर्तितम् | अपवादस्य बलेन तस्य कार्यं संयोगान्तस्य लोपः (८.२.२३) इत्यनेन दृश्यते एव | अत्र पूर्वत्रासिद्धम् (८.२.१) इत्यस्य एव अपवादः अतः तस्य इह किमपि कार्यं नास्ति |
व्रश्च् इति औपदेशिकधातुः | तस्य यङ्लुगन्तधातुः वाव्रश्च् |
अवाव्रश्च् + त् → हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (६.१.६७) इत्यनेन त्-लोपः → अवाव्रश्च् → स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यनेन सकारलोपः → अवाव्रच्
उपरितने वृत्तान्ते शकारः दृश्यते न तु सकारः | वस्तुस्थितिः इयं यत् सकारस्तु अस्ति, तदा चकारस्य प्रभावेन स्तोः श्चुना श्चुः (८.४.४०) इत्यनेन सकारस्य स्थाने शकार आगतः |
b) चवर्गान्तधातवः
1. चवर्गान्तधातूनाम् अन्तिमचवर्गीयवर्णस्य स्थाने कवर्गीयादेशो भवति पदान्ते |
चोः कुः (८.२.३०) = चवर्गस्य स्थाने कवर्गादेशो भवति झलि पदान्ते च | चोः षष्ठ्यन्तं, कुः प्रथमान्तं, द्विपदमिदं सूत्रम् | झलो झलि (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात् अन्ते, च इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— चोः कुः झलि पदस्य अन्ते च |
यथा— अवच् + त् → हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् इत्यनेन त्-लोपः → अवच् → चोः कुः इत्यनेन चवर्गस्य स्थाने कवर्गादेशः → अवक्
अतात्यज् → चोः कुः इत्यनेन चवर्गस्य स्थाने कुत्वम् → अतात्यग्
2. परन्तु व्रश्च्, भ्रस्ज्, सृज्, मृज्, यज्, राज्, भ्राज्, छकारान्ताः शकारान्ताः चैषां धातूनाम् अन्तिमवर्णस्य स्थाने षकारादेशो भवति पदान्ते |
व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) = व्रश्च्, भ्रस्ज्, सृज्, मृज्, यज्, राज्, भ्राज्, छकारान्ताः शकारान्ताः चैषां धातूनाम् अन्तिमवर्णस्य स्थाने षकारादेशो भवति झलि पदान्ते च | अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव स्थाने षकारादेशः, न तु पूर्णपदस्य | व्रश्चश्च भ्रस्जश्च सृजश्च मृजश्च यजश्च राजश्च भ्राजश्च छश्च श् च तेषामितरेतरद्वन्दः व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशः, तेषां व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशाम् | व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षष्ठ्यन्तं, षः प्रथमान्तं, द्विपदमिदं सूत्रम् | अत्र 'जच्छशां' इति भागे छे च (६.१.७३) इत्यनेन तुक्-आगमे सति जत्छशां, तदा श्चुत्वसन्धौ जच्छशां | झलो झलि (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात् अन्ते, च इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः झलि पदस्य अन्ते च |
यथा—
अवाव्रश्च् + त् → त्-लोपः → अवाव्रश्च् → स्कोः संयोगाद्योरन्ते च इत्यनेन सकारलोपः → अवाव्रच् → चोः कुः (८.२.३०) इत्यस्य प्रसक्तिः परन्तु तत् प्रबाध्य षकारादेशो भवति → अवाव्रष्
तथैव—
अबाभ्रस्ज् + त् → त्-लोपः → अबाभ्रस्ज् → सकारलोपः → अबाभ्रज् → अबाभ्रष्
असरीसृज् + त् → असरीसृज् → चोः कुः इत्यस्य प्रसक्तिः परन्तु तत् प्रबाध्य षकारादेशो भवति → असरीसृष्
अमरीमृज् → अमरीमृष्
अयायज् → अयायष्
अरारज् → अरारष्
अबाभ्राज् → अबाभ्राष्
अपाप्रच्छ् → अपाप्रष्
अवावश् → अवावष्
c) हकारान्तधातवः
1. हकारान्तधातूनां हकारस्य स्थाने ढकारादेशो भवति |
हो ढः (८.२.३१) = हकारस्य स्थाने ढकारादेशो भवति झलि पदान्ते च | हः षष्ठ्यन्तं, ढः प्रथमान्तं, द्विपदमिदं सूत्रम् | झलो झलि (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात् अन्ते, च इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— हः ढः झलि पदस्य अन्ते च |
पदान्ते लङि— अतृणेह् + त् → हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् इत्यनेन त्-लोपः → अतृणेह् → हो ढः इत्यनेन ढकारादेशः → अतृणेढ्
2. धातोरादौ दकारः, अन्ते हकारः चेत्, हकारस्थाने घकारादेशो भवति |
