09 - यङन्तधातवः

From Samskrita Vyakaranam
7---ArdhadhAtukaprakaraNam/09---yanganta-dhAtavaH
Jump to navigation Jump to search
ध्वनिमुद्रणानि -
2021 वर्गः
१) yanganta-dhAtavaH---paricayaH_2021-11-23
२) yanganta-dhAtavaH---siddha-ting-pratyayAH_+_tinganta-sAdhanam_+_yanganta-prakriyA_+_dvitvam_2021-11-30
३) yanganta-dhAtavaH---yanganta-prakriyA_+_dvitvam+_sAmAnya-abhyAsakAryam_2021-12-07
४) yanganta-dhAtavaH---abhyastam-nAma-kim_+_dvitvaM-kathaM-karaNiiyam_2021-12-14
५) yanganta-dhAtavaH---dvitvaM-kathaM-karaNiiyam_+_abhyAsakAryam_2021-12-21
६) yanganta-dhAtavaH---yang-yangluk-ityanayoH-dvitvam-abhyAsakAryaM-ca-bhedaH_2021-12-28
७) yanganta-dhAtavaH---sAmAnya-AkArAntAH-ejantAH-ca-dhAtavaH_2022-01-04
८) yanganta-dhAtavaH---sAmAnya-AkArAntAH-ejantAH-ca-dhAtavaH_+_ghumAsthAdayaH-dhAtavaH_2022-01-11
९) yanganta-dhAtavaH---ghumAsthAdayaH-dhAtavaH_+_घ्रा-ध्मा_+_ज्या-व्ये-धातू _2022-01-18
१०) yanganta-dhAtavaH---ह्वेञ्‌_+_sAmAnya-i-I-kArAnta-dhAtavaH_+_शीङ्‌_+_श्वि_2022-01-25
११) yanganta-dhAtavaH---श्वि_+_sAmAnya-u-U-kArAnta-dhAtavaH_+_कुङ्‌_+_ब्रू_+_RukArAntadhAtavaH---asanyogapUrvAH-sanyogapUrvAH-ca_2022-02-01
१२) yanganta-dhAtavaH---RukArAntadhAtavaH---asanyogapUrvAH-sanyogapUrvAH_+_RUkArAntadhAtavaH---anoSThyapUrvAH-oSThyapUrvAH_2022-02-08
१३) yanganta-dhAtavaH---गॄ_+_sAmAnyahalantAH_+_adupadhAH_+_जन्‌-सन्‌-खन्‌_+_हन्‌_2022-02-15
१४) yanganta-dhAtavaH---गॄ-ग्रोयङि-kadA_+_हन्‌_+_कस्‌-पत्‌-पद्‌_+_anunAsikAnta-adupadhAH _2022-02-22
१५) yanganta-dhAtavaH---गॄ-ग्रोयङि-kadA_+_aupadeshika-Atideshika-dhAtu-cintanam_+_ग्रोयङि-kimarthaM-tripAdyAm _2022-03-01
१६) yanganta-dhAtavaH---anunAsikAnta-adupadhAH_+_जप्‌-जभ्‌-दह्‌-पश्‌-चर्‌-फल्‌_2022-03-08
१७) yanganta-dhAtavaH---चर्‌-फल्‌_+_ग्रह्‌-व्यध्‌-वश्‌-व्यच्‌-वश्‌-स्वप्‌-स्यम्‌_+_इ-उ-ऋदुपधाः_+_कृप्‌_2022-03-15
2018 वर्गः
१) yanganta-dhAtavaH---paricayaH_2018-11-25
२) yanganta-dhAtavaH---siddha-ting-pratyayAH_+_dvitvam-abhyAsakAryam_+_AkArAnta-dhAtavaH_2018-12-02
३) yanganteShu-visheSha-AkArAntadhAtavaH---घु, मा, स्था, गा, पा, हा, सा, घ्रा, ध्मा, ज्या, व्येञ्‌, ह्वेञ्‌_2018-12-23
४) कर्तृकर्मणोः-कृति_+_ yangantAnAM-punassmaraNam_sAmAnyAbhyAsakAryaM-yAvat_2019-04-14
५) yanganta-prakriyA---punassmaraNam_+_AkArAnta-dhAtavaH_2019-04-21    
६) yanganta-prakriyA---AkArAnta-dhAtavaH---घुमास्थादयः, घ्रा, ध्मा, ज्या, व्येञ्‌_2019-04-28
७) yanganta-prakriyA---AkArAnta-dhAtuH-ह्वेञ्‌_+_ikArAnta-iikArAnta-ca-dhAtavaH---सामान्म्‌, शीङ्‌, श्वि_2019-05-05
८) yanganta-prakriyA---dvitvacintanam_+_ukArAnta-UkArAnta-RukArAnta-ca-dhAtavaH---सामान्यं-विशेषाश्च_2019-05-12
९) yanganta-prakriyA---RukArAnta-ca-RUkArAnta-ca-dhAtavaH_2019-05-19   
१०) yanganta-prakriyA---गॄ-धातुः_+_sAmAnyahalanta_+_adhupadha-dhAtavaH_2019-05-26
११) yanganta-prakriyA---anunAsikAnta-adhupadha-dhAtavaH_+_जप्‌, जभ्‌, दह्‌, पश्‌, चर्‌, फल्‌, ग्रह्‌, व्यध्‌, वश्‌, व्यच्‌, वश्‌_2019-06-02


यङन्तधातवः यङ्लुगन्तधातवः च समानार्थे भवन्ति | भेदः केवलं रूपे, प्रक्रियायाञ्च | कुत्रचित्‌ पर्यन्तं प्रक्रियासाम्यं वर्तते; ततः अग्रे महान्‌ भेदः अपि अस्ति | अस्य पाठस्य आरम्भे यत्र साम्यम्‌ अस्ति तत्‌ प्रदर्श्यते; अनन्तरं प्रक्रिया भिन्ना कथमिति प्रतिपाद्यते |


पुनस्स्मरणत्वेन वक्तव्यं—यङन्तधातूनां निर्माणावसरे आर्धधातुकप्रक्रिया आश्रीयते | आर्धधातुकप्रक्रिया उच्यते यदा धातुभ्यः यः प्रत्ययः विधीयते सः आर्धधातुकसंज्ञकः | इयम्‌ आर्धधातुकप्रक्रिया उपपद्यते त्रिषु स्थलेषु— (१) आतिदेशिकधातूनां साधनावसरे धातुभ्यः ये धातुप्रत्ययाः विधीयन्ते ते आर्धधातुकसंज्ञकाः, यथा सन्‌, णिच्‌, यङ्‌ इति द्वादश धातुप्रत्ययाः; (२) लकाराणां तिङन्तसाधनावसरे धातुभ्यः यः विकरणप्रत्ययः (यथा लृटि 'स्य') अथवा यः तिङ्प्रत्ययः (यथा आशीर्लिङि 'यात्‌') विधीयते सः आर्धधातुकसंज्ञकः चेत्‌; (३) कृदन्तसाधनावसरे धातुभ्यः यः कृत्‌-प्रत्ययः विधीयते सः आर्धधातुकसंज्ञकः चेत्‌ | अतः आहत्य आर्धधातुकप्रक्रिया घटिता आतिदेशिकधातुनिर्माणे, लकाराणां तिङन्तनिर्माणे, कृदन्तनिर्माणे च | अत्र यङन्तस्य आर्धधातुकप्रक्रिया आतिदेशिकधातुनिर्माणमेव | एकवारम्‌ आतिदेशिकधातुः यदा सिद्धः, ततः अग्रे विशिष्टकार्यं नास्ति यतोहि सर्वे यङन्तधातवः अदन्ताः | आत्मनेपदिनश्च | यङन्तेभ्यः शप्‌ विधीयते अतः भ्वादिगणे आत्मनेपदिधातुभ्यः रूपाणि यथा भवन्ति, तथैव अत्रापि |


यङन्त्-प्रक्रिया अनिडादिषु अन्यतमा | यङ्‌-प्रत्ययः वलादिः नास्ति, अतः आर्धधातुकस्येड्वलादेः (७.२.३५) इत्यस्य वशात्‌ इडागमस्य अवसरः न भवति | प्रेरणार्थे णिच्‌, कर्मणि भावे यक्‌, परस्मैपदे आशीर्लिङ्‌, यङ्लुक्‌, यङ्‌ च इत्येते सर्वे अनिडादयः | क्रमेण एषां पाठः जायमानः | एतावता प्रेरणार्थे णिच्‌, कर्मणि भावे यक्‌, परस्मैपदे आशीर्लिङ्‌, यङ्लुक्‌ इत्येते समाप्ताः; सम्प्रति यङन्तप्रक्रिया | यङ्लुक्‌ प्रथमं कारितं यतोहि तस्मिन्‌ यङ्‌-निमित्तीकृत्य अङ्गकार्यं नास्ति | यङि अङ्गकार्यस्य बाहुल्यम्‌ इति कारणेन अधिकं जाटिल्यम्‌ |


यङ्‌-प्रत्ययः केभ्यः धातुभ्यः विधीयते, केषु च अर्थेषु


द्वादशसु धातुप्रत्ययेषु यङ्‌-प्रत्ययः अन्यतमः | वारं वारम्‌ अथवा अधिकाधिकम्‌ इत्यस्मिन्‌ अर्थे भवति | यथा णिच्‌ अपि च सन्, अस्य यङ्‌-प्रत्ययस्य धातुना संयोजनेन नूतनधातुः निर्मितः भवति | तदा यङन्तधातुः इति वदामः | यङ्‌-प्रत्ययस्य किञ्चन वैशिष्ट्यम्‌ अस्ति यत्‌ तस्य लोपः (लुक्‌) अपि भवितुम्‌ अर्हति | यत्र यङः लुक्‌ भवति तत्र यङ्लुगन्तधातुः इत्युच्यते | यङन्तानां यङ्लुगन्तानां च अर्थः समानः, परन्तु रूपं भिद्यते |


यथा—

पठ्‌ + यङ्‌ → 'पापठ्य' इति यङन्तधातुः |


पठ्‌ + यङ्‌ → पापठ्य → यङः लुक्‌ → पापठ्‌ इति यङ्लुगन्तधातुः |


पापठ्य इति अदन्तधातुः, पापठ्‌ इति हलन्तधातुः; रूपं भिद्यते किन्तु अर्थः समानः | यङः लटि पापठ्यते, यङ्लुगन्तस्य लटि पापट्टि | उभयत्र वारं वारम्‌ अथवा अधिकाधिकं पठति इत्यर्थः |


तर्हि यङ्‌-प्रत्ययस्य 'वारं वारम्‌ अथवा अधिकाधिकम्‌' इति सामान्यः अर्थः | व्याकरणे अस्यैव अर्थस्य व्यक्तीकरणार्थं 'क्रियासमभिहारः' इति पदं भवति | पौनःपुन्यं भृशार्थश्च क्रियासमभिहारः इति | सम्प्रति द्रष्टव्यं कुत्र यङ्‌-प्रत्ययः अस्मिन्‌ सामान्यार्थे भवति, कुत्र च अपरस्मिन्‌ विशिष्टार्थे भवति |


धातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌ (३.१.२२) = वारं वारम्‌ अथवा अतिशयार्थे हलादि-एकाच्‌-धातुभ्यः यङ्‌-प्रत्ययो भवति | पौनःपुन्ये भृशार्थे च द्योत्ये धातोरेकाचो हलादेर्यङ्‌ स्यात् | एकोऽच्‌ यस्मिन्‌ स एकाच्‌ बहुव्रीहिः, तस्मात्‌ एकाचः | हल्‌ आदिर्यस्य स हलादिः बहुव्रीहिः, तस्मात्‌ हलादेः | क्रियायाः समभिहारः क्रियासमभिहारः षष्ठीतत्पुरुषः, तस्मिन्‌ क्रियासमभिहारे | धातोः पञ्चम्यन्तम्‌, एकाचः पञ्चम्यन्तं, हलादेः पञ्चम्यन्तं क्रियासमभिहारे सप्तम्यन्तं, यङ्‌ प्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | प्रत्ययः (३.१.१), परश्च (३.१.२) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— एकाचः हलादेः धातोः यङ्‌ प्रत्ययः परश्च क्रियासमभिहारे |


अनेन बोधो भवति यत्‌‍ यङः त्रीणि निमित्तानि— (१) विवक्षा क्रियासमभिहारे भवेत्‌, (२) धातुः हलादिः भवेत्‌, (३) धातुः एकाच्‌ भवेत्‌ | त्रिषु अन्यतमः नास्ति चेत्‌ यङ्‌ न भवति | यथा जागृ‌-धातुः हलादिः किन्तु अनेकाच्‌ अतः जागृ-धातोः यङ्‌-प्रत्ययः न भवति; ईक्ष्‌-धातुः एकाच्‌‍ किन्तु अजादिः अतः ईक्ष्‌-धातोः यङ्‌-प्रत्ययः न भवति | परन्तु भू-धातुः हलादिः अपि अस्ति, एकाच्‌ अपि अस्ति, अतः भू-धातोः यङ्‌-प्रत्ययो भवति |


सूचिसूत्रिमूत्र्यटत्यर्त्यशूर्णोतीनां यङ्‌ वक्तव्यम्‌ इति वार्त्तिकेन क्रियासमभिहारार्थे सूचि, सूत्रि, मूत्रि इत्येभ्यः त्रिभ्यः अनेकाच्‌-धातुभ्यः च अट्‌, ऋ, अश्‌, ऊर्णु इति चतुर्भ्यः अजादिधातुभ्यः यङ्‌-प्रत्ययो भवति |


नित्यं कौटिल्ये गतौ (३.१.२३) = गत्यर्थकधातुभ्यः कुटिलगमनार्थे एव यङ्‌-प्रत्ययो भवति; क्रियासमभिहारार्थे न भवति | गतिवचनाद्धातोः कौटिल्ये गम्यमाने नित्यं यङ्‌-प्रत्ययो भवति | नित्यं द्वितीयान्तं क्रियाविशेषणं, कौटिल्ये सप्तम्यन्तं, गतौ सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | धातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌ (३.१.२२) इत्यस्मात्‌ धातोः, यङ्‌ इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— धातोः यङ्‌ नित्यं कौटिल्ये गतौ |


अत्र प्रश्नः उदेति यत्‌ गत्यर्थकधातवः के | प्रायः ३५० गत्यर्थकधातवः सन्ति | ये ये धातवः गमनार्थे सन्ति, ते सर्वे गत्यर्थकाः | अत्र धेयं यत्‌ केचन गत्यर्थकधातवः अकर्मकाः, पुनः केचन सकर्मकाः | अनेन नित्यं कौटिल्ये गतौ (३.१.२३) इति सूत्रेण एते सर्वे गत्यर्थकधातवः अन्तर्भूताः | अपरस्मिन्‌ प्रसङ्गे गत्यर्थाकर्मकश्लिषशीङ्स्थाऽऽसवसजनरुहजीर्यतिभ्यश्च (३.४.७२) इत्यनेन गत्यर्थ-अकर्मक-श्लिष-शीङ्-स्था-आस-वस-जन-रुह-जीर्यतिभ्यः धातुभ्यः क्त-प्रत्ययः कर्त्रर्थे अपि विधीयते | अत्र गत्यर्थकधातवः च अकर्मकधातवः च पृथक्‌ उक्ताः इत्यस्मात्‌ गत्यर्थे सकर्मकधातूनामेव ग्रहणम्‌ | अनेन सकर्मकगत्यर्थकधातुभ्यः कर्त्रर्थे क्त-प्रत्ययो भवति | बालकः ग्रामं गतः | अत्र भ्वादौ धावु गतिशुद्धयोः इति अकर्मक-धाव्-धातोः अकर्मकत्वात्‌ एव कर्त्रर्थे क्त-प्रत्ययो भवति | किन्तु प्रकृते, नित्यं कौटिल्ये गतौ (३.१.२३) इति सूत्रे सर्वेषां गत्यर्थकधातूनां ग्रहणम्‌ |


लुपसदचरजपजभदहदशगॄभ्यो भावगर्हायाम् (३.१.२४) = लुप्‌, सद्‌, चर्‌, जप्‌, जभ्‌, दह्‌, दश्‌, गॄ, इति धातुभ्यः क्रियायाः भावगर्हाऽर्थे एव यङ्‌-प्रत्ययो भवति; अपरेषु अर्थेषु न भवति | भावशब्देन क्रिया-सङ्केतः; क्रियायाः निन्दा अर्थात्‌ असमीचीनरीत्या क्रिया सम्पन्ना इत्यस्मिन्‌ अर्थे 'भावगर्हा' उपयुज्यते | लुपश्च सदश्च चरश्च जपश्च जभश्च दहश्च दशश्च गॄ च तेषामितरेतरद्वन्द्वः लुपसदचरजपजभदहदशगरः, तेभ्यः लुपसदचरजपजभदहदशगॄभ्यः | भावस्य गर्हा भावगर्हा, तस्यां भावगर्हायाम्‌ | लुपसदचरजपजभदहदशगॄभ्यः पञ्चम्यन्तं, भावगर्हायाम् सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | नित्यं कौटिल्ये गतौ (३.१.२३) इत्यस्मात्‌ एवकारार्थकं नित्यम्‌ इत्यस्य अनुवृत्तिः | धातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌ (३.१.२२) इत्यस्मात्‌ यङ्‌ इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— लुपसदचरजपजभदहदशगॄभ्यो यङ्‌, नित्यं भावगर्हायाम् |


चर् + यङ्‌ → चञ्चूर्य इति यङन्तधातोः अर्थः निन्दितरूपेण चलनम्‌ | गर्हितं चरति चञ्चूर्यते | गर्हितं लुम्पति लोलुप्यते |


तर्हि यङ्‌-प्रत्ययः कुत्र कुत्र भवति इति चेत्‌, चतुर्णां सूत्राणां वार्त्तिकानाञ्च मिलित्वा अर्थः एवम्‌—

१) अजादिधातुषु अट्‌, ॠ, अश्‌, ऊर्णु इत्येभ्यः एव यङ्‌ भवति | अवशिष्टेभ्यः अजादिधातुभ्यः यङ्‌ न भवति |

२) हलादिधातवः द्विविधाः— अनेकाचः एकाचः च |

- अनेकाच्‌-धातुषु केवलं सूचि, सूत्रि, मूत्रि इत्येभ्यः त्रिभ्यः यङ्‌ भवति | अवशिष्टेभ्यः हलादि-अनेकाच्‌-धातुभ्यः यङ्‌ न भवति | सर्वे णिजन्ताः सनन्ताः च धावतः अनेकाचः अतः तेभ्यः यङ्‍ न भवति | चुरादिगणे यावन्तः धातवः ते सर्वे अनेकाचः अतः तेभ्यः अपि यङ्‌ न भवति | दीधी, वेवी, दरोद्रा, जागृ, चकास्‌ इत्यादिभ्यः अपि यङ्‌ न भवति |

- पठ्‌, वद्‌, मुद्‌, बुध्‌ इत्यादिभ्यः सर्वेभ्यः एकाच्‌-हलादिधातुभ्यः यङ्‌-प्रत्ययो भवति |


यङन्तस्य धातुसंज्ञा


धातुभ्यः यदा हि यङ्‌-प्रत्ययः विधीयते, तदा हि धातुसंज्ञा भवति |


सनाद्यन्ता धातवः (३.१.३२) = गुप्तिज्किद्भ्यः सन्‌ (३.१.५) इत्यस्य सन्‌ इत्यारभ्य कमेर्णिङ्‌ (३.१.३०) इत्यस्य णिङ्‌ इत्यन्तं द्वादश प्रत्ययाः येषाम्‌ अन्ते भवन्ति, तेषां धातु-संज्ञा स्यात्‌ | द्वादश प्रत्ययाः एते— सन्‌, क्यच्‌, काम्यच्‌, क्यष्‌, क्यङ्‌, क्विप्‌, णिङ्‌, ईयङ्‌, णिच्‌, यक्‌, आय, यङ्‌ | सन्‌ आदौ येषां ते सनादयः; सनादयः अन्ते येषां ते सनाद्यन्ताः | सनाद्यन्ताः प्रथमान्तं, धातवः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्‌— सनाद्यन्ताः धातवः |


एकवारं यदा धातुसंज्ञा सिद्धा, तदा तस्मात्‌ धातोः कस्यापि लकारस्य तिङ्प्रत्ययः अथवा कोऽपि कृत्‌-प्रत्ययः संयोजयितुं शक्यते यया रीत्या अन्येभ्यः धातुभ्यः प्रत्ययाः विधीयन्ते | किन्तु धेयं यत् अनुदात्तेत्‌ ङित्‌ च धातुभ्यः केवलम्‌ आत्मनेपदप्रत्ययाः विधीयन्ते—


अनुदात्तङित‌ आत्मनेपदम्‌ (१.३.१२) = यस्य धातोः अनुदात्तस्वरस्य ङकारस्य च इत्‌-संज्ञा भवति, सः धातुः आत्मनेपदी | अनुदात्तश्च ङ्‌ च अनुदात्तङौ, तौ इतौ यस्य सः अनुदात्तङित्‌ द्वन्द्वगर्भ-बहुव्रीहिः, तस्मात्‌ अनुदात्तङितः | अनुदात्तङितः पञ्चम्यन्तम्‌, आत्मनेपदं प्रथमान्तम्‌, द्विपदमिदं सूत्रम्‌ | भूवादयो धातवः (१.३.१) इत्यस्मात्‌ धातोः इत्यस्य अनुवृत्तिः | टीकाकाराः सूचयन्ति यत्‌ लस्य इति पदम्‌ आयाति आक्षेपेण यतोहि तस्य अर्थः निहितः आत्मनेपदम्‌ इत्यस्मिन्‌ | अनुवृत्ति-सहितसूत्रम्— अनुदात्तङितः धातोः लस्य आत्मनेपदम्‌ |


यङ्‌-प्रत्ययः ङित्‌ अतः सर्वे यङन्तधातवः आत्मनेपदिनः | सर्वे यङन्तधातवः च अदन्ताः अतः प्रथमगणसमूहस्य तिङ्प्रत्ययाः विधीयन्ते; तस्मात्‌ च तिङ्प्रत्ययसंयोजनं सुलभम्‌ | अस्माकं प्रमुखकार्यम्‌ अत्र धातोः साधनम्‌ | यङन्तधातुसाधनमेव आर्धधातुकप्रक्रियान्तर्गतम्‌ | ततः अग्रे लटि, लोटि, लङि, विधिलिङि च तिङन्तनिर्माणं सार्वधातुकप्रक्रियानुसारि |


