3 - गुणः
ध्वनिमुद्रणानि - प्रथमपाठे यानि ध्वनिमुद्रणानि सन्ति, तेषु अस्य पाठस्य अपि चर्चा क्रियते
धातुः प्रथमे गणे अस्ति वा ? षष्ठे गणे अस्ति वा ?
१. प्रथमे गणे विकरण-प्रत्ययस्य 'अ' इति भागः अवशिष्यते | षष्ठे गणे अपि सा एव गतिः | तर्हि यत्र धातुः तिङ्-प्रत्ययः इत्यनयोः मध्ये अकारः एव अस्ति, कथं ज्ञायते कस्मिन् गणे अस्ति ?
उत्तरम्— दर्शनेन एव सर्वत्र न ज्ञातुं शक्नुमः, किन्तु बहुत्र ज्ञायते | यत्र धात्वङ्गे गुणः दृश्यते, तत्र "प्रथमे गणे अस्ति" इति ज्ञायते | अधुना अग्रे गच्छेम, पश्यामः इदं सर्वं कथं भवति |
२. व्याकरणे एकः सिद्धान्तः अस्ति, गुणः नाम्ना | सिद्धान्ते स्वरस्य परिवर्तनं भवति | विकृत-रूपस्य गुण-संज्ञा भवति | अस्मिन् कोष्ठके पश्यतु--
स्वरः | इ, ई | उ, ऊ | ऋ, ॠ |
गुणः | ए | ओ | अर् |
३. धातुतः क्रियापदं निर्मातुं, भ्वादिगणे गुणः भवति; तुदादिगणे गुणः न भवति | "गुणः भवति" इत्युक्ते धातोः अन्तर्भूते स्वरे गुणः आगच्छति इति |
बुध्-धातौ अन्तर्भूतः स्वरः 'उ' | उकारस्य गुणः ओकारः इति उपरि स्थिते कोष्ठके अस्माभिः दृष्टम् | बुध्-धातौ गुणः भवति अतः बुध् → बोध् इति अस्ति | लट्-लकारे (लटि) बोधति इति रूपम् | गुणः अस्ति अतः बुध्-धातुः प्रथमे गणे अस्ति, न तु षष्ठे |
लिख् धातौ अन्तर्भूतः स्वरः 'इ' | इकारस्य गुणः एकारः | किन्तु लिख्-धातोः लटि "लिखति" इत्यस्ति, न तु "लेखति" | गुणः न जातः, अतः षष्ठे गणे अस्ति | लिख्-धातुः यदि भ्वादिगणे अभविष्यत्, तर्हि लटि "लेखति" इति रूपम् अभविष्यत् | तथा नास्ति एव; तुदादिगणे अस्ति अतः "लिखति” इति रूपं भवति |
कृष् इत्यस्य धातुद्वयम् अस्ति | एकः कृष्-धातुः भ्वादिगणे अस्ति, अपरः कृष्-धातुः तुदादिगणे अस्ति | भ्वादिगणे कृष्-धातोः "कर्षति" इति रूपं लटि | ऋकारस्य गुणः अर् किल, अतः कृष् → कर्ष् भ्वादिगणे | किन्तु तुदादिगणे अन्तर्भूतः कृष्-धातुः लटि "कृषति" इति | नाम ऋकारस्य गुणः तत्र न भवति |
४. भ्वादिगणे गुणः सर्वत्र न भवति | तर्हि कुत्र भवति, कुत्र न भवति इति प्रश्नः |
सरलतया उक्तं चेत्, कस्मिंश्चित् धातौ इ/ई, उ/ऊ, ऋ/ॠ एषु स्वरेषु एकः अस्ति चेत्, तस्य स्वरस्य गुणः भवति | किन्तु तावत् एव वदामः चेत्, कुत्रचित् दोषः भवति |
अतः सम्यक्तया अवगमनार्थं किञ्चित् इतोऽपि वक्तव्यम् अस्ति | अत्र मुख्यतः नियमद्वयम् अस्ति |
अ) भ्वादिगणे, धातोः अन्तिमः वर्णः इ, ई, उ, ऊ, ऋ, ॠ अस्ति चेत्, तस्य वर्णस्य गुणः भवति |
उदा— भू → भो, जि → जे, सृ → सर्
आ) भ्वादिगणे, धातोः उपधा इ, उ, ऋ अस्ति चेत्, तस्य वर्णस्य गुणः भवति | उपधा नाम अन्तिमवर्णात् पूर्वं यः वर्णः, सः |
उदा— बुध् → बोध्, कृष् → कर्ष्
अत्र बुध्-धातौ उकारः उपधा; कृष् धातौ ऋकारः उपधा | धेयं यत् दीर्घः स्वरः उपधा चेत्, तस्य गुणः न भवति | जीव् → जीवति |
५. किमर्थं गुणः भवति भ्वादिगणे, न तु तुदादि गणे ?
