13 - आत्मा मनः च

From Samskrita Vyakaranam
10---nyAyashAstram/13---AtmA-manaH-ca
Jump to navigation Jump to search
ध्वनिमुद्रणानि
१) Ishvarasya-kriyAH_+_jiivAtmanaH-vibhutvaM-pratyakShaM-ca_+_manasaH-paricayaH_2016-06-18
२) manaH---sukhAdyupalabdhisAdhanamindriyam-iti-vivaraNam_+_lakShaNavAkye-daladvayam_2016-06-25
३) Ishvarasya-kriyAH_+_jiivAtmanaH-vibhutvaM-pratyakShaM-ca_2016-06-20



आत्मा


पिपीलिकादिगजपर्त्यन्तं सर्वेषाम्‌ एकैकम्‌ आत्मा | प्रत्येकं च जीवात्मा विभुः, किन्तु ज्ञानाश्रयत्वं प्रत्येकं जीवस्य शरीरे एव भवति; जीवात्मा सर्वत्र, परन्तु तस्मिन्‌ ज्ञानम्‌ उत्पद्यते केवलं यत्र सः जीवात्मा स्वस्य शरीरे भवति | अन्यत्र सर्वत्र जीवात्मा अस्त्येव, परन्तु तस्मिन्‌ ज्ञानं न उत्पद्यते | यत्र जीवात्मनः संयोगः अपरस्य शरीरेण सह, तत्र तस्मिन्‌ आत्मनि ज्ञानं न उत्पद्यते; यत्र च अन्यजीवात्मनः संयोगः भवति प्रथमस्य शरीरेण सह, तत्रापि ज्ञानं न उत्पद्यते | एवं च द्वौ आत्मानै उभौ अपि सर्वव्यापिनौ, उभयोः अपि संयोगः सर्वस्मिन्‌ शरीरे, परन्तु ज्ञानं एकस्मिन्‌ आत्मनि उत्पद्यते केवलं यत्र स्वशरीरेण सह संयोगसम्बन्धः |


तथा चेत्‌ विभुत्वात्‌ को लाभः, अथवा किमर्थम्‌ ? जीवात्मा विभुः यतोहि यदि स्वस्य परिमाणं शरीरपर्यन्तम्‌ एव अभविष्यत्‌, तर्हि जीवात्मनि मध्यमपरिमाणत्वात्‌ अनित्यत्वम्‌; अनित्यत्वात्‌ मोक्षः असम्भवः अपि च पूर्वजन्मनः धर्माधर्मयोः अभावात्‌ वर्तमानस्य सुखदुःखयोः कारणं नाभविष्यत्‌ | अतः जीवात्मा विभुः इत्युच्यते | विभुत्वात्‌ सर्वमूर्तद्रव्यसंयोगित्वं जीवात्मनि | तथा सति सर्वैः शरीरैः सह संयोगसम्बन्धः; किन्तु ज्ञानाश्रयत्वं केवलं स्वस्य शरीरे, किमर्थम्‌ इति चेत्‌ तत्र विलक्षणसंयोगसम्बन्धः इत्युच्यते | जीवस्तु प्रतिशरीरं भिन्नो विभुर्नित्यश्च |


जीवात्मनः प्रत्यक्षं भवति मनसा | परमात्मनः प्रत्यक्षं न जायते, अतः अनुमानप्रमाणेन परमात्मा साधनीयः, यथा पूर्वं प्रदर्शितम्‌ | अङ्कुरः जायते बीजात्‌ | यत्‌ यत्‌ उत्पद्यते, तस्य कश्चन कर्ता भवति एव | पुस्तकनिर्माणं करोति कश्चन, घटनिर्माणं करोति कश्चन | यत्‌ उत्पद्यते तस्य नाम कार्यम्‌ | यत्‌ यत्‌ कार्यं भवति, तस्य कार्यस्य कर्ता नितरां भवति | कर्तारं विना कार्यं न उत्पद्यते | अङ्कुरादिकम्‌ अपि उत्पद्यते; अङ्कुरादीनां कर्तृत्वम्‌ अस्माकं न सम्भवति | अतः सः कर्ता अन्यः एव भवेत्‌ | स एव कर्ता ईश्वरः इत्युच्यते | क्षित्यङ्कुरादिकं कर्तृजन्यं कार्यत्वात्‌ घटवत्‌, इति अनुमानम् | क्षित्यङ्कुरादिकं कर्तृजन्यं कार्यत्वात्, यत्र यत्र कार्यत्वं तत्र तत्र कर्तृजन्यत्वं यथा घट:।