दादेर्धातोर्घः (८.२.३२) = दकारादिधातोः हकारस्य स्थाने घकारादेशो भवति झलि पदान्ते च | दः आदौ यस्य स दादिः, तस्य दादेः, बहुव्रीहीः | दादेः षष्ठ्यन्तं, धातोः षष्ठ्यन्तं, घः प्रथमान्तं, त्रिपदमिदं सूत्रम् | हो ढः (८.२.३१) इत्यस्मात् हः इत्यस्य अनुवृत्तिः | झलो झलि (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— दादेः धातोः हः घः झलि पदस्य अन्ते च |
यथा दुह प्रपूरणे अदादिगणे (लटि दोग्धि/दुग्धे)—
पदान्ते लङि— अदोह् + त् → अदोह् → अधोघ्
3. द्रुह्, मुह्, ष्णुह्, ष्णिह् एषां चतुर्णां धातूनां हकारस्य स्थाने विकल्पेन घकारो वा ढकारो वा भवति |
वा द्रुहमुहष्णुहष्णिहाम् (८.२.३३) = द्रुह्, मुह्, ष्णुह्, ष्णिह् एषां चतुर्णां धातूनां हकारस्य स्थाने विकल्पेन घकारादेशो भवति झलि पदान्ते च; घ्-अभावे हो ढः (८.२.३१) इत्यनेन ढकारादेशो भवति | द्रुहश्च मुहश्च ष्णुहश्च ष्णिहश्च तेषाम इतरेतर्तद्वान्द्वः, द्रुहमुहष्णुहष्णिहः, तेषां द्रुहमुहष्णुहष्णिहाम् | वा अव्ययपदं, द्रुहमुहष्णुहष्णिहां षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | हो ढः (८.२.३१) इत्यस्मात् हः, दादेर्धातोर्घः (८.२.३२) इत्यस्मात् घः, झलो झलि (८.२.२६) इत्यस्मात् झलि, स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात् अन्ते, च इत्येषाम् अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— द्रुह-मुह-ष्णुह-ष्णिहाम् वा हः घः झलि पदस्य अन्ते च |
पदान्ते लङि—
अदोद्रोह् + त् → अदोद्रोह् → अदोद्रोघ् / अदोद्रोढ्
अमोमोह् → अमोमोघ् / अमोमोढ्
अस्नोनोह् → अस्नोनोघ् / अस्नोनोढ्
अस्नेनेह् → अस्नेनेघ् / अस्नेनेढ्
4. नह्-धातोः हकारस्य धकारादेशो भवति |
नहो धः (८.२.३४) = नह्-धातोः हकारस्य धकारादेशो भवति झलि पदान्ते च | नहः षष्ठ्यन्तं, धः प्रथमान्तं, द्विपदमिदं सूत्रम् | हो ढः (८.२.३१) इत्यस्मात् हः इत्यस्य अनुवृत्तिः | दादेर्धातोर्घः (८.२.३२) इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः | झलो झलि (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात् अन्ते, च इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— नहः धातोः हः धः झलि पदस्य अन्ते च |
पदान्ते लङि— अनानह् + त् → अनानह् → अनानध्
d) भष्-भावः
एकाचो बशो भष् झषन्तस्य स्ध्वोः (८.२.३७) = ३४ → ४४
परिचयः— धातोः आदौ बश् (ब, ग, ड, द) अपि च अन्ते झष् (झ, भ, घ, ढ, ध), तस्य धातोः नाम एकाच्-बशादि-झषन्तधातुः | यथा बन्ध्-धातुः, बुध्-धातुः च | यदि उपर्युक्त-हकारान्तधातुसम्बद्ध-सूत्रैः हकारस्य स्थाने झषादेशः सञ्जातः (दृष्टान्ते— दुह् → दुघ्) तर्हि सोऽपि तादृशो धातुः | एकाच्-बशादि-झषन्तधातोः आदौ स्थितस्य बशः स्थाने भषादेशो भवति (भ, घ, ढ, ध) सकारादि-प्रत्यये परे, ध्व-शब्दे परे, पदान्ते च | अतः वदामः यत् '३४ → ४४' इत्युक्तौ यत्र धातोः आदौ वर्गस्य तृतीयसदस्यः (३), अन्ते च वर्गस्य चतुर्थसदस्यः (४), तत्र आदौ स्थितस्य तृतीयसदस्यस्य स्थाने चतुर्थसदस्यादेशो भवति (३ → ४) | आहत्य ३४ → ४४ इति विकारः | धेयं यत् अयं बश्-वर्णः धातोः अन्तिम-अंशस्य आदौ अपि भवितुमर्हति | अनेन धातुः अनेकाच् चेदपि, तस्य धातोः एकाच्-बशादि-झषन्तधात्वंशः अस्ति चेत्, अत्रापि ३४ → ४४ इति विकारो भवति |
एकाचो बशो भष् झषन्तस्य स्ध्वोः (८.२.३७) = धातोरवयवो यो झषन्त एकाच्, तस्य बशः भषादेशो भवति सकारे परे, ध्व-शब्दे परे, पदान्ते च | अनुवृत्तिसहितसूत्रे 'एकाचः झषन्तस्य' इत्यनयोरेव विशेषणविशेष्यभावः; धातोः तादृशांशः इति तात्पर्यम् | अनेन धातोः एकाच् वा तदधिकाः वा अर्हाः | एकोऽच् यस्मिन् स एकाच् बहुव्रीहिः, तस्य एकाचः | झष् अन्ते यस्य स झषन्तः बहुव्रीहिः, तस्य झषन्तस्य | स् च ध्व् च स्ध्वौ इतरेतरद्वन्द्वः, तयोः स्ध्वोः | एकाचः षष्ठ्यन्तं, बशः षष्ठ्यन्तं, भष् प्रथमान्तं, झषन्तस्य षष्ठ्यन्तं, स्ध्वोः सप्तम्यन्तं, अनेकपदमिदं सूत्रम् | दादेर्धातोर्घः (८.२.३२) इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात् अन्ते, च इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— धातोः एकाचः झषन्तस्य बशः भष् स्ध्वोः पदस्य अन्ते च |