आत्मनेपदिधातूनाम्‌ अदन्ताङ्गानां सिद्ध-तिङ्प्रत्ययाः



लटि‌ सिद्ध-प्रत्ययाः—

ते इते अन्ते
से इथे ध्वे
वहे महे


लोटि‌ सिद्ध-प्रत्ययाः—

ताम्‌ इताम्‌ अन्ताम्‌
स्व इथाम्‌ ध्वम्‌
आवहै आमहै


लङि‌ सिद्ध-प्रत्ययाः—

इताम्‌ अन्त
थाः इथाम्‌ ध्वम्‌
वहि महि


विधिलिङि‌ सिद्ध-प्रत्ययाः—

ईत ईयाताम्‌ ईरन्‌
ईथाः ईयाथाम्‌ ईध्वम्‌
ईय  ईवहि ईमहि


अत्र प्रश्नः उदेति यत्‌ यङन्तधातुः अभ्यस्तसंज्ञकः अतः किमर्थं न अदभ्यस्तात् (७.१.४) इत्यनेन झ-स्थाने अत्‌-आदेशः (न तु झोऽन्तः (७.१.३) इत्यनेन झ-स्थाने अन्त्‌-आदेशः) ? उत्तरम्‌ अस्ति यत्‌ ('देदीय + शप्‌ + ते →) 'देदीय + ते' इति स्थले देदीय इति धातोः उभे अभ्यस्तम् (६.१.५) इत्यनेन द्वित्वानन्तरं द्वयोः समुदायः अभ्यस्तसंज्ञकः अवश्यं किन्तु ते-प्रत्ययम्‌ अधिकृत्य अङ्गम्‌ अभ्यस्तसंज्ञकं नास्ति | अङ्गस्य अन्ते शप्‌ अस्ति; शबन्तस्य अङ्गस्य यया रीत्या धातुसंज्ञा नास्ति, तया एव रीत्या अभ्यस्तसंज्ञा अपि नास्ति | अपि च अदभ्यस्तात् (७.१.४) इति सूत्रे पञ्चमीविभक्तिः अस्ति | पञ्चमी इति कारणतः तस्मादित्युत्तरस्य (१.१.६७) इत्यनेन साक्षात्‌ अनन्तरं कार्यं भवेत्‌ | अभ्यस्तसंज्ञकात्‌ अङ्गात्‌ शप्‌ अस्ति न तु 'झ' | अतः अदभ्यस्तात् (७.१.४) इत्यस्य प्रसक्तिर्नास्त्येव | तर्हि किमर्थं न आत्मनेपदेष्वनतः (७.१.५) इत्यनेन झ-स्थाने अत्‌-आदेशः ? आत्मनेपदेष्वनतः (७.१.५) वक्ति यत्‌ अनदन्ताङ्गात्‌ आत्मनेपदसंज्ञकप्रत्ययस्य झकारस्य अत्‌-आदेशः; यङन्तधातुः आत्मनेपदी इति तु अस्ति, किन्तु शबन्तम्‌ अङ्गम्‌ अनदन्तं न अपि तु अदन्तमेव | अदन्तम्‌ इति कृत्वा आत्मनेपदेष्वनतः (७.१.५) इत्यस्य प्रसक्तिर्नास्ति | अतः अन्ततो गत्वा झोऽन्तः (७.१.३) इत्यनेन झकारस्य स्थाने अन्त्‌-आदेशः | तदर्थं लटि 'अन्ते', लोटि 'अन्ताम्‌', लङि 'अन्त' इति भवति |


उपरितनाः सर्वे तिङ्प्रत्ययाः सार्वधातुकसंज्ञकाः कर्त्रर्थकाश्च | अस्यां दशायां धातुभ्यः शप्‌-प्रत्ययः विधीयते |


कर्तरि शप्‌ (३.१.६८) = धातुतः शप्‌-प्रत्ययः भवति, कर्त्रर्थक-सार्वधातुकप्रत्यये परे | कर्तरि सप्तम्यन्तं, शप्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | सार्वधातुके यक्‌ (३.१.६७) इत्यस्मात्‌ सार्वधातुके इत्यस्य अनुवृत्तिः | प्रत्ययः (३.१.१), परश्च (३.१.२) इत्यनयोः अधिकारः | धातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌ (३.१.२२) इत्यस्मात्‌ धातोः इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— धातोः शप्‌ प्रत्ययः परश्च कर्तरि सार्वधातुके |


यथा—

डुदाञ्‌ दाने → देदीय इति यङन्तधातुः |

देदीय + ते → कर्तरि शप्‌ (३.१.६८) इत्यनेन धातुतः शप्‌-प्रत्ययः भवति, कर्त्रर्थक-सार्वधातुकप्रत्यये परे → देदीय + शप्‌ + ते → देदीय + अ + ते → अतो गुणे (६.१.९७) इत्यनेन पूर्वपरयोः स्थाने एकः पररूपमेकादेशः→ देदीय + ते → देदीयते


अतो गुणे (६.१.९७) = अपदान्तात्‌ अतः गुणे परे पूर्वपरयोः स्थाने एकः पररूपमेकादेशः स्यात्‌ | गुणः इत्युक्तौ अ, ए, ओ | इदं सूत्रं वृद्धिरेचि (६.१.८८), अकः सवर्णे दीर्घः (६.१.१०१) इत्यनयोः अपवादसूत्रम्‌ | अतः पञ्चम्यन्तं, गुणे सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | उस्यपदान्तात्‌ (६.१.९६) इत्यस्मात्‌ अपदान्तात्‌ अपि च एङि पररूपम्‌ (६.१.९४) इत्यस्मात्‌ पररूपम्‌ इत्यनयोः अनुवृत्तिः | एकः पूर्वपरयोः (६.१.८४), संहितायाम्‌ (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अपदान्तात्‌ अतः गुणे पूर्वपरयोः एकः पररूपं संहितायाम्‌ |


अदेङ्‌गुणः (१.१.२) = ह्रस्व-अकारः, एकारः, ओकारः (एङ्) एषां वर्णानां गुणसंज्ञा स्यात्‌ | अत्‌ एङ्‍ च गुणसंज्ञः स्यात्‌ इति | अत्‌ च एङ्‌ च अदेङ्‌ | अदेङ्‌ प्रथमान्तं, गुणः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्— अत्‌ एङ्‌ गुणः |


यतः लटि, लोटि, यङि, विधिलिङि च सर्वेषां यङन्तधातूनां तिङन्तरूपाणि समानरीत्या भवन्ति, तदर्थम्‌ एकवारम्‌ अत्र प्रदर्श्यते | अग्रे अस्मिन्‌ पाठे यङन्तधातवः एव सेत्स्यन्ते; चतुर्षु लकारेषु तिङन्तरूपाणि कीदृशानि इति ऊहा सुलभा | सर्वत्र तानि च एतादृशानि—


लटि—

देदीयते देदीयेते देदीयन्ते
देदीयसे देदीयेथे देदीयध्वे
देदीये देदीयावहे देदीयामहे


लोटि—

देदीयताम्‌ देदीयेताम्‌ देदीयन्ताम्‌
देदीयस्व देदीयेथाम्‌ देदीयध्वम्‌
देदीयै देदीयावहै देदीयामहै


लङि—

अदेदीयत अदेदीयेताम्‌ अदेदीयन्त
अदेदीयथाः अदेदीयेथाम्‌ अदेदीयध्वम्
अदेदीये अदेदीयावहि अदेदीयामहि


विधिलिङि—

देदीयेत देदीयेयाताम्‌ देदीयेरन्‌
देदीयेथाः देदीयेयाथाम्‌ देदीयेध्वम्‌
देदीयेय देदीयेवहि देदीयेमहि


तर्हि लटि, लोटि, लङि, विधिलिङि च सर्वेषां यङन्तधातूनां तिङन्तरूपाणि एतादृशानि | अपरेषु षट्सु लकारेषु तत्तत्पाठे द्रष्टव्यम्‌ | प्रत्येकस्मिन्‌ पाठे तस्य लकारस्य यङन्तरूपं कथं सिध्यति इति प्रदर्श्यते |


यङन्त-प्रक्रिया

१) सर्वप्रथमं यङ्‌ विधीयते;

२) तदा सनाद्यन्ता धातवः (३.१.३२) इत्यनेन धातु-संज्ञा;

३) यङ्‌-प्रत्ययं निमित्तीकृत्य यत्किमपि अङ्गकार्यं प्रसक्तं (यथा सम्प्रसारणं, नलोपः इत्यादिकं) तत्सर्वम्‌ अधुना कर्तव्यम्‌;

४) द्वित्वम्‌ अभ्यासकार्यञ्च |


द्वित्वम्—


सन्यङोः (६.१.९) = सन्नन्तस्य यङन्तस्य च धातुरनभ्यासस्य प्रथमस्यैकाच्‌-अवयवस्य द्वे स्तः; अजादेस्तु द्वितीयस्य | सन्‌ च यङ्‌ च तयोरितरेतरद्वन्द्वः सन्यङौ, तयोः सन्यङोः | सन्यङोः षष्ठ्यन्तम्‌, एकपदमिदं सूत्रम्‌ | लिटि धातोरनभ्यासस्य (६.१.८) इत्यस्मात्‌ धातोः, अनभ्यासस्य इत्यनयोः अनुवृत्तिः | एकाचो द्वे प्रथमस्य (६.१.१), अजादेर्द्वितीयस्य (६.१.२) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— सन्यङोः धातोः अनभ्यासस्य एकाचो द्वे प्रथमस्य अजादेः द्वितीयस्य |


एकाचो द्वे प्रथमस्य (६.१.१) = अधिकारसूत्रं— प्रथमस्य एकाच्‌-भागस्य द्वित्वं भवति | जागृ → जा जागृ | पच्‌ → पच्‌ पच्‌ | इ → इ इ | षष्ठाध्यायस्य प्रदमपादस्य द्वादशं सूत्रं (६.१.१२) पर्यन्तं सर्वत्र अनुवर्तते | एकाचः षष्ठ्यन्तं, द्वे प्रथमान्तं, प्रथमस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्‌— प्रथमस्य एकाचः द्वे |


अजादेर्द्वितीयस्य (६.१.२) | अधिकारसूत्रम्‌— अजादिधातोः द्वितीयस्य एकाच्‌-भागस्य द्वित्वं भवति | ऊर्णु → ऊर्णु नु | षष्ठाध्यायस्य प्रदमपादस्य द्वादशं सूत्रं (६.१.१२) पर्यन्तं सर्वत्र अनुवर्तते | अजादेः षष्ठ्यन्तं, द्वितीयस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्‌— अजादेः द्वितीयस्य (एकाचः द्वे) |


बहुत्र धातुः एकाच्‌ एव; तथा भवति चेत्‌ समग्रधातोरेव द्वित्वं भवति | यथा जुहोत्यादिगणे मा → मामा, हा → हाहा | यङन्तधातुः सदा अनेकाच्‌ यतोहि औपदेशिकधातौ न्यूनातिन्यूनम्‌ एकः स्वरः अस्त्येव; तदा 'य' इत्यस्य संयोजनेन ‘य' इत्यस्मिन्‌ यः अकारः, सः यङन्तधातोः द्वितीयः अच्‌-वर्णो भवति | धातुः अनेकाच्‌ चेत्‌, अपि च हलादिः इति चेत्‌ एकाचो द्वे प्रथमस्य (६.१.१) इत्यनेन प्रथमस्य एकाच्‌-भागस्य द्वित्वं भवति | धातुः अनेकाच्‌ चेत्‌, अपि च अजादिः इति चेत्‌ अजादेर्द्वितीयस्य (६.१.२) इत्यनेन द्वितीयस्य एकाच्‌-भागस्य द्वित्वं भवति | एकाच्‌-भागः इत्युक्ते यदा हि प्रथमः अच्‌-वर्णः आयाति, स च वर्णः भागस्य अन्तो भवति | नाम, स्वरवर्णः भागस्य अन्तिमवर्णो भवति | अग्रिमवर्णः अग्रिमभागस्य प्रथमवर्णः |


यथा भू + य → भूय इत्यस्य सनाद्यन्ता धातवः (३.१.३२) इत्यनेन धातुसंज्ञा → सन्यङोः (६.१.९) इत्यनेन द्वित्वम्‌ → भूय इति धातुः अनेकाच्‌, हलादिः च अतः प्रथमस्य एकाच्‌-भागस्य द्वित्वम्‌ → ऊ-कारः स्वरः अतः स च ऊकारः प्रथमभागस्य अन्तिमवर्ग्णः → 'भू' इति प्रथमभागः, तस्य च द्वित्वम्‌ → भू भू य


किन्तु धातुः अजादिः अस्ति चेत् अजादेर्द्वितीयस्य (६.१.२) इत्यनेन द्वितीयस्य एकाच्‌-भागस्य द्वित्वं भवति—


अश्‌ य → अश्य इत्यस्य सनाद्यन्ता धातवः (३.१.३२) इत्यनेन धातुसंज्ञा → सन्यङोः (६.१.९) इत्यनेन अजादेः द्वितीयस्य द्वित्वम्‌ → अश्य इति धातौ श्य इत्यस्य प्रथमः अ-कारः स्वरः अतः स च अकारः प्रथमभागस्य अन्तिमवर्ग्णः → 'श्य' इति द्वितीयभागः, तस्य च द्वित्वम्‌ → अ श्य श्य


धेयं यत्‌ 'यङ्‌-प्रत्ययं निमित्तीकृत्य द्वित्वम्‌' इति वार्ता नास्ति | 'अश्‌ य → अश्य → अ श्य श्य' इत्यस्य दर्शनेन स्पष्टं भवति यत्‌ यङ्‌-प्रत्ययः द्वित्वकार्यस्य निमित्तं नास्ति; 'य' एव स्थानी, नाम स च 'य' कार्यस्य स्थलम्‌ | अपरेषु द्वित्वप्रसङ्गेषु प्रत्ययः सप्तमीविभक्तौ भवति— लिटि धातोरनभ्यासस्य (६.१.८), श्लौ (६.१.१०), चङि (६.१.११) | एषु लिटि, श्लौ, चङि इति सप्तम्यन्तानि; किन्तु सन्यङोः (६.१.९) इत्यस्मिन्‌ सन्यङोः इति षष्ठ्यन्तं पदम् | यतोहि तस्य एव द्वित्वं भवति | यस्य अन्ते यङ्‍ अस्ति, तस्य द्वित्वं भवति | यङ्‌ तस्मिन्‌ द्वित्वकार्ये अन्तर्भूतमेव |


अस्य च सिद्धान्तस्य फल‍‍म् अजादिधातुप्रसङ्गे | सन्यङोः (६.१.९) इत्यस्मिन्‌ सन्यङोः यदि सप्तम्यन्तं स्यात्‌, नाम द्वित्वस्य निमित्तं स्यात्‌, तर्हि अश्‌ + य → अश्‌ + अश्‌ + य इति दोषपूर्णरूपं सेत्स्यति | आहत्य वामतः एकाच्‌-भागः अच्‌-वर्णेन समाप्यते; फलं तु अजादिधातुप्रसङ्गे; हलादिधातूनां कृते यथाकथमपि करोति चेत्‌ दोषो न भवति, किन्तु सङ्गति-कृते, सामञ्जस्य-कृते सर्वत्र समानरीत्या क्रियते चेत्‌ वरम्‌ | इति कृत्वा अग्रे शीङ्‌- धातोः शय्‌ + य इति प्रसङ्गे 'श श य्य' इत्येव सम्यक्‌ | एवञ्च सर्वत्र समानरीत्या क्रियते चेत्‌ सारल्य‍म्, एतदेव मातॄणां मतम्‌ |


न न्द्राः संयोगादयः (६.१.३) = अचः पराः संयोगादयः नदराः द्विर्न भवन्ति | न्‌ च द्‍ च रश्च तेषामितरेतरद्वन्द्वो न्द्राः | संयोगस्य आदयः, संयोगादयः षष्ठीतत्पुरुषः | न अव्ययपदं, न्द्राः प्रथमान्तं, संयोगादयः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | अजादेर्द्वितीयस्य (६.१.२) इत्यस्मात् अजादेः इत्यस्य अनुवृत्तिः | अच्‌ चासौ आदिश्च अजादिः, तस्मात्‌ अजादेः कर्मधारयः | एकाचो द्वे प्रथमस्य (६.१.१) इत्यस्मात्‌ द्वे इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— अजादेः संयोगादयः न्द्राः न द्वे |


यथा—

ऊर्णु → ऊ इति प्रथमः एकाच्‌-भागः, र्णु इति द्वितीयः एकाच्‌-भागः → अजादेर्द्वितीयस्य (६.१.२) इत्यनेन द्वितीयस्य एकाच्‌-भागस्य द्वित्वम्‌ → न न्द्राः संयोगादयः (६.१.३) इत्यनेन संयोगादि-रेफस्य द्वित्वं न भवति अतः 'नु' इत्यस्य एव द्वित्वम्‌ → ऊर्णु नु


उन्द्‌ + सन्‌ → इडागमः, षत्वादेशः → उन्दिष → त्रयः एकाच्‌-भागाः उ, न्दि, ष → अजादेर्द्वितीयस्य (६.१.२) इत्यनेन द्वितीयस्य एकाच्‌-भागस्य द्वित्वम्‌ → 'न्दि' इति द्वितीयः एकाच्‌-भागः → न न्द्राः संयोगादयः (६.१.३) इत्यनेन संयोगादि-नकारस्य द्वित्वं न भवति अतः 'दि' इत्यस्य एव द्वित्वम्‌ → प्रथमः तृतीयः च एकाच्‌-भागौ यथावत्‌ तिष्ठतः → उन्दि + दि + ष → उन्दिदिष


अभ्यासः अभ्यस्तम्‌ इति द्वे संज्ञे—


पूर्वोऽभ्यासः (६.१.४) = द्वित्वानन्तरं, यस्मिन्‌ द्विवारम्‌ उच्चारणं जातं तस्मिन्‌ प्रथमभागस्य नाम अभ्यासः | पूर्वः प्रथमान्तम्‌, अभ्यासः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | एकाचो द्वे प्रथमस्य (६.१.१) इत्यस्मात्‌ द्वे इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— पूर्वः अभ्यासः द्वयोः |


यथा भू + य → भू भू य | यस्मिन्‌ द्विवारम्‌ उच्चारणं जातं तस्मिन्‌ प्रथमभागस्य नाम अभ्यासः | अत्र 'भू भू' इत्यस्मिन्‌ द्विवारम्‌ उच्चारणं जातम्‌ अतः तस्मिन्‌ प्रथमभागस्य नाम अभ्यासः—प्रथमः 'भू' इति भागः अभ्याससंज्ञकः |


उभे अभ्यस्तम् (६.१.५) = द्वित्वानन्तरं, द्वयोः समुदायः अभ्यस्तसंज्ञको भवति | उभे प्रथमान्तम्‌, अभ्यस्तं प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | एकाचो द्वे प्रथमस्य (६.१.१) इत्यस्मात्‌ द्वे इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌—उभे द्वे अभ्यस्तम् |


यथा भू + य → भू भू य | द्वित्वानन्तरं, द्वयोः समुदायः अभ्यस्तसंज्ञको भवति | अत्र 'भू' इत्यस्य द्वित्वं कृतं; द्वयोः 'भू'-भागयोः समुदायः 'भू भू' अतः 'भू भू' इत्यस्य एव अभ्यस्तसंज्ञा न तु  'भू भू य' इत्यस्य | तथैव सर्वत्र | यस्य द्विवारम्‌ उच्चारणं जातं, तस्य द्वित्वकृतसमुदायः एव अभ्यस्तसंज्ञकः |


द्वित्वसम्बद्धम्‌ इतोऽपि किञ्चित्‌ चिन्तनम्


उपर्युक्तं यत्‌ धातुः एकाच्‌ अस्ति चेत्‌, द्वित्वावसरे सम्पूर्णधातुः स्वीकरणीयः | यथा यङ्‌लुकि पठ्‌ → पठ्‌ पठ्‌ | अत्र भाष्यकारः चिन्तनं कुर्वन्‌ निदर्शनं दत्वा वदति यत्‌ जुहोत्यादिगणीयः णिजिर्‌-धातोः द्वित्वं कथम्‌ ? अनुबन्धरहितत्वात्‌ निज्‌ भवति | औपदेशिक-निज्‌-धातोः सार्वधातुकप्रक्रियावसरे (लटि, लोटि, लङि, विधिलिङि, शतरि) द्वित्वं क्रियते | एकाच्‌ बहुव्रीहिसमासः, एकः अच्‌ यस्मिन्‌ सः | तर्हि निज्‌-धातोः विषये, केन एकाच्‌ जातः इति प्रश्ने सति, इकारेण | तदर्थं चतस्रः सम्भावनाः सन्ति—नि, निज्‌, इ, इज्‌ | ततः अग्रे उच्यते यत्‌ 'इ' अथवा 'इज्‌' इत्यनयोः द्वित्वार्थं स्वीकारः भवति चेत्‌, इष्टं सार्वधातुकम्‌ अङ्गं 'नेनिज्‌' न सिध्यति | परन्तु 'नि' अथवा 'निज्‌' द्वित्वार्थं स्वीक्रियते चेत्‌ उभयत्र इष्टं सार्वधातुकम्‌ अङ्गं जायते | नि नि ज्‌ → नेनिज्‌; निज्‌ निज्‌ → नेनिज्‌ | तर्हि अनयोः (‘नि' अथवा 'निज्‌' इत्यनयोः) मध्ये कस्य द्वित्वं स्यात्‌ ?


अत्र भाष्यकारः प्रतिपादयति यत्‌ 'नि' स्वीक्रियते चेत्‌, अभ्यस्तम्‌ अस्ति 'निनि' | सार्वधातुकम्‌ अङ्गम्‌ अस्ति नेनिज्‌, किन्तु अभ्यस्तम्‌ अस्ति 'निनि' | अत्र त्रिषु प्रधनस्थलेषु समस्या जायते |


१) अदभ्यस्तात् (७.१.४) इति सूत्रेण लटि लोटि च प्रथमपुरुषस्य बहुवचने झ्‌-स्थाने अत्‌ आदेशः, अतः लटि झि → अति न तु अन्ति; लोटि झि → अतु न तु अन्तु |


अदभ्यस्तात् (७.१.४) = अभ्यस्तसंज्ञक-धातूत्तरस्य प्रत्ययस्य आदिमावयवस्य झकारस्य स्थाने अत्‌-आदेशो भवति | अत्‌ प्रथमान्तम्‌, अभ्यस्तात्‌ पञ्चम्यन्तं, द्विपदमिदं सूत्रम्‌ | झोऽन्तः (७.१.३) इत्यस्मात्‌ झः (षष्ठ्यन्तम्‌) इत्यस्य अनुवृत्तिः | आयनेयीनीयियः फढखछगां प्रत्ययादीनाम्‌ (७.१.२) इत्यस्मात्‌, वचनपरिणामं कृत्वा प्रत्ययादेः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— अभ्यस्तात्‌ अङ्गात्‌ प्रत्ययादेः झः अत्‌ |


परन्तु 'निनि' अभ्यस्तम्‌ अस्ति चेत्‌, ‘निनि' च झि-प्रत्ययः चेत्यनयोः मध्ये जकारः वर्तते, तदर्थम्‌ अत्‌-आदेशः न भविष्यति |


२) लङि अभ्यस्तसंज्ञकधातोः परस्य झि-स्थाने जुस्‌-आदेशः | जुस्‌ इत्यस्य अनुबन्धलोपे, रुत्वविसर्गौ, उः इति भवति | तर्हि अभ्यस्तसंज्ञकः धातुः अस्ति चेत्‌, लङि अन्‌-स्थाने उः इति प्रत्ययः भवति |


सिजभ्यस्तविदिभ्यश्च (३.४.१०९) = ङित्‌-लकारस्य अवस्थायां, सिच्‌-प्रत्ययात्‌, अभ्यस्तसंज्ञकात्‌ धातोः, विद्‌-धातोः च, परस्य झि-प्रत्ययस्य स्थाने जुस्‌-आदेशो भवति | सिच्‌ च अभ्यस्तश्च विदिश्च तेषामितरेतरद्वन्द्वः सिजभ्यस्तविदयः, तेभ्यः सिजभ्यस्तविदिभ्यः | सिजभ्यस्तविदिभ्यः पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | नित्यं ङितः (३.४.९९) इत्यस्मात्‌ ङितः इत्यस्य अनुवृत्तिः | झेर्जुस्‌ (३.४.१०८) इत्यस्मात्‌ झेः जुस्‌ इत्यनयोः अनुवृत्तिः | लस्य (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— सिजभ्यस्तविदिभ्यः च ङितः लस्य झेः जुस्‌ |


परन्तु 'निनि' अभ्यस्तम्‌ अस्ति चेत्‌, ‘निनि' च झि-प्रत्ययः चेत्यनयोः मध्ये जकारः वर्तते, तदर्थं जुस्‌-आदेशः न भविष्यति |


३) शतृ-प्रत्यये परे अभ्यस्तसंज्ञक-अङ्गात् विहितस्य शतृ-प्रत्ययस्य नुमागमः निषिद्धः भवति नाभ्यस्ताच्छतुः (७.१.७८) इत्यनेन |


नाभ्यस्ताच्छतुः (७.१.७८) = अभ्यस्तादङ्गादुत्तरस्य शतुः नुम् न भवति | ददत्, ददतौ, ददतः | जाग्रत्, जाग्रतौ, जाग्रतः |


