09 - यङन्तधातवः
यङन्तधातवः यङ्लुगन्तधातवः च समानार्थे भवन्ति | भेदः केवलं रूपे, प्रक्रियायाञ्च | कुत्रचित् पर्यन्तं प्रक्रियासाम्यं वर्तते; ततः अग्रे महान् भेदः अपि अस्ति | अस्य पाठस्य आरम्भे यत्र साम्यम् अस्ति तत् प्रदर्श्यते; अनन्तरं प्रक्रिया भिन्ना कथमिति प्रतिपाद्यते |
पुनस्स्मरणत्वेन वक्तव्यं—यङन्तधातूनां निर्माणावसरे आर्धधातुकप्रक्रिया आश्रीयते | आर्धधातुकप्रक्रिया उच्यते यदा धातुभ्यः यः प्रत्ययः विधीयते सः आर्धधातुकसंज्ञकः | इयम् आर्धधातुकप्रक्रिया उपपद्यते त्रिषु स्थलेषु— (१) आतिदेशिकधातूनां साधनावसरे धातुभ्यः ये धातुप्रत्ययाः विधीयन्ते ते आर्धधातुकसंज्ञकाः, यथा सन्, णिच्, यङ् इति द्वादश धातुप्रत्ययाः; (२) लकाराणां तिङन्तसाधनावसरे धातुभ्यः यः विकरणप्रत्ययः (यथा लृटि 'स्य') अथवा यः तिङ्प्रत्ययः (यथा आशीर्लिङि 'यात्') विधीयते सः आर्धधातुकसंज्ञकः चेत्; (३) कृदन्तसाधनावसरे धातुभ्यः यः कृत्-प्रत्ययः विधीयते सः आर्धधातुकसंज्ञकः चेत् | अतः आहत्य आर्धधातुकप्रक्रिया घटिता आतिदेशिकधातुनिर्माणे, लकाराणां तिङन्तनिर्माणे, कृदन्तनिर्माणे च | अत्र यङन्तस्य आर्धधातुकप्रक्रिया आतिदेशिकधातुनिर्माणमेव | एकवारम् आतिदेशिकधातुः यदा सिद्धः, ततः अग्रे विशिष्टकार्यं नास्ति यतोहि सर्वे यङन्तधातवः अदन्ताः | आत्मनेपदिनश्च | यङन्तेभ्यः शप् विधीयते अतः भ्वादिगणे आत्मनेपदिधातुभ्यः रूपाणि यथा भवन्ति, तथैव अत्रापि |
यङन्त्-प्रक्रिया अनिडादिषु अन्यतमा | यङ्-प्रत्ययः वलादिः नास्ति, अतः आर्धधातुकस्येड्वलादेः (७.२.३५) इत्यस्य वशात् इडागमस्य अवसरः न भवति | प्रेरणार्थे णिच्, कर्मणि भावे यक्, परस्मैपदे आशीर्लिङ्, यङ्लुक्, यङ् च इत्येते सर्वे अनिडादयः | क्रमेण एषां पाठः जायमानः | एतावता प्रेरणार्थे णिच्, कर्मणि भावे यक्, परस्मैपदे आशीर्लिङ्, यङ्लुक् इत्येते समाप्ताः; सम्प्रति यङन्तप्रक्रिया | यङ्लुक् प्रथमं कारितं यतोहि तस्मिन् यङ्-निमित्तीकृत्य अङ्गकार्यं नास्ति | यङि अङ्गकार्यस्य बाहुल्यम् इति कारणेन अधिकं जाटिल्यम् |
यङ्-प्रत्ययः केभ्यः धातुभ्यः विधीयते, केषु च अर्थेषु
द्वादशसु धातुप्रत्ययेषु यङ्-प्रत्ययः अन्यतमः | वारं वारम् अथवा अधिकाधिकम् इत्यस्मिन् अर्थे भवति | यथा णिच् अपि च सन्, अस्य यङ्-प्रत्ययस्य धातुना संयोजनेन नूतनधातुः निर्मितः भवति | तदा यङन्तधातुः इति वदामः | यङ्-प्रत्ययस्य किञ्चन वैशिष्ट्यम् अस्ति यत् तस्य लोपः (लुक्) अपि भवितुम् अर्हति | यत्र यङः लुक् भवति तत्र यङ्लुगन्तधातुः इत्युच्यते | यङन्तानां यङ्लुगन्तानां च अर्थः समानः, परन्तु रूपं भिद्यते |
यथा—
पठ् + यङ् → 'पापठ्य' इति यङन्तधातुः |
पठ् + यङ् → पापठ्य → यङः लुक् → पापठ् इति यङ्लुगन्तधातुः |
पापठ्य इति अदन्तधातुः, पापठ् इति हलन्तधातुः; रूपं भिद्यते किन्तु अर्थः समानः | यङः लटि पापठ्यते, यङ्लुगन्तस्य लटि पापट्टि | उभयत्र वारं वारम् अथवा अधिकाधिकं पठति इत्यर्थः |
तर्हि यङ्-प्रत्ययस्य 'वारं वारम् अथवा अधिकाधिकम्' इति सामान्यः अर्थः | व्याकरणे अस्यैव अर्थस्य व्यक्तीकरणार्थं 'क्रियासमभिहारः' इति पदं भवति | पौनःपुन्यं भृशार्थश्च क्रियासमभिहारः इति | सम्प्रति द्रष्टव्यं कुत्र यङ्-प्रत्ययः अस्मिन् सामान्यार्थे भवति, कुत्र च अपरस्मिन् विशिष्टार्थे भवति |
धातोरेकाचो हलादेः क्रियासमभिहारे यङ् (३.१.२२) = वारं वारम् अथवा अतिशयार्थे हलादि-एकाच्-धातुभ्यः यङ्-प्रत्ययो भवति | पौनःपुन्ये भृशार्थे च द्योत्ये धातोरेकाचो हलादेर्यङ् स्यात् | एकोऽच् यस्मिन् स एकाच् बहुव्रीहिः, तस्मात् एकाचः | हल् आदिर्यस्य स हलादिः बहुव्रीहिः, तस्मात् हलादेः | क्रियायाः समभिहारः क्रियासमभिहारः षष्ठीतत्पुरुषः, तस्मिन् क्रियासमभिहारे | धातोः पञ्चम्यन्तम्, एकाचः पञ्चम्यन्तं, हलादेः पञ्चम्यन्तं क्रियासमभिहारे सप्तम्यन्तं, यङ् प्रथमान्तम्, अनेकपदमिदं सूत्रम् | प्रत्ययः (३.१.१), परश्च (३.१.२) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्— एकाचः हलादेः धातोः यङ् प्रत्ययः परश्च क्रियासमभिहारे |
अनेन बोधो भवति यत् यङः त्रीणि निमित्तानि— (१) विवक्षा क्रियासमभिहारे भवेत्, (२) धातुः हलादिः भवेत्, (३) धातुः एकाच् भवेत् | त्रिषु अन्यतमः नास्ति चेत् यङ् न भवति | यथा जागृ-धातुः हलादिः किन्तु अनेकाच् अतः जागृ-धातोः यङ्-प्रत्ययः न भवति; ईक्ष्-धातुः एकाच् किन्तु अजादिः अतः ईक्ष्-धातोः यङ्-प्रत्ययः न भवति | परन्तु भू-धातुः हलादिः अपि अस्ति, एकाच् अपि अस्ति, अतः भू-धातोः यङ्-प्रत्ययो भवति |
सूचिसूत्रिमूत्र्यटत्यर्त्यशूर्णोतीनां यङ् वक्तव्यम् इति वार्त्तिकेन क्रियासमभिहारार्थे सूचि, सूत्रि, मूत्रि इत्येभ्यः त्रिभ्यः अनेकाच्-धातुभ्यः च अट्, ऋ, अश्, ऊर्णु इति चतुर्भ्यः अजादिधातुभ्यः यङ्-प्रत्ययो भवति |
नित्यं कौटिल्ये गतौ (३.१.२३) = गत्यर्थकधातुभ्यः कुटिलगमनार्थे एव यङ्-प्रत्ययो भवति; क्रियासमभिहारार्थे न भवति | गतिवचनाद्धातोः कौटिल्ये गम्यमाने नित्यं यङ्-प्रत्ययो भवति | नित्यं द्वितीयान्तं क्रियाविशेषणं, कौटिल्ये सप्तम्यन्तं, गतौ सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | धातोरेकाचो हलादेः क्रियासमभिहारे यङ् (३.१.२२) इत्यस्मात् धातोः, यङ् इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— धातोः यङ् नित्यं कौटिल्ये गतौ |
अत्र प्रश्नः उदेति यत् गत्यर्थकधातवः के | प्रायः ३५० गत्यर्थकधातवः सन्ति | ये ये धातवः गमनार्थे सन्ति, ते सर्वे गत्यर्थकाः | अत्र धेयं यत् केचन गत्यर्थकधातवः अकर्मकाः, पुनः केचन सकर्मकाः | अनेन नित्यं कौटिल्ये गतौ (३.१.२३) इति सूत्रेण एते सर्वे गत्यर्थकधातवः अन्तर्भूताः | अपरस्मिन् प्रसङ्गे गत्यर्थाकर्मकश्लिषशीङ्स्थाऽऽसवसजनरुहजीर्यतिभ्यश्च (३.४.७२) इत्यनेन गत्यर्थ-अकर्मक-श्लिष-शीङ्-स्था-आस-वस-जन-रुह-जीर्यतिभ्यः धातुभ्यः क्त-प्रत्ययः कर्त्रर्थे अपि विधीयते | अत्र गत्यर्थकधातवः च अकर्मकधातवः च पृथक् उक्ताः इत्यस्मात् गत्यर्थे सकर्मकधातूनामेव ग्रहणम् | अनेन सकर्मकगत्यर्थकधातुभ्यः कर्त्रर्थे क्त-प्रत्ययो भवति | बालकः ग्रामं गतः | अत्र भ्वादौ धावु गतिशुद्धयोः इति अकर्मक-धाव्-धातोः अकर्मकत्वात् एव कर्त्रर्थे क्त-प्रत्ययो भवति | किन्तु प्रकृते, नित्यं कौटिल्ये गतौ (३.१.२३) इति सूत्रे सर्वेषां गत्यर्थकधातूनां ग्रहणम् |
लुपसदचरजपजभदहदशगॄभ्यो भावगर्हायाम् (३.१.२४) = लुप्, सद्, चर्, जप्, जभ्, दह्, दश्, गॄ, इति धातुभ्यः क्रियायाः भावगर्हाऽर्थे एव यङ्-प्रत्ययो भवति; अपरेषु अर्थेषु न भवति | भावशब्देन क्रिया-सङ्केतः; क्रियायाः निन्दा अर्थात् असमीचीनरीत्या क्रिया सम्पन्ना इत्यस्मिन् अर्थे 'भावगर्हा' उपयुज्यते | लुपश्च सदश्च चरश्च जपश्च जभश्च दहश्च दशश्च गॄ च तेषामितरेतरद्वन्द्वः लुपसदचरजपजभदहदशगरः, तेभ्यः लुपसदचरजपजभदहदशगॄभ्यः | भावस्य गर्हा भावगर्हा, तस्यां भावगर्हायाम् | लुपसदचरजपजभदहदशगॄभ्यः पञ्चम्यन्तं, भावगर्हायाम् सप्तम्यन्तं, द्विपदमिदं सूत्रम् | नित्यं कौटिल्ये गतौ (३.१.२३) इत्यस्मात् एवकारार्थकं नित्यम् इत्यस्य अनुवृत्तिः | धातोरेकाचो हलादेः क्रियासमभिहारे यङ् (३.१.२२) इत्यस्मात् यङ् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— लुपसदचरजपजभदहदशगॄभ्यो यङ्, नित्यं भावगर्हायाम् |
चर् + यङ् → चञ्चूर्य इति यङन्तधातोः अर्थः निन्दितरूपेण चलनम् | गर्हितं चरति चञ्चूर्यते | गर्हितं लुम्पति लोलुप्यते |
तर्हि यङ्-प्रत्ययः कुत्र कुत्र भवति इति चेत्, चतुर्णां सूत्राणां वार्त्तिकानाञ्च मिलित्वा अर्थः एवम्—
१) अजादिधातुषु अट्, ॠ, अश्, ऊर्णु इत्येभ्यः एव यङ् भवति | अवशिष्टेभ्यः अजादिधातुभ्यः यङ् न भवति |
२) हलादिधातवः द्विविधाः— अनेकाचः एकाचः च |
- अनेकाच्-धातुषु केवलं सूचि, सूत्रि, मूत्रि इत्येभ्यः त्रिभ्यः यङ् भवति | अवशिष्टेभ्यः हलादि-अनेकाच्-धातुभ्यः यङ् न भवति | सर्वे णिजन्ताः सनन्ताः च धावतः अनेकाचः अतः तेभ्यः यङ् न भवति | चुरादिगणे यावन्तः धातवः ते सर्वे अनेकाचः अतः तेभ्यः अपि यङ् न भवति | दीधी, वेवी, दरोद्रा, जागृ, चकास् इत्यादिभ्यः अपि यङ् न भवति |
- पठ्, वद्, मुद्, बुध् इत्यादिभ्यः सर्वेभ्यः एकाच्-हलादिधातुभ्यः यङ्-प्रत्ययो भवति |
यङन्तस्य धातुसंज्ञा
धातुभ्यः यदा हि यङ्-प्रत्ययः विधीयते, तदा हि धातुसंज्ञा भवति |
सनाद्यन्ता धातवः (३.१.३२) = गुप्तिज्किद्भ्यः सन् (३.१.५) इत्यस्य सन् इत्यारभ्य कमेर्णिङ् (३.१.३०) इत्यस्य णिङ् इत्यन्तं द्वादश प्रत्ययाः येषाम् अन्ते भवन्ति, तेषां धातु-संज्ञा स्यात् | द्वादश प्रत्ययाः एते— सन्, क्यच्, काम्यच्, क्यष्, क्यङ्, क्विप्, णिङ्, ईयङ्, णिच्, यक्, आय, यङ् | सन् आदौ येषां ते सनादयः; सनादयः अन्ते येषां ते सनाद्यन्ताः | सनाद्यन्ताः प्रथमान्तं, धातवः प्रथमान्तं, द्विपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— सनाद्यन्ताः धातवः |
एकवारं यदा धातुसंज्ञा सिद्धा, तदा तस्मात् धातोः कस्यापि लकारस्य तिङ्प्रत्ययः अथवा कोऽपि कृत्-प्रत्ययः संयोजयितुं शक्यते यया रीत्या अन्येभ्यः धातुभ्यः प्रत्ययाः विधीयन्ते | किन्तु धेयं यत् अनुदात्तेत् ङित् च धातुभ्यः केवलम् आत्मनेपदप्रत्ययाः विधीयन्ते—
अनुदात्तङित आत्मनेपदम् (१.३.१२) = यस्य धातोः अनुदात्तस्वरस्य ङकारस्य च इत्-संज्ञा भवति, सः धातुः आत्मनेपदी | अनुदात्तश्च ङ् च अनुदात्तङौ, तौ इतौ यस्य सः अनुदात्तङित् द्वन्द्वगर्भ-बहुव्रीहिः, तस्मात् अनुदात्तङितः | अनुदात्तङितः पञ्चम्यन्तम्, आत्मनेपदं प्रथमान्तम्, द्विपदमिदं सूत्रम् | भूवादयो धातवः (१.३.१) इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः | टीकाकाराः सूचयन्ति यत् लस्य इति पदम् आयाति आक्षेपेण यतोहि तस्य अर्थः निहितः आत्मनेपदम् इत्यस्मिन् | अनुवृत्ति-सहितसूत्रम्— अनुदात्तङितः धातोः लस्य आत्मनेपदम् |
यङ्-प्रत्ययः ङित् अतः सर्वे यङन्तधातवः आत्मनेपदिनः | सर्वे यङन्तधातवः च अदन्ताः अतः प्रथमगणसमूहस्य तिङ्प्रत्ययाः विधीयन्ते; तस्मात् च तिङ्प्रत्ययसंयोजनं सुलभम् | अस्माकं प्रमुखकार्यम् अत्र धातोः साधनम् | यङन्तधातुसाधनमेव आर्धधातुकप्रक्रियान्तर्गतम् | ततः अग्रे लटि, लोटि, लङि, विधिलिङि च तिङन्तनिर्माणं सार्वधातुकप्रक्रियानुसारि |
आत्मनेपदिधातूनाम् अदन्ताङ्गानां सिद्ध-तिङ्प्रत्ययाः
लटि सिद्ध-प्रत्ययाः—
ते | इते | अन्ते |
से | इथे | ध्वे |
ए | वहे | महे |
लोटि सिद्ध-प्रत्ययाः—
ताम् | इताम् | अन्ताम् |
स्व | इथाम् | ध्वम् |
ऐ | आवहै | आमहै |
लङि सिद्ध-प्रत्ययाः—
त | इताम् | अन्त |
थाः | इथाम् | ध्वम् |
इ | वहि | महि |
विधिलिङि सिद्ध-प्रत्ययाः—
ईत | ईयाताम् | ईरन् |
ईथाः | ईयाथाम् | ईध्वम् |
ईय | ईवहि | ईमहि |
अत्र प्रश्नः उदेति यत् यङन्तधातुः अभ्यस्तसंज्ञकः अतः किमर्थं न अदभ्यस्तात् (७.१.४) इत्यनेन झ-स्थाने अत्-आदेशः (न तु झोऽन्तः (७.१.३) इत्यनेन झ-स्थाने अन्त्-आदेशः) ? उत्तरम् अस्ति यत् ('देदीय + शप् + ते →) 'देदीय + ते' इति स्थले देदीय इति धातोः उभे अभ्यस्तम् (६.१.५) इत्यनेन द्वित्वानन्तरं द्वयोः समुदायः अभ्यस्तसंज्ञकः अवश्यं किन्तु ते-प्रत्ययम् अधिकृत्य अङ्गम् अभ्यस्तसंज्ञकं नास्ति | अङ्गस्य अन्ते शप् अस्ति; शबन्तस्य अङ्गस्य यया रीत्या धातुसंज्ञा नास्ति, तया एव रीत्या अभ्यस्तसंज्ञा अपि नास्ति | अपि च अदभ्यस्तात् (७.१.४) इति सूत्रे पञ्चमीविभक्तिः अस्ति | पञ्चमी इति कारणतः तस्मादित्युत्तरस्य (१.१.६७) इत्यनेन साक्षात् अनन्तरं कार्यं भवेत् | अभ्यस्तसंज्ञकात् अङ्गात् शप् अस्ति न तु 'झ' | अतः अदभ्यस्तात् (७.१.४) इत्यस्य प्रसक्तिर्नास्त्येव | तर्हि किमर्थं न आत्मनेपदेष्वनतः (७.१.५) इत्यनेन झ-स्थाने अत्-आदेशः ? आत्मनेपदेष्वनतः (७.१.५) वक्ति यत् अनदन्ताङ्गात् आत्मनेपदसंज्ञकप्रत्ययस्य झकारस्य अत्-आदेशः; यङन्तधातुः आत्मनेपदी इति तु अस्ति, किन्तु शबन्तम् अङ्गम् अनदन्तं न अपि तु अदन्तमेव | अदन्तम् इति कृत्वा आत्मनेपदेष्वनतः (७.१.५) इत्यस्य प्रसक्तिर्नास्ति | अतः अन्ततो गत्वा झोऽन्तः (७.१.३) इत्यनेन झकारस्य स्थाने अन्त्-आदेशः | तदर्थं लटि 'अन्ते', लोटि 'अन्ताम्', लङि 'अन्त' इति भवति |
उपरितनाः सर्वे तिङ्प्रत्ययाः सार्वधातुकसंज्ञकाः कर्त्रर्थकाश्च | अस्यां दशायां धातुभ्यः शप्-प्रत्ययः विधीयते |
कर्तरि शप् (३.१.६८) = धातुतः शप्-प्रत्ययः भवति, कर्त्रर्थक-सार्वधातुकप्रत्यये परे | कर्तरि सप्तम्यन्तं, शप् प्रथमान्तं, द्विपदमिदं सूत्रम् | सार्वधातुके यक् (३.१.६७) इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः | प्रत्ययः (३.१.१), परश्च (३.१.२) इत्यनयोः अधिकारः | धातोरेकाचो हलादेः क्रियासमभिहारे यङ् (३.१.२२) इत्यस्मात् धातोः इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— धातोः शप् प्रत्ययः परश्च कर्तरि सार्वधातुके |
यथा—
डुदाञ् दाने → देदीय इति यङन्तधातुः |
देदीय + ते → कर्तरि शप् (३.१.६८) इत्यनेन धातुतः शप्-प्रत्ययः भवति, कर्त्रर्थक-सार्वधातुकप्रत्यये परे → देदीय + शप् + ते → देदीय + अ + ते → अतो गुणे (६.१.९७) इत्यनेन पूर्वपरयोः स्थाने एकः पररूपमेकादेशः→ देदीय + ते → देदीयते
अतो गुणे (६.१.९७) = अपदान्तात् अतः गुणे परे पूर्वपरयोः स्थाने एकः पररूपमेकादेशः स्यात् | गुणः इत्युक्तौ अ, ए, ओ | इदं सूत्रं वृद्धिरेचि (६.१.८८), अकः सवर्णे दीर्घः (६.१.१०१) इत्यनयोः अपवादसूत्रम् | अतः पञ्चम्यन्तं, गुणे सप्तम्यन्तं, द्विपदमिदं सूत्रम् | उस्यपदान्तात् (६.१.९६) इत्यस्मात् अपदान्तात् अपि च एङि पररूपम् (६.१.९४) इत्यस्मात् पररूपम् इत्यनयोः अनुवृत्तिः | एकः पूर्वपरयोः (६.१.८४), संहितायाम् (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्— अपदान्तात् अतः गुणे पूर्वपरयोः एकः पररूपं संहितायाम् |
अदेङ्गुणः (१.१.२) = ह्रस्व-अकारः, एकारः, ओकारः (एङ्) एषां वर्णानां गुणसंज्ञा स्यात् | अत् एङ् च गुणसंज्ञः स्यात् इति | अत् च एङ् च अदेङ् | अदेङ् प्रथमान्तं, गुणः प्रथमान्तं, द्विपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— अत् एङ् गुणः |
यतः लटि, लोटि, यङि, विधिलिङि च सर्वेषां यङन्तधातूनां तिङन्तरूपाणि समानरीत्या भवन्ति, तदर्थम् एकवारम् अत्र प्रदर्श्यते | अग्रे अस्मिन् पाठे यङन्तधातवः एव सेत्स्यन्ते; चतुर्षु लकारेषु तिङन्तरूपाणि कीदृशानि इति ऊहा सुलभा | सर्वत्र तानि च एतादृशानि—
