16 - जुहोत्यादिगणे हलन्तधातवः
जुहोत्यादिगणे २४ धातवः सन्ति | तेषु १६ धातवः अजन्ताः, ८ धातवः हलन्ताश्च | १६ अजन्तधातवः अस्माभिः पूर्वमेव परिशीलिताः; अधुना अष्ट हलन्तधातवः द्रष्टव्याः | अस्माभिः ज्ञातं यत्, यथा सर्वेषु गणेषु, कर्त्रर्थके सार्वधातुकप्रत्यये परे, कर्तरि शप् इत्यनेन शप् विहितः अस्ति | तदा जुहोत्यादिगणे जुहोत्यादिभ्यः श्लुः (२.४.७५) इत्यनेन शपः श्लु (लोपः) भवति | अतः जुहोत्यादिगणे कोऽपि विकरणप्रत्ययः न दृश्यते |
जुहोत्यादिभ्यः श्लुः (२.४.७५) = जुहोत्यादिगणे स्थितेभ्यः धातुभ्यः विहितस्य शप्-प्रत्ययस्य श्लु (लोपः) भवति | जुहोत्यादिः येषां ते जुहोत्यादयः, तेभ्यः जुहोत्यादिभ्यः | जुहोत्यादिभ्यः पञ्चम्यन्तं, श्लुः प्रथमान्तं, द्विपदमिदं सूत्रम् | अदिप्रभृतिभ्यः शपः (२.४.७२) इत्यस्मात् शपः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्—जुहोत्यादिभ्यः शपः श्लुः |
अत्र प्रश्नः उदेति यत् लुप्-श्लु इत्यनयोः भेदः कः ? द्वाभ्यां प्रत्ययस्य अदर्शनम् इति तु अस्ति | लोपः इत्युक्ते प्रत्ययः अदृष्टः, परन्तु अदृष्टे सत्यपि कार्यक्षेत्रे लुप्तस्य प्रभावः तदानीमपि अस्ति | एतदर्थं सूत्रम् अस्ति प्रत्ययलोपे प्रत्ययलक्षणम् (१.१.६२) |
प्रत्ययलोपे प्रत्ययलक्षणम् (१.१.६२) = प्रत्यये लुप्ते सति, प्रत्ययं मत्वा तस्य द्वारा विहितं कार्यं स्यात् | प्रत्ययस्य लोपः प्रत्ययलोपः षष्ठीतत्पुरुषः, तस्मिन् प्रत्ययलोपे | प्रत्ययस्य लक्षणं निमित्तं यस्य तत् प्रत्ययलक्षणम्, बहुव्रीहिः | सूत्रं स्वयं सम्पूर्णम्— प्रत्ययलोपे प्रत्ययलक्षणम् |
तर्हि प्रत्यये लुप्ते तदाश्रितं कार्यं भवति | श्लु न तथा; प्रत्ययस्य श्लु भवति चेत् न केवलं प्रत्ययः गच्छति, अपि तु तदाश्रितं कार्यमपि न स्यात् | तद्विधायकं सूत्रम् अस्ति न लुमताऽङ्गस्य (१.१.६३) |
न लुमताऽङ्गस्य (१.१.६३) = यस्मिन् शब्दे 'लु' अस्ति, तेन शब्देन प्रत्ययादर्शनं विहितं चेत्, सः प्रत्ययः अङ्गकार्यस्य निमित्तं न स्यात् | लुः अस्य अस्ति इति लुमान्, तेन लुमता | न अव्ययपदं, लुमता तृतीयान्तम्, अङ्गस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | प्रत्ययलोपे प्रत्ययलक्षणम् (१.१.६२) इत्यस्य पूर्णतया अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— लुमता प्रत्ययलोपे अङ्गस्य प्रत्ययलक्षणं न |
अस्मिन् सूत्रे लुमता, लुमत् इति प्रातिपदिकस्य तृतीयाविभक्त्यन्तं रूपम् | इदं मतुप्-प्रत्ययान्तं; प्रथमाविभक्तौ लुमान् | मतुप्-प्रत्ययस्य अर्थः अस्य अस्मिन् वा; यथा बुद्धिमान् इत्युक्ते बुद्धिः अस्य अस्मिन् वा, सः बुद्धिमान् | तर्हि 'लु' अस्य अस्मिन् वा, सः लुमान् | व्याकरणे त्रयः लुमन्तः सन्ति— लुक्, श्लु, लुप् चेति | इदं सूत्रं वक्ति यत् येन अदर्शनं भवति, सः लुमान् अस्ति चेत्, प्रत्ययलोपे प्रत्ययलक्षणं न भवति | अनुवृत्ति-सहितसूत्रं तथैव— (यदा) लुमता प्रत्ययलोपे (तदा) अङ्गस्य प्रत्ययलक्षणं न | अतः न लुमताऽङ्गस्य (१.१.६३) इति सूत्रं प्रत्ययलोपे प्रत्ययलक्षणम् (१.१.६२) इत्यस्य बाधकसूत्रम् | तर्हि अत्र सारांशः एवं यत् श्लु इत्यनेन कस्यचित् प्रत्ययस्य अदर्शनं भवति चेत्, यस्मात् अङ्गात् सः प्रत्ययः लुप्तः जातः, तस्मिन् अङ्गे सः लुप्तप्रत्ययः तदानीम् अङ्गकार्यस्य निमित्तं न भवितुम् अर्हति |
आहत्य लोपप्रकरणे चत्वारि सूत्राणि | क्रमेण—
अदर्शनं लोपः (१.१.६०) = लोप-संज्ञया अदर्शनं विहितम् |
प्रत्ययस्य लुक्श्लुलुपः (१.१.६१) = लुक्, श्लु, लुप् इत्याभिः तिसृभिः संज्ञाभिः अदर्शनं विहितम् |
प्रत्ययलोपे प्रत्ययलक्षणम् (१.१.६२) = प्रत्यये लुप्ते तदाश्रितं कार्यं स्यात् |
न लुमताऽङ्गस्य (१.१.६३) = लुमता शब्देन लुप्ते तन्निमित्तमङ्गकार्यं न स्यात् |
जुहोत्यादिगणे विकरणप्रत्ययः शप् आसीत्, अनन्तरं तस्य श्लु अभवत् | लुमता शपः अदर्शनं जातम्, अतः धात्वङ्गे शप्-निमित्तकम् अङ्गकार्यं नार्हम् |
अत्र प्रश्नः आयाति यत् 'श्लु' एकः प्रत्ययः अस्ति किम् ? बोध्यं यत् श्लु-निमित्तीकृत्य द्वित्वं भवति; अनेन प्रमाणितं यत् प्रत्ययः अस्त्येव | श्लु इति अभावः नस्ति, अपि तु भावः एव | न दृश्यते, किन्तु भावः | एवमेव लोपः, लुक्लुप् इत्येते सर्वे भावाः |
अधुना नूतनप्रश्नः उदेति यत् अदादिगणे लुक् अपि लुमान् अस्ति, जुहोत्यादिगणे श्लु अपि लुमान् | द्वयमपि लुमान् चेत्, द्वयोः भेदः कः ? वस्तुतः द्वयोः कुत्रचित् साम्यं, कुत्रचित् च भेदः | साम्यं अस्मिन्, यत् लुमान् सन् प्रत्ययलक्षणं न भवति | पुनः भेदः, यतोहि विशिष्टसूत्राणि भवन्ति लुकः कृते श्लोः कृते च | यथा अदादिगणे उतो वृद्धिर्लुकि हलि इति सूत्रम् अस्माभिः दृष्टं, येन गुणं प्रबाध्य वृद्धिर्भवति | श्लु इत्यनेन तादृशं कार्यं न प्राप्यते | किन्तु श्लोः विशिष्टं कार्यमपि अस्ति, यत् लुक् इत्यनेन न सिध्यति | तत्र प्रमुखं कार्यम् इदम्—
श्लौ (६.१.१०) = श्लौ परे धातोः द्वित्वं भवति | श्लौ सप्तम्यन्तम्; एकं पदमिदं सूत्रम् | लिटि धातोरनभ्यासस्य (६.१.८) इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः | एकाचो द्वे प्रथमस्य (६.१.१) इत्यस्मात् द्वे इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्—श्लौ धातोः द्वे |
द्वित्वम्
जुहोत्यादिगणे श्लुना सर्वेषां धातूनां द्वित्वं भवति | यथा दा → ददा, धा → दधा, भी → बिभी, हु → जुहु |
पाणिनीयव्याकरणे पञ्चसु स्थलेषु द्वित्वं भवति—श्लौ (जुहोत्यादिगणे), लिटि, चङि (लुङ्-लकारे), सनि, यङि च |
अत्रास्ति द्वित्वप्रकरणम्—
एकाचो द्वे प्रथमस्य (६.१.१)
अजादेर्द्वितीयस्य (६.१.२)