पदान्ते लङि— अदोह् + त् → हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (६.१.६७) इत्यनेन त्-लोपः → अदोह् इति पदम् → दादेर्धातोर्घः (८.२.३२) इत्यनेन हकारस्य स्थाने घकारादेशः → अदोघ् → एकाचो बशो भष् झषन्तस्य स्ध्वोः (८.२.३७) इत्यनेन बशः भषादेशः → अधोघ्
सकारादि-प्रत्यये परे— गर्ह् + स्यते → हो ढः (८.२.३१) इत्यनेन हः ढः → गर्ढ् + स्यते → एकाचो बशो भष् झषन्तस्य स्ध्वोः (८.२.३७) इत्यनेन बशः भषादेशः → घर्ढ् + स्यते
e) सकारान्तधातवः
सकारान्तधातूनां पदत्वे सति, तिपि दत्वं सिपि रुत्वं दत्वं वा |
1. सकारान्तधातूनां पदत्वे सति, तिपि दत्वम्
तिप्यनस्तेः (८.२.७३) = पदान्तस्य सकारस्य दकारादेशो भवति तिपि परे; परन्तु अस्-धातौ न भवति | इदं सूत्रं ससजुषो रुः (८.२.६६) इत्यस्य अपवादः | येनविधिस्तदन्तस्य (१.१.७२ ) इत्यनेन तदन्तविधिः; अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्तिमवर्णादेशः | न अस्तिः अनस्तिः, तस्य अनस्तेः | तिपि सप्तम्यन्तम्, अनस्तेः षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | ससजुषोः रुः (८.२.६६) इत्यस्मात् सः इत्यस्य अनुवृत्तिः | वसुस्रंसुध्वंस्वनडुहां दः (८.२.७२) इत्यस्मात् दः इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— सः पदस्य दः तिपि अनस्तेः |
अनेन सूत्रेण लङ्-लकारस्य त्-प्रत्यये परे सकारान्तपदस्य सकारस्य दकारादेशो भवति | यथा—
अचकास् + त् → हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (६.१.६७) इत्यनेन त्-लोपः → अचकास् इति पदम् → तिप्यनस्तेः (८.२.७३) इत्यनेन अन्तिमसकारस्य दकारादेशः → अचकाद्
2. सकारान्तधातूनां पदत्वे सति सिपि रुत्वं दत्वं वा
सिपि धातो रुर्वा (८.२.७४) = पदान्तस्य सकारस्य रु-आदेशो भवति, दकारो वा, सिपि परे | अत्र 'वा' इति समुच्चयार्थे | येनविधिस्तदन्तस्य (१.१.७२ ) इत्यनेन तदन्तविधिः; अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्तिमवर्णादेशः | 'धातोः' उक्तं परसूत्राणाम् अर्थपूर्तिकृते; प्रकृतसूत्रे आवश्यकता नास्ति | सिपि सप्तम्यन्तं, धातोः षष्ठ्यन्तं, रुः प्रथमान्तं, वा अव्ययपदम्, अनेकपदमिदं सूत्रम् | ससजुषोः रुः (८.२.६६) इत्यस्मात् सः इत्यस्य अनुवृत्तिः | वसुस्रंसुध्वंस्वनडुहां दः (८.२.७२) इत्यस्मात् दः इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— सः धातोः पदस्य रुः दः वा सिपि |
प्राचीनैः उच्यते यत् वसुस्रंसुध्वंस्वनडुहां दः (८.२.७२) इत्यस्मात् दः इत्यस्य अनुवृत्त्या दकारस्य पक्षः सिध्यति साक्षात् अनेन एव सिपि धातो रुर्वा (८.२.७४) इति सूत्रेण | नवीनैः उच्यते यत् अस्यावश्यकता नास्ति यतोहि रु-अपक्षे स्-स्थाने दकारादेशः झलां जशोऽन्ते (८.२.३९) इत्यनेन | परन्तु अद्यत्वे आधिक्येन वैयाकरणाः वदन्ति यत् ससजुषोः रुः (८.२.६६), झलां जशोऽन्ते (८.२.३९) इत्यनयोर्मध्ये ससजुषोः रुः (८.२.६६) इत्यस्य अपवादभूतत्वात् झलां जशोऽन्ते (८.२.३९) इत्यस्य पुनः नितराम् अवकाशो नास्ति | इत्थञ्च सिपि धातो रुर्वा (८.२.७४) इत्यनेनैव रुश्च दश्च क्रियते |
अनेन सूत्रेण लङ्-लकारस्य स्-प्रत्यये परे सकारान्तपदस्य सकारस्य स्थाने विकल्पेन दकारादेशः रुत्वं वा भवति | यथा—
अचकास् + स् → स्-लोपः → अचकास् → सिपि धातो रुर्वा (८.२.७४) इत्यनेन विकल्पेन रु-आदेशः → अचकाद् / अचकारु → अचकारु चेत् उ इत्यस्य इत्-संज्ञा लोपश्च, खरवसानयोर्विसर्जनीयः (८.३.१५) इत्यनेन अवसाने र्-स्थाने विसर्गादेशः → अचकाः