परन्तु 'निनि' अभ्यस्तम्‌ अस्ति चेत्‌, ‘निनि' च अत्‌-प्रत्ययः चेत्यनयोः मध्ये जकारः वर्तते, तदर्थं नुम्‌-आगमनिषेधः न भविष्यति |


अतः भाष्यकारः वदति यत्‌ आहत्य श्लौ, लिटि, चङि च यत्र एकाच्‌-धातुः अस्ति, तत्र सदा सम्पूर्णधातोः द्वित्वं करणीयम्‌ | एषु स्थलेषु (श्लौ, लिटि, चङि) यत्र औपदेशिकधातुः अनेकाच्‌ अस्ति, तत्र तैः उक्तं यथा उपरि प्रदर्शितम्‌ | नाम हलादिधातुः अस्ति चेत्‌, प्रथमस्य एकाच्‌-भागस्य द्वित्वम्‌ अपि च अजादिधातुः अस्ति चेत्‌ द्वितीयस्य एकाच्‌-भागस्य द्वित्वं करणीयम्‌ | तत्र प्रथमः एकाच्‌-भागः समाप्यते वामतः प्रथमे अच्‌-वर्णे | यथा जागृ → जा जा गृ | ऊर्णु → ऊर्णु नु |


अधुना यङि सनि च धातुः सदा अनेकाच्‌ | स च धातुः औपदेशिकः न अपि तु आतिदेशिकः | एषु स्थलेषु भाष्यकारैः साक्षात्‌ नोक्तं कथं करणीयम्‌ | अतः सिद्धान्ततः चिन्तनं करणीयम्‌ |


अत्र द्वित्वप्रक्रियायां द्वौ सिद्धान्तौ प्रासङ्गिकौ | सिद्धान्तद्वयमपि महाभाष्ये प्रतिपादितं; इमौ द्वौ सामान्यव्याकरणशास्त्रसिद्धान्तौ न तु विशेषतः द्वित्वार्थं दत्तौ । परन्तु द्वावपि द्वित्वप्रक्रियायां प्रासङ्गिकौ, नाम द्वित्वविषये प्रयोज्यौ भवितुम्‌ अर्हतः ।


एकः अस्ति—'अज्झीनं व्यञ्जनं परेण संयोज्यम्' इति महाभाष्यवचनम्‌ | यथा 'ग्रामाद्‌ आगच्छति' | अत्र दकारः अच्‌-हीनः हल्‌-वर्णः अतः तस्मात्‌ परः यः आकारः तद्युक्तः भवेत्‌, उच्चारणदृष्ट्या च लेखनदृष्ट्या च | ग्रामादागच्छति इति | तदर्थम्‌ अनेकवारं श्लोकानां लेखनावसरे, पङ्क्त्यन्ते शब्दस्य अन्तिमवर्णः हल्वर्णः चेत्‌,स च हल्वर्णः लिख्यते अग्रिमपङ्क्तेः आदौ, प्रथमशब्दस्य आदिमवर्णेन सह, सन्धिं वा सम्मेलनं कृत्वा |  


यथा—

य एकोऽवर्णो बहुधा शक्तियोगा-

द्वर्णाननेकान्निहितार्थो दधाति |

वि चैति चान्ते विश्वमादौ स देवः

स नो बुद्ध्या शुभया संयुनक्तु || श्वेताश्वतरोपनिषद्‌ ४.१


उपरितने श्लोके पश्यामः यत्‌ यद्यपि 'योगाद्‌' इति एकं पदम्‌ अस्ति तथापि यतोहि अन्तिमदकारः अच्‌-हीनः, अतः स च दकारः अग्रिमे पङ्क्तौ स्थापितः अग्रिमपदस्थवकारेण सह मेलनं कृत्वा |


इमं सिद्धान्तम्‌ अनुसृत्य पठ्‌ + य इति अवसरे 'प प ठ्य' इति रीत्या द्वित्वं भवति | अभ्यासः 'प', अभ्यस्तं 'प प' | अट्‌ + य इति स्थले 'अ ट्य ट्य' इति रीत्या द्वित्वम्‌ | अभ्यासः 'ट्य', अभ्यस्तं 'ट्य ट्य' |


द्वितीयः सिद्धान्तः एवम्‌ अस्ति—भाष्यकारः प्रतिपादयति यत्‌ उपदिष्टरूपैः मनसि बुद्धिः जायते | प्रक्रियायां क्रमेण अग्रे गमनेन यदा कदाचित्‌ परिचितरूपं प्रविष्टं भवति—धातुः वा भवतु, प्रत्ययो वा भवतु, आदेशो वा भवतु, तदा नूतनबुद्धिः मनसि उत्पन्ना भवति | तस्य बुद्धेः महत्त्वम्‌ अस्ति; यावच्छक्यं बुद्धिम्‌ अनुसृत्य प्रक्रिया साधनीया | यथा पठ्‌ + य इति स्थले पठ्‌ इति बुद्धिः अस्ति; स च 'पठ‌'-धातुः अर्थवान्‌ | अतः यावत्‌ शक्यं तस्य विभागः न करणीयः | बुद्धिसिद्धान्तम्‌ अनुसृत्य पठ्‌ य → 'पठ्‌ पठ्‌ य' इति द्वित्वं कार्यं न तु 'प प ठ्य्' | किमर्थम्‌ इति चेत्‌, ‘प' इति भागः बुद्धिः नास्ति, अर्थवान्‌ नास्ति | अत्र प्रश्नः उदेति यत्‌ तथा अस्ति चेत्‌ बुद्धिम्‌ अनुसृत्य अट्‌ य → 'अट्‌ य य' इति रीत्या द्वित्वं करणीयं न तु 'अ ट्य ट्य' | तर्हि किमर्थम्‌ 'अट्‌ य य' इति रीत्या द्वित्वं न करणीयम्‌ ? यतोहि तथा क्रियते चेत्, इष्टं रूपं न सिध्यति | अतः बुद्धिम्‌ अनुसृत्य कुर्मः चेत्‌ कुत्रचित्‌ नियमस्य पालनं कर्तुं शक्नुमः कुत्रचित्‌ कर्तुं न शक्नुमः | तथापि विष्णुकान्थः पाण्डेयः नाम्ना जयपुर-विश्वविद्यालयस्य व्याकरणविभागे अध्यापकः वक्ति यत्‌ अनेन नियमेन द्वित्वं करणीयम्‌ |


केचन वैयाकरणाः वदन्ति यत्‌ 'अज्झीनं व्यञ्जनं परेण संयोज्यम्' इति महाभाष्यवचनम्‌ अनुसृत्य द्वित्वं करणीयम्‌ | केचन वदन्ति यत्‌ बुद्धिम्‌ अनुसृत्य द्वित्वं करणीयम्‌ | माता जि वदति यत्‌ 'अज्झीनं व्यञ्जनं परेण संयोज्यम्' इति अनुसारं कुर्मश्चेत्‌ लाभद्वयम्‌ अस्ति—(१) अनेकाच्‌ धातूनां कृते प्रक्रिया सर्वत्र समाना हलादिधातुः चेदपि, अजादिधातुः चेदपि; (२) लाघवम्‌ | ‘प प ठ्य' इति रीत्या द्वित्वं क्रियते चेत्‌, हलादिः शेषः (७.४.६०) इत्यस्य आवश्यकता न भवति |  


अभ्यासकार्यम्‌—


द्वित्वस्य अनन्तरं कानिचन कार्याणि भवन्ति अभ्यासे, तानि च 'अभ्यासकार्यम्‌' इत्युच्यते | यथा अभ्यासस्य ह्रस्वत्वम्‌, अल्पप्राणत्वं च भवति | अभ्यासकार्यस्य पुनः विभजनं भवति— सामान्याभ्यासकार्यं, विशेषाभ्यासकार्यं चेति |


सामान्याभ्यासकार्यं भवति यत्र यत्र द्वित्वं भवति— लिटि, सनि, यङि, श्लौ, चङि च | विशेषाभ्यासकार्यं भवति द्वित्व-सम्बद्ध-प्रत्ययम्‌ अधिकृत्य; यथा लिटि विशेषाभ्यासकार्यं, पुनः श्लौ पृथक्तया, पुनः सनि, यङि, चङि च | अत्र सामान्याभ्यासकार्याणि प्रदर्श्यन्ते | ततः अग्रे यथास्थानं यङ्-विशिष्टानि अभ्यासकार्यणि प्रदर्श्यन्ते |


अत्र सन्ति प्रमुख-सामान्याभ्यासकार्याणि


हलादिः शेषः (७.४.६०)

शर्पूर्वाः खयः (७.४.६१)

ह्रस्वः (७.४.५९)

उरत् (७.४.६६)

कुहोश्चुः (७.४.६२)

अभ्यासे चर्च (८.४.५४)


हलादिः शेषः (७.४.६०) = अभ्यासस्य आदिमः* हल्‌ शेषः, अभ्यासे अपरेषां हलां लोपः | हल्‌ प्रथमान्तम्‌, आदिः प्रथमान्तं, शेषः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात्‌ अभ्यासस्य इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— (अङ्गस्य) अभ्यासस्य हलादिः शेषः‌ |


पठ्‌ → सन्यङोः (६.१.९) इत्यनेन यङन्तस्य धातोः प्रथमस्यैकाचो द्वे स्तः → पठ्‌ पठ्‌ → प्रथमः पठ्‌ इति भागः अभ्याससंज्ञकः → हलादिः शेषः (७.४.६०) इत्यनेन अभ्यासस्य आदिमः हल्‌ शेषः, अभ्यासे अपरेषां हलां लोपः → प पठ्‌ | तथैव ज्ञा → ज ज्ञा |

एवमेव विचारणीयम्‌— धन्‌, निज्‌, विष्‌, खाद्‌, धिष्‌, विज्‌, तुर्‌, भस्‌ |


*आदिमः इत्युक्तौ 'आदौ यः', न तु 'प्रथमः' | अतः अजादिधातोः द्वित्वं क्रियते चेत्‌, आदौ अच्‌-वर्णः न तु हल्‌-वर्णः इति कारणतः हलादिः शेषः (७.४.६०) इत्यनेन अभ्यासे सर्वेषां हल्‌-वर्णानां लोपो भवति | अट्‌ → अट्‌ अट्‌ → अ अट्‌ |


शर्पूर्वाः खयः (७.४.६१) = यस्य अभ्यासस्य पूर्वं शर्‌ परञ्च खय्‌, तस्य तु खय्‌ एव शेषो भवति, अन्ये हलः च लुप्यन्ते | हलादिः शेषः (७.४.६०) इत्यस्य अपवादः अतः तस्य बाधकसूत्रम्‌ | शर्‌ पूर्वो येषां ते शर्पूर्वाः | शर्पूर्वाः प्रथमान्तं, खयः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | हलादिः शेषः (७.४.६०) इत्यस्मात्‌ वचनपरिणामं कृत्वा शेषाः इत्यस्य अनुवृत्तिः | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात्‌ अभ्यासस्य इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— (अङ्गस्य) अभ्यासस्य शर्पूर्वाः खयः शेषाः |


स्पर्ध्‌ → स्पर्ध्‌ स्पर्ध्‌ → प स्पर्ध्‌


एवमेव विचारणीयम्‌— स्पन्द्‌, स्पूर्ज्‌, स्तम्भ्‌, स्तुभ्‌, स्खल्‌, स्पश्‌, स्तिघ्‌, स्फुर् |


ह्रस्वः (७.४.५९) = अभ्यासस्य अच्‌-वर्णः ह्रस्वः स्यात्‌ | अचश्च (१.२.२८) इति परिभाषा-सूत्रेण यत्र कुत्रापि सूत्रेषु 'ह्रस्व', 'दीर्घ', 'प्लुत' इत्येते शब्दाः आयान्ति, तत्र 'अचः' इति शब्दः सूत्रार्थेऽपि आयाति | अतः 'ह्रस्वः' इत्युक्तौ 'ह्रस्वः अच्‌-वर्णः'; तथा सर्वत्र | ह्रस्वः प्रथमान्तम्‌, एकपदमिदं सूत्रम्‌ | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात्‌ अभ्यासस्य इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अङ्गस्य अभ्यासस्य अचः ह्रस्वः |

खा खाद्‌ → ख खाद्‌

नी नी → नि नी

लू लू → लु लू

से सेव्‌ → सि सेव्‌

गो गोष्ट्‌ → गु गोष्ट्‌

ढौ ढौक्‌ → ढु ढौक्‌


उरत् (७.४.६६) = प्रत्यये परे अभ्यासस्य ऋवर्णस्य स्थाने अत्‌-आदेशः भवति | उः षष्ठ्यन्तम्‌, अत्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात्‌ अभ्यासस्य इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अङ्गस्य अभ्यासस्य उः अत्‌ |


वृष्‌ → वृष्‌ वृष्‌ → वृ वृष्‌ → वर्‌ वृष्‌ → व वृष्‌

कृष्‌ → कृष्‌ कृष्‌ → कृ कृष्‌ → कर्‌ कृष्‌ → क कृष्‌ → च कृष्‌

हृष्‌ → हृष्‌ हृष्‌ → हृ हृष्‌ → हर्‌ हृष्‌ → ह हृष्‌ → ज हृष्‌


ऋकारान्तधातवः—

भृ → भृ भृ → भर्‌ भृ → भ भृ → ब भृ

हृ → हृ हृ → हर्‌ हृ → ह हृ → ज हृ

कृ → कृ कृ → स्तिघ्‌, स्फुर् → क कृ → च कृ

तॄ → तॄ तॄ → तर्‌ तॄ → त तॄ


कुहोश्चुः (७.४.६२) = अभ्यासे कवर्गीयस्य हकारस्य च स्थाने चवर्गीयादेशो भवति | तत्र स्थानेऽन्तरतमः (१.१.५०) इति परिभाषा-सूत्रेण, उच्चारणस्थानसाम्यवशात्‌ हकारस्य स्थाने झकारः, तदा अभ्यासे चर्च (८.४.५४) इत्यनेन झ-स्थाने जकारः | कुश्च ह्‌ च तयोरितरेतरद्वन्द्वः कुहौ, तयोः कुहोः | कुहोः षष्ठ्यन्तं, चुः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात्‌ अभ्यासस्य इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अङ्गस्य अभ्यासस्य कुहोः चुः |

स्थानेऽन्तरतमः (१.१.५०) = प्रसङ्गम्‌ अवलम्ब्य तुल्यतमः आदेशो भवति | स्थाने सप्तम्यन्तम्‌, अन्तरतमः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ |

कृ → कृ कृ → कर्‌ कृ → क कृ → च कृ

खन्‌ → खन्‌ खन्‌ → ख खन्‌ → छ खन्‌ → च खन्‌

गम्‌ → गम्‌ गम्‌ → ग गम्‌ → ज गम्‌

ग्रह्‌ → ग्रह्‌ ग्रह्‌ → ग ग्रह्‌ → ज ग्रह्‌

घृ → घृ घृ → घर्‌ घृ → झ घृ → ज घृ

हृ → हृ हृ → हर्‌ हृ → ह हृ → ज हृ

हस्‌ → हस्‌ हस्‌ → ह हस्‌ → झ हस्‌ → ज हस्‌


अभ्यासे चर्च (८.४.५४)* = अभ्यासे झल्‌-स्थाने जश्‌ चर् च आदेशौ भवतः | तत्र स्थानेऽन्तरतमः (१.१.५०) इति परिभाषा-सूत्रेण, उच्चारणस्थानसाम्यवशात्‌ झश्‌-स्थाने जश्‌ अपि च खय्‌-स्थाने चर् | अनुवृत्त्यर्थम्‌ अष्टमाध्याये | अभ्यासे सप्तम्यन्तं, चर् प्रथमान्तं, च अव्ययपदं, त्रिपदमिदं सूत्रम्‌ | झलां जश्‌ झशि (८.४.५३) इत्यस्मात्‌ झलां, जश् इत्यनयोः अनुवृत्तिः | तयोर्यवावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌‍ संहितायाम्‌ इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌—अभ्यासे झलां जश्‌ च‍र् च संहितायाम्‌ |


चर्त्वम्‌

थु थुड्‌ → तु थुड्‌

फ फल्‌ → प फल्‌

छु छुप्‌ → चु छुप्‌


जश्त्वम्‌

भु भू → बु भू

ढु ढौक्‌ → डु ढौक्‌

झ झर्झ्‌ → ज झर्झ्‌


धेयं यत्‌ अभ्यासे वर्गस्थप्रथमसदस्यः, तृतीयसदस्यः, पञ्चमसदस्यः, यण्‌-प्रत्याहारस्थः चेति वर्णानां विकारो न भवति | अतः एषां नाम 'अनादेश-अभ्यासः' इति उच्यन्ते |

चल्‌ → च चल्‌

जप्‌ → ज जप्‌

टीक्‌ → टि टीक्‌

डी → डि डी

तॄ → त तॄ

दल्‌ → द दल्‌

नम्‌ → न नम्‌

पत्‌ → प पत्‌

बाध्‌ → ब बाध्‌

मील्‌ → मि मील्‌

यम्‌ → य यम्‌

वृध्‌ → व वृध्‌


इति यङि सामान्यम्‌ अभ्यासकार्यं समाप्तम्‌ | विशिष्टाभ्यासकार्यं यथास्थानम्‌ अग्रे पदर्श्यते |


इतः आरभ्यते विशिष्ट-यङन्तप्रक्रिया | हलादिधातूनां यङन्तरूपं भवति; तेषां च वर्गीकरणम्‌ एतादृशं करणीयम्‌—

आकारान्ताः एजन्ताः च धातवः

इकारान्ताः ईकारान्तः च धातवः

उकारान्तः ऊकारान्ताः च धातवः

ऋकारान्ताः धातवः

ॠकारान्ताः धातवः

सामान्यहलन्तधातवः

अदुपधाः धातवः

इदुपधाः धातवः

उदुपधाः धातवः

ऋदुपधाः धातवः

सम्प्रसारणिनः धातवः

अनिदितः धातवः


*प्रश्नः उदेति यत्‌ अभ्यासे चर्च (८.४.५४) तु अङ्गस्य (६.४.१) इत्यस्य अधिकारे नास्ति; तर्हि अङ्गकार्यम्‌ अस्ति किम्‌ ? अभ्यासस्य निमित्तं प्रत्ययः; प्रत्यये परे एव द्वित्वं भवति | अतः कस्यापि अभ्यासकार्यस्य निमित्तं तु प्रत्ययः अवश्यम्‌ | तथा सति अङ्गकार्यमेव |


अधुना अभ्यासे चर्च (८.४.५४) अष्टमाध्यायस्य चतुर्थे पादे स्थापितम्‌ अतः अङ्गकार्यं न स्यात्‌ इति भासेत | अष्टमाध्यायस्य चतुर्थे पादे वर्णनिमित्तकार्यं जायमानं किन्तु अभ्यासे चर्च (८.४.५४) तु वर्णनिमित्तकं नास्ति | साधारणतया अष्टमाध्यायस्य चतुर्थे पादे किमपि सूत्रं स्थापितं चेत् तस्य तत्र स्थापनस्य विशिष्टकारणम्‌ अस्ति असिद्धत्वम्‌; असिद्धत्वम्‌ अपेक्षते, तदर्थं तत्र स्थापितम्‌ | किन्तु अभ्यासे चर्च (८.४.५४) असिद्धमपि न भवति कदाचित्‌ | त्रिपाद्यां पूर्वसूत्रं प्रति परसूत्रम्‌ असिद्धम्‌ | किन्तु अभ्यासे चर्च (८.४.५४) इत्यस्य सम्बन्धः एव नास्ति अपरत्रिपादिसूत्रैः सह अतः तानि सूत्राणि प्रति असिद्धत्वस्य अवसर एव नास्ति | वस्तुतस्तु अभ्यासे चर्च (८.४.५४) केवलम्‌ अनुवृत्तिवशात्‌ उक्तस्थाने अस्ति | झलां जश्झशि (८.४.५३) इत्यस्मात्‌ जश्‌ इति अनुवर्तते प्रकृतसूत्रे | अपि च अभ्यासे चर्च (८.४.५४) इति सूत्रात्‌ चर्‌ इत्यस्य अनुवृत्तिः भवति खरि च (८.४.५५) इति सूत्रे | अत्र फलितार्थः अस्ति यत्‌ अभ्यासे चर्च (८.४.५४) अङ्गकार्यमेव यद्यपि अङ्गस्य (६.४.१) इत्यस्य अधिकारे नास्ति |


लिट्यभ्यासस्योभयेषाम्‌ (६.१.१७) इति सूत्रं षष्ठ्याध्याये स्थपितम्‌ अस्ति सम्प्रसारणम्‌ इत्यस्य अनुवृत्ति-कृते | वच्यादीनां ग्रह्यादीनां चाभ्यासस्य सम्प्रसारणं लिटि इति सूत्रार्थः | किन्तु वस्तुतस्तु इदम्‌ अभ्यासकार्यमेव, अतः कार्यदृष्ट्या सप्तमाध्यायस्य चतुर्थपादे अभविष्यत्‌ |


अभ्यासस्यासवर्णे (६.४.७८) इति सूत्रं षष्ठ्याध्याये स्थपितम्‌ अस्ति इयङ्‌-उवङ्‌ इत्यनयोः अनुवृत्ति-कृते | अभ्यासस्य इवर्णोवर्णयोरियङुवङौ स्तोऽसवर्णेऽचि इति सूत्रार्थः | किन्तु वस्तुतस्तु इदम्‌ अभ्यासकार्यमेव, अतः कार्यदृष्ट्या सप्तमाध्यायस्य चतुर्थपादे अभविष्यत्‌ |


इमानि त्रीणि सूत्राणि—अभ्यासे चर्च (८.४.५४), लिट्यभ्यासस्योभयेषाम्‌ (६.१.१७), अभ्यासस्यासवर्णे (६.४.७८)—अभ्यासकार्याणि अतः सप्तमाध्यायस्य चतुर्थे पादे भवन्ति स्म परन्तु अनुवृत्त्यर्थम्‌ अन्यत्र स्थापितानि | यत्‌ किमपि सूत्रं स्वस्य प्रकरणात्‌ बहिः स्थाप्यते, तस्य कारणम्‌ अनुवृत्तिः हि | अनुवृत्तिवशात्‌, लाघवार्थं स्थानान्तरे भवति |


यङ्‌-प्रत्ययस्य स्वभावः


यङ्‌-प्रत्ययः धातुभ्यः विधीयते, तिङ्‌-शित्‌-भिन्नः च इति कृत्वा आर्धधातुकं शेषः (३.४.११४) इत्यनेन आर्धधातुकसंज्ञकः |


आर्धधातुकं शेषः (३.४.११४) = धातोः विहितः तिङ्‌-शित्‌-भिन्नः प्रत्ययः आर्धधातुकसंज्ञको भवति | आर्धधातुकं प्रथमान्तं, शेषः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | प्रत्ययः (३.१.१), परश्च (३.१.२), धातो: (३.१.९१) इत्येषाम्‌ अधिकारः | धातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌ (३.१.२२) इत्यस्मात्‌ धातोः इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— धातोः परश्च शेषः प्रत्ययः आर्धधातुकम्‌ |


यङ्‌-प्रत्ययः न केवलम्‌ आर्धधातुकसंज्ञकः अपि तु ङित्‌ अपि, अतः यङि परे यावत्‌ कार्यं ङित्‌-आर्धधातुकसंज्ञक-प्रत्यये परे भवति, तत्‌ सर्वं यङ्‌-प्रक्रियायां भवति |


आकारान्तानाम्‌ एजन्तानां च धातूनां यङन्तधातु-सिद्धिः

१) सामान्याः आकारान्ताः एजन्ताः च धातवः


द्वित्वाभ्यासकार्यानन्तरं दीर्घोऽकितः (७.४.८३) इत्यनेन अकित्‌-अभ्यासस्य दीर्घादेशो भवति यङि परे |


