02B - अव्ययीभावसमासः, द्वितीयभागः

From Samskrita Vyakaranam
14---samAsaH/2B--avyayibhavasamasah-dvitiiyabhAgaH
Jump to navigation Jump to search
२०२१ ध्वनिमुद्रणानि
)  avyayiibhAvasamAssaH-- yathAsAdrishyE_2021-01-09
२) avyayiibhAvasamAsaH--yAvadavadhAraNam+ sup pratina mAtrArthE_2021-01-16
३) avyayiibhAvasamAsaH-- sup pratinA mAtrArthe_ 2021-01-23
४)  avyayiibhAvasamAsaH-- sup pratinA mAtrArthe+ akSHa shalAkA sankhyAya pariNA_ 2021-01-30
५)  avyayiibhAvasaMasaH-- apaparibahiraNycavaH panchamyA_ 2021-02-06
६) avyayiibhAvasamAsaH-- apa-pari-bahir-aNYcavaH panchamyA _ 2021-02-12
७) avyayiibhAvasamAsaH-- apa-pari-bahir-aNycavaH panchamyA - udAharaNani_ 2021-02-20
८) avyayiibhAvasamAsaH--abhyAsaH+ Ang maryAdhAbhividhyoH_ 2021-02-27
९) avyayiibhAvasamAsaH--Ang maryadhAbhividhyoH+udAharaNani_  2021-03-06
१०) avyayiibhAvasamAsaH-- lakShaNenAbhipratI, AbhimukhyE_ 2021-03-13
११) avyayiibhAvasamAsaH--lakshaNenAbhiprati AbhimukhyE- udAharaNAni_ 2021-03-20
१२) avyayiibhAvasamAsaH- anuryatsamayA_ 2021-03-27
१३) avyayiibhAvasmAsaH--yasyacAyAmaH_ 2021-04-03
१४) avyayiibhAvasamAsaH--anuryatsamayA+ tishtadguprabhRitIni ca_ 2021-04-10
१५) avyayiibhAvasamAsaH-tishtHadguprabhRitIni ca+ pArE madhyE SHaSHThya vA_2021-04-17
१६) avyayiibhAvasamAsaH- pArE madhyE ShaShTyA vA _ 2021-04-24
१७) avyayiibhAvasamAsaH- saMkhyA vaMshyEna_ 2021-05-01
१८)  avyayiibhAvasamAsaH-- nadIbhishca_ 2021-05-08
१९) avyayiibhAvasamAsaH-- bhAshitapumskam+ anyapadArthe ca saMjYAyAm_2021-05-15
२०) avyayiibhAvasamAsaH-- abhyAsaH_ 2021-05-29


सम्प्रति अव्ययीभावः ( २.१.५) इति अधिकारे २.१.७ - २.१.२१ इति अन्तपर्यन्तम् यानि अव्ययीभावसम्बद्धसूत्राणि सन्ति, तानि अवलोकयाम | अस्मिन् क्रमे प्रथमं सूत्रम् अस्ति यथाऽसादृश्ये ( २.१.७) इति | एतावता अस्माभिः ज्ञातमेव यत् यथा इति अव्ययस्य चत्वारः अर्थाः सन्ति - योग्यता, वीप्सा, पदार्थानतिवृत्ति, सादृश्यञ्चेति | यथाऽसादृश्ये ( २.१.७) इति सूत्रे यथा इत्यस्य सादृश्यं विहाय अन्येषु अर्थेषु समास: |

2) सादृश्यार्थं विहाय अन्येषु अर्थेषु यथा इति अव्ययं सुबन्तेन सह समस्यते, अव्ययीभावसमासः च भवति |


यथाऽसादृश्ये (२.१.७) [2]

यथाऽसादृश्ये (२.१.७) = सादृश्यम् इति अर्थं विहाय अपरेषु अर्थेषु "यथा" इति अव्ययं समर्थेन सुबन्तेन सह समस्यते, अव्ययीभावसमासः च भवति | न सादृश्यम् असादृश्यं तस्मिन् आसादृश्ये | यथा अव्ययम्, असादृश्ये सप्तम्यन्तम् | सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | सह सुपा (२.१.४) इत्यस्मात् सूत्रात् सुपा इत्यस्य अनुवृत्तिः भवति | प्राक्कडारात्समासः (२.१.३) इत्यस्य अधिकारः अस्ति | समर्थः पदविधिः (२.१.१) इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति | अव्ययीभावः (२.१.५) इत्यस्य अधिकारः | अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु ( २.१.६) इत्यस्मात् सूत्रात् अव्ययम् इत्यस्य अनुवृत्तिः भवति | अनुवृत्ति-सहित-सूत्रम्‌— असादृष्ये यथा अव्ययं सुप् सुपा सह अव्ययीभावः समासः |


यथा इति अव्ययं वीप्सार्थे, योग्याथार्थे च सुबन्तेन सह समस्यते यथाऽसादृश्ये (२.१.७) इति सूत्रेण | पदार्थानतिवृत्तिः इत्यस्मिन् अर्थे यथा इत्यस्य समासः सिद्ध्यति अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  (२.१.६) इत्यनेन एव, अतः यथाऽसादृश्ये (२.१.७) इति सूत्रस्य आवश्यकता नास्ति |


यथा—

१) ये ये वृद्धाः = यथावृद्धम् | अत्र यथा इति पदं सादृश्यर्थे नास्ति | ये ये वृद्धाः` इत्यत्र यथाशब्दः वीप्सायां वर्तते, अतः `यथावृद्धम्` इति समासः सिद्धः भवति |

वाक्यं = यथावृद्धं ब्राह्मणान् आमन्त्रयस्व | ये ये वृद्धब्राह्मणाः सन्ति तान् आह्वय इत्यर्थः |

२) ये ये अध्यापकाः = यथाध्यापकम् | अत्रापि यथाशब्दो वीप्सायां वर्तते |

३) ये ये छात्राः = यथाछात्रम् | अत्रापि यथाशब्दो वीप्सायां वर्तते |

४) रूपस्य योग्यं = यथारूपम् | अत्र यथाशब्दो योग्यतायां वर्तते |

५) यथा हरिस्तथा हरः – हरेः उपमानत्वं यथाशब्दः द्योतयति | यथा शब्दः सादृश्यार्थं सूचयति| यथा हरिः अस्ति तथैव हरः अपि अस्ति |  यथा हरिस्तथा हरः इति वाक्ये यथा शब्दः सादृस्यार्थे अस्ति, अतः अव्ययीभावसमासः न भवति यथाऽसादृश्ये (२.१.७) इति सूत्रेण |

६) यथा देवदत्तः तथा यज्ञदत्तः | अस्मिन् वाक्ये यथा शब्दः सादृस्यार्थं सूचयति, अतः अव्ययीभावसमासः न भवति |


प्रश्नः उदेति यत् यथा इति अव्ययस्य अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  (२.१.६) इति सूत्रेणैव अव्ययीभावसमासः सिद्धः, तर्हि किमर्थम् प्रकृतसूत्रे पुनः उक्तः ?



समाधानम् —

यथा इत्यस्य चत्वारः अर्थाः सन्ति - योग्यता, वीप्सा, पदार्थानतिवृत्ति, सादृश्यञ्चेति | एतेषु अर्थेषु  तु समासः प्राप्तः आसीत्

अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  ( २.१.६) इति सूत्रेणैव तर्हि प्रकृतसूत्रस्य का आवश्यकता इति पृष्टे सति प्रकृतसूत्रेण प्राप्तसमासस्य निषेधः क्रियते सादृश्यार्थे |


काशिकायाम् उक्तम् अस्ति — यथार्थे यत् अव्ययं पूर्वेण एव सिद्धे समासे सूत्रम् इदं सादृश्यप्रतिषेधार्थम् इति | अर्थात् यथा इति अव्ययस्य समासः सिद्धः अस्ति अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  ( २.१.६) इति सूत्रेणैव, तर्हि किमर्थं पाणिनिना पुनः यथाऽसादृश्ये (२.१.७) इति सूत्रं कृतम् इति चेत् सादृश्स्यार्थस्य निषेधार्थम् | यथा इति अव्ययस्य सादृश्यं विहाय अन्येषु अर्थेषु एव अत्र अव्ययीभावसमासः उच्यते |


सारांशः = सादृश्यं-योग्यता-वीप्सा-पदार्थानतिवृत्तिः इति रूपे वर्तमानं यथा इति अव्ययं समस्यते इति अर्थस्य यथार्थत्वात्  (नाम अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  (२.१.६) इति सूत्रेणैव)  सिद्धे नियमार्थम् यथाऽसादृश्ये (२.१.७) इति सूत्रम् उच्यते, असादृश्ये एव इति | तर्हि नियमसूत्रं नाम किम् इति अग्रे उच्यते |



नियमसूत्रं नाम किम् ?

वस्तुतः प्रकृतसूत्रं केवलं वदति यत्‌ यथा इति अव्ययस्य अव्ययीभावसमासः भवति परन्तु सादृश्यार्थे न |

सिद्धे सति आरभ्यमाणो विधिर्नियमाय भवति  इति नियमसूत्रस्य लक्षणम् | अयम् अव्ययीभावसमासः पुनः उक्तः यथाऽसादृश्ये (२.१.७) इति सूत्रे यतोहि अनेन नियमयति; यथाऽसादृश्ये (२.१.७) इति सूत्रं नियमसूत्रम्‌ | अस्य अव्ययीभावसमासस्य पुनः कथनेन केवलम् असादृश्यार्थे, सादृश्यार्थे न इति फलितार्थः |


उपरि गम्यताम्




यावदवधारणे (२.१.८) [3]

3) अवधारणार्थे यावत् इति अव्ययं सुबन्तेन सह समस्यते, अव्ययीभावसमासः च भवति |


यावदवधारणे (२.१.८) = अवधारणार्थे यावत् इति अव्ययस्य समर्थेन सुबन्तेन सह समस्यते | अवधारणं नाम निश्चयः (indication of a number) | इयत्तापरिच्छेदे गम्ये यावत् इति अव्ययं समस्यते, सोऽव्ययीभावः इत्यर्थः | यावद् अव्ययम्, अवधारणे सप्तम्यन्तम् | सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | सह सुपा (२.१.४) इत्यस्मात् सूत्रात् सुपा इत्यस्य अनुवृत्तिः भवति |  प्राक्कडारात्समासः (२.१.३) इत्यस्य अधिकारः अस्ति | समर्थः पदविधिः (२.१.१) इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति | अव्ययीभावः (२.१.५) इत्यस्य अधिकारः | अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु   ( २.१.६) इत्यस्मात् सूत्रात् अव्ययम् इत्यस्य अनुवृत्तिः भवति | अनुवृत्ति-सहित-सूत्रम्‌— अवधारणे यावत् अव्ययं सुप्  सुपा सह अव्ययीभावः समासः |



यथा –

१) यावन्ति पत्राणि = यावत्पत्रम् | यावन्ति पत्राणि तावन्ति भोजनानि |  यावत् इति शब्दः अवधारणार्थे अस्ति यतो हि कति पत्राणि इति गणयितुं शक्यते | २) यावन्तः श्लोकाः तावन्तः अच्युतप्रणामाः = यावच्छ्लोकम् | प्रेत्येकस्मिन् श्लोके ईश्वरस्य प्रणमनं भवति एव | यावत् इति शब्दः अवधारणार्थे अस्ति |


२) यावन्तः श्लोकाः तावन्तः अच्युतप्रणामाः = यावच्छ्लोकम् | प्रेत्येकस्मिन् श्लोके ईश्वरस्य प्रणमनं भवति एव | यावत् इति शब्दः अवधारणार्थे अस्ति |

अलौकिकविग्रहवाकयं = यावत् + श्लोक + जस् | अत्र यावदवधारणे (२.१.८) इति सूत्रेण अव्ययीभावसमासः भवति | प्रक्रिया यथा पूर्वं प्रदर्शिता |

यावत् + श्लोक इति प्रातिपदिकम्, अधुना सन्धिकार्याणि करणीयानि |

यावद् + श्लोक → झलां जशोऽन्ते (८.२.३९) इत्यनेन जश्त्वं येन तकारस्य स्थाने दकारादेशः भवति पदान्ते | यावत् इत्यस्य पदसंज्ञा अस्ति इति स्मर्तव्यम् |

यावज् + श्लोक → स्तोः श्चुना श्चुः (८.४.४०) इत्यनेन दकारस्य स्थाने जकारादेशः भवति शकारस्य प्रभावेण |

यावच् + श्लोक → खरि च (८.४.५५) इत्यनेन झलः स्थाने चरादेशो भवति खरि परे | अतः जकारस्य स्थाने चकारादेशः भवति |

यावच् + छ्लोक → शश्छोऽटि (८.४.६३) इत्यनेन पदान्तस्य झयः उत्तरस्य शकारस्य अटि परे छकारादेशो भवति अन्यतरस्याम्‌ | यावच् इत्यत्र चकारः पदान्ते विद्यमानः झयवर्णः, तस्य अनन्तरं शकारः अस्ति | शकारस्य अनन्तरं लकारः अम्वर्णः अस्ति अतः  शश्छोऽटि (८.४.६३) इत्यनेन शकारस्य स्थाने छकारादेशो भवति | छत्वममीति वाच्यम्‌ इति वार्तिकेन इदं कार्यं न केवलम्‌ अटि परे अपि तु अमि परेऽपि |

यावच्छ्लोक इति प्रातिपदिकं निष्पन्नं, तस्मात् सुबुत्पत्तिः भूत्व यावच्छ्लोकम् इति अव्ययीभावसमासः सिद्धः भवति | समासे सन्धिः नित्यः इत्यतः एकमेव रूपं भवति |


३) यावान्तः कालाः = यावत्कालम्

४) यावत्यः आसन्द्यः = यावदासन्दि | आसन्दी इति प्रातिपदिकम् | ५) यावन्तः मन्त्राः, तावन्तः पुष्पाणि = यावन्मन्त्राः |

५) यावन्तः मन्त्राः, तावन्तः पुष्पाणि = यावन्मन्त्राः |

६) यावत्यः कथाः = यावत्कथम् |


अन्यत् उदाहरणम् – यावद् दत्तम् तावद् भुक्तम् | अस्य  अव्ययीभावसमासः न भवति यावदवधारणे (२.१.८) इति सूत्रेण यद्यपि यावत् इति शब्दः अस्ति यतोहि भुक्तम् इति पदम् अवधारणार्थे नास्ति |


झलां जशोऽन्ते (८.२.३९),स्तोः श्चुना श्चुः (८.४.४०), खरि च (८.४.५५), शश्छोऽटि (८.४.६३)


झलां जशोऽन्ते (८.२.३९)

पदान्ते झलः स्थाने जशादेशो भवति | पदात्‌ परे कोऽपि वर्णः स्यात्‌ वा न वा, सूत्रस्य प्रसक्तिः अस्ति एव | पदात्‌ परे अच्‌ स्यात्‌ हल्‌ स्यात्‌ वा, सूत्रस्य प्रसक्तिः अस्ति एव | बाधकसूत्रम्‌ अस्ति चेत्‌ अन्या वार्ता | झल्‌ प्रत्याहारे पञ्चमवर्गीय-व्यञ्जनानि वर्जयित्वा सर्वाणि वर्गीयव्यञ्जनानि (नाम अननुनासिक-वर्गीयव्यञ्जनानि), अपि च श्‌, ष्‌, स्‌, ह्‌ | प्रयोगे वर्गाणां प्रथमः, द्वितीयः, तृतीयः, चतुर्थश्च वर्णाः आयान्ति | जश्‌ प्रत्याहारे वर्गाणां तृतीयवर्णः—ज्‌, ब्‌, ग्‌, ड्‌, द्‌ इति | स्थानेऽन्तरतमः (१.१.५०) इत्यनेन कवर्गीयाणां स्थाने गकारः, चवर्गीयाणां स्थाने जकारः, तवर्गीयाणां स्थाने दकारः, टवर्गीयाणां स्थाने डकारः, पवर्गीयाणां स्थाने बकारः इति | तर्हि पदस्य अन्ते झल्‌-प्रत्याहारे कश्चन वर्णः अस्ति चेत्‌, स्थाने तस्य वर्गस्य तृतीयवर्णादेशः भवति | अयं जश्त्वसन्धिः इत्युच्यते | झलां षष्ठ्यन्तं, जशः प्रथमान्तम्‌, अन्ते सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— पदस्य अन्ते झलां जशः |

स्तोः श्चुना श्चुः (८.४.४०)

सकारस्य तवर्गस्य च स्थाने शकारस्य चवर्गस्य च आदेशः भवति, शकारस्य चवर्गस्य च योजनेन | यथासंख्यमनुदेशः समानाम्‌ (१.३.१०) इति परिभाषा-सूत्रेण उद्देशिनाम्‌ अनुदेशिनां च यथाक्रमम्‌ उद्देशिभिः अनुदेशिनः संबन्ध्यन्ते | स्‌ च तुश्च स्तुः तस्य स्तोः, समाहारद्वन्द्वः | श्‌ च चुश्च श्चुः, तेन श्चुना, समाहारद्वन्द्वः | श्‌ च चुश्च श्चुः, समाहारद्वन्द्वः | स्तोः षष्ठ्यन्तं, श्चुना तृतीयान्तं, श्चुः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— स्तोः श्चुना श्चुः संहितायाम् |

खरि च (८.४.५५)

झलः स्थाने चरादेशो भवति खरि परे | खरि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | झलां जश्‌ झशि (८.४.५३) इत्यस्मात्‌ झलां इत्यस्य अनुवृत्तिः; अभ्यासे चर्च (८.४.५४) इत्यस्मात्‌ चर्च इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— झलां चर्‌ खरि च संहितायाम् ‌|


शश्छोऽटि (८.४.६३)

पदान्तस्य झयः उत्तरस्य शकारस्य अटि परे छकारादेशो भवति अन्यतरस्याम्‌ | शः षष्ठ्यन्तं, छः प्रथमान्तम्‌, अटि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | झयो होऽन्यतरस्याम्‌ (८.४.६२) इत्यस्मात्‌ झयः च अन्यतरस्त्याम्‌ चेत्यनयोः अनुवृत्तिः | वा पदान्तस्य (८.४.५९) इत्यस्मात्‌ पदान्तस्य इत्यस्य अनुवृत्तिः; विभक्तिपरिणामेन 'पदान्तात्‌' | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अट्‌ प्रत्याहारे सर्वे स्वराः, ह्‌, य्‌, व्‌, र् चान्तर्भूताः | अनुवृत्ति-सहितसूत्रं — पदान्तात्‌ झयः शः छः अटि संहितायम्‌ अन्यतरस्याम्‌ |


छत्वममीति वाच्यम्‌ इति वार्तिकेन इदं कार्यं न केवलम्‌ अटि परे अपि तु अमि परेऽपि |

धेयं यत्‌ शश्छोऽटि इति सूत्रं त्रिपादी सूत्रम्‌ अतः प्रथमं जश्त्वं, श्चुत्वं, चर्त्वम्‌ इत्यादिकं करणीयम्‌ | सामान्यतया चर्त्वम्‌ अन्तिमं फलम्‌ अतः यद्यपि झयः उक्तः, परन्तु व्यवहारे शः प्राक् चर् इति सामान्यम्‌ |

उपरि गम्यताम्




सुप् प्रतिना मात्रार्थे ( २.१.९) [4]

4) मात्रार्थे अव्ययं सुबन्तेन सह समस्यते, अव्ययीभावसमासः च भवति|


सुप् प्रतिना मात्रार्थे ( २.१.९) =   समर्थः सुबन्तपदं  मात्राऽर्थे वर्तमानेन प्रतिना शब्देन सह समस्यते, अव्ययीभावश्च समासो भवति | मात्रा इति शब्दस्य पर्यायशब्दाः - बिन्दुः, स्तोकं, लेशः, अल्पम् इत्यादयः | प्रति इति अव्ययं मात्रार्थं द्योतयति | सुप्  प्रथमान्तं, प्रतिना तृतीयान्तं, मात्रार्थे सप्तम्यन्तम् | सह सुपा (२.१.४) इत्यस्मात् सूत्रात् सुपा इत्यस्य अनुवृत्तिः भवति |  प्राक्कडारात्समासः (२.१.३) इत्यस्य अधिकारः अस्ति | समर्थः पदविधिः (२.१.१) इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति | अव्ययीभावः (२.१.५) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌—   सुप् मात्रार्थे  प्रतिना सुपा सह अव्ययीभावः समासः |

अस्मिन् सूत्रे सुप् इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं सुप् इति शब्दस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण | सुबन्तपदं समासे पूर्वं तिष्ठति इत्यर्थः निष्पन्नः | सुबन्तपदं पूर्वपदे भवति, उत्तरपदं प्रति इति अव्ययपदं भवति | अयं समासः नित्यः, न तु वैकल्पिकः  यतोहि विभाषा ( २.१.११) इत्यस्मात् सूत्रात् पूर्वम् अस्ति|


अस्मिन् सूत्रे किमर्थं सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिम् निराकृत्य साक्षात् सूत्रे एव सुप् इति उक्तम् ?


अस्य समाधानम् एव यत् अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  (२.१.६) इत्यस्मात् सूत्रात् अव्ययम् इत्यस्य अनुवृत्तिः मा भूत् इति कृत्वा सूत्रे एव सुप् इति साक्षात् उक्तम् |


यदि सुप् प्रतिना मात्रार्थे ( २.१.९)  इति सूत्रे सुप् इति नोक्तं तर्हि सुप् इत्यस्य अनुवृत्तिः भवति सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात्, तेन सह अव्ययम् इत्यस्य अपि अनुवृत्तिः भवति अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  ( २.१.६) इत्यस्मात् सूत्रात् | एतादृशः अनुवृत्तिक्रमः आसीत् पूर्वसूत्रपर्यन्तम् | तर्हि अस्मिन् सूत्रे अपि तथैव भवति | परन्तु तथा भवति चेत् कः क्लेशः इति अग्रे उच्यते |


यदि सुप्, अव्ययं च अनयोः पदयोः अनुवृत्तिः अभविष्यत् प्रकृतसूत्रे तर्हि पदद्वयम् अपि प्रथमान्तं पदम् अभविष्यत् | अव्ययम् इत्यस्य प्रथमान्तम् इति कारणेन तस्य द्वारा निर्दिष्टस्य प्रति इति अव्ययस्य अपि प्रथमा अभविष्यत् | अनेन प्रति इति शब्दस्य उपसर्जनसंज्ञा भूत्वा तस्य पूर्वनिपातः अभविष्यत् |  अस्यां स्थितौ  अनुवृत्ति-सहित-सूत्रं भवति ‌—  मात्रार्थे प्रति अव्ययं सुप् सुपा सह अव्ययीभावः समासः |  अस्यां स्थित्यां प्रति इति अव्ययं शाकः इति सुबन्तेन सह समस्यते चेत् प्रतिशाकम् इति समासः सिद्धः भवति | परन्तु तन्नेष्यते यतोहि समासे प्रति इति अव्ययम् उत्तरपदे स्यात् | लोके तु  शाकप्रति इति एव समासः विद्यते यत्र अव्ययपदम् उत्तरपदे अस्ति न तु पूर्वपदे, अतः एतादृशसमासानां साधनार्थमेव प्रकृतसूत्रे सुप् इति पदं स्थापितम् अस्ति  पाणिनिना | अर्थात् पूर्वाभ्यां सूत्राभ्यां सुप्, अव्ययं च अनयोः पदयोः अनुवृत्तेः निवारणार्थं प्रकृतसूत्रे एव सुप् इति उक्तम् |


अन्यविषयः कः इति चेत् प्रकृतसूत्रे प्रति इति शब्दः तृतीयाविभक्तौ अस्ति | अतः कथं वा तस्य प्रथमायां परिवर्तनं भवति इत्यपि प्रश्नः उदेति | यदि चिन्तनार्थं वयं वदामः यत् प्रति इति अव्ययं तृतीयायामेव स्यात् तस्य परिवर्तनं मा भूत्, सुप्, अव्ययं च अनयोः पदयोः अनुवृत्तिः क्रियते प्रकृतसूत्रे | अस्यां स्थितौ किं भविष्यति?