अत्र दृष्टिः एवं— सकारान्तपदम् अस्ति चेत्, कीदृशं कार्यं स्यात् इति प्रश्नः | अस्मिन् प्रसङ्गे सर्वसामान्यं सूत्रं झलां जशोऽन्ते (८.२.३९) | सकारः झलि अस्ति; अनेन सूत्रेण पदान्ते सकारस्य जश्त्वं, नाम वर्गीयव्यञ्जनस्य तृतीयसदस्यः | स्थानेऽन्तरतमः (१.१.५०) इत्यनेन दन्त्य-सकारस्य स्थाने दन्त्य-तवर्गस्य तृतीयसदस्यः दकारः भवति | अतः सर्वसामान्य-सिद्धान्तः पदान्ते सकारस्य स्थाने दकारादेशः | परन्तु ससजुषो रुः (८.२.६६) तस्य अपवादः | अनेन पदान्ते स्थितस्य सकारस्य स्थाने रु-आदेशो भवति | पुनः तिप्-प्रत्यये परे तिप्यनस्तेः (८.२.७३) तस्य अपवादः | अनेन तिपि परे पदान्तस्य सकारस्य दकारादेशो भवति | एवमेव सिप्-प्रत्यये परे सिपि धातो रुर्वा (८.२.७४) ससजुषो रुः (८.२.६६) इत्यस्य अपवादः | अनेन सिपि परे पदान्तस्य सकारस्य रु-आदेशो दकारादेशश्च भवति | यथोक्तं झलां जशोऽन्ते (८.२.३९) इत्यनेन स्-स्थाने दकारः नोपलभ्यते यतोहि तत्तु बाधितं ससजुषो रुः (८.२.६६) इति सूत्रेण |
प्रश्नः उदेति यत् सिप् यदा आगतः तदा कथं वा धातुसंज्ञा स्यात् ? सिपि धातो रुर्वा (८.२.७४) इति सूत्रेण 'धातोः' अपि उक्तं, 'सिपि' अपि उक्तम् | अत्र वार्ता एवं— कस्य भागस्य का संज्ञा ? 'वस + ति' इति स्थितौ 'वस' इति अङ्गस्य धातुसंज्ञा नास्ति; तत्र किन्तु 'वस्' इति अन्तर्निहितभागस्य धातुसंज्ञा तु तदानीमपि अस्त्येव | एवमेव सिपः विधानानन्तरमपि धातोः धातुसंज्ञा तिष्ठति | यथा 'अचकास् + स्' इत्यत्र 'अचकास् + स्' इत्यस्य पदसंज्ञा, 'अचकास्' इत्यस्य धातुसंज्ञा | तदा स्-प्रत्ययलोपानन्तरम्, 'अचकास्' इत्यस्य धातुसंज्ञा अपि भवति, पदसंज्ञा अपि भवति |
f) दकारान्तधातवः
दकारान्तधातूनां पदत्वे सति, सिपि रुत्वं दत्वं वा |
दश्च (८.२.७५) = धातोः पदान्ते दकारस्य स्थाने विकल्पेन रु-आदेशो भवति सिपि परे | रु-अभावे दत्वम् एव | येनविधिस्तदन्तस्य (१.१.७२ ) इत्यनेन तदन्तविधिः; अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य (दकारस्य) एव स्थाने न तु पूर्णपदस्य | दः पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | सिपि धातो रुर्वा (८.२.७४) इत्यस्य पूर्णसूत्रस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— दः च धातोः पदस्य रुः वा सिपि |
अमोमोद् + स् → हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् इत्यनेन स्-लोपः → अमोमोद् इति पदम् → वाऽवसाने (८.४.५६) इत्यनेन विकल्पेन पदान्ते चर्-आदेशः → अमोमोत् / अमोमोद् → दश्च इत्यनेन अन्तिमदकारस्य विकल्पेन रुत्वम् → अमोमोद् / अमोमोरु → अमोमोरु चेत् उ इत्यस्य इत्-संज्ञा लोपश्च, खरवसानयोर्विसर्जनीयः इत्यनेन अवसाने र् स्थाने विसर्गादेशः → अमोमोः | त्रीणि रूपाणि अमोमोत् / अमोमोद् / अमोमोः
अदादिगणे विद्-धातुः सिपि परे—
अविद् + स् → अवेद् + स् → हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् इत्यनेन हल्-उत्तरस्य अपृक्तसंज्ञक-प्रत्ययस्य लोपः → अवेद् → वाऽवसाने (८.४.५६) इत्यनेन विकल्पेन पदान्ते चर्-आदेशः → अवेत् / अवेद् | अवेद् → दश्च → विकल्पेन अवेरु → खरवसानयोर्विसर्जनीयः इत्यनेन विसर्गादेशः → अवेः | त्रीणि रूपाणि अवेद् / अवेत् / अवेः
प्रश्नः उदेति यत् दश्च (८.२.७५) इति सूत्रेण औपदेशिकधातुः एव इष्यते किम् ? वस्तुतस्तु सूत्रे तथा किमपि नोक्तम् | यत्र यत्र धातुसंज्ञा अस्ति, तत्र तत्र स च धातुः दकारान्तोऽपि पदमपि इति चेत्, सिपि परे विकल्पेन रुत्वादेशो भवति | यथा रुधादिगणस्य रुध्-धातुः, लङि अरुणध् + सिप् → सिपः लोपः → अरुणध् → धातुसंज्ञा अस्ति, पदसंज्ञा अस्ति → जश्त्वं कृत्वा → अरुणद् → धातुसंज्ञा अधुनाऽपि अस्ति, पदसंज्ञा अधुनाऽपि अस्ति → दश्च (८.२.७५) इति सूत्रेण विकल्पेन रुत्वम् → → अरुणः |