ला + यङ्‌ → अकृत्सार्वधातुकयोर्दीर्घः (७.४.२५) इत्यनेन अजन्ताङ्गस्य दीर्घादेशो भवति यकारादिप्रत्यये परे → ला + यङ्‌ → ला ला य → ल ला य → दीर्घोऽकितः (७.४.८३) इत्यनेन अकित्‌-अभ्यासस्य दीर्घादेशः → ला ला य → लालाय इति धातुः → लालाय + ते → कर्तरि शप्‌ (३.१.६८) इत्यनेन धातुतः शप्‌-प्रत्ययः भवति, कर्त्रर्थक-सार्वधातुकप्रत्यये परे → लालाय + शप्‌ + ते → लालाय + अ + ते → अतो गुणे (६.१.९७) इत्यनेन पूर्वपरयोः स्थाने एकः पररूपमेकादेशः → लालाय + ते → लालायते


अकृत्सार्वधातुकयोर्दीर्घः (७.४.२५) = अजन्ताङ्गस्य दीर्घादेशो भवति यकारादिप्रत्यये परे, किन्तु स च प्रत्ययः कृत्‌-संज्ञकः अथवा सार्वधातुकं चेत्‌ न भवति | अचश्च (१.२.२८) इत्यनेन अचः एव दीर्घत्वम्‌ | येन विधिस्तदन्तस्य (१.१.७२), अलोऽन्त्यस्य (१.१.५२) | कृत्‌ च सार्वधातुकञ्च कृत्सार्वधातुके, न कृत्सार्वधातुके अकृत्सार्वधातुके, तयोः अकृत्सार्वधातुकयोः | अकृत्सार्वधातुकयोः सप्तम्यन्तं, दीर्घः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | अयङ्‌ यि क्ङिति (७.४.२२) इत्यस्मात्‌ यि इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अचः अङ्गस्य दीर्घः यि अकृत्सार्वधातुकयोः |


यथा कर्मणिप्रयोगे यकि परे—

जि + यक्‌ ‌→ अकृत्सार्वधातुकयोर्दीर्घः (७.४.२५) इत्यनेन अजन्ताङ्गस्य दीर्घादेशो भवति यकारादिप्रत्यये परे → जीयते

स्तु +यक्‌ ‌→ अकृत्सार्वधातुकयोर्दीर्घः (७.४.२५) इत्यनेन अजन्ताङ्गस्य दीर्घादेशो भवति यकारादिप्रत्यये परे → स्तूयते


अयं यकारादिप्रत्ययः कृत्‌ अस्ति चेत्‌, दीर्घो न भवति— प्र + कृ + ल्यप्‌ → प्रकृत्य; प्र + हृ + ल्यप्‌ → प्रहृत्य | स च यकारादिप्रत्ययः सार्वधातुकम् अस्ति चेत्‌, दीर्घो न भवति— विधिलिङि चि + नु + यात्‌ → चिनुयात्‌; सु + नु + यात्‌ → सुनुयात्‌ |


*काशिकाकारः प्रतिपादयति यत्‌ अकृत्सार्वधातुकयोर्दीर्घः (७.४.२५) इत्यस्य कार्यं भवति केवलं यकारादौ किति ङिति प्रत्यये परे | यकारादिप्रत्ययः किन्तु कित्ङित्‌ नास्ति चेत्‌, दीर्घादेशो न भवति | तत्र दृष्टान्तो दीयते उरुया, घृष्णुया, वेदे रूपाणि यानि निष्पद्यन्ते एकवचनस्य तृतीयाविभक्तौ टा-स्थाने या-आदेशः भवति सुपां सुलुक्पूर्वसवर्णाऽऽच्छेयाडाड्यायाजालः (७.१.३९) इति सूत्रेण | अयं या-आदेशः कित्ङित्‌ नास्ति | प्रायः अयङ्‌ यि क्ङिति (७.४.२२) इत्यस्मात्‌ न केवलं यि अपि तु क्ङिति इत्यस्यापि अनुवृत्तिं स्वीकुर्यात्‌ |  


दीर्घोऽकितः (७.४.८३) = अकित्‌-अभ्यासस्य दीर्घादेशो भवति यङि यङ्लुकि च | न कित् यस्य स अकित्‌, तस्य | 'अकित्‌-अभ्यासः' इत्युक्ते तादृशः अभ्यासः यस्य कित्‌ आगमो न भवति | दीर्घः प्रथमान्तम्‌, अकितः षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात्‌ अभ्यासस्य इत्यस्य अनुवृत्तिः | गुणो यङ्लुकोः (७.४.८२) इत्यस्मात्‌ यङ्लुकोः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अङ्गस्य अकितः अभ्यासस्य दीर्घः यङ्लुकोः |


अतो गुणे (६.१.९७) = अपदान्तात्‌ अतः गुणे परे पूर्वपरयोः स्थाने एकः पररूपमेकादेशः स्यात्‌ | गुणः इत्युक्तौ अ, ए, ओ | इदं सूत्रं वृद्धिरेचि (६.१.८८), अकः सवर्णे दीर्घः (६.१.१०१) इत्यनयोः अपवादसूत्रम्‌ | अतः पञ्चम्यन्तं, गुणे सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | उस्यपदान्तात्‌ (६.१.९६) इत्यस्मात्‌ अपदान्तात्‌ अपि च एङि पररूपम्‌ (६.१.९४) इत्यस्मात्‌ पररूपम्‌ इत्यनयोः अनुवृत्तिः | एकः पूर्वपरयोः (६.१.८४), संहितायाम्‌ (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अपदान्तात्‌ अतः गुणे पूर्वपरयोः एकः पररूपं संहितायाम्‌ |


एजन्तधातूनाम्‌ आत्वं भवति आदेच उपदेशेऽशिति (६.१.४५) इति सूत्रेण—


आदेच उपदेशेऽशिति (६.१.४५) = उपदेशे एजन्तस्य धातोरात्त्वं न तु शिति | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तदन्तविधिः; अलोन्त्यस्य (१.१.५२) इत्यनेन अन्त्यस्य अलः स्थाने | एच्‌ इत्यनेन 'ए, ऐ, ओ, औ' | श्‌ इत्‌ यस्य स शित्‌, न शित्‌ अशित्‌, तस्मिन्‌ (विषये) अशिति, नञ्तत्पुरुषः | आत्‌ प्रथमान्तम्‌, एचः षष्ठ्यन्तम्‌, उपदेशे सप्तम्यन्तम्‌, अशिति सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | लिटि धातोरनभ्यासस्य (६.१.८) इत्यस्मात्‌ धातोः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— एचः धातोः आत्‌ उपदेशे अशिति |


अतः एजन्तधातवः आकारान्ताः इति मत्वा, मिलित्वा चिन्तनं क्रियते |


यथा ला-धातोः लालायते, एवमेव—

वा + यङ्‌ → वा + य → वा वा य → वावायते

भा + यङ्‌ → भा + य → भा भा य → बाभायते

ध्यै + यङ्‌ → ध्या + य → ध्या ध्या य →

ग्लै + यङ्‌ → ग्ला + य → ग्ला ग्ला य →

छो + यङ्‌ → छा + य → छा छा य → *

म्लै + यङ्‌ → म्ला + य → म्ला म्ला य →


*अत्र दीर्घात्‌ (६.१.७४) इति सूत्रेण तुगागमः |


दीर्घात्‌ (६.१.७४) = दीर्घात् तुक् स्यात्‌ छे परे संहितायां विषये | दीर्घस्वरस्य छकारे परे संहितायाम् तुगागमो भवति | छे च (६.१.७३) इत्यस्मात्‌ छे इत्यस्य अनुवृत्तिः | ह्रस्वस्य पिति कृति तुक् (६.१.७१) इत्यस्मात्‌ तुक् इत्यस्य अनुवृत्तिः | संहितायाम् (६.१.७१) इत्यस्य अधिकार: | अनुवृत्ति-सहितसूत्रम्‌— दीर्घात्‌ तुक् छे संहितायाम्‌ |


अत्र प्रश्नः उदेति यत्‌ अयं तुक्‌ कस्य आगमः ? दीर्घात्‌ (६.१.७४) इत्यनेन दीर्घात् तुक् स्यात्‌ छे परे | अस्मिन्‌ सूत्रे तस्मादित्युत्तरस्य (१.१.६७) इत्यस्य बलेन तुगागमः अग्रे स्थितस्य छकारस्य आगमः स्यात्‌; तस्मिन्निति निर्दिष्टे पूर्वस्य (१.१.६६) इत्यस्य बलेन तुगागमः पूर्वं स्थितस्य दीर्घस्वरस्य आगमः | सूचनाद्वयमपि परस्परविरुद्धम्‌ | अस्यां दशायाम्‌ उभयनिर्देशे पञ्चमीनिर्देशः बलीयान् इति परिभाषया, द्वयोः निर्देशयोर्मध्ये पञ्चमीनिर्देशः बलीयान् | इत्युक्तौ छकारस्य एव आगमः न तु दीर्घस्वरस्य | फलितार्थः एवं यत्‌ सप्तम्यन्तं पदं स्थानिनं निदर्शयति | अनेन दीर्घात्‌ (६.१.७४) इत्यस्य व्याख्याने 'छे' सप्तम्यन्तम्‌, अतः छकारस्य एव तुगागमः भवेत्‌ | किन्तु अनेन इष्टरूपं न सिध्यति; अनिष्टरूपस्य निवारणार्थं कौमुदीकारो वदति यत्‌ विभाषा सेनासुराच्छायाशालानिशानाम् (२.४.२५) इति ज्ञापकम्‌ अस्ति | अस्मिन्‌ सूत्रे तत्पुरुषसमासस्य अन्ते सेना, सुरा, छाया, शाला, निशा इत्येषु अन्यतमं पदम्‌ अस्ति चेत्‌,स च समासः विकल्पेन नपुंसकलिङ्गे भवति | सूत्रस्य अर्थः अत्र असम्बद्धः; सूत्रस्य रूपं द्रष्टव्यम्‌ | अस्मिन्‌ सूत्रे द्वन्द्वसमासः अस्ति सेना-सुरा-छाया-शाला-निशा इत्येषाम्‌; अस्मिन्‌ समासे सुरा + छाया → सुराच्छाया इति रूपं पाणिनिना दत्तम्‌ | अत्र च दीर्घात्‌ (६.१.७४) इति सूत्रस्य प्रसङ्गः | उभयनिर्देशे पञ्चमीनिर्देशः बलीयान् इति परिभाषया अत्र तुक्‌-आगमः छकारस्य भवति स्म; तुक्‌ कित्‌ अतः आद्यन्तौ टकितौ (१.१.४६) इत्यनेन छकारस्य अन्ते भवेत्‌ | किन्तु सुराच्छाया इति रूपे तुक्‌-आगमः आकारस्य अनन्तरं न तु छकारस्य | अतः पाणिनिना दत्तम्‌ इदं रूपं ज्ञापकं भवति‌ यत्‌ दीर्घात्‌ (६.१.७४) इति सूत्रेण यः तुक्‌-आगमः विधीयते, सः तु दीर्घस्य एव भवेत्‌ न तु छकारस्य | इति कृत्वा अयं तुगागमः उभयनिर्देशे पञ्चमीनिर्देशः बलीयान् इति परिभाषाम्‌ अनुसृत्य न भवति | छो + यङ्‌ → छा + य → छा छा य इति स्थितौ तुगागमः आकारस्य एव न तु छकारस्य |


२) घुमास्थादयः धातवः


किन्तु आकारान्तेषु एजन्तेषु च धातुषु, द्वादश सन्ति येषाम्‌ ईकारादेशो भवति |


घुमास्थागापाजहातिसां हलि (६.४.६६) = घु, मा, स्था, गा, पा, हा (ओहाक्‌), सा (षो) एषां धातूनाम्‌ आकारस्य स्थाने ईकारादेशो भवति हलादि-कि‌त्‌ङित्‌-आर्धधातुकप्रत्यये परे | धात्वादेः षः सः (६.१.६४), आदेच उपदेशेऽशिति (६.१.४५) इत्याभ्यां षो → सा | घुश्च, माश्च, स्थाश्च, गाश्च, पाश्च, जहातिश्च, साश्च तेषामितरेतरद्वन्द्वः, घुमास्थागापाजहातिसाः, तेषां घुमास्थागापाजहातिसाम्‌ | घुमास्थागापाजहातिसां षष्ठ्यन्तं, हलि सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | दीङो युडचि क्ङिति (६.४.६३) इत्यस्मात्‌ क्ङिति इत्यस्य अनुवृत्तिः | आतो लोप इटि च (६.४.६४) इत्यस्मात्‌ आतः इत्यस्य अनुवृत्तिः | ईद्यति (६.४.६५) इत्यस्मात्‌ ईत्‌ इत्यस्य अनुवृत्तिः | आर्धधातुके (६.४.४६) इत्यस्य अधिकारः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— घुमास्थागापाजहातिसाम्‌ आतः अङ्गस्य ईत्‌ हलि क्ङिति आर्धधातुके |


दाधाघ्वदाप्‌ (१.१.२०) इत्यनेन घु-संज्ञकधातवः षट्‌ सन्ति— दो → दा, देङ्‌ → दा, डुदाञ्‌ → दा, दाण्‌ → दा, धे‌ → धा, डुधाञ्‌ → धा च | (दाण्‌, डुधाञ्‌ = to give; दो = to cut, divide; देङ्‌ = to protect; डुधाञ्‌ = to hold, bring up; धेट्‌ = to suck, drink |)


यङ्‌-प्रत्ययः हलादिः, ङित्‌, आर्धधातुकः अतः घुमास्थागापाजहातिसां हलि (६.४.६६) इति सूत्रं प्रवर्तते | आहत्य द्वादश धातवः अन्तर्भवन्ति येषाम्‌ अनेन सूत्रेण आकारस्य ईत्वम्‌ अङ्गकार्यं सत्‌ प्रथमतया भवति, तदा एव सन्यङोः (६.१.९) इत्येनन द्वित्वम्‌—


दा + यङ् → घुमास्थागापाजहातिसां हलि (६.४.६६) इत्यनेन आकारस्य ईत्वम्‌ → दी + य → अकृत्सार्वधातुकयोर्दीर्घः (७.४.२५) इत्यनेन अजन्ताङ्गस्य ईकारस्य पुनः दीर्घादेशः → दी + य → सन्यङोः (६.१.९) → दी दी + य → ह्रस्वः (७.४.५९) इत्यनेन अभ्यासस्य अच्‌-वर्णः ह्रस्वः → दि दी + य → गुणो यङ्लुकोः (७.४.८२) इत्यनेन अभ्यासस्य यङि गुणः → दे दी + य → देदीयते


अकृत्सार्वधातुकयोर्दीर्घः (७.४.२५) = अजन्ताङ्गस्य दीर्घादेशो भवति यकारादिप्रत्यये परे, किन्तु स च प्रत्ययः कृत्‌-संज्ञकः अथवा सार्वधातुकं चेत्‌ न भवति | अचश्च (१.२.२८) इत्यनेन अचः एव दीर्घत्वम्‌ | येन विधिस्तदन्तस्य (१.१.७२), अलोऽन्त्यस्य (१.१.५२) | कृत्‌ च सार्वधातुकञ्च कृत्सार्वधातुके, न कृत्सार्वधातुके अकृत्सार्वधातुके, तयोः अकृत्सार्वधातुकयोः | अकृत्सार्वधातुकयोः सप्तम्यन्तं, दीर्घः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | अयङ्‌ यि क्ङिति (७.४.२२) इत्यस्मात्‌ यि इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अचः अङ्गस्य दीर्घः यि अकृत्सार्वधातुकयोः |


अचश्च (१.२.२८) = यत्र यत्र ह्रस्वः, दीर्घः, प्लुतः च विधीयन्ते, तत्र तत्र अचः इति षष्ठ्यन्तं पदम्‌ आगत्य उपस्थितं भवति | परिभाषा-सूत्रम्‌ | अचः षष्ठ्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | ऊकालोऽज्झ्रस्वदीर्घप्लुतः (१.२.२७) इत्यस्मात्‌ अच्‌, ह्रस्वदीर्घप्लुतः इत्यनयोः अनुवृत्तिः | तत्र विभक्तिपरिणामेन तृतीयान्तं भवति, ह्रस्वदीर्घप्लुतैः (शब्दैः) | अनुवृत्ति-सहितसूत्रम्‌— ह्रस्वदीर्घप्लुतैः अचः च अच्‌ |


गुणो यङ्लुकोः (७.४.८२) = अभ्यासस्य गुणो भवति यङि यङ्लुकि च | यङ्‌ च लुक्‌ च यङ्लुकौ इतरेतरद्वन्द्वः, तयोः यङ्लुकोः | गुणः प्रथमान्तं, यङ्लुकोः सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात्‌ अभ्यासस्य इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अङ्गस्य अभ्यासस्य गुणः यङ्लुकोः |


एवमेव—

धा + यङ्‌ → धी + य → धी धी + य → देधीय (द्वौ धातू) → देधीयते

मा + यङ्‌ → मी + य →

ष्ठा → धात्वादेः षः सः (६.१.६३) → स्था* + यङ्‌ → स्थी + य →

गा + यङ्‌ → गी + य →

पा + यङ्‌ → पी + य →

हा + यङ्‌ → ही + य →

षो (अन्तकर्मणि, दिवादौ) → धात्वादेः षः सः (६.१.६३) → आदेच उपदेशेऽशिति (६.१.४५) → सा* + यङ्‌ → सी + य → धेयं यत्‌ अत्र सकारः आदिष्टः इत्यस्मात्‌ आदेशप्रत्यययोः (८.३.५९) इत्यस्य प्रसक्तिरस्ति |

*धेयं यत्‌ अत्र सकारः आदिष्टः इत्यस्मात्‌ आदेशप्रत्यययोः (८.३.५९) इत्यस्य प्रसक्तिरस्ति |


३) घ्रा, ध्मा इति द्वौ धातू


घ्रा, ध्मा इति द्वयोः धात्वोः आकारस्य ईकारादेशो भवति यङि परे |


घ्रा + यङ्‌ → घ्री + यङ्‌ → घ्री घ्री + यङ्‌ → जेघ्रीय → जेघ्रीयते

ध्मा + यङ्‌ → ध्मी + यङ्‌ →


ई घ्राध्मोः (७.४.३१) = घ्रा, ध्मा इति धात्वोः अन्त्य-आकारस्य स्थाने ईकारादेशो भवति यङि परे | अलोऽन्त्यस्य (१.१.५२) इत्यनेन धातुरूप्यङ्गस्य अन्तिमवर्णस्य स्थाने ईकारादेशः, न तु पूर्णतया अङ्गस्य | घ्राश्च ध्माश्च घ्राध्मौ , तयोः घ्राध्मोः | ई लुप्तप्रथमाकं पदं, घ्राध्मोः षष्ठीद्विवचनान्तं, द्विपदमिदं सूत्रम्‌ | यङि च (७.४.३०) इत्यस्मात्‌ यङि इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— घ्राध्मोः अङ्गयोः ई यङि |


४) ज्या-धातुः


ज्या-धातोः सम्प्रसारणं भवति किति ङिति प्रत्यये परे |


ज्या + यङ्‌ → ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च (६.१.१६) इत्यनेन सम्प्रसारणम्‌ → ज्‌ इ आ + य → सम्प्रसारणाच्च (६.१.१०८) इत्यनेन सम्प्रसारण-संज्ञक-वर्णात्‌ परः अच्‌ अस्ति चेत्‌, पूर्वपरयोः एकः पूर्वरूपादेशः → जि + य → हलः (६.४.२) इत्यनेन अङ्गावयवात्‌ हलः यदुत्तरं संप्रसारणं तदन्तस्याङ्गस्य दीर्घादेशः → जी + य → द्वित्वाभ्यासकार्यम्‌ → जी जी + य → गुणो यङ्लुकोः (७.४.८२) इत्यनेन अभ्यासस्य गुणो भवति यङि → जेजीय इति यङन्तधातुः → जेजीयते


ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च (६.१.१६) = ग्रह्‌, ज्या, वय्‌, व्यध्‌, वश्‌, व्यच्‌, व्रश्च्‌, प्रच्छ्‌, भ्रस्ज्‌, एषां सम्प्रसारणं भवति किति ङिति प्रत्यये परे | इतरेतरद्वन्द्वः, षष्ठीविभक्तौ | ग्रहि-ज्या-वयि-व्यधि-वष्टि-विचति-वृश्चति-पृच्छति-भृज्जतीनां षष्ठ्यन्तं, ङिति सप्तम्यन्तं, च अव्ययं, त्रिपदमिदं सूत्रम्‌ | वचिस्वपियजादीनां किति (६.१.१५) इत्यस्मात्‌ किति इत्यस्य अनुवृत्तिः; ष्यङः सम्प्रसारणम्‌ पुत्रपत्योस्तत्पुरुषे (६.१.१३) इत्यस्मात्‌ सम्प्रसारणम्‌ इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति किति च सम्प्रसारणम्‌ |


हलः (६.४.२) = अङ्गावयवात्‌ हलः यदुत्तरं संप्रसारणं तदन्तस्याङ्गस्य दीर्घो भवति | यः हल्‌-वर्णः अङ्गस्य अवयवः, तस्मात्‌ परे स्थितं यत्‌ अङ्गान्तं सम्प्रसारणं, तस्य दीर्घत्वं भवति | हलः पञ्चम्यन्तम्‌ एकपदमिदं सूत्रम्‌ | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तादृशम्‌ अङ्गं यस्य अन्ते सम्प्रसारणसंज्ञकवर्णः अस्ति; अचश्च (१.२.२८), अलोऽन्त्यस्य (१.१.५२) इत्याभ्यां तस्य अङ्गस्य अन्तिमवर्णस्य अचः दीर्घादेशः | सम्प्रसारणस्य (६.३.१३९) इत्यस्मात्‌ सम्प्रसारणस्य इत्यस्य अनुवृत्तिः | ढ्रलोपे पूर्वस्य दीर्घोऽणः (६.३.१११) इत्यस्मात्‌ दीर्घः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— हलः सम्प्रसारणस्य अङ्गस्य दीर्घः |


५) व्ये-धातुः


व्ये-धातोः सम्प्रसारणं भवति यङि परे |


व्ये + यङ्‌ → आदेच उपदेशेऽशिति (६.१.४५) इत्यनेन एचः आत्वम्‌ → व्या + य → स्वपिस्यमिव्येञां यङि (६.१.१९) इत्यनेन सम्प्रसारणम्‌ → व्‌ इ आ + य → न सम्प्रसारणे सम्प्रसारणम्‌ (६.१.३७) इत्यनेन सम्प्रसारणे परे पूर्वं स्थितस्य सम्प्रसारणं न भवति → व्‌ इ आ + य → सम्प्रसारणाच्च (६.१.१०८) इत्यनेन सम्प्रसारण-संज्ञक-वर्णात्‌ परः अच्‌ अस्ति चेत्‌, पूर्वपरयोः एकः पूर्वरूपादेशः → वि + य → हलः (६.४.२) इत्यनेन अङ्गावयवात्‌ हलः यदुत्तरं संप्रसारणं तदन्तस्याङ्गस्य दीर्घादेशः → वी + य → द्वित्वाभ्यासकार्यम्‌ → वी वी + य → गुणो यङ्लुकोः (७.४.८२) इत्यनेन अभ्यासस्य गुणो भवति यङि → वेवीय इति यङन्तधातुः → वेवीयते


स्वपिस्यमिव्येञां यङि (६.१.१९) = स्वप्‌, स्यम्‌, व्येञ्‌ इत्येषां धातूनां सम्प्रसारणं भवति यङि परे | स्वपिश्च स्यमिश्च व्येञ्‌ च इत्येषामितरेतरद्वन्द्वः स्वपिस्यमिव्येञः, तेषां स्वपिस्यमिव्येञाम्‌ | स्वपिस्यमिव्येञां षष्ठ्यन्तं, यङि सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | ष्यङः सम्प्रसारणम्‌ पुत्रपत्योस्तत्पुरुषे (६.१.१३) इत्यस्मात्‌ सम्प्रसारणम्‌ इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— स्वपिस्यमिव्येञां सम्प्रसारणम्‌ यङि |