अव्ययम् इति पदं प्रथमान्तं पदम् अभविष्यत्, सुप् इति पदस्य अपि प्रथमान्तमेव | परन्तु प्रति इति अव्ययं तु तृतीयायाम् अस्ति | अनेन मात्रार्थे अव्ययं सुप् प्रतिना सुपा सह समस्यते इति अर्थः निष्पद्यते |  अनुवृत्ति-सहित-सूत्रं भवति ‌—   मात्रार्थे अव्ययं सुप्  प्रतिना  सुपा सह अव्ययीभावः समासः |  एतादृशः अर्थः नेष्यते एव इत्यतः सुप्, अव्ययं च अनयोः पदयोः अनुवृत्तिः अपि निराकृता |


सुप् प्रतिना मात्रार्थे ( २.१.९) इति सूत्रे प्रतिना इति पदं तृतीयान्तं पदम् अस्ति, अतः तस्य उपसर्जनसंज्ञा कदापि न भवति प्रथमानिर्दिष्टं समास उपसर्जनम् ( १.२.४३) इत्यनेन | अनेन अपि ज्ञायते यत् प्रति इति शब्दस्य पूर्वनिपातः नैव भवति इति | परन्तु स्पष्टप्रतिपत्त्यर्थं प्रकृतसूत्रे एव पाणिनिना सुप् इत्युक्तम्  |


सारांशः अस्ति यत् इष्टसाधानार्थं प्रकृतसूत्रे एव सुप् इति कथनम् उचितम्  इति कृत्वा सुप्, अव्ययं च अनयोः पदयोः अनुवृत्तिः नेष्यते अस्मिन् सूत्रे |


यथा -

१) सूपस्य लेशः = सूपप्रति | किञ्चित् सूपः इत्यर्थः | लेशः इति शब्दः अल्प-मात्रार्थे अस्ति इत्यतः प्रति इति शब्देन तस्य बोधनं क्रियते |

२) शाकस्य लेशः = शाकप्रति | किञ्चित् शाकम्  इत्यर्थः |

अलौकिकविग्रहवाक्यं – शाक + ङस् + प्रति | प्रक्रिया चिन्तनीया |


३) सर्पिषः लेशः = सर्पिःप्रति / सर्पि≍ प्रति |

अलौकिकविग्रहवाक्यं – सर्पिस् + ङस् + प्रति |

सर्पिस् + प्रति इति प्रातिपदिकम् |

सर्पिस् + प्रति   अधुना ससजुषो रुः (८.२.६६) इत्यनेन पदान्त-सकारस्य स्थाने रु-आदेशो भवति | अतः सर्पिरु + प्रति इति भवति | रु इत्यत्र उकारः अनुनासिकः अतः तस्य इत्संज्ञा भूत्वा लोपः भवति| सर्पिर् + प्रति इति भवति |

सर्पिर् + प्रति  → खरवसानयोर्विसर्जनीयः (८.३.१५) इत्यनेन पदान्तस्य रेफस्य स्थाने विसर्गो भवति खरि परे | अतः सर्पिःप्रति इति भवति |

सर्पिः + प्रति अधुना  कुप्वोः ≍ क ≍ पौ च (८.३.३७) इत्यनेन कवर्गे परे पवर्गे च परे विसर्गस्य स्थाने उपध्मानीयः विसर्गादेशो भवति, पक्षे विसर्गः एव तिष्ठति | अतः सर्पिःप्रति /  सर्पि≍प्रति इति समासः सिद्ध्यति |

४) सुखस्य लेशः = सुखप्रति | ५) अन्नस्य लेशः = अन्नप्रति |

५) अन्नस्य लेशः = अन्नप्रति |

६) जलस्य लेशः = जलप्रति |

यदि वदामः वृक्षं वृक्षं प्रति = प्रतिवृक्षम् इति | प्रतिवृक्षम् इति समासे तु प्रति इति अव्ययं मात्रार्थे नास्ति इत्यतः प्रकृतसूत्रेण समासः न कार्यः | अस्मिन् उदाहरणे तु प्रति इति अव्ययं वीप्सार्थे अस्ति |


ससजुषो रुः (८.२.६६), खरवसानयोर्विसर्जनीयः (८.३.१५), विसर्जनीयस्य सः (८.३.३४), कुप्वोः ≍ क ≍ पौ च (८.३.३७)

ससजुषो रुः (८.२.६६)

पदान्त-सकारस्य च सजुष्‌-शब्दस्य षकारस्य च स्थाने रु-आदेशो भवति | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन न केवलं यत्‌ पदं सकारः अस्ति, अपि तु यस्य पदस्य अन्ते सकारः अस्ति | अलोऽन्त्यस्य (१.१.५२) इत्यनेन पदान्तस्य वर्णस्य स्थाने रु-आदेशः न तु पूर्णपदस्य | सश्च सजुश्च ससजुषौ, इतरेतरद्वन्द्वः, तयोः ससजुषोः | ससजुषोः षष्ठ्यन्तं, रुः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— ससजुषोः पदस्य रुः |

खरवसानयोर्विसर्जनीयः (८.३.१५)

पदान्तस्य रेफस्य स्थाने विसर्गो भवति खरि परे अथवा अवसानावस्थायाम्‌ | खर् च अवसानं च (तयोरितरेतरयोगद्वन्द्वः), खरवसाने, तयोः खरवसानयोः | खरवसानयोः सप्तम्यन्तं, विसर्जनीयः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | रो रि (८.३.१४) इत्यस्मात् रोः इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अलोऽन्त्यस्य (१.१.५२) इत्यनेन रेफान्तपदस्य न अपि तु पदान्तस्य रेफस्य स्थाने विसर्गादेशो भवति | अनुवृत्ति-सहितसूत्रं — खरवासनयोः पदस्य रः विसर्जनीयः संहितायाम्‌ |

विसर्जनीयस्य सः (८.३.३४)

विसर्जनीयस्य स्थाने सकारादेशो भवति खरि परे | विसर्जनीयस्य षष्ठ्यन्तं, सः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | खरवसानयोर्विसर्जनीयः (८.३.१५) इत्यस्मात्‌ खरि इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— विसर्जनीयस्य सः खरि संहितायाम्‌ |


कुप्वोः ≍ क ≍ पौ च (८.३.३७)

कवर्गे परे पवर्गे च परे विसर्जनीय-विसर्गस्य, जिह्वामूलीयस्य उपध्मानीयस्य च विसर्गादेशो भवति, पक्षे विसर्गः एव तिष्ठति | च-शब्देन पक्षे विसर्ग एव | विसर्जनीयस्य सः (८.३.३४) इत्यस्य अपवादः | कुश्च पुश्च कुपू, तयोः कुप्वोः इतरेतरद्वन्द्वः | ≍ कश्च ≍ पश्च ≍ क ≍ पौ, इतरेतरद्वन्द्वः | कुप्वोः सप्तम्यन्तं, ≍ क ≍ पौ प्रथमान्तं, च अव्ययं, त्रिपदमिदं सूत्रम्‌ | विसर्जनीयस्य सः (८.३.३४) इत्यस्मात्‌ विसर्जनीयस्य इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— विसर्जनीयस्य ≍ क ≍ पौ कुप्वोः च |


उपरितने सूत्रे 'कवर्गे परे पवर्गे च' इत्युक्तं; तर्हि कवर्गीयः पवर्गीयः वा हश्‌-वर्णः अस्ति चेदपि एतादृशं भवति किम्‌ ?


कुप्वोः ≍ क ≍ पौ च (८.३.३७) इत्यस्य कार्यं तदा एव भवति यदा विसर्गः आगतः | किन्तु अग्रे हश्‌-वर्णः अस्ति चेत्‌, खरवसानयोर्विसर्जनीयः (८.३.१५) इत्यस्य प्रसक्तिरेव नास्ति अतः विसर्गः न भवति एव | तस्मात्‌ कुप्वोः ≍ क ≍ पौ च (८.३.३७) इत्यस्य अवसरः न उदेति एव | अर्थात्  कुप्वोः ≍ क ≍ पौ च (८.३.३७) इत्यस्य कार्यं तदा एव भवति यदा विसर्गस्य अनन्तरं ककारः,खकारः, पकारः, फकारः च एतेषु कश्चन भवति चेत् |  ककारः, खकारः च परः चेत् जिह्वामूलीयस्य आदेशः विकल्पेन भवति | पकारः, फकारः च परः चेत्  उपध्मानीयस्य आदेशः विकल्पेन भवति |  अन्यस्मिन् पक्षे उभयत्र विसर्गादेशो तिष्ठति |


धेयं यत् अव्ययीभावसमासे प्रायेण पूर्वपदार्थस्य प्राधान्यम्  इत्युच्यते | परन्तु  सुप् प्रतिना मात्रार्थे ( २.१.९) इति सूत्रेण यः अव्ययीभावसमासः निष्पद्यते तस्मिन् पूर्वपदस्य प्राधान्यं नास्ति | शाकप्रति इति अव्ययीभावसमासः  सुप् प्रतिना मात्रार्थे ( २.१.९) इति सूत्रेण निष्पन्नः | अस्मिन् समासे प्रति इति अव्ययस्य प्राधान्यम् अस्ति यतोहि प्रति इति अव्ययं मात्रार्थं सूचयति | नाम शाकस्य लेशः इत्यस्मिन् अर्थे शाकप्रति इति वदामः | अनेन ज्ञायते यत् सर्वदा अव्ययीभावसमासे पूर्वपदस्य प्राधान्यं नास्ति | कुत्रचित् उत्तरपदस्य प्राधान्यम् अपि भवति यथा शाकप्रति इत्यत्र | तदर्थमेव व्याख्यानेषु अव्ययीभावसमासस्य विषये उच्यते यत् अव्ययीभावसमासे प्रायेण पूर्वपदार्थस्य प्राधान्यम् इति |

उपरि गम्यताम्





अक्ष-शलाका-संख्याः परिणा (२.१.१०) [5]

अक्ष-शब्दः, शलाका-शब्दः, सङ्ख्यावाचकशब्दः च परि इति सुबन्तेन सह समस्यन्ते, अव्ययीभावसमासः च भवति | एतस्य समासस्य प्रयोगः केवलं द्यूतक्रीडायामेव भवति |


अक्ष-शलाका-संख्याः परिणा (२.१.१०) = अक्षशब्दः (dice), शलाकाशब्दः (ivory piece used in gambling), सङ्ख्यावाचकशब्दश्च परिणा सह समस्यन्ते, अव्ययीभावश्च समासो भवति | द्यूतव्यवहारे पराजय एव अयं समासः | यदा द्यूतक्रीडायां पराजयस्य अर्थः प्रतीयमानः भवति तदानीं सूत्रोक्तानां शब्दानां समासः भवति परि इति अव्ययेन सह |  अक्षश्च शलाका च संख्या च तेषामितरेतरयोगद्वन्द्वः अक्षशलाकासङ्ख्याः | अक्षशलाकासङ्ख्याः प्रथमान्तं, परिणा तृतीयान्तम्| सुप् प्रतिना मात्रार्थे ( २.१.९) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | सुप् इत्यस्य वचनपरिणामं कृत्वा बहुवचने प्रयुक्तम् | सह सुपा (२.१.४) इत्यस्मात् सूत्रात् सुपा इत्यस्य अनुवृत्तिः भवति |  प्राक्कडारात्समासः (२.१.३) इत्यस्य अधिकारः अस्ति | समर्थः पदविधिः (२.१.१) इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति | अव्ययीभावः (२.१.५) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌ — अक्षशलाकासङ्ख्याः सुपः परिणा सुपा सह अव्ययीभावः समासः |


यथा- अक्षपरि |  

१) अक्षेण विपरीतं वृत्तम् ( वर्तते) = अक्षपरि | द्यूतव्यवहारे पराजयः इत्यर्थः | एकः पाशः विपरीतरीत्या पतितः, तेन पराजितः अभवत् |

अलौकिकविग्रहवाक्यं = अक्ष + टा + परि | अक्ष-शलाका-संख्याः परिणा (२.१.१०) इति सूत्रेण अव्ययीभावसमासः |

२) शलाकया विपरीतं वृत्तम् = शलाकापरि | एका शलाका विपरीतरीत्या पतति, तेन पराजितः अभवत् |

अलौकिकविग्रहवाकयं = शलाका+टा + परि | अक्ष-शलाका-संख्याः परिणा (२.१.१०) इति सूत्रेण अव्ययीभावसमासः|

३) एकेन विपरीतं वृत्तम् = एकपरि | एकः विपरीतरीत्या पतति, तेन पराजितः अभवत् |

अलौकिकविग्रहवाकयं = एक + टा + परि | अक्ष-शलाका-संख्याः परिणा (२.१.१०) इति सूत्रेण अव्ययीभावसमासः|

४) द्वाभ्यां विपरीतं वृत्तं = द्विपरि |

५) त्रिभिर्विपरीतं वृत्तं = त्रिपरि |

६) चतुर्भिः विपरीतं वृत्तं = चतुष्परि | चतुर्+ भिस्+ परि | चतुर्+परि → खरवसानयोर्विसर्जनीयः (८.३.१५) इत्यनेन पदान्तस्य रेफस्य स्थाने विसर्गो भवति खरि परे, अतः रेफस्य स्थाने विसर्गः आदिष्टः भवति खरि परे → चतुः+परि → अस्य विसर्गस्य ककारे / खकारे / पकारे / फकारे परे षत्वम् भवति इदुदुपधस्य चाप्रत्ययस्य ( ८.३.४१) इति सूत्रेण | इदुदुपधस्य चाप्रत्ययस्य  (८.३.४१) इति सूत्रेण इकारोपधस्य उकारोपधस्य प्रत्ययावयवभिन्नस्य विसर्गस्य स्थाने ककारे / खकारे / पकारे / फकारे परे षकारादेशः भवति → चतुष्परि इति अव्ययीभावसमासः |

चतुर् + परि → खरवसानयोर्विसर्जनीयः (८.३.१५) इत्यनेन पदान्तस्य रेफस्य स्थाने विसर्गो भवति खरि परे, अतः रेफस्य स्थाने विसर्गः आदिष्टः भवति खरि परे चतुः + परि अस्य विसर्गस्य ककारे / खकारे / पकारे / फकारे परे षत्वम् भवति इदुदुपधस्य चाप्रत्ययस्य (८.३.४१) इति सूत्रेण | इदुदुपधस्य चाप्रत्ययस्य  (८.३.४१) इति सूत्रेण इकारोपधस्य उकारोपधस्य प्रत्ययावयवभिन्नस्य विसर्गस्य स्थाने ककारे / खकारे / पकारे / फकारे परे षकारादेशः भवति → चतुष्परि इति अव्ययीभावसमासः |

५) पञ्चसु तु एकरूपेषु जयः एव भवति इति कृत्वा पञ्चपरि इति समासः न भवति |


खरवसानयोर्विसर्जनीयः (८.३.१५), इदुदुपधस्य चाप्रत्ययस्य  (८.३.४१),

खरवसानयोर्विसर्जनीयः (८.३.१५)

पदान्तस्य रेफस्य स्थाने विसर्गो भवति खरि परे अथवा अवसानावस्थायाम्‌ | खर् च अवसानं च (तयोरितरेतरयोगद्वन्द्वः), खरवसाने, तयोः खरवसानयोः | खरवसानयोः सप्तम्यन्तं, विसर्जनीयः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | रो रि (८.३.१४) इत्यस्मात् रोः इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अलोऽन्त्यस्य (१.१.५२) इत्यनेन रेफान्तपदस्य न अपि तु पदान्तस्य रेफस्य स्थाने विसर्गादेशो भवति | अनुवृत्ति-सहितसूत्रं — खरवासनयोः पदस्य रः विसर्जनीयः संहितायाम्‌ |

इदुदुपधस्य चाप्रत्ययस्य  (८.३.४१)  

इकारोपधस्य उकारोपधस्य प्रत्ययावयवभिन्नस्य विसर्गस्य स्थाने ककारे,  खकारे, पकारे, फकारे परे षकारादेशः भवति | इकार-उकार-उपधस्य अप्रत्ययस्य विसर्गस्य षः स्यात् कुप्वोः |  ह्रस्व-इकारात्, ह्रस्व-उकारात् परः विद्यमानः विसर्गः यदि प्रत्यय-निर्मितः नास्ति, तर्हि तस्य स्थाने ककारे, खकारे, पकारे, फकारे परे षकारादेशः भवति | इत् च उत् च तयोरितरेतरयोगद्वन्द्वः  इदुदौ, तौ उपधे यस्य स इदुदुपधः तस्य इदुदुपधस्य | न प्रत्ययः, अप्रत्ययः , तस्य अप्रत्ययस्य, नञ्तत्पुरुषः | कुप्वोः ≍ क ≍ पौ च (८.३.३७) इत्यस्य बाधकं सूत्रम् अस्ति  इदं सूत्रम् |  इत् च उत्  तयोरितरेतरयोगद्वन्द्वः, इदुदौ, तौ  उपधे यस्य सः, इदुदुपधः, तस्य इदुदुपधस्य | न प्रत्ययः अप्रत्ययः, तस्य अप्रत्ययस्य, नञ्तत्पुरुषः | विसर्जनीयस्य सः (८.३.३४)  इत्यस्मात् सूत्रात् विसर्जनीयस्य इत्यस्य अनुवृत्तिः | कुप्वोः ≍क≍पौ च ( ८.३.३७)  इत्यस्मात् सूत्रात् कुप्वोः इत्यस्य अनुवृत्तिः | इणः षः (८.३.३९) इत्यस्मात् सूत्रात्  षः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं —  इदुदुपधस्य च अप्रत्ययस्य विसर्जनीयस्य षः कुप्वोः‌ |


उदाहरणानि -

१) प्रत्यूहानां ( विघ्नानां) अभावः = निष्प्रत्यूहम् |  अलौकिकविग्रहः = प्रत्यूह + आम् + निस् |

निस् + प्रत्यूह → ससजुषो रुः (८.२.६६) इत्यनेन पदान्त-सकारस्य स्थाने रु-आदेशो भवति | अतः निरु + प्रत्यूह इति भवति | रु इत्यत्र उकारः अनुनासिकः अतः तस्य इत्संज्ञा भूत्वा लोपः भवति | निर् + प्रत्यूह इति भवति |

निर् + प्रत्यूह  → खरवसानयोर्विसर्जनीयः (८.३.१५) इत्यनेन पदान्तस्य रेफस्य स्थाने विसर्गो भवति खरि परे | अतः निःप्रत्यूह इति भवति | अस्य विसर्गस्य ककारे / खकारे / पकारे / फकारे परे षत्वम् भवति इदुदुपधस्य चाप्रत्ययस्य ( ८.३.४१) इति सूत्रेण | इदुदुपधस्य चाप्रत्ययस्य  (८.३.४१) इति सूत्रेण इकारोपधस्य उकारोपधस्य प्रत्ययावयवभिन्नस्य विसर्गस्य स्थाने ककारे / खकारे / पकारे / फकारे परे षकारादेशः भवति → निष्प्रत्यूहम् इति अव्ययीभावसमासः |

२) आविस् + कृतम् = आविष्कृतम् | अत्र समासः नास्ति |


३) दुस् + कृतम् = दुष्कृतम् | एवमेव बहिष्कृतम् |


उपरि गम्यताम्




विभाषाः (२.१.११)

एतद् अधिकारसूत्रम् अस्ति | एतस्य सूत्रस्य अधिकारः अस्मात् सूत्रात् आरभ्य चार्थे द्वन्द्वः (२.२.२९) इति सूत्रपर्यन्तं भवति |  एतस्मात् सूत्रात् समासविधिः विकल्पेन भवति | अर्थात् समस्तप्रयोगः अपि शक्यते व्यस्तप्रयोगः अपि शक्यते वाक्ये अस्माकं विवक्षानुगुणम् | अस्मिन् सूत्रे विभाषा इत्यस्य महाविभाषा इति उल्लेखः क्रियते यतः तस्य अनुवृत्तिः बहुषु सूत्रेषु भवति | एतस्य प्रसक्तिः सम्पूर्णसमासप्रकरणे अस्ति | विभाषा प्रथमान्तं एकपदमिदं सूत्रम् |  सूत्रं स्वयं सम्पूर्णम् |


यत्र विभाषा इत्यस्य सूत्रस्य अधिकारः अस्ति तत्र समासः विकल्पेन भवति | अतः सीतापतिः गच्छति इत्यपि वक्तुं शक्यते नो चेत् सीतायाः पतिः गच्छति इत्यपि वक्तुं शक्यते | यत्र समासः नित्यः तत्र विभाषा (२.१.११) इति सूत्रस्य प्रसक्तिः न भवति |  विभाषा (२.१.११) इत्यस्मात् सूत्रात् प्राक् यानि सूत्राणि सन्ति तत्र समासः नित्यः भवति |  अव्ययीभावाधिकारे (२.१.५) इत्यस्मात् सूत्रात् आरभ्य (२.१.१०) इति सूत्रपर्यन्तं षट् सूत्राणि सन्ति यत्र विभाषा (२.१.११) इत्यस्य अधिकारः नास्ति | अतः एव तत्र सर्वत्र समासः विकल्पेन न भवति अपि तु नित्यं भवति | सामान्यतया यानि सूत्राणि विभाषा (२.१.११) इत्यस्य अधिकारे सन्ति तानि विकल्पेन प्रवर्तन्ते | परन्तु कुत्रचित् यद्यपि विभाषा (२.१.११) इत्यस्य अधिकारः अस्ति तथापि समासः विकल्पेन न भवति, अपि तु नित्यरूपेण भवति | यथा उपपदसमासः यः तत्पुरुषसमासस्य प्रभेदः अस्ति, सः समासः नित्यरूपेण विधियते |


सारांशः  -

सामान्यतः समासः विकल्पेन भवति विभाषा (२.१.११) इत्यस्य अधिकारात् | अर्थात् व्यस्तप्रयोगः अपि कर्तुं शक्यते, समस्तप्रयोगः अपि कर्तुं शक्यते |  परन्तु स्मर्तव्यं यत् कुत्रचित् समासः विकल्पेन न भवति अपि तु नित्यरूपेण भवति | अग्रे सूत्रस्य पठनावसरे परिशीलयामः कुत्र समासः नित्यः इति |


उपरि गम्यताम्





अपपरिबहिरञ्चवः पञ्चम्या (२.१.१२) [6]

अप, परि, बहि, अञ्चु एते शब्दाः पञ्चम्यन्तेन सुबन्तेन सह समस्यन्ते, अव्ययीभावसमासः च भवति |


अपपरिबहिरञ्चवः पञ्चम्या (२.१.१२)

अप, परि, बहि इत्येते सुबन्ताः तथा अञ्चु इति धातुतः निष्पन्नाः सुबन्ताः पञ्चम्यन्तेन सह विभाषा समस्यन्ते, अव्ययीभावश्च समासो भवति | अपश्च परिश्च बहिश्च अञ्चुश्च तेषामितरेतरयोगद्वन्द्वोऽपपरिबहिरञ्चवः | अपपरिबहिरञ्चवः प्रथमाबहुवचनान्तं पञ्चम्या तृतीयान्तम् | सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य  वचनपरिमाणः इति कृत्वा बहुवचने अनुवृत्तिः भवति | सह सुपा (२.१.४) इत्यस्मात् सूत्रात् सुपा इत्यस्य अनुवृत्तिः भवति |   प्राक्कडारात्समासः (२.१.३) इत्यस्य अधिकारः अस्ति | समर्थः पदविधिः (२.१.१) इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति | अव्ययीभावः (२.१.५) इत्यस्य अधिकारः | विभाषा (२.१.११) इत्यस्मात् सूत्रात् विभाषा इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्‌— अपपरिबहिरञ्चवः सुपः पञ्चम्या सुपा सह अव्ययीभावःसमासः विभाषा |



अप, परि ,आङ् इत्यतेषां योगे पञ्चमी

अप, परि च एतौ द्वौ प्रदायः (१.४.५८) इति सूत्रेण निपातसंज्ञकौ भवतः | तत्पश्चात् स्वरादिनिपातमव्ययम्(१.१.३७) इति सूत्रेण तयोः अव्ययसंज्ञा अपि भवति | बहिस् इति शब्दः स्वरादिगणे अस्ति, अतः स्वरादिनिपातमव्ययम्(१.१.३७) इति सूत्रेण अव्ययसंज्ञकः भवति | अप, परि, बहि: इत्येते सुबन्ताः तथा अञ्चु इति धातुतः निष्पन्नाः सुबन्ताः पञ्चम्यन्तेन सह विभाषा समस्यन्ते इति उपरितनसूत्रेण ज्ञायते | परन्तु एतेषां शब्दानां योगे कथं पञ्चमीविभक्तिः विधीयते इति अग्रे उच्यते | अञ्चुधातुतः निष्पन्नाः दिक्वाचकाः अव्ययानि भवन्ति तद्धितश्चासर्वविभक्तिः ( १.१.३८)  इति सूत्रेण | अतः एव प्राक्, प्रत्यच्, उदच् इत्येतानि अव्ययानि सन्ति |



कर्मप्रवचनीया इति काचित् संज्ञा वर्तते व्याकरणे | कर्मप्रवचनीयाः नाम ये पूर्वं क्रियां प्रोक्तवन्तः किन्तु अधुना क्रियाकृतं विशेषसम्बन्धं कथयन्ति | एकादश कर्मप्रवचनीयाः अष्टाध्याय्यां निर्दिष्टाः सन्ति - अनु, उप, अप, परि, आङ्, प्रति,अभि, अधि, सु, अति, अपि | एतेषां प्रादीनां कर्मप्रवचनीयसंज्ञा भवति विशिष्टार्थेषु | तदर्थं सूत्राणि सन्ति अष्टाध्याय्याम् | अप, परि अनयोः कर्मप्रवचनीयसंज्ञा भवति वर्जनार्थे अपपरी वर्जने ( १.४.८८) इति सूत्रेण |

१) अनु = लक्षणार्थे, तृतीयार्थे, हीनार्थे, इत्थंभूताख्यानार्थे, भागार्थे, वीप्सार्थे च कर्मप्रवचनीयसंज्ञा भवति |

२) उप = हीनार्थे, अधिकार्थे च कर्मप्रवचनीयसंज्ञा भवति |

३) अप =  वर्जनार्थे कर्मप्रवचनीयसंज्ञा भवति |

४) परि = लक्षणार्थे, इत्थंभूताख्यानार्थे, भागार्थे, वीप्सार्थे, वर्जनार्थे, अनर्थाकार्थे च कर्मप्रवचनीयसंज्ञा भवति |

५) आङ् = मर्यादार्थे, अभिविध्यर्थे च कर्मप्रवचनीयसंज्ञा भवति |

६) प्रति =  लक्षणार्थे, इत्थंभूताख्यानार्थे, भागार्थे, वीप्सार्थे  च कर्मप्रवचनीयसंज्ञा भवति |