पूर्वतने पाठे, अस्माभिः ज्ञातं यत् विकरणप्रत्ययेषु केचन वर्णाः सन्ति ये न तिष्ठन्ति | न तिष्ठन्ति यतः तेषां वर्णानाम् "इत्-संज्ञा" भवति, इत्-संज्ञा इति कारणतः तेषां लोपः भवति | एभिः इत्-संज्ञक-वर्णैः किञ्चित् विशिष्टं कार्यं निर्दिष्टं भवति | कीदृशं कार्यम् इति सम्प्रति पश्याम |
भ्वादिगणे विकरणप्रत्ययः शप् इति जानीमः | शप् नाम "श् + अ + प्" | लटि केवलम् अकारः तिष्ठति | इत्युक्तौ शकार-पकारयोः वर्णयोः लोपः भवति | द्वौ अपि वर्णौ गच्छतः | गमनानन्तरं, नाम लोपानन्तरं श् प् च किञ्चित् कार्यं कुरुतः | लोपानन्तरं कथं कार्यं स्यात् इति चेत्, व्याकरणे कश्चन नियमः अस्ति यत् वर्णस्य लोपानन्तरमपि तस्य लक्षणं तिष्ठति, तस्य सङ्केतः तिष्ठति | तर्हि अनयोः द्वयोः वर्णयोः कार्यं किम् इति चेत्—
विकरणप्रत्यये श् इत्यस्य कार्यं— गुणस्य कृते प्रेरयति | (धातौ अन्तर्भूतस्य स्वरस्य गुणं कारयति |)
विकरणप्रत्यये प् इत्यस्य कार्यं— प् नास्ति चेत्, गुणस्य कृते अवरोधं करोति | (प् अस्ति चेत्, गुणस्य न कोऽपि अवरोधः |)
भ्वादिगणे श् अस्ति, अतः गुणस्य कृते प्रेरणा अस्ति | प् अपि अस्ति, अतः गुणस्य कृते न कोऽपि अवरोधः | अतः गुणः भवति | कृष् + शप् + ति = कर्षति |
तुदादिगणे विकरणप्रत्ययः श इति अस्माभिः ज्ञातम् | श नाम "श् + अ" | तर्हि किं भवति ? शकारः गुणस्य कृते प्रेरयति | परन्तु, तुदादिगणे विकरणप्रत्ययः केवलं श; नाम पकारः नास्ति | पकारः नास्ति चेत्, गुणस्य कृते अवरोधः इति उक्तम् | अतः गुणः न भवति | कृष् + श + ति = कृषति |
६. धातौ अन्तर्भूतः स्वरः अकारः अस्ति चेत्, गुणस्य प्रसक्तिः नास्ति | अतः तत्र भ्वादिगणे अस्ति वा तुदादिगणे अस्ति वा इति वयं ज्ञातुं न शक्नुमः | उदाहरणार्थं पठ् (पठति), पत् (पतति), त्यज् (त्यजति), वद् (वदति) इत्यादीन् धातून् तु गुणाधारेण न ज्ञातुम् अर्हामः | किन्तु लोके एकः मार्गदर्शकः अस्ति— आधिक्येन प्रसिद्धः अकारयुक्तः धातुः अस्ति चेत्, भ्वादिगणे अस्ति | नाम एतादृशः (अकारयुक्तः) धातुः परिचितः अस्ति चेत्, प्रायः भ्वादिगणे स्यात् | (अपवादः अस्ति चल्-धातुः, लटि चलति; अयं धातुः प्रसिद्धः किन्तु तुदादिगणे न तु भ्वादिगणे |)
७. प्रश्नः उदेति यत् येषां धातूनां गुण-प्रसङ्गः नास्त्येव, तेषां केन आधारेण भ्वादिगणे तुदादिगणे वा इति निर्णयः ? यथा पठ्-धातुः किमर्थं भ्वादिगणे ? चल्-धातुः किमर्थं तुदादिगणे ? प्रत्युत्तरं प्राप्यते शत्रन्तप्रकरणे | भ्वादिगणे, शतृ-प्रत्ययस्य संयोजनेन, स्त्रियां नुमागमः (नकारः) सर्वत्र भवति | बालिका वदन्ती गच्छति; माता खादन्ती चिन्तयति | भ्वादिगणे, स्त्रियाम् अयं नकारः सर्वदा भवति | परन्तु तुदादिगणे अयं नकारः वैकल्पिकः | बालिका चलती चिन्तयति, बालिका चलन्ती चिन्तयति वा | भ्वादौ तुदादौ च अयं भेदः सर्वत्र अस्ति; शत्रन्तपदेषु भ्वादौ नुमागमः नित्यः; तुदादौ च वैकल्पिकः |
८. उपर्युक्त-गुणकार्यस्य प्रक्रिया कीदृशी इत्यस्य ज्ञानार्थं, सूत्र-सहितं स्पष्टीकरणम् अग्रे द्वितीय-पाठे पश्येम |
Swarup – August 2012