न न्द्राः संयोगादयः (६.१.३)
पूर्वोऽभ्यासः (६.१.४)
उभे अभ्यस्तम् (६.१.५)
जक्षित्यादयः षट् (६.१.६)
तुजादीनां दीर्घोऽभ्यासस्य (६.१.७)
लिटि धातोरनभ्यासस्य (६.१.८)
सन्यङोः (६.१.९)
श्लौ (६.१.१०)
चङि (६.१.११)
दाश्वान्साह्वान्मीढ्वांश्च (६.१.१२)
द्वित्वे जाते प्रथभागस्य नाम अभ्यासः, मिलित्वा द्वयोर्नाम अभ्यस्तम् |
पूर्वोऽभ्यासः (६.१.४) = द्वित्वानन्तरं, यस्मिन् द्विवारम् उच्चारणं जातं तस्मिन् प्रथमभागस्य नाम अभ्यासः | पूर्वः प्रथमान्तम्, अभ्यासः प्रथमान्तं, द्विपदमिदं सूत्रम् | एकाचो द्वे प्रथमस्य (६.१.१) इत्यस्मात् द्वे इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— पूर्वः अभ्यासः द्वयोः |
उभे अभ्यस्तम् (६.१.५) = द्वित्वानन्तरं, द्वयोः समुदायः अभ्यस्तसंज्ञको भवति | उभे प्रथमान्तम्, अभ्यस्तं प्रथमान्तं, द्विपदमिदं सूत्रम् | एकाचो द्वे प्रथमस्य (६.१.१) इत्यस्मात् द्वे इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्—उभे द्वे अभ्यस्तम् |
अभ्यासकार्यम्
तत्र द्वित्वस्य अनन्तरं कानिचन कार्याणि सन्ति अभ्यासे; यथा अभ्यासस्य ह्रस्वत्वम्, अल्पप्राणत्वं च भवति | इदं सर्वम् अभ्यासकार्यम् इति उच्यते | आर्धधातुकप्रकरणे विस्तरेण परिशीलयाम (लिटि, लुङि, सनि, यङि इत्येषु) | अभ्यासयाकर्यस्य पुनः विभजनं भवति— सामान्याभ्यासकार्यं, विशेषाभ्यासकार्यं चेति | सामान्याभ्यासकार्यं भवति यत्र यत्र द्वित्वं भवति, सर्वेषां धातूनां कृते | विशेषाभ्यासकार्यं भवति द्वित्वस्य निमित्तम् अधिकृत्य; यथा लिटि विशेषाभ्यासकार्यं, पुनः श्लौ पृथक्तया, पुनः सनि, यङि, चङि च |
अत्र सन्ति प्रमुख-सामान्याभ्यासकार्याणि—
ह्रस्वः (७.४.५९)
हलादिः शेषः (७.४.६०)
शर्पूर्वाः खयः (७.४.६१)
कुहोश्चुः (७.४.६२)
उरत् (७.४.६६)अभ्यासे चर्च (८.४.५४)
ह्रस्वः (७.४.५९) = अभ्यासस्य अच्-वर्णः ह्रस्वः स्यात् | अचश्च (१.२.२८) इति परिभाषा-सूत्रेण यत्र कुत्रापि सूत्रेषु 'ह्रस्व', 'दीर्घ', 'प्लुत' इत्येते शब्दाः आयान्ति, तत्र 'अचः' इति शब्दः सूत्रार्थेऽपि आयाति | अतः 'ह्रस्वः' इत्युक्तौ 'ह्रस्वः अच्-वर्णः'; तथा सर्वत्र | ह्रस्वः प्रथमान्तम्, एकपदमिदं सूत्रम् | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अङ्गस्य अभ्यासस्य अचः ह्रस्वः |
हलादिः शेषः (७.४.६०) = अभ्यासस्य आदिमः* हल् शेषः, अभ्यासे अपरेषां हलां लोपः | हल् प्रथमान्तम्, आदिः प्रथमान्तं, शेषः प्रथमान्तं, त्रिपदमिदं सूत्रम् | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— (अङ्गस्य) अभ्यासस्य हलादिः शेषः |
*आदिमः इत्युक्तौ 'आदौ यः', न तु 'प्रथमः' | अतः अजादिधातोः द्वित्वं क्रियते चेत्, आदौ अच्-वर्णः न तु हल्-वर्णः इति कारणतः हलादिः शेषः (७.४.६०) इत्यनेन अभ्यासे सर्वेषां हल्-वर्णानां लोपो भवति | अट् → अट् अट् → अ अट् |
कुहोश्चुः (७.४.६२) = अभ्यासे कवर्गीयस्य हकारस्य च स्थाने चवर्गीयादेशो भवति | तत्र स्थानेऽन्तरतमः (१.१.५०) इति परिभाषा-सूत्रेण, उच्चारणस्थानसाम्यवशात् हकारस्य स्थाने झकारः, तदा अभ्यासे चर्च (८.४.५४) इत्यनेन झ-स्थाने जकारः | कुश्च ह् च तयोरितरेतरद्वन्द्वः कुहौ, तयोः कुहोः | कुहोः षष्ठ्यन्तं, चुः प्रथमान्तं, द्विपदमिदं सूत्रम् | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अङ्गस्य अभ्यासस्य कुहोः चुः |
स्थानेऽन्तरतमः (१.१.५०) = प्रसङ्गम् अवलम्ब्य तुल्यतमः आदेशो भवति | स्थाने सप्तम्यन्तम्, अन्तरतमः प्रथमान्तं, द्विपदमिदं सूत्रम् |
उरत् (७.४.६६) = प्रत्यये परे अभ्यासस्य ऋवर्णस्य स्थाने अत्-आदेशः भवति | उः षष्ठ्यन्तम्, अत् प्रथमान्तं, द्विपदमिदं सूत्रम् | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अङ्गस्य अभ्यासस्य उः अत् |
अभ्यासे चर्च (८.४.५४) = अभ्यासे झल्-स्थाने जश् चर् च आदेशौ भवतः | तत्र स्थानेऽन्तरतमः (१.१.५०) इति परिभाषा-सूत्रेण, उच्चारणस्थानसाम्यवशात् झश्-स्थाने जश् अपि च खय्-स्थाने चर् | अनुवृत्त्यर्थम् अष्टमाध्याये | अभ्यासे सप्तम्यन्तं, चर् प्रथमान्तं, च अव्ययपदं, त्रिपदमिदं सूत्रम् | झलां जश् झशि (८.४.५३) इत्यस्मात् झलां, जश् इत्यनयोः अनुवृत्तिः | तयोर्यवावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्—अभ्यासे झलां जश् चर् च संहितायाम् |
अस्माभिः ज्ञायते यत् सार्वधातुकलकारेषु तिङन्तपदस्य निर्माणार्थं त्रीणि सोपानानि सन्ति |
१. विकरणप्रत्यय-निमित्तकम् अङ्गकार्यम्, तदा धातु-विकरणप्रत्यययोः मेलनम्
२. तिङ्प्रत्यय-सिद्धिः
३. तिङ्प्रत्यय-निमित्तकम् अङ्गकार्यं, तदा अङ्ग-तिङ्प्रत्यययोः मेलनम्
जुहोत्यादिगणे अपि तथा, किन्तु द्वित्वम् अभ्यासकार्यं चापि स्तः; द्वित्वस्य निमित्तं श्लु, अभ्यासस्य निमित्तं यः प्रत्ययः अभ्यस्तात् परे अस्ति— `तिङ् वा कृत् वा भवतु | तर्हि आहत्य जुहोत्यादिगणे कार्यस्य क्रमः एतादृशः—
- शप् विधीयते कर्तरि शप् इत्यनेन
- शपः स्थाने श्लु भवति
- श्लौ इत्यनेन धातोः द्वित्वं भवति
- सामन्य-अभ्यासकार्यम्; अभ्यस्तोत्तर-प्रत्ययः अस्य निमित्तम् (ह्रस्वः, हलादिः शेषः, कुहोश्चुः, उरत्, अभ्यासे चर्च)
- विशेष-अभ्यासकार्यम्; श्लुः अस्य निमित्तम्; चत्वारि सूत्राणि (अस्मिन् पाठे एकं— निजां त्रयाणां गुणः श्लौ (७.४.७५))
- अङ्गकार्यं, तिङ् च कृत् च निमित्तम्
१. विकरणप्रत्यय-निमित्तकम् अङ्गकार्यम्, तदा धातु-विकरणप्रत्यययोः मेलनम्
विकरणप्रत्यय-निमित्तकम् अङ्गकार्यम् नास्ति यतः शप्-विकरणप्रत्ययस्य श्लुः भवति | श्लुः तु अङ्गकार्यस्य (अभ्यासकार्यस्य) निमित्तं भवति; तच्च तृतीये सोपाने क्रियते येन एकैकस्य धातोः चर्चा करणीया एकवारम् एव | तदर्थम् अभ्यासकार्यम् अपि तत्रैव |