स्वप्‌, व्येञ्‌ च वचिस्वपियजादीनां किति (६.१.१५) इत्यनेन यङि परे सम्प्रसारणं न भवति स्म अतः पृथक्तया विशिष्टसूत्रम्‌ अपेक्षितम्‌ आसीत्‌ |


६) ह्वेञ्‌-धातुः


ह्वेञ्‌-धातोः द्वित्वात्‌ प्राक्‌ तस्य सम्प्रसारणं भवति |


अभ्यस्तस्य च (६.१.३३) = अभ्यस्तीभविष्यतो ह्वेञः सम्प्रसारणं स्यात्‌ | ह्वेञ्‌-धातोः यदा द्वित्वं भविष्यति तस्मात्‌ साक्षात्‌ प्रागेव तस्य सम्प्रसारणं भवति | अभ्यस्तस्य षष्ठ्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | ह्वः सम्प्रसारणम्‌ (६.१.३२) इत्यस्य सम्पूर्णतया अनुवृत्तिः | ह्वः इति ह्वा-धब्दस्य षष्ठ्यन्तं रूपम्‌; आदेच उपदेशेऽशिति (६.१.४५) इत्यनेन ह्वे इत्यस्मात्‌ ह्वा | अनुवृत्ति-सहितसूत्रम्‌— अभ्यस्तस्य ह्वः सम्प्रसारणं च |


ह्वे + यङ्‌ → अभ्यस्तस्य च (६.१.३३) इत्यनेन सम्प्रसारणम्‌ → हु + य → तदा एव द्वित्वम्‌



एवमेव—

ह्वे + लिट्‌ → हु + लिट्‌

ह्वे + सन्‌ → हु + सन्‌


सिद्धान्तकौमुद्याम्‌ 'अभ्यस्तीभविष्यतो ह्वेञः सम्प्रसारणं स्यात्‌' इति वृत्तिः | तत्‌ कथम्‌ इति प्रश्नः | 'ह्वः' इति षष्ठ्यन्तम्‌, 'अभ्यस्तस्य' इत्यपि षष्ठ्यन्तम्‌; अत्र द्वयोः सामानाधिकरण्यं वा, वैयधिकरण्यं वा ? अत्र काशिकावृत्तावस्ति, "'ह्वः' इति वर्तते, तद्‌ 'अभ्यस्तस्य' इत्यनेन व्यधिकरणम्—अभ्यस्तस्य यो ह्वयतिः | कश्चाभ्यस्तस्य ह्वयतिः ? कारणम्‌ | तेनाभ्यस्तकारणस्य ह्वयतेः प्रागेव द्विर्वचनात्सम्प्रसारणं भवति" | अत्र प्रश्नः जातः यत्‌ ह्वः अभ्यस्तस्य इति पदद्वर्योर्मध्ये विशेषणविशेष्यभावो वर्तते किम् ? विशेषणविशेष्यभाव इत्युक्ते सामानाधिकरण्यम्‌ | सामानाधिकरण्यं वर्तते चेत्‌, तर्हि द्विर्वचने कृतेऽभ्यस्तसंज्ञायामुपजातायां सम्प्रसारणं स्यात्‌ | एवञ्च न सम्प्रसारणे सम्प्रसारणम्‌ (६.१.३७) इत्यनेन अभ्यासस्य सम्प्रसारणं न स्यात्‌ | अतः सूत्रार्थः कः ? 'अभ्यस्तस्य यः ह्वेञ्‌-धातुः', न तु 'ह्वः अभ्यस्तस्य' इति | अभ्यस्तस्य कः ह्वेञ्‌-धातुः ? 'कारणम्‌' इत्याह | अनेन अभ्यस्तस्य कारणीभूतस्य ह्वेञ्‌-धातोः द्विर्वचनात्‌ प्रागेव सम्प्रसारणं भवति | इदमुत्तरं महाभाष्यम्‌ अनुसृत्यैव काशिकावृत्तिर्दत्ता | नाम 'अभ्यस्तस्य कः ह्वेञ्‌-धातुः ?' इति प्रश्ने सति, भाष्ये 'प्रकृतिः' इत्युक्तम्‌— 'ह्वोभ्यस्तस्य प्रकृतिरिति' | भाष्यकारो वदति यत्‌ अभ्यस्तसंज्ञायाः यः प्रकृतीभूतः ह्वेञ्‌-धातुः, तस्य सम्प्रसारणं भवति | इत्थञ्च यत्र अभ्यस्तसंज्ञा सम्भवति, तत्र द्वित्वात्‌ प्रागेव सम्प्रसारणं क्रियते |


न सम्प्रसारणे सम्प्रसारणम्‌ (६.१.३७) = सम्प्रसारणे परे पूर्वं स्थितस्य सम्प्रसारणं न भवति | न अव्ययपदं, सम्प्रसारणे सप्तम्यन्तं, सम्प्रसारणं प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं सम्पूर्णं— न सम्प्रसारणे सम्प्रसारणम्‌ |


प्रश्नः उदेति यत्‌ ह्वे-धातोः एजन्तत्वात्‌ तस्य आदेच उपदेशेऽशिति (६.१.४५) इत्यनेन आत्त्वं भवति किम्‌ ? अवश्यं भवति— पर्जन्यवत्‌ भवति; तस्य फलं नास्ति इति कारणतः न प्रदर्श्यते | किन्तु भवति; आत्त्वस्य अनैमित्तकत्वात्‌ सम्प्रसारणात्‌ प्रागेव |


ह्वे → धातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌ (३.१.२२) → ह्वे + यङ्‌ → आदेच उपदेशेऽशिति (६.१.४५) इत्यनेन एचः आत्वम्‌ → ह्वा + य → अभ्यस्तस्य च (६.१.३३) इत्यनेन सम्प्रसारणम्‌ → ह्‌ उ आ + य → सम्प्रसारणाच्च (६.१.१०८) → हु + य → हलः (६.४.२) इत्यनेन अङ्गावयवात्‌ हलः यदुत्तरं संप्रसारणं तदन्तस्याङ्गस्य दीर्घादेशः → हू + य → अकृत्सार्वधातुकयोर्दीर्घः (७.४.२५) इत्यनेन अजन्ताङ्गस्य दीर्घादेशो भवति यकारादिप्रत्यये परे → हू + य → द्वित्वाभ्यासकार्यम्‌ → जुहू + य → गुणो यङ्लुकोः (७.४.८२) इत्यनेन अभ्यासस्य गुणो भवति यङि → जोहूय इति यङन्तधातुः → जोहूयते


इकारान्तानाम्‌ ईकारान्तानां च धातूनां यङन्तधातु-सिद्धिः


१) सामान्यधातवः


यङ्‌-प्रत्ययस्य ङित्त्वात्‌ गुणनिषेधः |


सार्वधातुकार्धधातुकयोः (७.३.८४) = इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | सार्वधातुकञ्च आर्धधातुकञ्च तयोरितरेतरद्वन्द्वः सार्वधातुकार्धधातुके, तयोः सार्वधातुकार्धधातुकयोः | सार्वधातुकार्धधातुकयोः सप्तम्यन्तम्‌, एकपदमिदं सूत्रम्‌ | मिदेर्गुणः (७.३.८२) इत्यस्मात्‌ गुणः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | इको गुणवृद्धी (१.१.३) इत्यनेन परिभाषा-सूत्रेण, इकः स्थानी भवति यत्र स्थानी नोक्तम्‌ | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन 'इकः अङ्गस्य' इत्युक्ते न केवलम्‌ इक्‌ इति अङ्गं, किन्तु तादृशम्‌ अङ्गं यस्य अन्ते इक्‌; अलोऽन्त्यस्य (१.१.५२) इत्यनेन अङ्गस्य स्थाने गुणादेशः इति न, अपि तु अङ्गस्य अन्तिमवर्णस्य स्थाने गुणादेशः | अनुवृत्ति-सहितसूत्रम्‌— इकः अङ्गस्य गुणः सार्वधातुकार्धधातुकयोः |


क्क्ङिति च (१.१.५) = यः प्रत्ययः गित्‌, कित्‌ अथवा ङित्‌ अस्ति, अपि च तस्मा‌त्‌ प्रत्ययात्‌ पूर्वं तस्य एव प्रत्ययस्य कारणतः इकः स्थाने गुणः वा वृद्धिः वा भवति स्म, सः (गुणः वृद्धिः) न भवति | ग्‌ च क्‌ च ङ्‌ च तेषाम्‌ इतरेतरद्वन्द्वः क्क्ङः; क्क्ङः इतः यस्य सः क्क्ङित्‌, तस्मिन्‌ परे क्क्ङिति | द्वन्द्वगर्भबहुव्रीहिसमासः | अत्र ग्‌-स्थाने ककारः खरि च इत्यनेन चर्त्वसन्धिः | क्क्ङिति सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | इको गुणवृद्धी (१.१.३) इत्यस्य पूर्णतया अनुवृत्तिः; न धातुलोप आर्धधातुके (१.१.४) इत्यस्मात्‌ इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— क्क्ङिति च इकः गुणवृद्धी न |


यङ्‌-प्रत्ययः यकारादिः, कृत्सार्वधातुकयोः भिन्नश्च, अतः इकारान्तधातूनां दीर्घादेशो भवति | अकृत्सार्वधातुकयोर्दीर्घः (७.४.२५) इत्यनेन अजन्ताङ्गस्य दीर्घादेशो भवति कृद्भिन्न-सार्वधातुकभिन्न-यकारादिप्रत्यये परे | तदा विशिष्टाभ्यासकार्ये गुणो यङ्लुकोः (७.४.८२) इत्यनेन अभ्यासस्य गुणः यङि परे |


जि → धातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌ (३.१.२२) → जि + यङ्‌ → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन गुणादेशः → क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधः → जि + य → अकृत्सार्वधातुकयोर्दीर्घः (७.४.२५) इत्यनेन अजन्ताङ्गस्य दीर्घादेशः → जी + य → द्वित्वसामान्याभ्यासकार्यम्‌ → जि जी + य → गुणो यङ्लुकोः (७.४.८२) इत्यनेन अभ्यासस्य गुणः यङि → जेजीय इति यङन्तधातुः → जेजीय + ते → अतो गुणे (६.१.९७) इत्यनेन पूर्वपरयोः स्थाने पररूपमेकादेशः → जेजीयते


एवमेव—

चि + यङ्‌ →

कि + यङ्‌ →


ईकारान्ताधातुः चेदपि पर्जन्यवत्‌ दीर्घादेशो भवति—


नी + यङ्‌ → अकृत्सार्वधातुकयोर्दीर्घः (७.४.२५) इत्यनेन अजन्ताङ्गस्य दीर्घादेशः → नी + य → द्वित्वसामान्याभ्यासकार्यम्‌ → नि नी + य → गुणो यङ्लुकोः (७.४.८२) इत्यनेन अभ्यासस्य गुणः यङि → नेनीय इति यङन्तधातुः → नेनीय + ते → नेनीयते


एवमेव—

क्री + यङ्‌ →


अकृत्सार्वधातुकयोर्दीर्घः (७.४.२५) = अजन्ताङ्गस्य दीर्घादेशो भवति कृद्भिन्न-सार्वधातुकभिन्न-यकारादिप्रत्यये परे | स च प्रत्ययः कृत्‌-संज्ञकः अथवा सार्वधातुकं चेत्‌ दीर्घादेशो न भवति | अचश्च (१.२.२८) इत्यनेन अचः एव दीर्घत्वम्‌ | येन विधिस्तदन्तस्य (१.१.७२), अलोऽन्त्यस्य (१.१.५२) | कृत्‌ च सार्वधातुकञ्च कृत्सार्वधातुके, न कृत्सार्वधातुके अकृत्सार्वधातुके, तयोः अकृत्सार्वधातुकयोः | अकृत्सार्वधातुकयोः सप्तम्यन्तं, दीर्घः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | अयङ्‌ यि क्ङिति (७.४.२२) इत्यस्मात्‌ यि इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अचः अङ्गस्य दीर्घः यि अकृत्सार्वधातुकयोः |


गुणो यङ्लुकोः (७.४.८२) = अभ्यासस्य गुणो भवति यङि यङ्लुकि च | यङ्‌ च लुक्‌ च यङ्लुकौ इतरेतरद्वन्द्वः, तयोः यङ्लुकोः | गुणः प्रथमान्तं, यङ्लुकोः सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात्‌ अभ्यासस्य इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अङ्गस्य अभ्यासस्य गुणः यङ्लुकोः |


२) शीङ्‌-धातुः


अयङ्‌ यि क्ङिति (७.४.२२) इत्यनेन शीङ्‌-धातोः अय्‌-आदेशो भवति यकारादि-कित्‌ङित्‌-प्रत्यये परे | तदा द्वित्वसामान्याभ्यासानन्तरं दीर्घोऽकितः (७.४.८३) इत्यनेन अकित्‌-अभ्यासस्य दीर्घादेशो भवति यङि परे |


शी + यङ्‌ → शय्‌ + य → द्वित्वसामान्याभ्यासकार्यम्‌ → श श +य्य → दीर्घोऽकितः (७.४.८३) इत्यनेन अकित्‌-अभ्यासस्य दीर्घादेशः → शाश + य्य → शाशय्य इति यङन्तधातुः → शाशय्य + ते → अतो गुणे (६.१.९७) इत्यनेन पूर्वपरयोः स्थाने एकः पररूपमेकादेशः → शाशय्यते


दीर्घोऽकितः (७.४.८३) = अकित्‌-अभ्यासस्य दीर्घादेशो भवति यङि यङ्लुकि च | न कित् यस्य स अकित्‌, तस्य | 'अकित्‌-अभ्यासः' इत्युक्ते तादृशः अभ्यासः यस्य कित्‌ आगमो न भवति | दीर्घः प्रथमान्तम्‌, अकितः षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात्‌ अभ्यासस्य इत्यस्य अनुवृत्तिः | गुणो यङ्लुकोः (७.४.८२) इत्यस्मात्‌ यङ्लुकोः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अङ्गस्य अकितः अभ्यासस्य दीर्घः यङ्लुकोः |


अयङ्‌ यि क्ङिति (७.४.२२) = शीङ्‌-धातोः अय्‌-आदेशो भवति यकारादि-कित्‌ङित्‌-प्रत्यये परे | अयङ्‌ इत्यस्मिन्‌ ङकारस्य इत्‌-संज्ञा, यकारोत्तरवर्ती अकारश्च उच्चरणार्थः | क्‌ च ङ्‌ च क्ङौ, तौ इतौ यस्य सः क्ङित्‌ द्वन्द्वगर्भो बहुव्रीहिः, तस्मिन्‌ क्ङिति | अयङ्‌ प्रथमान्तं, यि सप्तम्यन्तं, क्ङिति सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | शीङः सार्वधातुके गुणः (७.४.२१) इत्यस्मात्‌ शीङः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— शीङः अङ्गस्य अयङ्‌ यि क्ङिति |


ङिच्च (१.१.५३) = ङित्‌-आदेशः अनेकाल्‌ चेदपि अन्त्यस्य एव स्थाने भवति | इदं सूत्रम्‌ अनेकाल्शित्‌ सर्वस्य (१.१.५५) इति सूत्रस्य अपवादः; अनेकाल्शित्‌ सर्वस्य (१.१.५५) तु अलोऽन्त्यस्य (१.१.५२) इत्यस्य अपवादः | ङकारः इत यस्य सः ङित्‌, बहुव्रीहिः | ङित्‌ प्रथमान्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | अलोऽन्त्यस्य (१.१.५२) इत्यस्मात्‌ अलः, अन्त्यस्य इत्यनयोः अनुवृत्तिः | स्थानेऽन्तरतमः (१.१.५०) इत्यस्मात्‌ स्थाने इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— ङिच्‌ च अन्त्यस्य अलः स्थाने |


अनेकाल्शित्‌ सर्वस्य (१.१.५५) = आदेशः अनेकाल्‌ (आदेशे एक एव वर्णः न अपि तु अनेके वर्णाः) अथवा शित्‌ चेत्‌, सर्वस्थानिनः स्थाने भवति (न तु अन्त्यवर्णस्य) | (यस्य स्थाने आदेशः आदिष्टः, सः स्थानी |) इदं सूत्रम्‌ अलोऽन्त्यस्य (१.१.५२) इत्यस्य अपवादः | न एकः अनेकः नञ्तत्पुरुषः; अनेकः अल्‌ यस्य सः अनेकाल्‌ बहुब्रीहिः; शकारः इत्‌ यस्य सः शित्‌ बहुब्रीहिः; अनेकाल्‌ च शित्‌ च अनेकाल्शित्‌ समाहारद्वन्द्वः | अनेकाल्‌ प्रथमान्तं, शित्‌ प्रथमान्तं, सर्वस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | स्थानेऽन्तरतमः (१.१.५०) इत्यस्मात्‌ स्थाने इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— अनेकाल्शित्‌ सर्वस्य स्थाने |


३) श्वि-धातुः


विभाषा श्वेः (६.१.३०) इत्यनेन श्वि-धातोः विकल्पेन सम्प्रसारणं यङि परे |


सम्प्रसारणपक्षे—

श्वि + यङ्‌ → विभाषा श्वेः (६.१.३०) इत्यनेन सम्प्रसारणम्‌ → शु + य → हलः (६.४.२) इत्यनेन अङ्गावयवात्‌ हलः यदुत्तरं संप्रसारणं तदन्तस्याङ्गस्य दीर्घादेशः→ शू + य → अकृत्सार्वधातुकयोर्दीर्घः (७.४.२५) इत्यनेन अजन्ताङ्गस्य दीर्घादेशः कृद्भिन्न-सार्वधातुकभिन्न-यकारादिप्रत्यये परे → शू + य → द्वित्वसामान्याभ्यासकार्यम्‌ → शुशू + य → गुणो यङ्लुकोः (७.४.८२) इत्यनेन अभ्यासस्य गुणः यङि → शोशूय इति यङन्तधातुः → शोशूय + ते → शोशूयते


सम्प्रसारणविपक्षे—

श्वि + यङ्‌ → अकृत्सार्वधातुकयोर्दीर्घः (७.४.२५) इत्यनेन अजन्ताङ्गस्य दीर्घादेशः → श्वी + य → द्वित्वसामान्याभ्यासकार्यम्‌ → शिश्वी + य → गुणो यङ्लुकोः (७.४.८२) → शेश्वी + य → शेश्वीय इति इति यङन्तधातुः → शेश्वीयते


विभाषा श्वेः (६.१.३०) = श्वि-धातोः विकल्पेन सम्प्रसारणं भवति लिटि यङि च | श्वयतेः सम्प्रसारणं वा स्याल्लिटि यङि च | विभाषा प्रथमान्तं, श्वेः षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | ष्यङः सम्प्रसारणम्‌ (६.१.१३) इत्यस्मात्‌ सम्प्रसारणम्‌ इत्यस्य अनुवृत्तिः | लिङ्यङोश्च (६.१.२९) इत्यस्मात्‌ लिङ्यङोः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— श्वेः विभाषा सम्प्रसारणम्‌ लिङ्यङोः |


गुणो यङ्लुकोः (७.४.८२) = अभ्यासस्य गुणो भवति यङि यङ्लुकि च | यङ्‌ च लुक्‌ च यङ्लुकौ इतरेतरद्वन्द्वः, तयोः यङ्लुकोः | गुणः प्रथमान्तं, यङ्लुकोः सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात्‌ अभ्यासस्य इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अङ्गस्य अभ्यासस्य गुणः यङ्लुकोः |


उकारान्तानाम्‌ ऊकारान्तानां च धातूनां यङन्तधातु-सिद्धिः


१) सामान्यधातवः


यङ्‌-प्रत्ययस्य ङित्त्वात्‌ गुणनिषेधः |


सार्वधातुकार्धधातुकयोः (७.३.८४) = इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | अनुवृत्ति-सहितसूत्रम्‌— इकः अङ्गस्य गुणः सार्वधातुकार्धधातुकयोः |


क्क्ङिति च (१.१.५) = यः प्रत्ययः गित्‌, कित्‌ अथवा ङित्‌ अस्ति, अपि च तस्मा‌त्‌ प्रत्ययात्‌ पूर्वं तस्य एव प्रत्ययस्य कारणतः इकः स्थाने गुणः वा वृद्धिः वा भवति स्म, सः (गुणः वृद्धिः) न भवति | अनुवृत्ति-सहितसूत्रम्‌— क्क्ङिति च इकः गुणवृद्धी न |


यङ्‌-प्रत्ययः यकारादिः, कृत्सार्वधातुकयोः भिन्नश्च, अतः उकारान्तधातूनां दीर्घादेशो भवति | अकृत्सार्वधातुकयोर्दीर्घः (७.४.२५) इत्यनेन अजन्ताङ्गस्य दीर्घादेशो भवति कृद्भिन्न-सार्वधातुकभिन्न-यकारादिप्रत्यये परे | तदा विशिष्टाभ्यासकार्ये गुणो यङ्लुकोः (७.४.८२) इत्यनेन अभ्यासस्य गुणः यङि परे |


हु → धातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌ (३.१.२२) → हु + यङ्‌ → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन गुणादेशः → क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधः → हु + य → अकृत्सार्वधातुकयोर्दीर्घः (७.४.२५) इत्यनेन अजन्ताङ्गस्य दीर्घादेशः → हू + य → द्वित्वसामान्याभ्यासकार्यम्‌ → जुहू + य → गुणो यङ्लुकोः (७.४.८२) इत्यनेन अभ्यासस्य गुणः यङि → जोहूय इति यङन्तधातुः → जोहूय + ते → अतो गुणे (६.१.९७) इत्यनेन पूर्वपरयोः स्थाने पररूपमेकादेशः → जोहूयते


ऊकारान्ताधातुः चेदपि पर्जन्यवत्‌ दीर्घादेशो भवति—


भू + यङ्‌ → अकृत्सार्वधातुकयोर्दीर्घः (७.४.२५) इत्यनेन अजन्ताङ्गस्य दीर्घादेशः → भू + य → द्वित्वसामान्याभ्यासकार्यम्‌ → बुभू + य → गुणो यङ्लुकोः (७.४.८२) इत्यनेन अभ्यासस्य गुणः यङि → बोभूय इति यङन्तधातुः → बोभूय + ते → बोभूयते


२) कुङ्‌-धातुः शब्दे


धातुपाठे त्रयः कु-धातवः सन्ति— भ्वादौ, अदादौ, तुदादौ च | अदादौ, तुदादौ च यः कु-धातुः अस्ति, उभयत्र यङि परे साधारणरीत्या सामान्याभ्यासकार्यम्‌ अनुसृत्य कुहोश्चुः (७.४.६२) इत्यनेन अभ्यासे कवर्गीयस्य स्थाने चवर्गीयादेशो भवति | कु + यङ्‌ → चुकू | परन्तु भ्वादौ कु शब्दे इति धातोः चुत्वं न भवति |


कु → कु + यङ्‌ → अकृत्सार्वधातुकयोर्दीर्घः (७.४.२५) → कू + य → कू कू य → कुहोश्चुः (७.४.६२) इत्यनेन अभ्यासे कवर्गीयस्य स्थाने चुत्वादेशः → न कवतेर्यङि (७.४.६३) इत्यनेन चुत्वनिषेधः → कुकू + य → गुणो यङ्लुकोः (७.४.८२) → कोकूयते


न कवतेर्यङि (७.४.६३) = कु-धातोः अभ्यासस्य ककारस्य चुत्वादेशो न भवति यङि परे | नाव्ययं, कवतेः षष्ठ्यन्तं, यङि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात्‌ अभ्यासस्य इत्यस्य अनुवृत्तिः | कुहोश्चुः (७.४.६२) इत्यस्मात्‌ चुः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— कवतेः अङ्गस्य अभ्यासस्य चुः न यङि |