जीवात्मनः किन्तु प्रत्यक्षं जायते | प्रत्यक्षं द्विविधं—बाह्यप्रत्यक्षं आन्तरप्रत्यक्षं च | बाह्यप्रत्यक्षं पुनः पञ्चविधं— चाक्षुषं, रासनं, घ्राणजं, श्रावणं, त्वाचञ्च | आन्तरप्रत्यक्षम्‌ एकविधं, मानसप्रत्यक्षम्‌ | मनसा जायमानं प्रत्यक्षं मानसम्‌ | “अहं जानामि, अहम्‌ इच्छामि, अहं खादामि"—“अहम्‌, अहम्‌" इति भवति किल, तदेव प्रत्यक्षम्‌ | अहम्‌ इति प्रतीतिः भवति, अहम्‌ इति पदस्य अर्थः आत्मा | इदं मानसप्रत्यक्षम्‌ | मनः अपि इन्द्रियं; मनः इति इन्द्रियेण प्रत्यक्षं जायते आत्मनः | मनसा आत्मनः प्रत्यक्षम्‌, आत्मनि विद्यानां ज्ञानादीनां च प्रत्यक्षम्‌ | ज्ञानस्य प्रत्यक्षम्‌, इच्छायाः प्रत्यक्षं, दुःखस्य प्रत्यक्षम्‌, एषु नवसु विशिष्टगुणेषु षण्णां प्रत्यक्षं भवति मनः इति इन्द्रियेण | त्रयः गुणाः अतीन्द्रियाः— धर्मः, अधर्मः, संस्कारः च; एते त्रयः विशिष्टगुणाः मनसा न गृह्यन्ते | घटपटादीनां प्रत्यक्षं जायते चक्षुरिन्द्रियेण | मनसा यत्‌ ज्ञानं जायते, तस्य ज्ञानस्य विषयः आत्मनि विद्यमानाः इच्छासुखदुःखादयः गुणाः, जीवात्मा स्वयं च |


मनः


सुखाद्युपलब्धिसाधनमिन्द्रियं मनः | तच्च प्रत्यात्मनियतत्वादनन्तं परमाणुरूपं नित्यं च | सुखादीनाम्‌ उपलब्धिः इति सुखाद्युपलब्धिः, षष्ठीतत्पुरुषसमासः | उपलब्धिः नाम प्रत्यक्षं | कस्य प्रत्यक्षम्‌ ? सुखादीनां प्रत्यक्षम्‌ | सुखस्य प्रत्यक्षं, दुःखस्य प्रत्यक्षं, ज्ञानस्य प्रत्यक्षम्‌, इच्छायाः प्रत्यक्षम्‌, एतादृशाः षड्गुणाः इति 'आदि' पदेन स्वीकार्यम्‌ | आत्मनि विद्यमानाः गुणाः—ज्ञानं, सुखं, दुःखम्‌, इच्छा, द्वेषः, प्रयत्नः, धर्मः, अधर्मः, भावनाख्यसंस्कारः | उपलब्धिः इति प्रत्यक्षं; प्रत्यक्षम्‌ इति एकविधज्ञानम्‌ | ज्ञानं चतुर्विधं—प्रत्यक्षम्‌, अनुमितिः, उपमितिः, शाब्दबोधः च | प्रत्यक्षम्‌ अन्यतमं ज्ञानम्‌; इन्द्रियजन्यं ज्ञानं प्रत्यक्षम्‌ | चक्षुरिन्दिर्येण एकं ज्ञानं जायते; किं ज्ञानम्‌ ? 'इदं पुस्तकम्‌' इति ज्ञानम्‌ | 'इदं पुस्तकम्‌' इति ज्ञानं मम उत्पन्नम्‌ | अपि च एतदेव—"'इदं पुस्तकम्‌' इति ज्ञानं मम उत्पन्नम्‌"— एतदपि एकं ज्ञानम्‌ | एतत्‌ ज्ञानं, नाम 'अहं जानामि' इति ज्ञानम्‌, एतदपि एकं ज्ञानम्‌ | अहं ज्ञानस्य आश्रयः, अहम्‌ इति पदार्थः जीवात्मा; अहम्‌ इत्यनेन जीवात्मनः प्रत्यक्षं जायते अपि च 'जानामि' इत्यनेन ज्ञानं भासते | तादृशज्ञानस्य प्रत्यक्षं भवति मनसा |