लटि—
देदीयते | देदीयेते | देदीयन्ते |
देदीयसे | देदीयेथे | देदीयध्वे |
देदीये | देदीयावहे | देदीयामहे |
लोटि—
देदीयताम् | देदीयेताम् | देदीयन्ताम् |
देदीयस्व | देदीयेथाम् | देदीयध्वम् |
देदीयै | देदीयावहै | देदीयामहै |
लङि—
अदेदीयत | अदेदीयेताम् | अदेदीयन्त |
अदेदीयथाः | अदेदीयेथाम् | अदेदीयध्वम् |
अदेदीये | अदेदीयावहि | अदेदीयामहि |
विधिलिङि—
देदीयेत | देदीयेयाताम् | देदीयेरन् |
देदीयेथाः | देदीयेयाथाम् | देदीयेध्वम् |
देदीयेय | देदीयेवहि | देदीयेमहि |
तर्हि लटि, लोटि, लङि, विधिलिङि च सर्वेषां यङन्तधातूनां तिङन्तरूपाणि एतादृशानि | अपरेषु षट्सु लकारेषु तत्तत्पाठे द्रष्टव्यम् | प्रत्येकस्मिन् पाठे तस्य लकारस्य यङन्तरूपं कथं सिध्यति इति प्रदर्श्यते |
यङन्त-प्रक्रिया
१) सर्वप्रथमं यङ् विधीयते;
२) तदा सनाद्यन्ता धातवः (३.१.३२) इत्यनेन धातु-संज्ञा;
३) यङ्-प्रत्ययं निमित्तीकृत्य यत्किमपि अङ्गकार्यं प्रसक्तं (यथा सम्प्रसारणं, नलोपः इत्यादिकं) तत्सर्वम् अधुना कर्तव्यम्;
४) द्वित्वम् अभ्यासकार्यञ्च |
द्वित्वम्—
सन्यङोः (६.१.९) = सन्नन्तस्य यङन्तस्य च धातुरनभ्यासस्य प्रथमस्यैकाच्-अवयवस्य द्वे स्तः; अजादेस्तु द्वितीयस्य | सन् च यङ् च तयोरितरेतरद्वन्द्वः सन्यङौ, तयोः सन्यङोः | सन्यङोः षष्ठ्यन्तम्, एकपदमिदं सूत्रम् | लिटि धातोरनभ्यासस्य (६.१.८) इत्यस्मात् धातोः, अनभ्यासस्य इत्यनयोः अनुवृत्तिः | एकाचो द्वे प्रथमस्य (६.१.१), अजादेर्द्वितीयस्य (६.१.२) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्— सन्यङोः धातोः अनभ्यासस्य एकाचो द्वे प्रथमस्य अजादेः द्वितीयस्य |
एकाचो द्वे प्रथमस्य (६.१.१) = अधिकारसूत्रं— प्रथमस्य एकाच्-भागस्य द्वित्वं भवति | जागृ → जा जागृ | पच् → पच् पच् | इ → इ इ | षष्ठाध्यायस्य प्रदमपादस्य द्वादशं सूत्रं (६.१.१२) पर्यन्तं सर्वत्र अनुवर्तते | एकाचः षष्ठ्यन्तं, द्वे प्रथमान्तं, प्रथमस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— प्रथमस्य एकाचः द्वे |
अजादेर्द्वितीयस्य (६.१.२) | अधिकारसूत्रम्— अजादिधातोः द्वितीयस्य एकाच्-भागस्य द्वित्वं भवति | ऊर्णु → ऊर्णु नु | षष्ठाध्यायस्य प्रदमपादस्य द्वादशं सूत्रं (६.१.१२) पर्यन्तं सर्वत्र अनुवर्तते | अजादेः षष्ठ्यन्तं, द्वितीयस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— अजादेः द्वितीयस्य (एकाचः द्वे) |
बहुत्र धातुः एकाच् एव; तथा भवति चेत् समग्रधातोरेव द्वित्वं भवति | यथा जुहोत्यादिगणे मा → मामा, हा → हाहा | यङन्तधातुः सदा अनेकाच् यतोहि औपदेशिकधातौ न्यूनातिन्यूनम् एकः स्वरः अस्त्येव; तदा 'य' इत्यस्य संयोजनेन ‘य' इत्यस्मिन् यः अकारः, सः यङन्तधातोः द्वितीयः अच्-वर्णो भवति | धातुः अनेकाच् चेत्, अपि च हलादिः इति चेत् एकाचो द्वे प्रथमस्य (६.१.१) इत्यनेन प्रथमस्य एकाच्-भागस्य द्वित्वं भवति | धातुः अनेकाच् चेत्, अपि च अजादिः इति चेत् अजादेर्द्वितीयस्य (६.१.२) इत्यनेन द्वितीयस्य एकाच्-भागस्य द्वित्वं भवति | एकाच्-भागः इत्युक्ते यदा हि प्रथमः अच्-वर्णः आयाति, स च वर्णः भागस्य अन्तो भवति | नाम, स्वरवर्णः भागस्य अन्तिमवर्णो भवति | अग्रिमवर्णः अग्रिमभागस्य प्रथमवर्णः |
यथा भू + य → भूय इत्यस्य सनाद्यन्ता धातवः (३.१.३२) इत्यनेन धातुसंज्ञा → सन्यङोः (६.१.९) इत्यनेन द्वित्वम् → भूय इति धातुः अनेकाच्, हलादिः च अतः प्रथमस्य एकाच्-भागस्य द्वित्वम् → ऊ-कारः स्वरः अतः स च ऊकारः प्रथमभागस्य अन्तिमवर्ग्णः → 'भू' इति प्रथमभागः, तस्य च द्वित्वम् → भू भू य
किन्तु धातुः अजादिः अस्ति चेत् अजादेर्द्वितीयस्य (६.१.२) इत्यनेन द्वितीयस्य एकाच्-भागस्य द्वित्वं भवति—
अश् य → अश्य इत्यस्य सनाद्यन्ता धातवः (३.१.३२) इत्यनेन धातुसंज्ञा → सन्यङोः (६.१.९) इत्यनेन अजादेः द्वितीयस्य द्वित्वम् → अश्य इति धातौ अश्य इत्यस्य प्रथमः अ-कारः स्वरः अतः स च अकारः प्रथमभागस्य अन्तिमवर्ग्णः → 'श्य' इति द्वितीयभागः, तस्य च द्वित्वम् → अ श्य श्य
धेयं यत् 'यङ्-प्रत्ययं निमित्तीकृत्य द्वित्वम्' इति वार्ता नास्ति | 'अश् य → अश्य → अ श्य श्य' इत्यस्य दर्शनेन स्पष्टं भवति यत् यङ्-प्रत्ययः द्वित्वकार्यस्य निमित्तं नास्ति; 'य' एव स्थानी, नाम स च 'य' कार्यस्य स्थलम् | अपरेषु द्वित्वप्रसङ्गेषु प्रत्ययः सप्तमीविभक्तौ भवति— लिटि धातोरनभ्यासस्य (६.१.८), श्लौ (६.१.१०), चङि (६.१.११) | एषु लिटि, श्लौ, चङि इति सप्तम्यन्तानि; किन्तु सन्यङोः (६.१.९) इत्यस्मिन् सन्यङोः इति षष्ठ्यन्तं पदम् | यतोहि तस्य एव द्वित्वं भवति | यस्य अन्ते यङ् अस्ति, तस्य द्वित्वं भवति | यङ् तस्मिन् द्वित्वकार्ये अन्तर्भूतमेव |
अस्य च सिद्धान्तस्य फलम् अजादिधातुप्रसङ्गे | सन्यङोः (६.१.९) इत्यस्मिन् सन्यङोः यदि सप्तम्यन्तं स्यात्, नाम द्वित्वस्य निमित्तं स्यात्, तर्हि अश् + य → अश् + अश् + य इति दोषपूर्णरूपं सेत्स्यति | आहत्य वामतः एकाच्-भागः अच्-वर्णेन समाप्यते; फलं तु अजादिधातुप्रसङ्गे; हलादिधातूनां कृते यथाकथमपि करोति चेत् दोषो न भवति, किन्तु सङ्गति-कृते, सामञ्जस्य-कृते सर्वत्र समानरीत्या क्रियते चेत् वरम् | इति कृत्वा अग्रे शीङ्- धातोः शय् + य इति प्रसङ्गे 'श श य्य' इत्येव सम्यक् | एवञ्च सर्वत्र समानरीत्या क्रियते चेत् सारल्यम्, एतदेव मातॄणां मतम् |
न न्द्राः संयोगादयः (६.१.३) = अचः पराः संयोगादयः नदराः द्विर्न भवन्ति | न् च द् च रश्च तेषामितरेतरद्वन्द्वो न्द्राः | संयोगस्य आदयः, संयोगादयः षष्ठीतत्पुरुषः | न अव्ययपदं, न्द्राः प्रथमान्तं, संयोगादयः प्रथमान्तं, त्रिपदमिदं सूत्रम् | अजादेर्द्वितीयस्य (६.१.२) इत्यस्मात् अजादेः इत्यस्य अनुवृत्तिः | अच् चासौ आदिश्च अजादिः, तस्मात् अजादेः कर्मधारयः | एकाचो द्वे प्रथमस्य (६.१.१) इत्यस्मात् द्वे इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— अजादेः संयोगादयः न्द्राः न द्वे |
यथा—
ऊर्णु → ऊ इति प्रथमः एकाच्-भागः, र्णु इति द्वितीयः एकाच्-भागः → अजादेर्द्वितीयस्य (६.१.२) इत्यनेन द्वितीयस्य एकाच्-भागस्य द्वित्वम् → न न्द्राः संयोगादयः (६.१.३) इत्यनेन संयोगादि-रेफस्य द्वित्वं न भवति अतः 'नु' इत्यस्य एव द्वित्वम् → ऊर्णु नु
उन्द् + सन् → इडागमः, षत्वादेशः → उन्दिष → त्रयः एकाच्-भागाः उ, न्दि, ष → अजादेर्द्वितीयस्य (६.१.२) इत्यनेन द्वितीयस्य एकाच्-भागस्य द्वित्वम् → 'न्दि' इति द्वितीयः एकाच्-भागः → न न्द्राः संयोगादयः (६.१.३) इत्यनेन संयोगादि-नकारस्य द्वित्वं न भवति अतः 'दि' इत्यस्य एव द्वित्वम् → प्रथमः तृतीयः च एकाच्-भागौ यथावत् तिष्ठतः → उन्दि + दि + ष → उन्दिदिष
अभ्यासः अभ्यस्तम् इति द्वे संज्ञे—
पूर्वोऽभ्यासः (६.१.४) = द्वित्वानन्तरं, यस्मिन् द्विवारम् उच्चारणं जातं तस्मिन् प्रथमभागस्य नाम अभ्यासः | पूर्वः प्रथमान्तम्, अभ्यासः प्रथमान्तं, द्विपदमिदं सूत्रम् | एकाचो द्वे प्रथमस्य (६.१.१) इत्यस्मात् द्वे इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— पूर्वः अभ्यासः द्वयोः |
यथा भू + य → भू भू य | यस्मिन् द्विवारम् उच्चारणं जातं तस्मिन् प्रथमभागस्य नाम अभ्यासः | अत्र 'भू भू' इत्यस्मिन् द्विवारम् उच्चारणं जातम् अतः तस्मिन् प्रथमभागस्य नाम अभ्यासः—प्रथमः 'भू' इति भागः अभ्याससंज्ञकः |
उभे अभ्यस्तम् (६.१.५) = द्वित्वानन्तरं, द्वयोः समुदायः अभ्यस्तसंज्ञको भवति | उभे प्रथमान्तम्, अभ्यस्तं प्रथमान्तं, द्विपदमिदं सूत्रम् | एकाचो द्वे प्रथमस्य (६.१.१) इत्यस्मात् द्वे इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्—उभे द्वे अभ्यस्तम् |
यथा भू + य → भू भू य | द्वित्वानन्तरं, द्वयोः समुदायः अभ्यस्तसंज्ञको भवति | अत्र 'भू' इत्यस्य द्वित्वं कृतं; द्वयोः 'भू'-भागयोः समुदायः 'भू भू' अतः 'भू भू' इत्यस्य एव अभ्यस्तसंज्ञा न तु 'भू भू य' इत्यस्य | तथैव सर्वत्र | यस्य द्विवारम् उच्चारणं जातं, तस्य द्वित्वकृतसमुदायः एव अभ्यस्तसंज्ञकः |
द्वित्वसम्बद्धम् इतोऽपि किञ्चित् चिन्तनम्
उपर्युक्तं यत् धातुः एकाच् अस्ति चेत्, द्वित्वावसरे सम्पूर्णधातुः स्वीकरणीयः | यथा यङ्लुकि पठ् → पठ् पठ् | अत्र भाष्यकारः चिन्तनं कुर्वन् निदर्शनं दत्वा वदति यत् जुहोत्यादिगणीयः णिजिर्-धातोः द्वित्वं कथम् ? अनुबन्धरहितत्वात् निज् भवति | औपदेशिक-निज्-धातोः सार्वधातुकप्रक्रियावसरे (लटि, लोटि, लङि, विधिलिङि, शतरि) द्वित्वं क्रियते | एकाच् बहुव्रीहिसमासः, एकः अच् यस्मिन् सः | तर्हि निज्-धातोः विषये, केन एकाच् जातः इति प्रश्ने सति, इकारेण | तदर्थं चतस्रः सम्भावनाः सन्ति—नि, निज्, इ, इज् | ततः अग्रे उच्यते यत् 'इ' अथवा 'इज्' इत्यनयोः द्वित्वार्थं स्वीकारः भवति चेत्, इष्टं सार्वधातुकम् अङ्गं 'नेनिज्' न सिध्यति | परन्तु 'नि' अथवा 'निज्' द्वित्वार्थं स्वीक्रियते चेत् उभयत्र इष्टं सार्वधातुकम् अङ्गं जायते | नि नि ज् → नेनिज्; निज् निज् → नेनिज् | तर्हि अनयोः (‘नि' अथवा 'निज्' इत्यनयोः) मध्ये कस्य द्वित्वं स्यात् ?
अत्र भाष्यकारः प्रतिपादयति यत् 'नि' स्वीक्रियते चेत्, अभ्यस्तम् अस्ति 'निनि' | सार्वधातुकम् अङ्गम् अस्ति नेनिज्, किन्तु अभ्यस्तम् अस्ति 'निनि' | अत्र त्रिषु प्रधनस्थलेषु समस्या जायते |
१) अदभ्यस्तात् (७.१.४) इति सूत्रेण लटि लोटि च प्रथमपुरुषस्य बहुवचने झ्-स्थाने अत् आदेशः, अतः लटि झि → अति न तु अन्ति; लोटि झि → अतु न तु अन्तु |
अदभ्यस्तात् (७.१.४) = अभ्यस्तसंज्ञक-धातूत्तरस्य प्रत्ययस्य आदिमावयवस्य झकारस्य स्थाने अत्-आदेशो भवति | अत् प्रथमान्तम्, अभ्यस्तात् पञ्चम्यन्तं, द्विपदमिदं सूत्रम् | झोऽन्तः (७.१.३) इत्यस्मात् झः (षष्ठ्यन्तम्) इत्यस्य अनुवृत्तिः | आयनेयीनीयियः फढखछगां प्रत्ययादीनाम् (७.१.२) इत्यस्मात्, वचनपरिणामं कृत्वा प्रत्ययादेः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— अभ्यस्तात् अङ्गात् प्रत्ययादेः झः अत् |
परन्तु 'निनि' अभ्यस्तम् अस्ति चेत्, ‘निनि' च झि-प्रत्ययः चेत्यनयोः मध्ये जकारः वर्तते, तदर्थम् अत्-आदेशः न भविष्यति |
२) लङि अभ्यस्तसंज्ञकधातोः परस्य झि-स्थाने जुस्-आदेशः | जुस् इत्यस्य अनुबन्धलोपे, रुत्वविसर्गौ, उः इति भवति | तर्हि अभ्यस्तसंज्ञकः धातुः अस्ति चेत्, लङि अन्-स्थाने उः इति प्रत्ययः भवति |
सिजभ्यस्तविदिभ्यश्च (३.४.१०९) = ङित्-लकारस्य अवस्थायां, सिच्-प्रत्ययात्, अभ्यस्तसंज्ञकात् धातोः, विद्-धातोः च, परस्य झि-प्रत्ययस्य स्थाने जुस्-आदेशो भवति | सिच् च अभ्यस्तश्च विदिश्च तेषामितरेतरद्वन्द्वः सिजभ्यस्तविदयः, तेभ्यः सिजभ्यस्तविदिभ्यः | सिजभ्यस्तविदिभ्यः पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | नित्यं ङितः (३.४.९९) इत्यस्मात् ङितः इत्यस्य अनुवृत्तिः | झेर्जुस् (३.४.१०८) इत्यस्मात् झेः जुस् इत्यनयोः अनुवृत्तिः | लस्य (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— सिजभ्यस्तविदिभ्यः च ङितः लस्य झेः जुस् |
परन्तु 'निनि' अभ्यस्तम् अस्ति चेत्, ‘निनि' च झि-प्रत्ययः चेत्यनयोः मध्ये जकारः वर्तते, तदर्थं जुस्-आदेशः न भविष्यति |
३) शतृ-प्रत्यये परे अभ्यस्तसंज्ञक-अङ्गात् विहितस्य शतृ-प्रत्ययस्य नुमागमः निषिद्धः भवति नाभ्यस्ताच्छतुः (७.१.७८) इत्यनेन |
नाभ्यस्ताच्छतुः (७.१.७८) = अभ्यस्तादङ्गादुत्तरस्य शतुः नुम् न भवति | ददत्, ददतौ, ददतः | जाग्रत्, जाग्रतौ, जाग्रतः |
परन्तु 'निनि' अभ्यस्तम् अस्ति चेत्, ‘निनि' च अत्-प्रत्ययः चेत्यनयोः मध्ये जकारः वर्तते, तदर्थं नुम्-आगमनिषेधः न भविष्यति |
अतः भाष्यकारः वदति यत् आहत्य श्लौ, लिटि, चङि च यत्र एकाच्-धातुः अस्ति, तत्र सदा सम्पूर्णधातोः द्वित्वं करणीयम् | एषु स्थलेषु (श्लौ, लिटि, चङि) यत्र औपदेशिकधातुः अनेकाच् अस्ति, तत्र तैः उक्तं यथा उपरि प्रदर्शितम् | नाम हलादिधातुः अस्ति चेत्, प्रथमस्य एकाच्-भागस्य द्वित्वम् अपि च अजादिधातुः अस्ति चेत् द्वितीयस्य एकाच्-भागस्य द्वित्वं करणीयम् | तत्र प्रथमः एकाच्-भागः समाप्यते वामतः प्रथमे अच्-वर्णे | यथा जागृ → जा जा गृ | ऊर्णु → ऊर्णु नु |
अधुना यङि सनि च धातुः सदा अनेकाच् | स च धातुः औपदेशिकः न अपि तु आतिदेशिकः | एषु स्थलेषु भाष्यकारैः साक्षात् नोक्तं कथं करणीयम् | अतः सिद्धान्ततः चिन्तनं करणीयम् |
अत्र द्वित्वप्रक्रियायां द्वौ सिद्धान्तौ प्रासङ्गिकौ | सिद्धान्तद्वयमपि महाभाष्ये प्रतिपादितं; इमौ द्वौ सामान्यव्याकरणशास्त्रसिद्धान्तौ न तु विशेषतः द्वित्वार्थं दत्तौ । परन्तु द्वावपि द्वित्वप्रक्रियायां प्रासङ्गिकौ, नाम द्वित्वविषये प्रयोज्यौ भवितुम् अर्हतः ।
एकः अस्ति—'अज्झीनं व्यञ्जनं परेण संयोज्यम्' इति महाभाष्यवचनम् | यथा 'ग्रामाद् आगच्छति' | अत्र दकारः अच्-हीनः हल्-वर्णः अतः तस्मात् परः यः आकारः तद्युक्तः भवेत्, उच्चारणदृष्ट्या च लेखनदृष्ट्या च | ग्रामादागच्छति इति | तदर्थम् अनेकवारं श्लोकानां लेखनावसरे, पङ्क्त्यन्ते शब्दस्य अन्तिमवर्णः हल्वर्णः चेत्,स च हल्वर्णः लिख्यते अग्रिमपङ्क्तेः आदौ, प्रथमशब्दस्य आदिमवर्णेन सह, सन्धिं वा सम्मेलनं कृत्वा |
यथा—
य एकोऽवर्णो बहुधा शक्तियोगा-
द्वर्णाननेकान्निहितार्थो दधाति |
वि चैति चान्ते विश्वमादौ स देवः
स नो बुद्ध्या शुभया संयुनक्तु || श्वेताश्वतरोपनिषद् ४.१
उपरितने श्लोके पश्यामः यत् यद्यपि 'योगाद्' इति एकं पदम् अस्ति तथापि यतोहि अन्तिमदकारः अच्-हीनः, अतः स च दकारः अग्रिमे पङ्क्तौ स्थापितः अग्रिमपदस्थवकारेण सह मेलनं कृत्वा |
इमं सिद्धान्तम् अनुसृत्य पठ् + य इति अवसरे 'प प ठ्य' इति रीत्या द्वित्वं भवति | अभ्यासः 'प', अभ्यस्तं 'प प' | अट् + य इति स्थले 'अ ट्य ट्य' इति रीत्या द्वित्वम् | अभ्यासः 'ट्य', अभ्यस्तं 'ट्य ट्य' |