२. तिङ्प्रत्यय-सिद्धिः
जुहोत्यादिगणे अङ्गम् अनदन्तम्, अतः अनदन्ताङ्गानां कृते सिद्ध-तिङ्प्रत्ययाः भवन्ति | परन्तु यत्र धातुः अभ्यस्तसंज्ञकः अस्ति, तत्र तिङ्प्रत्ययानां सिद्ध्यर्थं विशेषकार्यद्वयं वर्तते | जुहोत्यादिगणे सर्वे धातवः अभ्यस्तसंज्ञकाः, अत्र सर्वत्र इमे द्वे कार्ये स्तः—
१) अदभ्यस्तात् (७.१.४) = अभ्यस्तसंज्ञक-धातूत्तरस्य प्रत्ययस्य आदिमावयवस्य झकारस्य स्थाने अत्-आदेशो भवति | अत् प्रथमान्तम्, अभ्यस्तात् पञ्चम्यन्तं, द्विपदमिदं सूत्रम् | झोऽन्तः (७.१.३) इत्यस्मात् झः (षष्ठ्यन्तम्) इत्यस्य अनुवृत्तिः | आयनेयीनीयियः फढखछगां प्रत्ययादीनाम् (७.१.२) इत्यस्मात्, वचनपरिणामं कृत्वा प्रत्ययादेः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— अभ्यस्तात् अङ्गात् प्रत्ययादेः झः अत् |
धेयं यत् अत्-आदेशस्य तकारः हलन्त्यम् (१.३.३) इति सूत्रेण इत्-संज्ञकः न, यतोहि अत् तु विभक्तिसंज्ञक-झि-प्रत्ययस्य अवयवस्य आदेशः अतः न विभक्तौ तुस्माः (१.३.४) इत्यनेन हलन्त्यम् (१.३.३) बाधितम् |
अदभ्यस्तात् (७.१.४) इति सूत्रेण लटि लोटि च प्रथमपुरुषस्य बहुवचने झ्-स्थाने अत् आदेशः, अतः लटि झि → अति न तु अन्ति; लोटि झि → अतु न तु अन्तु |
२) सिजभ्यस्तविदिभ्यश्च (३.४.१०९) = ङित्-लकारस्य अवस्थायां, सिच्-प्रत्ययात्, अभ्यस्तसंज्ञकात् धातोः, विद्-धातोः च, परस्य झि-प्रत्ययस्य स्थाने जुस्-आदेशो भवति | सिच् च अभ्यस्तश्च विदिश्च तेषामितरेतरद्वन्द्वः सिजभ्यस्तविदयः, तेभ्यः सिजभ्यस्तविदिभ्यः | सिजभ्यस्तविदिभ्यः पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | नित्यं ङितः (३.४.९९) इत्यस्मात् ङितः इत्यस्य अनुवृत्तिः | झेर्जुस् (३.४.१०८) इत्यस्मात् झेः जुस् इत्यनयोः अनुवृत्तिः | लस्य (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— सिजभ्यस्तविदिभ्यः च ङितः लस्य झेः जुस् |
अनेन लङि अभ्यस्तसंज्ञकधातोः परस्य झि-स्थाने जुस्-आदेशः | जुस् इत्यस्य अनुबन्धलोपे, रुत्वविसर्गौ, उः इति भवति | तर्हि अभ्यस्तसंज्ञकः धातुः अस्ति चेत्, लङि अन्-स्थाने उः इति प्रत्ययः भवति |
अतः आहत्य अभ्यस्तसंज्ञक-धातूनां कृते, सार्वधातुकलकारेषु सिद्ध-तिङ्प्रत्ययाः एते | जुहोत्यादिगणे एते एव योजनीयाः—
परस्मैपदम् | आत्मनेपदम् | |||||
लट्-लकारः | ||||||
ति | तः | अति | ते | आते | अते | |
सि | थः | थ | से | आथे | ध्वे | |
मि | वः | मः | ए | वहे | महे | |
लोट्-लकारः | ||||||
तु, तात् | ताम् | अतु | ताम् | आताम् | अताम् | |
हि, तात् | तम् | त | थाः | आथाम् | ध्वम् | |
आनि | आव | आम | ऐ | आवहै | आमहै | |
लङ् -लकारः | ||||||
त् | ताम् | उः | त | आताम् | अत | |
स् | तम् | त | थाः | आथाम् | ध्वम् | |
अम् | व | म | इ | वहि | महि | |
विधिलिङ्-लकारः | ||||||
यात् | याताम् | युः | ईत | ईयाताम् | ईरन् | |
याः | यातम् | यात | ईथाः | ईयाथाम् | ईध्वम् | |
याम् | याव | याम | ईय | ईवहि | ईमहि |
प्रत्ययादेशः
क्वचित् विशिष्ट-स्थित्याम् एषु सिद्ध-तिङ्प्रत्ययेषु केचन परिवर्तन्ते | अयं विकारः प्रत्ययादेशः इति उच्यते |
परस्मैपदस्य लोटि—
हुझल्भ्यो हेर्धिः (६.४.१०१) = हु-धातुतः झलन्तेभ्यः धातुभ्यश्च हि-प्रत्ययस्य स्थाने धि-आदेशो भवति | येनविधिस्तदन्तस्य (१.१.७२) इत्यनेन झलेभ्यः इति विशेषणेन तेभ्यः अङ्गेभ्यः येषाम् अन्ते झल् | हुश्च झलश्च तेषामितरेतरद्वद्वो हुझलः, तेभ्यो हुझल्भ्यः | हुझल्भ्यः पञ्चम्यन्तं, हेः षष्ठ्यन्तं, धिः प्रथमान्तं, त्रिपदमिदं सूत्रम् | अङ्गस्य (६.४.११) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— हुझल्भ्यः अङ्गेभ्यः हेः धिः |
परस्मैपदस्य लङि—
अपृक्त एकाल् प्रत्ययः (१.२.४१) = यस्य प्रत्यस्य एकैव अल्, तस्य अपृक्त-संज्ञा भवति | एकश्चासौ अल् एकाल्, कर्मधारयः | अपृक्तः प्रथमान्तम्, एकाल् प्रथमान्तं, प्रत्ययः प्रथमान्तं, त्रिपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— एकाल् प्रत्ययः अपृक्तः |
हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (६.१.६७) = हलन्तात्, दीर्घङ्यन्तात्, दीर्घाबन्तात् च सु-ति-सि इत्येषाम् अपृक्तसंज्ञकस्य हलः लोपः | अनेन प्रथमाविभक्तौ सु इत्यस्य स्-लोपः, लङि प्रथमपुरुषे त्-लोपः, मध्यमपुरुषे स्-लोपश्च | हल् च ङी च आप् च तेषाम् इतरेतरद्वन्द्वः हल्ङ्यापः, तेभ्यः हल्ङ्याब्भ्यः | सुश्च, तिश्च, सिश्च तेषां समाहारद्वन्द्वः, सुतिसि, सुतिसिनः अपृक्तं सुतिस्यपृक्तम् | हल्ङ्याब्भ्यः पञ्चम्यन्तं, दीर्घात् पञ्चम्यन्तं, सुतिस्यपृक्तं प्रथमान्तं, हल् प्रथमान्तम्, अनेकपदमिदं सूत्रम् | लोपो व्योर्वलि (६.१.६५) इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः; अत्र कर्मणि प्रयोगे लुप्यते इति रूपविकारः | अनुवृत्ति-सहितसूत्रम्— दीर्घात् हल्ङ्याब्भ्यो सुतिसि अपृक्तं हल् लुप्यते |
३. तिङ्प्रत्यय-निमित्तकम् अङ्गकार्यं, तदा अङ्ग-तिङ्प्रत्यययोः मेलनम्
अस्मिन सोपाने सर्वप्रथमं तिङ्प्रत्यय-निमित्तकम् अङ्गकार्यंम् | तदा एव सन्धिकार्यम् |
a) अङ्गकार्यंम्