'अहं सुखी' इति पुनः एकं ज्ञानम्‌ | भोजनानन्तरं तृप्तिः भवति चेत्‌ 'अहं सुखी' इति ज्ञानम्‌ एकं जायते | अथवा किमपि सौन्दर्यं दृश्यते चेत्‌ सुखम्‌ उत्पद्यते आत्मनि, 'अहं सुखी' इति ज्ञानम्‌ एकं तत्रापि जायते | पुनः ध्यानेन अलौकिकसुखम्‌ उत्पद्यते | अनेन 'अहं सुखी' इति ज्ञानम्‌ एकं तत्रापि जायते | सुखी नाम किम्‌ ? सुखवान्‌ | 'सुखं मयि अस्ति' इति अत्र सुखस्य प्रत्यक्षं जायते | तादृशसुखस्य प्रत्यक्षं केन इन्द्रियेण जायते ? चिक्षुरिन्द्रियेण न जायते, त्वगिन्द्रियेण न जायते; किन्तु मनसा तादृशसुखस्य ज्ञानम्‌ उत्पद्यते; सुखस्य प्रत्यक्षम्‌ उत्पद्यते |


तादृशसुखादीनाम्‌ उपलब्धेः, प्रत्यक्षस्य यत्‌ साधनं; साधनं नाम कारणम्‌ | प्रत्यक्षम्‌ इति ज्ञानस्य कारणम्‌ इन्द्रियम्‌ | उपलब्धिः नाम प्रत्यक्षं; तादृशप्रत्यक्षस्य साधनं, कारणं, इन्द्रियं, तदेव इन्द्रियं मनः | उपलब्धिः, प्रत्यक्षम्‌, अस्य अन्यत्‌ नाम साक्षात्कारः | तर्हि सुखस्य साक्षात्कारः, सुखस्य उपलब्धिः | ज्ञानं, प्रत्यक्षम्‌, उपलब्धिः, साक्षात्कारः, प्रतीतिः, प्रत्ययः—सर्वं समानम्‌ | पुस्तकस्य साक्षात्कारः केन इन्द्रियेण जायते ? चक्षुरिन्द्रियेण 'इदं पुस्तकम्‌" इति साक्षात्कारः जायते | एवं सुखस्य साक्षात्कारः, प्रत्यक्षम्‌, उपलब्धिः | मानसम्‌ इति साक्षात्कारः, मानसोपलब्धिः, मानसप्रत्यक्षम्‌ | तर्हि अग्रे सुखाद्युपलब्धिसाधनम्—साधनम्‌ इत्युक्तौ कारणम्‌ | सुखादीनाम्‌ उपलब्धेः, सात्क्षात्कारस्य यत्‌ कारणं भवति, तदेव इन्द्रियं मनः इत्युच्यते | तथा च मनसः लक्षणस्य एकं दलं सुखाद्युपलब्धिसाधनत्वं—सुखाद्युपलब्धेः कारणत्वम्‌ | कारणं मनः, कारणत्वं मनसि अस्ति | कार्यं ('अहं सुखी' इति ज्ञानं) वर्तते चेत्‌, तस्य कारणं (मनः) वर्तते एव | कारणं विना कार्यं नोत्पद्यते | यत्र कार्यम्‌ उत्पन्नम्‌, अवश्यं तत्र कारणेन भाव्यं—कारणं भवेत्‌ एव, साधनं भवेत्‌ एव |


