06- अलुक् -प्रकरणम्

From Samskrita Vyakaranam
< 14 - समासः14---samAsaH/06---aluk-prakaraNam
Jump to navigation Jump to search


उत्तरपदाधिकारः – अलुगुत्तरपदे

 

 

अलुक्समासः इति नाम्ना समासः व्याकरणे न दृश्यते, तर्हि किमर्थम् अलुक्समासः इत्युच्यते ?

 

समासप्रक्रियायां समासस्य प्रातिपदिकसंज्ञा भवति कृत्तद्धितसमासाश्च (१.२.४६) इत्यनेन सूत्रेण इति ज्ञातमेव | प्रतिपादिकसंज्ञानन्तरं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति सुपो धातुप्रातिपदिकयोः (२.४.७१) इति सूत्रेण| इयमेव सामान्यसमासप्रक्रिया इति जानीमः | परन्तु केषुचित् समासेषु विभक्तेः लोपः न भवति, पूर्वपदस्य वा उत्तरपदस्य वा उभयोः वा रूपपरिवर्तनं भवति | यस्मिन् समासे विभक्तेः लुक् न भवति, तादृशसमासः अलुक्समासः इति कथ्यते |  यथा – कण्ठेकालः, युधिष्ठिरः इत्यादीनि उदाहरणानि |  कण्ठेकालः इति समासे, पूर्वपदं कण्ठे, उत्तरपदं कालः इति |

 

अलुगुत्तरपदे इति सूत्रेस्य अधिकारे अलुक्सम्बद्धसूत्राणि सन्ति, तैः सूत्रैः सुपो धातुप्रातिपदिकयोः (२.४.७१) इति सूत्रेण प्राप्यमाणः सुब्लुक् न भवति; अर्थात् विभक्तेः अलुक् भवति | एतेषां विवरणम् अग्रे करिष्यते |

 

अलुगुत्तरपदे ( ६.३.१) = इदम् अधिकारसूत्रम् अस्ति |  अस्मिन् सूत्रे द्वे पदे स्तः - अलुक् इति एकं पदम्, उत्तरपदे इति द्वितीयं पदम् | अस्मिन् सूत्रे अलुक् इत्यस्य अधिकारः  पञ्चम्याः स्तोकादिभ्यः ( ६.३.२) इत्यस्मात् सूत्रात् आरभ्य  विभाषा स्वसृपत्योः (६.३.२४) इति सूत्रपर्यन्तम् अस्ति | उत्तरपदे इत्यस्य अधिकारः पञ्चम्याः स्तोकादिभ्यः ( ६.३.२) इत्यस्मात् आरभ्य षष्ठाध्यायस्य तृतीयपादस्य अन्तपर्यन्तं, नाम सम्प्रसारणास्य ( ६.३.१३८) इति सूत्रपर्यन्तम् अस्ति |  अस्मिन् सूत्रे उत्तरपदे नाम उत्तरपदे परे इत्यर्थः | उत्तरपदं नाम समासस्य अन्तिमं पदम् इत्यर्थः | न लुक् अलुक्, नञ्तत्पुरुषः | उत्तरं चादः पदम् उत्तरपदम् | सूत्रं स्वयं सम्पूर्णम् |

अग्रे क्रमेण अलुगधिकारे यानि सूत्राणि सन्ति, तेषाम् अध्ययनं भविष्यति |

 

१)     पञ्चम्याः स्तोकादिभ्यः (६.३.२) = स्तोकादिभ्यः पञ्चम्याः अलुक् स्यात् उत्तरपदे | अर्थात् स्तोकादिगणे ये शब्दाः पठिताः, तेभ्यः पञ्चमीविभक्तेः अलुक् भवति उत्तरपदे परे | इदं सूत्रम् अलुगधिकारे प्रथमं सूत्रम् अस्ति | स्तोक आदिः येषां ते, स्तोकादयस्तेभ्यः, स्तोकादिभ्यः | पञ्चम्याः षष्ठ्यन्तं, स्तोकादिभ्यः पञ्चम्यन्तम् | अलुगुत्तरपदे (..) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— पञ्चम्याः स्तोकादिभ्यः अलुगुत्तरपदे |