अङ्गकार्ये किं किं सम्भवति इति एकवारं चिन्तनीयम् | अस्मिन् पाठे सर्वे धातवः हलन्ताः, अतः सार्वधातुकार्धधातुकयोः इत्यस्य प्रसक्तिः नास्त्येव | स्मर्यतां, सूत्रार्थः एवम्—इगन्त-धातोः अनन्तरं सार्वधातुकप्रत्ययः अथवा आर्धधातुकप्रत्ययः अस्ति चेत्, तर्हि इगन्तस्य अङ्गस्य गुणः भवति | यथा भू + शप् → भो + शप् → भो + अ | तादृशकार्यम् अस्मिन् पाठे न कुत्रापि भविष्यति यतोहि धातुः हलन्तः; इगन्तधातुः अत्र नैव भवति | परन्तु अस्मिन् पाठे कुत्रचित् उपधायां लघु इक् वर्तते, अतः तादृशेषु स्थलेषु पुगन्तलघूपधस्य च इत्यनेन उपधायां गुणकार्यम् | यथा दिधिष् + ति → पुगन्तलघूपधस्य च → दिधेष् + ति → सन्धिकार्यम् → दिधेष्टि | अन्यच्च क्वचित् विशिष्टधातूनां विशेषाङ्गकार्यं भवति | यथा भस-धातौ घसिभसोर्हलिच (६.४.१००) इत्यनेन उपधा लोपः (अधः दृश्यताम्) |
b) सन्धिकार्यम्
यदा तिङ्प्रत्यय-निमित्तकम् अङ्गकार्यं समाप्तं, तदा अङ्ग-तिङ्प्रत्यययोः मेलनं क्रियते | यदा मेलनं भवति, तदा कस्यचित् सन्धिकार्यस्य प्राप्तिरस्ति चेत्, अस्मिन् समये क्रियताम् | अधुनैव पूर्वतनेषु हल्-सन्धि-पाठेषु यत् हल्-सन्धिकार्यम् अधीतं, तत् साधनीयम् | कानिचन प्रसिद्धसूत्राणि मनसि स्युः—
सर्वेषु लकारेषु इमानि अधःस्थानि सूत्राणि प्रवर्तन्ते | धेयं यत् इमानि सर्वाणि त्रिपाद्यां सन्ति, अतः पूर्वत्रासिद्धम् इत्यनेन पूर्वसूत्रं चेत् पूर्वकार्यम्, अपि च परसूत्रं चेत् परकार्यम् | नाम यत् सूत्रं सङ्ख्या-क्रमेण प्रथमं आयाति, तस्य कार्यं पूर्वं भवति | अतः सूत्र-क्रमेण सर्वाणि दर्शितानि अत्र—
- संयोगान्तस्य लोपः (८.२.२३) = यस्य पदस्य अन्ते संयोगोऽस्ति, तस्य पदस्य अन्तिमवर्णस्य लोपो भवति | अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव लोपः न तु पूर्णपदस्य | संयोगः अन्ते अस्ति यस्य तत् संयोगान्तं, बहुव्रीहिः, तस्य संयोगान्तस्य | संयोगान्तस्य षष्ठ्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम् | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— संयोगान्तस्य पदस्य लोपः |
- धि च (८.२.२५) = सकारस्य लोपो भवति धकारादि-प्रत्यये परे | धि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | रात्सस्य (८.२.२४) इत्यस्मात् सस्य इत्यस्य अनुवृत्तिः | संयोगान्तस्य लोपः (८.२.२३) इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— धि च सस्य लोपः |
- स्कोः संयोगाद्योरन्ते च (८.२.२९) = संयोगस्य प्रथमसदस्यः सकारः ककारः वा चेत्, संयोगस्य प्रथमसदस्यलोपो भवति न तु द्वितीयसदस्यस्य, झलि पदान्ते च | स् च क् च तयोरितरेतरद्वन्द्वः स्कौ, तयोः स्कोः | संयोगस्य आदि संयोगादि, तयोः संयोगाद्योः, षष्ठीतत्पुरुषः | संयोगान्तस्य लोपः (८.२.२३) इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः | झलो झलि (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— संयोगाद्योः स्कोः लोपः झलि पदस्य अन्ते च |
- चोः कुः (८.२.३०) = चवर्गस्य स्थाने कवर्गादेशो भवति पदान्ते झलि च | चोः षष्ठ्यन्तं, कुः प्रथमान्तं, द्विपदमिदं सूत्रम् | झलो झलि (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात् अन्ते, च इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— चोः कुः झलि पदस्य अन्ते च |
- व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) = व्रश्च्, भ्रस्ज्, सृज्, मृज्, यज्, राज्, भ्राज्, छकारान्ताः शकारान्ताः चैषां धातूनाम् अन्तिमवर्णस्य स्थाने षकारादेशो भवति झलि पदान्ते च | अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव स्थाने षकारादेशः, न तु पूर्णपदस्य | व्रश्चश्च भ्रस्जश्च सृजश्च मृजश्च यजश्च राजश्च भ्राजश्च छश्च श् च तेषामितरेतरद्वन्दः व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशः, तेषां व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशाम् | व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षष्ठ्यन्तं, षः प्रथमान्तं, द्विपदमिदं सूत्रम् | अत्र 'जच्छशां' इति भागे छे च (६.१.७३) इत्यनेन तुक्-आगमे सति जत्छशां, तदा श्चुत्वसन्धौ जच्छशां | झलो झलि (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात् अन्ते, च इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः झलि पदस्य अन्ते च |
- झलां जशोऽन्ते (८.२.३९) = पदान्ते झलः स्थाने जशादेशो भवति | पदात् परे कोऽपि वर्णः स्यात् वा न वा, सूत्रस्य प्रसक्तिः अस्ति एव | पदात् परे अच् स्यात् हल् स्यात् वा, सूत्रस्य प्रसक्तिः अस्ति एव | बाधकसूत्रम् अस्ति चेत् अन्या वार्ता | झल् प्रत्याहारे पञ्चमवर्गीय-व्यञ्जनानि वर्जयित्वा सर्वाणि वर्गीयव्यञ्जनानि (नाम अननुनासिक-वर्गीयव्यञ्जनानि), अपि च श्, ष्, स्, ह् | प्रयोगे वर्गाणां प्रथमः, द्वितीयः, तृतीयः, चतुर्थश्च वर्णाः आयान्ति | जश् प्रत्याहारे वर्गाणां तृतीयवर्णः—ज्, ब्, ग्, ड्, द् इति | स्थानेऽन्तरतमः (१.१.५०) इत्यनेन कवर्गीयाणां स्थाने गकारः, चवर्गीयाणां स्थाने जकारः, तवर्गीयाणां स्थाने दकारः, टवर्गीयाणां स्थाने डकारः, पवर्गीयाणां स्थाने बकारः इति | झलां षष्ठ्यन्तं, जशः प्रथमान्तम्, अन्ते सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | पदस्य (८.१.१६) इत्यस्य अधिकारः || तर्हि पदस्य अन्ते झल्-प्रत्याहारे कश्चन वर्णः अस्ति चेत्, स्थाने तस्य वर्गस्य तृतीयवर्णादेशः भवति | अयं जश्त्वसन्धिः इत्युच्यते | अनुवृत्ति-सहितसूत्रम्— पदस्य अन्ते झलां जशः |
- षढोः कः सि (८.२.४१) = सकारे परे षकारस्य ढकारस्य च ककारादेशो भवति | षश्च ढश्च तयोः इतरेतरद्वन्द्वः षढौ, तयोः षढोः | षढोः षष्ठ्यन्तं, कः प्रथमान्तं, सि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— षढोः कः सि |