अन्यः प्रश्नः उदेति यत् यया रीत्या सिपि धातो रुर्वा (८.२.७४) इति सूत्रे 'वा' इति पदं समुच्चयार्थे, यया रीत्या च वसुस्रंसुध्वंस्वनडुहां दः (८.२.७२) इत्यस्मात् दः इत्यस्य अनुवृत्त्या दकारः विधेयो भवति, तया एव रीत्या अपि दश्च (८.२.७५) इत्यस्मिन्नपि भवति किम् ? अत्र मतद्वयमस्ति | काशिकायां व्याख्यातमस्ति— दकारान्तस्य धातोः पदस्य सिपि परतो रुर्भवति, दकारो वा | काशिकाकारस्य मतेन तदेव 'वा' समुच्चयार्थे, येन रुत्वं दत्वञ्चेति विधेयद्वयं भवति, द्वयमपि सिध्यति अनेन एव दश्च (८.२.७५) इति सूत्रेण | अतः काशिकाकारस्य मतेन दकारस्य अनुवृत्तिः भवति अत्रापि | परन्तु सिद्धान्तकौमुद्यां भट्टोजिदीक्षितेन लिखितं व्याख्यानमस्ति— धातोर्दस्य पदान्तस्य सिपि परे रुः स्याद्वा | अस्मिन् 'दः' इत्यस्य अनुवृत्तिः अस्वीकृता | अस्मिन्नेव च लाघवम् | दकारविधेयं चेत् गौरवमिति | रुत्वस्य अपक्षे अस्माकं धातुरूपिपदं तु दकारान्तम् अस्त्येव | पुनः दकारस्यानयनस्य काऽवश्यकता ? इत्येवं रीत्या मातृभिः साकं चर्चा सञ्जाता | इत्थञ्च दश्च (८.२.७५) इति सूत्रे दकारानुवृत्तिः मास्तु | 'वा' इति पदं विकल्पार्थे एव |
g) मकारान्तधातवः
मकारान्तानां पदत्वे सति, म्-स्थाने नकारः
मो नो धातोः (८.२.६४) = मकारान्तस्य धातोः पदस्य नकारादेशो भवति | तदन्तविधिः इत्यनेन मकारान्तधातुः इति आशयः | मः षष्ठ्यन्तं, नः प्रथमान्तं, धातोः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात् अन्ते इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— मः धातोः पदस्य अन्ते नः |
अजङ्गम् + त् → हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् इत्यनेन त्-लोपः → अजङ्गम् → मो नो धातोः इत्यनेन म्-स्थाने नकारादेशः → अजङ्गन्
अपरेषाम् अनुनासिकान्तानां गतिः एवम्—
- ङकारः, ञकारः = कोऽपि धातुः नास्ति यस्य अन्तिमवर्णः ङकारः, ञकारः वा स्यात् | अतः अत्र किमपि नास्ति |
- नकारान्तधातुः णकारान्तधातुः चेत् किमपि कार्यं न भवति अतः नकारः णकारः च यथावत् तिष्ठति |
३. जश्त्वसन्धिः चर्त्वसन्धिश्च
अस्मिन् सोपाने धेयं यत् पदस्य अन्तिमो वर्णः कः— वर्गस्य पञ्चमसदस्यश्चेत्, किमपि कार्यं नास्ति | पदान्ते झल् (वर्गस्य प्रथमो द्वितीयः तृतीयः चतुर्थो वा) चेत्, जश्त्वसन्धिः चर्त्वसन्धिश्च प्रसक्तौ स्तः | पदे यत्र सन्धेः प्रसक्तिः अस्ति, तत्र सन्धिः नित्यमिति जानीमः; अतः अस्मिन् सन्दर्भे सन्धिः करणीय एव, वैकल्पिको न |
झलां जशोऽन्ते (८.२.३९) = पदान्ते झलः स्थाने जशादेशो भवति | पदात् परे कोऽपि वर्णः स्यात् वा न वा, सूत्रस्य प्रसक्तिः अस्ति एव | पदात् परे अच् स्यात् हल् स्यात् वा, सूत्रस्य प्रसक्तिः अस्ति एव | बाधकसूत्रम् अस्ति चेत् अन्या वार्ता | झल् प्रत्याहारे पञ्चमवर्गीय-व्यञ्जनानि वर्जयित्वा सर्वाणि वर्गीयव्यञ्जनानि (नाम अननुनासिक-वर्गीयव्यञ्जनानि), अपि च श्, ष्, स्, ह् | प्रयोगे वर्गाणां प्रथमः, द्वितीयः, तृतीयः, चतुर्थश्च वर्णाः आयान्ति | जश् प्रत्याहारे वर्गाणां तृतीयवर्णः—ज्, ब्, ग्, ड्, द् इति | स्थानेऽन्तरतमः (१.१.५०) इत्यनेन कवर्गीयाणां स्थाने गकारः, चवर्गीयाणां स्थाने जकारः, तवर्गीयाणां स्थाने दकारः, टवर्गीयाणां स्थाने डकारः, पवर्गीयाणां स्थाने बकारः इति | तर्हि पदस्य अन्ते झल्-प्रत्याहारे कश्चन वर्णः अस्ति चेत्, स्थाने तस्य वर्गस्य तृतीयवर्णादेशः भवति | अयं जश्त्वसन्धिः इत्युच्यते | झलां षष्ठ्यन्तं, जशः प्रथमान्तम्, अन्ते सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— पदस्य अन्ते झलां जशः |
विरामोऽवसानम् (१.४.११०) = वर्णानाम् अभावः अवसानसंज्ञकः | विरामः प्रथमान्तम्, अवसानं प्रथमान्तं, द्विपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णं— विरामः अवसानम् |