द्वितीयः सिद्धान्तः एवम् अस्ति—भाष्यकारः प्रतिपादयति यत् उपदिष्टरूपैः मनसि बुद्धिः जायते | प्रक्रियायां क्रमेण अग्रे गमनेन यदा कदाचित् परिचितरूपं प्रविष्टं भवति—धातुः वा भवतु, प्रत्ययो वा भवतु, आदेशो वा भवतु, तदा नूतनबुद्धिः मनसि उत्पन्ना भवति | तस्य बुद्धेः महत्त्वम् अस्ति; यावच्छक्यं बुद्धिम् अनुसृत्य प्रक्रिया साधनीया | यथा पठ् + य इति स्थले पठ् इति बुद्धिः अस्ति; स च 'पठ'-धातुः अर्थवान् | अतः यावत् शक्यं तस्य विभागः न करणीयः | बुद्धिसिद्धान्तम् अनुसृत्य पठ् य → 'पठ् पठ् य' इति द्वित्वं कार्यं न तु 'प प ठ्य्' | किमर्थम् इति चेत्, ‘प' इति भागः बुद्धिः नास्ति, अर्थवान् नास्ति | अत्र प्रश्नः उदेति यत् तथा अस्ति चेत् बुद्धिम् अनुसृत्य अट् य → 'अट् य य' इति रीत्या द्वित्वं करणीयं न तु 'अ ट्य ट्य' | तर्हि किमर्थम् 'अट् य य' इति रीत्या द्वित्वं न करणीयम् ? यतोहि तथा क्रियते चेत्, इष्टं रूपं न सिध्यति | अतः बुद्धिम् अनुसृत्य कुर्मः चेत् कुत्रचित् नियमस्य पालनं कर्तुं शक्नुमः कुत्रचित् कर्तुं न शक्नुमः | तथापि विष्णुकान्थः पाण्डेयः नाम्ना जयपुर-विश्वविद्यालयस्य व्याकरणविभागे अध्यापकः वक्ति यत् अनेन नियमेन द्वित्वं करणीयम् |
केचन वैयाकरणाः वदन्ति यत् 'अज्झीनं व्यञ्जनं परेण संयोज्यम्' इति महाभाष्यवचनम् अनुसृत्य द्वित्वं करणीयम् | केचन वदन्ति यत् बुद्धिम् अनुसृत्य द्वित्वं करणीयम् | माता जि वदति यत् 'अज्झीनं व्यञ्जनं परेण संयोज्यम्' इति अनुसारं कुर्मश्चेत् लाभद्वयम् अस्ति—(१) अनेकाच् धातूनां कृते प्रक्रिया सर्वत्र समाना हलादिधातुः चेदपि, अजादिधातुः चेदपि; (२) लाघवम् | ‘प प ठ्य' इति रीत्या द्वित्वं क्रियते चेत्, हलादिः शेषः (७.४.६०) इत्यस्य आवश्यकता न भवति |
अभ्यासकार्यम्—
द्वित्वस्य अनन्तरं कानिचन कार्याणि भवन्ति अभ्यासे, तानि च 'अभ्यासकार्यम्' इत्युच्यते | यथा अभ्यासस्य ह्रस्वत्वम्, अल्पप्राणत्वं च भवति | अभ्यासकार्यस्य पुनः विभजनं भवति— सामान्याभ्यासकार्यं, विशेषाभ्यासकार्यं चेति |
सामान्याभ्यासकार्यं भवति यत्र यत्र द्वित्वं भवति— लिटि, सनि, यङि, श्लौ, चङि च | विशेषाभ्यासकार्यं भवति द्वित्व-सम्बद्ध-प्रत्ययम् अधिकृत्य; यथा लिटि विशेषाभ्यासकार्यं, पुनः श्लौ पृथक्तया, पुनः सनि, यङि, चङि च | अत्र सामान्याभ्यासकार्याणि प्रदर्श्यन्ते | ततः अग्रे यथास्थानं यङ्-विशिष्टानि अभ्यासकार्यणि प्रदर्श्यन्ते |
अत्र सन्ति प्रमुख-सामान्याभ्यासकार्याणि—
हलादिः शेषः (७.४.६०)
शर्पूर्वाः खयः (७.४.६१)
ह्रस्वः (७.४.५९)
उरत् (७.४.६६)
कुहोश्चुः (७.४.६२)
अभ्यासे चर्च (८.४.५४)
हलादिः शेषः (७.४.६०) = अभ्यासस्य आदिमः* हल् शेषः, अभ्यासे अपरेषां हलां लोपः | हल् प्रथमान्तम्, आदिः प्रथमान्तं, शेषः प्रथमान्तं, त्रिपदमिदं सूत्रम् | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— (अङ्गस्य) अभ्यासस्य हलादिः शेषः |
पठ् → सन्यङोः (६.१.९) इत्यनेन यङन्तस्य धातोः प्रथमस्यैकाचो द्वे स्तः → पठ् पठ् → प्रथमः पठ् इति भागः अभ्याससंज्ञकः → हलादिः शेषः (७.४.६०) इत्यनेन अभ्यासस्य आदिमः हल् शेषः, अभ्यासे अपरेषां हलां लोपः → प पठ् | तथैव ज्ञा → ज ज्ञा |
एवमेव विचारणीयम्— धन्, निज्, विष्, खाद्, धिष्, विज्, तुर्, भस् |
*आदिमः इत्युक्तौ 'आदौ यः', न तु 'प्रथमः' | अतः अजादिधातोः द्वित्वं क्रियते चेत्, आदौ अच्-वर्णः न तु हल्-वर्णः इति कारणतः हलादिः शेषः (७.४.६०) इत्यनेन अभ्यासे सर्वेषां हल्-वर्णानां लोपो भवति | अट् → अट् अट् → अ अट् |
शर्पूर्वाः खयः (७.४.६१) = यस्य अभ्यासस्य पूर्वं शर् परञ्च खय्, तस्य तु खय् एव शेषो भवति, अन्ये हलः च लुप्यन्ते | हलादिः शेषः (७.४.६०) इत्यस्य अपवादः अतः तस्य बाधकसूत्रम् | शर् पूर्वो येषां ते शर्पूर्वाः | शर्पूर्वाः प्रथमान्तं, खयः प्रथमान्तं, द्विपदमिदं सूत्रम् | हलादिः शेषः (७.४.६०) इत्यस्मात् वचनपरिणामं कृत्वा शेषाः इत्यस्य अनुवृत्तिः | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— (अङ्गस्य) अभ्यासस्य शर्पूर्वाः खयः शेषाः |
स्पर्ध् → स्पर्ध् स्पर्ध् → प स्पर्ध्
एवमेव विचारणीयम्— स्पन्द्, स्पूर्ज्, स्तम्भ्, स्तुभ्, स्खल्, स्पश्, स्तिघ्, स्फुर् |
ह्रस्वः (७.४.५९) = अभ्यासस्य अच्-वर्णः ह्रस्वः स्यात् | अचश्च (१.२.२८) इति परिभाषा-सूत्रेण यत्र कुत्रापि सूत्रेषु 'ह्रस्व', 'दीर्घ', 'प्लुत' इत्येते शब्दाः आयान्ति, तत्र 'अचः' इति शब्दः सूत्रार्थेऽपि आयाति | अतः 'ह्रस्वः' इत्युक्तौ 'ह्रस्वः अच्-वर्णः'; तथा सर्वत्र | ह्रस्वः प्रथमान्तम्, एकपदमिदं सूत्रम् | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अङ्गस्य अभ्यासस्य अचः ह्रस्वः |
खा खाद् → ख खाद्
नी नी → नि नी
लू लू → लु लू
से सेव् → सि सेव्
गो गोष्ट् → गु गोष्ट्
ढौ ढौक् → ढु ढौक्
उरत् (७.४.६६) = प्रत्यये परे अभ्यासस्य ऋवर्णस्य स्थाने अत्-आदेशः भवति | उः षष्ठ्यन्तम्, अत् प्रथमान्तं, द्विपदमिदं सूत्रम् | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अङ्गस्य अभ्यासस्य उः अत् |
वृष् → वृष् वृष् → वृ वृष् → वर् वृष् → व वृष्
कृष् → कृष् कृष् → कृ कृष् → कर् कृष् → क कृष् → च कृष्
हृष् → हृष् हृष् → हृ हृष् → हर् हृष् → ह हृष् → ज हृष्
ऋकारान्तधातवः—
भृ → भृ भृ → भर् भृ → भ भृ → ब भृ
हृ → हृ हृ → हर् हृ → ह हृ → ज हृ
कृ → कृ कृ → स्तिघ्, स्फुर् → क कृ → च कृ
तॄ → तॄ तॄ → तर् तॄ → त तॄ
कुहोश्चुः (७.४.६२) = अभ्यासे कवर्गीयस्य हकारस्य च स्थाने चवर्गीयादेशो भवति | तत्र स्थानेऽन्तरतमः (१.१.५०) इति परिभाषा-सूत्रेण, उच्चारणस्थानसाम्यवशात् हकारस्य स्थाने झकारः, तदा अभ्यासे चर्च (८.४.५४) इत्यनेन झ-स्थाने जकारः | कुश्च ह् च तयोरितरेतरद्वन्द्वः कुहौ, तयोः कुहोः | कुहोः षष्ठ्यन्तं, चुः प्रथमान्तं, द्विपदमिदं सूत्रम् | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अङ्गस्य अभ्यासस्य कुहोः चुः |
स्थानेऽन्तरतमः (१.१.५०) = प्रसङ्गम् अवलम्ब्य तुल्यतमः आदेशो भवति | स्थाने सप्तम्यन्तम्, अन्तरतमः प्रथमान्तं, द्विपदमिदं सूत्रम् |
कृ → कृ कृ → कर् कृ → क कृ → च कृ
खन् → खन् खन् → ख खन् → छ खन् → च खन्
गम् → गम् गम् → ग गम् → ज गम्
ग्रह् → ग्रह् ग्रह् → ग ग्रह् → ज ग्रह्
घृ → घृ घृ → घर् घृ → झ घृ → ज घृ
हृ → हृ हृ → हर् हृ → ह हृ → ज हृ
हस् → हस् हस् → ह हस् → झ हस् → ज हस्
अभ्यासे चर्च (८.४.५४)* = अभ्यासे झल्-स्थाने जश् चर् च आदेशौ भवतः | तत्र स्थानेऽन्तरतमः (१.१.५०) इति परिभाषा-सूत्रेण, उच्चारणस्थानसाम्यवशात् झश्-स्थाने जश् अपि च खय्-स्थाने चर् | अनुवृत्त्यर्थम् अष्टमाध्याये | अभ्यासे सप्तम्यन्तं, चर् प्रथमान्तं, च अव्ययपदं, त्रिपदमिदं सूत्रम् | झलां जश् झशि (८.४.५३) इत्यस्मात् झलां, जश् इत्यनयोः अनुवृत्तिः | तयोर्यवावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्—अभ्यासे झलां जश् चर् च संहितायाम् |
चर्त्वम्
थु थुड् → तु थुड्
फ फल् → प फल्
छु छुप् → चु छुप्
जश्त्वम्
भु भू → बु भू
ढु ढौक् → डु ढौक्
झ झर्झ् → ज झर्झ्
धेयं यत् अभ्यासे वर्गस्थप्रथमसदस्यः, तृतीयसदस्यः, पञ्चमसदस्यः, यण्-प्रत्याहारस्थः चेति वर्णानां विकारो न भवति | अतः एषां नाम 'अनादेश-अभ्यासः' इति उच्यन्ते |
चल् → च चल्
जप् → ज जप्
टीक् → टि टीक्
डी → डि डी
तॄ → त तॄ
दल् → द दल्
नम् → न नम्
पत् → प पत्
बाध् → ब बाध्
मील् → मि मील्
यम् → य यम्
वृध् → व वृध्
इति यङि सामान्यम् अभ्यासकार्यं समाप्तम् | विशिष्टाभ्यासकार्यं यथास्थानम् अग्रे पदर्श्यते |
इतः आरभ्यते विशिष्ट-यङन्तप्रक्रिया | हलादिधातूनां यङन्तरूपं भवति; तेषां च वर्गीकरणम् एतादृशं करणीयम्—
आकारान्ताः एजन्ताः च धातवः
इकारान्ताः ईकारान्तः च धातवः
उकारान्तः ऊकारान्ताः च धातवः
ऋकारान्ताः धातवः
ॠकारान्ताः धातवः
सामान्यहलन्तधातवः
अदुपधाः धातवः
इदुपधाः धातवः
उदुपधाः धातवः
ऋदुपधाः धातवः
सम्प्रसारणिनः धातवः
अनिदितः धातवः
*प्रश्नः उदेति यत् अभ्यासे चर्च (८.४.५४) तु अङ्गस्य (६.४.१) इत्यस्य अधिकारे नास्ति; तर्हि अङ्गकार्यम् अस्ति किम् ? अभ्यासस्य निमित्तं प्रत्ययः; प्रत्यये परे एव द्वित्वं भवति | अतः कस्यापि अभ्यासकार्यस्य निमित्तं तु प्रत्ययः अवश्यम् | तथा सति अङ्गकार्यमेव |
अधुना अभ्यासे चर्च (८.४.५४) अष्टमाध्यायस्य चतुर्थे पादे स्थापितम् अतः अङ्गकार्यं न स्यात् इति भासेत | अष्टमाध्यायस्य चतुर्थे पादे वर्णनिमित्तकार्यं जायमानं किन्तु अभ्यासे चर्च (८.४.५४) तु वर्णनिमित्तकं नास्ति | साधारणतया अष्टमाध्यायस्य चतुर्थे पादे किमपि सूत्रं स्थापितं चेत् तस्य तत्र स्थापनस्य विशिष्टकारणम् अस्ति असिद्धत्वम्; असिद्धत्वम् अपेक्षते, तदर्थं तत्र स्थापितम् | किन्तु अभ्यासे चर्च (८.४.५४) असिद्धमपि न भवति कदाचित् | त्रिपाद्यां पूर्वसूत्रं प्रति परसूत्रम् असिद्धम् | किन्तु अभ्यासे चर्च (८.४.५४) इत्यस्य सम्बन्धः एव नास्ति अपरत्रिपादिसूत्रैः सह अतः तानि सूत्राणि प्रति असिद्धत्वस्य अवसर एव नास्ति | वस्तुतस्तु अभ्यासे चर्च (८.४.५४) केवलम् अनुवृत्तिवशात् उक्तस्थाने अस्ति | झलां जश्झशि (८.४.५३) इत्यस्मात् जश् इति अनुवर्तते प्रकृतसूत्रे | अपि च अभ्यासे चर्च (८.४.५४) इति सूत्रात् चर् इत्यस्य अनुवृत्तिः भवति खरि च (८.४.५५) इति सूत्रे | अत्र फलितार्थः अस्ति यत् अभ्यासे चर्च (८.४.५४) अङ्गकार्यमेव यद्यपि अङ्गस्य (६.४.१) इत्यस्य अधिकारे नास्ति |
लिट्यभ्यासस्योभयेषाम् (६.१.१७) इति सूत्रं षष्ठ्याध्याये स्थपितम् अस्ति सम्प्रसारणम् इत्यस्य अनुवृत्ति-कृते | वच्यादीनां ग्रह्यादीनां चाभ्यासस्य सम्प्रसारणं लिटि इति सूत्रार्थः | किन्तु वस्तुतस्तु इदम् अभ्यासकार्यमेव, अतः कार्यदृष्ट्या सप्तमाध्यायस्य चतुर्थपादे अभविष्यत् |
अभ्यासस्यासवर्णे (६.४.७८) इति सूत्रं षष्ठ्याध्याये स्थपितम् अस्ति इयङ्-उवङ् इत्यनयोः अनुवृत्ति-कृते | अभ्यासस्य इवर्णोवर्णयोरियङुवङौ स्तोऽसवर्णेऽचि इति सूत्रार्थः | किन्तु वस्तुतस्तु इदम् अभ्यासकार्यमेव, अतः कार्यदृष्ट्या सप्तमाध्यायस्य चतुर्थपादे अभविष्यत् |
इमानि त्रीणि सूत्राणि—अभ्यासे चर्च (८.४.५४), लिट्यभ्यासस्योभयेषाम् (६.१.१७), अभ्यासस्यासवर्णे (६.४.७८)—अभ्यासकार्याणि अतः सप्तमाध्यायस्य चतुर्थे पादे भवन्ति स्म परन्तु अनुवृत्त्यर्थम् अन्यत्र स्थापितानि | यत् किमपि सूत्रं स्वस्य प्रकरणात् बहिः स्थाप्यते, तस्य कारणम् अनुवृत्तिः हि | अनुवृत्तिवशात्, लाघवार्थं स्थानान्तरे भवति |
यङ्-प्रत्ययस्य स्वभावः
यङ्-प्रत्ययः धातुभ्यः विधीयते, तिङ्-शित्-भिन्नः च इति कृत्वा आर्धधातुकं शेषः (३.४.११४) इत्यनेन आर्धधातुकसंज्ञकः |
आर्धधातुकं शेषः (३.४.११४) = धातोः विहितः तिङ्-शित्-भिन्नः प्रत्ययः आर्धधातुकसंज्ञको भवति | आर्धधातुकं प्रथमान्तं, शेषः प्रथमान्तं, द्विपदमिदं सूत्रम् | प्रत्ययः (३.१.१), परश्च (३.१.२), धातो: (३.१.९१) इत्येषाम् अधिकारः | धातोरेकाचो हलादेः क्रियासमभिहारे यङ् (३.१.२२) इत्यस्मात् धातोः इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— धातोः परश्च शेषः प्रत्ययः आर्धधातुकम् |
यङ्-प्रत्ययः न केवलम् आर्धधातुकसंज्ञकः अपि तु ङित् अपि, अतः यङि परे यावत् कार्यं ङित्-आर्धधातुकसंज्ञक-प्रत्यये परे भवति, तत् सर्वं यङ्-प्रक्रियायां भवति |
आकारान्तानाम् एजन्तानां च धातूनां यङन्तधातु-सिद्धिः
१) सामान्याः आकारान्ताः एजन्ताः च धातवः
द्वित्वाभ्यासकार्यानन्तरं दीर्घोऽकितः (७.४.८३) इत्यनेन अकित्-अभ्यासस्य दीर्घादेशो भवति यङि परे |
ला + यङ् → अकृत्सार्वधातुकयोर्दीर्घः (७.४.२५) इत्यनेन अजन्ताङ्गस्य दीर्घादेशो भवति यकारादिप्रत्यये परे → ला + यङ् → ला ला य → ल ला य → दीर्घोऽकितः (७.४.८३) इत्यनेन अकित्-अभ्यासस्य दीर्घादेशः → ला ला य → लालाय इति धातुः → लालाय + ते → कर्तरि शप् (३.१.६८) इत्यनेन धातुतः शप्-प्रत्ययः भवति, कर्त्रर्थक-सार्वधातुकप्रत्यये परे → लालाय + शप् + ते → लालाय + अ + ते → अतो गुणे (६.१.९७) इत्यनेन पूर्वपरयोः स्थाने एकः पररूपमेकादेशः → लालाय + ते → लालायते
अकृत्सार्वधातुकयोर्दीर्घः (७.४.२५) = अजन्ताङ्गस्य दीर्घादेशो भवति यकारादिप्रत्यये परे, किन्तु स च प्रत्ययः कृत्-संज्ञकः अथवा सार्वधातुकं चेत् न भवति | अचश्च (१.२.२८) इत्यनेन अचः एव दीर्घत्वम् | येन विधिस्तदन्तस्य (१.१.७२), अलोऽन्त्यस्य (१.१.५२) | कृत् च सार्वधातुकञ्च कृत्सार्वधातुके, न कृत्सार्वधातुके अकृत्सार्वधातुके, तयोः अकृत्सार्वधातुकयोः | अकृत्सार्वधातुकयोः सप्तम्यन्तं, दीर्घः प्रथमान्तं, द्विपदमिदं सूत्रम् | अयङ् यि क्ङिति (७.४.२२) इत्यस्मात् यि इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अचः अङ्गस्य दीर्घः यि अकृत्सार्वधातुकयोः |
यथा कर्मणिप्रयोगे यकि परे—
जि + यक् → अकृत्सार्वधातुकयोर्दीर्घः (७.४.२५) इत्यनेन अजन्ताङ्गस्य दीर्घादेशो भवति यकारादिप्रत्यये परे → जीयते
स्तु +यक् → अकृत्सार्वधातुकयोर्दीर्घः (७.४.२५) इत्यनेन अजन्ताङ्गस्य दीर्घादेशो भवति यकारादिप्रत्यये परे → स्तूयते
अयं यकारादिप्रत्ययः कृत् अस्ति चेत्, दीर्घो न भवति— प्र + कृ + ल्यप् → प्रकृत्य; प्र + हृ + ल्यप् → प्रहृत्य | स च यकारादिप्रत्ययः सार्वधातुकम् अस्ति चेत्, दीर्घो न भवति— विधिलिङि चि + नु + यात् → चिनुयात्; सु + नु + यात् → सुनुयात् |
*काशिकाकारः प्रतिपादयति यत् अकृत्सार्वधातुकयोर्दीर्घः (७.४.२५) इत्यस्य कार्यं भवति केवलं यकारादौ किति ङिति प्रत्यये परे | यकारादिप्रत्ययः किन्तु कित्ङित् नास्ति चेत्, दीर्घादेशो न भवति | तत्र दृष्टान्तो दीयते उरुया, घृष्णुया, वेदे रूपाणि यानि निष्पद्यन्ते एकवचनस्य तृतीयाविभक्तौ टा-स्थाने या-आदेशः भवति सुपां सुलुक्पूर्वसवर्णाऽऽच्छेयाडाड्यायाजालः (७.१.३९) इति सूत्रेण | अयं या-आदेशः कित्ङित् नास्ति | प्रायः अयङ् यि क्ङिति (७.४.२२) इत्यस्मात् न केवलं यि अपि तु क्ङिति इत्यस्यापि अनुवृत्तिं स्वीकुर्यात् |
दीर्घोऽकितः (७.४.८३) = अकित्-अभ्यासस्य दीर्घादेशो भवति यङि यङ्लुकि च | न कित् यस्य स अकित्, तस्य | 'अकित्-अभ्यासः' इत्युक्ते तादृशः अभ्यासः यस्य कित् आगमो न भवति | दीर्घः प्रथमान्तम्, अकितः षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः | गुणो यङ्लुकोः (७.४.८२) इत्यस्मात् यङ्लुकोः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अङ्गस्य अकितः अभ्यासस्य दीर्घः यङ्लुकोः |