- नश्चापदान्तस्य झलि (८.३.२४) = अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति झलि परे | झल्-प्रत्याहारे वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णाः अपि च श्, ष्, स्, ह् इति वर्णाः अन्तर्भूताः | पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तः तस्य अपदान्तस्य | नः षष्ठ्यन्तं, च अव्ययपदम्, अपदान्तस्य षष्ठ्यन्तं, झलि सप्तम्यन्तं, अनेकपदमिदं सूत्रम् | मोऽनुस्वारः (८.३.२३) इत्यस्मात् मः, अनुस्वारः इत्यनयोः अनुवृत्तिः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अपदान्तस्य मः नः च अनुस्वारः झलि संहितायाम् |
- आदेशप्रत्यययोः (८.३.५९) = इण्-प्रत्याहारात् कवर्गीयात् च परे अपदान्तः आदेशरूपी प्रत्ययावयवो वा सकारः अस्ति चेत्, तस्य सकारस्य स्थाने षकारादेशो भवति | आदेशः तु मूर्धन्यवर्णस्य इत्येव उक्तं, परं स्थानेऽन्तरतमः इत्यनेन ट्, ठ्, ड्, ढ्, ण्, ष् इत्येषु मूर्धन्यवर्णेषु षकारस्य नैकट्यम्, अतः षकारः एव आदिष्टः भवति | नुम्, विसर्गः, शर्-प्रत्याहारस्थ-वर्णः एषु अन्यतमः मध्ये अस्ति चेदपि कार्यं भवति | इण्-प्रत्याहरे इमे वर्णाः अन्तर्भूताः— इ, उ, ऋ, ऌ, ए, ओ, ऐ, औ, ह, य, व, र, ल | अस्य कार्यस्य नाम षत्वविधिः | आदेशश्च प्रत्ययश्च आदेशप्रत्ययौ, तयोः आदेशप्रत्यययोः इतरेतरद्वन्द्वः | षष्ठ्यन्तम् एकपदमिदं सूत्रम् | सहे साडः सः (८.३.५६) इत्यस्मात् सः इत्यस्य अनुवृत्तिः | नुंविसर्जनीयशर्व्यवायेऽपि (८.३.५८) इत्यस्य पूर्णा अनुवृत्तिः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | इण्कोः (८.३.५७), अपदान्तस्य मूर्धन्यः (८.३.५५) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्—इण्कोः आदेशप्रत्यययोः अपदान्तस्य सः मूर्धन्यः संहितायां, नुंविसर्जनीयशर्व्यवायेऽपि |
- रषाभ्यां नो णः समानपदे (८.४.१) = रेफषकाराभ्यामुत्तरस्य नकारस्य णकारादेशो भवति, समानपदस्थौ चेदेव निमित्तनिमित्तिनौ भवतः |
- अट्कुप्वाङ्नुम्व्यवायेऽपि (८.४.२) = अट्, कवर्गः, पवर्गः, आङ्, नुम् इत्येतैः यथासम्भवं मिलितैः व्यवधानेऽपि नस्य णः स्यात् समानपे | रषाभ्यां नो णः समानपदे (८.४.१) इति सूत्रस्य पूर्णतया अनुवृत्तिः |
- ष्टुना ष्टुः (८.४.४१) = दन्त्यसकारस्य तवर्गीयवर्णस्य च स्थाने मूर्धन्यषकारादेशः टवर्गीयवर्णादेशश्च भवतः, मूर्धन्यषकार-टवर्गीयवर्णयोः योजनेन |
- झलां जश् झशि (८.४.५३) = झलां स्थाने जशादेशो भवति झशि परे | स्थानेऽन्तरतमः (१.१.५०) इत्यनेन जश्-वर्णेषु वर्णनिर्धारणम् | झलां षष्ठ्यन्तं, जशः प्रथमान्तम्, झशि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | झश्-प्रत्याहारे वर्गाणां तृतीयचतुर्थाः च वर्णाः अन्तर्भूताः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— झलां जश् झशि संहितायाम् |
- खरि च (८.४.५५) = झलः स्थाने चरादेशो भवति खरि परे | खरि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | झलां जश् झशि (८.४.५३) इत्यस्मात् झलां इत्यस्य अनुवृत्तिः; अभ्यासे चर्च (८.४.५४) इत्यस्मात् चर्च इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— झलां चर् खरि च संहितायाम् |
- अनुस्वारस्य ययि परसवर्णः (८.४.५८) = अनुस्वारस्य स्थाने परसवर्णादेशो भवति ययि परे | परस्य सवर्णः, परसवर्णः, षष्ठी तत्पुरुषः | अनुस्वारस्य षष्ठ्यन्तं, ययि सप्तम्यन्तं, परसवर्णः प्रथमान्तं, त्रिपदमिदं सूत्रम् | यय्-प्रत्याहारे श्, ष्, स्, ह् एतान् वर्जयित्वा सर्वे हल्-वर्णाः अन्तर्भूताः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अनुस्वारस्य ययि परसवर्णः संहितायाम् |
- वाऽवसाने (८.४.५६) = अवसाने झलः विकल्पेन चर्-आदेशो भवति | अनेन अवसानावस्थायां विकल्पेन जश्त्वं चर्त्वं वा | वा अव्ययपदम्, अवसाने सप्तम्यन्तं, द्विपदमिदं सूत्रम् | झलां जश् झशि (८.४.५३) इत्यस्मात् झलां इत्यस्य अनुवृत्तिः | अभ्यासे चर्च (८.४.५४) इत्यस्मात् चर् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— अवसाने झलां चरो वा |
- झरो झरि सवर्णे (८.४.६५) = हल्-उत्तरस्य झरः विकल्पेन लोपः सवर्णझरि परे | झरः षष्ठ्यन्तं, झरि सप्तम्यन्तं, सवर्णे सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | हलो यमां यमि लोपः (८.४.६४) इत्यस्मात् हलः, लोपः चेत्यनयोः अनुवृत्तिः | झयो होऽन्यतरस्याम् (८.४.६२) इत्यस्मात् अन्यतरस्याम् इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— हलः झरः लोपः अन्यतरस्यां सवर्णे झरि संहितायाम् |
एषां प्रसक्तिर्यत्र यत्र भवति, तत्र तत्र अस्माभिः तत्तत् सन्धिकार्यं करणीयमेव | अनेन हलन्तधातवः द्रष्टव्याः | धेयं यत् पूर्वतनेषु हल्-सन्धि-पाठेषु, हल्-सन्धयः परिशीलिताः केन क्रमेण ? प्रत्ययस्य प्रथमवर्णम् अनुसृत्य | अधुना अस्माकं कार्यं प्रवर्तते धातोः अन्तिमवर्णम् अनुसृत्य | कार्यं तदेव, परन्तु धातुक्रमेण अग्रे सरेम—
जुहोत्यादिगणस्य अष्टसु हलन्तधातुषु त्रयः अदुपधधातवः, चत्वारः इदुपधधातवः, एकः उदुपधधातुः चेति |
1. अदुपधधातवः
त्रयः अदुपधधातवः सन्ति—भस → भस्, धन → धन्, जन → जन् इति |
भस → भस् धातुः (परस्मैपदी, भत्सनदीप्त्योः)
a. द्वित्वम्, अभ्यासकार्यं च—
भस् → श्लौ → भस्-भस् → हलादिः शेषः → भभस् → अभ्यासे चर्च → बभस् इति अङ्गम्
b. अङ्गकार्यम्—
१) हलादि पित्सु = उपधायाम् अकारः (लघु इक् इति न) अतः किमपि कार्यं नास्ति | बभस् + ति → बभस्ति
२) अजादि पित्सु = उपधायाम् अकारः (लघु इक् इति न) अतः किमपि कार्यं नास्ति | बभस् + आनि → बभसानि
३) हलाद्यपित्सु = घसिभसोर्हलिच इत्यनेन उपधायाः लोपः | बभस् + तः → बभ्स् + तः → सन्धिकार्यम् → बब्धः
४) अजाद्यपित्सु = घसिभसोर्हलिच इत्यनेन उपधायाः लोपः | बभस् + अति → बभ्स् +अति → सन्धिकार्यम् → बप्सति