स्तोकादिभ्यः इत्यनेन एतेषां ग्रहणं = स्तोक, अन्तिकार्थाः, दूरार्थकाः , कृच्छृशब्दाः इति | यथा—

यथा—

 

स्तोकात् मुक्तः = स्तोकान्मुक्तः (विभक्तेः अलुक् भवति) | अलौकिकविग्रहः = स्तोक + ङसि + मुक्त + सु |

स्तोकान्मुक्तः इति समस्तपदस्य शास्त्रीय-प्रक्रिया अधो लिखितः अस्ति |

 

अलौकिकविग्रहवाक्यं स्तोक + ङसि + मुक्त + सु समाससंज्ञा भवति प्राक्कडारात्समासः (२.१.३) इति सूत्रेण | पुनः अत्र तत्पुरुषः (२.१.२२) इति सूत्रेण तत्पुरुषसंज्ञा अपि भवति | स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन (२.२.३९) इति सूत्रेण स्तोकाद् इति पञ्चम्यन्तं सुबन्तं पदं समर्थेन मुक्त इति क्तान्तसुबन्तेन सह समस्यते |


स्तोक + ङसि + मुक्त + सु समासस्य प्रातिपदिकसंज्ञा भवति कृत्तद्धितसमासाश्च (१.२.४६) इत्यनेन सूत्रेण |


स्तोक + ङसि + मुक्त + सु इदानीं सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन सुप् प्रत्ययानां लोपः भवति स्म परन्तु पञ्चम्याः स्तोकादिभ्यः (६.३.२) इत्यनेन स्तोकादिभ्यः पञ्चम्याः अलुक् स्यात् |


स्तोक + ङसि + मुक्त इत्यस्मिन्‌ सु इत्यस्यैव लुक्‌ स्तोक + ङसि + मुक्त 


स्तोक + ङसि + मुक्त अत्र प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण प्रथमया विभक्त्या यत् निर्दिश्यते समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति | अत्र समासविधायकसूत्रम् अस्ति स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन (२.२.३९)  | अस्मिन् सूत्रे पञ्चमी इति पदं प्रथमाविभक्तौ अस्ति अतः तस्य उपसर्जन-संज्ञा भवति | अधुना उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण उपसर्जन-संज्ञकपदस्य पूर्वनिपातः भवति | अत्र स्तोकाद् इति पदं पञ्चम्यन्तं पदम् अतः तस्य उपसर्जन-संज्ञा भूत्वा पूर्वनिपातः भवति |


स्तोक + ङसि + मुक्त इदानीं टाङसिङसामिनात्स्याः (७.१.१२) इत्यनेन अदन्तात् अङ्गात् परस्य टा, ङसिँ, ङस् प्रत्यययानां क्रमेण इन, आत्, स्य इत्येते आदेशाः भवन्ति स्तोक + आत् + मुक्त |

स्तोक + आत् + मुक्त अकः सवर्णे दीर्घः (६.१.१०१) इत्यनेन सवर्णदीर्घसन्धिं कृत्वा स्तोकात् + मुक्त इति भवति अधुना झलां जशोऽन्ते (८.२.३९) इत्यनेन जश्त्वं कृत्वा स्तोकाद्+ मुक्त इति भवति, तदनन्तरं यरोऽनुनासिकेऽनुनासिको वा (..४५) इति सूत्रेण अनुनासिकसन्धिं कृत्वा स्तोकान्मुक्त इति भवति |

स्तोकान् + मुक्त इदानीं लिङ्गस्य वचनस्य च निर्णयः भवति | 'परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.६) इत्यनेन द्वन्द्वतत्पुरुषयोः उत्तरपदस्य लिङ्गं विधीयते | उत्तरपदम् अस्ति मुक्त इति, तस्य लिङ्गं पुंलिङ्गं विवक्षितम्, अतः स्तोकान्मुक्त इति समस्तपदस्य लिङ्गं भवति पुलिङ्गंस्तोकान्मुक्त + सु रुत्वविसर्गौ कृत्वा स्तोकातन्मुक्तः इति समस्तपदं प्रथमाविभक्तौ एकवचने |