अतो गुणे (६.१.९७) = अपदान्तात् अतः गुणे परे पूर्वपरयोः स्थाने एकः पररूपमेकादेशः स्यात् | गुणः इत्युक्तौ अ, ए, ओ | इदं सूत्रं वृद्धिरेचि (६.१.८८), अकः सवर्णे दीर्घः (६.१.१०१) इत्यनयोः अपवादसूत्रम् | अतः पञ्चम्यन्तं, गुणे सप्तम्यन्तं, द्विपदमिदं सूत्रम् | उस्यपदान्तात् (६.१.९६) इत्यस्मात् अपदान्तात् अपि च एङि पररूपम् (६.१.९४) इत्यस्मात् पररूपम् इत्यनयोः अनुवृत्तिः | एकः पूर्वपरयोः (६.१.८४), संहितायाम् (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्— अपदान्तात् अतः गुणे पूर्वपरयोः एकः पररूपं संहितायाम् |
एजन्तधातूनाम् आत्वं भवति आदेच उपदेशेऽशिति (६.१.४५) इति सूत्रेण—
आदेच उपदेशेऽशिति (६.१.४५) = उपदेशे एजन्तस्य धातोरात्त्वं न तु शिति | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तदन्तविधिः; अलोन्त्यस्य (१.१.५२) इत्यनेन अन्त्यस्य अलः स्थाने | एच् इत्यनेन 'ए, ऐ, ओ, औ' | श् इत् यस्य स शित्, न शित् अशित्, तस्मिन् (विषये) अशिति, नञ्तत्पुरुषः | आत् प्रथमान्तम्, एचः षष्ठ्यन्तम्, उपदेशे सप्तम्यन्तम्, अशिति सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | लिटि धातोरनभ्यासस्य (६.१.८) इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— एचः धातोः आत् उपदेशे अशिति |
अतः एजन्तधातवः आकारान्ताः इति मत्वा, मिलित्वा चिन्तनं क्रियते |
यथा ला-धातोः लालायते, एवमेव—
वा + यङ् → वा + य → वा वा य → वावायते
भा + यङ् → भा + य → भा भा य → बाभायते
ध्यै + यङ् → ध्या + य → ध्या ध्या य →
ग्लै + यङ् → ग्ला + य → ग्ला ग्ला य →
छो + यङ् → छा + य → छा छा य → *
म्लै + यङ् → म्ला + य → म्ला म्ला य →
*अत्र दीर्घात् (६.१.७४) इति सूत्रेण तुगागमः |
दीर्घात् (६.१.७४) = दीर्घात् तुक् स्यात् छे परे संहितायां विषये | दीर्घस्वरस्य छकारे परे संहितायाम् तुगागमो भवति | छे च (६.१.७३) इत्यस्मात् छे इत्यस्य अनुवृत्तिः | ह्रस्वस्य पिति कृति तुक् (६.१.७१) इत्यस्मात् तुक् इत्यस्य अनुवृत्तिः | संहितायाम् (६.१.७१) इत्यस्य अधिकार: | अनुवृत्ति-सहितसूत्रम्— दीर्घात् तुक् छे संहितायाम् |
अत्र प्रश्नः उदेति यत् अयं तुक् कस्य आगमः ? दीर्घात् (६.१.७४) इत्यनेन दीर्घात् तुक् स्यात् छे परे | अस्मिन् सूत्रे तस्मादित्युत्तरस्य (१.१.६७) इत्यस्य बलेन तुगागमः अग्रे स्थितस्य छकारस्य आगमः स्यात्; तस्मिन्निति निर्दिष्टे पूर्वस्य (१.१.६६) इत्यस्य बलेन तुगागमः पूर्वं स्थितस्य दीर्घस्वरस्य आगमः | सूचनाद्वयमपि परस्परविरुद्धम् | अस्यां दशायाम् उभयनिर्देशे पञ्चमीनिर्देशः बलीयान् इति परिभाषया, द्वयोः निर्देशयोर्मध्ये पञ्चमीनिर्देशः बलीयान् | इत्युक्तौ छकारस्य एव आगमः न तु दीर्घस्वरस्य | फलितार्थः एवं यत् सप्तम्यन्तं पदं स्थानिनं निदर्शयति | अनेन दीर्घात् (६.१.७४) इत्यस्य व्याख्याने 'छे' सप्तम्यन्तम्, अतः छकारस्य एव तुगागमः भवेत् | किन्तु अनेन इष्टरूपं न सिध्यति; अनिष्टरूपस्य निवारणार्थं कौमुदीकारो वदति यत् विभाषा सेनासुराच्छायाशालानिशानाम् (२.४.२५) इति ज्ञापकम् अस्ति | अस्मिन् सूत्रे तत्पुरुषसमासस्य अन्ते सेना, सुरा, छाया, शाला, निशा इत्येषु अन्यतमं पदम् अस्ति चेत्,स च समासः विकल्पेन नपुंसकलिङ्गे भवति | सूत्रस्य अर्थः अत्र असम्बद्धः; सूत्रस्य रूपं द्रष्टव्यम् | अस्मिन् सूत्रे द्वन्द्वसमासः अस्ति सेना-सुरा-छाया-शाला-निशा इत्येषाम्; अस्मिन् समासे सुरा + छाया → सुराच्छाया इति रूपं पाणिनिना दत्तम् | अत्र च दीर्घात् (६.१.७४) इति सूत्रस्य प्रसङ्गः | उभयनिर्देशे पञ्चमीनिर्देशः बलीयान् इति परिभाषया अत्र तुक्-आगमः छकारस्य भवति स्म; तुक् कित् अतः आद्यन्तौ टकितौ (१.१.४६) इत्यनेन छकारस्य अन्ते भवेत् | किन्तु सुराच्छाया इति रूपे तुक्-आगमः आकारस्य अनन्तरं न तु छकारस्य | अतः पाणिनिना दत्तम् इदं रूपं ज्ञापकं भवति यत् दीर्घात् (६.१.७४) इति सूत्रेण यः तुक्-आगमः विधीयते, सः तु दीर्घस्य एव भवेत् न तु छकारस्य | इति कृत्वा अयं तुगागमः उभयनिर्देशे पञ्चमीनिर्देशः बलीयान् इति परिभाषाम् अनुसृत्य न भवति | छो + यङ् → छा + य → छा छा य इति स्थितौ तुगागमः आकारस्य एव न तु छकारस्य |
२) घुमास्थादयः धातवः
किन्तु आकारान्तेषु एजन्तेषु च धातुषु, द्वादश सन्ति येषाम् ईकारादेशो भवति |
घुमास्थागापाजहातिसां हलि (६.४.६६) = घु, मा, स्था, गा, पा, हा (ओहाक्), सा (षो) एषां धातूनाम् आकारस्य स्थाने ईकारादेशो भवति हलादि-कित्ङित्-आर्धधातुकप्रत्यये परे | धात्वादेः षः सः (६.१.६४), आदेच उपदेशेऽशिति (६.१.४५) इत्याभ्यां षो → सा | घुश्च, माश्च, स्थाश्च, गाश्च, पाश्च, जहातिश्च, साश्च तेषामितरेतरद्वन्द्वः, घुमास्थागापाजहातिसाः, तेषां घुमास्थागापाजहातिसाम् | घुमास्थागापाजहातिसां षष्ठ्यन्तं, हलि सप्तम्यन्तं, द्विपदमिदं सूत्रम् | दीङो युडचि क्ङिति (६.४.६३) इत्यस्मात् क्ङिति इत्यस्य अनुवृत्तिः | आतो लोप इटि च (६.४.६४) इत्यस्मात् आतः इत्यस्य अनुवृत्तिः | ईद्यति (६.४.६५) इत्यस्मात् ईत् इत्यस्य अनुवृत्तिः | आर्धधातुके (६.४.४६) इत्यस्य अधिकारः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— घुमास्थागापाजहातिसाम् आतः अङ्गस्य ईत् हलि क्ङिति आर्धधातुके |
दाधाघ्वदाप् (१.१.२०) इत्यनेन घु-संज्ञकधातवः षट् सन्ति— दो → दा, देङ् → दा, डुदाञ् → दा, दाण् → दा, धे → धा, डुधाञ् → धा च | (दाण्, डुधाञ् = to give; दो = to cut, divide; देङ् = to protect; डुधाञ् = to hold, bring up; धेट् = to suck, drink |)
यङ्-प्रत्ययः हलादिः, ङित्, आर्धधातुकः अतः घुमास्थागापाजहातिसां हलि (६.४.६६) इति सूत्रं प्रवर्तते | आहत्य द्वादश धातवः अन्तर्भवन्ति येषाम् अनेन सूत्रेण आकारस्य ईत्वम् अङ्गकार्यं सत् प्रथमतया भवति, तदा एव सन्यङोः (६.१.९) इत्येनन द्वित्वम्—
दा + यङ् → घुमास्थागापाजहातिसां हलि (६.४.६६) इत्यनेन आकारस्य ईत्वम् → दी + य → अकृत्सार्वधातुकयोर्दीर्घः (७.४.२५) इत्यनेन अजन्ताङ्गस्य ईकारस्य पुनः दीर्घादेशः → दी + य → सन्यङोः (६.१.९) → दी दी + य → ह्रस्वः (७.४.५९) इत्यनेन अभ्यासस्य अच्-वर्णः ह्रस्वः → दि दी + य → गुणो यङ्लुकोः (७.४.८२) इत्यनेन अभ्यासस्य यङि गुणः → दे दी + य → देदीयते
अकृत्सार्वधातुकयोर्दीर्घः (७.४.२५) = अजन्ताङ्गस्य दीर्घादेशो भवति यकारादिप्रत्यये परे, किन्तु स च प्रत्ययः कृत्-संज्ञकः अथवा सार्वधातुकं चेत् न भवति | अचश्च (१.२.२८) इत्यनेन अचः एव दीर्घत्वम् | येन विधिस्तदन्तस्य (१.१.७२), अलोऽन्त्यस्य (१.१.५२) | कृत् च सार्वधातुकञ्च कृत्सार्वधातुके, न कृत्सार्वधातुके अकृत्सार्वधातुके, तयोः अकृत्सार्वधातुकयोः | अकृत्सार्वधातुकयोः सप्तम्यन्तं, दीर्घः प्रथमान्तं, द्विपदमिदं सूत्रम् | अयङ् यि क्ङिति (७.४.२२) इत्यस्मात् यि इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अचः अङ्गस्य दीर्घः यि अकृत्सार्वधातुकयोः |
अचश्च (१.२.२८) = यत्र यत्र ह्रस्वः, दीर्घः, प्लुतः च विधीयन्ते, तत्र तत्र अचः इति षष्ठ्यन्तं पदम् आगत्य उपस्थितं भवति | परिभाषा-सूत्रम् | अचः षष्ठ्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | ऊकालोऽज्झ्रस्वदीर्घप्लुतः (१.२.२७) इत्यस्मात् अच्, ह्रस्वदीर्घप्लुतः इत्यनयोः अनुवृत्तिः | तत्र विभक्तिपरिणामेन तृतीयान्तं भवति, ह्रस्वदीर्घप्लुतैः (शब्दैः) | अनुवृत्ति-सहितसूत्रम्— ह्रस्वदीर्घप्लुतैः अचः च अच् |
गुणो यङ्लुकोः (७.४.८२) = अभ्यासस्य गुणो भवति यङि यङ्लुकि च | यङ् च लुक् च यङ्लुकौ इतरेतरद्वन्द्वः, तयोः यङ्लुकोः | गुणः प्रथमान्तं, यङ्लुकोः सप्तम्यन्तं, द्विपदमिदं सूत्रम् | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अङ्गस्य अभ्यासस्य गुणः यङ्लुकोः |
एवमेव—
धा + यङ् → धी + य → धी धी + य → देधीय (द्वौ धातू) → देधीयते
मा + यङ् → मी + य →
ष्ठा → धात्वादेः षः सः (६.१.६३) → स्था* + यङ् → स्थी + य →
गा + यङ् → गी + य →
पा + यङ् → पी + य →
हा + यङ् → ही + य →
षो (अन्तकर्मणि, दिवादौ) → धात्वादेः षः सः (६.१.६३) → आदेच उपदेशेऽशिति (६.१.४५) → सा* + यङ् → सी + य → धेयं यत् अत्र सकारः आदिष्टः इत्यस्मात् आदेशप्रत्यययोः (८.३.५९) इत्यस्य प्रसक्तिरस्ति |
*धेयं यत् अत्र सकारः आदिष्टः इत्यस्मात् आदेशप्रत्यययोः (८.३.५९) इत्यस्य प्रसक्तिरस्ति |
३) घ्रा, ध्मा इति द्वौ धातू
घ्रा, ध्मा इति द्वयोः धात्वोः आकारस्य ईकारादेशो भवति यङि परे |
घ्रा + यङ् → घ्री + यङ् → घ्री घ्री + यङ् → जेघ्रीय → जेघ्रीयते
ध्मा + यङ् → ध्मी + यङ् →
ई घ्राध्मोः (७.४.३१) = घ्रा, ध्मा इति धात्वोः अन्त्य-आकारस्य स्थाने ईकारादेशो भवति यङि परे | अलोऽन्त्यस्य (१.१.५२) इत्यनेन धातुरूप्यङ्गस्य अन्तिमवर्णस्य स्थाने ईकारादेशः, न तु पूर्णतया अङ्गस्य | घ्राश्च ध्माश्च घ्राध्मौ , तयोः घ्राध्मोः | ई लुप्तप्रथमाकं पदं, घ्राध्मोः षष्ठीद्विवचनान्तं, द्विपदमिदं सूत्रम् | यङि च (७.४.३०) इत्यस्मात् यङि इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— घ्राध्मोः अङ्गयोः ई यङि |
४) ज्या-धातुः
ज्या-धातोः सम्प्रसारणं भवति किति ङिति प्रत्यये परे |
ज्या + यङ् → ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च (६.१.१६) इत्यनेन सम्प्रसारणम् → ज् इ आ + य → सम्प्रसारणाच्च (६.१.१०८) इत्यनेन सम्प्रसारण-संज्ञक-वर्णात् परः अच् अस्ति चेत्, पूर्वपरयोः एकः पूर्वरूपादेशः → जि + य → हलः (६.४.२) इत्यनेन अङ्गावयवात् हलः यदुत्तरं संप्रसारणं तदन्तस्याङ्गस्य दीर्घादेशः → जी + य → द्वित्वाभ्यासकार्यम् → जी जी + य → गुणो यङ्लुकोः (७.४.८२) इत्यनेन अभ्यासस्य गुणो भवति यङि → जेजीय इति यङन्तधातुः → जेजीयते
ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च (६.१.१६) = ग्रह्, ज्या, वय्, व्यध्, वश्, व्यच्, व्रश्च्, प्रच्छ्, भ्रस्ज्, एषां सम्प्रसारणं भवति किति ङिति प्रत्यये परे | इतरेतरद्वन्द्वः, षष्ठीविभक्तौ | ग्रहि-ज्या-वयि-व्यधि-वष्टि-विचति-वृश्चति-पृच्छति-भृज्जतीनां षष्ठ्यन्तं, ङिति सप्तम्यन्तं, च अव्ययं, त्रिपदमिदं सूत्रम् | वचिस्वपियजादीनां किति (६.१.१५) इत्यस्मात् किति इत्यस्य अनुवृत्तिः; ष्यङः सम्प्रसारणम् पुत्रपत्योस्तत्पुरुषे (६.१.१३) इत्यस्मात् सम्प्रसारणम् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति किति च सम्प्रसारणम् |
हलः (६.४.२) = अङ्गावयवात् हलः यदुत्तरं संप्रसारणं तदन्तस्याङ्गस्य दीर्घो भवति | यः हल्-वर्णः अङ्गस्य अवयवः, तस्मात् परे स्थितं यत् अङ्गान्तं सम्प्रसारणं, तस्य दीर्घत्वं भवति | हलः पञ्चम्यन्तम् एकपदमिदं सूत्रम् | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तादृशम् अङ्गं यस्य अन्ते सम्प्रसारणसंज्ञकवर्णः अस्ति; अचश्च (१.२.२८), अलोऽन्त्यस्य (१.१.५२) इत्याभ्यां तस्य अङ्गस्य अन्तिमवर्णस्य अचः दीर्घादेशः | सम्प्रसारणस्य (६.३.१३९) इत्यस्मात् सम्प्रसारणस्य इत्यस्य अनुवृत्तिः | ढ्रलोपे पूर्वस्य दीर्घोऽणः (६.३.१११) इत्यस्मात् दीर्घः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— हलः सम्प्रसारणस्य अङ्गस्य दीर्घः |
५) व्ये-धातुः
व्ये-धातोः सम्प्रसारणं भवति यङि परे |
व्ये + यङ् → आदेच उपदेशेऽशिति (६.१.४५) इत्यनेन एचः आत्वम् → व्या + य → स्वपिस्यमिव्येञां यङि (६.१.१९) इत्यनेन सम्प्रसारणम् → व् इ आ + य → न सम्प्रसारणे सम्प्रसारणम् (६.१.३७) इत्यनेन सम्प्रसारणे परे पूर्वं स्थितस्य सम्प्रसारणं न भवति → व् इ आ + य → सम्प्रसारणाच्च (६.१.१०८) इत्यनेन सम्प्रसारण-संज्ञक-वर्णात् परः अच् अस्ति चेत्, पूर्वपरयोः एकः पूर्वरूपादेशः → वि + य → हलः (६.४.२) इत्यनेन अङ्गावयवात् हलः यदुत्तरं संप्रसारणं तदन्तस्याङ्गस्य दीर्घादेशः → वी + य → द्वित्वाभ्यासकार्यम् → वी वी + य → गुणो यङ्लुकोः (७.४.८२) इत्यनेन अभ्यासस्य गुणो भवति यङि → वेवीय इति यङन्तधातुः → वेवीयते
स्वपिस्यमिव्येञां यङि (६.१.१९) = स्वप्, स्यम्, व्येञ् इत्येषां धातूनां सम्प्रसारणं भवति यङि परे | स्वपिश्च स्यमिश्च व्येञ् च इत्येषामितरेतरद्वन्द्वः स्वपिस्यमिव्येञः, तेषां स्वपिस्यमिव्येञाम् | स्वपिस्यमिव्येञां षष्ठ्यन्तं, यङि सप्तम्यन्तं, द्विपदमिदं सूत्रम् | ष्यङः सम्प्रसारणम् पुत्रपत्योस्तत्पुरुषे (६.१.१३) इत्यस्मात् सम्प्रसारणम् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— स्वपिस्यमिव्येञां सम्प्रसारणम् यङि |
स्वप्, व्येञ् च वचिस्वपियजादीनां किति (६.१.१५) इत्यनेन यङि परे सम्प्रसारणं न भवति स्म अतः पृथक्तया विशिष्टसूत्रम् अपेक्षितम् आसीत् |
६) ह्वेञ्-धातुः
ह्वेञ्-धातोः द्वित्वात् प्राक् तस्य सम्प्रसारणं भवति |
अभ्यस्तस्य च (६.१.३३) = अभ्यस्तीभविष्यतो ह्वेञः सम्प्रसारणं स्यात् | ह्वेञ्-धातोः यदा द्वित्वं भविष्यति तस्मात् साक्षात् प्रागेव तस्य सम्प्रसारणं भवति | अभ्यस्तस्य षष्ठ्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | ह्वः सम्प्रसारणम् (६.१.३२) इत्यस्य सम्पूर्णतया अनुवृत्तिः | ह्वः इति ह्वा-धब्दस्य षष्ठ्यन्तं रूपम्; आदेच उपदेशेऽशिति (६.१.४५) इत्यनेन ह्वे इत्यस्मात् ह्वा | अनुवृत्ति-सहितसूत्रम्— अभ्यस्तस्य ह्वः सम्प्रसारणं च |
ह्वे + यङ् → अभ्यस्तस्य च (६.१.३३) इत्यनेन सम्प्रसारणम् → हु + य → तदा एव द्वित्वम्
एवमेव—
ह्वे + लिट् → हु + लिट्
ह्वे + सन् → हु + सन्
सिद्धान्तकौमुद्याम् 'अभ्यस्तीभविष्यतो ह्वेञः सम्प्रसारणं स्यात्' इति वृत्तिः | तत् कथम् इति प्रश्नः | 'ह्वः' इति षष्ठ्यन्तम्, 'अभ्यस्तस्य' इत्यपि षष्ठ्यन्तम्; अत्र द्वयोः सामानाधिकरण्यं वा, वैयधिकरण्यं वा ? अत्र काशिकावृत्तावस्ति, "'ह्वः' इति वर्तते, तद् 'अभ्यस्तस्य' इत्यनेन व्यधिकरणम्—अभ्यस्तस्य यो ह्वयतिः | कश्चाभ्यस्तस्य ह्वयतिः ? कारणम् | तेनाभ्यस्तकारणस्य ह्वयतेः प्रागेव द्विर्वचनात्सम्प्रसारणं भवति" | अत्र प्रश्नः जातः यत् ह्वः अभ्यस्तस्य इति पदद्वर्योर्मध्ये विशेषणविशेष्यभावो वर्तते किम् ? विशेषणविशेष्यभाव इत्युक्ते सामानाधिकरण्यम् | सामानाधिकरण्यं वर्तते चेत्, तर्हि द्विर्वचने कृतेऽभ्यस्तसंज्ञायामुपजातायां सम्प्रसारणं स्यात् | एवञ्च न सम्प्रसारणे सम्प्रसारणम् (६.१.३७) इत्यनेन अभ्यासस्य सम्प्रसारणं न स्यात् | अतः सूत्रार्थः कः ? 'अभ्यस्तस्य यः ह्वेञ्-धातुः', न तु 'ह्वः अभ्यस्तस्य' इति | अभ्यस्तस्य कः ह्वेञ्-धातुः ? 'कारणम्' इत्याह | अनेन अभ्यस्तस्य कारणीभूतस्य ह्वेञ्-धातोः द्विर्वचनात् प्रागेव सम्प्रसारणं भवति | इदमुत्तरं महाभाष्यम् अनुसृत्यैव काशिकावृत्तिर्दत्ता | नाम 'अभ्यस्तस्य कः ह्वेञ्-धातुः ?' इति प्रश्ने सति, भाष्ये 'प्रकृतिः' इत्युक्तम्— 'ह्वोभ्यस्तस्य प्रकृतिरिति' | भाष्यकारो वदति यत् अभ्यस्तसंज्ञायाः यः प्रकृतीभूतः ह्वेञ्-धातुः, तस्य सम्प्रसारणं भवति | इत्थञ्च यत्र अभ्यस्तसंज्ञा सम्भवति, तत्र द्वित्वात् प्रागेव सम्प्रसारणं क्रियते |