कुहोश्चुः (७.४.६२) = अभ्यासे कवर्गीयस्य हकारस्य च स्थाने चवर्गीयादेशो भवति | तत्र स्थानेऽन्तरतमः (१.१.५०) इति परिभाषा-सूत्रेण, उच्चारणस्थानसाम्यवशात्‌ हकारस्य स्थाने झकारः, तदा अभ्यासे चर्च (८.४.५४) इत्यनेन झ-स्थाने जकारः | कुश्च ह्‌ च तयोरितरेतरद्वन्द्वः कुहौ, तयोः कुहोः | कुहोः षष्ठ्यन्तं, चुः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात्‌ अभ्यासस्य इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अङ्गस्य अभ्यासस्य कुहोः चुः |


३) ब्रू-धातुः


आर्धधातुकविषये ब्रू-धातोः स्थाने वच्‌-आदेशो भवति—


ब्रू + यङ्‌ → ब्रुवो वचिः (२.४.५३) इत्यनेन ब्रुवो वचिरादेशो भवति आर्धधातुकविषये → वच्‌ + य → व व + च्य → दीर्घोऽकितः (७.४.८३) इत्यनेन अकित्‌-अभ्यासस्य दीर्घादेशो भवति यङि → वावच्यते


ब्रुवो वचिः (२.४.५३) = ब्रुवो वचिरादेशो भवति आर्धधातुकविषये | इकार उच्चारणार्थः | ब्रुवः षष्ठ्येकवचनं, वचिः प्रथमैकवचनं, द्विपदमिदं सूत्रम्‌ | आर्धधातुके (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— ब्रुवः वचिः आर्धधातुके |


दीर्घोऽकितः (७.४.८३) = अकित्‌-अभ्यासस्य दीर्घादेशो भवति यङि यङ्लुकि च | न कित् यस्य स अकित्‌, तस्य | 'अकित्‌-अभ्यासः' इत्युक्ते तादृशः अभ्यासः यस्य कित्‌ आगमो न भवति | दीर्घः प्रथमान्तम्‌, अकितः षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात्‌ अभ्यासस्य इत्यस्य अनुवृत्तिः | गुणो यङ्लुकोः (७.४.८२) इत्यस्मात्‌ यङ्लुकोः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अङ्गस्य अकितः अभ्यासस्य दीर्घः यङ्लुकोः |


ऋकारान्तानां धातूनां यङन्तधातु-सिद्धिः


ऋकारान्त-धातूनां विभजनं त्रिषु विभागेषु यङि परे |


१) असंयोगपूर्वऋकारान्तधातवः


रीङृतः (७.४.२७) इत्यनेन ऋदन्ताङ्गस्य रीङ्‌-आदेशो भवति कृद्भिन्न-सार्वधातुकभिन्न-यकारे परे | इति सामान्य-अङ्गकार्यम्‌ |


कृ + यङ्‌ → रीङृतः (७.४.२७) इत्यनेन ऋदन्ताङ्गस्य रीङ्‌-आदेशः कृद्भिन्न-सार्वधातुकभिन्न-यकारे परे → क्री + य → क्री + क्री + य → सामान्याभ्यासकार्यं → चिक्रीय → विशिष्टम्‌ अभ्यासकार्यं गुणो यङ्लुकोः (७.४.८२) → चेक्रीय → चेक्रीयते


रीङृतः (७.४.२७) =ऋदन्ताङ्गस्य रीङ्‌-आदेशो भवति यकारादि-कृद्भिन्न-सार्वधातुकभिन्न-प्रत्यये परे, च्वि-प्रत्यये परे च | रीङ्‌-आदेशो अनेकल्‌, किन्तु ङिच्च (१.१.५३) इत्यनेन आदेशः ङित्‌ चेत्‌, अनेकाल्‌ चेदपि अङ्गस्य अन्त्यस्य एव स्थाने आदेशः | रीङ्‌ प्रथमान्तं, ऋतः षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | अकृत्सार्वधातुकयोर्दीर्घः (७.४.२५) इत्यस्मात्‌ अकृत्सार्वधातुकयोः इत्यस्य अनुवृत्तिः | अयङ्‌ यि क्ङिति (७.४.२२) इत्यस्मात्‌ यि इत्यस्य अनुवृत्तिः | च्वौ च (७.४.२६) इत्यस्मात्‌ च्वौ इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— ऋतः अङ्गस्य रीङ् य्योः अकृत्सार्वधातुकयोः च्वौ |


नेतृ + च्वि + भवति → च्वि इति तद्धित-प्रत्ययस्य इकारः उच्चारणार्थः, चकारस्य इत्संज्ञालोपश्च , वकारस्य वेरपृक्तस्य (६.१.६७) इत्यनेन लोपः → रीङृतः (७.४.२७) → नेत्रीभवति


अनेकाल्‌ शित्सर्वस्य (१.१.५५) इति सूत्रं वक्ति यत्‌ आदेशः अनेकाल्‌ अस्ति चेत्‌ (आदेशे एक एव वर्णः न अपि तु अनेके वर्णाः), तर्हि सर्वस्य, नाम सर्वाङ्गस्य स्थाने आदेशः आयाति | रीङ्‌ इत्यस्मिन्‌ आदेशे ङकारस्य इत्‌-संज्ञा भवति अतः री अवशिष्यते | री इत्यस्मिन्‌ एक एव वर्णः न अपि तु तस्मात्‌ अधिकाः वर्णाः (“र्‌”, “ई” इति), अतः अनेकाल्‌ अस्ति | इदं सूत्रम्‌ अलोऽन्त्यस्य (१.१.५२) इत्यस्य अपवादः | तर्हि अत्र पूर्णस्य "कृ" इत्यस्य स्थाने री इति इदं सूत्रं वक्ति | परन्तु ङिच्च (१.१.५३), अनेकाल्‌ शित्सर्वस्य इत्यस्य अपवादभूतसूत्रम्‌ | ङिच्च इति सूत्रेण आदेशः ङित्‌ चेत्‌, तर्हि अनेकाल्‌ चेदपि अङ्गस्य अन्त्यस्य एव स्थाने आदेशः इति | अतः कृ धातौ ऋकारस्थाने री आदेशः |


ङिच्च (१.१.५३) = आदेशः ङित्‌ चेत्‌, तर्हि अनेकाल्‌ चेदपि अङ्गस्य अन्त्यस्य एव स्थाने आदेशः | इदं सूत्रम्‌ अनेकाल्‌ शित्सर्वस्य (१.१.५५) इत्यस्य अपवादः; अनेकाल्‌ शित्सर्वस्य (१.१.५५) तु अलोऽन्त्यस्य (१.१.५२) इत्यस्य अपवादः | ङित्‌ प्रथमान्तम्‌, च अव्ययपदम्‌, द्विपदमिदं सूत्रम्‌ | अलोऽन्त्यस्य (१.१.५२) इत्यस्मात्‌ अन्त्यस्य इत्यस्य अनुवृत्तिः; स्थानेऽन्तरतमः (१.१.५०) इत्यस्मात्‌ स्थाने इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— ङित्‌ च अन्त्यस्य स्थाने |


एवमेव—

भृ + यङ्‌ →

वृ + यङ्‌ →

हृ + यङ्‌ →

धृ + यङ्‌ →

घृ + यङ्‌ →

मृ + यङ्‌ →

दृ + यङ्‌ →


२) संयोगपूर्वऋकारान्तधातवः


यङि च (७.४.३०) इत्यनेन संयोगादिऋकारान्तधातोः ऋकारस्य गुणादेशो भवति यङि परे | इति सामान्य-अङ्गकार्यम्‌ |


स्मृ + यङ्‌ → यङि च (७.४.३०) इत्यनेन संयोगादिऋकारान्तधातोः ऋकारस्य गुणादेशः यङि परे → स्मर्‌ + य → सन्यङोः (६.१.९), एकाचो द्वे प्रथमस्य (६.१.१) इत्याभ्यं द्वित्वम्‌ → स्म स्म र्य → सामान्याभ्यासकार्यम्‌ → स स्म र्य → विशिष्टाभ्यासकार्यम् → दीर्घोऽकितः (७.४.८३)‌ इत्यनेन अकित्‌-अभ्यासस्य दीर्घादेशो भवति यङि → सास्म र्य → सास्मर्यते


यङि च (७.४.३०) = ऋ-धातोः च संयोगादिऋकारान्तधातोश्च ऋकारस्य गुणादेशो भवति यङि परे | यङ्‌-प्रत्ययस्य ङित्त्वात्‌ क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधत्वात्‌ गुणस्य साधनार्थम्‌ अस्य सूत्रस्य आवश्यकता अस्ति | यङि सप्तम्यन्तं, चाव्ययं, द्विपदमिदं सूत्रम्‌ | चकारस्य बलेन गुणोऽर्ति-संयोगाद्योः (७.४.२९) इत्यस्य सम्पूर्णरीत्या अनुवृत्तिः | रीङृतः (७.४.२७) इत्यस्मात्‌ ऋतः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अर्तिसंयोगाद्योः अङ्गस्य ऋतः गुणः यङि |


एवमेव—


ध्वृ + यङ्‌ →

ह्वृ + यङ्‌ →


३) ऋ-धातुः


ऋ + यङ्‌ → महाभाष्यनिर्देशेन → अरार्यते‌


ऋ गतौ इति धातुः | तस्य ऋ-धातोः अजादेः कारणेन धातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌ (३.१.२२) इत्यनेन यङः विधानं न भवति स्म | परन्तु सूचिसूत्रिमूत्र्यटत्यर्त्यशूर्णोतीनां यङ्‌ वक्तव्यम्‌ इति वार्त्तिकेन क्रियासमभिहारार्थे सूचि, सूत्रि, मूत्रि इत्येभ्यः त्रिभ्यः अनेकाच्‌-धातुभ्यः च अट्‌, ऋ, अश्‌, ऊर्णु इति चतुर्भ्यः अजादिधातुभ्यः यङ्‌-प्रत्ययो भवति | ऋ + य |


ऋ + य → यङि च (७.४.३०) इत्यनेन ऋ-धातोः ऋकारस्य गुणादेशो भवति यङि परे → अर्‌ + य → अजादेर्द्वितीयस्य (६.१.२) इत्यस्य साहाय्येन, सन्यङोः (६.१.९) इत्यनेन यङन्तस्य धातुरनभ्यासस्य प्रथमस्यैकाच्‌-अवयवस्य द्वे स्तः; अजादेस्तु द्वितीयस्य → प्रथमः एकाच्‌-भागः ‘अ’; द्वितीयः एकाच्‌-भागः 'र्य' → न न्द्राः संयोगादयः (६.१.३) इत्यनेन अचः पराः संयोगादयः नदराः द्विर्न भवन्ति— अजादेः संयोगादयः न्द्राः न द्वे → अ + र्य + य इति स्यात्‌ → परन्तु यकारपररेफस्य न द्वित्वनिषेधः, अरार्यते इति भाष्योदाहरणात्‌ इति सिद्धान्त्कौमुदीवाक्यं; महाभाष्यग्रन्थे सूचिसूत्रिमूत्र्यटत्यर्त्यशूर्णोतीनां यङ्‌ वक्तव्यम्‌ इति वार्त्तिकावसरे अरार्यते इति रूपम्‌ उदाहृतम्‌; अनेन प्रमाणं स्वीकृतं यत्‌ अत्र न न्द्राः संयोगादयः (६.१.३) इत्यस्य प्रवृत्तिर्न भवति; रेफस्य इह द्वित्वनिषेधो नास्ति → अ + र्य + र्य → हलादिः शेषः (७.४.६०) → अ + र + र्य → दीर्घोऽकितः (७.४.८३)‌ इत्यनेन अकित्‌-अभ्यासस्य दीर्घादेशो भवति यङि परे → अरार्य इति धातुः → अरार्य +शप्‌ + ते → अरार्यते


ॠकारान्तानां धातूनां यङन्तधातु-सिद्धिः


अ) अनोष्ठ्यपूर्व-ॠकारान्तधातवः


यस्य धातोः अन्तिमवर्णः दीर्घॠकारः, अपि च तस्मात्‌ प्राक्‌ यः वर्णः सः ओष्ठ्यवर्णो नास्ति नाम पवर्गीयः अथवा वकारो नास्ति, स च धातुः अनोष्ठ्यपूर्व-ॠकारान्तधातुः | यथा तॄ, जॄ, गॄ, कॄ, शॄ इत्यादयः धातवः |


एतादृशानां धातूनां कार्यम्‌ एवं भवति—


तॄ + यङ्‌ → ॠत इद्धातोः (७.१.१००) इत्यनेन ॠदन्तधातोः अङ्गस्य ह्रस्व-इकारादेशः → ति + य → उरण्‌ रपरः (१.१.५१) इत्यनेन ॠकारस्य स्थाने अण्-आदिष्टः चेत्‌, सः अण्‌ सदा‌ रपरः → तिर्‌ + य → हलि च (८.२.७७) इत्यनेन रेफान्तधातूनाम्‌ उपधायां स्थितः इक्‌-वर्णः दीर्घो हलि परे → तीर्‌‍ + य → ती‍ ती र्य → सामान्याभ्यासकार्यम्‌ → ति ती र्य → गुणो यङ्लुकोः (७.४.८२) इत्यनेन अभ्यासस्य गुणो भवति यङि परे → ते ती र्य → तेतीर्यते


ॠत इद्धातोः (७.१.१००) = ॠदन्तस्य धातोः अङ्गस्य ह्रस्व-इकारादेशो भवति | किति ङिति प्रत्यये परे एव इति बोध्यं; नो चेत्‌ गुणः | कित्‌-ङित्‌ भिन्नप्रत्ययः परश्चेत्‌, गुणे सति इकारादेशस्य प्रसक्तिर्न भवति | येन विधिस्तदन्तस्य (१.१.७२) इत्यस्य साहाय्येन ॠतः इत्यनेन ॠदन्तस्य इत्यस्यापि ग्रहणम्‌ | अलोऽन्त्यस्य (१.१.५२) इत्यस्य साहाय्येन पूर्णतया धातोः स्थाने न, अपि तु अन्तिमस्य ॠकारस्य स्थाने ह्रस्व-इकारादेशः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः; प्रत्ययः न भवति चेत्‌ इदं कार्यं न स्यादेव, नो चेत्‌ अनेन धातोः अपि मूलरूपं परिवर्तेत | ॠतः षष्ठ्यन्तम्‌, इत्‌ प्रथमान्तम्‌, धातोः षष्ठ्यन्तम्‌, त्रिपदमिदं सूत्रम्‌ | अनुवृत्ति-सहितसूत्रम्‌— ॠतः धातोः अङ्गस्य इत्‌ |


उरण्‌ रपरः (१.१.५१) = ऋकारस्य स्थाने यदा अण्-आदेशः भवति, तदा सः अण्‌ सदा‌ रपरः भवति | ऋकारेण त्रिंशत्‌-प्रकारकः ऋकारः भवति इति बोध्यम्‌ | रः परो यस्य सः रपरः | उः षष्ठ्यन्तम्‌, अण्‌ प्रथमान्तम्‌, रपरः प्रथमान्तम्‌, त्रिपदमिदं सूत्रम्‌ | स्थानेऽन्तरतमः (१.१.५०) इत्यस्मात्‌ स्थाने इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— उः स्थाने अण्‌ रपरः |


हलि च (८.२.७७) = रेफान्तानां वकारान्तानां च धातूनाम्‌ उपधायां स्थितः इक्‌-वर्णः दीर्घो भवति हलि परे | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तदन्तविधिः अतः र्वोः इत्यनेन येषाम्‌ धातूनाम्‌ अन्ते रेफः वकारश्च, तेषां ग्रहणम्‌ | हलि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | सिपि धातो रुर्वा (८.२.७४) इत्यस्मात्‌ धातोः इत्यस्य अनुवृत्तिः; र्वोरुपधाया दीर्घ इकः (८.२.७६) इत्यस्य पूर्णतया अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— र्वोः धातोः उपधायाः इकः दीर्घः हलि |


गुणो यङ्लुकोः (७.४.८२) = अभ्यासस्य गुणो भवति यङि यङ्लुकि च | यङ्‌ च लुक्‌ च यङ्लुकौ इतरेतरद्वन्द्वः, तयोः यङ्लुकोः | गुणः प्रथमान्तं, यङ्लुकोः सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात्‌ अभ्यासस्य इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अङ्गस्य अभ्यासस्य गुणः यङ्लुकोः |


एवमेव—

जॄ + यङ्‌ → जि + य → जिर्‌‍ + य →

कॄ →

दॄ →

शॄ →


आ) ओष्ठ्यपूर्व-ॠकारान्तधातवः


यस्य धातोः अन्तिमवर्णः दीर्घॠकारः, अपि च तस्मात्‌ प्राक्‌ यः वर्णः सः ओष्ठ्यवर्णः नाम पवर्गीयः अथवा वकारः, स च धातुः ओष्ठ्यपूर्व-ॠकारान्तधातुः | यथा पॄ, वॄ इत्यादयः धातवः |

एतादृशानां धातूनां कार्यम्‌ एवं भवति—



पॄ + यङ्‌ → उदोष्ठ्यपूर्वस्य (७.१.१०२) इत्यनेन ओष्ठ्यपूर्वस्य ॠकारान्ताङ्गस्य ॠकारस्य ह्रस्वः उकारादेशः → पु + य → उरण्‌ रपरः (१.१.५१) इत्यनेन ॠकारस्य स्थाने अण्-आदिष्टः चेत्‌, सः अण्‌ सदा‌ रपरः → पुर्‌‍ + य → हलि च (८.२.७७) इत्यनेन रेफान्तधातूनाम्‌ उपधायां स्थितः इक्‌-वर्णः दीर्घो हलि परे → पूर् + य → पू पू + र्य → सामान्याभ्यासकार्यम्‌ → पु पू + र्य → गुणो यङ्लुकोः (७.४.८२) इत्यनेन अभ्यासस्य गुणो भवति यङि परे → पो‍ पू + र्य → पोपूर्यते


उदोष्ठ्यपूर्वस्य (७.१.१०२) = ओष्ठ्यपूर्वस्य ॠकारान्ताङ्गस्य ॠकारस्य ह्रस्वः उकारादेशो भवति | येन विधिस्तदन्तस्य (१.१.७२) इत्यस्य साहाय्येन तदन्तविधिः अतः तादृशम्‌ अङ्गं यस्य अन्ते ॠकारः अस्ति, न तु ॠकारः इति अङ्गम्‌; अलोऽन्त्यस्य (१.१.५२) इत्यनेन अङ्गान्तस्य वर्णस्य स्थाने उदादेशः, न तु अङ्गस्य पूर्णस्य | ओष्ठ्याः नाम पवर्गीय-वर्णाः | ओष्ठयोः भवः ओष्ठ्यः | ओष्ठ्यः पूर्वो यस्मात्‌, सः ओष्ठ्यपूर्वः बहुव्रीहिः, तस्य ओष्ठ्यपूर्वस्य (ॠवर्णस्य) | उत्‌ प्रथमान्तम्‌, ओष्ठ्यपूर्वस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | ॠत इद्‌ धातोः (७.१.१००) इत्यस्मात्‌ ॠतः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— ओष्ठ्यपूर्वस्य ॠतः अङ्गस्य उत्‌ |


एवमेव—

वॄ + यङ्‌ →

भॄ + यङ्‌→


अपवादभूतः गॄ-धातुः


धातुपाठे द्वौ गॄ-धातू स्तः | तुदादिगणे गॄ निगरणे, लटि गिरति | क्र्यादिगणे गॄ शब्दे, लटि गृणाति | गॄ शब्दे इत्यस्य अनभिधानस्य (लोके अप्रयुज्यमानस्य) कारणेन यङ्‌-प्रत्ययो न भवति | काशिकायां दीयते यत्‌ "केचिद्‌ ग्र इति गिरतेर्गृणातेश्च सामान्येन ग्रहणमिच्छन्ति | अपरे तु गिरतेरेव, न गृणातेः | गृणातेर्हि यङेव नास्ति, अनभिधानादिति | यङीति किम्‌ ? निगीर्यते |”

तुदादिगणीयः 'गॄ निगरणे' इत्यस्य यङन्तरूपं भवति; तस्य च इदं वैशिष्ट्यम्—


ग्रो यङि (८.२.२०) = गॄ-धातोः रेफस्य स्थाने लकारादेशो भवति यङि परे | (गॄ-शब्दस्य) ग्रः इति षष्ठ्यन्तं रूपं, यङि सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | कृपो रो लः (८.२.१८) इत्यस्मात्‌ रो लः इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— ग्रः रः लः यङि |


गॄ + यङ्‌ → ॠत इद्धातोः (७.१.१००) इत्यनेन ऋदन्तधातोः अङ्गस्य ह्रस्व-इकारादेशः → गि + य → उरण्‌ रपरः (१.१.५१) इत्यनेन ऋकारस्य स्थाने अण्-आदिष्टः चेत्‌, सः अण्‌ सदा‌ रपरः → गिर्‌ + य → ग्रो यङि (८.२.२०) इत्यनेन गॄ-धातोः रेफस्य स्थाने लकारादेशो भवति यङि परे → गिल्‌ + य → सन्यङोः (६.१.९) इत्यनेन यङन्तस्य धातुरनभ्यासस्य प्रथमस्यैकाच्‌-अवयवस्य द्वे स्तः → गि गि ल्य → जि गि ल्य → जे गि ल्य → जेगिल्यते


धेयं यत्‌ ग्रो यङि (८.२.२०) इत्यनेन गॄ-धातोः लत्वे सति हलि च (८.२.७७) इत्यनेन उपधायाम्‌ इकः दीर्घो न भवति यतोहि अनेन सूत्रेण रेफान्तानां वकारान्तानाम्‌ एव धातूनाम्‌ उपधा-दीर्घो भवति | प्रकृतौ यद्यपि गॄ-धातुः रेफान्तः जातः, तथापि सम्प्रति लकारान्तः अस्ति अतः हलि च (८.२.७७) इत्यस्य प्रसक्तिर्नास्ति |


प्रश्नः उदेति यत्‌ ग्रो यङि (८.२.२०) इत्यस्य कार्यं साधयितुं शक्यते द्वित्वाभ्यासकार्यानन्तरं, 'जेगिर्‌ + य' इति स्थितौ ? नाम, ग्रो यङि (८.२.२०) त्रिपादिसूत्रमस्ति, त्रिपाद्यां सत्यां सर्वकार्यान्ते भवेत्‌ ? इति चेत्‌, सर्वप्रथमम्‌ अस्माभिः चिन्तनीयं किल यत्‌ 'जिगिर्‌' इत्यस्मिन्‌ औपदेशिक 'गॄ'-धातुः उपस्थितः अस्ति न वा |


अत्र अन्यः प्रश्नः उदेति यत्‌ औपदेशिक-आतिदेशिकधात्वोः विभागः किमर्थं कृतः ? एतादृशं नामकरणं, विभजनञ्च किमर्थम्‌ ? वस्तुतस्तु केवलं द्वयोः स्थलयोः भेदः—(१) व्युत्पत्ति विषये; (२) भावे | (१) बालानां बोधः आवश्यकः यत्‌ औपदेशिकधातुभ्यः द्वादश धातुप्रत्ययानां विधानेन प्रत्ययान्तधातवः निष्पद्यन्ते |