७) अभि = लक्षणार्थे, इत्थंभूताख्यानार्थे, वीप्सार्थे च कर्मप्रवचनीयसंज्ञा भवति |

८) अधि = अनर्थाकार्थे कर्मप्रवचनीयसंज्ञा भवति |

९) सु =  पूजायां कर्मप्रवचनीयसंज्ञा भवति |

१०) अति = पूजायाम् अतिक्रमणे च अर्थे कर्मप्रवचनीयसंज्ञा भवति |

१२) अपि = पदार्थे, सम्भावनार्थे, अन्वसर्गार्थे, गर्हार्थे, समुच्च्यार्थे च कर्मप्रवचनीयसंज्ञा भवति |


अपपरी वर्जने (१.४.८८) इति सूत्रेण अप, परि अनयोः शब्दयोः वर्जनार्थे कर्मप्रवचनीयसंज्ञा भवति | वर्जनार्थं नाम विहाय, त्यागः, अतिरिच्य इत्यर्थाः |


उदाहरणम् -

अप त्रिगर्तेभ्यः वृष्टः देवः | अप इति वर्जनार्थे अस्ति इत्यतः अपपरी वर्जने (१.४.८८) इति सूत्रेण अप इत्यस्य कर्मप्रवचनीयसंज्ञा भवति | वाक्यस्य अर्थः अस्ति - त्रिर्गतः इति देशं विहाय अन्यत्र वृष्टिः कृता देवेन | अप इति कर्मप्रवचनीयसंज्ञकस्य योगे त्रिगर्त इति शब्दतात् पञ्चमीविभक्तिः विधीयते पञ्चम्यपाङ्परिभिः (२.३.१०) इति सूत्रेण | अतः त्रिगर्तेभ्यः इति उक्तम् |


एवमेव परि त्रिगर्तेभ्यो वृष्टो देवः इति उदाहरणम् | परि इति वर्जनार्थे अस्ति इत्यतः अपपरी वर्जने (१.४.८८) इति सूत्रेण परि इत्यस्य कर्मप्रवचनीयसंज्ञा भवति | वाक्यस्य अर्थः अस्ति - त्रिगर्तः इति देशं विहाय अन्यत्र वृष्टिः कृता देवेन | परि इति कर्मप्रवचनीयसंज्ञकस्य योगे त्रिगर्त इति शब्दतात् पञ्चमीविभक्तिः विधीयते पञ्चम्यपाङ्परिभिः  (२.३.१०) इति सूत्रेण |


यदा अपपरी वर्जने (१.४.८८) इति सूत्रेण अप, परि अनयोः शब्दयोः वर्जनार्थे (त्यागः)  कर्मप्रवचनीयसंज्ञा भवति तदा पञ्चम्यपाङ्परिभिः (२.३.१०) इति सूत्रेण अप, परि इति पदयोः योगे पञ्चमीविभक्तिः भवति | पञ्चम्यपाङ्परिभिः (२.३.१०) इति सूत्रे आङ् इत्यपि उक्तम् | आङ् इत्यस्य कर्मप्रवचनीयसंज्ञा भवति आङ् मर्यादावचने (१.४.८९) इति सूत्रेण |

आङ् मर्यादावचने ( १.४.८९) इति सूत्रेण आङ् इत्यस्य कर्मप्रवचनीयसंज्ञा भवति मर्यादार्थे, अभिविध्यर्थे च | मर्यादा नाम तेन विना इत्यर्थः | अभिविधिः नाम तेन सह इत्यर्थः | यदा आङ् इत्यस्य कर्मप्रवचनीयसंज्ञा भवति तदानीं तस्य योगे पञ्चमी भवति पञ्चम्यपाङ्परिभिः (२.३.१०) इति सूत्रेण | तद्यथा - १) आ समुद्रात् भारतदेशः इति वाक्ये, समुद्रं विहाय, समुद्रपर्यन्तं यः भूभागः वर्तते सः भारतदेशः इति अर्थः | समुद्रं विना या भूमिः वर्तते सा भूमिः भारतदेशः इति अर्थः लभ्यते | अत्र आङ् इति मर्यादार्थे अस्ति इत्यतः तस्य कर्मप्रवचनीयसंज्ञा भवति आङ् मर्यादावचने ( १.४.८९) इति सूत्रेण | तत्पश्चात् तस्य योगे पञ्चमी भवति पञ्चम्यपाङ्परिभिः (२.३.१०) इति सूत्रेण | आङ् इत्यस्य समासः अग्रिमेण सूत्रेण वक्ष्यते |


१) आ समुद्रात् भारतदेशः इति वाक्ये, समुद्रं विहाय, समुद्रपर्यन्तं यः भूभागः वर्तते सः भारतदेशः इति अर्थः | समुद्रं विना या भूमिः वर्तते सा भूमिः भारतदेशः इति अर्थः लभ्यते | अत्र आङ् इति मर्यादार्थे अस्ति इत्यतः तस्य कर्मप्रवचनीयसंज्ञा भवति आङ् मर्यादावचने ( १.४.८९) इति सूत्रेण | तत्पश्चात् तस्य योगे पञ्चमी भवति पञ्चम्यपाङ्परिभिः (२.३.१०) इति सूत्रेण | आङ् इत्यस्य समासः अग्रिमेण सूत्रेण वक्ष्यते |

एतावता ज्ञातं यत् अप,परि अनयोः कर्मप्रवचनीयसंज्ञा भवति वर्जनार्थे अपपरी वर्जने (१.४.८८) इति सूत्रेण | तत्पश्चात् तयोः योगे पञ्चमी भवति पञ्चम्यपाङ्परिभिः (२.३.१०) इति सूत्रेण |


अञ्चु इति धातुतः निष्पन्नानां दिग्वाचकानां योगे पञ्चमी



अन्यारादितरर्तेदिक्शब्दाञ्चूत्तरपदाजाहियुक्ते (२.३.२९) इति सूत्रेण अञ्चु इति धातुतः निष्पन्नानां दिग्वाचकानां योगे अपि पञ्चमीविभक्तिः भवति | अञ्चु गतिपूजनयोः इति भ्वादिगणीयः धातुः अस्ति | दिक् इत्यस्मिन् अर्थे प्रयुक्तः अस्ति | प्राक् (च्), प्रत्यक् (च्), उदच् इत्येते क्विन्प्रत्ययान्ताः शब्दाः अञ्चुधातुं प्रयुज्य निष्पन्नाः | प्राच्, प्रत्यच्, उदच् इत्येते शब्दाः देशस्य कालस्य वा विशेषणरूप्रेण प्रयुज्यन्ते तत्र 'ङीप्' इति प्रत्ययः न भवति, यतः 'देश' उत 'काल' एतौ शब्दौ स्त्रीवाचिनौ न स्तः | यथा - प्राङ् देशः, प्राङ् कालः, प्रत्यङ् देशः, प्रत्यङ् कालः, उदङ् देशः, उदङ् कालः इति |


प्राक् (च्), प्रत्यक् (च्), उदच्  इत्येतेषां प्रयोगः यदा 'दिश्' इति स्त्रीलिङ्गशब्दस्य विशेषणरूपेण क्रियते, तदा एतेषामपि स्त्रीत्वमपेक्ष्यते | प्राक् (च्), प्रत्यक् (च्), उदच् इत्येतेभ्यः शब्देभ्यः स्त्रीत्वविवक्षायां ङीप् इति स्त्रीप्रत्ययं योजयित्वा उदीची दिक् (north), प्राची दिक् (east), अवाची दिक् (south), प्रतीची दिक् (west)  इत्यादयः दिग्वाचकशब्दाः  निष्पन्नाः |  


'अञ्च्' (अञ्चुँ गतौ) इति धातुः उपपदेन सह प्रयुज्यते, तर्हि अस्मात् धातोः ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च ( ३.२.५९) इत्यनेन 'क्विन्' प्रत्ययं कृत्वा भिन्नाः दिक्वाचकशब्दाः सिद्ध्यन्ति | यथा -

१) प्र + अञ्च् + क्विन् → प्राच् | पूर्वः इत्यर्थः |

२) प्रति + अञ्च् + क्विन् → प्रत्यच् | पश्चिमः इत्यर्थः |

३) उद् + अञ्च् + क्विन् → उदच् | उत्तरः इत्यर्थः |


प्राच्यां दिशि / प्राच्याः दिशः / प्राची दिक्


प्राच्याम् / प्राच्याः / प्राची + अस्ताति → 'दिशा', 'देश', तथा 'काल' इत्येतेषु अर्थेषु प्रयुज्यमाणेभ्यः देशवाचिभ्यः शब्देभ्यः, दिक्‌शब्देभ्यः, कालवाचिभ्यः शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः (५.३.२७)  इत्यनेन सप्तम्यन्तात्, पञ्चम्यन्तात्, प्रथमान्तात् च स्वार्थे औत्सर्गिकरूपेण 'अस्ताति' प्रत्ययः विधीयते | परन्तु 'अञ्च्' धातुः यस्य अन्ते आगच्छति, तादृशात् दिशावाचकशब्दात् विहितस्य 'अस्ताति' प्रत्ययस्य अञ्चेर्लुक् (५.३.३०) इत्यनेन लुक् विधीयते | लुक् तद्धितलुकि (१.२.४९)  इति स्त्रीप्रत्ययस्य अपि लुक्  भवति | स्त्रीप्रत्यस्य निवृत्तौ ङीप्-प्रत्ययविशिष्टमङगकार्यमपि निवर्तते, अतः 'प्र + अच्' इत्यवे अवशिष्यते | सवर्णदीर्घं कृत्वा 'प्राच्' इति सिद्ध्यति | अस्य तद्धितश्चासर्वविभक्तिः (१.१.३८)  इति अव्ययसंज्ञा विधीयते | एवमेव प्रत्यच, उदच् इत्यत्रापि |

अप, परि, अञ्चु इति धातुतः निष्पन्नाः सुबन्ताः, इत्येतेषां पदानां योगे पञ्चमीविभक्तिः भवति इति वयं ज्ञातुं शक्नुमः | परन्तु बहिः इति शब्दस्य योगे पञ्चमी भवति इति कथं ज्ञातुं शक्नुमः यतोहि तादृशं सूत्रं नास्ति कारकप्रकरणे वा अन्यत्र अष्टाध्याय्याम् |


अपपरिबहिरञ्चवः पञ्चम्या (२.१.१२) इति सूत्रं  समासप्रकरणे अस्ति, तत् सूत्रं वदति बहिः इति सुबन्तं पञ्चम्यन्तेन सुबन्तेन सह समस्यते इति | व्यस्तप्रयोगे ग्रामात् बहिः इति वदामः चेत् तत्र बहिः इति पदस्य योगे पञ्चमी प्रयोगः दृश्यते | यद्यपि तदर्थं कारकप्रकरणे सूत्रं नास्ति तथापि बहिः इति पदस्य योगे तु समासं कर्तुं सूत्रम् अस्ति अपपरिबहिरञ्चवः पञ्चम्या (२.१.१२) इति | एतत् सूत्रमेव ज्ञापकं यत् बहिः इति पदस्य योगे पञ्चमी भवति इति | तदर्थमेव अपपरिबहिरञ्चवः पञ्चम्या (२.१.१२) इति सूत्रे पञ्चम्या इति पदस्य प्रयोगः दृश्यते | अनेन ज्ञायते यत् बहिः इति पदस्य योगे पञ्चमीविभक्तिः भवति इति | अष्टाध्याय्यां समासप्रकरणं, कारकप्रकरणं च अनयोः परस्परं सन्निवेशत्वं वर्तते, अतः एव कारकप्रकरणं पठित्वा एव समासप्रकरणस्य अध्ययनं भवति स्म सामान्यतया |


अष्टाध्याय्यां समासप्रकरणं, कारकप्रकरणं च अनयोः परस्परं सन्निवेशत्वं वर्तते, अतः एव कारकप्रकरणं पठित्वा एव समासप्रकरणस्य अध्ययनं भवति स्म सामान्यतया |


आहत्य अप, परि, बहिः, अञ्चु इति धातुतः निष्पन्नाः सुबन्ताः च, इत्येतेषां योगे पञ्चमीविभक्तिः विधीयते इति ज्ञातवन्तः | अधुना तेषां शब्दानां सुबन्तेन सह समासः विकल्पेन  विधीयते अपपरिबहिरञ्चवः पञ्चम्या (२.१.१२)  इत्यनेन सूत्रेण |


अपपरिबहिरञ्चवः पञ्चम्या (२.१.१२) इति सूत्रस्य उदाहरणानि -

अप इत्युक्ते वर्जने इति अर्थः |  परि इत्यस्य वर्जने, परिमाणम् इत्यादयः अर्थाः सन्ति | अञ्चु इति धातुतः निर्मिताः शब्दाः अपि स्वीकरणीयाः |

यथा - १) अप विष्णोः संसारः = अपविष्णु / अप विष्णोः संसारः| नाम विष्णुं विहाय संसारः अस्ति | अप इति शब्दः वर्जनार्थकः अस्ति| समासः विकल्पेन भवति इत्यतः एकस्मिन् पक्षे अपविष्णु इति समासः भवति, अपरस्मिन् पक्षे व्यस्तप्रयोगः अप विष्णोः संसारः इत्यपि भवति |

१) अप विष्णोः संसारः = अपविष्णु / अप विष्णोः संसारः | नाम विष्णुं विहाय संसारः अस्ति | अप इति शब्दः वर्जनार्थकः अस्ति | समासः विकल्पेन भवति इत्यतः एकस्मिन् पक्षे अपविष्णु इति समासः भवति, अपरस्मिन् पक्षे व्यस्तप्रयोगः अप विष्णोः संसारः इत्यपि भवति |


अलौकिकविग्रहवाक्यम् अप + विष्णु + ङसि |  अत्र अप इति शब्दः वर्जनार्थे अस्ति | अपपरी वर्जने (१.४.८८) इति सूत्रेण अप, परि अनयोः शब्दयोः वर्जनार्थे कर्मप्रवचनीयसंज्ञा भवति |  तस्य योगे पञ्चमी विभक्तिः भवति पञ्चम्यपाङ्परिभिः (२.३.१०) इति सूत्रेण |  अपपरिबहिरञ्चवः पञ्चम्या (२.१.१२) इति सूत्रेण अप, परि, बहि, अञ्चु इति धातुतः निष्पन्नानां सुबन्ताः च पञ्चम्यन्तेन सह विभाषा समस्यन्ते, अव्ययीभावश्च समासो भवति | अतः अपविष्णु इति अव्ययीभावसमासः विकल्पेन भवति | पक्षे अप विष्णोः संसारः इति व्यस्तप्रयोगः अपि शक्यते |


२) परि विष्णोः संसारः = परिविष्णु / परि विष्णोः संसारः | नाम विष्णुं विहाय संसारः अस्ति | परि इति शब्दः वर्जनार्थकः अस्ति | समासः विकल्पेन भवति इत्यतः एकस्मिन् पक्षे परिविष्णु इति समासः भवति, अपरस्मिन् पक्षे व्यस्तप्रयोगः परि विष्णोः संसारः इत्यपि भवति |


अलौकिकविग्रहवाक्यम् परि + विष्णु + ङसि | अत्र परि इति शब्दः वर्जनार्थे अस्ति | अपपरी वर्जने (१.४.८८) इति सूत्रेण अप, परि अनयोः शब्दयोः वर्जनार्थे कर्मप्रवचनीयसंज्ञा भवति |  तस्य योगे पञ्चमी विभक्तिः भवति पञ्चम्यपाङ्परिभिः (२.३.१०) इति सूत्रेण |  अपपरिबहिरञ्चवः पञ्चम्या (२.१.१२) इति सूत्रेण अप, परि, बहि, अञ्चु इति धातुतः निष्पन्नानां सुबन्ताः  च पञ्चम्यन्तेन सह विभाषा समस्यन्ते, अव्ययीभावश्च समासो भवति | अतः  परिविष्णु इति अव्ययीभावसमासः विकल्पेन भवति | पक्षे परि विष्णोः संसारः इति व्यस्तप्रयोगः अपि भवति |


३) बहिर्वनात् = बहिर्वनम् / बहिर्वनात् |


अलौकिकविग्रहवाक्यम् बहिस् + वन + ङसि | बहिस् इति पदस्य केनापि सूत्रेण कर्मप्रवचनीयसंज्ञा अपि न विधीयते न वा तस्य योगे पञ्चमीविभक्तिः विधीयते | परन्तु सूत्रकारेण अपपरिबहिरञ्चवः पञ्चम्या (२.१.१२) इति सूत्रे उक्तं यत् बहिस्-शब्दः पञ्चम्यन्तसुबन्तेन सह समस्यते इति | एतत् सूत्रमेव ज्ञापकम् अस्ति यत् बहिस्-शब्दस्य योगे पञ्चमी भवति इति | अतः एव लौकिकविग्रहवाक्ये पञ्चम्यन्तस्य प्रयोगः क्रियते |  अपपरिबहिरञ्चवः पञ्चम्या (२.१.१२) इति सूत्रेण अप, परि, बहि, अञ्चु इत्येते सुबन्ताः पञ्चम्यन्तेन सह विभाषा समस्यन्ते, अव्ययीभावश्च समासो भवति | अतः बहिस्-शब्दः उपसर्जनसंज्ञां प्राप्य तस्य पूर्वनिपातः भवति | समासप्रक्रियायां विभक्तेः लोपः भूत्वा बहिस् + वन इति प्रातिपदिकं सिद्धं भवति | अधुना ससजुषो रुः ( ८.२.६६) इत्यनेन रुत्वं भूत्वा बहिर्वन इति प्रातिपदिकं सिद्ध्यति |


बहिर्वन इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | अधुना सुप् प्रत्ययस्य उत्पत्तिः | अत्र अव्ययादाप्सुपः (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रेण निषिध्यते | नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी-विभक्तिं विहाय | पञ्चमी-विभक्तौ अम् आदेशः न भवति, तत्र  यथा सामान्यं सुप्प्रक्रिया भूत्वा रूपं भवति बहिर्वनात् | अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति |


बहिर्वन + अम् अत्र अमि पूर्वः (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात् | पञ्चमी विभक्तिं विहाय अपरासु विभक्तिषु बहिर्वनम् इति रूपं सिद्धं भवति | तृतीयासप्तम्योर्बहुलम्‌ (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति | अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयम् सम्भवति- बहिर्वनं / बहिर्वनेन, बहिर्वनं / बहिर्वने | अन्यासु विभक्तिषु बहिर्वनम् इति रूपं सिद्धं भवति |

बहिर्वनम् इति समासे नकारस्य णत्वं न भवति प्रातिपदिकान्तनुम्‌विभक्तिषु च (८.४.११)  इत्यनेन यतोहि प्रातिपदिकान्तः नकारः नास्ति, नुम्‌-सम्बद्ध-नकारः नास्ति, विभक्तिसम्बन्धी नकारः अपि नास्ति |


४) प्राग् वनात् = प्राग्वनम्, प्राग् वनात् | अञ्चु इति धातुतः निष्पन्नः शब्दः प्राक् इति |


अलौकिकविग्रहवाक्यम् प्राग् + वन + ङसि | अत्र प्राग् इति शब्दः क्विन्प्रत्ययान्तशब्दः अस्ति | प्र + अञ्चु धातुतः क्विन् इति प्रत्ययं योजयित्वा प्राक् इति पदं सिद्ध्यति | अन्यारादितरर्तेदिक्शब्दाञ्चूत्तरपदाजाहियुक्ते (२.३.२९) इति सूत्रेण अञ्चचु इत्यस्य योगे  पञ्चमीविभक्तिः भवति | अपपरिबहिरञ्चवः पञ्चम्या (२.१.१२) इति सूत्रेण अप, परि, बहि, अञ्चु धातुतः निष्पन्नाः सुबन्ताः च पञ्चम्यन्तेन सह विभाषा समस्यन्ते, अव्ययीभावश्च समासो भवति | अतः प्राग्-शब्दः उपसर्जनसंज्ञां प्राप्य तस्य पूर्वनिपातः भवति | अतः समासप्रक्रियायां विभक्तेः लोपः भूत्वा प्राग् + वन इति प्रातिपदिकं सिद्धं भवति | अधुना  झलां जशोऽन्ते (८.२.३९) इति सूत्रेण जश्त्वं भूत्वा प्राग् + वन इति प्रातिपदिकं भवति | तत्पश्चात् सुबुत्पत्तिः भवति |

प्राग्वन इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | अधुना सुप् प्रत्ययस्य उत्पत्तिः | अत्र अव्ययादाप्सुपः (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रेण निषिध्यते | नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी-विभक्तिं विहाय | पञ्चमी-विभक्तौ अम् आदेशः न भवति, तत्र  यथा सामान्यं सुप्प्रक्रिया भूत्वा रूपं भवति प्राग्वनात् | अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति | प्राग्वन + अम् अत्र अमि पूर्वः (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात् | पञ्चमी विभक्तिं विहाय अपरासु विभक्तिषु प्राग्वनम् इति रूपं सिद्धं भवति | तृतीयासप्तम्योर्बहुलम्‌ (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति | अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयम् सम्भवति- प्राग्वनं / प्राग्वनेन, प्राग्वनं / प्राग्वने | अन्यासु विभक्तिषु प्राग्वनम् इति रूपं सिद्धं भवति |


प्राग्वन + अम् अत्र अमि पूर्वः (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात् | पञ्चमी विभक्तिं विहाय अपरासु विभक्तिषु प्राग्वनम् इति रूपं सिद्धं भवति | तृतीयासप्तम्योर्बहुलम्‌ (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति | अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयम् सम्भवति- प्राग्वनं / प्राग्वनेन, प्राग्वनं / प्राग्वने | अन्यासु विभक्तिषु प्राग्वनम् इति रूपं सिद्धं भवति |


प्राग्वनम् इति समासे नकारस्य णत्वं न भवति प्रातिपदिकान्तनुम्‌विभक्तिषु च (८.४.११)  इत्यनेन यतोहि प्रातिपदिकान्तः नकारः नास्ति, नुम्‌-सम्बद्ध-नकारः नास्ति, विभक्तिसम्बन्धी नकारः अपि नास्ति |


एवमेव –

अप त्रिगर्तात् = अपत्रिगर्तम्, अप त्रिगर्तात् |

परि त्रिगर्तात् = परित्रिगर्तम्, परि त्रिगर्तात् |

बहिर्ग्रामात् = बहिर्ग्रामम्, बहिर्ग्रामात् |

बहिर्विकारेभ्यः (outside of transformations) = बहिर्विकारम्, बहिर्विकारेभ्यः |

प्राग्ग्रामात् = प्राग्ग्रामम्, प्राग्ग्रामात् | अञ्चु इति धातुतः निष्पन्नः शब्दः प्राक् इति  |


ससजुषो रुः (८.२.६६), झलां जशोऽन्ते (८.२.३९), प्रातिपदिकान्तनुम्‌विभक्तिषु च (८.४.११),

ससजुषो रुः (८.२.६६)

पदान्ते सकारस्य च सजुष्‌-शब्दस्य षकारस्य च स्थाने रु-आदेशो भवति | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन न केवलं यत्‌ पदं सकारः अस्ति, अपि तु यस्य पदस्य अन्ते सकारः अस्ति | अलोऽन्त्यस्य (१.१.५२) इत्यनेन पदान्तस्य वर्णस्य स्थाने रु-आदेशः न तु पूर्णपदस्य | सश्च सजुश्च ससजुषौ, इतरेतरद्वन्द्वः, तयोः ससजुषोः | ससजुषोः षष्ठ्यन्तं, रुः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— ससजुषोः पदस्य रुः |

झलां जशोऽन्ते (८.२.३९)

इत्यनेन पदान्ते झलः स्थाने जशादेशः |

प्रातिपदिकान्तनुम्‌विभक्तिषु च (८.४.११)

पूर्वपदस्य निमित्तात्‌ परस्य एषु स्थितस्य नस्य णो वा स्यात्‌ | अत्र धेयं यत्‌ समासस्य प्रसङ्गोऽयम्‌ | सामान्यतया समासे णत्वं न भवति, परन्तु अत्र भवति विकल्पेन यदि नकारान्तप्रातिपदिकं (माष + वापिन्‌ ‌ + औ → माषवापिणौ, माषवापिनौ), नुम्‌-सम्बद्ध-नकारः (नपुंसकस्य झलचः इति सूत्रेण प्रथमा-द्वितीया-बहुवचने नुम्‌ भवति यथा माष + वापा + न्‌ + इ → माषवापाणि, माषावापानि), विभक्तिसम्बन्धी नकारः (तृतीया षष्ठी वा यथा हर्षभावेण, हर्षभावेन, वारिवाहाणाम्‌, वारिवाहानाम्) इत्येषु त्रिषु कश्चन उपस्थितोऽस्ति | भ्रमः उदेति यत्‌ किमर्थम्‌ अस्मिन्‌ प्रसङ्गे अस्माभिः चिन्तनीयं यत्‌ के के वर्णाः मध्ये सन्ति यतः अट्कुप्वाङ्‌नुम्व्यवायेऽपि इति सूत्रे रषाभ्यां नो णः समानपदे इति सूत्रस्य पूर्णतया अनुवृत्तिः—नाम अट्कुप्वाङ्‌नुम्व्यवायेऽपि केवलं समानपदे कार्यं करोति | परन्तु प्रातिपदिकान्तनुम्‌विभक्तिषु च इत्यस्मिन्‌ इमानि पदानि अनुवृत्तानि—वा, पूर्वपदात्‌, अट्कुप्वाङ्‌नुम्व्यवायेऽपि, रषाभ्यां नो णः, संहितायाम्‌ इति | अत्र समानपदे इत्यस्य अनुवृत्तिर्नास्ति | अनुवृत्ति-सहितसूत्रम्‌— पूर्वपदात् रषाभ्याम्  प्रातिपदिकान्त-नुम्‌-विभक्तिषु च  नो णः वा अट्कुप्वाङ्‌नुम्व्यवायेऽपि संहितायाम्  |