न सम्प्रसारणे सम्प्रसारणम् (६.१.३७) = सम्प्रसारणे परे पूर्वं स्थितस्य सम्प्रसारणं न भवति | न अव्ययपदं, सम्प्रसारणे सप्तम्यन्तं, सम्प्रसारणं प्रथमान्तं, त्रिपदमिदं सूत्रम् | सूत्रं सम्पूर्णं— न सम्प्रसारणे सम्प्रसारणम् |
प्रश्नः उदेति यत् ह्वे-धातोः एजन्तत्वात् तस्य आदेच उपदेशेऽशिति (६.१.४५) इत्यनेन आत्त्वं भवति किम् ? अवश्यं भवति— पर्जन्यवत् भवति; तस्य फलं नास्ति इति कारणतः न प्रदर्श्यते | किन्तु भवति; आत्त्वस्य अनैमित्तकत्वात् सम्प्रसारणात् प्रागेव |
ह्वे → धातोरेकाचो हलादेः क्रियासमभिहारे यङ् (३.१.२२) → ह्वे + यङ् → आदेच उपदेशेऽशिति (६.१.४५) इत्यनेन एचः आत्वम् → ह्वा + य → अभ्यस्तस्य च (६.१.३३) इत्यनेन सम्प्रसारणम् → ह् उ आ + य → सम्प्रसारणाच्च (६.१.१०८) → हु + य → हलः (६.४.२) इत्यनेन अङ्गावयवात् हलः यदुत्तरं संप्रसारणं तदन्तस्याङ्गस्य दीर्घादेशः → हू + य → अकृत्सार्वधातुकयोर्दीर्घः (७.४.२५) इत्यनेन अजन्ताङ्गस्य दीर्घादेशो भवति यकारादिप्रत्यये परे → हू + य → द्वित्वाभ्यासकार्यम् → जुहू + य → गुणो यङ्लुकोः (७.४.८२) इत्यनेन अभ्यासस्य गुणो भवति यङि → जोहूय इति यङन्तधातुः → जोहूयते
इकारान्तानाम् ईकारान्तानां च धातूनां यङन्तधातु-सिद्धिः
१) सामान्यधातवः
यङ्-प्रत्ययस्य ङित्त्वात् गुणनिषेधः |
सार्वधातुकार्धधातुकयोः (७.३.८४) = इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | सार्वधातुकञ्च आर्धधातुकञ्च तयोरितरेतरद्वन्द्वः सार्वधातुकार्धधातुके, तयोः सार्वधातुकार्धधातुकयोः | सार्वधातुकार्धधातुकयोः सप्तम्यन्तम्, एकपदमिदं सूत्रम् | मिदेर्गुणः (७.३.८२) इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | इको गुणवृद्धी (१.१.३) इत्यनेन परिभाषा-सूत्रेण, इकः स्थानी भवति यत्र स्थानी नोक्तम् | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन 'इकः अङ्गस्य' इत्युक्ते न केवलम् इक् इति अङ्गं, किन्तु तादृशम् अङ्गं यस्य अन्ते इक्; अलोऽन्त्यस्य (१.१.५२) इत्यनेन अङ्गस्य स्थाने गुणादेशः इति न, अपि तु अङ्गस्य अन्तिमवर्णस्य स्थाने गुणादेशः | अनुवृत्ति-सहितसूत्रम्— इकः अङ्गस्य गुणः सार्वधातुकार्धधातुकयोः |
क्क्ङिति च (१.१.५) = यः प्रत्ययः गित्, कित् अथवा ङित् अस्ति, अपि च तस्मात् प्रत्ययात् पूर्वं तस्य एव प्रत्ययस्य कारणतः इकः स्थाने गुणः वा वृद्धिः वा भवति स्म, सः (गुणः वृद्धिः) न भवति | ग् च क् च ङ् च तेषाम् इतरेतरद्वन्द्वः क्क्ङः; क्क्ङः इतः यस्य सः क्क्ङित्, तस्मिन् परे क्क्ङिति | द्वन्द्वगर्भबहुव्रीहिसमासः | अत्र ग्-स्थाने ककारः खरि च इत्यनेन चर्त्वसन्धिः | क्क्ङिति सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | इको गुणवृद्धी (१.१.३) इत्यस्य पूर्णतया अनुवृत्तिः; न धातुलोप आर्धधातुके (१.१.४) इत्यस्मात् न इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— क्क्ङिति च इकः गुणवृद्धी न |
यङ्-प्रत्ययः यकारादिः, कृत्सार्वधातुकयोः भिन्नश्च, अतः इकारान्तधातूनां दीर्घादेशो भवति | अकृत्सार्वधातुकयोर्दीर्घः (७.४.२५) इत्यनेन अजन्ताङ्गस्य दीर्घादेशो भवति कृद्भिन्न-सार्वधातुकभिन्न-यकारादिप्रत्यये परे | तदा विशिष्टाभ्यासकार्ये गुणो यङ्लुकोः (७.४.८२) इत्यनेन अभ्यासस्य गुणः यङि परे |
जि → धातोरेकाचो हलादेः क्रियासमभिहारे यङ् (३.१.२२) → जि + यङ् → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन गुणादेशः → क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधः → जि + य → अकृत्सार्वधातुकयोर्दीर्घः (७.४.२५) इत्यनेन अजन्ताङ्गस्य दीर्घादेशः → जी + य → द्वित्वसामान्याभ्यासकार्यम् → जि जी + य → गुणो यङ्लुकोः (७.४.८२) इत्यनेन अभ्यासस्य गुणः यङि → जेजीय इति यङन्तधातुः → जेजीय + ते → अतो गुणे (६.१.९७) इत्यनेन पूर्वपरयोः स्थाने पररूपमेकादेशः → जेजीयते
एवमेव—
चि + यङ् →
कि + यङ् →
ईकारान्ताधातुः चेदपि पर्जन्यवत् दीर्घादेशो भवति—
नी + यङ् → अकृत्सार्वधातुकयोर्दीर्घः (७.४.२५) इत्यनेन अजन्ताङ्गस्य दीर्घादेशः → नी + य → द्वित्वसामान्याभ्यासकार्यम् → नि नी + य → गुणो यङ्लुकोः (७.४.८२) इत्यनेन अभ्यासस्य गुणः यङि → नेनीय इति यङन्तधातुः → नेनीय + ते → नेनीयते
एवमेव—
क्री + यङ् →
अकृत्सार्वधातुकयोर्दीर्घः (७.४.२५) = अजन्ताङ्गस्य दीर्घादेशो भवति कृद्भिन्न-सार्वधातुकभिन्न-यकारादिप्रत्यये परे | स च प्रत्ययः कृत्-संज्ञकः अथवा सार्वधातुकं चेत् दीर्घादेशो न भवति | अचश्च (१.२.२८) इत्यनेन अचः एव दीर्घत्वम् | येन विधिस्तदन्तस्य (१.१.७२), अलोऽन्त्यस्य (१.१.५२) | कृत् च सार्वधातुकञ्च कृत्सार्वधातुके, न कृत्सार्वधातुके अकृत्सार्वधातुके, तयोः अकृत्सार्वधातुकयोः | अकृत्सार्वधातुकयोः सप्तम्यन्तं, दीर्घः प्रथमान्तं, द्विपदमिदं सूत्रम् | अयङ् यि क्ङिति (७.४.२२) इत्यस्मात् यि इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अचः अङ्गस्य दीर्घः यि अकृत्सार्वधातुकयोः |
गुणो यङ्लुकोः (७.४.८२) = अभ्यासस्य गुणो भवति यङि यङ्लुकि च | यङ् च लुक् च यङ्लुकौ इतरेतरद्वन्द्वः, तयोः यङ्लुकोः | गुणः प्रथमान्तं, यङ्लुकोः सप्तम्यन्तं, द्विपदमिदं सूत्रम् | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अङ्गस्य अभ्यासस्य गुणः यङ्लुकोः |
२) शीङ्-धातुः
अयङ् यि क्ङिति (७.४.२२) इत्यनेन शीङ्-धातोः अय्-आदेशो भवति यकारादि-कित्ङित्-प्रत्यये परे | तदा द्वित्वसामान्याभ्यासानन्तरं दीर्घोऽकितः (७.४.८३) इत्यनेन अकित्-अभ्यासस्य दीर्घादेशो भवति यङि परे |
शी + यङ् → शय् + य → द्वित्वसामान्याभ्यासकार्यम् → श श +य्य → दीर्घोऽकितः (७.४.८३) इत्यनेन अकित्-अभ्यासस्य दीर्घादेशः → शाश + य्य → शाशय्य इति यङन्तधातुः → शाशय्य + ते → अतो गुणे (६.१.९७) इत्यनेन पूर्वपरयोः स्थाने एकः पररूपमेकादेशः → शाशय्यते
दीर्घोऽकितः (७.४.८३) = अकित्-अभ्यासस्य दीर्घादेशो भवति यङि यङ्लुकि च | न कित् यस्य स अकित्, तस्य | 'अकित्-अभ्यासः' इत्युक्ते तादृशः अभ्यासः यस्य कित् आगमो न भवति | दीर्घः प्रथमान्तम्, अकितः षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः | गुणो यङ्लुकोः (७.४.८२) इत्यस्मात् यङ्लुकोः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अङ्गस्य अकितः अभ्यासस्य दीर्घः यङ्लुकोः |
अयङ् यि क्ङिति (७.४.२२) = शीङ्-धातोः अय्-आदेशो भवति यकारादि-कित्ङित्-प्रत्यये परे | अयङ् इत्यस्मिन् ङकारस्य इत्-संज्ञा, यकारोत्तरवर्ती अकारश्च उच्चरणार्थः | क् च ङ् च क्ङौ, तौ इतौ यस्य सः क्ङित् द्वन्द्वगर्भो बहुव्रीहिः, तस्मिन् क्ङिति | अयङ् प्रथमान्तं, यि सप्तम्यन्तं, क्ङिति सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | शीङः सार्वधातुके गुणः (७.४.२१) इत्यस्मात् शीङः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— शीङः अङ्गस्य अयङ् यि क्ङिति |
ङिच्च (१.१.५३) = ङित्-आदेशः अनेकाल् चेदपि अन्त्यस्य एव स्थाने भवति | इदं सूत्रम् अनेकाल्शित् सर्वस्य (१.१.५५) इति सूत्रस्य अपवादः; अनेकाल्शित् सर्वस्य (१.१.५५) तु अलोऽन्त्यस्य (१.१.५२) इत्यस्य अपवादः | ङकारः इत यस्य सः ङित्, बहुव्रीहिः | ङित् प्रथमान्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | अलोऽन्त्यस्य (१.१.५२) इत्यस्मात् अलः, अन्त्यस्य इत्यनयोः अनुवृत्तिः | स्थानेऽन्तरतमः (१.१.५०) इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— ङिच् च अन्त्यस्य अलः स्थाने |
अनेकाल्शित् सर्वस्य (१.१.५५) = आदेशः अनेकाल् (आदेशे एक एव वर्णः न अपि तु अनेके वर्णाः) अथवा शित् चेत्, सर्वस्थानिनः स्थाने भवति (न तु अन्त्यवर्णस्य) | (यस्य स्थाने आदेशः आदिष्टः, सः स्थानी |) इदं सूत्रम् अलोऽन्त्यस्य (१.१.५२) इत्यस्य अपवादः | न एकः अनेकः नञ्तत्पुरुषः; अनेकः अल् यस्य सः अनेकाल् बहुब्रीहिः; शकारः इत् यस्य सः शित् बहुब्रीहिः; अनेकाल् च शित् च अनेकाल्शित् समाहारद्वन्द्वः | अनेकाल् प्रथमान्तं, शित् प्रथमान्तं, सर्वस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | स्थानेऽन्तरतमः (१.१.५०) इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— अनेकाल्शित् सर्वस्य स्थाने |
३) श्वि-धातुः
विभाषा श्वेः (६.१.३०) इत्यनेन श्वि-धातोः विकल्पेन सम्प्रसारणं यङि परे |
सम्प्रसारणपक्षे—
श्वि + यङ् → विभाषा श्वेः (६.१.३०) इत्यनेन सम्प्रसारणम् → शु + य → हलः (६.४.२) इत्यनेन अङ्गावयवात् हलः यदुत्तरं संप्रसारणं तदन्तस्याङ्गस्य दीर्घादेशः→ शू + य → अकृत्सार्वधातुकयोर्दीर्घः (७.४.२५) इत्यनेन अजन्ताङ्गस्य दीर्घादेशः कृद्भिन्न-सार्वधातुकभिन्न-यकारादिप्रत्यये परे → शू + य → द्वित्वसामान्याभ्यासकार्यम् → शुशू + य → गुणो यङ्लुकोः (७.४.८२) इत्यनेन अभ्यासस्य गुणः यङि → शोशूय इति यङन्तधातुः → शोशूय + ते → शोशूयते
सम्प्रसारणविपक्षे—
श्वि + यङ् → अकृत्सार्वधातुकयोर्दीर्घः (७.४.२५) इत्यनेन अजन्ताङ्गस्य दीर्घादेशः → श्वी + य → द्वित्वसामान्याभ्यासकार्यम् → शिश्वी + य → गुणो यङ्लुकोः (७.४.८२) → शेश्वी + य → शेश्वीय इति इति यङन्तधातुः → शेश्वीयते
विभाषा श्वेः (६.१.३०) = श्वि-धातोः विकल्पेन सम्प्रसारणं भवति लिटि यङि च | श्वयतेः सम्प्रसारणं वा स्याल्लिटि यङि च | विभाषा प्रथमान्तं, श्वेः षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | ष्यङः सम्प्रसारणम् (६.१.१३) इत्यस्मात् सम्प्रसारणम् इत्यस्य अनुवृत्तिः | लिङ्यङोश्च (६.१.२९) इत्यस्मात् लिङ्यङोः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— श्वेः विभाषा सम्प्रसारणम् लिङ्यङोः |
गुणो यङ्लुकोः (७.४.८२) = अभ्यासस्य गुणो भवति यङि यङ्लुकि च | यङ् च लुक् च यङ्लुकौ इतरेतरद्वन्द्वः, तयोः यङ्लुकोः | गुणः प्रथमान्तं, यङ्लुकोः सप्तम्यन्तं, द्विपदमिदं सूत्रम् | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अङ्गस्य अभ्यासस्य गुणः यङ्लुकोः |
उकारान्तानाम् ऊकारान्तानां च धातूनां यङन्तधातु-सिद्धिः
१) सामान्यधातवः
यङ्-प्रत्ययस्य ङित्त्वात् गुणनिषेधः |
सार्वधातुकार्धधातुकयोः (७.३.८४) = इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | अनुवृत्ति-सहितसूत्रम्— इकः अङ्गस्य गुणः सार्वधातुकार्धधातुकयोः |
क्क्ङिति च (१.१.५) = यः प्रत्ययः गित्, कित् अथवा ङित् अस्ति, अपि च तस्मात् प्रत्ययात् पूर्वं तस्य एव प्रत्ययस्य कारणतः इकः स्थाने गुणः वा वृद्धिः वा भवति स्म, सः (गुणः वृद्धिः) न भवति | अनुवृत्ति-सहितसूत्रम्— क्क्ङिति च इकः गुणवृद्धी न |
यङ्-प्रत्ययः यकारादिः, कृत्सार्वधातुकयोः भिन्नश्च, अतः उकारान्तधातूनां दीर्घादेशो भवति | अकृत्सार्वधातुकयोर्दीर्घः (७.४.२५) इत्यनेन अजन्ताङ्गस्य दीर्घादेशो भवति कृद्भिन्न-सार्वधातुकभिन्न-यकारादिप्रत्यये परे | तदा विशिष्टाभ्यासकार्ये गुणो यङ्लुकोः (७.४.८२) इत्यनेन अभ्यासस्य गुणः यङि परे |
हु → धातोरेकाचो हलादेः क्रियासमभिहारे यङ् (३.१.२२) → हु + यङ् → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन गुणादेशः → क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधः → हु + य → अकृत्सार्वधातुकयोर्दीर्घः (७.४.२५) इत्यनेन अजन्ताङ्गस्य दीर्घादेशः → हू + य → द्वित्वसामान्याभ्यासकार्यम् → जुहू + य → गुणो यङ्लुकोः (७.४.८२) इत्यनेन अभ्यासस्य गुणः यङि → जोहूय इति यङन्तधातुः → जोहूय + ते → अतो गुणे (६.१.९७) इत्यनेन पूर्वपरयोः स्थाने पररूपमेकादेशः → जोहूयते
ऊकारान्ताधातुः चेदपि पर्जन्यवत् दीर्घादेशो भवति—
भू + यङ् → अकृत्सार्वधातुकयोर्दीर्घः (७.४.२५) इत्यनेन अजन्ताङ्गस्य दीर्घादेशः → भू + य → द्वित्वसामान्याभ्यासकार्यम् → बुभू + य → गुणो यङ्लुकोः (७.४.८२) इत्यनेन अभ्यासस्य गुणः यङि → बोभूय इति यङन्तधातुः → बोभूय + ते → बोभूयते
२) कुङ्-धातुः शब्दे
धातुपाठे त्रयः कु-धातवः सन्ति— भ्वादौ, अदादौ, तुदादौ च | अदादौ, तुदादौ च यः कु-धातुः अस्ति, उभयत्र यङि परे साधारणरीत्या सामान्याभ्यासकार्यम् अनुसृत्य कुहोश्चुः (७.४.६२) इत्यनेन अभ्यासे कवर्गीयस्य स्थाने चवर्गीयादेशो भवति | कु + यङ् → चुकू | परन्तु भ्वादौ कु शब्दे इति धातोः चुत्वं न भवति |
कु → कु + यङ् → अकृत्सार्वधातुकयोर्दीर्घः (७.४.२५) → कू + य → कू कू य → कुहोश्चुः (७.४.६२) इत्यनेन अभ्यासे कवर्गीयस्य स्थाने चुत्वादेशः → न कवतेर्यङि (७.४.६३) इत्यनेन चुत्वनिषेधः → कुकू + य → गुणो यङ्लुकोः (७.४.८२) → कोकूयते
न कवतेर्यङि (७.४.६३) = कु-धातोः अभ्यासस्य ककारस्य चुत्वादेशो न भवति यङि परे | नाव्ययं, कवतेः षष्ठ्यन्तं, यङि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः | कुहोश्चुः (७.४.६२) इत्यस्मात् चुः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— कवतेः अङ्गस्य अभ्यासस्य चुः न यङि |
कुहोश्चुः (७.४.६२) = अभ्यासे कवर्गीयस्य हकारस्य च स्थाने चवर्गीयादेशो भवति | तत्र स्थानेऽन्तरतमः (१.१.५०) इति परिभाषा-सूत्रेण, उच्चारणस्थानसाम्यवशात् हकारस्य स्थाने झकारः, तदा अभ्यासे चर्च (८.४.५४) इत्यनेन झ-स्थाने जकारः | कुश्च ह् च तयोरितरेतरद्वन्द्वः कुहौ, तयोः कुहोः | कुहोः षष्ठ्यन्तं, चुः प्रथमान्तं, द्विपदमिदं सूत्रम् | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अङ्गस्य अभ्यासस्य कुहोः चुः |
३) ब्रू-धातुः
आर्धधातुकविषये ब्रू-धातोः स्थाने वच्-आदेशो भवति—
ब्रू + यङ् → ब्रुवो वचिः (२.४.५३) इत्यनेन ब्रुवो वचिरादेशो भवति आर्धधातुकविषये → वच् + य → व व + च्य → दीर्घोऽकितः (७.४.८३) इत्यनेन अकित्-अभ्यासस्य दीर्घादेशो भवति यङि → वावच्यते
ब्रुवो वचिः (२.४.५३) = ब्रुवो वचिरादेशो भवति आर्धधातुकविषये | इकार उच्चारणार्थः | ब्रुवः षष्ठ्येकवचनं, वचिः प्रथमैकवचनं, द्विपदमिदं सूत्रम् | आर्धधातुके (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— ब्रुवः वचिः आर्धधातुके |