वाऽवसाने (८.४.५६) = अवसाने झलः विकल्पेन चर्-आदेशो भवति | अनेन अवसानावस्थायां विकल्पेन जश्त्वं चर्त्वं वा | वा अव्ययपदम्, अवसाने सप्तम्यन्तं, द्विपदमिदं सूत्रम् | झलां जश् झशि (८.४.५३) इत्यस्मात् झलां इत्यस्य अनुवृत्तिः | अभ्यासे चर्च (८.४.५४) इत्यस्मात् चर् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— अवसाने झलां चरो वा |
कवर्गान्तधातुः— जश्त्वे गकारादेशः, चर्त्वे ककारादेशः | यथा अशाशक् → जश्त्वे अशाशग्, चर्त्वे अशाशक्
चवर्गान्तधातुः— द्विविधा (१) चोः कुः, (२) व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः
(१) अवच् → चोः कुः→ अवक् → (जश्त्वम्) अवग्, (चर्त्वम्) अवक्
(२) अवाव्रश्च् → स्कोः संयोगाद्योरन्ते च इत्यनेन सकारलोपः → अवाव्रच् → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः इत्यनेन षकारदेशः → अवाव्रष् → (जश्त्वम्) अवाव्रड्, (चर्त्वम्) अवाव्रट्
टवर्गान्तधातुः— जश्त्वे डकारादेशः, चर्त्वे टकारादेशः | यथा अतृणेढ् → (जश्त्वम्) अतृणेड्, (चर्त्वम्) अतृणेट्
तवर्गान्तधातुः— जश्त्वे दकारादेशः, चर्त्वे तकारादेशः | यथा अरुणध् → (जश्त्वम्) अरुणद्, (चर्त्वम्) अरुणत्, (सिपि वा रुत्वम्) अरुणः |
अत्र प्रश्नः उदेति— यया रीत्या भू + शप् → 'भव' इत्यस्य धातुसंज्ञा नास्ति, तया एव रीत्या रुध् + श्नम् → → 'अरुणध्' इत्यस्य धातुसंज्ञा अपि न स्यात् किल ? अत्र तन्मध्यपतितस्तद्ग्रहणेन गृह्यते (८९) इति परिभाषया यस्य मध्ये पतितः तस्य ग्रहणम् | इति कृत्वा धातुसंज्ञा भवत्येव |
दकारान्तधातुः— जश्त्वे दकारादेशः, चर्त्वे तकारादेशः, सिपि वा रुत्वम् | यथा अमोमोद् → (जश्त्वम्) अमोमोद्, (चर्त्वम्) अमोमोत्, (सिपि वा रुत्वम्) अमोमोः
पवर्गान्तधातुः— जश्त्वे बकारादेशः, चर्त्वे पकारादेशः | यथा अलालभ् → (जश्त्वम्) अलालब्, (चर्त्वम्) अलालप्
षकारान्तधातुः— जश्त्वे डकारादेशः, चर्त्वे टकारादेशः | षकारस्य उच्चाराणस्थानं मूर्धा अतः मूर्धन्यवर्गस्य (इत्युक्तौ टवर्गस्य) आदेशो भवति | यथा अद्वेष् → (जश्त्वम्) अद्वेड्, (चर्त्वम्) अद्वेट्
शकारान्तधातुः— व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः इत्यनेन शकारस्य स्थाने षकारादेशः | तदा जश्त्वे डकारादेशः, चर्त्वे टकारादेशः | यथा अवश् → अवष् → (जश्त्वम्) अवड्, (चर्त्वम्) अवट्
सकारान्तधातुः— तिप्यनस्तेः इत्यनेन तिपि अन्तिमसकारस्य दकारादेशः | यथा अचकास् → (दत्वम्) अचकाद्, (चर्त्वम्) अचकात्
— सिपि धातो रुर्वा इत्यनेन विकल्पेन रु-आदेशः | यथा अचकास् → (दत्वम्) अचकाद्, (चर्त्वम्) अचकात्, (रुत्वम्) अचकाः
हकारान्तधातुः— यथा अलिह् + त् → त्-लोपः → अलिह् → हो ढः इत्यनेन ह्-स्थाने ढ् → अलिढ् → (जश्त्वम्) अलिड्, (चर्त्वम्) अलिट् | एवमेव अतृणेह् → (जश्त्वम्) अतृणेड्, (चर्त्वम्) अतृणेट्
दकारादि-हकारान्तधातुः— दुह्, दिह् इत्यादयः | यथा अदोह् + त् → हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् इत्यनेन त्-लोपः → अदोह् → दादेर्धातोर्घः इत्यनेन ह्-स्थाने घ् → अदोघ् → एकाचो बशो भष् झषन्तस्य स्ध्वोः इत्यनेन बशो भष् (३४ → ४४) → अधोघ् → (जश्त्वम्) अधोग्, (चर्त्वम्) अधोक्
इति हलन्तेभ्यो धातुभ्यो लङ्-लकारस्य त्-प्रत्ययः स्-प्रत्ययश्चेत्यनयोः योजनविधिः |
अभ्यासः—
लङ्-लकारस्य तिप्-प्रत्यये परे रूपं कल्पनीयम् | सिपि भिद्यते चेत्, तदपि वक्तव्यम् |
अदादिगणे—
शास्, वच्, मृज्, संस्त् (लटि संस्ति), दुह्, विद्, हन्, वश्, द्विष्, दिह्, सस्, चकास्, लिह्
जुहोत्यादिगणे—
धन् → दधन्, धिष् → दिधिष्, निज् → नेनिज्, तुर् → तोतुर्, जन् → जजन्,
रुधादिगणे—
विच् → विनच्, युज् → युनज्, छिद् → छिनद्, रुध् → रुणध्, भुज् → भुनज्, शिष् → शिनष्, रिच् → रिणच्, उद् → उनद्, हिंस् → हिनस्, भिद् → भिनद्, तृह् → तृणह् → तृणह इम् (७.३.९२) → तृणेह्