उपरि गम्यताम्




आङ् मर्यादाऽभिविध्योः (२.१.१३) [7]

मर्यादार्थे वा अभिविध्यर्थे आङ् इति अव्ययं पञ्चम्यन्तेन सुबन्तेन सह समस्यते, अव्ययीभावसमासः च भवति |


आङ् मर्यादाऽभिविध्योः (२.१.१३) = मर्यादार्थे वा अभिविध्यर्थे विद्यमानस्य आङ् इति अव्ययस्य पञ्चम्यन्तेन समर्थेन सुबन्तेन सह विकल्पेन समासः भवति |  मर्यादा च अभिविधिश्च तयोः इतरेतरयोगद्वन्द्वः मर्यादाभिविधी तयोर्मयादाभिविद्योः |  आङ् प्रथमान्तं, मर्यादाभिविध्योः सप्तम्यन्तम् |  सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | सह सुपा (२.१.४) इत्यस्मात् सूत्रात् सुपा इत्यस्य अनुवृत्तिः भवति | प्राक्कडारात्समासः (२.१.३) इत्यस्य अधिकारः अस्ति | समर्थः पदविधिः (२.१.१) इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति | अव्ययीभावः (२.१.५) इत्यस्य अधिकारः | विभाषा (२.१.११) इत्यस्मात् सूत्रात् विभाषा इत्यस्य अनुवृत्तिः | अपपरिबहिरञ्चवः पञ्चम्या (२.१.१२) इत्यस्मात् सूत्रात् पञ्चम्या इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्‌—मर्यादा-अभिविध्योः आङ् सुप् पञ्चम्या सुपा सह अव्ययीभावः समासः विभाषा |



यद्यपि आङ् इत्यस्य चत्वारः अर्थाः सन्ति, तथापि समासार्थम् आङ् इति अव्ययस्य अर्थद्वयं स्वीक्रियते – मर्यादा, अभिविधिः च | वाक्येषु आङ् इत्यस्य  कस्मिन् अवसरे प्रयोगः कृतः इति दृष्ट्वा मर्यादार्थः वा अभिविध्यर्थः वा इति निर्णयः कर्तव्यः |



मर्यादार्थे –

मर्यादा नाम तेन विना इत्यर्थः |


तद्यथा -  

१) आसमुद्रं भारतदेशः इति वाक्ये, समुद्रं विहाय, समुद्रपर्यन्तं यः भूभागः वर्तते सः भारतदेशः इति | समुद्रं विना या भूमिः वर्तते सा भूमिः भारतदेशः इति अर्थः लभ्यते |

२) आभानुवासरं पाठयति इत्यस्य भानुवासरं विहाय पाठयति इत्यर्थः | तेन विना = भानुवासरेण विना पाठः प्रचलति | भानुवासरपर्यन्तम् इत्यर्थः |

३)  आपाटलिपुत्रं वृष्टो देवः, आ पाटलिपुत्रात् |  अर्थात् पाटलुपुत्रं विहाय वृष्टिः अभवत् |

४) आमरणं / आ मरणात् शङ्काराचार्येण धर्मस्य संरक्षणार्थं विचेष्टितम् |

५) आमुक्ति / आ मुक्तेः संसारः अस्ति | मुक्तिपर्यन्तं संसारः अस्ति |

६) सः पुरुषः आदिनं/ आ दिनात् कार्यं करोति |


एतेषु उदाहरणेषु आङ् इति मर्यादार्थे अस्ति इत्यतः तस्य कर्मप्रवचनीयसंज्ञा भवति आङ् मर्यादावचने ( १.४.८९) इति सूत्रेण | तत्पश्चात् तस्य योगे पञ्चमी भवति पञ्चम्यपाङ्परिभिः (२.३.१०) इति सूत्रेण | आङ् इत्यस्य प्रयोगः सर्वदा पञ्चम्यन्तेन सह भवति | आङ् इत्यस्य समासः विकल्पेन भवति पञ्चम्यन्तेन सुबन्तेन सह भवति आङ् मर्यादाऽभिविध्योः (२.१.१३) इत्यनेन सूत्रेण |



अभिविध्यर्थे –

अभिविधिः नाम तेन सह इत्यर्थः | अत्र आङ् इति अव्ययं अभिविध्यर्थे अस्ति |


तद्यथा

१) आहिमालयम् / आ हिमालयात् भारतदेशः इति वदामः चेत् हिमालयः अपि भारतदेशे अन्तर्भवति इत्यर्थः | तेन सह नाम आरभ्य इत्यर्थः |

२) आकुमारम् / आ कुमारेभ्यः यशः पाणिनेः | अर्थात् पाणिनेः यशः बालकेषु मध्ये अपि प्रसारितः अस्ति |  

३) आभानुवासरम् / आ भानुवसरात् पाठयति इत्यस्य भानुवासरे अपि पाठयति इत्यर्थः | तेन सह = भानुवासरमपि पाठः प्रचलति इत्यर्थः |

४) आजन्म / आजन्मनः कृतात् पापात् ईश्वरः मुच्यते | आजन्म नाम जन्म आरभ्य इत्यर्थः |

५) ईश्वरः आजन्मनि कृतं पापं दूरीकरोति |

६) आबहुभ्यः वर्षेभ्यः एतत् गृहं तस्य एव आसीत् |

७) आबहुभ्यः दिनेभ्यः छात्राणां दर्शनम् एव नास्ति |


एतेषु उदाहरणेषु आङ् इति अभिविध्यर्थे अस्ति इत्यतः तस्य कर्मप्रवचनीयसंज्ञा भवति आङ् मर्यादावचने (१.४.८९) इति सूत्रेण | आङ् मर्यादावचने (१.४.८९) इति सूत्रे वचनग्रहणात् अभिविधिः इति अर्थः अपि गृह्यते | अर्थात् आङ् इत्यस्य अभिविध्यर्थे अपि कर्मप्रवचनीयसंज्ञा भवति, तत्पश्चात् तस्य योगे पञ्चमी भवति पञ्चम्यपाङ्परिभिः (२.३.१०) इति सूत्रेण |


प्रकृतसूत्रे मर्यादाभिविधिग्रहणं किमर्थम्?

यावता पञ्चमीत्यनुवर्तते, आङा च कर्मप्रवचनीयेनैव योगे पञ्चमी विधीयते एतयोरेवार्थयोः | नान्यत्र; तत्रान्तरेणापि मर्यादाविधिग्रहणं तयोरेवार्थयो समासो भविष्यति, नान्यत्रेति | सत्यमेतत्; तथापि मन्दधियां सुखावबोधनार्थं मर्यादाभिविधिग्रहणं कृतं पाणिनिना |


अन्यानि उदाहरणानि –

१) आ मुक्तेः संसारः = आमुक्ति संसारः / आ मुक्तेः संसारः | मुक्तिः पर्यन्तम् एव संसारः अस्ति |


अलौकिकविग्रहवाक्यम् आ + मुक्ति + ङसि | आङ् मर्यादाऽभिविध्योः (२.१.१३) इति सूत्रेण समासः विकल्पेन विधीयते | आ इति अव्ययस्य उपसर्जनसंज्ञा भूत्वा तस्य पूर्वनिपातः भवति | आमुक्ति इति प्रातिपदिकं सिद्ध्यति | आमुक्ति इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | अधुना सुप् प्रत्ययस्य उत्पत्तिः | अत्र अव्ययादाप्सुपः (२.४.८२) इति सूत्रेण सुब्लुक् भवति → आमुक्ति इति समासः | समासापक्षे वाक्यं भवति आ मुक्तेः | अत्र आङ् मर्यादावचने( १.४.८९) इति सूत्रेण आङ् -शब्दस्य कर्मप्रवचनीयसंज्ञा भूत्वा तस्य योगे पञ्चमी विभक्तिः भवति पञ्चमी अपाङ्परिभिः (२.३.१०) इति सूत्रेण | अतः वाक्यं भवति आ मुक्तेः संसारः इति |


२) आ बालेभ्यः हरिभक्तिः = आबालं हरिभक्तिः / आ बालेभ्यः हरिभक्तिः |

अलौकिकविग्रहवाक्यम् आ + बाल + भ्यस् | आङ् मर्यादाऽभिविध्योः (२.१.१३) इति सूत्रेण समासः विकल्पेन विधीयते | आ इति अव्ययस्य उपसर्जनसंज्ञा भूत्वा तस्य पूर्वनिपातः भवति | आबाल इति प्रातिपदिकं सिद्ध्यति | आबाल इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | अधुना सुप् प्रत्ययस्य उत्पत्तिः | अत्र अव्ययादाप्सुपः (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रेण निषिध्यते | नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी-विभक्तिं विहाय | पञ्चमी-विभक्तौ अम् आदेशः न भवति, तत्र  यथा सामान्यं सुप्प्रक्रिया भूत्वा रूपं भवति आबालात् | अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति | आबाल+ अम् अत्र अमि पूर्वः (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात्| पञ्चमी विभक्तिं विहाय अपरासु विभक्तिषु आबालम् इति रूपं सिद्धं भवति| तृतीयासप्तम्योर्बहुलम्‌ (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति| अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयम् सम्भवति- आबालम् /आबालेन, आबालम् / आबाले | अन्यासु विभक्तिषु आबालम् इति रूपं सिद्धं भवति |


आबाल + अम् अत्र अमि पूर्वः (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात् | पञ्चमी विभक्तिं विहाय अपरासु विभक्तिषु आबालम् इति रूपं सिद्धं भवति | तृतीयासप्तम्योर्बहुलम्‌ (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति | अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयम् सम्भवति- आबालम् / आबालेन, आबालम् / आबाले | अन्यासु विभक्तिषु आबालम् इति रूपं सिद्धं भवति |


समासापक्षे वाक्यं भवति आ बालेभ्यः | अत्र आङ् मर्यादावचने (१.४.८९) इति सूत्रेण आङ् -शब्दस्य कर्मप्रवचनीयसंज्ञा भूत्वा तस्य योगे पञ्चमी विभक्तिः भवति पञ्चम्यपाङ्परिभिः (२.३.१०) इति सूत्रेण | अतः वाक्यं भवति आ बालेभ्यः हरिभक्तिः इति |


एवमेव -

१) आ पाटलिपुत्राद् / आपाटलिपुत्रम् वृष्टो देवः |

२) आ कुमारेभ्यः / आकुमारं यशः पाणिनेः |

३) आ मथुरायाः / आमथुरं कृष्णस्य अनुभूतिः भवति अद्यत्वेऽपि |


उपरि गम्यताम्




लक्षणेनाभिप्रती आभिमुख्ये (२.१.१४) [8]

सम्मुखता इत्यस्मिन् अर्थे अभि, प्रति च एतौ द्वौ शब्दौ चिह्नवाचिना सुबन्तेन सह विकल्पेन समस्येते, अव्ययीभावसमासः च भवति |



लक्षणेनाभिप्रती आभिमुख्ये (२.१.१४) =  सम्मुखता (facing, direction) इत्यस्मिन् अर्थे अभि, प्रति च, एतौ द्वौ शब्दौ  चिह्नवाचिना सुबन्तेन सह विकल्पेन समस्येते, अव्ययीभावश्च समासो भवति | लक्षणं चिह्नं, तद्वाचिना सुबन्तेन सह अभिप्रती शब्दौ आभिमुख्ये वर्तमानौ विभाषा समस्येते, अव्ययीभावश्च समासो भवति | लक्षणं नाम चिह्नं (sign), ज्ञापकम् (reminder), लक्षीकृत्य (goal) इत्यर्थः | अभिश्च प्रतिश्च तयोरितरेतरयोगद्वन्द्वः अभिप्रती, अभिमुखस्य भावः अभिमुख्यं, तस्मिन् आभिमुख्ये | लक्षणेन तृतीयान्तम्, अभिप्रती प्रथमाद्विवचनान्तम्, आभिमुख्ये सप्तम्यन्तम् |  विभाषा (२.१.११) इत्यस्मात् सूत्रात् विभाषा इत्यस्य अनुवृत्तिः | सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | सह सुपा (२.१.४) इत्यस्मात् सूत्रात् सुपा इत्यस्य अनुवृत्तिः भवति |   प्राक्कडारात्समासः (२.१.३) इत्यस्य अधिकारः अस्ति | समर्थः पदविधिः (२.१.१) इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति | अव्ययीभावः (२.१.५) इत्यस्य अधिकारः | विभाषा (२.१.११) इत्यस्मात् सूत्रात् विभाषा इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्‌—  आभिमुख्ये अभिप्रती सुपौ लक्षणेन सुपा सह  अव्ययीभावःसमासः विभाषा |


सूत्रे लक्षणेन इति पदस्य कारणेन लक्षणवाचिपदेन सह एव समासः भवति न अन्यत्र | लक्ष्यते अनेन इति लक्षणम् | लक्ष्यं, चिह्नम् इत्यस्मिन् अर्थे लक्षणम् इति शब्दः प्रयुक्तः अस्ति अस्मिन् सूत्रे |


अभि इति अव्ययस्य बहवः अर्थाः सन्ति-  आभिमुख्ये, पूजायां, सादृश्ये, इच्छायाम् इत्यादयः  | प्रति इति अव्ययस्यापि बहवः अर्थाः सन्ति - वीप्सायां, प्रतिनिधौ, सादृश्ये, व्याप्तौ, आभिमुख्ये इत्यादयः | यदा अभिप्रती आभिमुख्यार्थे स्तः तदानीं तयोः चिह्नवाचिना सुबन्तेन सह अव्ययीभावसमासः भवति |


लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः (१.४.९०) इति सूत्रेण लक्षण-इत्थम्भूताख्यान-भाग-वीप्सासु अर्थेषु विषयभूतेषु प्रति-परि-अनवः कर्मप्रवचनीयसंज्ञकाः भवन्ति | अर्थात् अनेन सूत्रेण प्रति इत्यस्य कर्मप्रवचनीयसंज्ञा भवति लक्षणादिषु अर्थेषु द्योत्येषु | लक्षणं नाम ज्ञापकम् इत्यर्थः | अस्मिन् सूत्रे इत्थम्भूताख्यान-भाग इत्यपि उक्तं परन्तु तस्य चिन्तनम् अनावश्यकं समासप्रसाङ्गे | वीप्सायां तु प्रति इत्यस्य चर्चा पूर्वमेव जाता अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  (२.१.६) इत्यत्र | यदा लक्षणार्थे प्रति इत्यस्य कर्मप्रवचनीयसंज्ञा भवति तदा तस्य योगे द्वितीया भवति कर्मप्रवचनीययुक्ते द्वितीया (२.३.८) इति सूत्रेण | उदाहरणं =  वृक्षं प्रति विद्योतते (flash forth) विद्युत् | वृक्षस्य समीपे विद्युत् अस्ति | वृक्षं दृष्ट्वा तत्समीपस्थायाः विद्युतः ज्ञानं भवति इत्यर्थः |



अभिरभागे (१.४.९१) इति सूत्रेण लक्षण-इत्थम्भूताख्यान-वीप्सासु अर्थेषु विषयभूतेषु अभि कर्मप्रवचनीयसंज्ञकः भवति | अर्थात् अनेन सूत्रेण अभि इत्यस्य कर्मप्रवचनीयसंज्ञा भवति लक्षणादिषु अर्थेषु द्योत्येषु | लक्षणं नाम ज्ञापकम् इत्यर्थः | अस्मिन् सूत्रे इत्थम्भूताख्यानम् इत्यपि उक्तं परन्तु तस्य चिन्तनम् अनावश्यकं समासप्रसाङ्गे | वीप्सार्थे अभि इत्यस्य समासः न विधीयते अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु (२.१.६) इत्यनेन यतोहि तादृशप्रयोगः न दृश्यते लोके | अभि इत्यस्य प्रयोगः वीप्सार्थे द्योत्ये भवति केवलं व्यस्तप्रयोगे | यथा - देवं देवम् अभि सिञ्चति | यदा अभि इत्यस्य कर्मप्रवचनीयसंज्ञा भवति तदा तस्य योगे द्वितीया भवति कर्मप्रवचनीययुक्ते द्वितीया (२.३.८) इति सूत्रेण | उदाहरणम् = वृक्षम् अभि विद्योतते विद्युत् | वृक्षस्य समीपे विद्युत् अस्ति | वृक्षं दृष्ट्वा तत्समीपस्थायाः विद्युतः ज्ञानं भवति इत्यर्थः |


लक्षणेनाभिप्रती आभिमुख्ये (२.१.१४) इत्यस्य उदाहरणानि —

१) अग्निम् अभि = अभ्यग्नि शलभाः पतन्ति, अग्निम् अभि शलभाः पतन्ति (The moth falls in the direction of the fire) | शलभः नाम कीटः इति | कीटाः अग्नेः दिशि पतन्ति |  अग्निं लक्ष्यीकृत्य अभिमुखं पतन्ति इत्यर्थः | अग्निः ज्ञापकः येन अग्नेः आभिमुख्ये शलभपतनं इति अर्थः ज्ञाप्यः भवति |


अलौकिकविग्रहवाक्यम् अग्नि + अम् + अभि | लक्षणेनाभिप्रती आभिमुख्ये (२.१.१४) इति सूत्रेण आभिमुख्यर्थे अभि इति अव्ययम् अग्नि इति चिह्नवाचिना सुबन्तेन  विकल्पेन समस्यते | अग्नि + अम् + अभि | अभि इति अव्ययस्य उपसर्जनसंज्ञा भूत्वा तस्य पूर्वनिपातः भवति | यण्-सन्धिं कृत्वा अभ्यग्नि इति प्रातिपदिकं सिद्ध्यति | अभ्यग्नि इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | अधुना सुप् प्रत्ययस्य उत्पत्तिः | अग्रे अव्ययादाप्सुपः (२.४.८२) इति सूत्रेण सुप् प्रत्ययस्य लोपः भवति → अभ्यग्नि इति समस्तपदं निष्पन्नं भवति | समासापक्षे वाक्यं भवति अग्निम् अभि शलभाः पतन्ति इति |



२) अग्निं प्रति = प्रत्यग्नि शलभाः पतन्ति, अग्निं प्रति शलभाः पतन्ति | अलौकिकविग्रहवाक्यम् अग्नि+अम् + प्रति | लक्षणेनाभिप्रती आभिमुख्ये (२.१.१४) इति सूत्रेण आभिमुख्यर्थे प्रति इति अव्ययम् अग्नि इति चिह्नवाचिना सुबन्तेन विकल्पेन समस्यते | अग्नि + अम् + प्रति | प्रति इति अव्ययस्य उपसर्जनसंज्ञा भूत्वा तस्य पूर्वनिपातः भवति | यण् -सन्धिं कृत्वा प्रत्यग्नि इति प्रातिपदिकं सिद्ध्यति | प्रत्यग्नि इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | अधुना सुप् प्रत्ययस्य उत्पत्तिः| अग्रे अव्ययादाप्सुपः (२.४.८२) इति सूत्रेण सुप् प्रत्ययस्य लोपः भवति → प्रत्यग्नि इति समस्तपदं निष्पन्नं भवति | समासापक्षे वाक्यं भवति अग्निम् प्रति शलभाः पतन्ति इति |

अलौकिकविग्रहवाक्यम् अग्नि + अम् + प्रति | लक्षणेनाभिप्रती आभिमुख्ये (२.१.१४) इति सूत्रेण आभिमुख्यर्थे प्रति इति अव्ययम् अग्नि इति चिह्नवाचिना सुबन्तेन विकल्पेन समस्यते | अग्नि + अम् + प्रति | प्रति इति अव्ययस्य उपसर्जनसंज्ञा भूत्वा तस्य पूर्वनिपातः भवति | यण्-सन्धिं कृत्वा प्रत्यग्नि इति प्रातिपदिकं सिद्ध्यति | प्रत्यग्नि इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | अधुना सुप् प्रत्ययस्य उत्पत्तिः | अग्रे अव्ययादाप्सुपः (२.४.८२) इति सूत्रेण सुप् प्रत्ययस्य लोपः भवति → प्रत्यग्नि इति समस्तपदं निष्पन्नं भवति | समासापक्षे वाक्यं भवति अग्निम् प्रति शलभाः पतन्ति इति |


उपर्युक्ते उदाहरणे प्रति इत्यस्य लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः (१.४.९०) इति सूत्रेण कर्मप्रवचनीयसंज्ञा भवति लक्षणार्थे द्योत्ये | एवमेव अभि इत्यस्य कर्मप्रवचनीयसंज्ञा भवति अभिरभागे ( १.४.९१) इति सूत्रेण लक्षणार्थे द्योत्ये | तत्पश्चात् कर्मप्रवचनीया द्वितीया (२.३.८) इति सूत्रेण कर्मप्रवचनीययुक्ते द्वितीयाविभक्तिः भवति, अतः अग्नि इति शब्दस्य द्वितीयाविभक्तिः भवति |  एषः नियमः तु वाक्यस्तरे अपि भवति यथा – १) अग्निम् अभि शलभाः पतन्ति, २) अग्निं प्रति शलभाः पतन्ति इति | अभि, प्रति, अनयोः कर्मप्रवचनीयसंज्ञकयोः योगे तु द्वितीयाविभक्तिः भवति |


३) अक्षिणी प्रति = प्रत्यक्षम् ( facing towards or in front of the eyes)| अक्षि इति प्रातिपदिकं नपुंसकलिङ्गे अस्ति | लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः (१.४.९०) इति सूत्रेण प्रति इत्यस्य कर्मप्रवचनीयसंज्ञा भवति लक्षणार्थे द्योत्ये |


तत्पश्चात् कर्मप्रवचनीययुक्ते द्वितीया (२.३.८) इति सूत्रेण कर्मप्रवचनीययुक्ते द्वितीयाविभक्तिः भवति, अतः अक्षि इति शब्दस्य द्वितीयाविभक्तिः भवति अक्षिणी इति | अक्षि +औट् +प्रति +सु इति अलौकिकविग्रहवाक्यम् | लक्षणेनाभिप्रती आभिमुख्ये ( २.१.१४) इति सूत्रेण समासः विधीयते यतोहि प्रति इति आभिमुख्यार्थे, अक्षि इति  चिह्नवाचिना सुबन्तेन सह विकल्पेन समस्येते, अव्ययीभावश्च समासो भवति |

अक्षि + औट् + प्रति + सु इति अलौकिकविग्रहवाक्यम् | लक्षणेनाभिप्रती आभिमुख्ये ( २.१.१४) इति सूत्रेण समासः विधीयते यतोहि प्रति इति आभिमुख्यार्थे, अक्षि इति  चिह्नवाचिना सुबन्तेन सह विकल्पेन समस्येते, अव्ययीभावश्च समासो भवति |


प्रत्यक्षि इति प्रातिपदिकात् टच् इति प्रत्ययः विधीयते  प्रतिपरसमनुभ्योक्षणः इति गणसूत्रेण | अव्ययीभावे शरत्प्रभृतिभ्यः (५.४.१०७) इति सूत्रस्य अन्तर्गते  प्रतिपरसमनुभ्योऽक्ष्णः इति गणसूत्रं वर्तते इति पूर्वमेव सूचितम् | गणसूत्रार्थः = प्रति, पर, सम् तथा अनु, एतेषु कश्चन शब्दः पूर्वपदे विद्यते चेत् अपि च उत्तरपदे अक्षि इति शब्दः चेत्, तदन्तात् अव्ययीभावसमासात् टच् इति समासान्तप्रत्ययः विधीयते | अनेन प्रत्यक्षम्, परोक्षम्, समक्षम्, अन्वक्षम् इत्यादीनि समस्तपदानि सिद्ध्यन्ति | अत्र अस्माकं विषयः प्रति इति आभिमुख्यार्थे अक्षि इति लक्षणवाचिना सुबन्तेन सह भवति लक्षणेनाभिप्रती आभिमुख्ये ( २.१.१४) इति सूत्रेण |

प्रत्यक्षि + टच् → प्रत्यक्षि + अ |


प्रत्यक्षि + अ → यस्येति च (६.४.१४८) इति भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च ईकारे परे, तद्धितप्रत्यये परे च लोपः भवति | अतः प्रत्यक्ष् + अ → प्रत्यक्ष इति प्रातिपदिकं निष्पन्नं भवति | इदानीं सुबुत्पत्तिः भवति | तत्पश्चात्  नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी-विभक्तिं विहाय | पञ्चमीविभक्तौ अम् आदेशः न भवति, तत्र तु  यथासामान्यं सुबन्तप्रक्रियानन्तरं रूपं भवति प्रत्यक्षात् | अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम्-आदेशः भवति |


प्रत्यक्ष + अम् अत्र अमि पूर्वः (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात् | पञ्चमी-विभक्तिं विहाय अपरासु विभक्तिषु प्रत्यक्षम् इति रूपं सिद्धं भवति | अधुना तृतीयासप्तम्योर्बहुलम्‌ (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने विकल्पेन अमादेशः भवति | अनेन तृतीयाविभक्तौ अपि च सप्तमीविभक्तौ रूपद्वयं सम्भवति- प्रत्यक्षं / प्रत्यक्षेण, प्रत्यक्षं / प्रत्यक्षे|


४) विपाशं (नदीं)  प्रति = प्रतिविपाशम् | अव्ययीभावे शरत्प्रभृतिभ्यः (५.४.१०७) इति सूत्रेण टच् इति तद्धितप्रत्ययः विधीयते यतोहो विपाश् इति शब्दः शरादिगणे पठितः |


५) सूर्यं प्रति = प्रतिसूर्यम् | ऋषिः प्रतिसूर्यम् अर्घ्यं समर्पयति |


६) ईश्वरं प्रति = प्रतीश्वरम् | योगिनः प्रतीश्वरं सुव्रतं, सुतपः च कुर्वन्ति |



लक्षणे इति किम् ?