दीर्घोऽकितः (७.४.८३) = अकित्-अभ्यासस्य दीर्घादेशो भवति यङि यङ्लुकि च | न कित् यस्य स अकित्, तस्य | 'अकित्-अभ्यासः' इत्युक्ते तादृशः अभ्यासः यस्य कित् आगमो न भवति | दीर्घः प्रथमान्तम्, अकितः षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः | गुणो यङ्लुकोः (७.४.८२) इत्यस्मात् यङ्लुकोः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अङ्गस्य अकितः अभ्यासस्य दीर्घः यङ्लुकोः |
ऋकारान्तानां धातूनां यङन्तधातु-सिद्धिः
ऋकारान्त-धातूनां विभजनं त्रिषु विभागेषु यङि परे |
१) असंयोगपूर्वऋकारान्तधातवः
रीङृतः (७.४.२७) इत्यनेन ऋदन्ताङ्गस्य रीङ्-आदेशो भवति कृद्भिन्न-सार्वधातुकभिन्न-यकारे परे | इति सामान्य-अङ्गकार्यम् |
कृ + यङ् → रीङृतः (७.४.२७) इत्यनेन ऋदन्ताङ्गस्य रीङ्-आदेशः कृद्भिन्न-सार्वधातुकभिन्न-यकारे परे → क्री + य → क्री + क्री + य → सामान्याभ्यासकार्यं → चिक्रीय → विशिष्टम् अभ्यासकार्यं गुणो यङ्लुकोः (७.४.८२) → चेक्रीय → चेक्रीयते
रीङृतः (७.४.२७) =ऋदन्ताङ्गस्य रीङ्-आदेशो भवति यकारादि-कृद्भिन्न-सार्वधातुकभिन्न-प्रत्यये परे, च्वि-प्रत्यये परे च | रीङ्-आदेशो अनेकल्, किन्तु ङिच्च (१.१.५३) इत्यनेन आदेशः ङित् चेत्, अनेकाल् चेदपि अङ्गस्य अन्त्यस्य एव स्थाने आदेशः | रीङ् प्रथमान्तं, ऋतः षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | अकृत्सार्वधातुकयोर्दीर्घः (७.४.२५) इत्यस्मात् अकृत्सार्वधातुकयोः इत्यस्य अनुवृत्तिः | अयङ् यि क्ङिति (७.४.२२) इत्यस्मात् यि इत्यस्य अनुवृत्तिः | च्वौ च (७.४.२६) इत्यस्मात् च्वौ इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— ऋतः अङ्गस्य रीङ् य्योः अकृत्सार्वधातुकयोः च्वौ |
नेतृ + च्वि + भवति → च्वि इति तद्धित-प्रत्ययस्य इकारः उच्चारणार्थः, चकारस्य इत्संज्ञालोपश्च , वकारस्य वेरपृक्तस्य (६.१.६७) इत्यनेन लोपः → रीङृतः (७.४.२७) → नेत्रीभवति
अनेकाल् शित्सर्वस्य (१.१.५५) इति सूत्रं वक्ति यत् आदेशः अनेकाल् अस्ति चेत् (आदेशे एक एव वर्णः न अपि तु अनेके वर्णाः), तर्हि सर्वस्य, नाम सर्वाङ्गस्य स्थाने आदेशः आयाति | रीङ् इत्यस्मिन् आदेशे ङकारस्य इत्-संज्ञा भवति अतः री अवशिष्यते | री इत्यस्मिन् एक एव वर्णः न अपि तु तस्मात् अधिकाः वर्णाः (“र्”, “ई” इति), अतः अनेकाल् अस्ति | इदं सूत्रम् अलोऽन्त्यस्य (१.१.५२) इत्यस्य अपवादः | तर्हि अत्र पूर्णस्य "कृ" इत्यस्य स्थाने री इति इदं सूत्रं वक्ति | परन्तु ङिच्च (१.१.५३), अनेकाल् शित्सर्वस्य इत्यस्य अपवादभूतसूत्रम् | ङिच्च इति सूत्रेण आदेशः ङित् चेत्, तर्हि अनेकाल् चेदपि अङ्गस्य अन्त्यस्य एव स्थाने आदेशः इति | अतः कृ धातौ ऋकारस्थाने री आदेशः |
ङिच्च (१.१.५३) = आदेशः ङित् चेत्, तर्हि अनेकाल् चेदपि अङ्गस्य अन्त्यस्य एव स्थाने आदेशः | इदं सूत्रम् अनेकाल् शित्सर्वस्य (१.१.५५) इत्यस्य अपवादः; अनेकाल् शित्सर्वस्य (१.१.५५) तु अलोऽन्त्यस्य (१.१.५२) इत्यस्य अपवादः | ङित् प्रथमान्तम्, च अव्ययपदम्, द्विपदमिदं सूत्रम् | अलोऽन्त्यस्य (१.१.५२) इत्यस्मात् अन्त्यस्य इत्यस्य अनुवृत्तिः; स्थानेऽन्तरतमः (१.१.५०) इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— ङित् च अन्त्यस्य स्थाने |
एवमेव—
भृ + यङ् →
वृ + यङ् →
हृ + यङ् →
धृ + यङ् →
घृ + यङ् →
मृ + यङ् →
दृ + यङ् →
२) संयोगपूर्वऋकारान्तधातवः
यङि च (७.४.३०) इत्यनेन संयोगादिऋकारान्तधातोः ऋकारस्य गुणादेशो भवति यङि परे | इति सामान्य-अङ्गकार्यम् |
स्मृ + यङ् → यङि च (७.४.३०) इत्यनेन संयोगादिऋकारान्तधातोः ऋकारस्य गुणादेशः यङि परे → स्मर् + य → सन्यङोः (६.१.९), एकाचो द्वे प्रथमस्य (६.१.१) इत्याभ्यं द्वित्वम् → स्म स्म र्य → सामान्याभ्यासकार्यम् → स स्म र्य → विशिष्टाभ्यासकार्यम् → दीर्घोऽकितः (७.४.८३) इत्यनेन अकित्-अभ्यासस्य दीर्घादेशो भवति यङि → सास्म र्य → सास्मर्यते
यङि च (७.४.३०) = ऋ-धातोः च संयोगादिऋकारान्तधातोश्च ऋकारस्य गुणादेशो भवति यङि परे | यङ्-प्रत्ययस्य ङित्त्वात् क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधत्वात् गुणस्य साधनार्थम् अस्य सूत्रस्य आवश्यकता अस्ति | यङि सप्तम्यन्तं, चाव्ययं, द्विपदमिदं सूत्रम् | चकारस्य बलेन गुणोऽर्ति-संयोगाद्योः (७.४.२९) इत्यस्य सम्पूर्णरीत्या अनुवृत्तिः | रीङृतः (७.४.२७) इत्यस्मात् ऋतः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) अधिकारः | अनुवृत्ति-सहितसूत्रम्— अर्तिसंयोगाद्योः अङ्गस्य ऋतः गुणः यङि |
एवमेव—
ध्वृ + यङ् →
ह्वृ + यङ् →
३) ऋ-धातुः
ऋ + यङ् → महाभाष्यनिर्देशेन → अरार्यते
ऋ गतौ इति धातुः | तस्य ऋ-धातोः अजादेः कारणेन धातोरेकाचो हलादेः क्रियासमभिहारे यङ् (३.१.२२) इत्यनेन यङः विधानं न भवति स्म | परन्तु सूचिसूत्रिमूत्र्यटत्यर्त्यशूर्णोतीनां यङ् वक्तव्यम् इति वार्त्तिकेन क्रियासमभिहारार्थे सूचि, सूत्रि, मूत्रि इत्येभ्यः त्रिभ्यः अनेकाच्-धातुभ्यः च अट्, ऋ, अश्, ऊर्णु इति चतुर्भ्यः अजादिधातुभ्यः यङ्-प्रत्ययो भवति | ऋ + य |
ऋ + य → यङि च (७.४.३०) इत्यनेन ऋ-धातोः ऋकारस्य गुणादेशो भवति यङि परे → अर् + य → अजादेर्द्वितीयस्य (६.१.२) इत्यस्य साहाय्येन, सन्यङोः (६.१.९) इत्यनेन यङन्तस्य धातुरनभ्यासस्य प्रथमस्यैकाच्-अवयवस्य द्वे स्तः; अजादेस्तु द्वितीयस्य → प्रथमः एकाच्-भागः ‘अ’; द्वितीयः एकाच्-भागः 'र्य' → न न्द्राः संयोगादयः (६.१.३) इत्यनेन अचः पराः संयोगादयः नदराः द्विर्न भवन्ति— अजादेः संयोगादयः न्द्राः न द्वे → अ + र्य + य इति स्यात् → परन्तु यकारपररेफस्य न द्वित्वनिषेधः, अरार्यते इति भाष्योदाहरणात् इति सिद्धान्त्कौमुदीवाक्यं; महाभाष्यग्रन्थे सूचिसूत्रिमूत्र्यटत्यर्त्यशूर्णोतीनां यङ् वक्तव्यम् इति वार्त्तिकावसरे अरार्यते इति रूपम् उदाहृतम्; अनेन प्रमाणं स्वीकृतं यत् अत्र न न्द्राः संयोगादयः (६.१.३) इत्यस्य प्रवृत्तिर्न भवति; रेफस्य इह द्वित्वनिषेधो नास्ति → अ + र्य + र्य → हलादिः शेषः (७.४.६०) → अ + र + र्य → दीर्घोऽकितः (७.४.८३) इत्यनेन अकित्-अभ्यासस्य दीर्घादेशो भवति यङि परे → अरार्य इति धातुः → अरार्य +शप् + ते → अरार्यते
ॠकारान्तानां धातूनां यङन्तधातु-सिद्धिः
अ) अनोष्ठ्यपूर्व-ॠकारान्तधातवः
यस्य धातोः अन्तिमवर्णः दीर्घॠकारः, अपि च तस्मात् प्राक् यः वर्णः सः ओष्ठ्यवर्णो नास्ति नाम पवर्गीयः अथवा वकारो नास्ति, स च धातुः अनोष्ठ्यपूर्व-ॠकारान्तधातुः | यथा तॄ, जॄ, गॄ, कॄ, शॄ इत्यादयः धातवः |
एतादृशानां धातूनां कार्यम् एवं भवति—
तॄ + यङ् → ॠत इद्धातोः (७.१.१००) इत्यनेन ॠदन्तधातोः अङ्गस्य ह्रस्व-इकारादेशः → ति + य → उरण् रपरः (१.१.५१) इत्यनेन ॠकारस्य स्थाने अण्-आदिष्टः चेत्, सः अण् सदा रपरः → तिर् + य → हलि च (८.२.७७) इत्यनेन रेफान्तधातूनाम् उपधायां स्थितः इक्-वर्णः दीर्घो हलि परे → तीर् + य → ती ती र्य → सामान्याभ्यासकार्यम् → ति ती र्य → गुणो यङ्लुकोः (७.४.८२) इत्यनेन अभ्यासस्य गुणो भवति यङि परे → ते ती र्य → तेतीर्यते
ॠत इद्धातोः (७.१.१००) = ॠदन्तस्य धातोः अङ्गस्य ह्रस्व-इकारादेशो भवति | किति ङिति प्रत्यये परे एव इति बोध्यं; नो चेत् गुणः | कित्-ङित् भिन्नप्रत्ययः परश्चेत्, गुणे सति इकारादेशस्य प्रसक्तिर्न भवति | येन विधिस्तदन्तस्य (१.१.७२) इत्यस्य साहाय्येन ॠतः इत्यनेन ॠदन्तस्य इत्यस्यापि ग्रहणम् | अलोऽन्त्यस्य (१.१.५२) इत्यस्य साहाय्येन पूर्णतया धातोः स्थाने न, अपि तु अन्तिमस्य ॠकारस्य स्थाने ह्रस्व-इकारादेशः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः; प्रत्ययः न भवति चेत् इदं कार्यं न स्यादेव, नो चेत् अनेन धातोः अपि मूलरूपं परिवर्तेत | ॠतः षष्ठ्यन्तम्, इत् प्रथमान्तम्, धातोः षष्ठ्यन्तम्, त्रिपदमिदं सूत्रम् | अनुवृत्ति-सहितसूत्रम्— ॠतः धातोः अङ्गस्य इत् |
उरण् रपरः (१.१.५१) = ऋकारस्य स्थाने यदा अण्-आदेशः भवति, तदा सः अण् सदा रपरः भवति | ऋकारेण त्रिंशत्-प्रकारकः ऋकारः भवति इति बोध्यम् | रः परो यस्य सः रपरः | उः षष्ठ्यन्तम्, अण् प्रथमान्तम्, रपरः प्रथमान्तम्, त्रिपदमिदं सूत्रम् | स्थानेऽन्तरतमः (१.१.५०) इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— उः स्थाने अण् रपरः |
हलि च (८.२.७७) = रेफान्तानां वकारान्तानां च धातूनाम् उपधायां स्थितः इक्-वर्णः दीर्घो भवति हलि परे | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तदन्तविधिः अतः र्वोः इत्यनेन येषाम् धातूनाम् अन्ते रेफः वकारश्च, तेषां ग्रहणम् | हलि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | सिपि धातो रुर्वा (८.२.७४) इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः; र्वोरुपधाया दीर्घ इकः (८.२.७६) इत्यस्य पूर्णतया अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— र्वोः धातोः उपधायाः इकः दीर्घः हलि |
गुणो यङ्लुकोः (७.४.८२) = अभ्यासस्य गुणो भवति यङि यङ्लुकि च | यङ् च लुक् च यङ्लुकौ इतरेतरद्वन्द्वः, तयोः यङ्लुकोः | गुणः प्रथमान्तं, यङ्लुकोः सप्तम्यन्तं, द्विपदमिदं सूत्रम् | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अङ्गस्य अभ्यासस्य गुणः यङ्लुकोः |
एवमेव—
जॄ + यङ् → जि + य → जिर् + य →
कॄ →
दॄ →
शॄ →
आ) ओष्ठ्यपूर्व-ॠकारान्तधातवः
यस्य धातोः अन्तिमवर्णः दीर्घॠकारः, अपि च तस्मात् प्राक् यः वर्णः सः ओष्ठ्यवर्णः नाम पवर्गीयः अथवा वकारः, स च धातुः ओष्ठ्यपूर्व-ॠकारान्तधातुः | यथा पॄ, वॄ इत्यादयः धातवः |
एतादृशानां धातूनां कार्यम् एवं भवति—
पॄ + यङ् → उदोष्ठ्यपूर्वस्य (७.१.१०२) इत्यनेन ओष्ठ्यपूर्वस्य ॠकारान्ताङ्गस्य ॠकारस्य ह्रस्वः उकारादेशः → पु + य → उरण् रपरः (१.१.५१) इत्यनेन ॠकारस्य स्थाने अण्-आदिष्टः चेत्, सः अण् सदा रपरः → पुर् + य → हलि च (८.२.७७) इत्यनेन रेफान्तधातूनाम् उपधायां स्थितः इक्-वर्णः दीर्घो हलि परे → पूर् + य → पू पू + र्य → सामान्याभ्यासकार्यम् → पु पू + र्य → गुणो यङ्लुकोः (७.४.८२) इत्यनेन अभ्यासस्य गुणो भवति यङि परे → पो पू + र्य → पोपूर्यते
उदोष्ठ्यपूर्वस्य (७.१.१०२) = ओष्ठ्यपूर्वस्य ॠकारान्ताङ्गस्य ॠकारस्य ह्रस्वः उकारादेशो भवति | येन विधिस्तदन्तस्य (१.१.७२) इत्यस्य साहाय्येन तदन्तविधिः अतः तादृशम् अङ्गं यस्य अन्ते ॠकारः अस्ति, न तु ॠकारः इति अङ्गम्; अलोऽन्त्यस्य (१.१.५२) इत्यनेन अङ्गान्तस्य वर्णस्य स्थाने उदादेशः, न तु अङ्गस्य पूर्णस्य | ओष्ठ्याः नाम पवर्गीय-वर्णाः | ओष्ठयोः भवः ओष्ठ्यः | ओष्ठ्यः पूर्वो यस्मात्, सः ओष्ठ्यपूर्वः बहुव्रीहिः, तस्य ओष्ठ्यपूर्वस्य (ॠवर्णस्य) | उत् प्रथमान्तम्, ओष्ठ्यपूर्वस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | ॠत इद् धातोः (७.१.१००) इत्यस्मात् ॠतः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— ओष्ठ्यपूर्वस्य ॠतः अङ्गस्य उत् |
एवमेव—
वॄ + यङ् →
भॄ + यङ्→
अपवादभूतः गॄ-धातुः
धातुपाठे द्वौ गॄ-धातू स्तः | तुदादिगणे गॄ निगरणे, लटि गिरति | क्र्यादिगणे गॄ शब्दे, लटि गृणाति | गॄ शब्दे इत्यस्य अनभिधानस्य (लोके अप्रयुज्यमानस्य) कारणेन यङ्-प्रत्ययो न भवति | काशिकायां दीयते यत् "केचिद् ग्र इति गिरतेर्गृणातेश्च सामान्येन ग्रहणमिच्छन्ति | अपरे तु गिरतेरेव, न गृणातेः | गृणातेर्हि यङेव नास्ति, अनभिधानादिति | यङीति किम् ? निगीर्यते |”
तुदादिगणीयः 'गॄ निगरणे' इत्यस्य यङन्तरूपं भवति; तस्य च इदं वैशिष्ट्यम्—
ग्रो यङि (८.२.२०) = गॄ-धातोः रेफस्य स्थाने लकारादेशो भवति यङि परे | (गॄ-शब्दस्य) ग्रः इति षष्ठ्यन्तं रूपं, यङि सप्तम्यन्तं, द्विपदमिदं सूत्रम् | कृपो रो लः (८.२.१८) इत्यस्मात् रो लः इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— ग्रः रः लः यङि |
गॄ + यङ् → ॠत इद्धातोः (७.१.१००) इत्यनेन ऋदन्तधातोः अङ्गस्य ह्रस्व-इकारादेशः → गि + य → उरण् रपरः (१.१.५१) इत्यनेन ऋकारस्य स्थाने अण्-आदिष्टः चेत्, सः अण् सदा रपरः → गिर् + य → ग्रो यङि (८.२.२०) इत्यनेन गॄ-धातोः रेफस्य स्थाने लकारादेशो भवति यङि परे → गिल् + य → सन्यङोः (६.१.९) इत्यनेन यङन्तस्य धातुरनभ्यासस्य प्रथमस्यैकाच्-अवयवस्य द्वे स्तः → गि गि ल्य → जि गि ल्य → जे गि ल्य → जेगिल्यते
धेयं यत् ग्रो यङि (८.२.२०) इत्यनेन गॄ-धातोः लत्वे सति हलि च (८.२.७७) इत्यनेन उपधायाम् इकः दीर्घो न भवति यतोहि अनेन सूत्रेण रेफान्तानां वकारान्तानाम् एव धातूनाम् उपधा-दीर्घो भवति | प्रकृतौ यद्यपि गॄ-धातुः रेफान्तः जातः, तथापि सम्प्रति लकारान्तः अस्ति अतः हलि च (८.२.७७) इत्यस्य प्रसक्तिर्नास्ति |
प्रश्नः उदेति यत् ग्रो यङि (८.२.२०) इत्यस्य कार्यं साधयितुं शक्यते द्वित्वाभ्यासकार्यानन्तरं, 'जेगिर् + य' इति स्थितौ ? नाम, ग्रो यङि (८.२.२०) त्रिपादिसूत्रमस्ति, त्रिपाद्यां सत्यां सर्वकार्यान्ते भवेत् ? इति चेत्, सर्वप्रथमम् अस्माभिः चिन्तनीयं किल यत् 'जिगिर्' इत्यस्मिन् औपदेशिक 'गॄ'-धातुः उपस्थितः अस्ति न वा |
अत्र अन्यः प्रश्नः उदेति यत् औपदेशिक-आतिदेशिकधात्वोः विभागः किमर्थं कृतः ? एतादृशं नामकरणं, विभजनञ्च किमर्थम् ? वस्तुतस्तु केवलं द्वयोः स्थलयोः भेदः—(१) व्युत्पत्ति विषये; (२) भावे | (१) बालानां बोधः आवश्यकः यत् औपदेशिकधातुभ्यः द्वादश धातुप्रत्ययानां विधानेन प्रत्ययान्तधातवः निष्पद्यन्ते |
(२) भावे (३.३.१८) इत्यस्य अधिकारे यत्र भावार्थे प्रत्ययाः विधीयन्ते, घञ्-प्रत्ययः सामान्यः, स्त्रियां च क्तिन् | परन्तु प्रत्ययान्तेभ्यः धातुभ्यः घञ्-प्रत्ययः, क्तिन्-प्रत्ययः च न विधीयेते, स्थाने अ प्रत्ययात् (३.३.१०२) इत्यनेन स्त्रीलिङ्गे अ-प्रत्ययो भवति | अस्मिन् सूत्रे साक्षात् प्रत्ययान्तधातवः उक्ताः | अनुवृत्तिसहितसूत्रम् अस्ति— प्रत्ययात् धातोः अः प्रत्ययः परः स्त्रियां भावे अकर्तरि च कारके संज्ञायाम् | तदन्तविधिना 'प्रत्ययात् धातोः’ इत्युक्ते प्रत्ययान्तात् धातोः | आहत्य प्रत्ययान्तेभ्यः धातुभ्यः अ-प्रत्ययः विधीयते स्त्रीत्वविशिष्ट-भाव-कर्तृभिन्नकारक-अर्थे | उदाहरणत्वेन भावार्थे जिगीषा (जि-धातुः 'जयति’, जेतुम् इच्छा), चिकीर्षा (कर्तुम् इच्छा), पिपासा, बुभूक्षा | एवं कृत्वा प्रत्ययान्तधातूनां न घञ्-प्रत्ययः न वा क्तिन्-प्रत्ययः भवति | इति प्रायः इदम् एकम् एव सूत्रम् अष्टाध्याय्यां यस्मिन् प्रत्ययान्तधातवः साक्षात् उक्ताः |