घसिभसोर्हलिच (६.४.१००) = छन्दसि घस् भस् अनयोः उपधायाः लोपो भवति अजादौ हलादौ च क्ङिति प्रत्यये परे | 'अजादौ हलादौ च' उक्तं यतोहि 'अजादिप्रत्यये परे' इति पूर्वतनसूत्रेषु प्रवर्तमानम्; अत्र हलादिप्रत्यये परेऽपि इति कृत्वा द्वयम् उकम् | घसिभसोः षष्ठ्यन्तं, हलि सप्तम्यन्तं, च अव्ययपदं, त्रिपदमिदं सूत्रम् | अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यस्मात् अचि इत्यस्य अनुवृत्तिः; ऊदुपधाया गोहः (६.४.८९) इत्यस्मात् उपधायाः इत्यस्य अनुवृत्तिः | गमहनजनखनघसां लोपः क्ङित्यनङि (६.४.९८) इत्यस्मात् लोपः, क्ङिति इत्यनयोः अनुवृत्तिः | तनिपत्योश्छन्दसि (६.४.९९) इत्यस्मात् छन्दसि इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— घसिभसोः अङ्गस्य उपधायाः लोपः अचि हलि च क्ङिति |
c. सन्धिकार्यम्—
बभस् + तः → घसिभसोर्हलिच (६.४.१००) → बभ्स् + तः → झलो झलि (८.२.२६) → बभ् + तः → झषस्तथोर्धोऽधः → बभ् + धः → झलां जश् झशि → बब् + धः → बब्धः
बभस् + अति → घसिभसोर्हलिच (६.४.१००) → बभ्स् + अति → खरि च इत्यनेन चर्त्वम् → बप्सति
धेयं यत् अत्र 'अति' झलादिः नास्ति अतः स्-लोपो न भवति | वकारादिः मकारादिश्च प्रत्ययाः अपि तथा— बभस् + वः → बप्स्वः |
झलो झलि (८.२.२६) = झल्-उत्तरस्य सकारस्य लोपो भवति झलि परे | झलः पञ्चम्यन्तं, झलि सप्तम्यन्तं, द्विपदमिदं सूत्रम् | रात्सस्य (८.२.२४) इत्यस्मात् सस्य इत्यस्य अनुवृत्तिः, संयोगान्तस्य लोपः (८.२.२३) इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— झलः सस्य लोपः झलि |
बभस् +हि → हुझल्भ्यो हेर्धिः (६.४.१०१) इत्यनेन झलन्तेभ्यः धातुभ्यश्च हि-प्रत्ययस्य स्थाने धि-आदेशः → बभस् +धि → घसिभसोर्हलिच (६.४.१००) इत्यनेन भस्-धातोः उपधालोपः अजादौ हलादौ च क्ङिति प्रत्यये परे → बभ्स् +धि → खरि च (८.४.५५) च झलो झलि (८.२.२६) इति द्वे सूत्रे असिद्धे धि च (८.२.२५) इति सूत्रं प्रति → धि च (८.२.२५) इत्यनेन सकारस्य लोपो भवति धकारादि-प्रत्यये परे → बभ् +धि → झलां जश् झशि (८.४.५३) इत्यनेन झलां स्थाने जशादेशो भवति झशि परे → बब्धि
भस्-धातोः तिङन्तरूपाणां चिन्तनार्थं समूहत्रयं वर्तते— १) प्रत्ययः पित् (तत्र उपधालोपो न भवति); २) प्रत्ययः अपित्, झलादिः (उपधालोपो भवति, स्-लोपो भवति); ३) प्रत्ययः अपित्, किन्तु झलादिः न (उपधालोपो भवति, स्-लोपो न भवति) |
अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |
रूपाणि
लटि —
लोटि—
लङि—
विधिलिङि—
प्रश्नः उदेति घसिभसोर्हलिच (६.४.१००) इति सूत्रे घस्-धातोः प्रसङ्गः कः ? घसॢ अदने (खादनार्थे) इति धातुः भ्वादिगणीयः, लटि घसति | इक्श्तिपौ धातुनिर्देशे इति वक्तव्यम् (३.३.१०८ अन्तर्गते) इति वार्त्तिकेन, धातु-निर्देशे इक्-प्रत्ययो भवति | अनेन घसॢ + इक् → घस् + इ → घसि इति रूपं धात्वर्थे एव |
घस्-धातोः उदाहरणं घस् + क्तिन् → सग्धिः | प्रक्रिया एतादृशी—
घसॢ + क्तिन् → घस् + ति → घसिभसोर्हलिच (६.४.१००) इत्यनेन उपधा-लोपः → घ् + स् + ति → झलो झलि (८.२.२६) इत्यनेन स्-लोपः → घ् + ति → झषस्तथोर्धोऽधः (८.२.४०) इत्यनेन त्-स्थाने ध्-आदेशः → घ् + धि → झलां जश् झशि (८.४.५३) इत्यनेन जश्त्वम् → ग् + धि → ग्धि → 'समाना ग्धिः' इत्यस्मिन् अर्थे समासे सति समानस्यच्छन्दस्यसूर्धप्रभृत्युदर्केषु (६.३.८४) इत्यनेन समानार्थे 'स' इति आगमः → सग्धिः | 'सग्धिः स्त्री सहभोजनम्' अमरकोषम् (२.९.५५) अनुसृत्य सहभोजनार्थे प्रयोगो भवति |
धन → धन् धातुः (परस्मैपदी, धान्ये, छान्दसः)
a. द्वित्वम्, अभ्यासकार्यं च—
धन् → श्लौ → धन्-धन् → हलादिः शेषः → धधन् → अभ्यासे चर्च → दधन् इति अङ्गम्
b. अङ्गकार्यम्— उपधायाम् अकारः (लघु इक् इति न) अतः गुणकार्यं नास्ति | परन्तु विशिष्टम् अङ्गकार्यं वर्तते, अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) इत्यनेन उपधादीर्घादेशः झलादि कित्ङित्-प्रत्यये परे—
दधन् + तः → अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) इत्यनेन उपधायाः दीर्घादेशः → दधान् + तः → नश्चापदान्तस्य झलि, अनुस्वारस्य ययि परसवर्णः → दधान्तः
अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) = अनुनासिकान्ताङ्गस्य उपधायाः दीर्घादेशो भवति क्वि च झलादि कित्ङित्-प्रत्यये परे | क्विश्च झल् तयोरितरेतरद्वन्द्वः क्विझलौ, तयोः क्विझलोः | क् च ङ् तयोरितरेतरद्वन्द्वः क्ङौ, तौ इतौ यस्य तत् क्ङित्, तस्मिन् क्ङिति | अनुनासिकस्य षष्ठ्यन्तं, क्विझलोः सप्तम्यन्तं, क्ङिति च सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | नोपधायाः (६.४.७) इत्यस्मात् उपधायाः इत्यस्य अनुवृत्तिः | ढ्रलोपे पूर्वस्य दीर्घोऽणः (६.३.१११) इत्यस्मात् दीर्घः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तादृशम् अङ्गं यस्य अन्ते अनुनासिकवर्णः अस्ति; यस्मिन् विधिस्तदादावल्ग्रहणे (१.१.७२, वार्तिकम् २९) इत्यनेन क्विझलोः क्ङिति इत्युक्तौ क्वि + झलादौ क्ङिति (तादृशप्रत्ययः यस्य आदौ झल् स्यात्) | अनुवृत्ति-सहितसूत्रम्— अनुनासिकस्य अङ्गस्य उपधायाः दीर्घः क्विझलोः क्ङिति |
धेयं यत् सिद्धान्तकौमुद्यां रूपं दत्तमस्ति 'दधन्तः' | माताजी वदति यत् इदं रूपं दोषाय; अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) इत्यस्य कार्यम् अत्र भवेदेव |
c. सन्धिकार्यम्—
नकारान्तधातुः मकारान्तधातुः वा चेत्, स च धातुः अनुनासिकान्तधातुरिति उच्यते |
दधन् + ति → नश्चापदान्तस्य झलि → दधं + ति → अनुस्वारस्य ययि परसवर्णः → दधन्ति
दधन् + सि → नश्चापदान्तस्य झलि → दधं + सि → दधंसि