मथुरां प्रति गतः इति वाक्यम् अस्ति | अत्र दिग्भ्रमवशात् मथुरां प्रति गतः इत्यर्थः विवक्षितः इति कारणेन मथुरा इति शब्दः लक्षणवाचिशब्दः नास्ति, अतः अव्ययीभावसमासः न भवति लक्षणेनाभिप्रती आभिमुख्ये (२.१.१४)  इत्यनेन सूत्रेण | मथुरा इति पदं लक्षणार्थे नास्ति अस्मिन् वाक्ये | अनेन अवगम्यते यत् अत्र केवलं व्यस्तप्रयोगः एव सम्भवति न तु अव्ययीभावसमासः |


उपरि गम्यताम्





अनुर्यत्समया ( २.१.१५)[9]

समीपार्थे अनु इति अव्ययं सुबन्तेन सह विकल्पेन समस्यते, अव्ययीभावसमासः च भवति |


अनुर्यत्समया ( २.१.१५)

यं पदार्थं समया (सामीप्यं) द्योत्यते तेन लक्षणभूतेन अनु इति अव्ययं समस्यते, सः अव्ययीभावश्च समासः भवति |  यस्य पदार्थस्य समीपे अनु इति पदम् अस्ति, तादृशलक्षणवाचिना सुबन्तेन सह अनु इति पदं विकल्पेन समस्यते, अव्ययीभावसमासः च भवति |  समया नाम समीपे इत्यर्थः | अनु इति अव्ययस्य अपि सामीप्यार्थः अस्ति | विभाषा (२.१.११) इत्यस्मात् सूत्रात् विभाषा इत्यस्य अनुवृत्तिः | अनुः प्रथमान्तं, यत् इति द्वितीयैकवचनं, समया इत्यव्ययम् | सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | सह सुपा (२.१.४) इत्यस्मात् सूत्रात् सुपा इत्यस्य अनुवृत्तिः भवति | प्राक्कडारात्समासः (२.१.३) इत्यस्य अधिकारः अस्ति | समर्थः पदविधिः (२.१.१) इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति | अव्ययीभावः (२.१.५) इत्यस्य अधिकारः |  लक्षणेनाभ्प्रती आभिमुख्ये (२.१.१४) इत्यस्मात् सूत्रात् लक्षणेन इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्‌—अनुः सुप् यत् समया लक्षणेन सुपा सह अव्ययीभावः समासः विभाषा |


अनु इति अव्ययस्य अस्माभिः एतेषु अर्थेषु प्रयोगः दृष्टः  - पश्चादर्थे, आनुपूर्व्यार्थे, योग्यतार्थे च | अनु इति अव्ययस्य अन्ये अपि अर्थाः सन्ति | यथा सामीप्यार्थे, आभिमुख्यार्थे, लक्षणार्थे, सादृश्यार्थे इत्यादयः | अनुर्यत्समया ( २.१.१५) इति सूत्रे अनु इत्यस्य सामीप्यम् इत्यस्मिन् अर्थे प्रयुक्तः अस्ति |

अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  ( २.१.६) इति सूत्रेण सामीप्यर्थे अव्ययस्य सुबन्तेन सह नित्यसमासः भवति इति जानीमः | तर्हि अनुर्यत्समया ( २.१.१५) इति सूत्रे समया इति पुनः किमर्थम् उक्तम् ?


अस्य समाधानम् एव यत् अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  (२.१.६) इति सूत्रेण समासः नित्यः परन्तु अनुर्यत्समया (२.१.१५) इति सूत्रेण समासः विकल्पेन सिद्ध्यति | अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु ( २.१.६) इत्येव सिद्धे पुनर्वचनं विभाषार्थम् |


यत्समया इति पदस्य कारणात् अनु इति शब्दः यस्य समीपवाची , तेन लक्षणवाचिना सुबन्तेन सह समासः भवति, अन्यथा न भवति | वृक्षम् अनु विद्योतते विद्युत् इत्यत्र अनु इति शब्दः समीपवाची नास्ति अपितु लक्ष्य-लक्षणभावस्य वाचकः अस्ति | अतः समासः न भवति अपितु अनु इत्यस्य कर्मप्रवचनीयसंज्ञा भवति लक्षणार्थे अनुर्लक्षणे (१.४.८४) इति सूत्रेण | कर्मप्रवचनीयसंज्ञकस्य योगे द्वितीया भवति  कर्मप्रवचनीययुक्ते द्वितीया (२.३.८) इत्यनेन |


प्रकृतसूत्रे अनु इति अव्ययस्य प्रयोगः नास्ति चेत् किं भवति?


प्रकृतसूत्रे अनु इति अव्ययस्य प्रयोगः नास्ति चेत्  सूत्रार्थः एवं भवति - समया इति अव्ययं यस्य शब्दस्य समीपे अस्ति, तेन लक्षणवाचिना सुबन्तेन सह समासः भवति अर्थः निष्पद्यते | समया इति अव्ययं सामीप्यं द्योतयति | वनं समया इति विग्रहे सति समयावनम् इति समासः सिद्धयति | तन्नेष्यते अतः अनु इति अव्ययस्य प्रयोगः कृतः | प्रकृतसूत्रे अनु इति शब्दस्य पाठनात् अनु इति शब्देन सह एव समासः भवति इति ज्ञातम् | अर्थात् अन्यसमीपवाचिशब्दैः सह समासः न भवति प्रकृतसूत्रेण | यथा वनं समया इत्यत्र समया इति अव्ययं सामीप्यार्थे अस्ति  तथापि समया इत्यस्य समयावनं इति समासः न भवति यतोहि प्रकृतसूत्रे अनु इति शब्दः प्रयुक्तः | वनं समया इति वाक्ये तु समया इति शब्दस्य योगे तु अभितः परितः समया निकषा हा प्रतियोगेऽपि इति वार्तिकेन द्वितीयाविभक्तिः भवति |


अस्मिन् सूत्रे किमर्थं समया इति पदस्य प्रयोगः कृतः ? समया इत्यस्य स्थाने समीपम् इति प्रदं प्रयुङ्क्ते चेत् किं भवति ?

व्याख्यानेषु अस्मिन् विषये नोक्तं तथापि वयम् अनुमिनुमः अस्य प्रश्नस्य समाधानं किम् इति |


समाधानमेवं यत्  - अनुर्यत्समीपम् इति सूत्रे सति, अनु इति अव्ययस्य समीपार्थे  समासः विकल्पेन भवति | लौकिकविग्रहवाक्यम् एवं भवति - वृक्षस्य अनु इति | अनु इति अव्ययं समीपार्थे इष्यते, अतः अनु इत्यस्य कर्मप्रवचनीयसंज्ञा न सिद्धयति | अनु इत्यस्य कर्मप्रवचनीयसंज्ञा भवति लक्षणार्थे अनुर्लक्षणे (१.४.८४) इति सूत्रेण |  यदा अनु इति अव्ययं लक्षणं न द्योतयति तदा तस्य कर्मप्रवचनीयसंज्ञा न भवति | तर्हि अनु इत्यस्य योगे तु द्वितीया अपि न सिद्ध्यति | तर्हि अनु इत्यस्य योगे का विभक्तिः इति पृष्टे षष्ठी एव स्वीकरणीया भवति यतोहि षष्ठी शेषे ( २.३.५०) इति सूत्रस्य विधानसमार्थ्यात् शेषार्थे षष्ठी भवति इति | अतः  समासस्य लौकिकवग्रहं तु वृक्षस्य अनु इति  भवति | आहात्य वृक्षस्य अनु इति विग्रहे सति अनुवृक्षम् इति समासः सिद्धयति |


समासः विकल्पेन भवति इत्यतः यदि समासस्य विग्रहः वृक्षस्य समीपम् इति अस्ति तर्हि  का गतिः ?


समीपम् इति पदस्य योगे तु षष्ठ्यन्तं सिद्धयति इति जानीमः |  वृक्षस्य समीपम् इति लौकिकविग्रहे सति उपवृक्षम् अथवा अनुवृक्षम् इति समासद्वयं सम्भवति | उपवृक्षम् इति समासः सिद्धः अस्ति अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  (२.१.६) इति सूत्रेण  | अनुर्यत्समया (२.१.१५) इति सूत्रस्य प्रयोगेण अनुवृक्षम् इति समासः सिद्धयति एव । तर्हि वृक्षस्य समीपम् इति विग्रहे सति उपवृक्षम् अथवा अनुवृक्षम् उभयथा समासः भवति | अनयोः भेदः कः इति चेत् उपवृक्षम् इति नित्यसमासः अस्ति परन्तु अनुवृक्षम् इति समासः विकल्पेन भवति | तर्हि विकल्पं साधयितुमेव पाणिनिना अनुर्यत्समया (२.१.१५) इति सूत्रं कृतम् | तर्हि अनुर्यत्समया (२.१.१५) इति सूत्रे समीपम् इति उच्यते चेदपि समासविकल्पं सिद्ध्यति | तर्हि इदानीमपि प्रश्नः अस्ति यत् किमर्थं समया इति प्रकृतसूत्रे उक्तम्?


प्रकृतसूत्रे समया इति उक्तं यतोहि वृक्षं समया इति विग्रहवाक्ये सत्यपि अनुवृक्षम् इति समासः जायते एव | कथं जानीमः इति चेत्, तस्य प्रमाणं किम् इति चेत् द्वीपादनुसमुद्रं यञ् ( ४.३.१०) इति सूत्रमेव तस्य प्रमाणम्  | अस्य सूत्रस्य व्याख्यानेषु दृश्यते यत् समुद्रं समया इति विग्रहे सत्यपि अनुसमुद्रम् इति समासः जायते अनुर्यत्समया ( २.१.१५) इति सूत्रेण इति | यदि अस्माकं प्रकृतसूत्रं अनुर्यत्समीपम् इति अस्ति तर्हि समुद्रं समया इति विग्रहे सति समासः न जायते यथा अस्माभिः चर्चितम् अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  (२.१.६) इति सूत्रस्य सन्दर्भे | एवं सति अस्माकं प्रकृतसूत्रे अपि तथा एव स्यात् | अर्थात् समुद्रं समया इति विग्रहे सति अनुसमुद्रम् इति समासः न स्यात् | परन्तु अस्माकं प्रकृतसूत्रं तु अनुर्यत्समया इति अस्ति | तदेव ज्ञापकं यत् समुद्रं समया इति विग्रहे सत्यपि अनुसमुद्रम् इति समासः जायते एव |  


तर्हि किं ज्ञायते अनुर्यत्समया ( २.१.१५) इति सूत्रेण अनुसमुद्रम् इति समासः विकल्पेन भवति यदा विग्रहवाक्यं एतेषु किञ्चित् अस्ति - समुद्रस्य अनु, समुद्रस्य समीपम् अथवा समुद्रं समया | एतेषु त्रिषु विग्रहेषु अन्यतमः चेत् अनु इत्यस्य समासः भवति समुद्रम् इति सुबन्तेन | समया इति शब्दस्य योगे तु द्वितीया एव लभ्यते अभितः परितः समया निकषा हा प्रतियोगेऽपि इति वार्तिकेन | अतः समुद्रं समया इति  विग्रहवाक्ये समुद्रं इति द्वितीयान्तं पदं दृश्यते समया इति पदस्य योगे | अनुर्यत्समया ( २.१.१५) इति सूत्रे समया इति उक्तत्वात् समुद्रं समया इति विग्रहे अपि अनुसमुद्रम् इति समासः जायते यतोहि समासः विकल्पेन भवति | तर्हि व्यस्तप्रयोगे अस्माकं वाक्यम् एतेषु अन्यतमवाक्यं भवितुम् अर्हति - समुद्रस्य अनु, समुद्रस्य समीपं, समुद्रं समया इति |


अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि-अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  (२.१.६) इति सूत्रे समीपम् इति उक्तं तर्हि समया इति पदस्य समासः भवति वा एतेन सूत्रेण ?

न भवति इति अस्माभिः चर्चितं पूर्वम् |  समया, निकषा, आराद् इत्यादीनि यद्यपि समीपार्थक-अव्ययानि सन्ति तथापि अव्ययीभावसमासः न भवति यतोहि समया, निकषा इत्यनयोः शब्दयोः योगे तु सामान्यतया द्वितीयाविभक्तिः भवति; अपि च आरात् इति शब्दस्य योगे तु पञ्चमीविभक्तिः भवति अन्यारादितरर्तेदिक्शब्दाञ्चूतरपदाजाहियुक्ते ( २.३.२९) इत्यनेन | अतः द्वितीयाविभक्तेः, पञ्चमीविभक्तेः च विधानसामर्थ्यात् समया ग्रामम्, निकषा लङ्काम्, आराद् वनात् इत्यादिषु उदाहरणेषु अव्ययीभावसमासः न भवति अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  (२.१.६) इति सूत्रेण | समीपार्थे केवलम् उप इति अव्ययस्य एव अव्ययीभावसमासः सम्भवति अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  (२.१.६) इति सूत्रेण, अन्येषाम् अव्ययानां न |


यथा –

वनस्य समीपम्  = अनुवनम्, वनस्य अनु, वनस्य समीपं, वनं समया | अनुवनम् अशनिः ( thunderbolt) गतः | वनस्य समीपम् इत्यर्थः |  समया इत्यस्य  सामीप्यम् इति अर्थः, तस्य बोधः जायते अनु इति शब्दद्वारा | अलौकिकविग्रहवाक्यम् वन + ङस् + अनु | अस्मिन् विग्रहे वन इति शब्दस्य षष्ठीविभक्तिः कथम् इति प्रश्ने सति, तस्य उत्तरं यत् अत्र विशिष्टविभक्तिविधानार्थं सूत्रं नास्ति अतः षष्ठी शेषे ( २.३.५०) इति सूत्रेण षष्ठिविभक्तिविधानम् |


अलौकिकविग्रहवाक्यम् वन + ङस् + अनु | अस्मिन् विग्रहे वन इति शब्दस्य षष्ठीविभक्तिः कथम् इति प्रश्ने सति, तस्य उत्तरं यत् अत्र विशिष्टविभक्तिविधानार्थं सूत्रं नास्ति अतः षष्ठी शेषे ( २.३.५०) इति सूत्रेण षष्ठिविभक्तिविधानम् |


समया शब्दद्वारा द्योत्यः अर्थः सामीप्ये इति, तस्य बोधः भवति अनु इति शब्दद्वारा यतोहि अनु इति अव्ययं सामीप्यर्थे अस्ति |  सामीप्यस्य लक्षकः वनम् अस्ति | तात्पर्यं यत् अनु इत्यनेन वनम् एव लक्षितः अस्ति | वननिरूपितं सामीप्यं अनु इति शब्दद्वारा ज्ञायते | अतः तादृशलक्षणेन वनशब्देन सह अनु इति शब्दः समस्यते अनुर्यत्समया ( २.१.१५) इति सूत्रेण, अव्ययीभावसमासः विकल्पेन भवति |


अनु इति अव्ययस्य उपसर्जनसंज्ञा भूत्वा तस्य पूर्वनिपातः भवति | अनुवन इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | अधुना सुप् प्रत्ययस्य उत्पत्तिः | अव्ययादाप्सुपः (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रेण निषिध्यते |  नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी-विभक्तिं विहाय | पञ्चमी-विभक्तौ अम् आदेशः न भवति, तत्र  यथा सामान्यं सुप्प्रक्रिया भूत्वा रूपं भवति अनुवनात् | अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति | अनुवन+ अम् अत्र अमि पूर्वः (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात् | पञ्चमी विभक्तिं विहाय अपरासु विभक्तिषु अनुवनम् इति रूपं सिद्धं भवति | तृतीयासप्तम्योर्बहुलम्‌ (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति| अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयम् सम्भवति- अनुवनम् /अनुवनेन, अनुवनम् / अनुवने | अन्यासु विभक्तिषु अनुवनम् इति रूपं सिद्धं भवति |

अनुवन + अम् अत्र अमि पूर्वः (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात् | पञ्चमी विभक्तिं विहाय अपरासु विभक्तिषु अनुवनम् इति रूपं सिद्धं भवति | तृतीयासप्तम्योर्बहुलम्‌ (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति | अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयम् सम्भवति - अनुवनम् / अनुवनेन, अनुवनम् / अनुवने | अन्यासु विभक्तिषु अनुवनम् इति रूपं सिद्धं भवति |

समासापक्षे वाक्यं भवति वनस्य अनु इति अथवा वनस्य समीपम् इति |


२) गृहस्य अनु, गृहस्य समीपं, गृहं समया  = अनुगृहम् / गृहस्य अनु / गृहस्य समीपं, गृहं समया |


३) ग्रामस्य अनु, ग्रामस्य समीपं, ग्रामं समया  = अनुग्रामम् / ग्रामस्य अनु, ग्रामस्य समीपं, ग्रामं समया |


उपरि गम्यताम्





यस्य चायामः (२.१.१६) [10 ]

अनु इति अव्ययं, दीर्घतां बोधयितुं यत् पदं प्रयुज्यते, तेन पदेन सह समस्यते, अव्ययीभावसमासः च भवति |


यस्य चायामः (२.१.१६) = यस्य दैर्घ्यसदृशदैर्घ्यम् अनुना द्योत्यते तेन लक्षणभूतेन अनुः समस्यते | यस्य आयामः (दीर्घता) अनु इति शब्दस्य द्वारा बोधितः भवति, तेन लक्षणवाचिना शब्देन सह अनु शब्दः विकल्पेन समस्यते, अव्ययीभावश्च समासो भवति | अनुर्यस्यायामवाची तेन लक्षणभूतेन सह विभाषा समस्यते, अव्ययीभावश्च समासो भवति | यस्य षष्ठ्यन्तं, चाव्ययम्, आयामः प्रथमान्तम् |  प्राक्कडारात्समासः (२.१.३) इत्यस्य अधिकारः अस्ति | समर्थः पदविधिः (२.१.१) इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति | अव्ययीभावः (२.१.५) इत्यस्य अधिकारः | विभाषा (२.१.११) इत्यस्मात् सूत्रात् विभाषा इत्यस्य अनुवृत्तिः | लक्षणेनाभ्प्रती आभिमुख्ये (२.१.१४) इत्यस्मात् सूत्रात् लक्षणेन इत्यस्य अनुवृत्तिः | अनुर्यत्समया (२.१.१५) इत्यस्मात् सूत्रात् अनुः इत्यस्य अनुवृत्तिः | अनुवृत्तौ अनु इति शब्दस्य आवृत्तिः भूत्वा एकः अनु इति शब्दः तृतीयान्तरूपेण विपरिणमितः भवति | अनुवृत्ति-सहित-सूत्रम्‌— यस्य च आयामः अनुना, अनुः सुप् लक्षणेन सुपा सह अव्ययीभावःसमासः विभाषा |


सूत्रे आयामः इति शब्दस्य प्रयोगेण यः ज्ञापितः भवति यत् अनु इति शब्दद्वारा विस्तारस्य सूचना प्राप्यते चेत् एव समासः विधीयते इति | यदि अन्यः अर्थः अनु इति शब्दद्वारा सूचितः भवति तर्हि समासः न विधीयते | अतः निवेश्य गङ्गाम् अनु ( गङ्गायाः प्रवेशानन्तरम् इत्यर्थः) इति वाक्ये लक्ष्यलक्षणभावः द्योतितः अस्ति | विस्तारः इत्यर्थः अनु इति शब्दद्वारा न ज्ञायते इति कारेणेन अनुगङ्गम् इति समासः न सिद्धयति यस्य चायामः (२.१.१६) इति सूत्रेण |


यथा –

गङ्गायाः अनु = अनुगङ्गं वारणसी, गङ्गायाः अनु | गङ्गादैर्घ्यसदृशदैर्घ्यम् उपलक्षितम् इत्यर्थः  | गङ्गायाः विस्तारेण वारणस्याः विस्तारस्य बोधः जायते | वारणस्याः दैर्घ्यस्य ज्ञापकः अस्ति गङ्गा इति | वारणास्याः दीर्घता गङ्गायाः तीरे तीरे अस्ति |


अलौकिकविग्रहवाक्यम् गङ्गा + ङस् + अनु | यस्य चायामः (२.१.१६)  इति सूत्रेण, समासः विकल्पेन भवति | अनु इति अव्ययस्य उपसर्जनसंज्ञा भूत्वा तस्य पूर्वनिपातः भवति | अनुगङ्गा इति भवति | ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७) इति सूत्रेण अजन्तस्य नपुंसकलिङ्गे प्रातिपदिकस्य हस्वः भवति | अतः अनुगङ्ग इति भवति |

अधुना अनुगङ्ग इति प्रातिपदिकस्य अव्ययसंज्ञा भवति |  अग्रे प्रातिपदिकात् सुप् प्रत्ययस्य उत्पत्तिः भवति | सम्प्रति प्रक्रियायाम् अव्ययादाप्सुपः (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रेण निषिध्यते |

नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी-विभक्तिं विहाय | पञ्चमी-विभक्तौ अम् आदेशः न भवति, तत्र  यथा सामान्यं सुप्प्रक्रिया भूत्वा रूपं भवति अनुगङ्गात् अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति | अनुगङ्ग+ अम् अत्र अमि पूर्वः (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात् | पञ्चमी विभक्तिं विहाय अपरासु विभक्तिषु अनुगङ्गम् इति रूपं सिद्धं भवति | तृतीयासप्तम्योर्बहुलम्‌ (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति| अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयम् सम्भवति- अनुगङ्गम् /अनुगङ्गेन, अनुगङ्गम् / अनुगङ्गे | अन्यासु विभक्तिषु अनुगङ्गम् इति रूपं सिद्धं भवति |


अनुगङ्ग + अम् अत्र अमि पूर्वः (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात् | पञ्चमी विभक्तिं विहाय अपरासु विभक्तिषु अनुगङ्गम् इति रूपं सिद्धं भवति | तृतीयासप्तम्योर्बहुलम्‌ (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति | अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयम् सम्भवति - अनुगङ्गम् /अनुगङ्गेन, अनुगङ्गम् / अनुगङ्गे | अन्यासु विभक्तिषु अनुगङ्गम् इति रूपं सिद्धं भवति |

समासापक्षे वाक्यं भवति गङ्गायाः अनु इति |


२) यमुनायाः अनु = अनुयमुनं, यमुनायाः अनु | अनुयमुनं मथुरा | यमुनायाः आयामेन मथुराया आयामः लक्ष्यते | आयामः नाम दैर्घ्यम् |

३) गङ्गायाः अनु = अनुगङ्गं हस्तिनापुरम् | ४) शोनस्य अनु = अनुशोनम् पाटलिपुत्रम्   |

४) शोनस्य अनु = अनुशोनम् पाटलिपुत्रम्   |

उपरि गम्यताम्




तिष्ठद्गुप्रभृतीनि च ( २.१. १७) [11 ]

तिष्ठद्गुगणे पठिताः शब्दाः सुबन्तेन सह समस्यते, अव्ययीभावसमासः च भवति |


तिष्ठद्गुप्रभृतीनि च (२.१. १७) = तिष्ठद्गुगणे पठितानां शब्दानां निपातनं क्रियते, तेषाम् अव्ययीभावसंज्ञा भवति | एतानि निपात्यन्ते | निपातनं नाम अस्मिन् गणे ये शब्दाः उक्ताः, ते साधुशब्दाः तेषाम् अव्ययीभावसंज्ञा भवति |  यानि समस्तपदानि साक्षात् सूत्रेण उच्यन्ते प्रक्रियां विना, तानि निपातनानि | अर्थात् ये शब्दाः अन्यसमासेषु न प्रयुज्यन्ते | अस्मिन् गणे बहवः शब्दाः सन्ति | अस्मिन् गणे ये शब्दाः सन्ति तेषां निपातनं क्रियते, अव्ययीभावसमासः च भवति | सूत्रस्थः च  इति शब्दः एव इति अर्थे प्रयुक्तः अस्ति | तिष्ठन्ति गावः यस्मिन् काले सः तिष्ठद्गु दोहनकालः | तिष्ठद् प्रभृतिः आदिर्येषां तानि तिष्ठद्गुप्रभृतीनि, बहिव्रीहिः | तिष्ठद्गुप्रभृतीनि प्रथमाबहुवचनान्तं, चाव्ययम् | विभाषा (२.१.११) इत्यस्मात् सूत्रात् विभाषा इत्यस्य अनुवृत्तिः |  प्राक्कडारात्समासः (२.१.३) इत्यस्य अधिकारः अस्ति | समर्थः पदविधिः (२.१.१) इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति | अव्ययीभावः (२.१.५) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रं— तिष्ठद्गुप्रभृतीनि च सुपः सुपा सह अव्ययीभावः समासः विभाषा |


तिष्ठद्गुगणे बहवः शब्दाः सन्ति | केचन शब्दाः अत्र दीयन्ते – तिष्ठद्गु (when the cows stand to be milked), बहद्गु (वहन्ति गावो यस्मिन् काले सः), आयतीगवं (at the time when the cows come home), खलेबुसम् (at the time when the chaff is on the threshing-floor), पूतयवम्, पूतमानयवम् (at the time of winnowing barley), संहृतबुसम् (after the chaff has been got in), संहृतयवम् (after the barley has been got in), परमतिष्ठद्गु, लूनयवम् (after barley-harvest), लूयमानयवम्, संहूतयवम्, संह्रियमाणयवम् (while the barley is being got in), संहतबुसम्, संह्रयमाणबुसम् | एते कालवाचकशब्दाः सन्ति | अन्यशब्दाः - समभूमि (even ground), समपदाति (foot soldiers right lines), सुषमम् (very even), विषमम् (unfairly), निष्षमम्, दुष्षमम्, अपरसमम्, आयतीसमम् (when the cows come home), प्राह्णम् (in the morning) , प्ररथम् (when the chariots move), सम्प्रति (now, at present) , असम्प्रति (not according to the moment) , प्रमृगम्, प्रदक्षिणम् (from left to right), अपरदक्षिणम् (south west), पापसमम् (evil year), पुण्यसमम् (good year) | इच् कर्मव्यतिहारे गणसूत्रात् इच्प्रत्ययान्तः अस्ति इति कारणेनन दण्डादण्डि, मुसलामुसलि इत्यादि शब्दाः अपि अन्तर्भूताः |