तच्च प्रत्यात्मनियतत्वं, संयुक्तत्वं, मनसि | ज्ञानाधिकरणमात्मा इति लक्षणवाक्येन सर्वेषु आत्मसु ज्ञानम्‌ उत्पद्यते एव | मम आत्मनि 'अहं सुखी' इति ज्ञानम्‌ उत्पद्यते | भवतः आत्मनि 'अहं सुखी' इति ज्ञानम्‌ उत्पद्यते | सर्वदा कस्मिन्नपि आत्मनि ज्ञानम्‌ उत्पद्यते एव | अन्यच्च इदानीमेव इदमपि बुद्धं यत्‌ ज्ञानस्य उत्पत्त्यर्थं मनः अवश्यम्‌ अपेक्षते; मनः एव कारणं ज्ञानस्य | कारणं विना कार्यं न उत्पद्यते, अतः मनः विना ज्ञानं न उत्पद्यते | मनः विना साक्षात्कारः—सुखसाक्षात्कारः, दुःखसाक्षात्कारः—न भवति | सर्वेषां सुखसाक्षात्कारः, दुःखसाक्षात्कारः च भवति, अतः मनः अवश्यं वर्तते इति वक्तव्यम्‌ | सुखसाक्षात्कारः इति कार्यं, मनः कारणं; कार्यं दृष्ट्वा कारणम्‌ अस्ति इति अनुमीयते | तर्हि सर्वेषाम्‌ आत्मनां ज्ञान-आश्रयत्वात्‌—सर्वेषु आत्मसु ज्ञान-उत्पत्ति-सम्भवात्‌—तत्र मनः अवश्यं वर्तते इति वक्तव्यम्‌ | सारांशः एवं यत्‌ प्रत्यात्मनियतत्वं, संयुक्तत्वं, मनसि—प्रत्येकम्‌ आत्मनः एकं मनः |


तथा च प्रत्यात्मनियतत्वादनन्तम्—आत्मनाम्‌ अनेकत्वात्‌ मनसः अपि अनेकत्वम्‌ | मम एकं मनः, भवतः एकं मनः, अन्यस्य अन्यत्‌ मनः इति आत्मानः भिन्नभिन्नाः भवन्ति किल; एकैकस्य आत्मनः एकैकं मनः | प्रत्यात्मनियतः— अयम्‌ आत्मा चैत्रात्मा, तस्यापि एकं मनः वर्तते | मैत्रः अपि कश्चन, मैत्रात्मा, तस्यापि एकं मनः | अन्यः देवदत्तः, तस्यापि एकं मनः, अन्यः यज्ञदत्तः, तस्यापि एकं मनः | इति सर्वेषाम्‌ आत्मनाम्‌ एकैकं मनः वर्तते | अपि च आत्मानः अनन्ताः | तर्हि प्रत्यात्मनियतत्वात्‌ मनः अपि अनन्तम्‌ | मनांसि कति वर्तन्ते ? अनन्तानि | न तु एकं द्वे वा; अनन्तानि | आत्मनाम्‌ अनेकत्वात्‌ मनसः अपि अनन्तत्वम्‌ |


एवं परमाणुरूपम्‌ | कीदृशं परिमाणं वर्तते मनसः ? अणुस्वरूपं मनः | अणुपरिमाणं वर्तते तत्र | अणोः प्रत्यक्षं न भवति, अणुः न दृश्यते | पार्थिवाः, जलीयाः, तैजसाः, वायवीयाः च परमाणवः भवन्ति | परमाणुः इति एकम्‌ आरम्भकद्रव्यम्‌ | उभाभ्यां परमाणुभ्यां संयोगेन एकं द्व्यणुकम्‌ उत्पद्यते | तदा क्रमेण त्रिभिः द्व्यणुकैः त्र्यणुकं, चतुर्भिः त्र्यणुकैः चतुरणुकम्‌ इत्यादिकम्‌ | परमाणुः अन्तिमः अवयवः | तस्य स्वरूपं किम्‌ ?