धेयं यत् दधन् नकारान्तम् अङ्गम्; नकारः झलि नास्ति अतः लोटि हि-स्थाने धि-आदेशो न भवति |
अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |
रूपाणि
लटि —
लोटि—
लङि—
विधिलिङि—
जन → जन् धातुः (परस्मैपदी, जनने, छान्दसः)
a. द्वित्वम्, अभ्यासकार्यं च—
जन् → श्लौ → जन्-जन् → हलादिः शेषः → जजन् इति अङ्गम्
b. अङ्गकार्यम्—
१) हलादि पित्सु = उपधायाम् अकारः (लघु इक् इति न) अतः किमपि कार्यं नास्ति | जजन् + ति → जजन्ति
२) अजादि पित्सु = उपधायाम् अकारः (लघु इक् इति न) अतः किमपि कार्यं नास्ति | जजन् + आनि → जजनानि
३) हलाद्यपित्सु = जनसनखनां सञ्झलोः इत्यनेन झलि नकारस्य आकारादेशः | जजन् + तः → जजा + तः → जजातः
४) अजाद्यपित्सु = गमहनजनखनघसां लोपः क्ङित्यनङि इत्यनेन उपधायाः लोपः | जजन् + अति → जज्न् + अति → सन्धिकार्यम् → जज्ञति
जनसनखनां सञ्झलोः (६.४.४२) = जन्, सन्, खन् एषां धातूनां नकारस्य स्थाने आकारादेशो भवति झलादि-सन्-प्रत्यये परे झलादि-कित्ङित्-प्रत्यये परे च | अलोऽन्त्यस्य (१.१.५२) इत्यस्य साहाय्येन आकारादेशः पूर्णतया धातोः स्थाने न, अपि तु अन्तिमस्य नकारस्य | जनश्च सनश्च खन् च तेषमितरेतरद्वन्द्वः जनसनखनः, तेषां जनसनखनाम् | सन् च झल् च तयोरितरेतरद्वन्द्वः सञ्झलौ, तयोः सञ्झलोः | जनसनखनां षष्ठ्यन्तं, सञ्झलोः सप्तम्यन्तं, द्विपदमिदं सूत्रम् | विड्वनोरनुनासिकस्यात् (६.४.४१) इत्यस्मात् आत् इत्यस्य अनुवृत्तिः, अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति (६.४.३७) इत्यस्मात् झलि, क्ङिति इत्यनयोः अनुवृत्तिः | झलि इति अनुवृत्तिः सन् इत्यस्य विशेषणम्; अनेन यत्र सनि इडागमो भवति, तत्र सन् झलादिः नास्ति अतः नकारस्य आत्वं न भवति | सूत्रे स्थितं 'झलि' तु क्ङिति इत्यस्य विशेषणम् | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— जनसनखनाम् अङ्गानाम् आत् झलि सञ्झलोः क्ङिति |
गमहनजनखनघसां लोपः क्ङित्यनङि (६.४.९८) = गम्, हन्, जन्, खन्, घस् एषां धातूनाम् उपधायाः लोपो भवति अजादि-कित्ङित्-प्रत्यये परे, परन्तु अङ्-प्रत्ययः चेत् लोपः न भवति | गमश्च हनश्च जनश्च खनश्च घस् च तेषामितरेतरद्वन्द्वो गमहनजनखनघसः, तेषां गमहनजनखनघसाम् | क् च ङ् च क्ङौ, क्ङौ इतौ यस्य सः क्ङित्, तस्मिन् क्ङिति | न अङ् अनङ्, तस्मिन् अनङि | गमहनजनखनघसां षष्ठ्यन्तं, लोपः प्रथमान्तं, क्ङिति सप्तम्यत्नम्, अनङि सप्तम्यतम् अनेकपदमिदं सूत्रम् | अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यस्मात् अचि इत्यस्य अनुवृत्तिः; ऊदुपधाया गोहः (६.४.८९) इत्यस्मात् उपधायाः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— गमहनजनखनघसाम् अङ्गानाम् उपधायाः लोपः अनङि अचि क्ङिति |
विधिलिङि—
अस्मिन् लकारे सर्वे प्रत्ययाः यकारादयः | यकारः झलि नास्ति अतः जनसनखनां सञ्झलोः इत्यनेन नकारस्य स्थाने आकारादेशो न भवति | परन्तु ये विभाषा इत्यनेन विकल्पेन आकारादेशो विहितः |
ये विभाषा (६.४.४३) = जन्, सन्, खन् एषां धातूनां नकारस्य स्थाने विकल्पेन आकारादेशो भवति यकारादि-कित्ङित्-प्रत्यये परे | अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्तादेशः | ये सप्तम्यन्तं, विभाषा प्रथमान्तं, द्विपदमिदं सूत्रम् | जनसनखनां सञ्झलोः (६.४.४२) इत्यस्मात् जनसनखनाम् इत्यस्य अनुवृत्तिः | विड्वनोरनुनासिकस्यात् (६.४.४१) इत्यस्मात् आत् इत्यस्य अनुवृत्तिः | अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति (६.४.३७) इत्यस्मात् क्ङिति इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— जनसनखनां अङ्गस्य आत् ये क्ङिति विभाषा |
जजन् + यात् → ये विभाषा → जजन् / जजा + यात् → जजन्यात् / जजायात्
c. सन्धिकार्यम्—
नकारान्तधातुः मकारान्तधातुः वा चेत्, स च धातुः अनुनासिकान्तधातुरिति उच्यते |
जजन् + ति → नश्चापदान्तस्य झलि → जजं + ति → अनुस्वारस्य ययि परसवर्णः → जजन्ति
जजन् + सि → नश्चापदान्तस्य झलि → जजं + सि → जजंसि
जजन् + अति → गमहनजनखनघसां लोपः क्ङित्यनङि → जज्न् + अति → स्तोः श्चुना श्चुः इत्यनेन श्चुत्वम् → जज्ञ् + अति → ज्ञ् = ज्ञ् → जज्ञति
अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |
रूपाणि
लटि —
लोटि—
लङि—
विधिलिङि—
2. इदुपधधातवः
चत्वारः इदुपधधातवः सन्ति— धिष → धिष्, णिजिर् → निज्, विजिर् → विज्, विष्ऌ → विष् |
धिष → धिष् धातुः (परस्मैपदी, शब्दे, छान्दसः)
a. द्वित्वम्, अभ्यासकार्यं च—
धिष् → श्लौ → धिष्-धिष् → हलादिः शेषः → धिधिष् → अभ्यासे चर्च → दिधिष् इति अङ्गम्
b. अङ्गकार्यम्—
१) हलादि पित्सु = उपधायां लघु-इकः गुणः | दिधिष् + ति → पुगन्तलघूपधस्य च → दिधेष् + ति → दिधेष्टि
२) अजादि पित्सु = नाभ्यस्तस्याचि पिति सार्वधातुके इत्यनेन उपधायां लघु-इकः गुणनिषेधः | दिधिष् + आनि → रषाभ्यां नो णः समानपदे इत्यनेन णत्वम् → दिधिषाणि
३) हलाद्यपित्सु = क्ङिति च, गुणनिषेधः | दिधिष् + तः → दिधिष्टः
४) अजाद्यपित्सु = क्ङिति च, गुणनिषेधः | दिधिष् + अति → दिधिषति
नाभ्यस्तस्याचि पिति सार्वधातुके (७.३.८७) = अभ्यस्तस्य लघूपधगुणः न भवति अजादि-पित्-सार्वधातुकप्रत्यये परे | न अव्ययपदम्, अभ्यस्तस्य षष्ठ्यन्तम्, अचि सप्तम्यन्तं, पिति सप्तम्यन्तं, सार्वधातुके सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | पुगन्तलघूपधस्य च (७.३.८६) इत्यस्मात् लघूपधस्य इत्यस्य अनुवृत्तिः, मिदेर्गुणः (७.३.८२) इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अभ्यस्तस्य अङ्गस्य लघूपधस्य गुणः न अचि पिति सार्वधातुके |
c. सन्धिकार्यम्—