सम्प्रति=  सम् च प्रति च द्वयोः समाहारः | सम्प्रति इत्यस्य एते अर्थाः सन्ति - अस्मिन् काले, इदानीम्, अधुना, एतर्हि, सांप्रतम् इति |


असम्प्रति = अयोग्ये काले, अनुपस्थितकाले च |


यथा—

तिष्ठन्त्यः गावः (दोहनाय) यस्मिन् काले सः = तिष्ठद्गु गोदोहनकालः | नाम यस्मिन् काले धेनवः स्थिररूपेण तिष्ठन्ति दुहनार्थं, सः कालः एव तिष्ठद्गु, गोदोहनकालः | स्था इति धातुः अव्ययं नास्ति तथापि अव्ययीभावसमासः सिद्ध्यति अनेन सूत्रेण | एवमेव अन्यत्रापि |


तिष्ठद्गु इति समासस्य साधनार्थं प्रक्रियायाः अपेक्षा न वर्तते तथापि प्रक्रिया कथम् अस्ति इति वयम् ऊहां कर्तुं शक्नुमः | अधो भागे प्रदर्शिता -


अलौकिकविग्रहवाक्यम् स्था + शतृ + ङीप् + गो | अत्र गोपूर्वकः स्थाधातुतः शतृप्रत्ययस्य निपातनं कृत्वा तिष्ठद् इति शब्दः निष्पन्नः भवति |  स्त्रीत्वविवक्षायां ङीप् इति प्रत्ययः भूत्वा तिष्ठन्ती इति शब्दः भवति | स्था स्थाने तिष्ठ इति आदेशः भवति पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः (७.३.७८) इति सूत्रेण | तिष्ठ + शतृ + ङीप् + गो |  तिष्ठ + अत् + ई → अतो गुणे (६.१.९६) इत्यनेन अपदान्तात्‌ अतः गुणे परे पूर्वपरयोः स्थाने एकः पररूपमेकादेशः स्यात्‌ | तिष्ठत् + ई |


अधुना नुमागमः भवति  शप्‌श्यनोर्नित्यम्‌ (७.१.८१) इत्यनेन सूत्रेण | अतः तिष्ठन्ती इति प्रातिपदिकं निष्पन्नं स्त्रीत्वविवक्षायाम् |  तिष्ठन्ती + गो इति समासस्य प्रातिपदिकं भवति | तिष्ठन्ती इति स्त्रीलिङ्गपदस्य पुंवद्भावः निपात्यते इति कृत्वा ङीप् इति प्रत्ययस्य, नुमागमस्य च निष्कासनं भवति | अतः तिष्ठद् + गो इति भवति | एकविभक्ति चापूर्वनिपाते (१.२.४४) इति सूत्रेण गो इति नियतलिङ्गशब्दस्य उपसर्जनसंज्ञा भवति , अपि च गोस्त्रियोरुपसर्जनस्य (१.२.४८) इति सूत्रेण गो इति स्त्रिलिङ्गशब्दस्य ह्रस्वत्वं भवति | गो इत्यस्य अन्ते ओकारः वर्तते | सः ओकारः दीर्घसंज्ञक:, तस्य ह्रस्वत्वम् उकारः भवति एच इग्घ्रस्वादेशे ( १.१.४८) इति सूत्रस्य साहाय्येन |  तिष्ठद्गु इति भवति |


अन्यत् उदाहरणम् -

आयत्यः गावः यस्मिन् काले सः  = आयतीगवम् | वने चरन्त्यः गावः दोहनार्थं यस्मिन् काले गोशालां प्रत्यागच्छन्ति, सः कालः आयतीगवम् |


अलौकिकविग्रहवाक्यम् आ + या + शतृ + ङीप् + गो | आ + या + अत् + ङीप् | आया + अत् + ई आयत् + ई | आयती + गो इति समासस्य प्रातिपदिकं भवति |


आयती + गो | अत्र टच् इति प्रत्ययः निपात्यते, अतः आयती+ गो + टच् इति भवति | आयती + गो + अ | यान्तावान्तदेशसन्धिं कृत्वा आयतीगव इति प्रातिपदिकं भवति |  


अधुना आयतीगव इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | सुप् प्रत्ययस्य उत्पत्तिः भवति | अत्र अव्ययादाप्सुपः (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रेण निषिध्यते | नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी-विभक्तिं विहाय | पञ्चमी-विभक्तौ अम् आदेशः न भवति, तत्र  यथा सामान्यं सुप्प्रक्रिया भूत्वा रूपं भवति आयतीगवात् अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति |


आयतीगव + अम् अत्र अमि पूर्वः (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात् | पञ्चमी विभक्तिं विहाय अपरासु विभक्तिषु आयतीगवम् इति रूपं सिद्धं भवति | तृतीयासप्तम्योर्बहुलम्‌ (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति | अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयम् सम्भवति- आयतीगवम् / आयतीगवेन आयतीगवम् / आयतीगवे | अन्यासु विभक्तिषु आयतीगवम् इति रूपं सिद्धं भवति |


अतो गुणे (६.१.९६), शप्‌श्यनोर्नित्यम्‌ (७.१.८१), एकविभक्ति चापूर्वनिपाते (१.२.४४), गोस्त्रियोरुपसर्जनस्य (१.२.४८),एच इग्घ्रस्वादेशे ( १.१.४८), आच्छीनद्योर्नुम्‌ (७.१.८०)

अतो गुणे (६.१.९६)

अपदान्तात्‌ अतः गुणे परे पूर्वपरयोः स्थाने एकः पररूपमेकादेशः स्यात्‌ | गुणः इत्युक्तौ अ, ए, ओ | इदं सूत्रं वृद्धिरेचि (६.१.८७), अकः सवर्णे दीर्घः (६.१.१०१) इत्यनयोः अपवादसूत्रम्‌ | अनुवृत्ति-सहितसूत्रम्‌— अपदान्तात्‌ अतः गुणे पूर्वपरयोः एकः पररूपं संहितायाम्‌ |

शप्‌श्यनोर्नित्यम्‌ (७.१.८१)

शप्श्यन्‌-प्रत्यययोः अवर्णात्‌ अङ्गात्‌ शत्रन्ताङ्गस्य नित्यं नुम्‌ आगमो भवति शी-प्रत्यये नदी-प्रत्यये च परे | अनुवृत्ति-सहितसूत्रम्‌— शप्श्यनोः आत्‌ शतुः अङ्गस्य नित्यं नुम्‌ शीनद्योः |

एकविभक्ति चापूर्वनिपाते (१.२.४४)

विग्रहस्य अवस्थायां यत् पदं नियतविभक्त्यां भवति तस्य पूर्वनिपातात् भिन्नकार्ये कर्तव्ये उपसर्जनसंज्ञा भवति परन्तु तस्य पूर्वनिपातः न भवति | समासे विधीयमाने यत् नियतविभक्तिकं, द्वितीये सम्बन्धिनि बहुभिः विभक्तिभिः युज्यमाने अपि एकयैव विभक्त्या तत् उपसर्जनसंज्ञं भवति अपूर्वनिपाते, पूर्वनिपाताख्यम् उपसर्जनकार्यं वर्जयित्वा | एका विभक्तिर्यस्य तद् एकविभक्ति, बहुव्रीहिः | पूर्वश्चासौ निपातश्चेति पूर्वनिपातः, कर्मधारयः | न पूर्वनिपातः अपूर्वनिपातः, तस्मिन्, अपूर्वनिपाते, नञ्तत्पुरुषः | एकविभक्ति प्रथमान्तं, चाव्ययम्, अपूर्वनिपाते सप्तम्यन्तम् | प्रथमानिर्दिष्टं समास उपसर्जनम् इत्यस्मात् सूत्रात् समासः तथा उपसर्जनम् इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्‌— एकविभक्ति च अपूर्वनिपाते समासे उपसर्जनम् |

गोस्त्रियोरुपसर्जनस्य (१.२.४८)

उपसर्जनगोशब्दान्तस्य उपसर्जनस्त्रीप्रत्ययान्तस्य च प्रातिपदिकस्य ह्रस्वो भवति | गोश्च स्त्री च तयोरितरेतयोगद्वन्द्वौ गोस्त्रियौ, तयोः गोस्त्रियोः | गोस्त्रियोः षष्ठ्यन्तम्, उपसर्जनस्य षष्ठ्यन्तम् द्विपदमिदं सूत्रम् | ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७) इति सूत्रात् प्रातिपदिकस्य, ह्रस्वः च अनयोः पदयोः अनुवृत्तिः भवति | अनुवृत्ति-सहित-सूत्रम्‌— गोस्त्रियोः उपसर्जनस्य प्रातिपदिकस्य ह्रस्वः |

एच इग्घ्रस्वादेशे ( १.१.४८)


एच्-वर्णस्य ह्रस्वादेशः क्रियते चेत्, एच्-वर्णस्य स्थाने इक्-वर्णः विधीयते | उच्चारणसाम्यवशात् एकारस्य, ऐकारस्य च स्थाने इकारः भवति, ओकारस्य औकारस्य च स्थाने उकारः भवति|इदं परिभाषासूत्रम् अस्ति | एचः षष्ठ्यन्तम् , इक् प्रथमान्तं , ह्रस्व-आदेशे सप्तम्यन्तम् | सूत्रं स्वयं सम्पूर्णम्  — एचः इक् ह्रस्वादेशे |

आच्छीनद्योर्नुम्‌ (७.१.८०)


शी-प्रत्ययः वा नदी-प्रत्ययः परे अस्ति चेत्‌, अवर्णात्‌ अङ्गात्‌ शत्रन्ताङ्गस्य विकल्पेन नुम्‌ आगमः भवति | अनुवृत्ति-सहितसूत्रम्‌— आत्‌ अङ्गात्‌ शतुः वा नुम्‌ शीनद्योः |


उपरि गम्यताम्





पारे मध्ये षष्ठ्या वा ( २.१. १८) [12 ]

“पार” तथा “मध्य”, एतौ द्वौ शब्दौ, षष्ठ्यन्तेन सुबन्तेन सह समस्यते, अव्ययीभावसमासः च भवति |


पारे मध्ये षष्ठ्या वा ( २.१. १८) = पार, मध्य इति शब्दौ षष्ठ्यन्तेन सह विभाषा समस्येते, अव्ययीभावश्च समासो भवति | प्रथमा, षष्ठी इत्यादि विभक्तिसंज्ञा सुप् प्रत्ययस्य भवति | अतः षष्ठ्या इत्यनेन विभक्तिप्रत्ययः इत्यर्थः |  षष्ठ्या इत्यनेन षष्ठ्यन्तं सुबन्तम् इति अर्थः निष्पन्नः भवति प्रत्ययग्रहणे तदन्तग्रहणम् इति परिभाषया | अस्मिन् सूत्रे वा इति इत्यपि उक्तम्, विभाषा (२.१.११) इत्यस्य अधिकारः अपि अस्ति | वा इति शब्दस्य द्वारा वैकल्पिकविधानं भवति येन यस्मिन् पक्षे अव्ययीभावसमासः न भवति तस्मिन् पक्षे षष्ठीतत्पुरुषसमासः भवति | इदं सूत्रं षष्ठीतत्पुरुषसमासस्य अपवादः अस्ति | विभाषा इत्यस्य अधिकारात् यस्मिन् पक्षे षष्ठीतत्पुरुषसमासः न भवति, तस्मिन् पक्षे व्यस्तप्रयोगः अपि शक्यते | पारे इति लुप्तप्रथमान्तरूपं, मध्ये इति च लुप्तप्रथमान्तरूपं, षष्ठ्या तृतीयान्तं, चाव्ययम् |  प्राक्कडारात्समासः (२.१.३) इत्यस्य अधिकारः अस्ति | समर्थः पदविधिः (२.१.१) इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति | अव्ययीभावः (२.१.५) इत्यस्य अधिकारः | विभाषा (२.१.११) इत्यस्मात् सूत्रात् विभाषा इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्‌— पारे मध्ये सुपौ षष्ठ्या  सुपा सह अव्ययीभावः समासः वा विभाषा |


एदन्तत्वं च अनयोर्निपात्यते |  अर्थात् प्रकृतसूत्रस्य द्वारा पार, मध्य इति शब्दयोः अन्त्यवर्णस्य स्थाने एदन्तत्वं नाम एकारादेशः निपात्यते अनेन सूत्रेण एव यतोहि उक्तयोः अविभक्तिकपदयोः (पारे, मध्ये च) सूत्रकारेण एकारान्तयुक्तमेव पाठ्यते |


पक्षे षष्ठीतत्पुरुषः | अर्थात् प्रकृतसूत्रे वा इति उक्ततत्वात् अव्ययीभावसमासः न भवति चेत् षष्ठीतत्पुरुषसमासः भवति षष्ठी (२.२.८) इति सूत्रेण  | एवं प्रकृतसूत्रं षष्ठीतत्पुरुषस्य अपवादः अस्ति  | तात्पर्यम् एवं यत् -

१) पारे मध्ये च इति शब्दयोः षष्ठ्यन्तेन सह अव्ययीभावसमासः भवति,

२) पार, मध्य इत्यनयोः शब्दयोः षष्ठ्यन्तेन सह तत्पुरुषसमासः अपि भवति षष्ठी (२.२.८) इति सूत्रेण  | षष्ठी(२.२.८) इति सूत्रस्य विवरणम् अग्रे दीयते  |



षष्ठी (२.२.८) = षष्ठ्यन्तं सुबन्तं समर्थेन सुबन्तेन सह समस्यते, तत्पुरुषश्च समासो भवति | षष्ठी प्रथमान्तम् एकपदमिदं सूत्रम् | सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | सह सुपा (२.१.४) इत्यस्य अधिकारः | विभाषा (२.१.११) इत्यस्य अधिकारः | तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः । अनुवृत्ति-सहित-सूत्रं — षष्ठी सुप् सुपा सह विभाषा तत्परुषः समासः|



सीतायाः पतिः इति विग्रहे, सीता इति षष्ठ्यन्तस्य उपसर्जनसंज्ञा भवति प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण | तदनन्तरम् उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण तस्य पूर्वनिपातः भवति | अतः एव समासे सीता इति पदस्य प्रयोगः पूर्वं भवति | षष्ठीतत्पुरुषसमासः सीतापतिः इति भवति  |


यथा  -

ॐ पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयं

व्यासेन ग्रथितां पुरणमुनिना मध्येमहाभारतम् |

उपरितने श्लोके मध्येमहाभारतम् इति समस्तपदम् पारे मध्ये षष्ठ्या वा ( २.१. १८) इति सूत्रेण भवति |


१) महाभारतस्य मध्यम् = मध्येमहाभारतम् (अव्ययीभावसमासः) , महाभारतमध्यम् (षष्ठीतत्पुरुषः) , महाभारतस्य मध्यम् (व्यस्तप्रयोगः)| षष्ठीतत्पुरुषे एदन्तत्वस्य निपातनं नास्ति इत्यतः मध्ये इति न दृश्यते |


२) गङ्गायाः मध्यम् (in or into the Ganges) = मध्येगङ्गम्, गङ्गामध्यम्, गङ्गायाः मध्यम् |


३) जलस्य मध्यम् = मध्येजलम् (in the middle of the water), जलमध्यम्, जलस्य मध्यम्

अस्मिन् सूत्रे एव वा इति पदम् अस्ति, विभाषा (२.१.११) इत्यस्मात् अधिकारसूत्रात् विभाषा इत्यस्य अनुवृत्तिः अपि अस्ति |  द्वौ विकल्पौ अस्मिन् सूत्रे प्रसक्तौ अतः त्रीणि रूपाणि सम्भवन्ति |  वा इत्यनेन वैकल्पिक-विधानं भवति | अनेन अव्ययिभावसमासः विकल्पेन भवति, पक्षे षष्ठी तत्पुरुषसमासः अपि भवति | महाविभाषा इत्यस्य अधिकारः अपि अस्ति इत्यतः एकस्मिन् पक्षे षष्ठीतत्पुरुषसमासस्यापि अभावः भवति | अतः समास-अभाव-रूपं वाक्यमेव भवति |


यथा—

अ) गङ्गायाः पारात् आनय = पारेगङ्गात् ( from the other side of the Ganga, beyond the Ganges) आनय / गङ्गापारात् आनय / गङ्गायाः पारात् आनय | एकस्मिन् पक्षे पारेगङ्गात् इति अव्ययीभावसमासः विकल्पेन भवति पारे मध्ये षष्ठ्या वा ( २.१. १८) इति सूत्रेण | यस्मिन् पक्षे अव्ययीभावसमासः न भवति तस्मिन् पक्षे षष्ठीतत्पुरुषसमासः भूत्वा गङ्गापारात् इति | यस्मिन् पक्षे षष्ठीतत्पुरुषसमासः न भवति तस्मिन् पक्षे वाक्यं भवति गङ्गायाः पारात् आनय इति |


अलौकिकविग्रहवाक्यम् गङ्गा + ङस् + पार + सु | पारे मध्ये षष्ठ्या वा ( २.१. १८) इति सूत्रेण विकल्पेन अव्ययीभावसमासः भवति | अनेन सूत्रेण एव पारशब्दस्य एकारान्तत्वनिपातनं अपि भवति | विभक्तेः लोपानन्तरं, गङ्गा + पारे इति भवति | पारे इत्यस्य उपसर्जनसंज्ञा भूत्वा तस्य पूर्वनिपातः भवति | पारेगङा इति भवति | ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७) इति सूत्रेण अजन्तस्य नपुंसकलिङ्गे प्रातिपदिकस्य हस्वः भवति | अतः पारेगङ्ग इति भवति |


अधुना पारेगङ्ग इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | सुप् प्रत्ययस्य उत्पत्तिः भवति | अत्र अव्ययादाप्सुपः (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रेण निषिध्यते | नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी-विभक्तिं विहाय | पञ्चमी-विभक्तौ अम् आदेशः न भवति, तत्र  यथा सामान्यं सुप्प्रक्रिया भूत्वा रूपं भवति पारेगङ्गात् अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति |

पारेगङ्ग+ अम् अत्र अमि पूर्वः (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात् | पञ्चमी विभक्तिं विहाय अपरासु विभक्तिषु पारेगङ्गम् इति रूपं सिद्धं भवति | तृतीयासप्तम्योर्बहुलम्‌ (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति | अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयम् सम्भवति- पारेगङ्गम् / पारेगङ्गेन, पारेगङ्गम् / पारेगङ्गे | अन्यासु विभक्तिषु पारेगङ्गम् इति रूपं सिद्धं भवति |


यस्मिन् पक्षे अव्ययीभावसमासः न भवति तस्मिन् पक्षे षष्ठीतत्पुरुषसमासः भूत्वा गङ्गापारात् इति | गङ्गायाः पारः इति लौकिकविग्रहः भवति |

अलौकिकविग्रहवाक्यम् गङ्गा + ङस् + पार + सु | समासप्रक्रिया भूत्वा गङापार इति प्रातिपदिकं भवति | सुप् प्रत्ययस्य उत्पत्तिः भवति | गङ्गापारः इति रूपं भवति प्रथमाविभक्तौ एकवचने | गङ्गापारात् इति रूपं भवति पञ्चमी विभक्तौ |

यस्मिन् पक्षे षष्ठीतत्पुरुषसमासः न भवति तस्मिन् पक्षे वाक्यं भवति गङ्गायाः पारात्  आनय इति |


आ)  गङ्गायाः मध्यात् =मध्येगङ्गात् / गङ्गामध्यात् / गङ्गायाः मध्यात् | एकस्मिन् पक्षे मध्येगङ्गात् इति अव्ययीभावसमासः भवति | यस्मिन् पक्षे अव्ययीभावसमासः न भवति तस्मिन् पक्षे षष्ठीतत्पुरुषसमासः भूत्वा गङ्गामध्यात् इति भवति | यस्मिन् पक्षे षष्ठीतत्पुरुषसमासः न भवति तस्मिन् पक्षे वाक्यं भवति गङ्गायाः मध्यात् आनय इति | प्रक्रिया यथा उपरि प्रदर्शिता अस्ति तथैव भवति |


इ) मार्गस्य मध्यम् =  मध्येमार्गम्, मार्गमध्यम्, मार्गस्य मध्यम् |

ई) सभायाः मध्यम्  = मध्येसभम्, सभामध्यम्, सभायाः मध्यम् | उ) समुद्रस्य पारम् = पारेसमुद्रम्, समुद्रपारम्, समुद्रस्य पारम्  |

उ) समुद्रस्य पारम् = पारेसमुद्रम्, समुद्रपारम्, समुद्रस्य पारम्  |

ऊ) जलस्य मध्यम् = मध्येजलम्, जलमध्यम्, जलस्य मध्यम् |


उपरि गम्यताम्




संख्या वंश्येन (२.१.१९) [13 ]

संख्यावाची शब्दः वंश्यवाचिना सुबन्तेन सह विकल्पेन समस्यते, अव्ययीभावसमासः च भवति |


संख्या वंश्येन (२.१.१९) = सङ्ख्यावाची शब्दः वंश्यवाचिना शब्देन सह विकल्पेन समस्यते, अव्ययीभावश्च समासो भवति | वंशः द्विविधः- विद्यया, जन्मना च, तत्र भवः वंश्यः | वंशः नाम सन्ततिः इत्यर्थः | वंशस्य प्रतिनिधित्वं द्वे रूपे भवतः- विद्यावंशः, जन्मवंशः च  | विद्यावंशे गुरु-शिष्यानां परम्परा भवति, अतः सः विद्यावंशः इत्युच्यते | जन्मवंशे पिता-पुत्राणां परम्परा भवति, अतः सः जन्मवंशः इत्युच्यते | यः वंशे उत्पन्नः सः वंश्यः भवति | वंशः इति शब्दात् दिगादिभ्यो यत् (४.३.५४) इति सूत्रेण यत्-प्रत्ययः विहितः भवति, तस्मात् वंश्यः इति शब्दः निष्पन्नः भवति  | सङ्ख्या प्रथमान्तं, वंश्येन तृतीयान्तम् |  प्राक्कडारात्समासः (२.१.३) इत्यस्य अधिकारः अस्ति | समर्थः पदविधिः (२.१.१) इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति | अव्ययीभावः (२.१.५) इत्यस्य अधिकारः | विभाषा (२.१.११) इत्यस्मात् सूत्रात् विभाषा इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— संख्या सुप् वंश्येन सुपा सह अव्ययीभावः समासः विभाषा |


दिगादिभ्यो यत् (४.३.५४) इति सूत्रेण दिगादिभ्यः प्रातिपदिकेभ्यः यत् इति तद्धितप्रत्ययो भवति, तत्र भवः इत्येतस्मिन् विषये यथा दिशि भवम् = दिश्यम्, वर्गे भवम् = वर्ग्यम् |  एवम् एव वंशे भवम् = वश्यम् |

प्रकृतसूत्रे सङ्ख्यावाचक: प्रथमान्तः इत्यतः तस्य उपसर्जनसंज्ञा भूत्वा पूर्वनिपातः भवति | सङ्ख्यावाचकाः इत्यनेन एकं, द्वे, त्रीणि इत्यादीनां सङ्ख्यावाचकानां ग्रहणं भवति |


यथा –

द्वौ मुनी वंश्यौ = द्विमुनि, द्वौ मुनी वंश्यौ | यस्मिन् वंशे द्वौ मुनी स्तः | एतत् विद्यावंशस्य उदाहरणम् अस्ति | द्वौ च तौ मुनी चेति विग्रहे `विशेषणं विशेष्येण बहुलम् ( २.१.५७)'इत्यनेन कर्मधारयं बाधित्वाऽव्ययीभावः भवति  |


अलौकिकविग्रहवाक्यं द्वि+ औ+ मुनि+ औ | अत्र  द्वि इति सङ्ख्यावाचकशब्दः, मुनिः इति वंश्यवाचकेन सह समस्यते संख्या वंश्येन (२.१.१९) इति सूत्रेण, अव्ययीभावसमासश्च विकल्पेन भवति | प्रातिपदिकसंज्ञा भूत्वा सुप् प्रत्यययोः लोपः जायते | सङ्ख्यावाचकस्य उपसर्जनसंज्ञा भूत्वा पूर्वनिपातः भवति, अतः द्विमुनि इति प्रातिपदिकं निष्पन्नं भवति |


द्विमुनि + सु अत्र अव्ययादाप्सुपः (२.४.८२) इति सूत्रेण अव्ययात् परस्य सु प्रत्ययस्य लोपः भवति | अव्ययीभावश्च (१.१.४१) इत्यनेन सूत्रेण द्विमुनि इत्यस्य अव्ययसंज्ञा भवति | अतः द्विमुनि इत्यस्मात् सु प्रत्ययस्य लोपः भवति अव्ययादाप्सुपः (२.४.८२) इति सूत्रेण | द्विमुनि इति समस्तपदं निष्पन्नम् | व्याकरणस्य त्रिमुनि इत्यर्थः | व्याकरणे त्रयः मुनयः आसन् - पाणिनिः, कात्यायनः, पतञ्चलिश्च | अतः त्रिमुनि व्याकरणम् इति वदामः |