यङ्लुकि—
लबि अवस्रंसने* भ्वादिगणे → लब् → इदितो नुम धातोः (७.१.५८) → लन्ब् → नश्चापदान्तस्य झलि (८.३.२४) → लंब् → अनुस्वारस्य ययि परसवर्णः (८.४.५८) → लम्ब् → लटि → लम्ब् + शप् + ते → लम्ब + ते → लम्बते | अत्र लङि अलम्ब् + अ + त → अलम्बत | हल्-सन्धेः अभ्यासस्य अवसरो नास्ति यतोहि अङ्गम् अदन्तम् |
*अवस्रंसनम् इति अधःपतनम् |
यङ्लुकि किन्तु—
लबि → लब् → इदितो नुम धातोः (७.१.५८) → लन्ब् → नश्चापदान्तस्य झलि (८.३.२४) → लंब् → अनुस्वारस्य ययि परसवर्णः (८.४.५८) → लम्ब् → लालम्ब् इति धातुः |
लङि—
लबि → लब् → इदितो नुम धातोः (७.१.५८) → लन्ब् → नश्चापदान्तस्य झलि (८.३.२४) → लंब् → अनुस्वारस्य ययि परसवर्णः (८.४.५८) → लम्ब् → लालम्ब् → अलालम्ब् + त् → हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (६.१.६८) → अलालम्ब् → पदसंज्ञायां सत्यां संयोगान्तस्य लोपः (८.२.२३) → अलालम् → मो नो धातोः (८.२.६४) इत्यनेन मकारान्तस्य धातोः पदस्य नकारादेशः → अलालन्
इति चिन्तने सति वस्तुतस्तु अनेकसमस्याः, ताश्च एताः—
१) संयोगान्तस्य लोपः (८.२.२३) इति त्रिपादिसूत्रं, नश्चापदान्तस्य झलि (८.३.२४) च अनुस्वारस्य ययि परसवर्णः (८.४.५८) च सूत्रद्वयं प्रति पूर्वसूत्रम् | अतः संयोगान्तस्य लोपः (८.२.२३) तु अलालन्ब् इत्येव पश्यति | अलालन्ब् इत्यस्य एव बकारस्य लोपं करोति, येन अलालन् साक्षात् सिध्यति |
२) संयोगान्तस्य लोपः (८.२.२३) इत्यनेन अलालम्ब् → अलालम् इति स्वीकुर्मः चेदपि निमित्तापाये नैमित्तिकस्याप्यपायः* → बकारः तु अनुस्वारस्य मकारस्य च निमित्तं; तस्य अपाये नैमित्तिकस्य अपि अपायः → अनेन मकारः पुनः नकारो भवति → अलालन्
*नाम निमित्तस्य अपाये नैमित्तिकस्य अपि अपायः | निमित्तम् इत्युक्ते कारणं, नैमित्तिकम् इत्युक्ते फलम्, अपायः इत्युक्ते अभावः |
३) संयोगान्तस्य लोपः (८.२.२३) इत्यनेन अलालम्ब् → अलालम् इति स्थितौ नैमित्तिकस्य अपायं न कुर्मः चेदपि मो नो धातोः (८.२.६४) इति अपि त्रिपाद्यां पूर्वत्रिपादिसूत्रम् | नश्चापदान्तस्य झलि (८.३.२४) च अनुस्वारस्य ययि परसवर्णः (८.४.५८) इत्यनयोः कार्यमेव न पश्यति | इदितो नुम धातोः (७.१.५८) इत्यनेन व्युत्पन्नं नकारमेव पश्यति, अलालन् | मो नो धातोः (८.२.६४), 'अलालन्' इति रूपं दृष्ट्वा किमपि न करोति |
अतः कया अपि दृष्ट्या अनुस्वारादेशः च मकारादेशः च न भवतः | अन्ततो गत्वा क्रमः अयमेव—
लबि → लब् → इदितो नुम धातोः (७.१.५८) → लन्ब् → लालन्ब् → अलालन्ब् + त् → त्-लोपः → अलालन्ब् → संयोगान्तस्य लोपः (८.२.२३) → अलालन्
केचन वैयाकरणाः निमित्तस्यापाये नैमित्तिकस्यापि अपायः इति न मन्यन्ते यतोहि अयं न न्यायः न वा परिभाषा | काशिकान्यासे पदमञ्जर्यां च च्छ्वोः शूडनुनासिके च (६.४.१९) इत्यस्य व्याख्याने तथा उच्यते | एवं दृष्ट्या वक्तव्यं चेत्, अकृतव्यूहाः पाणिनीयाः (५६) इति परिभाषया नशिष्यमाणं निमित्तं न स्वीकर्तव्यम् इत्यस्मात् लङ्लकारे प्रथमपुरुषैकवचने बकारस्य नशिष्यमाणत्वात् नश्चापदान्तस्य झलि (८.३.२४) च अनुस्वारस्य ययि परसवर्णः (८.४.५८) इत्याभ्यां कार्यं न साधनीयमेव | तथा सति प्रक्रिया एवम्—
लबि → लब् → इदितो नुम धातोः (७.१.५८) → लन्ब् → लालन्ब् → लङ्लकारे त्-प्रत्ययस्य लोपे सति बकारलोपस्य करिष्यमाणत्वात् निमित्तनशिष्यमाणत्वात् नश्चापदान्तस्य झलि (८.३.२४) च अनुस्वारस्य ययि परसवर्णः (८.४.५८) इत्यनयोः कार्यं न भवति → अलालन्ब् + त् → त्-लोपः → अलालन्ब् → संयोगान्तस्य लोपः (८.२.२३)* → अलालन्
*अत्र पूर्वत्रासिद्धम् इत्यनेन नश्चापदान्तस्य झलि (८.३.२४) इत्यत्र शास्त्रासिद्धम् |
प्रच्छ् → पाप्रच्छ्
दुह् → दोदुह्
मघि → मामन्घ्
व्रश्च् → वाव्रश्च्
स्यन्दू → स्यन्द् → सास्यन्द्