दिधिष् + ति → पुगन्तलघूपधस्य च → दिधेष् + ति → ष्टुना ष्टुः → दिधेष्टि
दिधिष् + सि → पुगन्तलघूपधस्य च → दिधेष् + सि → षढोः कः सि → दिधेक् + सि → आदेशप्रत्यययोः → दिधेक्षि
दिधिष् + हि → हुझल्भ्यो हेर्धिः (६.४.१०१) → दिधिष् + धि → ष्टुना ष्टुः (८.४.४१) → दिधिष् + ढि → झलां जश् झशि (८.४.५३) → दिधिड् + ढि → दिधिड्ढि
अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |
रूपाणि
लटि —
लोटि—
लङि—
विधिलिङि—
निजाद्यन्तर्गणः
णिजिर् → निज्, विजिर् → विज्, विष्ऌ → विष् एते त्रयः धातवः निजादयः |
णिजिर् → निज् धातुः (उभयपदी, शौचपोषणयोः)
a. द्वित्वम्, अभ्यासकार्यं च—
निज् → श्लौ → निज्-निज्→ हलादिः शेषः → निनिज् इति अङ्गम्
अत्र किञ्चन विशिष्टं सूत्रम् आयाति निजां त्रयाणां गुणः श्लौ, येन अभ्यासे गुणो भवति | श्लु-निमित्तीकृत्य इदं कार्यं भवति, अतः सर्वेषु रूपेषु प्रसक्तिरस्ति; पित्त्वम् अपित्त्वम् इत्यनयोर्न कोऽपि सम्बन्धः |
निनिज् → निजां त्रयाणां गुणः श्लौ इत्यनेन अभ्यासे गुणः → नेनिज् इति नूतनाङ्गम्
निजां त्रयाणां गुणः श्लौ (७.४.७५) = निजादीनां त्रयाणाम् अभ्यासस्य गुणो भवति, श्लौ | निज्, विज्, विष् इत्येषां प्रसङ्गः | निजां षष्ठ्यन्तं, त्रयाणां षष्ठ्यन्तं, गुणः प्रथमान्तं, श्लौ सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— निजां त्रयाणां अङ्गस्य अभ्यासस्य गुणः श्लौ |
b. अङ्गकार्यम्—
१) हलादि पित्सु = उपधायां लघु-इकः गुणः | नेनिज् + ति → पुगन्तलघूपधस्य च → नेनेज् + ति → सन्धिकार्यम् → नेनेक्ति
२) अजादि पित्सु = नाभ्यस्तस्याचि पिति सार्वधातुके इत्यनेन उपधायां लघु-इकः गुणनिषेधः | नेनिज् + आनि → नेनिजानि
३) हलाद्यपित्सु = क्ङिति च, गुणनिषेधः | नेनिज् + तः → सन्धिकार्यम् → नेनिक्तः
४) अजाद्यपित्सु = क्ङिति च, गुणनिषेधः | नेनिज् + अति → नेनिजति
c. सन्धिकार्यम्—
नेनिज् + ति → पुगन्तलघूपधस्य च → नेनेज् + ति → चोः कुः → नेनेग् + ति → खरि च → नेनेक्ति
नेनिज् + सि → पुगन्तलघूपधस्य च → नेनेज् + सि → चोः कुः → नेनेग् + सि → खरि च → नेनेक् + सि → आदेशप्रत्यययोः → नेनेक्षि
नेनिज् + हि → हुझल्भ्यो हेर्धिः (६.४.१०१) → नेनिज् + धि → चोः कुः → नेनिग् + धि → नेनिग्धि
अनेनिज् + त् → पुगन्तलघूपधस्य च (७.३.८६) → अनेनेज् + त् → हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (६.१.६७) → अनेनेज् → चोः कुः(८.४.५५) → अनेनेग् → वाऽवसाने (८.४.५६) → विकल्पेन अनेनेक्
चोः कुः (८.२.३०) = चवर्गस्य स्थाने कवर्गादेशो भवति पदान्ते झलि च | चोः षष्ठ्यन्तं, कुः प्रथमान्तं, द्विपदमिदं सूत्रम् | झलो झलि (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात् अन्ते, च इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— चोः कुः झलि पदस्य अन्ते च |
खरि च (८.४.५५) = झलः स्थाने चरादेशो भवति खरि परे | खरि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | झलां जश् झशि (८.४.५३) इत्यस्मात् झलां इत्यस्य अनुवृत्तिः; अभ्यासे चर्च (८.४.५४) इत्यस्मात् चर्च इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— झलां चर् खरि च संहितायाम् |
अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |
रूपाणि
लटि —
लोटि—
लङि—
विधिलिङि—
विजिर् → विज् धातुः (उभयपदी, पृथग्भावे)
सर्वं कार्यं, रूपाणि च निज्-धातुरिव |
विज् → श्लौ → विज्-विज्→ हलादिः शेषः → विविज् इति अङ्गम् → निजां त्रयाणां गुणः श्लौ इत्यनेन अभ्यासे गुणः → वेविज् इति नूतनाङ्गम्
विष्ऌ → विष् धातुः (उभयपदी, व्याप्तौ)
कार्यं रूपाणि च धिष्-धातुरिव; केवलम् अभ्यासे सर्वत्र गुणः इति भेदः |
विष् → श्लौ → विष्-विष्→ हलादिः शेषः → विविष् इति अङ्गम् → निजां त्रयाणां गुणः श्लौ इत्यनेन अभ्यासे गुणः → वेविष् इति नूतनाङ्गम्
3. उदुपधधातवः
एकः एव उदुपधधातुः अस्ति, तुर → तुर् इति |
तुर → तुर् धातुः (प्रस्मैपदी, त्वरणे)
a. द्वित्वम्, अभ्यासकार्यं च—
तुर् → श्लौ → तुर्-तुर् → हलादिः शेषः → तुतुर् इति अङ्गम्
b. अङ्गकार्यम्—
१) हलादि पित्सु = उपधायां लघु-इकः गुणः | तुतुर् + ति → पुगन्तलघूपधस्य च → तुतोर् + ति → तुतोर्ति
२) अजादि पित्सु = नाभ्यस्तस्याचि पिति सार्वधातुके इत्यनेन उपधायां लघु-इकः गुणनिषेधः | तुतुर् + आनि → अट्कुप्वाङ्नुम्व्यवायेऽपि (८.४.२) → तुतुराणि
३) हलाद्यपित्सु = हलि च इत्यनेन उपधादीर्घः | तुतुर् + तः → तुतूर् + तः → तुतूर्तः
४) अजाद्यपित्सु = क्ङिति च, गुणनिषेधः | तुतुर् + अति → तुतुरति
हलि च (८.२.७७) = हलि परे रेफान्तानां वकारान्तानां च धातूनाम् उपधायां स्थितः इक्-वर्णः दीर्घो भवति | हलि सप्तम्यन्तम्, च अव्ययपदम्, द्विपदमिदं सूत्रम् | सिप धातो रुर्वा (८.२.७४) इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः; र्वोरुपधाया दीर्घ इकः (८.२.७६) इत्यस्य पूर्णतया अनुवृत्तिः | येन विधिस्तदन्तस्य (१.१.७२) इत्यस्य साहाय्येन तदन्तविधिः अतः र्वोः इत्यनेन येषाम् धातूनाम् अन्ते रेफः वकारश्च, तेषामपि ग्रहणम् | अनुवृत्ति-सहितसूत्रम्— हलि च र्वोः धातोः उपधायाः इकः दीर्घः |
c. सन्धिकार्यम्— सर्वत्र केवलं वर्णमेलनम् |
अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |
रूपाणि
लटि —
लोटि—
लङि—
विधिलिङि—
अनेन जुहोत्यादिगणस्य हलन्तधातवः समाप्ताः |
Subpages (1): जुहोत्यादिगणे हलन्तधातूनां सार्वधातुकलकाराणां तिङन्तरूपाणि
१६ - जुहोत्यादिगणे हलन्तधातवः.pdf (117k) Swarup Bhai, Aug 23, 2019, 3:53 PM v.1
Swarup – December 2013 (Updated Sept 2016)