त्रयो मुनयः वंश्याः  = त्रिमुनि, त्रयो मुनयः वंश्याः  | व्याकरणस्य त्रिमुनि | एतदपि विद्यावंशस्य उदाहरणम् अस्ति |


अलौकिकविग्रहवाक्यं त्रि + जस् + मुनि + जस् | प्रक्रिया यथा उपरि प्रदर्शिता |


त्रिमुनि व्याकरणम् इति प्रयोगः दृश्यते लोके | त्रिमुनि व्याकरणम् इति प्रयोगः साधुः उत न इति प्रश्नः उदेति यतोहि अत्र विशेषण-विशेष्यभावः प्रदर्शितः  | त्रिमुनि एव व्याकरणं, व्याकरणमेव त्रिमुनि इत्यर्थः इङ्गितः | त्रिमुनि इति पदम् अपि प्रथमाविभक्तौ अस्ति, व्याकरणम् इति पदम् अपि प्रथमाविभक्तौ अस्ति  | अनयोः पदयोः समानविभक्तिकत्वं युज्यते वा ?  वस्तुतः  द्वौ मुनी व्याकरणस्य , द्विमुनि व्याकरणस्य, त्रिमुनि व्याकरणस्य इति वक्तव्यं भवति  | व्याकरणस्य इति सम्बन्धे षष्ठी स्यात् परन्तु उदाहरणेषु द्विमुनि व्याकरणम् इत्युक्तं यत्र द्विमुनि इति पदम् अपि प्रथमायाम् अस्ति, व्याकरणम् इत्यपि प्रथमायाम् एव अस्ति  |  एतादृशप्रयोगस्य साधुत्वं कथम् इति विषये अग्रे उच्यते |


विद्या-तद्वताम् अभेदविवक्षायां त्रिमुनि व्याकरणम्  इति उक्तं सिद्धान्तकौमुद्याम् | यदा तु विद्यया तद्वताम् अभेदविवक्षा तदा सामानाधिकरण्यं भवति | व्याकरणं विद्या चेत्, मुनिः विद्यावान् भवति | विद्यावान् नाम यस्मिन् विद्या अस्ति | यद्यपि विद्या भिन्ना, विद्यावान् च भिन्नः, परन्तु अत्र अनयोः समानाधिकरणं विवक्षितम् अस्ति, अभेदः विवक्षितः | अतः विद्या तथा विद्यावान् अनयोः पदयोः अभेदं मत्वा द्वयोः पदयोः समानविभक्तिकत्वं युज्यते इति स्वीक्रियते | तदनुसृत्य द्विमुनि व्याकरणम् ( द्वाभ्यां मुनिभ्यां व्याकरणम् अभिन्नम् अस्ति ), त्रिमुनि व्याकरणम् ( त्रिभिः मुनिभिः व्याकरणम् अभिन्नम् अस्ति) इत्यादिषु प्रयोगेषु साधुत्वं स्वीक्रियते | अतः द्विमुनि व्याकरणम्, त्रिमुनि व्याकरणम् इत्यादीनि साधुवाक्यानि सिद्ध्यन्ति |


संख्या वंश्येन (२.१.१९) इति सूत्रेण यः अव्ययीभावसमासः विहितः, तस्मिन् स्वपदार्थस्य एव प्राधान्यम् अस्ति  |  यदा अन्यपदार्थस्य प्राधान्यं विवक्षितं तदा बहुव्रीहिसमासः क्रियते , यथा त्रयः मुनयः वंश्याः यस्य तत् = त्रिमुनि व्याकरणम् इति | बहुव्रीहिसमामस्य यः अर्थः, सः एव अर्थः सिद्धः अव्ययीभावसमासेन अपि, तर्हि अनयोः भेदः कः इति चेत् बहुव्रीहिसमासे स्वरभेदः भवति, अपि च प्रथमाविभक्तिं विहाय अन्यासु विभक्तिषु रूपभेदः अपि जायते | त्रिमुनिम्, त्रिमुनिना, त्रिमुनेः, त्रिमुनौ इत्यादीनि रूपाणि सिद्धयन्ति बहुव्रीहौ  | परन्तु अव्ययीभावसमासे त्रिमुनि इति एकमेव रूपं सिद्ध्यति |


एकविंशतिः भारद्वाजाः वंश्याः = एकविंशतिभारद्वाजम्, एकविंशतिः भारद्वाजाः | एतत् जन्मवंशस्य उदाहरणम् अस्ति  | अलौकिकविग्रहवाक्यं एकविंशति + सु + भारद्वाज + जस् | एकविंशतिभारद्वाज इति प्रातिपदिकं भवति |


अधुना एकविंशतिभारद्वाज  इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | सुप् प्रत्ययस्य उत्पत्तिः भवति | अत्र अव्ययादाप्सुपः (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रेण निषिध्यते | नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी-विभक्तिं विहाय | पञ्चमी-विभक्तौ अम् आदेशः न भवति, तत्र  यथा सामान्यं सुप्प्रक्रिया भूत्वा रूपं भवति एकविंशतिभारद्वाजात् अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति |


एकविंशतिभारद्वाज + अम् अत्र अमि पूर्वः (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात् | पञ्चमी विभक्तिं विहाय अपरासु विभक्तिषु एकविंशतिभारद्वाजम् इति रूपं सिद्धं भवति | तृतीयासप्तम्योर्बहुलम्‌ (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति | अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयम् सम्भवति- एकविंशतिभारद्वाजम् / एकविंशतिभारद्वाजेन, एकविंशतिभारद्वाजम् / एकविंशतिभारद्वाजे | अन्यासु विभक्तिषु एकविंशतिभारद्वाजम् इति रूपं सिद्धं भवति |


उपरि गम्यताम्

नदीभिश्च (२.१.२०) [14 ]

संख्यावाची शब्दः नदीवचनैः सुबन्तैः सह समस्यते, अव्ययीभावसमासः च भवति |


नदीभिश्च (२.१.२०) = सङ्ख्यावाचकशब्दः नदीवाचकैः शब्दैः सह विकल्पेन समस्यते, अव्ययीभावश्च समासश्च भवति | नदी इति शब्दस्य त्रयः अर्थाः सन्ति- नदीशब्दः, नदीवाचकशब्दः, नदीसंज्ञकः शब्दः च | व्याकरणे नदी इति काचित संज्ञा अपि वर्तते | परन्तु अस्मिन् सूत्रे नदीभिः इति बहुवचनान्तनिर्देशेन ज्ञायते यत् नदीवाचिना शब्देन सह एव समासः भवति न तु स्वरूपात्मकेन नदीशब्देन सह इति  | नदी इति शब्दस्य द्वारा प्रसिद्धाः नदीविशेषवाचकाः यथा गङ्गा, यमुना, गोधावरी, गण्डकी, नर्मदा इत्यदीनां ग्रहणं भवति | नदीभिः तृतीयान्तं, चाव्यायम् |   प्राक्कडारात्समासः (२.१.३) इत्यस्य अधिकारः अस्ति | समर्थः पदविधिः (२.१.१) इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति | अव्ययीभावः (२.१.५) इत्यस्य अधिकारः | विभाषा (२.१.११) इत्यस्मात् सूत्रात् विभाषा इत्यस्य अनुवृत्तिः | संख्या वंश्येन (२.१.१९) इत्यस्मात् सूत्रात् संख्या इत्यस्य अनुवृत्तिः |  अनुवृत्ति-सहित-सूत्रं— संख्या सुप् नदीभिश्च सुब्भिः सह अव्ययीभावः समासः विभाषा |


समाहारे च अयम् इष्यते इति वार्तिकम् अस्ति | वार्तिकार्थः अस्ति - प्रकृतसूत्रे विधीयमानः समासः समाहारार्थे एव भवति | अस्मिन् वार्तिके च इति शब्दः एव इति अर्थः सूच्यते | सामान्यतया समाहारार्थे द्विगुसमासः एव विधीयते | द्विगुसमासे पूर्वपदं सङ्ख्यावाचकं पदं एव भवति  | किन्तु सङ्ख्यापूर्वः सर्वेऽपि द्विगुः न | द्विगुसमासः त्रिविधः- १) समाहारद्विगुः, २) तद्धितद्विगुः ३) उत्तरपदद्विगुः चेति | तद्धितार्थोत्तरपदसमाहारे च (२.१.५१) संख्यापूर्वो द्विगुः (२.१.५२) च द्वाभ्यां सूत्राभ्यां द्विगुसमासः विधीयते | द्विगुसमासस्य प्रसङ्गे इतोऽपि अग्रे पठिष्यामः |  नदीभिश्च (२.१.२०) इति सूत्रम् द्विगुसमासस्य अपवादभूतसूत्रम् अस्ति यतः समाहारार्थे एव अयं समासः विहितः भवति | यत्र समूहार्थस्य विवक्षा अस्ति तत्र समाहारार्थे समासः विधीयते इति सामान्यनियमः | नदीभिश्च (२.१.२०) इति सूत्रं सर्वदा समाहारार्थे एव विधीयते  |



यथा –

सप्तानां गङ्गानां समाहारः = सप्तगङ्गं, सप्तानां गङ्गानां समाहारः | अयं समासः अव्ययीभावसमासः न तु समाहारद्विगुसमासः |

अलौकिकविग्रहवाक्यं सप्तन् + जस् + गङ्गा + जस् | सप्तन् इति सङ्ख्यावाचकशब्दः, गङ्गा  इति नदीवाचकशब्दः,  अतः नदीभिश्च (२.१.२०) इति सूत्रेण अव्ययीभावसमासः विकल्पेन भवति | प्रातिपदिकसंज्ञा भूत्वा सुप् प्रत्यययोः लोपः जायते | सङ्ख्यावाचकस्य उपसर्जनसंज्ञा भूत्वा पूर्वनिपातः भवति, अतः सप्तन् + गङ्गा इति भवति | न लोपः प्रातिपदिकान्तस्य (८.२.७) इति सूत्रण प्रातिपदिकसंज्ञक-पदस्य अन्ते विद्यमानस्य नकारस्य लोपः जायते |  सप्तन् इति प्रातिपदिकस्य, पदस्य अन्ते विद्यमानस्य नकारस्य लोपः भवति → सप्त + गङ्गा | ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७) इति सूत्रेण अजन्तस्य नपुंसकलिङ्गे प्रातिपदिकस्य हस्वः भवति | अतः सप्तगङ्ग इति प्रातिपदिकं निष्पन्नम्  |


सप्तगङ्ग अधुना सप्तगङ्ग इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | सुप् प्रत्ययस्य उत्पत्तिः भवति | अव्ययादाप्सुपः (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रेण निषिध्यते | नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी-विभक्तिं विहाय | पञ्चमी-विभक्तौ अम् आदेशः न भवति, यथा सामान्यं सुप्प्रक्रिया भूत्वा रूपं भवति सप्तगङ्गात् इति, अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति | सप्तगङ्ग+ अम् → अमि पूर्वः (६.१.१०५) इत्यनेन अक्-वर्णात् अम्-सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात् | पञ्चमी विभक्तिं विहाय अपरासु विभक्तिषु सप्तगङ्गम् इति रूपं सिद्धं भवति | तृतीयासप्तम्योर्बहुलम्‌ (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति | अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयम् सम्भवति- सप्तगङ्गम् / सप्तगङ्गेन, सप्तगङ्गम् / सप्तगङ्गे | अन्यासु विभक्तिषु सप्तगङ्गम् इति रूपं सिद्धं भवति | यस्मिन् पक्षे समासः न भवति तस्मिन् पक्षे सप्तानां गङ्गानां समाहार इति वाक्यं भवति |

सप्तगङ्ग+ अम् → अमि पूर्वः (६.१.१०५) इत्यनेन अक्-वर्णात् अम्-सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात् | पञ्चमी विभक्तिं विहाय अपरासु विभक्तिषु सप्तगङ्गम् इति रूपं सिद्धं भवति | तृतीयासप्तम्योर्बहुलम्‌ (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति | अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयम् सम्भवति- सप्तगङ्गम् / सप्तगङ्गेन, सप्तगङ्गम् / सप्तगङ्गे | अन्यासु विभक्तिषु सप्तगङ्गम् इति रूपं सिद्धं भवति | यस्मिन् पक्षे समासः न भवति तस्मिन् पक्षे सप्तानां गङ्गानां समाहार इति वाक्यं भवति |


द्वयोः यमुनयोः समाहारः = द्वियमुनम् | अयं समासः अव्ययीभावसमासः न तु समाहारद्विगुसमासः |

अलौकिकविग्रहवाक्यं द्वि + औ + यमुना + औ | प्रक्रिया यथा उपरि प्रदर्शिता आसीत् |


सप्तगङ्गं, द्वियमुनम्, इत्यनयोः उदाहरणयोः तद्धितार्थोत्तरपदसमाहारे च (२.१.५१) इति सूत्रेण समाहारद्विगुसमासः यदा विधीयते तदा स नपुंसकम् (२.४.१७) इति सूत्रेण समासः नपुंसकलिङ्गे भवति | नपुंसकलिङ्गे समासः भवति इति कारणने ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७) इति सूत्रेण अजन्तस्य नपुंसकलिङ्गे प्रातिपदिकस्य हस्वः भवति | सप्तगङ्ग, द्वियमुन इति प्रातिपदिके निष्पन्ने भवतः  | तत्पश्चात् नपुंसकलिङ्गे वनशब्दस्य रूपाणि इव रूपाणि भवन्ति  | अतः प्रथमाविभक्तौ एकवचने सप्तगङ्गं, द्वियमुनं च समस्तपदे निष्पन्ने भवतः | तर्हि प्रश्नः उदेति यत् नदीभिश्च (२.१.२०) इति सूत्रस्य का आवश्यकता?

समाधानम् अस्ति यत् नदीभिश्च (२.१.२०) इति सूत्रेण अव्ययीभावसमासस्य कारणेन सर्वासु विभक्तिषु अम्भावः सिद्धयति पञ्चमीं विहाय | तृतीयाविभक्त्यां, सप्तमी-विभक्त्याञ्च अम् आदेशः विकल्पेन भवति | यदि समाहारद्विगुसमासः विहितः तर्हि सर्वासु विभक्तिषु अमादेशः न भवति | चतुर्थ्यां सप्तगङ्गाय, द्वियमुनाय अपि च षष्ठ्यां सप्तगङ्गस्य, द्वियमुनस्य इति रूपाणि भवन्ति | सर्वासु विभक्तिषु अमादेशः (पञ्चमीं विहाय) एव अव्ययीभावसमासस्य प्रयोजनम् | अतः पाणिनिना नदीभिश्च (२.१.२०) इति सूत्रं कृतम् |


एवमेव –

सप्तानां गोदावरीनां समाहारः = सप्तगोदावरम् | अयं समासः अव्ययीभावसमासः न तु समाहारद्विगुसमासः | संख्याया नदीगोदावरीभ्यां च इति वार्तिकेन संख्यायाः परः  नदीशब्दः अथवा गोदावरीशब्दः चेत् तस्मात् अच् इति समासान्तः विधीयते | सप्तगोदवरी + अच् सप्तगोदावरी + अ →  यचि भम्‌ (१.४.१८) इत्यनेन सप्तगोदावरी इत्यस्य भसंज्ञा भवति अच् इति अजादि प्रत्यये परे | यस्येति च (६.४.१४८) इत्यनेन भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च ईकारे परे, तद्धितप्रत्यये परे च लोपः भवति | सप्तगोदावरी इत्यस्य ईकारस्य लोपः भवति सप्तगोदावर् + अ सप्तगोदावर इति भवति प्रातिपदिकम् | अधुना प्रातिपदिकम् अदन्तत्वात् सप्तगोदावरम् इति समासः सिद्धः भवति |


एवमेव पञ्चानां नदीनां समाहारः = पचनदम् | संख्याया नदीगोदावरीभ्यां च इति वार्तिकेन संख्यायाः परः  नदीशब्दः अथवा गोदावरीशब्दः चेत् तस्मात् अच् इति समासान्तः विधीयते | पञ्चनदी + अच् पञ्चनदी + अ →  यचि भम्‌ (१.४.१८) इत्यनेन पञ्चनदी इत्यस्य भसंज्ञा भवति अच् इति अजादि प्रत्यये परे | यस्येति च (६.४.१४८) इत्यनेन भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च ईकारे परे, तद्धितप्रत्यये परे च लोपः भवति | पञ्चनदी इत्यस्य ईकारस्य लोपः भवति पञ्चनद् + अ पञ्चनद इति भवति प्रातिपदिकम् | अधुना प्रातिपदिकम् अदन्तत्वात् पञ्चनदम् इति समासः सिद्धः भवति |

पञ्चानां गङ्गानां समाहारः = पञ्चगङ्गम्

उपरि गम्यताम्




अन्यपदार्थे च संज्ञायाम् ( २.१. २१) [15 ]

अन्यपदार्थे विद्यमानं सुबन्तं नदीभिः सह नित्यं समस्यते संज्ञायाम्, अव्ययीभावसमासः च भवति |


अन्यपदार्थे च संज्ञायाम् ( २.१. २१)

अन्यपदार्थे वर्तमानं सुबन्तं नदीविशेषवाचिना सुबन्तेन सह संज्ञायां विषये समस्यते, अव्ययीभावश्च समासः च भवति | अव्ययीभावसमासे प्रायेण पूर्वपदस्य प्राधान्यं भवति परन्तु अनेन सूत्रेण यः समासः विहितः भवति, तस्मिन् अन्यपदस्य प्राधान्यं भवति बहुव्रीहिसमासवत् | संज्ञायां नाम समस्तपदं काचित् संज्ञा स्यात् संस्कृतभाषायाम् |  यद्यपि अस्मिन् सूत्रे विभाषा (२.१.११) इति सूत्रस्य अधिकारः अस्ति तथापि अस्मिन् सूत्रे न सम्बध्यते यतोहि संज्ञायाम् इत्युक्तत्वात् `समासः नित्य:' |  यत्र सूत्रेषु संज्ञायां विषये समासः विधीयते तत्र समासः नित्यः भवति | वाक्ये संज्ञायाः अवगमनं न भवति इति कृत्वा यत्र संज्ञायां समासः विधीयते तत्र समासः नित्यः भवति  | अर्थात् व्यस्तप्रयोगः न सम्भवति यतो संज्ञायाः अवगमनं न भवति व्यस्तप्रयोगेण | अन्यत् च तत् पदम् च, अन्यपदम्, अन्यपदस्य अर्थः अन्यपदार्थः, तस्मिन् अन्यपदार्थे, कर्मधारय-गर्भ-षष्ठीतत्पुरुषः | अन्यपदार्थे सप्तम्यन्तं, चाव्ययं, संज्ञायां सप्तम्यन्तम् | प्राक्कडारात्समासः (२.१.३) इत्यस्य अधिकारः अस्ति | समर्थः पदविधिः (२.१.१) इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति | अव्ययीभावः (२.१.५) इत्यस्य अधिकारः | नदीभिश्च (२.१.२०) इत्यस्मात् सूत्रात् नदीभिः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— संज्ञायाम् अन्यपदार्थे सुप् नदीभिः सुब्भिः सह अव्ययीभावः समासः |


अव्ययीभाससमासे प्रायेण पूर्वपदस्य प्राधान्यम् इत्युच्यते  | कदाचित् पूर्वपदार्थस्य प्राधान्यं नास्ति चेदपि अव्ययीभावसमासः भवति, यथा उन्मत्तगङ्गम्, लोहितगङ्गम्  इति | "उन्मत्ता गङ्गा यस्मिन् देशे, उन्मत्तगङ्गम्" तथैव "लोहिता गङ्गा यस्मिन् देशे, लोहितगङ्गम्" इत्यादिषु उदाहरणेषु अन्यपदार्थस्य प्राधान्यं वर्तते न तु पूर्वपदस्य, तथापि समासः तु अव्ययीभावः एव  न तु बहुव्रीहिः  | अनयोः समासयोः पूर्वपदस्य प्राधान्यं नास्ति यतो हि समासे अन्यपदार्थस्य प्राधानयम् अस्ति |  अन्यपदार्थः देशः, सः विशेष्यः अस्ति,  उन्मत्तगङ्गम्, लोहितगङ्गञ्च विशेषणे स्तः | प्रकृतसूत्रे समस्तपदं संज्ञायाम् एव भवति | पूर्वमपि अस्माभिः अव्ययीभावप्रसङ्गे पूर्वपदप्राधान्यस्य अपवादः चर्चितः, यथा शाकप्रति, सुखप्रति इत्यादिषु स्थलेषु उत्तरपदस्य प्राधान्यं दृष्टम्, तथैव अस्मिन् समासे अपि   |


वाक्यात् संज्ञायाः बोधः नैव शक्यः, केवलं समासेन  एव संज्ञायाः बोधः जायते, अतः एव प्रकृतसूत्रेण समासः नित्यः इत्युक्तम्  | यदि समासं विना केवलं वाक्येन अपि संज्ञायाः बोधः शक्यते तादृशस्थलेषु समासः वैकल्पिकः भवितुम् अर्हति, परन्तु प्रकृतसूत्रेण तु समासः नित्यः एव |


यथा—

उन्मत्ता गङ्गा यस्मिन् = उन्मत्तगङ्गम् | उन्मत्तगङ्गम् इति एकस्य देशस्य नाम, यत्र गङ्गा उन्मत्ता भूत्वा प्रवहति | अर्थात् यस्मिन् प्रदेशे गङ्गा प्रचण्डा अस्ति, सः प्रदेशः उन्मत्तगङ्गम् इति नाम्ना ज्ञायते |

लौकिकविग्रहे उन्मत्ता गङ्गा यस्मिन् इति वाक्यात् संज्ञायाः बोधः न भवति किन्तु उन्मत्तगङ्गम् इति समस्तपदात् संज्ञायाः बोधः जायते यतोहि उन्मत्तगङ्गम् इति देशविशेषस्य संज्ञा अस्ति |


अलौकिकविग्रहवाक्यं उन्मत्ता + सु + गङ्गा + सु | उन्मत्तगङ्गम् इति देशवाचकपदम् इत्यतः उन्मत्ता अपि च गङ्गा अनयोः शब्दयोः समासः अन्यपदार्थे भवति | उन्मत्ता इत्यस्य नदीवाचकस्य गङ्गा इति शब्देन सह अन्यपदार्थे च संज्ञायाम् ( २.१. २१) इति सूत्रेण अव्ययीभावसमासः विधीयते | प्रातिपदिकसंज्ञा भवति, सुप् प्रत्यययोः लुक् भवति |


उन्मत्ता + गङ्गा → स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियाऽऽदिषु (६.३.३४) इति सूत्रेण पूर्वस्त्रिलिङ्गपदस्य पुंवद्भावः भवति उन्मत्तगङ्गा  ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७) इति सूत्रेण अजन्तस्य नपुंसकलिङ्गे प्रातिपदिकस्य हस्वः भवति | अतः उन्मत्तगङ्ग इति भवति |


उन्मत्तगङ्ग अधुना उन्मत्तगङ्ग इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | सुप् प्रत्ययस्य उत्पत्तिः भवति | अत्र अव्ययादाप्सुपः (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रेण निषिध्यते | नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते  पञ्चमी-विभक्तिं विहाय | पञ्चमी-विभक्तौ अम् आदेशः न भवति, तत्र  यथासामान्यं सुप्प्रक्रिया भूत्वा रूपं भवति उन्मत्तगङ्गात् अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति |


उन्मत्तगङ्ग + अम् अत्र अमि पूर्वः (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात् | पञ्चमी-विभक्तिं विहाय अपरासु विभक्तिषु उन्मत्तगङ्गम् इति रूपं सिद्धं भवति | तृतीयासप्तम्योर्बहुलम्‌ (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति | अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयं सम्भवति - उन्मत्तगङ्गम् / उन्मत्तगङ्गेन, उन्मत्तगङ्गम् / उन्मत्तगङ्गे | अन्यासु विभक्तिषु उन्मत्तगङ्गम् इति रूपं सिद्धं भवति | उन्मत्तगङ्गम् इति देशवाचकं संज्ञापदम् इत्यतः समासः नित्यः, संज्ञाबोधार्थं वाक्यं न सम्भवति |


लोहिता गङ्गा यस्मिन् = लोहितगङ्गम् | लोहितगङ्गम् इति एकस्य देशस्य नाम अस्ति | यस्मिन् प्रदेशे गङ्गा रक्तवर्णं धृत्वा वहति सः प्रदेशः लोहितगङ्गम् इति नाम्ना ज्ञायते |

अलौकिकविग्रहवाक्यं लोहिता + सु + गङ्गा +सु | प्रक्रिया यथा पूर्वं प्रदर्शिता तथैव अस्ति अत्रापि |


अन्यपदार्थे च संज्ञायाम् ( २.१. २१) इति सूत्रे संज्ञायाम् इति पदम् अस्ति इत्यतः संज्ञा यत्र अस्ति तत्रैव अन्यपदार्थे अव्ययीभावसमासः भवति | यदि लोहिता गङ्गा यस्मिन् देशे सः इति वाक्यं तर्हि संज्ञायाः बोधः न भवति यतोहि सामान्यदेशस्य एव बोधः भवति, अतः अव्ययीभावसमासः न भवति अपि तु बहुव्रीहिसमासः लोहितगङ्गः इति भवति  | लोहितगङ्गः देशः  इति वाक्यं भवति | संज्ञा अस्ति चेत् लोहितगङ्गम् इति समस्तपदं भवति नो चेत् लोहितगङ्गः इति बहुव्रीहिसमासः भवति |