सृज् → सरीसृज् → सृजिदृशेर्झल्यमकिति (६.१.५८) इत्यनेन अम्-आगमः → सरीसृ-अ-ज् → इको यणचि इत्यनेन यण् → सरीस्रज्
मुर्छा → मुर्छ्-धातुः, यङ्लुकि मोमुर्छ्-धातुः
बुध् → बोबुध्
लाछि → लाछ् → लान्छ् → लालान्छ्
भ्रस्ज् → बाभ्रस्ज्
दध् → दादध्
भ्रम् → बम्भ्रम्
ध्रस् → दाध्रस्
सृप् → सरीसृप्
जसि → जन्स् → जाजन्स्
हुर्छा → हुर्छ् → जोहुर्छ्
वृत् → वरीवृत्
वृत् → वरीवृत् → अवरीवृत् + त् → पुगन्तलघूपधस्य च (७.३.८६) → अवरीवर्त् + त् → हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (६.१.६७) → अवरीवर्त् → रात्सस्य (८.२.२४) इत्यनेन त्-लोपः बाधितः → अवरीवर्त् → झलां जशोऽन्ते (८.२.३९) → अवरीवर्द् → वाऽवसाने (८.४.५६) → अवरीवर्त् / अवरीवर्द्
सिपि परे अवरीवृत् → यथा तिपि परे → अवरीवर्त् / अवरीवर्द् → दश्च (८.२.७५) इत्यनेन सिपि परे धातोः पदान्त-दकारस्य स्थाने विकल्पेन रु-आदेशो भवति → अवरीवर्र् → रो रि (८.३.१४) इत्यनेन रेफस्य रेफे परे लोपः → र-लोपः → अवरीवर् → ढ्रलोपे पूर्वस्य दीर्घोऽणः (६.३.१११) इत्यनेन ढरेफयोर्लोपनिमित्तयोः पूर्वस्याणो दीर्घः → अवरीवार् → खरवसानयोर्विसर्जनीयः इत्यनेन अवसाने र्-स्थाने विसर्गादेशः → अवरीवाः
रो रि (८.३.१४) = रेफस्य लोपः रेफे परे | रः षष्ठ्यन्तं, रि सप्तम्यन्तं, द्विपदमिदं सूत्रम् | ढो ढे लोपः (८.३.१३) इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— रः लोपः रि संहितायाम् |
ढ्रलोपे पूर्वस्य दीर्घोऽणः (६.३.१११) = ढरेफयोर्लोपनिमित्तयोः पूर्वस्याणो दीर्घः | ढकाररेफयोः लोपस्य निमित्तकढकाररेफे परे, अण्-प्रत्याहारे स्थितस्य दीर्घादेशो भवति | ढ्रलोपे इति द्वन्द्वगर्भ-उपपदतत्पुरुषसमासः— ढ् च र् च ढ्रौ, इतरेतरद्वन्द्वः, ढ्रौ लोपयतीति ढ्रलोपः, तस्मिन् ढ्रलोपे | ढ्रलोपः गर्भद्वन्द्वः उपपदतत्पुरुषः | ढ्रलोपे सप्तम्यन्तं, पूर्वस्य षष्ठ्यन्तं, दीर्घः प्रथमान्तम्, अणः षष्ठ्यन्तम्, अनेकपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूरणम्— ढ्रलोपे पूर्वस्य अणः दीर्घः |
विसर्गसन्धौ रेफस्य प्रसिद्धोदाहरणम् | पुनः रमते → पुनर् + रमते → रो रि (८.३.१४) इत्यनेन रेफस्य रेफे परे लोपः → पुन + रमते → ढ्रलोपे पूर्वस्य दीर्घोऽणः → पुना रमते | अस्मिन् वृत्तान्ते रेफः एव रेफस्य लोपस्य निमित्तम् | रेफलोपनिमित्तकरेफात् प्राक् अण्-प्रत्याहारे अन्यतमवर्णोऽस्ति (अकारः इति) अतः अणः दीर्घत्वं भवति |
अत्र कश्चन प्रश्नः उदेति यत् रो रि (८.३.१४) त्रिपादिसूत्रं, ढ्रलोपे पूर्वस्य दीर्घोऽणः (६.३.१११) च सपादसप्ताध्याय्याम् इति कारणतः पूर्वत्रासिद्धम् (८.२.१) इत्यनेन रो रि (८.३.१४) इत्यस्य कार्यम् असिद्धं न भवति किम् ? अत्र सिद्धान्तः कार्यं करोति आश्रयात् सिद्धत्वम् | यावत् पर्यन्तं रो रि (८.३.१४) न स्यात्, तावत् पर्यन्तं ढ्रलोपे पूर्वस्य दीर्घोऽणः (६.३.१११) इत्यस्य रेफनिमित्तकप्रसक्तिर्न भविष्यति एव | रो रि (८.३.१४) इत्यस्य आश्रयेण ढ्रलोपे पूर्वस्य दीर्घोऽणः (६.३.१११) इत्यस्य कार्यं सिध्यति | रो रि (८.३.१४) नास्ति चेत् ढ्रलोपे पूर्वस्य दीर्घोऽणः (६.३.१११) निरवकाशं भवति | रो रि (८.३.१४) इति सूत्रं त्यक्त्वा 'ढ्रलोपे' इत्यस्य रेफनिमित्तकत्वं निरर्थकम् | किमर्थं न ढ्रलोपे पूर्वस्य दीर्घोऽणः (६.३.१११) इति सूत्रं रो रि (८.३.१४) इत्यस्य अनन्तरंम् अष्टाध्याय्यां स्थाप्येत इति चेत्, ढ्रलोपे पूर्वस्य दीर्घोऽणः (६.३.१११) इत्यस्य 'दीर्घ'-शब्दस्य अनुवृत्तिः आवश्यकी ६.३.११२ इत्यस्मात् आरभ्य ६.४.१८ इति यावत् |
तुर्वी → तोतुर्व्
वृध् → वरीवृध्
दुर्वी → दोदुर्व्
वृश् → वरीवृश्
मुर्वी → मोमुर्व्
कृश् → चरीकृश्
कृष् → चरीकृष्
८ - धातुपाठे हल्-सन्धिः १.pdf (132k) Swarup Bhai, Jul 23, 2019, 11:25 PM v.1
Swarup – Sept 2013 (Updated April 2015 & May 2018)