(२) भावे (३.३.१८) इत्यस्य अधिकारे यत्र भावार्थे प्रत्ययाः विधीयन्ते, घञ्‌-प्रत्ययः सामान्यः, स्त्रियां च क्तिन्‌ | परन्तु प्रत्ययान्तेभ्यः धातुभ्यः घञ्‌-प्रत्ययः, क्तिन्‌-प्रत्ययः च न विधीयेते, स्थाने अ प्रत्ययात्‌ (३.३.१०२) इत्यनेन स्त्रीलिङ्गे अ-प्रत्ययो भवति | अस्मिन्‌ सूत्रे साक्षात्‌ प्रत्ययान्तधातवः उक्ताः | अनुवृत्तिसहितसूत्रम्‌ अस्ति— प्रत्ययात्‌ धातोः अः प्रत्ययः परः स्त्रियां भावे अकर्तरि च कारके संज्ञायाम्‌ | तदन्तविधिना 'प्रत्ययात्‌ धातोः’ इत्युक्ते प्रत्ययान्तात्‌ धातोः | आहत्य प्रत्ययान्तेभ्यः धातुभ्यः अ-प्रत्ययः विधीयते स्त्रीत्वविशिष्ट-भाव-कर्तृभिन्नकारक-अर्थे | उदाहरणत्वेन भावार्थे जिगीषा (जि-धातुः 'जयति’, जेतुम्‌ इच्छा), चिकीर्षा (कर्तुम्‌ इच्छा), पिपासा, बुभूक्षा | एवं कृत्वा प्रत्ययान्तधातूनां न घञ्‌-प्रत्ययः न वा क्तिन्‌-प्रत्ययः भवति | इति प्रायः इदम्‌ एकम्‌ एव सूत्रम्‌ अष्टाध्याय्यां यस्मिन्‌ प्रत्ययान्तधातवः साक्षात्‌ उक्ताः |


(३) लिट्‌-लकारे धातूनां द्वित्वं भवति इति सामान्यनियमः, किन्तु प्रत्ययान्तधातूनां द्वित्वं न भवति, अपि तु आम्‌-प्रत्ययः विधीयते कास्प्रत्ययादाममन्त्रे लिटि (३.१.३५), कास्येनाच आम्‌ वक्तव्यः इति सूत्रेण वार्तिकेन च | एताभ्यां कास्‌-धातोः च अनेकाच्‌-धातूनां (यथा दरिद्रा, चकासृ, देधी, वेवी; अपि च प्रत्ययान्तधातवः यथा पाठि, पिपठिष, पापठ्य) लिटि परे द्वित्वं न भवति, अपि तु आम्‌-प्रत्ययविधानम्‌ | अत्र किन्तु साक्षात्‌ प्रत्ययान्तधातवः साक्षात्‌ नोक्ताः | ये औपदेशिकधातवः अनेकाचः, तेषामपि लिटि समानगतिः |  


एवं च एकवारं यदा धातु-संज्ञा जाता, पुरतः सर्वे धातवः स्थापिताः, ततः अग्रे एकस्मिन्नेव स्थले प्रक्रियाभेदो वर्तते औपदेशिक-आतिदेशिकधात्वोः मध्ये—भावार्थे अ-प्रत्ययः | अन्यत्र सर्वत्र प्रक्रिया समाना |


तर्हि सार्वधातुकप्रक्रियायाम्‌ औपदेशिक-आतिदेशिकधातूनां प्रसङ्गे किं वक्तव्यम्‌ ? अत्र दृष्टिद्वयं वर्तते | एकदृष्ट्या अत्रापि भेदो वर्तते यतोहि औपदेशिकधातूनां धातुगणम्‌ अनुसृत्य श्रेणीकरणं भवति; आतिदेशिकधातूनां च किमपि विभागीकरणं नास्ति, सर्वे धातवः समानाः | अनया दृष्ट्या औपदेशिकधातवः पृथक्तया अवलोकनीयाः—यत्र धातुगणनिमित्तकविकरणप्रत्ययाः विधीयन्ते | कर्तरि लटि, लोटि, लङि, विधिलिङि, शतरि, शानचि च दिवादिभ्यः श्यन्‌ (३.१.६९), तुदादिभ्यः शः (३.१.७७), स्वादिभ्यः श्नुः (३.१.७३), क्र्यादिभ्यः श्ना (३.१.८१), तनादिकृञ्भ्यः उः (३.१.७९), सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण -चुरादिभ्यो णिच् (३.१.२५), अदिप्रभृतिभ्यः शपः (२.४.७२), जुहोत्यादिभ्यः श्लुः (२.४.७५)  इति सूत्राणि ज्ञापकानि यत्‌ औपदेशिक-आतिदेशिकधात्वोः विभागः अपेक्षितः | यतोहि औपदेशिकधातूनां धातुगणम्‌ अनुसृत्य श्रेणीकरणं भवति; आतिदेशिकधातूनां न भवति |


परन्तु अपरया दृष्ट्या, समग्रदृष्ट्या, एकवारं यदा सर्वे धातवः पुरतः स्थापिताः, तदा सर्वे धातवः धातुमात्रम्‌ | धातुसंज्ञा एका एव; यद्यपि धातुसंज्ञाविधातकसूत्रद्वयं, तथापि एकेवारं यदा धातुसंज्ञा आगता, तदा धातुसंज्ञायां भेदो नास्ति | आतिदेशिकधातुभ्यः सार्वधातुकप्रक्रियायां कर्तरि शप्‌ (३.१.६८) इत्यनेन शप्‌-विधीयते | भ्वादिगणः तादृशधातुगणः यस्मिन्‌ धातुभ्यः शप्‌ विधीते, अतः आतिदेशिकधातवः भ्वादिगणीयाः एव | यावन्तः 'औपदेशिकधातवः' भ्वादिगणे सन्ति, तेभ्यः सार्वधातुकप्रक्रियायाम्‌ 'आतिदेशिकधातूनां' कोऽपि भेदो नास्ति | तर्हि सार्वधातुकप्रक्रियायाम्‌ आतिदेशिकधातवः भ्वादिगणे | यथा भू-धातुः, तथा भावि-धातुः, तथा च जिगमिष-धातुः | अतः सार्वधातुकप्रक्रियायां विकरणप्रत्ययं निमित्तीकृत्य धातुगणभेदाः सन्ति, तान्‌ धातुगणभेदान्‌ च अधिकृत्य प्रक्रियाभेदाः सन्ति | श्यन्‌ इति विकरणप्रत्ययः अस्ति चेत्‌ प्रक्रिया भिन्ना, श्नु इति विकरणप्रत्ययः अस्ति चेत्‌ प्रक्रिया भिन्ना | विकरणप्रत्ययभेदात्‌ प्रक्रियाभेदः | परन्तु 'औपदेशिक-आतिदेशिक' भेदात्‌ प्रक्रियाभेदः इति तु नास्ति | समानधातुगणे भ्वादिगणे धातुः औपदेशिकः अथवा आतिदेशिकः इत्यस्य परिणामे प्रक्रियाभेदो न भवति | अतः सार्वधातुकप्रक्रियायाम्‌ औपदेशिक-आतिदेशिकधात्वोः नामकरणस्य किमपि मूल्यं नास्ति | एतादृशनामकरणस्य मूल्यं केवलं बालानां कृते प्रदर्शनार्थं यत्‌ केचन धातवः अव्युत्पन्नाः अन्ये च व्युत्पन्नाः | परन्तु एकवारं यादा धातुसंज्ञा आगाता धातुः च सिद्धः ततः अग्रे सार्वधातुकप्रक्रियायां तदाधारेण भेदो नास्ति; आर्धधातुकप्रक्रियायां च एकस्मिन्नेव स्थले भेदः भावे यथोक्तम्‌ |


आहत्य प्रक्रियार्थम्‌ 'औपदेशिकधातुः', 'आतिदेशिकधातुः' इति नामकरणं मास्तु | बालानां कृते आरम्भे नामकरणम्‌ अपेक्षितं प्रदर्शनार्थं यत्‌ केचन धातवः एवमेव सन्ति; अन्ये धातवः निष्पन्नाः | अनन्तरं प्रक्रियार्थं कुत्रापि तादृशनामकरणं मास्तु, यतोहि तस्य किमपि कार्यं नास्ति | एकस्मिन्‌ सूत्रे अ प्रत्ययात्‌ (३.३.१०२) यत्र प्रक्रियाभेदो वर्तते, तत्र 'प्रत्ययान्तधातुः' इत्येव पाणिनेः नामकरणं पर्याप्तम्‌ च, उपयोगि च अतः उचितमेव |   


प्रकृतौ यङन्तधातूनां निर्माणावसरः आर्धधातुकप्रक्रिया; अत्र औपदेशिकधातूनां काऽपि आवश्यकता नास्ति | यदा हि यङ्‌-प्रत्ययः विधीयते, तदा हि धातुसज्ञा भवति, नूतनधातुः जातः, पुरातनश्च धातुः समाप्तः |  


एवं सति कथं वा ग्रो यङि (८.२.२०) इत्यस्य कार्यं साधयितुं शक्यते द्वित्वाभ्यासकार्यानन्तरं, 'जेगिर्‌ + य' इति स्थितौ ? भवति | कथमिति चेत्‌, तत्र गॄ-धातोः आवश्यकता नास्ति; आवश्यकता अस्ति गॄ-धातोः रेफः | ग्रो यङि (८.२.२०) इत्यनेन "गॄ-धातोः रेफस्य स्थाने लकारादेशो भवति यङि परे" | 'जेगिर्‌ + य' इति स्थितौ गॄ-धातुः नास्ति, परन्तु गॄ-धातोः रेफः अस्ति | ग्रो यङि (८.२.२०) त्रिपादिसूत्रमस्ति इति कृत्वा गिर्‌ +य → ग्रो यङि (८.२.२०), सन्यङोः (६.१.९) इत्यनयोः युगपत्‌ प्रसक्तिः; अस्यां दशायां ग्रो यङि (८.२.२०) इति सूत्रम्‌ असिद्धम्‌ | द्वित्वाभ्यासकार्यां भवति, तदा वर्णकार्याणि |


एवं च द्वित्वाभ्यासकार्यानन्तरं त्रिपाद्यां स्थितसूत्राणां वर्णकार्यं भवति | ग्रो यङि (८.२.२०) अपि तथा, हलि च (८.२.७७) अपि तथा |


पुनः प्रश्नः उदेति यत्‌ अस्तु, ग्रो यङि (८.२.२०) त्रिपादिसूत्रम्‌ अस्ति; परन्तु सूत्रे निमित्तं तु यङ्‌-प्रत्ययः अतः इदं सूत्रं तादृशेषु सूत्रेषु स्यात्‌ यत्‌ अनुवृत्त्यर्थं लाघवार्थञ्च त्रिपाद्यां स्थापितम्‌ अस्ति परन्तु वस्तुतः अङ्गकार्यम्‌ | यथा अभ्यासे चर्च (८.४.५४) अभ्यासकार्यं परन्तु त्रिपाद्यां स्थापितम्‌ अनुवृत्त्यार्थम्‌ | अस्य सूत्रस्य किमपि असिद्ध्यर्थं कार्यं नास्ति | यत्‌ सूत्रं त्रिपाद्याम्‌ अस्ति प्रक्रियार्थं, तस्य त्रिपाद्यां सत्याम्‌ असिद्धिकार्यं भवति; स्वयम्‌ असिद्धं भवति अथवा परत्रिपादि प्रति असिद्धत्वस्य कारणं भवति | अभ्यासे चर्च (८.४.५४) इत्यस्य तादृशकार्यं किमपि नास्ति, परन्तु ग्रो यङि (८.२.२०) इत्यस्य तु भवति | 'जेगिर् + य' इति स्थले हलि च (८.२.७७) इत्यस्य प्रसक्तिः | ग्रो यङि (८.२.२०) पूर्वत्रिपादिसूत्रं, हलि च (८.२.७७) परत्रिपादिसूत्रम्‌ अतः ग्रो यङि (८.२.२०) प्रति, हलि च (८.२.७७) इति सूत्रम्‌ असिद्धम्‌ | ग्रो यङि (८.२.२०), हलि च (८.२.७७) इत्यस्य बाधकसूत्रं, येन यङ्‌-प्रत्यये परे हलि च (८.२.७७) इत्यस्य कार्यं न स्यात्‌ | लत्वं भवति चेत्‌, दीर्घत्वं न भवति |


ग्रो यङि (८.२.२०) इत्यस्मिन्‌ 'यङि' इति प्रत्ययरूपेण न द्रष्टव्यम्‌, ‘यङ्‌-प्रत्ययस्य यकारः' इति द्रष्टव्यम्‌ | यया रीत्या तिप्यनस्तेः (८.२.७३), सिपि धातो रुर्वा (८.२.७३) इति सूत्रद्वयेन प्रत्यये उक्ते अपि वर्णनिमित्तकार्यं न तु अङ्गकार्यं; प्रत्ययः उक्तः प्रदर्शनर्थं यत्‌ अपरेषु प्रत्ययेषु इदं कार्यं न स्यात्‌ | तथैव ग्रो यङि (८.२.२०) इति सूत्रम्‌ अपि | अस्मिन्‌ सूत्रे 'यङि' यदि न उच्यते, कस्मिन्‌ अपि हलि लत्वं भविष्यति; तस्य व्यावृत्त्यर्थं 'यङि' इति उक्तम्‌ | अन्येषु हलादिषु प्रत्ययेषु न स्यात्‌, एतदार्थं 'यङि' इति दत्तम्‌ |


अपि च सूत्रस्य क्रमं दृष्ट्वा अपि अर्थदृष्ट्या वर्णकार्यम्‌ | ग्रो यङि (८.२.२०) इत्यस्य अनन्तरम्‌ अस्ति अचि विभाषा (८.२.२१), रो लत्वं भवति विकल्पेन अजादि प्रत्यये परे | एतदपि वर्णकार्यं न तु अङ्गकार्यम्‌ | णिचि कर्मणि यकि निगार्यते / निगाल्यते इति रूपद्वयम्‌ | एवेमेव निगरति / निगिलति; निगरणं, निगलनं; निगारकः, निगालकः |


इति अजन्तधातूनां यङन्तधातु-सिद्धिपाठः समाप्तः |


हलन्तधातूनां यङन्तधातु-सिद्धिः


A. सामान्यहलन्तधातूनां यङन्तधातु-सिद्धिः


अभ्यासे ह्रस्व-अकारस्य दीर्घादेशः—


खाद्‌ + यङ्‌ → द्वित्वसामान्याभ्यासकार्यञ्च → चखाद्‌ + य → दीर्घोऽकितः (७.४.८३)‌ इत्यनेन अकित्‌-अभ्यासस्य दीर्घादेशो भवति यङि परे → चाखाद्‌ + य → चाखाद्यते


दीर्घोऽकितः (७.४.८३)‌ = अकित्‌-अभ्यासस्य दीर्घादेशो भवति यङि यङ्लुकि च | न कित् यस्य स अकित्‌, तस्य | अनुवृत्ति-सहितसूत्रम्‌— अङ्गस्य अकितः अभ्यासस्य दीर्घः यङ्लुकोः |


एवमेव—

बाध्‌ + यङ्‌ →


अभ्यासे इकार-उकारयोः गुणः—


मील्‌ + यङ्‌ → द्वित्वसामान्याभ्यासकार्यञ्च → मि मी ल्य → गुणो यङ्लुकोः (७.४.८२) इत्यनेन अभ्यासस्य गुणो भवति यङि परे → मे मी ल्य → मेमील्यते


गुणो यङ्लुकोः (७.४.८२) = अभ्यासस्य गुणो भवति यङि यङ्लुकि च | अनुवृत्ति-सहितसूत्रम्‌— अङ्गस्य अभ्यासस्य गुणः यङ्लुकोः |


एवमेव—

शीक्‌ + यङ्‌ →

भूष्‌ + यङ्‌ →


B. अदुपधधातूनां यङन्तधातु-सिद्धिः


१. सामान्य-अदुपधधातूनां यङन्तधातु-सिद्धिः


द्वित्वसामान्याभ्यासकार्यं तदा अभ्यासे ह्रस्व-अकारस्य दीर्घादेशः—


गल्‌ + यङ्‌ → गल्‌ + य → ग ग ल्य → ज ग ल्य → दीर्घोऽकितः (७.४.८३)‌ → जागल्यते


एवमेव—

पच्‌ →

वद्‌ →

गद्‌ →

पठ्‌ →

लष्‌ →

लप्‌ →


२. जन्‌, सन्‌, खन्‌ इति धातूनां यङन्तधातु-सिद्धिः


ये विभाषा (६.४.४३) इत्यनेन जन्‌, सन्‌, खन्‌ एषां धातूनां नकारस्य स्थाने विकल्पेन आकारादेशो भवति यकारादि-कित्ङित्‌-प्रत्यये परे |


आत्वपक्षे—

जन्‌ + यङ्‌ → ये विभाषा (६.४.४३) इत्यनेन नकारस्य आत्वम्‌ → जा + य → द्वित्वसामान्याभ्यासकार्यञ्च → ज जा + य → दीर्घोऽकितः (७.४.८३)‌ इत्यनेन अकित्‌-अभ्यासस्य दीर्घादेशो भवति यङि परे → जा जा + य → जाजायते


आत्वापक्षे—

जन्‌ + यङ्‌ → द्वित्वसामान्याभ्यासकार्यञ्च → ज ज + न्य → नुगतोऽनुनासिकान्तस्य (७.४.८५) इत्यनेन अनुनासिकान्ताङ्गस्य अदन्त-अभ्यासस्य नुक्‌-आगमो भवति यङि परे → जंज न्य → जञ्ज न्य → जञ्जन्यते


एवमेव—

सन्‌ + यङ्‌ →

खन्‌ + यङ्‌ →


ये विभाषा (६.४.४३) = जन्‌, सन्‌, खन्‌ एषां धातूनां नकारस्य स्थाने विकल्पेन आकारादेशो भवति यकारादि-कित्ङित्‌-प्रत्यये परे | अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्तादेशः | ये सप्तम्यन्तं, विभाषा प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | जनसनखनां सञ्झलोः (६.४.४२) इत्यस्मात्‌ जनसनखनाम्‌ इत्यस्य अनुवृत्तिः | विड्वनोरनुनासिकस्यात्‌ (६.४.४१) इत्यस्मात्‌ आत् इत्यस्य अनुवृत्तिः | अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति (६.४.३७) इत्यस्मात्‌ क्ङिति इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— जनसनखनां अङ्गस्य आत् ये क्ङिति विभाषा |


नुगतोऽनुनासिकान्तस्य (७.४.८५) = अनुनासिकान्ताङ्गस्य अदन्त-अभ्यासस्य नुक्‌-आगमो भवति यङि यङ्लुकि च | नुक्‌ अनुस्वारस्य उपलक्षणम्‌ | धातोः अभ्यासस्य अन्ते अत्‌ चेत्‌, धातोः अन्ते अनुनासिकहल्‌-वर्णः (ञ्‌, म्‌, ङ्‌, ण्‌, न्‌) चेत्‌ इदं कार्यं प्रवर्तते | नुक्‌-आगमः कित्‌ | ककारः इत्‌-संज्ञकः, उकारः उच्चारणार्थः | अनुनासिकः अन्ते यस्य तत्‌ अनुनासिकान्तं, तस्य | नुक्‌ प्रथमान्तम्‌, अतः षष्ठ्यन्तम्‌, अनुनासिकान्तस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात्‌ अभ्यासस्य इत्यस्य अनुवृत्तिः | गुणो यङ्लुकोः (७.४.८२) इत्यस्मात्‌ यङ्लुकोः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— अनुनासिकान्तस्य अङ्गस्य अतः अभ्यासस्य नुक्‌ यङ्लुकोः |


३. हन्‌-धातोः यङन्तधातु-सिद्धिः


हन्तेर्हिंसायां यङि घ्नीभावो वाच्यः (वार्तिकं ४६२१, नुगतोऽनुनासिकान्तस्य (७.४.८५) इति सूत्रस्य प्रसङ्गे दत्तम्‌) इत्यनेन हन्‌-धातोः हिंसा-अर्थे सति, तस्य घ्नी-आदेशो भवति यङि परे |

हन्‌ + यङ्‌ → हन्तेर्हिंसायां यङि घ्नीभावो वाच्यः → घ्नी + य → घ्नी घ्नी य → घी घ्नी य → घि घ्नी य → झि घ्नी य → जि घ्नी य → जे घ्नी य → जेघ्नीय इति यङन्तधातुः → जेघ्नीयते


हिंसा-अर्थे नास्ति चेत्‌ (घ्नी-आदेशः न भवति)—‌


अभ्यासाच्च (७.३.५५) इत्यनेन अभ्यासात्‌ हन्‌-धातोः हकारस्य स्थाने कवर्गादेशः |


हन्‌ + यङ्‌ → द्वित्वाभ्यास्यकार्यम्‌ → ह ह न्य → ज ह न्य → अभ्यासोत्तरहकारस्य कुत्वम्‌ → ज घ न्य → अभ्यासस्य नुक्‌-आगमः → जंघ न्य → अनुस्वारस्य परसवर्णादेशः → जङ्घ न्य → जङ्घन्य इति यङन्तधातुः → जङ्घन्यते


अभ्यासाच्च (७.३.५५) = अभ्यासात्‌ हन्‌-धातोः हकारस्य स्थाने कवर्गादेशो भवति | अभ्यासात्‌ पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | हो हन्तेर्ञ्णिन्नेषु (७.३.५४) इत्यस्मात्‌ हः, हन्तेः इत्यनयोः अनुवृत्तिः | चजोः कु घिण्यतोः (७.३.५२) इत्यस्मात्‌ कु इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— अभ्यासात्‌ च हन्तेः अङ्गस्य हः कु |


सिद्धान्तकौमुद्याम्‌—‌हन्तेर्हिंसायां यङि घ्नीभावो वाच्यः । जेघ्नीयते । हिंसायां किम् ? जङ्घन्यते ॥


४. कस्‌ ,पत्‌, पद्‌ इति त्रयाणां धातूनां यङन्तधातु-सिद्धिः


नीग्वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम्‌ (७.४.८४) = वञ्च्‌, स्रंस्‌, ध्वंस्‌, भ्रंस्‌, कस्‌, पत्‌, पद्‌, स्कन्द्‌ इत्येषां धातूनाम्‌ अभ्यासस्य नीक्‌-आगमो भवति यङि यङ्लुकि च | वञ्चुश्च स्रंसुश्च ध्वंसुश्च भ्रंसुश्च कसश्च पतश्च पदश्च स्कन्द च तेषामितरेतरद्वन्द्वः वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दः, तेषाम्‌ | नीक्‌ प्रथमान्तं, वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दां षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात्‌ अभ्यासस्य इत्यस्य अनुवृत्तिः | गुणो यङ्लुकोः (७.४.८२) इत्यस्मात्‌ यङ्लुकोः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम्‌ अङ्गस्य अभ्यासस्य नीक्‌ यङ्लुकोः |


कस्‌ + यङ्‌ → क क स्य → च क स्य → चनीकस्य इति यङन्तधातुः → चनीकस्यते


एवमेव—

पत्‌ + यङ्‌ →

पद्‌ + यङ्‌ →


वञ्च्‌, स्रंस्‌, ध्वंस्‌, भ्रंस्‌, स्कन्द्‌ चेति धातवः अनिदित्‌-धातूनां स्थले वक्ष्यमाणाः |


अत्र प्रश्नः उदेति—


कस्‌ य → क क स्य → च क स्य → चनीकस्य इति स्थितौ यदि 'चनी’ इति अभ्यासः अस्ति, तर्हि किमर्थं गुणो यङ्लुकोः (७.४.८२) इत्यनेन गुणः भूत्वा 'चनेकस्य' इति न स्यात्‌ ​? उत्तरत्वेन विधानस्य सामर्थ्यात्‌ गुणो न भवति | इष्टः यङन्तधातुः यदि 'चनेकस्य' इति अभविष्यत्‌, तर्हि पाणिनिः साक्षात्‌ 'नेक्‌' इति आगमम्‌ अकरिष्यत्‌ | आगमः यदा कोऽपि भवितुम्‌ अर्हति, तदा पाणिनिः साक्षात्‌ नेक्‌ इति आगमं व्यधास्यत्‌ | एतादृशात् स्वातन्त्र्यात्‌ आगमस्य सामर्थ्यं वर्तते | अनेन सामर्थ्येन नीक्‌ इत्युक्तं चेत्‌, नीक्‌ इत्येव इष्टम्‌ | अस्मिन्‌ सामर्थ्ये लाघवमपि अस्ति |