सूर्यजालमरीचिस्थं यत् सूक्ष्मं दृश्यते रजः |

तस्य षष्ठतमो भागः परमाणुस्सः उच्यते ||


मरीचिः नाम किरणः; रजस्‌ इत्युक्तौ चूर्णं, धूलिः | रन्ध्रं वर्तते गृहस्य, रन्ध्रात्‌ सूर्यकिरणाः आगच्छन्ति गृहस्य अन्तः | तेषु सूर्यकिरणेषु सूक्ष्मरजांसि दृश्यन्ते | तानि सूक्ष्मरजांसि त्र्यणुकम्‌ इत्युच्यते | त्र्यणुकं दृश्यते; लोके यत्‌ अस्माभिः दृश्यते तस्य सर्वलघुभागः त्र्यणुकम्‌ | तादृशत्र्यणुकस्य षड्‌ भागाः क्रियन्ते चेत्‌, तत्र प्रत्येकं भागः परमाणुः | स च परमाणुः न दृश्यते | तादृशसूक्ष्मस्वरूपं मनः | अत्यन्तं लघु | परमाणुरूपं नाम परमाणुवत्‌ लघु |


नित्यं च—नोत्पद्यते, न वा नश्यति | सर्वदा वर्तते | तर्हि मनः नित्यं, परमाणुस्वरूपं च | तादृशम्‌ इन्द्रियं ज्ञानादीनां कारणम्‌ | सुखादीनाम्‌ उपलब्धेः, प्रत्यक्षस्य साधनम्‌ |


अधुना प्रश्नः उदेति, मनः कुत्र वर्तते ? शरीरस्य अन्तर्भावे वर्तते | आत्मा शरीरे वर्तते, मनः अपि शरीरे भवति | किन्तु जीवात्मनः विभुत्वात्‌ सदा सर्वशरीरे भवति जीवात्मा | मनः एकस्मिन्‌ समये शरीरस्य एकस्मिन्नेव स्थले भवति; किन्तु सर्वशरीरे सञ्चरति | चक्षुरिन्द्रियेण यदा प्रत्यक्षं जायते, तदा मनः तत्र आगच्छति | चक्षुरिन्द्रियस्य मनसा सह तदा संयोगो भवति | तस्मिन्‌ क्षणे मनः अन्यत्र नास्ति, तत्रैव अस्ति | घ्राणेन्द्रियेण यदा प्रत्यक्षं जायते, तदानीं घ्राणेन्द्रियेण सह मनसः संयोगः अपेक्षते | अतः तस्मिन्‌ समये मनः तत्र आगच्छति | अपि च यदा गन्धस्य प्रत्यक्षं भवति, तस्मिन्‌ क्षणे न त्वगिन्द्रियेण, चक्षुरिन्द्रियेण, श्रवणेन्द्रियेण वा प्रत्यक्षं भवति | एकस्मिन्‌ समये एकमेव ज्ञानम्‌ | मनः बहु वेगेन गच्छति | एकस्य अनन्तरम्‌ अन्यत्‌ प्रत्यक्षम्‌, एकस्य अनन्तरम्‌ अन्यत्‌ प्रत्यक्षम्‌ | मनः अत्यन्तं वेगशालि | एकस्मिन्‌ एव समये सर्वं ज्ञानम्‌ उत्पन्नम्‌ इति भ्रान्तिः अस्माकम्‌ | इति च मनः क्षणात्मकज्ञानादीनां कारणम्‌ |


तदेव उक्तं सुखाद्युपलब्धिसाधनमिन्द्रियं मनः | तच्च प्रत्यात्मनियतत्वादनन्तं परमाणुरूपं नित्यं च |


Swarup – June 2016


---------------------------------

१३ - आत्मा मनः च.pdf