(३) लिट्-लकारे धातूनां द्वित्वं भवति इति सामान्यनियमः, किन्तु प्रत्ययान्तधातूनां द्वित्वं न भवति, अपि तु आम्-प्रत्ययः विधीयते कास्प्रत्ययादाममन्त्रे लिटि (३.१.३५), कास्येनाच आम् वक्तव्यः इति सूत्रेण वार्तिकेन च | एताभ्यां कास्-धातोः च अनेकाच्-धातूनां (यथा दरिद्रा, चकासृ, देधी, वेवी; अपि च प्रत्ययान्तधातवः यथा पाठि, पिपठिष, पापठ्य) लिटि परे द्वित्वं न भवति, अपि तु आम्-प्रत्ययविधानम् | अत्र किन्तु साक्षात् प्रत्ययान्तधातवः साक्षात् नोक्ताः | ये औपदेशिकधातवः अनेकाचः, तेषामपि लिटि समानगतिः |
एवं च एकवारं यदा धातु-संज्ञा जाता, पुरतः सर्वे धातवः स्थापिताः, ततः अग्रे एकस्मिन्नेव स्थले प्रक्रियाभेदो वर्तते औपदेशिक-आतिदेशिकधात्वोः मध्ये—भावार्थे अ-प्रत्ययः | अन्यत्र सर्वत्र प्रक्रिया समाना |
तर्हि सार्वधातुकप्रक्रियायाम् औपदेशिक-आतिदेशिकधातूनां प्रसङ्गे किं वक्तव्यम् ? अत्र दृष्टिद्वयं वर्तते | एकदृष्ट्या अत्रापि भेदो वर्तते यतोहि औपदेशिकधातूनां धातुगणम् अनुसृत्य श्रेणीकरणं भवति; आतिदेशिकधातूनां च किमपि विभागीकरणं नास्ति, सर्वे धातवः समानाः | अनया दृष्ट्या औपदेशिकधातवः पृथक्तया अवलोकनीयाः—यत्र धातुगणनिमित्तकविकरणप्रत्ययाः विधीयन्ते | कर्तरि लटि, लोटि, लङि, विधिलिङि, शतरि, शानचि च दिवादिभ्यः श्यन् (३.१.६९), तुदादिभ्यः शः (३.१.७७), स्वादिभ्यः श्नुः (३.१.७३), क्र्यादिभ्यः श्ना (३.१.८१), तनादिकृञ्भ्यः उः (३.१.७९), सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण -चुरादिभ्यो णिच् (३.१.२५), अदिप्रभृतिभ्यः शपः (२.४.७२), जुहोत्यादिभ्यः श्लुः (२.४.७५) इति सूत्राणि ज्ञापकानि यत् औपदेशिक-आतिदेशिकधात्वोः विभागः अपेक्षितः | यतोहि औपदेशिकधातूनां धातुगणम् अनुसृत्य श्रेणीकरणं भवति; आतिदेशिकधातूनां न भवति |
परन्तु अपरया दृष्ट्या, समग्रदृष्ट्या, एकवारं यदा सर्वे धातवः पुरतः स्थापिताः, तदा सर्वे धातवः धातुमात्रम् | धातुसंज्ञा एका एव; यद्यपि धातुसंज्ञाविधातकसूत्रद्वयं, तथापि एकेवारं यदा धातुसंज्ञा आगता, तदा धातुसंज्ञायां भेदो नास्ति | आतिदेशिकधातुभ्यः सार्वधातुकप्रक्रियायां कर्तरि शप् (३.१.६८) इत्यनेन शप्-विधीयते | भ्वादिगणः तादृशधातुगणः यस्मिन् धातुभ्यः शप् विधीते, अतः आतिदेशिकधातवः भ्वादिगणीयाः एव | यावन्तः 'औपदेशिकधातवः' भ्वादिगणे सन्ति, तेभ्यः सार्वधातुकप्रक्रियायाम् 'आतिदेशिकधातूनां' कोऽपि भेदो नास्ति | तर्हि सार्वधातुकप्रक्रियायाम् आतिदेशिकधातवः भ्वादिगणे | यथा भू-धातुः, तथा भावि-धातुः, तथा च जिगमिष-धातुः | अतः सार्वधातुकप्रक्रियायां विकरणप्रत्ययं निमित्तीकृत्य धातुगणभेदाः सन्ति, तान् धातुगणभेदान् च अधिकृत्य प्रक्रियाभेदाः सन्ति | श्यन् इति विकरणप्रत्ययः अस्ति चेत् प्रक्रिया भिन्ना, श्नु इति विकरणप्रत्ययः अस्ति चेत् प्रक्रिया भिन्ना | विकरणप्रत्ययभेदात् प्रक्रियाभेदः | परन्तु 'औपदेशिक-आतिदेशिक' भेदात् प्रक्रियाभेदः इति तु नास्ति | समानधातुगणे भ्वादिगणे धातुः औपदेशिकः अथवा आतिदेशिकः इत्यस्य परिणामे प्रक्रियाभेदो न भवति | अतः सार्वधातुकप्रक्रियायाम् औपदेशिक-आतिदेशिकधात्वोः नामकरणस्य किमपि मूल्यं नास्ति | एतादृशनामकरणस्य मूल्यं केवलं बालानां कृते प्रदर्शनार्थं यत् केचन धातवः अव्युत्पन्नाः अन्ये च व्युत्पन्नाः | परन्तु एकवारं यादा धातुसंज्ञा आगाता धातुः च सिद्धः ततः अग्रे सार्वधातुकप्रक्रियायां तदाधारेण भेदो नास्ति; आर्धधातुकप्रक्रियायां च एकस्मिन्नेव स्थले भेदः भावे यथोक्तम् |
आहत्य प्रक्रियार्थम् 'औपदेशिकधातुः', 'आतिदेशिकधातुः' इति नामकरणं मास्तु | बालानां कृते आरम्भे नामकरणम् अपेक्षितं प्रदर्शनार्थं यत् केचन धातवः एवमेव सन्ति; अन्ये धातवः निष्पन्नाः | अनन्तरं प्रक्रियार्थं कुत्रापि तादृशनामकरणं मास्तु, यतोहि तस्य किमपि कार्यं नास्ति | एकस्मिन् सूत्रे अ प्रत्ययात् (३.३.१०२) यत्र प्रक्रियाभेदो वर्तते, तत्र 'प्रत्ययान्तधातुः' इत्येव पाणिनेः नामकरणं पर्याप्तम् च, उपयोगि च अतः उचितमेव |
प्रकृतौ यङन्तधातूनां निर्माणावसरः आर्धधातुकप्रक्रिया; अत्र औपदेशिकधातूनां काऽपि आवश्यकता नास्ति | यदा हि यङ्-प्रत्ययः विधीयते, तदा हि धातुसज्ञा भवति, नूतनधातुः जातः, पुरातनश्च धातुः समाप्तः |
एवं सति कथं वा ग्रो यङि (८.२.२०) इत्यस्य कार्यं साधयितुं शक्यते द्वित्वाभ्यासकार्यानन्तरं, 'जेगिर् + य' इति स्थितौ ? भवति | कथमिति चेत्, तत्र गॄ-धातोः आवश्यकता नास्ति; आवश्यकता अस्ति गॄ-धातोः रेफः | ग्रो यङि (८.२.२०) इत्यनेन "गॄ-धातोः रेफस्य स्थाने लकारादेशो भवति यङि परे" | 'जेगिर् + य' इति स्थितौ गॄ-धातुः नास्ति, परन्तु गॄ-धातोः रेफः अस्ति | ग्रो यङि (८.२.२०) त्रिपादिसूत्रमस्ति इति कृत्वा गिर् +य → ग्रो यङि (८.२.२०), सन्यङोः (६.१.९) इत्यनयोः युगपत् प्रसक्तिः; अस्यां दशायां ग्रो यङि (८.२.२०) इति सूत्रम् असिद्धम् | द्वित्वाभ्यासकार्यां भवति, तदा वर्णकार्याणि |
एवं च द्वित्वाभ्यासकार्यानन्तरं त्रिपाद्यां स्थितसूत्राणां वर्णकार्यं भवति | ग्रो यङि (८.२.२०) अपि तथा, हलि च (८.२.७७) अपि तथा |
पुनः प्रश्नः उदेति यत् अस्तु, ग्रो यङि (८.२.२०) त्रिपादिसूत्रम् अस्ति; परन्तु सूत्रे निमित्तं तु यङ्-प्रत्ययः अतः इदं सूत्रं तादृशेषु सूत्रेषु स्यात् यत् अनुवृत्त्यर्थं लाघवार्थञ्च त्रिपाद्यां स्थापितम् अस्ति परन्तु वस्तुतः अङ्गकार्यम् | यथा अभ्यासे चर्च (८.४.५४) अभ्यासकार्यं परन्तु त्रिपाद्यां स्थापितम् अनुवृत्त्यार्थम् | अस्य सूत्रस्य किमपि असिद्ध्यर्थं कार्यं नास्ति | यत् सूत्रं त्रिपाद्याम् अस्ति प्रक्रियार्थं, तस्य त्रिपाद्यां सत्याम् असिद्धिकार्यं भवति; स्वयम् असिद्धं भवति अथवा परत्रिपादि प्रति असिद्धत्वस्य कारणं भवति | अभ्यासे चर्च (८.४.५४) इत्यस्य तादृशकार्यं किमपि नास्ति, परन्तु ग्रो यङि (८.२.२०) इत्यस्य तु भवति | 'जेगिर् + य' इति स्थले हलि च (८.२.७७) इत्यस्य प्रसक्तिः | ग्रो यङि (८.२.२०) पूर्वत्रिपादिसूत्रं, हलि च (८.२.७७) परत्रिपादिसूत्रम् अतः ग्रो यङि (८.२.२०) प्रति, हलि च (८.२.७७) इति सूत्रम् असिद्धम् | ग्रो यङि (८.२.२०), हलि च (८.२.७७) इत्यस्य बाधकसूत्रं, येन यङ्-प्रत्यये परे हलि च (८.२.७७) इत्यस्य कार्यं न स्यात् | लत्वं भवति चेत्, दीर्घत्वं न भवति |
ग्रो यङि (८.२.२०) इत्यस्मिन् 'यङि' इति प्रत्ययरूपेण न द्रष्टव्यम्, ‘यङ्-प्रत्ययस्य यकारः' इति द्रष्टव्यम् | यया रीत्या तिप्यनस्तेः (८.२.७३), सिपि धातो रुर्वा (८.२.७३) इति सूत्रद्वयेन प्रत्यये उक्ते अपि वर्णनिमित्तकार्यं न तु अङ्गकार्यं; प्रत्ययः उक्तः प्रदर्शनर्थं यत् अपरेषु प्रत्ययेषु इदं कार्यं न स्यात् | तथैव ग्रो यङि (८.२.२०) इति सूत्रम् अपि | अस्मिन् सूत्रे 'यङि' यदि न उच्यते, कस्मिन् अपि हलि लत्वं भविष्यति; तस्य व्यावृत्त्यर्थं 'यङि' इति उक्तम् | अन्येषु हलादिषु प्रत्ययेषु न स्यात्, एतदार्थं 'यङि' इति दत्तम् |
अपि च सूत्रस्य क्रमं दृष्ट्वा अपि अर्थदृष्ट्या वर्णकार्यम् | ग्रो यङि (८.२.२०) इत्यस्य अनन्तरम् अस्ति अचि विभाषा (८.२.२१), रो लत्वं भवति विकल्पेन अजादि प्रत्यये परे | एतदपि वर्णकार्यं न तु अङ्गकार्यम् | णिचि कर्मणि यकि निगार्यते / निगाल्यते इति रूपद्वयम् | एवेमेव निगरति / निगिलति; निगरणं, निगलनं; निगारकः, निगालकः |
इति अजन्तधातूनां यङन्तधातु-सिद्धिपाठः समाप्तः |
हलन्तधातूनां यङन्तधातु-सिद्धिः
A. सामान्यहलन्तधातूनां यङन्तधातु-सिद्धिः
अभ्यासे ह्रस्व-अकारस्य दीर्घादेशः—
खाद् + यङ् → द्वित्वसामान्याभ्यासकार्यञ्च → चखाद् + य → दीर्घोऽकितः (७.४.८३) इत्यनेन अकित्-अभ्यासस्य दीर्घादेशो भवति यङि परे → चाखाद् + य → चाखाद्यते
दीर्घोऽकितः (७.४.८३) = अकित्-अभ्यासस्य दीर्घादेशो भवति यङि यङ्लुकि च | न कित् यस्य स अकित्, तस्य | अनुवृत्ति-सहितसूत्रम्— अङ्गस्य अकितः अभ्यासस्य दीर्घः यङ्लुकोः |
एवमेव—
बाध् + यङ् →
अभ्यासे इकार-उकारयोः गुणः—
मील् + यङ् → द्वित्वसामान्याभ्यासकार्यञ्च → मि मी ल्य → गुणो यङ्लुकोः (७.४.८२) इत्यनेन अभ्यासस्य गुणो भवति यङि परे → मे मी ल्य → मेमील्यते
गुणो यङ्लुकोः (७.४.८२) = अभ्यासस्य गुणो भवति यङि यङ्लुकि च | अनुवृत्ति-सहितसूत्रम्— अङ्गस्य अभ्यासस्य गुणः यङ्लुकोः |
एवमेव—
शीक् + यङ् →
भूष् + यङ् →
B. अदुपधधातूनां यङन्तधातु-सिद्धिः
१. सामान्य-अदुपधधातूनां यङन्तधातु-सिद्धिः
द्वित्वसामान्याभ्यासकार्यं तदा अभ्यासे ह्रस्व-अकारस्य दीर्घादेशः—
गल् + यङ् → गल् + य → ग ग ल्य → ज ग ल्य → दीर्घोऽकितः (७.४.८३) → जागल्यते
एवमेव—
पच् →
वद् →
गद् →
पठ् →
लष् →
लप् →
२. जन्, सन्, खन् इति धातूनां यङन्तधातु-सिद्धिः
ये विभाषा (६.४.४३) इत्यनेन जन्, सन्, खन् एषां धातूनां नकारस्य स्थाने विकल्पेन आकारादेशो भवति यकारादि-कित्ङित्-प्रत्यये परे |
आत्वपक्षे—
जन् + यङ् → ये विभाषा (६.४.४३) इत्यनेन नकारस्य आत्वम् → जा + य → द्वित्वसामान्याभ्यासकार्यञ्च → ज जा + य → दीर्घोऽकितः (७.४.८३) इत्यनेन अकित्-अभ्यासस्य दीर्घादेशो भवति यङि परे → जा जा + य → जाजायते
आत्वापक्षे—
जन् + यङ् → द्वित्वसामान्याभ्यासकार्यञ्च → ज ज + न्य → नुगतोऽनुनासिकान्तस्य (७.४.८५) इत्यनेन अनुनासिकान्ताङ्गस्य अदन्त-अभ्यासस्य नुक्-आगमो भवति यङि परे → जंज न्य → जञ्ज न्य → जञ्जन्यते
एवमेव—
सन् + यङ् →
खन् + यङ् →
ये विभाषा (६.४.४३) = जन्, सन्, खन् एषां धातूनां नकारस्य स्थाने विकल्पेन आकारादेशो भवति यकारादि-कित्ङित्-प्रत्यये परे | अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्तादेशः | ये सप्तम्यन्तं, विभाषा प्रथमान्तं, द्विपदमिदं सूत्रम् | जनसनखनां सञ्झलोः (६.४.४२) इत्यस्मात् जनसनखनाम् इत्यस्य अनुवृत्तिः | विड्वनोरनुनासिकस्यात् (६.४.४१) इत्यस्मात् आत् इत्यस्य अनुवृत्तिः | अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति (६.४.३७) इत्यस्मात् क्ङिति इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— जनसनखनां अङ्गस्य आत् ये क्ङिति विभाषा |
नुगतोऽनुनासिकान्तस्य (७.४.८५) = अनुनासिकान्ताङ्गस्य अदन्त-अभ्यासस्य नुक्-आगमो भवति यङि यङ्लुकि च | नुक् अनुस्वारस्य उपलक्षणम् | धातोः अभ्यासस्य अन्ते अत् चेत्, धातोः अन्ते अनुनासिकहल्-वर्णः (ञ्, म्, ङ्, ण्, न्) चेत् इदं कार्यं प्रवर्तते | नुक्-आगमः कित् | ककारः इत्-संज्ञकः, उकारः उच्चारणार्थः | अनुनासिकः अन्ते यस्य तत् अनुनासिकान्तं, तस्य | नुक् प्रथमान्तम्, अतः षष्ठ्यन्तम्, अनुनासिकान्तस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः | गुणो यङ्लुकोः (७.४.८२) इत्यस्मात् यङ्लुकोः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— अनुनासिकान्तस्य अङ्गस्य अतः अभ्यासस्य नुक् यङ्लुकोः |
३. हन्-धातोः यङन्तधातु-सिद्धिः
हन्तेर्हिंसायां यङि घ्नीभावो वाच्यः (वार्तिकं ४६२१, नुगतोऽनुनासिकान्तस्य (७.४.८५) इति सूत्रस्य प्रसङ्गे दत्तम्) इत्यनेन हन्-धातोः हिंसा-अर्थे सति, तस्य घ्नी-आदेशो भवति यङि परे |
हन् + यङ् → हन्तेर्हिंसायां यङि घ्नीभावो वाच्यः → घ्नी + य → घ्नी घ्नी य → घी घ्नी य → घि घ्नी य → झि घ्नी य → जि घ्नी य → जे घ्नी य → जेघ्नीय इति यङन्तधातुः → जेघ्नीयते
हिंसा-अर्थे नास्ति चेत् (घ्नी-आदेशः न भवति)—
अभ्यासाच्च (७.३.५५) इत्यनेन अभ्यासात् हन्-धातोः हकारस्य स्थाने कवर्गादेशः |
हन् + यङ् → द्वित्वाभ्यास्यकार्यम् → ह ह न्य → ज ह न्य → अभ्यासोत्तरहकारस्य कुत्वम् → ज घ न्य → अभ्यासस्य नुक्-आगमः → जंघ न्य → अनुस्वारस्य परसवर्णादेशः → जङ्घ न्य → जङ्घन्य इति यङन्तधातुः → जङ्घन्यते
अभ्यासाच्च (७.३.५५) = अभ्यासात् हन्-धातोः हकारस्य स्थाने कवर्गादेशो भवति | अभ्यासात् पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | हो हन्तेर्ञ्णिन्नेषु (७.३.५४) इत्यस्मात् हः, हन्तेः इत्यनयोः अनुवृत्तिः | चजोः कु घिण्यतोः (७.३.५२) इत्यस्मात् कु इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— अभ्यासात् च हन्तेः अङ्गस्य हः कु |
सिद्धान्तकौमुद्याम्—हन्तेर्हिंसायां यङि घ्नीभावो वाच्यः । जेघ्नीयते । हिंसायां किम् ? जङ्घन्यते ॥
४. कस् ,पत्, पद् इति त्रयाणां धातूनां यङन्तधातु-सिद्धिः
नीग्वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम् (७.४.८४) = वञ्च्, स्रंस्, ध्वंस्, भ्रंस्, कस्, पत्, पद्, स्कन्द् इत्येषां धातूनाम् अभ्यासस्य नीक्-आगमो भवति यङि यङ्लुकि च | वञ्चुश्च स्रंसुश्च ध्वंसुश्च भ्रंसुश्च कसश्च पतश्च पदश्च स्कन्द च तेषामितरेतरद्वन्द्वः वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दः, तेषाम् | नीक् प्रथमान्तं, वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दां षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः | गुणो यङ्लुकोः (७.४.८२) इत्यस्मात् यङ्लुकोः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम् अङ्गस्य अभ्यासस्य नीक् यङ्लुकोः |
कस् + यङ् → क क स्य → च क स्य → चनीकस्य इति यङन्तधातुः → चनीकस्यते
एवमेव—
पत् + यङ् →
पद् + यङ् →
वञ्च्, स्रंस्, ध्वंस्, भ्रंस्, स्कन्द् चेति धातवः अनिदित्-धातूनां स्थले वक्ष्यमाणाः |
अत्र प्रश्नः उदेति—
कस् य → क क स्य → च क स्य → चनीकस्य इति स्थितौ यदि 'चनी’ इति अभ्यासः अस्ति, तर्हि किमर्थं गुणो यङ्लुकोः (७.४.८२) इत्यनेन गुणः भूत्वा 'चनेकस्य' इति न स्यात् ? उत्तरत्वेन विधानस्य सामर्थ्यात् गुणो न भवति | इष्टः यङन्तधातुः यदि 'चनेकस्य' इति अभविष्यत्, तर्हि पाणिनिः साक्षात् 'नेक्' इति आगमम् अकरिष्यत् | आगमः यदा कोऽपि भवितुम् अर्हति, तदा पाणिनिः साक्षात् नेक् इति आगमं व्यधास्यत् | एतादृशात् स्वातन्त्र्यात् आगमस्य सामर्थ्यं वर्तते | अनेन सामर्थ्येन नीक् इत्युक्तं चेत्, नीक् इत्येव इष्टम् | अस्मिन् सामर्थ्ये लाघवमपि अस्ति |
५. अनुनासिकान्त-अदुपध-धातूनां यङन्तधातु-सिद्धिः
यथादृष्टं पूर्वं, नुगतोऽनुनासिकान्तस्य (७.४.८५) इत्यनेन अनुनासिकान्ताङ्गस्य अदन्त-अभ्यासस्य नुक्-आगमो भवति यङि परे | अदुपध-अनुनासिकान्त-धातूनां द्वित्वाभ्यासकार्ये सति एतादृशी स्थितिः उत्पद्यते | यथा गम् → जगम् | अत्र अङ्गम् अनुनासिकान्तम्, अभ्यासश्च अदन्तः | एवमेव तन् → ततन्, यम् → ययम्, रम् → ररम्, कण् → चकण्