अन्यानि उदाहरणानि - कृष्णगङ्गम् , तूष्णींगङ्गम्, शनैर्गङ्गम् | गङ्गतटवर्तिनां प्रदेशविशेषाणां एतानि संज्ञापदानि सन्ति  |


स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियाऽऽदिषु  ( ६.३.३४)

भाषितपुस्कात् परः ऊङः अभावः यत्र तथाभूतस्य स्त्रीवाचकशब्दस्य पुंवाचकस्य एव रूपं स्यात् समानाधिकरणे स्त्रीलिङ्गे उत्तरपदे परे न तु पूरण्यां प्रियादौ च परतः | अर्थात् भाषितपुंस्कशब्दात् ऊङ्प्रत्ययः न विहितः चेत्, तदा तादृशस्य स्त्रीवाचकशब्दस्य पुंवाचकं रूपं भवति समानाधिकरणे स्त्रीलिङ्गशब्दे उत्तरपदे परे , परन्तु समानाधिकरणे  पूरणार्थकप्रत्ययान्ते स्त्रीलिङ्ग-उत्तरपदे परे अथवा प्रियादिगणे पठिते स्त्रीलिङ्ग-उत्तरपदे परे न भवति | भाषितपुंस्कः नाम तादृशशब्दः यः पूर्वं पूलिङ्गे आश्रितः, तत्पश्चात् स्त्रीत्वविवक्षायां सत्यां स्त्रीप्रत्ययं योजयित्वा स्त्रीलिङ्गपदं कुर्मः | एतादृशशब्दाः एव भाषितपुंस्काः | अर्थात्  यः शब्दः स्त्रीलिङ्गे, पुंलिङ्गे च प्रयुक्तः अस्ति, तथा च तयोः अनन्तरम् ऊङ् प्रत्ययः न विहितः चेत्, तदा स्त्रीलिङ्गवाचकशब्दः पूर्वपदे चेत्  पुंलिङ्गवत् भवति | किन्तु उत्तरपदे पूरणिसंख्यावाचकः स्त्रीलिङ्गशब्दः अथवा प्रियादिगणे पठितः स्त्रीलिङ्गशब्दः अस्ति चेत् पुंवद्भावः न भवति |   पुंसि इति पुंवत् | भाषितः पुमान् येन स भाषितपुंस्कः बहुव्रीहिः | तस्मात् भाषितपुंस्काद् | न ऊङ् ऊङोऽभावः अनूङ् | भाषितपुंस्काद् अनूङ् यस्यां सा भाषितपुंस्कादनूङ् तस्य | अत्र समासः भाषितपुस्कानूङ् इति स्यात् परन्तु भाषितपुंस्कादनूङ् इति अस्ति, अतः भाषितपुंस्काद् इत्यत्र पञ्चमीविभक्तेः अलुक्त्वं निपात्यते, अतः सूत्रे पञ्चमी दृश्यते  | निपातनात् पञ्चमी इत्यस्य अलुक्;  अपि च षष्ठी इत्यस्य लुक् भवति | भाषितपुस्तकादनूङ् इत्यस्य षष्ठी भाषितपुंस्कादनूङः इति स्यात्   | परन्तु सूत्रे भाषितपुंस्कादनूङ् इत्युक्तम्  | अत्र षष्ठीविभक्तेः लुक् निपात्यते  | अतः भाषितपुंस्कादनूङ् लुप्तषष्ठीकं पदम् | स्त्रियाः षष्ठ्यन्तं, पुंवद् अव्ययपदं, भाषितपुंस्कादनूङ् लुप्तषष्ठ्यन्तं, समानाधिकरणे सप्तम्यन्तं, स्त्रियाः षष्ठ्यन्तं, पूरणीप्रियादिषु सप्तम्यन्तं, अनेकपदमिदं सूत्रम् | अलुगुत्तरपदे ( ६.३.१) इत्यस्मात् सूत्रात् उत्तरपदे इत्यस्य अनुवृत्तिः अस्ति | अनुवृत्ति-सहित-सूत्रम्‌— पुंवद्भाषितपुंस्कादनूङ्  स्त्रियाः समानाधिकरणे उत्तरपदे स्त्रियाम् अपूरणीप्रियाऽऽदिषु  |


भाषितपुंस्कः

भाषितपुंस्कः नाम तादृशशब्दः यः पूर्वं पूलिङ्गे आश्रितः | तदा स्त्रीत्वविवक्षायां सत्यां स्त्रीप्रत्ययं योजयित्वा स्त्रीलिङ्गपदं कुर्मः | एतादृशशब्दाः एव भाषितपुंस्काः | भाषितः पुमान्‌ येन सह, भाषितपुंस्कः | विद्या-शब्दः भाषितपुंस्कः नास्ति | किमर्थमिति चेत्‌, यद्यपि विद्या इति शब्दे टाप्‌ इति स्त्रीप्रत्ययः अस्ति (प्रमुखेषु स्त्रीप्रत्ययेषु टाप्‌-प्रत्ययः अन्यतमः), तथापि "पूर्वं विद्यः इति शब्दः आसीत्‌, ततः परं टाप्‌-प्रत्ययः योजितः", इति नास्ति | विद्या-शब्दस्य पुंलिङ्गरूपमेव न भवति; सदा टाप्‌-प्रत्ययान्तमेव भवति | पुंलिङ्गे यस्य प्रयोगो भवति, तस्मात्‌ शब्दात्‌ स्त्रीप्रत्ययस्य योजनेन तस्य स्त्रीलिङ्गत्वं यदि सम्पादितं, तर्हि सः शब्दः भाषितपुंस्कः | 'माला’, 'नासिका’, एतादृशबहवः शब्दाः सन्ति ये नित्यस्त्रीलिङ्गशब्दाः; तेषां स्त्रीप्रत्ययः भवत्येव | सुन्दरी इति शब्दः भाषितपुंस्कः यतोहि सन्दरः इत्येवं पुंलिङ्गे व्यवहारः अस्ति; स्त्रीलिङ्गविवक्षायां ङीप्‌-प्रत्ययः योज्यते, अनेन च सुदरी इति रूपं भवति | इदं विशेष्यनिघ्नपदमिति उच्यते | त्रिषु लिङ्गेषु सम्भावना अस्ति यस्य, तादृशविशेषणं पूर्वपदमस्ति चेदेव पुंवद्भावो भवति |

स्त्रीप्रत्ययाः - एते स्त्रीत्वबोधकप्रत्ययाः सन्ति |

१)आकारान्ताः = टाप्, डाप्, चाप् | यथा अजा, सीमा, सूर्या |

२) ईकारान्ताः = ङीप्, ङीष्, ङीन् |  कर्त्री, गौरी, शारङ्गरवी |

३) ऊकारान्तः = ऊङ् | श्वश्रूः, पङ्गूः, कद्रूः, कमण्डलूः |


सामानाधिकरण्यम् = समासे पुंवद्भावः सम्भवति यत्र सामानाधिकरण्यं विद्यते | समानम्‌ अधिकरणं इत्यस्य भावः सामानाधिकरण्यम्‌ | नाम समासे पदद्वयम्‌ अस्ति चेत्‌, तयोः समानः आधारः अस्ति चेत्‌ तर्हि सामानाधिकरण्यम्‌ अस्ति | समानः आधारः इत्यस्य कृते समान-विभक्तिकत्वम्‌ अपि अपेक्ष्यते, एकार्थबोधकत्वम्‌ अपि अपेक्ष्यते | यथा - उत्तमा + बालिका → उत्तमबालिका | अनयोः पदयोः सामानाधिकरण्यम् अस्ति यतोहि अनयोः पदयोः समानविभक्तकत्वम् अपि वर्तते, एकार्थबोधकत्वम् अपि विद्ययते  |


प्रियादिगणः = प्रियादिगणे एते शब्दाः पठिताः - प्रिया, मनोज्ञा, कल्याणी, सुभगा, दुर्भगा, भक्ति, सचिवा, अम्बा, कान्ता, क्षान्ता, समा, चपला, दुहिता, वामा च |

पूरणी  = अर्थात् डट् इत्यादि तद्धित-पूरणार्थकप्रत्ययाः यस्य अन्ते सन्ति ते पूरणप्रत्ययान्ताः  | पूर्यते अनेन, अस्मिन् अर्थे पॄ पूरणे इति धातुतः ल्युट्प्रत्ययं कृत्वा पूरण इति शब्दः सिद्ध्यति | गणनायाः साहाय्यार्थं पूरणप्रत्ययान्तानां प्रयोगः क्रियते |  यथा दश जनाः सन्ति , एतेषां गणना कर्तव्या, तर्हि कथं क्रियते ? अयं प्रथमः, अयं द्वितीयः, अयं तृतीयः.. इति पृथक्करणं कर्तुं शक्यते |  अत्र प्रथम, द्वितीय, तृतीय, चतुर्थ इत्यादयः शब्दाः गणनार्थं प्रयुज्यन्ते, अतः एते सर्वे पूरणवाचकाः शब्दाः सन्ति |  एतेषां शब्दानां निर्माणार्थं यस्य प्रत्ययस्य साहाय्यं स्वीक्रियते सः प्रत्ययः पूरणप्रत्ययः इति नाम्ना ज्ञायते |  स्त्रीलिङ्गे प्रथमा, द्वितीया, तृतीया इत्यादयः पूरणप्रत्ययान्ताः स्त्रीवाचकशब्दाः सन्ति  |


उपरि गम्यताम्




अव्ययीभावसमासे नियमाः

अव्ययीभावसमासस्य नियमाः यत्र उत्तरपदम् अजन्तम्  

१)  ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७) इति सूत्रेण अजन्तस्य नपुंसकलिङ्गे प्रातिपदिकस्य हस्वः भवति |

२) अदन्तम् अङ्गम् अस्ति चेत्, नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इत्यनेन अदन्तात् अव्ययीभावात् सुप् प्रत्ययस्य लुक् न भवति, अपि च पञ्चमीविभक्तिं विहाय अन्यासां विभक्तीनां स्थाने अम् आदेशः विधीयते |

३) अदन्तम् अङ्गं चेत् तृतीयाविभक्तौ, सप्तमीविभक्तौ च अमादेशः विकल्पेन भवति तृतीयासप्तम्योर्बहुलम्‌ (२.४.८४) इति सूत्रेण |

४) उत्तरपदं नदी, पौरणमासी, आग्रहायणी इत्येतेषु कश्चन शब्दः चेत् -- नदीपौर्णमास्याग्रहायणीभ्यः (५.४.११०) इत्यनेन अव्ययीभावसमासस्य उत्तरपदे "नदी", "पौर्णमासी", "आग्रहायणी" एतेषु कश्चन शब्दः विद्यते चेत्, तस्मात् विकल्पेन टच् इति समासान्तप्रत्ययः विधीयते | यस्मिन् पक्षे टच् भवति तस्मिन् पक्षे अदन्तत्वं सिद्ध्यति इत्यतः नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इत्यनेन अदन्तात् अव्ययीभावात् सुप् प्रत्ययस्य लुक् न भवति, अपि च पञ्चमीविभक्तिं विहाय अन्यासां विभक्तीनां स्थाने अम् आदेशः विधीयते | यस्मिन् पक्षे टच् न भवति तस्मिन् पक्षे केवलं ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७) इति सूत्रेण अजन्तस्य नपुंसकलिङ्गे प्रातिपदिकस्य हस्वः भवति |

५) उत्तरपदं गिरि इति शब्दः चेत् - गिरेश्च सेनकस्य ( ५.४.११२) इत्यनेन उत्तरपदे गिरि इति शब्दः चेत्, तस्मात् टच् इति समासान्तप्रत्ययः विकल्पेन विधीयते | यस्मिन् पक्षे टच् भवति तस्मिन् पक्षे अदन्तत्वं सिद्ध्यति इत्यतः नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इत्यनेन अदन्तात् अव्ययीभावात् सुप् प्रत्ययस्य लुक् न भवति, अपि च पञ्चमीविभक्तिं विहाय अन्यासां विभक्तीनां स्थाने अम् आदेशः विधीयते | यस्मिन् पक्षे टच् न भवति तस्मिन् पक्षे केवलं ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७) इति सूत्रेण अजन्तस्य नपुंसकलिङ्गे प्रातिपदिकस्य हस्वः भवति |


अव्ययीभावसमासस्य नियमाः यत्र उत्तरपदम् हलन्तम्

१) उत्तरपदम् अनन्तं चेत् -


अ) पुंलिङ्गे, स्त्रीलिङ्गे च अनश्च (५.४.१०८) इति सूत्रे टच् इति समासान्तप्रत्ययः विधीयते येन अदन्तत्वं सिद्ध्यति | अदन्तम् अङ्गम् अस्ति चेत्, नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इत्यनेन अदन्तात् अव्ययीभावात् सुप् प्रत्ययस्य लुक् न भवति, अपि च पञ्चमीविभक्तिं विहाय अन्यासां विभक्तीनां स्थाने अम् आदेशः विधीयते | अदन्तम् अङ्गं चेत् तृतीयाविभक्तौ, सप्तमीविभक्तौ च अमादेशः विकल्पेन भवति तृतीयासप्तम्योर्बहुलम्‌ (२.४.८४) इति सूत्रेण |

आ) नपुंसकलिङ्गे च नपुंसकादन्यतरस्याम् ( ५.४.१०९) इति सूत्रेण विकल्पेन टच् इति समासान्तप्रत्ययः विधीयते | यस्मिन् पक्षे टच् भवति तस्मिन् पक्षे अदन्तत्वं सिद्ध्यति इत्यतः नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इत्यनेन अदन्तात् अव्ययीभावात् सुप् प्रत्ययस्य लुक् न भवति, अपि च पञ्चमीविभक्तिं विहाय अन्यासां विभक्तीनां स्थाने अम् आदेशः विधीयते | यस्मिन् पक्षे टच् न भवति तस्मिन् पक्षे समासस्य अन्तिमनकारस्य लोपः भवति न लोपः प्रातिपदिकान्तस्य ( ८.२.७) इत्यनेन

२) उत्तदपदं शरदादिगणे अस्ति चेत्, अव्ययीभावे शरत्प्रभृतिभ्यः (५.४.१०७) इत्यनेन शरदादिगणे विद्यमानेभ्यः शब्देभ्यः अव्ययीभावसमासे "टच्" इति समासान्तप्रत्ययः विधीयते येन अदन्तत्वं सिद्ध्यति | तत्पश्चात् नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इत्यनेन अदन्तात् अव्ययीभावात् सुप् प्रत्ययस्य लुक् न भवति, अपि च पञ्चमीविभक्तिं विहाय अन्यासां विभक्तीनां स्थाने अम् आदेशः विधीयते |

३) उत्तरपदं झयन्तम् अस्ति चेत् झयः (५.४.१११) इति सूत्रेण अव्ययीभावसमासस्य अन्तिमवर्णः झय्-प्रत्याहारस्य वर्णः अस्ति चेत् तस्मात् विकल्पेन "टच्" इति समासान्तप्रत्ययः भवति येन अदन्तत्वं सिद्ध्यति | तत्पश्चात् नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इत्यनेन अदन्तात् अव्ययीभावात् सुप् प्रत्ययस्य लुक् न भवति, अपि च पञ्चमीविभक्तिं विहाय अन्यासां विभक्तीनां स्थाने अम् आदेशः विधीयते | यस्मिन् पक्षे टच् न भवति तस्मिन् पक्षे समासानन्तरं सन्धिकार्याणि भवन्ति |

इत्यनेन अव्ययीभावसमासः इति विषयः समाप्तः |


उपरि गम्यताम्




परिशिष्टम्

अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  (२.१.६) इति सूत्रे अव्ययस्य षोडश अर्थाः दृष्टाः | अव्ययानाम् इतोऽपि अधिकाः अर्थाः अपि भवितुम् अर्हन्ति | तेषाम् अर्थानां समर्थनार्थं सूत्रस्य योगविभागः कृतः प्राचीनकाले  | अव्ययीभावसमासस्य विषये ये प्रयोगाः कृताः शिष्टैः, तेषां प्रयोगाणां समर्थनं शक्यते एव | प्राचीनप्रयोगाणां समर्थनं कथञ्चित् करणीयम् –  योगविभागेन वा नो चेत् सह सुपा ( २.१.४) इति सूत्रेण वा | तादृशसमासान् कर्तुं  वयं न अर्हामः | वयं तु केवलं षोडशेषु अर्थेषु एव समासं कर्तुं शक्नुमः |


दृष्टान्तः

दिशयोः मध्ये = अपदिशम् (द्वयोः दिशयोः अन्तरालम् (interval) इत्यर्थः)


अलौकिकविग्रहवाक्यं

दिशा + ओस् + अप → समाससंज्ञा भवति प्राक्कडारात्समासः (२.१.३) इति सूत्रेण | अव्ययीभावः (२.१.५) इत्यनेन सूत्रेण समस्तपदस्य अव्ययीभावसमाससंज्ञा भवति |   अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  (२.१.६)   इति सूत्रेण अप इति अव्ययं समर्थेन दिशा इति सुबन्तेन सह समस्यते |

दिशा + ओस् + अप समासस्य प्रातिपदिकसंज्ञा भवति कृत्तद्धितसमासाश्च (१.२.४६) इत्यनेन सूत्रेण |


दिशा + ओस् + अप इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन | अतः दिशा + ओस् + अप इत्यस्मिन्‌ ओस् इत्यस्य लुक्‌ → दिशा + अप इति |

दिशा + अप सुप्तिङन्तं पदम् (१.४.१४) इत्यनेन यस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति; अत्र च 'उप' इत्यस्य अन्ते सुप्‌ न दृश्यते, तर्हि प्रश्नः उदेति यत्‌ तस्य पदसंज्ञा अस्ति न वा | उत्तरमस्ति यत् प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) इत्यनेन पदसंज्ञा अस्त्येव | अव्ययात् परस्य सुप्-प्रत्ययानां च लुक्-भवति अव्ययादाप्सुपः ( २.४.८२) इति सूत्रेण| अतः अप इति अव्ययस्य परस्य सुप् प्रत्ययस्य लोपः जातः |

दिशा + अप अत्र प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण प्रथमया विभक्त्या यत् निर्दिश्यते समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति | अत्र समासविधायकसूत्रम् अस्ति अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु (२.१.६) | अस्मिन् सूत्रे अव्ययम् इति पदं प्रथमाविभक्तौ अस्ति अतः तस्य उपसर्जन-संज्ञा भवति | अधुना उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण उपसर्जन-संज्ञकपदस्य पूर्वनिपातः भवति| अत्र अप इति अव्ययं, तस्य उपसर्जन-संज्ञा भूत्वा पूर्वनिपातः भवति |


पुनः अत्र एकविभक्ति चापूर्वनिपाते (१.२.४४) इति सूत्रेण दिशा इति शब्दस्य उपसर्जनसंज्ञा भवति परन्तु तस्य पूर्वनिपातः न भवति अत्र अपदिशा इति भवति→ अव्ययीभावश्च (१.१.४१) इत्यनेन अव्ययीभावसमासेन निर्मितस्य शब्दस्य "अव्ययम्" इति संज्ञा भवति | अपदिशा इत्यस्य अव्ययसंज्ञा भवति | अपदिशा →  अत्र गोस्त्रियोरुपसर्जनस्य (१.२.४८) इति सूत्रेण उपसर्जनस्त्रीप्रत्ययान्तस्य प्रातिपदिकस्य ह्रस्वो भवति | दिशा इति स्त्रीप्रत्ययान्तशब्दस्य ह्रस्वत्वं भवति → अपदिश इति भवति

अपदिशा →  अत्र गोस्त्रियोरुपसर्जनस्य (१.२.४८) इति सूत्रेण उपसर्जनस्त्रीप्रत्ययान्तस्य प्रातिपदिकस्य ह्रस्वो भवति | दिशा इति स्त्रीप्रत्ययान्तशब्दस्य ह्रस्वत्वं भवति → अपदिश इति भवति |

अपदिश इदानीं लिङ्गस्य निर्णयः भवति | अव्ययीभावश्च (२.४.१८) इत्यनेन अव्ययीभावसमासस्य लिङ्गं भवति नपुंसकलिङ्गम् |अतः अपदिश इति समस्तपदस्य लिङ्गं भवति नपुंसकलिङ्गम् |


अपदिश + सु अपदिश इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | अधुना सुप् प्रत्ययस्य उत्पत्तिः | अत्र अव्ययादाप्सुपः (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रेण निषिध्यते | नाव्ययीभावादतोऽम्त्वपञ्चम्याः (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी-विभक्तिं विहाय | पञ्चमी-विभक्तौ अम् आदेशः न भवति, तत्र  यथा सामान्यं सुप्प्रक्रिया भूत्वा रूपं भवति अपदिशात् | अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति |


अपदिश + अम् अत्र अमि पूर्वः (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात्| पञ्चमी विभक्तिं विहाय अपरासु विभक्तिषु अपदिशम् इति रूपं सिद्धं भवति | तृतीयासप्तम्योर्बहुलम्‌ (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति | अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयम् सम्भवति- अपदिशम् / अपदिशेन, अपदिशम् / अपदिशे | अन्यासु विभक्तिषु अपदिशम् इति रूपं सिद्धं भवति |


तृतीयाविभक्तौ -अपदिशम् / अपदिशेन

सप्तमीविभक्तौ - अपदिशम् / अपदिशे |

अन्यासु विभक्तिषु पञ्चमीविभक्तिं विहाय अपदिशम् इति रूपं सिद्धं भवति| पञ्चमीविभक्तौ अपदिशात् इति रूपं भवति |


दिशोः अन्तरालम् = अपदिशम् | अधः सर्वासु विभक्तिषु अव्ययपदस्य रूपाणि पश्यामः |


विभक्ति एकवचनं द्विवचनं बहुवचनम्
प्रथमा अपदिशम् अपदिशम् अपदिशम्
द्वितीया अपदिशम् अपदिशम् अपदिशम्
तृतीया अपदिशम्/अपदिशेन अपदिशम्/ अपदिशाभ्याम् अपदिशम्/ अपदिशैः
चतुर्थी अपदिशम् अपदिशम् अपदिशम्
पञ्चमी अपदिशात् अपदिशाभ्याम् अपदिशेभ्यः
षष्ठी अपदिशम् अपदिशम् अपदिशम्
सप्तमी अपदिशम्/अपदिशे अपदिशम्/ अपदिशोः अपदिशम्/ अपदिशेषु
सम्बोधने अपदिशम् अपदिशम् अपदिशम्


एकविभक्ति चापूर्वनिपाते (१.२.४४) = विग्रहस्य अवस्थायां यत् पदं नियतविभक्त्यां भवति तस्य पूर्वनिपातात् भिन्नकार्ये कर्तव्ये उपसर्जनसंज्ञा भवति परन्तु तस्य पुर्वनिपातः न भवति | विग्रहे यन्नियतविभक्तिकं तदुपसर्जनसंज्ञं स्यात् न तु तस्य पूर्वनिपातः | एका विभ्क्तिर्यस्य तद् एकविभक्तिः, बहुव्रीहिः | पर्वश्चासौ निपातश्चेति पूर्वनिपातः, कर्मधारयः  | न पूर्वनिपातोऽपूर्वनिपातस्तस्मिन्नपुर्वनिपाते, नञ्तत्पुरुषः | एकविभक्ति प्रथमान्तं, चाव्ययम्, अपूर्वनिपाते सप्तम्यन्तम् |प्रथमानिर्दिष्टं समास उपसर्जनम् इत्यस्मात् सूत्रात् समासः तथा उपसर्जनम् इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्‌— एकविभक्ति च अपूर्वनिपाते समासे उपसर्जनम् |


तर्हि एकविभक्ति चापूर्वनिपाते (१.२.४४) इति सूत्रेण यत् पदं नियतविभक्त्याम् अस्ति तस्य उपसर्जनसंज्ञा भवति परन्तु पूर्वनिपातः न भवति इति ज्ञातम्| यदि उपसर्जनसंज्ञकं पदं गो-शब्दः अथवा स्त्रीलिङ्गशब्दः अस्ति तर्हि  गोस्त्रियोरुपसर्जनस्य (१.२.४८) इति सूत्रेण उपसर्जनसंज्ञकस्य शब्दस्य ह्रस्वादेशः भवति परन्तु तस्य पूर्वनिपातनं न भवति | गोस्त्रियोरुपसर्जनस्य (१.२.४८) इति सूत्रस्य विवरणम् अग्रे उच्यते |


गोस्त्रियोरुपसर्जनस्य (१.२.४८) = उपसर्जनगोशब्दान्तस्य उपसर्जनस्त्रीप्रत्ययान्तस्य च प्रातिपदिकस्य ह्रस्वो भवति | गोश्च स्त्री च तयोरितरेतयोगद्वन्द्वौ गोस्त्रियौ, तयोः गोस्त्रियोः | गोस्त्रियोः षष्ठ्यन्तम्, उपसर्जनस्य षष्ठ्यन्तम् द्विपदमिदं सूत्रम् | ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७) इति सूत्रात् प्रातिपदिकस्य, ह्रस्वः च अनयोः पदयोः अनुवृत्तिः भवति | अनुवृत्ति-सहित-सूत्रम्‌— गोस्त्रियोः उपसर्जनस्य प्रातिपदिकस्य ह्रस्वः |


एतावता वयम् अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  (२.१.६) इति सूत्रे अव्ययस्य विभिन्नान् अर्थान् परिशीलितवन्तः | सम्प्रति अन्यानि अव्ययीभावसमास-सम्बद्धसूत्राणि अधीयते |

Vidhya   March 2020

उपरि गम्यताम्