५. अनुनासिकान्त-अदुपध-धातूनां यङन्तधातु-सिद्धिः


यथादृष्टं पूर्वं, नुगतोऽनुनासिकान्तस्य (७.४.८५) इत्यनेन अनुनासिकान्ताङ्गस्य अदन्त-अभ्यासस्य नुक्‌-आगमो भवति यङि परे | अदुपध-अनुनासिकान्त-धातूनां द्वित्वाभ्यासकार्ये सति एतादृशी स्थितिः उत्पद्यते | यथा गम्‌ → जगम्‌ | अत्र अङ्गम्‌ अनुनासिकान्तम्‌, अभ्यासश्च अदन्तः | एवमेव तन्‌ → ततन्‌, यम्‌ → ययम्‌, रम्‌ → ररम्‌, कण्‌ → चकण्‌


कण्‌ + यङ्‌ → क क ण्य → च क ण्य → चंक ण्य → चङ्कण्य इति यङन्तधातुः → चङ्कण्यते

गम्‌ + यङ्‌ →

मन्‌ + यङ्‌ →

रम्‌ + यङ्‌ →

यम्‌ + यङ्‌ →


अन्ये धातवः यथा वम्‌, तम्‌, चम्‌, क्षन्‌, रन्‌, रूपाणि एवं भवन्ति— चङ्कण्यते, चङ्क्षण्यते, रंरण्यते, वंवम्यते, तन्तन्यते, चञ्चम्यते, जङ्गम्यते, जञ्जन्यते, मंमन्यते, यंयम्यते* |


*नुगतोऽनुनासिकान्तस्य (७.४.८५) इति सूत्रस्य अन्तर्गतं वार्तिकम्‌ अस्ति पदान्तवच्चेति वक्तव्यम्‌ | अनेन अनुनासिकान्ताङ्गस्य अदन्त-अभ्यासस्य नुक्‌-आगमे सति स च अभ्यासः पदान्तवत्‌ इति मन्तव्यम्‌ | तस्मात्‌ वा पदान्तस्य (८.४.५९) इत्यनेन परसवर्णविकल्पः | अनुनासिकान्तधातुप्रसङ्गे सर्वत्र तथा कल्पनीयं यथासङ्गं— नाम यत्र अभ्यासः अदन्तः | अतः यंयम्यते / यय्‌ँयम्यते, जंगम्यते / जङ्गम्यते इत्यादीनि रूपाणि भवन्ति |


अनुस्वारस्य ययि परसवर्णः (८.४.५८) = अनुस्वारस्य स्थाने परसवर्णादेशो भवति ययि परे |


वा पदान्तस्य (८.४.५९) = पदान्तस्य अनुस्वारस्य परसवर्णादेशो वा भवति ययि परे |


नुगतोऽनुनासिकान्तस्य (७.४.८५) = अनुनासिकान्ताङ्गस्य अदन्त-अभ्यासस्य नुक्‌-आगमो भवति यङि यङ्लुकि च | धातोः अभ्यासस्य अन्ते अत्‌ चेत्‌, धातोः अन्ते अनुनासिकहल्‌-वर्णः (ञ्‌, म्‌, ङ्‌, ण्‌, न्‌) चेत्‌ इदं कार्यं प्रवर्तते | नुक्‌-आगमः कित्‌ | ककारः इत्‌-संज्ञकः, उकारः उच्चारणार्थः | अनुनासिकः अन्ते यस्य तत्‌ अनुनासिकान्तं, तस्य | नुक्‌ प्रथमान्तं, अतः षष्ठ्यन्तम्‌, अनुनासिकान्तस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात्‌ अभ्यासस्य इत्यस्य अनुवृत्तिः | गुणो यङ्लुकोः (७.४.८२) इत्यस्मात्‌ यङ्लुकोः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— अनुनासिकान्तस्य अङ्गस्य अतः अभ्यासस्य नुक्‌ यङ्लुकोः |


६. जप्‌, जभ्‌, दह्‌, पश्‌ इति चतुर्णां धातूनां यङन्तधातु-सिद्धिः


यङन्तप्रसङ्गे एतेषां धातूनाम्‌ अभ्यासस्य अन्ते ह्रस्व-अकारः अस्ति, किन्तु धात्वन्ते अनुनासिकवर्णो नास्ति अतः नुगतोऽनुनासिकान्तस्य (७.४.८५) इत्यनेन नुगागमो न भवति | तथपि एषां नुगागमो भवति जपजभदहदशभञ्जपशां च (७.४.८६) इति विशिष्टसूत्रेण |


जप्‌ + यङ्‌ → ज ज प्य → जं ज प्य → जञ्जप्य → जञ्जप्यते / जंजप्यते

जभ्‌ + यङ्‌ →

दह्‌ + यङ्‌ →

पश्‌ + यङ्‌ →


दंश्‌-धातुः भञ्ज्‌-धातुः चेति द्वौ धातू अनिदित्‌-धातूनां स्थले वक्ष्यमाणौ |


जपजभदहदशभञ्जपशां च (७.४.८६) = जप्‌, जभ्‌, दह्‌, दश्‌, भञ्ज्‌, पश्‌ इत्येषां धातूनाम्‌ अभ्यासस्य नुक्‌-आगमो भवति यङि यङ्लुकि च | नुक्‌ इत्यस्मिन्‌ ककारः इत्संज्ञकः, उकारश्च उच्चारणार्थः; नुक्‌ अनुस्वारस्य अपि उपलक्षणम्‌ | दंश्‌-धातोः अस्मिन्‌ सूत्रे अनुस्वारो नास्ति यतोहि यङि दश्‌ इत्यस्य एव द्वित्वम्‌; अनुनासिकत्वं न भवति | जपश्च जभश्च दहश्च दशश्च भञ्जश्च पशश्च च तेषामितरेतरद्वन्द्वः जपजभदहदशभञ्जपशः, तेषाम्‌ | जपजभदहदशभञ्जपशां षष्ठ्यन्तं, चाव्ययं, द्विपदमिदं सूत्रम्‌ | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात्‌ अभ्यासस्य इत्यस्य अनुवृत्तिः | गुणो यङ्लुकोः (७.४.८२) इत्यस्मात्‌ यङ्लुकोः इत्यस्य अनुवृत्तिः | नुगतोऽनुनासिकान्तस्य (७.४.८५) इत्यस्मात्‌ नुक्‌ इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— जपजभदहदशभञ्जपशां च अङ्गस्य अभ्यासस्य नुक्‌ यङ्लुकोः |


७. चर्‌, फल्‌ इति द्वयोः धात्वोः यङन्तधातु-सिद्धिः


चरफलोश्च (७.४.८७), उत्परस्यातः (७.४.८८) इति सूत्राभ्यां चर्‌, फल्‌, इत्यनयोः धात्वोः अभ्यासस्य नुक्‌-आगमो भवति, अपि च अभ्यासात्‌ परस्य ह्रस्व-अकारस्य स्थाने उत्‌ आदेशो भवति यङि परे |


चर्‌ + यङ्‌ → च च र्य → चञ्चु र्य → हलि च (८.२.७७) इत्यनेन र्वोः धातोः उपधायाः इकः दीर्घः हलि → चञ्चू र्य → चञ्चूर्य‍ इति यङन्तधातुः → चञ्चूर्य‍ते


चर्‌ + यङ्‌ → पदान्तवच्चेति वक्तव्यम्‌ इति वार्तिकस्य बलात्‌ वा पदान्तस्य (८.४.५९) इत्यनेन परसवर्णवैकल्पिकः; अपक्षे → चंचूर्यते

फल् + यङ्‌ → फ फ ल्य → प फ ल्य → पम्फ ल्य → पम्फुल्य इति यङन्तधातुः → पम्फुल्यते / पंफुल्यते


चरफलोश्च (७.४.८७) = चर्‌, फल्‌, इत्यनयोः धात्वोः अभ्यासस्य नुक्‌-आगमो भवति यङि यङ्लुकि च | इदं सूत्रं पृथक्तया उक्तं येन अग्रे केवलं चर्‌, फल्‌, इत्यनयोः उत्परस्यातः (७.४.८८) इत्यनेन अभ्यासोत्तर-अतः उत्त्वं स्यात्‌ | चरश्च फल्‌ च तयोरितरेतरद्वन्द्वः चरफलौ, तयोः चरफलोः | चरफलोः षष्ठ्यन्तं, चाव्ययं, द्विपदमिदं सूत्रम्‌ | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात्‌ अभ्यासस्य इत्यस्य अनुवृत्तिः | गुणो यङ्लुकोः (७.४.८२) इत्यस्मात्‌ यङ्लुकोः इत्यस्य अनुवृत्तिः | नुगतोऽनुनासिकान्तस्य (७.४.८५) इत्यस्मात्‌ नुक्‌ इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— चरफलोः च अङ्गस्य अभ्यासस्य नुक्‌ यङ्लुकोः |


उत्परस्यातः (७.४.८८) = चर्‌, फल्‌, इत्यनयोः धात्वोः अभ्यासात्‌ परस्य ह्रस्व-अकारस्य स्थाने उत्‌ आदेशो भवति यङि यङ्लुकि च | उत्‌ प्रथमान्तं, परस्य षष्ठ्यन्तम्‌, अतः षष्ठ्यन्तं, त्रपदमिदं सूत्रम्‌ | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात्‌ अभ्यासस्य इत्यस्य विभक्तिपरिणामं कृत्वा अभ्यासात्‌ इति अनुवृत्तिः | चरफलोश्च (७.४.८७) इत्यस्मात्‌ चरफलोः इत्यस्य अनुवृत्तिः | गुणो यङ्लुकोः (७.४.८२) इत्यस्मात्‌ यङ्लुकोः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— चरफलोः अङ्गस्य अभ्यासात्‌ परस्य अतः उत्‌ यङ्लुकोः |


हलि च (८.२.७७) = रेफान्तानां वकारान्तानां च धातूनाम्‌ उपधायां स्थितः इक्‌-वर्णः दीर्घो भवति हलि परे | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तदन्तविधिः अतः र्वोः इत्यनेन येषाम्‌ धातूनाम्‌ अन्ते रेफः वकारश्च, तेषां ग्रहणम्‌ | हलि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | सिपि धातो रुर्वा (८.२.७४) इत्यस्मात्‌ धातोः इत्यस्य अनुवृत्तिः; र्वोरुपधाया दीर्घ इकः (८.२.७६) इत्यस्य पूर्णतया अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— र्वोः धातोः उपधायाः इकः दीर्घः हलि |


प्रश्नः उदेति, चरफलोश्च (७.४.८७), जपजभदहदशभञ्जपशां च (७.४.८६) इति द्वाभ्यां सूत्राभां समानकार्यं सिध्यति इति कृत्वा किमर्थम्‌ एते द्वे सूत्रे पृथक्तया विरचिते ? उत्तरत्वेन अनुवृत्तेः स्पष्टीकरणार्थम्‌ | नो चेत्‌ एकमेव सूत्रं यदि स्यात्‌, तर्हि उत्परस्यातः (७.४.८८) इति सूत्रेण यत्‌ उत्त्वं विधीयते, तत्‌ केषां धातूनाम्‌ इति कथं वा जानीयात्‌ |


अन्यः प्रश्नः उदेति यः यङ्लुगन्तप्रसङ्गे आगतः | यङ्लुकि—


चर्‌‍ → चर्‌‍ चर्‌‍‍ → च चर्‌‍ → चञ्चर्‌‍ → चञ्चुर्‌‍ इति यङ्लुगन्तधातुः


तदा चञ्चुर्‌‍ + ति → अत्र पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन उकारस्य गुणादेशः स्यात्‌ किल | तत्र अस्माभिः चर्चितं यत्‌ उत्परस्यातः (७.४.८८) इत्यनेन यत्‌ तपरकरणं साधितं, तस्य सामर्थ्यात्‌ गुणादेशः निवारितः | अत्र यङन्ते गुणनिषेधो भवति यतोहि चञ्चुर्‌ + य इति स्थितौ यङ्‌ ङित्‌ | परन्तु हलि च (८.२.७७) इत्यनेन दीर्घादेशः, सः तु ङिद्वात्‌ न बाधितः |


प्रश्नः अस्ति यत्‌ तपरकरणस्य सामर्थ्यात्‌ यया रीत्या गुणः निवारितः यङ्लुकि, किमर्थं न एवमेव चञ्चुर्‌‍ + य इति स्थितौ हलि च (८.२.७७) इत्यनेन यः दीर्घादेशः प्रसक्तः, सोऽपि निवारितो भवेत्‌ किल | अत्र किन्तु पूर्वत्रासिद्धम्‌ (८.२.१) इत्यनेन उत्परस्यातः (७.४.८८) इत्यस्य दृष्ट्या हलि च (८.२.७७) इत्यस्य अस्तित्वं नास्ति अतः उत्परस्यातः (७.४.८८) इति सूत्रद्वारा यत्‌ तपरकरणस्य सामर्थ्यं, तद्द्वारा बाधा न सम्भ्वति | किमर्थमिति चेत्‌, उच्यते | पूर्वत्रासिद्धम्‌ (८.२.१) इत्यस्य द्विविधं कार्यम्‌ अस्माभिः अधीतं— शास्त्रासिद्धं, कार्यासिद्धञ्च | शास्त्रासिद्धं भवति यत्र सूत्रद्वयं युगपत्‌ प्रसक्तं; तत्र पूर्वसूत्रं प्रति त्रिपाद्यां स्थितं परसूत्रम्‌ असिद्धिम्‌ | अपि च त्रिपाद्यां स्थितस्य परसूत्रस्य कार्यं पूर्वमेव जातमिति चेत्‌, तत्र पूर्वसूत्रं प्रति तच्च कार्यम्‌ असिद्धम्‌ | नाम यद्यपि कार्यं जातं, तथापि न दृश्यते पूर्वसूत्रेण | अधुना अनयोः द्विविधयोः कार्ययोः मध्ये अत्र प्रकृतस्थितिः उभयत्रापि न सङ्गच्छते | यतोहि द्वयोः प्रसक्तिः युकपत्‌ नस्ति अपि च यस्य (उत्परस्यातः (७.४.८८) इत्यस्य) कार्यं जातं; तत्सूत्रं तु हलि च (८.२.७७) प्रति पूर्वसूत्रं न तु परसूत्रम्‌ | तर्हि न शास्त्रासिद्धं, न वा कार्यासिद्धम्‌ |


किन्तु वस्तुतस्तु भाष्यकारेण उच्यते यत्‌ पूर्वत्रासिद्धम्‌ (८.२.१) इत्यस्य एकविधमेव कार्यं वर्तते; द्वैविद्ध्यमिव विभजनं न करणीयम्‌ | यत्र कुत्रापि द्वयोः सूत्रयोर्मध्ये एकं सूत्रं त्रिपाद्यां, तत्र पूर्वत्रासिद्धम्‌ (८.२.१) इति सूत्रप्रसङ्गे चिन्तनीयं भवति | ‘द्विविधमेव, द्विविधमेव' इति वदामश्चेत्‌ समस्या भवति, यथा अत्र | अतः शिक्षणस्य आरम्भे सुखबोधार्थं पूर्वत्रासिद्धम्‌ (८.२.१) इत्यस्य द्वैविध्यं बोधनार्थं लाभाय इति तु अस्त्यवश्यं; किन्तु अन्ततोः गत्वा यदा द्विविधं कर्यं बुद्धं, तदा सम्पूर्णकथायाः अवगमनार्थं तच्च द्वैविध्यं त्यक्त्वा इतोऽपि विशालबोधः आपनीयः | यथा अत्र— पूर्वत्रासिद्धम्‌ इत्यनेन हलि च (८.२.७७) इत्यस्य अस्तित्वं नास्ति उत्परस्यातः (७.४.८८) इत्यस्य दृष्टया अतः उत्परस्यातः (७.४.८८), हलि च (८.२.७७) इत्यस्य कार्यं बाधितुं न शक्नोति | तदर्थं हलि च (८.२.७७) कार्यं करोति, रूपं भवति चञ्चूर्यते |


८. ग्रह्‌, व्यध्‌, वश्‌, व्यच्‌ इति चतुर्णां धातूनां यङन्तधातु-सिद्धिः


एषां चतुर्णां धातूनां सम्प्रसारणं भवति किति ङिति प्रत्यये परे |


ग्रह्‌ + यङ्‌ → ङित्‌-प्रत्यये परे सम्प्रसारणम्‌ → गृ-अ-ह्‌ + य → सम्प्रसारणाच्च (६.१.१०८) इत्यनेन ऋकार-अकारयोः पूर्वरूपादेशः → गृह्‌ + य → द्वित्वाभ्यासकार्यम्‌ → गृ गृ + ह्य → उरत्‌ (७.४.६६), उरण्‌ रपरः (१.१.५१), हलादिः शेषः (७.४.६०) → ज गृ + ह्य → रीगृदुपधस्य च (७.४.९०) इत्यनेन ऋदुपधधातोः अभ्यासस्य रीक्‌ इति आगमो भवति यङि परे → जरीगृ ह्य → जरीगृह्य इति यङन्तधातुः → जरीगृह्यते


ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च (६.१.१६) = ग्रह्‌, ज्या, वय्‌, व्यध्‌, वश्‌, व्यच्‌, व्रश्च्‌, प्रच्छ्‌, भ्रस्ज्‌, एषां सम्प्रसारणं भवति किति ङिति प्रत्यये परे |


इग्यणः सम्प्रसारणम्‌ (१.१.४५) = यणः स्थाने यः इक्‌-प्रत्याहारे स्थितवर्णः आदिष्टः, तस्य सम्प्रसारण-संज्ञा भवति | इक्‌ प्रथमान्तं, यणः षष्ठ्यन्तं, सम्प्रसारणम्‌ प्रथमान्तं, त्रिपदमिदं सूत्रम् | सूत्रं सम्पूर्णम्‌— यणः इक्‌ सम्प्रसारणम्‌ |


सम्प्रसारणाच्च (६.१.१०८) = सम्प्रसारण-संज्ञक-वर्णात्‌ अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशो भवति | सम्प्रसारणात्‌ पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | इको यणचि (६.१.७७) इत्यस्मात्‌ अचि, अमि पूर्वः (६.१.१०७) इत्यस्मात्‌ पूर्वः इत्यनयोः अनुवृत्तिः भवतः | एकः पूर्वपरयोः (६.१.८४), संहितायाम्‌ (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— सम्प्रसारणात्‌ च अचि पूर्वपरयोः एकः पूर्वः संहितायाम्‌ |


रीगृदुपधस्य च (७.४.९०) = ऋदुपधधातोः अभ्यासस्य रीक्‌ इति आगमो भवति यङि यङ्लुकि च | रीक्‌ कित्‌ अतः अभ्यासस्य अन्ते विधीयते | ऋत्‌ उपधा यस्य, सः ऋदुपधः, तस्य ऋदुपधस्य | रीक्‌ प्रथमान्तम्‌, ऋदुपधस्य षष्ठ्यन्तं, च अव्ययं, त्रिपदमिदं सूत्रम्‌ | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात्‌ अभ्यासस्य इत्यस्य अनुवृत्तिः | गुणो यङ्लुकोः (७.४.८२) इत्यस्मात्‌ यङ्लुकोः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— ऋदुपधस्य अङ्गस्य अभ्यासस्य रीक्‌ यङ्लुकोः |


एवमेव—

व्यध्‌ + यङ्‌ →

व्यच्‌ + यङ्‌ →


९. वश्‌-धातोः यङन्तधातु-सिद्धिः


वश कान्तौ इति धातुः |


वश्‌-धातुः ग्रह्यादौ अस्ति, किन्तु न वशः (६.१.२०) इति सूत्रेण तस्य सम्प्रसारणं न भवति यङ्‌-प्रत्यये परे |


वश्‌ + यङ्‌ → द्वित्वाभ्यासकार्यम्‌ → व व + श्य → दीर्घोऽकितः (७.४.८३)‌ इत्यनेन अकित्‌-अभ्यासस्य दीर्घादेशो भवति यङि परे → वा व + श्य → वावश्यते


न वशः (६.१.२०) = वश्‌-धातोः वकारस्य सम्प्रसारणं न भवति यङि परे | अनेन ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च (६.१.१६) इत्यस्य प्राप्तसम्प्रसारणं बाधितम्‌ | नाव्ययं, वशः षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | ष्यङः सम्प्रसारणम्‌ (६.१.१३) इत्यस्मात्‌ सम्प्रसारणम्‌ इत्यस्य अनुवृत्तिः | स्वपिस्यमिव्येञां यङि (६.१.१९) इत्यस्मात्‌ यङि इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— न वशः सम्प्रसारणम्‌ यङि |


दीर्घोऽकितः (७.४.८३)‌ = अकित्‌-अभ्यासस्य दीर्घादेशो भवति यङि यङ्लुकि च | न कित् यस्य स अकित्‌, तस्य | अनुवृत्ति-सहितसूत्रम्‌— अङ्गस्य अकितः अभ्यासस्य दीर्घः यङ्लुकोः |


(धेयं यत्‌ 'वय्' स्वतन्त्रः धातुः नास्ति, अपि तु लिट्‌-प्रत्यये परे वेञ्-धातोः स्थाने धात्वादेशः | अतः यङि परे इदं 'वय्' न प्राप्यते एव | अपि च ज्या-धातुः आकारान्तधातुषु उपस्थापितम्|)


१०. स्वप्‌, स्यम्‌, व्येञ्‌ इति त्रयाणां धातूनां यङन्तधातु-सिद्धिः


ञिष्वप्‌ शये, स्यमु शब्दे, व्येञ्‌ संवरणे |


स्वप्‌, स्यम्‌, व्येञ्‌ इति धातूनां सम्प्रसारणं भवति यङि परे | व्येञ्‌-धातुः आकारान्तधातुषु उपस्थापितम् |


ञिष्वप्‌ → आदिर्ञिटुडवः (१.३.५) , धात्वादेः षः सः (६.१.६३) → स्वप्‌


स्वप्‌, स्यम्‌ इति धात्वोः सम्प्रसारणं कृत्वा द्वित्वाभ्यासकार्यानन्तरं गुणो यङ्लुकोः (७.४.८२) इत्यनेन अभ्यासस्य गुणो क्रियते |


स्वप्‌ + यङ्‌ → सुप्‌ + य → सुसु + प्य → सो सु + प्य → आदेशप्रत्यययोः (८.३.५९) → सोषुप्यते |


स्यम्‌ + यङ्‌ → सिम्‌ + य → सि सि + म्य → से सि + म्य → सेसिम्यते


स्वपिस्यमिव्येञां यङि (६.१.१९) =स्वप्‌, स्यम्‌, व्येञ्‌ इत्येषां धातूनां सम्प्रसारणं भवति यङि परे | स्वपिश्च स्यमिश्च व्येञ्‌ च इत्येषामितरेतरद्वन्द्वः स्वपिस्यमिव्येञः, तेषां स्वपिस्यमिव्येञाम्‌ | स्वपिस्यमिव्येञां षष्ठ्यन्तं, यङि सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | ष्यङः सम्प्रसारणम्‌ पुत्रपत्योस्तत्पुरुषे (६.१.१३) इत्यस्मात्‌ सम्प्रसारणम्‌ इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— स्वपिस्यमिव्येञां सम्प्रसारणं यङि |


गुणो यङ्लुकोः (७.४.८२) = अभ्यासस्य गुणो भवति यङि यङ्लुकि च | यङ्‌ च लुक्‌ च यङ्लुकौ इतरेतरद्वन्द्वः, तयोः यङ्लुकोः | गुणः प्रथमान्तं, यङ्लुकोः सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात्‌ अभ्यासस्य इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अङ्गस्य अभ्यासस्य गुणः यङ्लुकोः |


०९_-_यङन्तधातवः.pdf ‎(file size: 246 KB)