कण् + यङ् → क क ण्य → च क ण्य → चंक ण्य → चङ्कण्य इति यङन्तधातुः → चङ्कण्यते
गम् + यङ् →
मन् + यङ् →
रम् + यङ् →
यम् + यङ् →
अन्ये धातवः यथा वम्, तम्, चम्, क्षन्, रन्, रूपाणि एवं भवन्ति— चङ्कण्यते, चङ्क्षण्यते, रंरण्यते, वंवम्यते, तन्तन्यते, चञ्चम्यते, जङ्गम्यते, जञ्जन्यते, मंमन्यते, यंयम्यते* |
*नुगतोऽनुनासिकान्तस्य (७.४.८५) इति सूत्रस्य अन्तर्गतं वार्तिकम् अस्ति पदान्तवच्चेति वक्तव्यम् | अनेन अनुनासिकान्ताङ्गस्य अदन्त-अभ्यासस्य नुक्-आगमे सति स च अभ्यासः पदान्तवत् इति मन्तव्यम् | तस्मात् वा पदान्तस्य (८.४.५९) इत्यनेन परसवर्णविकल्पः | अनुनासिकान्तधातुप्रसङ्गे सर्वत्र तथा कल्पनीयं यथासङ्गं— नाम यत्र अभ्यासः अदन्तः | अतः यंयम्यते / यय्ँयम्यते, जंगम्यते / जङ्गम्यते इत्यादीनि रूपाणि भवन्ति |
अनुस्वारस्य ययि परसवर्णः (८.४.५८) = अनुस्वारस्य स्थाने परसवर्णादेशो भवति ययि परे |
वा पदान्तस्य (८.४.५९) = पदान्तस्य अनुस्वारस्य परसवर्णादेशो वा भवति ययि परे |
नुगतोऽनुनासिकान्तस्य (७.४.८५) = अनुनासिकान्ताङ्गस्य अदन्त-अभ्यासस्य नुक्-आगमो भवति यङि यङ्लुकि च | धातोः अभ्यासस्य अन्ते अत् चेत्, धातोः अन्ते अनुनासिकहल्-वर्णः (ञ्, म्, ङ्, ण्, न्) चेत् इदं कार्यं प्रवर्तते | नुक्-आगमः कित् | ककारः इत्-संज्ञकः, उकारः उच्चारणार्थः | अनुनासिकः अन्ते यस्य तत् अनुनासिकान्तं, तस्य | नुक् प्रथमान्तं, अतः षष्ठ्यन्तम्, अनुनासिकान्तस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः | गुणो यङ्लुकोः (७.४.८२) इत्यस्मात् यङ्लुकोः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— अनुनासिकान्तस्य अङ्गस्य अतः अभ्यासस्य नुक् यङ्लुकोः |
६. जप्, जभ्, दह्, पश् इति चतुर्णां धातूनां यङन्तधातु-सिद्धिः
यङन्तप्रसङ्गे एतेषां धातूनाम् अभ्यासस्य अन्ते ह्रस्व-अकारः अस्ति, किन्तु धात्वन्ते अनुनासिकवर्णो नास्ति अतः नुगतोऽनुनासिकान्तस्य (७.४.८५) इत्यनेन नुगागमो न भवति | तथपि एषां नुगागमो भवति जपजभदहदशभञ्जपशां च (७.४.८६) इति विशिष्टसूत्रेण |
जप् + यङ् → ज ज प्य → जं ज प्य → जञ्जप्य → जञ्जप्यते / जंजप्यते
जभ् + यङ् →
दह् + यङ् →
पश् + यङ् →
दंश्-धातुः भञ्ज्-धातुः चेति द्वौ धातू अनिदित्-धातूनां स्थले वक्ष्यमाणौ |
जपजभदहदशभञ्जपशां च (७.४.८६) = जप्, जभ्, दह्, दश्, भञ्ज्, पश् इत्येषां धातूनाम् अभ्यासस्य नुक्-आगमो भवति यङि यङ्लुकि च | नुक् इत्यस्मिन् ककारः इत्संज्ञकः, उकारश्च उच्चारणार्थः; नुक् अनुस्वारस्य अपि उपलक्षणम् | दंश्-धातोः अस्मिन् सूत्रे अनुस्वारो नास्ति यतोहि यङि दश् इत्यस्य एव द्वित्वम्; अनुनासिकत्वं न भवति | जपश्च जभश्च दहश्च दशश्च भञ्जश्च पशश्च च तेषामितरेतरद्वन्द्वः जपजभदहदशभञ्जपशः, तेषाम् | जपजभदहदशभञ्जपशां षष्ठ्यन्तं, चाव्ययं, द्विपदमिदं सूत्रम् | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः | गुणो यङ्लुकोः (७.४.८२) इत्यस्मात् यङ्लुकोः इत्यस्य अनुवृत्तिः | नुगतोऽनुनासिकान्तस्य (७.४.८५) इत्यस्मात् नुक् इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— जपजभदहदशभञ्जपशां च अङ्गस्य अभ्यासस्य नुक् यङ्लुकोः |
७. चर्, फल् इति द्वयोः धात्वोः यङन्तधातु-सिद्धिः
चरफलोश्च (७.४.८७), उत्परस्यातः (७.४.८८) इति सूत्राभ्यां चर्, फल्, इत्यनयोः धात्वोः अभ्यासस्य नुक्-आगमो भवति, अपि च अभ्यासात् परस्य ह्रस्व-अकारस्य स्थाने उत् आदेशो भवति यङि परे |
चर् + यङ् → च च र्य → चञ्चु र्य → हलि च (८.२.७७) इत्यनेन र्वोः धातोः उपधायाः इकः दीर्घः हलि → चञ्चू र्य → चञ्चूर्य इति यङन्तधातुः → चञ्चूर्यते
चर् + यङ् → पदान्तवच्चेति वक्तव्यम् इति वार्तिकस्य बलात् वा पदान्तस्य (८.४.५९) इत्यनेन परसवर्णवैकल्पिकः; अपक्षे → चंचूर्यते
फल् + यङ् → फ फ ल्य → प फ ल्य → पम्फ ल्य → पम्फुल्य इति यङन्तधातुः → पम्फुल्यते / पंफुल्यते
चरफलोश्च (७.४.८७) = चर्, फल्, इत्यनयोः धात्वोः अभ्यासस्य नुक्-आगमो भवति यङि यङ्लुकि च | इदं सूत्रं पृथक्तया उक्तं येन अग्रे केवलं चर्, फल्, इत्यनयोः उत्परस्यातः (७.४.८८) इत्यनेन अभ्यासोत्तर-अतः उत्त्वं स्यात् | चरश्च फल् च तयोरितरेतरद्वन्द्वः चरफलौ, तयोः चरफलोः | चरफलोः षष्ठ्यन्तं, चाव्ययं, द्विपदमिदं सूत्रम् | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः | गुणो यङ्लुकोः (७.४.८२) इत्यस्मात् यङ्लुकोः इत्यस्य अनुवृत्तिः | नुगतोऽनुनासिकान्तस्य (७.४.८५) इत्यस्मात् नुक् इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— चरफलोः च अङ्गस्य अभ्यासस्य नुक् यङ्लुकोः |
उत्परस्यातः (७.४.८८) = चर्, फल्, इत्यनयोः धात्वोः अभ्यासात् परस्य ह्रस्व-अकारस्य स्थाने उत् आदेशो भवति यङि यङ्लुकि च | उत् प्रथमान्तं, परस्य षष्ठ्यन्तम्, अतः षष्ठ्यन्तं, त्रपदमिदं सूत्रम् | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात् अभ्यासस्य इत्यस्य विभक्तिपरिणामं कृत्वा अभ्यासात् इति अनुवृत्तिः | चरफलोश्च (७.४.८७) इत्यस्मात् चरफलोः इत्यस्य अनुवृत्तिः | गुणो यङ्लुकोः (७.४.८२) इत्यस्मात् यङ्लुकोः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— चरफलोः अङ्गस्य अभ्यासात् परस्य अतः उत् यङ्लुकोः |
हलि च (८.२.७७) = रेफान्तानां वकारान्तानां च धातूनाम् उपधायां स्थितः इक्-वर्णः दीर्घो भवति हलि परे | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तदन्तविधिः अतः र्वोः इत्यनेन येषाम् धातूनाम् अन्ते रेफः वकारश्च, तेषां ग्रहणम् | हलि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | सिपि धातो रुर्वा (८.२.७४) इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः; र्वोरुपधाया दीर्घ इकः (८.२.७६) इत्यस्य पूर्णतया अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— र्वोः धातोः उपधायाः इकः दीर्घः हलि |
प्रश्नः उदेति, चरफलोश्च (७.४.८७), जपजभदहदशभञ्जपशां च (७.४.८६) इति द्वाभ्यां सूत्राभां समानकार्यं सिध्यति इति कृत्वा किमर्थम् एते द्वे सूत्रे पृथक्तया विरचिते ? उत्तरत्वेन अनुवृत्तेः स्पष्टीकरणार्थम् | नो चेत् एकमेव सूत्रं यदि स्यात्, तर्हि उत्परस्यातः (७.४.८८) इति सूत्रेण यत् उत्त्वं विधीयते, तत् केषां धातूनाम् इति कथं वा जानीयात् |
अन्यः प्रश्नः उदेति यः यङ्लुगन्तप्रसङ्गे आगतः | यङ्लुकि—
चर् → चर् चर् → च चर् → चञ्चर् → चञ्चुर् इति यङ्लुगन्तधातुः
तदा चञ्चुर् + ति → अत्र पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन उकारस्य गुणादेशः स्यात् किल | तत्र अस्माभिः चर्चितं यत् उत्परस्यातः (७.४.८८) इत्यनेन यत् तपरकरणं साधितं, तस्य सामर्थ्यात् गुणादेशः निवारितः | अत्र यङन्ते गुणनिषेधो भवति यतोहि चञ्चुर् + य इति स्थितौ यङ् ङित् | परन्तु हलि च (८.२.७७) इत्यनेन दीर्घादेशः, सः तु ङिद्वात् न बाधितः |
प्रश्नः अस्ति यत् तपरकरणस्य सामर्थ्यात् यया रीत्या गुणः निवारितः यङ्लुकि, किमर्थं न एवमेव चञ्चुर् + य इति स्थितौ हलि च (८.२.७७) इत्यनेन यः दीर्घादेशः प्रसक्तः, सोऽपि निवारितो भवेत् किल | अत्र किन्तु पूर्वत्रासिद्धम् (८.२.१) इत्यनेन उत्परस्यातः (७.४.८८) इत्यस्य दृष्ट्या हलि च (८.२.७७) इत्यस्य अस्तित्वं नास्ति अतः उत्परस्यातः (७.४.८८) इति सूत्रद्वारा यत् तपरकरणस्य सामर्थ्यं, तद्द्वारा बाधा न सम्भ्वति | किमर्थमिति चेत्, उच्यते | पूर्वत्रासिद्धम् (८.२.१) इत्यस्य द्विविधं कार्यम् अस्माभिः अधीतं— शास्त्रासिद्धं, कार्यासिद्धञ्च | शास्त्रासिद्धं भवति यत्र सूत्रद्वयं युगपत् प्रसक्तं; तत्र पूर्वसूत्रं प्रति त्रिपाद्यां स्थितं परसूत्रम् असिद्धिम् | अपि च त्रिपाद्यां स्थितस्य परसूत्रस्य कार्यं पूर्वमेव जातमिति चेत्, तत्र पूर्वसूत्रं प्रति तच्च कार्यम् असिद्धम् | नाम यद्यपि कार्यं जातं, तथापि न दृश्यते पूर्वसूत्रेण | अधुना अनयोः द्विविधयोः कार्ययोः मध्ये अत्र प्रकृतस्थितिः उभयत्रापि न सङ्गच्छते | यतोहि द्वयोः प्रसक्तिः युकपत् नस्ति अपि च यस्य (उत्परस्यातः (७.४.८८) इत्यस्य) कार्यं जातं; तत्सूत्रं तु हलि च (८.२.७७) प्रति पूर्वसूत्रं न तु परसूत्रम् | तर्हि न शास्त्रासिद्धं, न वा कार्यासिद्धम् |
किन्तु वस्तुतस्तु भाष्यकारेण उच्यते यत् पूर्वत्रासिद्धम् (८.२.१) इत्यस्य एकविधमेव कार्यं वर्तते; द्वैविद्ध्यमिव विभजनं न करणीयम् | यत्र कुत्रापि द्वयोः सूत्रयोर्मध्ये एकं सूत्रं त्रिपाद्यां, तत्र पूर्वत्रासिद्धम् (८.२.१) इति सूत्रप्रसङ्गे चिन्तनीयं भवति | ‘द्विविधमेव, द्विविधमेव' इति वदामश्चेत् समस्या भवति, यथा अत्र | अतः शिक्षणस्य आरम्भे सुखबोधार्थं पूर्वत्रासिद्धम् (८.२.१) इत्यस्य द्वैविध्यं बोधनार्थं लाभाय इति तु अस्त्यवश्यं; किन्तु अन्ततोः गत्वा यदा द्विविधं कर्यं बुद्धं, तदा सम्पूर्णकथायाः अवगमनार्थं तच्च द्वैविध्यं त्यक्त्वा इतोऽपि विशालबोधः आपनीयः | यथा अत्र— पूर्वत्रासिद्धम् इत्यनेन हलि च (८.२.७७) इत्यस्य अस्तित्वं नास्ति उत्परस्यातः (७.४.८८) इत्यस्य दृष्टया अतः उत्परस्यातः (७.४.८८), हलि च (८.२.७७) इत्यस्य कार्यं बाधितुं न शक्नोति | तदर्थं हलि च (८.२.७७) कार्यं करोति, रूपं भवति चञ्चूर्यते |
८. ग्रह्, व्यध्, वश्, व्यच् इति चतुर्णां धातूनां यङन्तधातु-सिद्धिः
एषां चतुर्णां धातूनां सम्प्रसारणं भवति किति ङिति प्रत्यये परे |
ग्रह् + यङ् → ङित्-प्रत्यये परे सम्प्रसारणम् → गृ-अ-ह् + य → सम्प्रसारणाच्च (६.१.१०८) इत्यनेन ऋकार-अकारयोः पूर्वरूपादेशः → गृह् + य → द्वित्वाभ्यासकार्यम् → गृ गृ + ह्य → उरत् (७.४.६६), उरण् रपरः (१.१.५१), हलादिः शेषः (७.४.६०) → ज गृ + ह्य → रीगृदुपधस्य च (७.४.९०) इत्यनेन ऋदुपधधातोः अभ्यासस्य रीक् इति आगमो भवति यङि परे → जरीगृ ह्य → जरीगृह्य इति यङन्तधातुः → जरीगृह्यते
ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च (६.१.१६) = ग्रह्, ज्या, वय्, व्यध्, वश्, व्यच्, व्रश्च्, प्रच्छ्, भ्रस्ज्, एषां सम्प्रसारणं भवति किति ङिति प्रत्यये परे |
इग्यणः सम्प्रसारणम् (१.१.४५) = यणः स्थाने यः इक्-प्रत्याहारे स्थितवर्णः आदिष्टः, तस्य सम्प्रसारण-संज्ञा भवति | इक् प्रथमान्तं, यणः षष्ठ्यन्तं, सम्प्रसारणम् प्रथमान्तं, त्रिपदमिदं सूत्रम् | सूत्रं सम्पूर्णम्— यणः इक् सम्प्रसारणम् |
सम्प्रसारणाच्च (६.१.१०८) = सम्प्रसारण-संज्ञक-वर्णात् अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशो भवति | सम्प्रसारणात् पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | इको यणचि (६.१.७७) इत्यस्मात् अचि, अमि पूर्वः (६.१.१०७) इत्यस्मात् पूर्वः इत्यनयोः अनुवृत्तिः भवतः | एकः पूर्वपरयोः (६.१.८४), संहितायाम् (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्— सम्प्रसारणात् च अचि पूर्वपरयोः एकः पूर्वः संहितायाम् |
रीगृदुपधस्य च (७.४.९०) = ऋदुपधधातोः अभ्यासस्य रीक् इति आगमो भवति यङि यङ्लुकि च | रीक् कित् अतः अभ्यासस्य अन्ते विधीयते | ऋत् उपधा यस्य, सः ऋदुपधः, तस्य ऋदुपधस्य | रीक् प्रथमान्तम्, ऋदुपधस्य षष्ठ्यन्तं, च अव्ययं, त्रिपदमिदं सूत्रम् | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः | गुणो यङ्लुकोः (७.४.८२) इत्यस्मात् यङ्लुकोः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— ऋदुपधस्य अङ्गस्य अभ्यासस्य रीक् यङ्लुकोः |
एवमेव—
व्यध् + यङ् →
व्यच् + यङ् →
९. वश्-धातोः यङन्तधातु-सिद्धिः
वश कान्तौ इति धातुः |
वश्-धातुः ग्रह्यादौ अस्ति, किन्तु न वशः (६.१.२०) इति सूत्रेण तस्य सम्प्रसारणं न भवति यङ्-प्रत्यये परे |
वश् + यङ् → द्वित्वाभ्यासकार्यम् → व व + श्य → दीर्घोऽकितः (७.४.८३) इत्यनेन अकित्-अभ्यासस्य दीर्घादेशो भवति यङि परे → वा व + श्य → वावश्यते
न वशः (६.१.२०) = वश्-धातोः वकारस्य सम्प्रसारणं न भवति यङि परे | अनेन ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च (६.१.१६) इत्यस्य प्राप्तसम्प्रसारणं बाधितम् | नाव्ययं, वशः षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | ष्यङः सम्प्रसारणम् (६.१.१३) इत्यस्मात् सम्प्रसारणम् इत्यस्य अनुवृत्तिः | स्वपिस्यमिव्येञां यङि (६.१.१९) इत्यस्मात् यङि इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— न वशः सम्प्रसारणम् यङि |
दीर्घोऽकितः (७.४.८३) = अकित्-अभ्यासस्य दीर्घादेशो भवति यङि यङ्लुकि च | न कित् यस्य स अकित्, तस्य | अनुवृत्ति-सहितसूत्रम्— अङ्गस्य अकितः अभ्यासस्य दीर्घः यङ्लुकोः |
(धेयं यत् 'वय्' स्वतन्त्रः धातुः नास्ति, अपि तु लिट्-प्रत्यये परे वेञ्-धातोः स्थाने धात्वादेशः | अतः यङि परे इदं 'वय्' न प्राप्यते एव | अपि च ज्या-धातुः आकारान्तधातुषु उपस्थापितम्|)
१०. स्वप्, स्यम्, व्येञ् इति त्रयाणां धातूनां यङन्तधातु-सिद्धिः
ञिष्वप् शये, स्यमु शब्दे, व्येञ् संवरणे |
स्वप्, स्यम्, व्येञ् इति धातूनां सम्प्रसारणं भवति यङि परे | व्येञ्-धातुः आकारान्तधातुषु उपस्थापितम् |
ञिष्वप् → आदिर्ञिटुडवः (१.३.५) , धात्वादेः षः सः (६.१.६३) → स्वप्
स्वप्, स्यम् इति धात्वोः सम्प्रसारणं कृत्वा द्वित्वाभ्यासकार्यानन्तरं गुणो यङ्लुकोः (७.४.८२) इत्यनेन अभ्यासस्य गुणो क्रियते |
स्वप् + यङ् → सुप् + य → सुसु + प्य → सो सु + प्य → आदेशप्रत्यययोः (८.३.५९) → सोषुप्यते |
स्यम् + यङ् → सिम् + य → सि सि + म्य → से सि + म्य → सेसिम्यते
स्वपिस्यमिव्येञां यङि (६.१.१९) =स्वप्, स्यम्, व्येञ् इत्येषां धातूनां सम्प्रसारणं भवति यङि परे | स्वपिश्च स्यमिश्च व्येञ् च इत्येषामितरेतरद्वन्द्वः स्वपिस्यमिव्येञः, तेषां स्वपिस्यमिव्येञाम् | स्वपिस्यमिव्येञां षष्ठ्यन्तं, यङि सप्तम्यन्तं, द्विपदमिदं सूत्रम् | ष्यङः सम्प्रसारणम् पुत्रपत्योस्तत्पुरुषे (६.१.१३) इत्यस्मात् सम्प्रसारणम् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— स्वपिस्यमिव्येञां सम्प्रसारणं यङि |
गुणो यङ्लुकोः (७.४.८२) = अभ्यासस्य गुणो भवति यङि यङ्लुकि च | यङ् च लुक् च यङ्लुकौ इतरेतरद्वन्द्वः, तयोः यङ्लुकोः | गुणः प्रथमान्तं, यङ्लुकोः सप्तम्यन्तं, द्विपदमिदं सूत्रम् | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अङ्गस्य अभ्यासस्य गुणः यङ्लुकोः |
०९_-_यङन्तधातवः.pdf (file size: 246 KB)