वमेव अन्येषु उदाहरणेषु अपि पूर्वपदस्य विभक्तेः अलुक् भवति पञ्चम्याः स्तोकादिभ्यः (६.३.२) इति सूत्रेण |

 

अन्तिकाद् आगतः = अन्तिकादागतः | समीपात् आगतः इत्यर्थः |

अभ्याशाद् आगतः = अभ्याशादगतः | समीपात् आगतः इत्यर्थः |

दूराद् आगतः = दूरादागतः |

कृच्छ्राद् आगतः = कृच्छ्रादागतः |

स्तोकात् मोक्षः = अत्र समासः न भवति यतोहि मोक्षः इति पदं क्तप्रत्ययान्तः शब्दः नास्ति |

 

एतेषु उदाहरणेषु समासकृते अपि समानरूपं, समासाकृते अपि समानरूपं, तर्हि समासस्य किं प्रयोजनम्? समासानन्तरं अन्तोदात्तस्वरः सिद्ध्यति | एतत् प्रयोजनम् अतिरिच्य समासे द्वे पृथक् पृथक् पदे एकं पदं भवति | यद्यपि रूपसाम्यं दृश्यते तथापि समासगतपदस्य, असमासगतपदस्य भेदः अवश्यम् अस्ति |

 

पञ्चम्याः स्तोकादिभ्यः (६.३.२) इति सूत्रे उत्तरपदे इत्यस्य अधिकारस्य किं प्रयोजनम्?  यस्य पञ्चम्यन्तस्य पदस्य पञ्चमीविभक्तेः लुक् जायमानम् अस्ति पञ्चम्याः स्तोकादिभ्यः (६.३.२) इति सूत्रेण, तादृश्यस्य पदस्य पञ्चमीविभक्तेः लुक् उत्तरपदावयवः अस्ति चेत् एव भवति अन्यथा नास्ति |

 

यथा –

निष्क्रान्तः स्तोकात् = निस्तोकः (अल्पात् नयनम्) |

अलौकिकविग्रहः = नि + स्तोक + ङसि | निरादयः क्रान्ताद्यर्थे पञ्चम्या इति वार्तिकेन तत्पुरुषसमासः विधीयते | अस्मिन् समासे स्तोक + ङसि इत्यस्मात् उत्तरपदं नास्ति इति कारणात् पञ्चमीविभक्तेः अलुक् न भवति अपि तु सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन सुप् प्रत्ययानां लोपः भवति | एवञ्च निस्तोक इति प्रातिपदिकं निष्पद्यते | निस्तोक इत्यस्मात् प्रातिपदिकात् सुब्विधानं भवति | निस्तोक + सु रुत्वविसर्गौ कृत्वा निस्तोकः इति समासः निष्पद्यते |

 

'ब्राह्मणाच्छंसिन उपसंख्यानम् इति वार्तिकेन ' पञ्चम्यन्तं ब्राह्मण-शब्दात् शंसी इति शब्दे परे पञ्चमीविभक्तेः अलुक् निपात्यते, येन ब्राह्मणाच्छंसी इति समासः निष्पद्यते | ब्राह्मणे इति वेदभागे विहितानि शास्त्राणि, उपचारात् ब्राह्मणानि, तानि शंसति इति ब्राह्मणाच्छंसी ऋत्विग्विशेषः | ब्राह्मणाच्छंसी ऋत्विग् विशेषः अस्ति |

 

 

२)     ओजः सहोऽम्भस्तमसस्तृतीयायाः (६.३.३) = ओजस् सहस् अम्भस् तमस् इत्येतेभ्यः उत्तरस्याः तृतीयायाः अलुक् भवति उत्तरपदे परे |  ओजः ( ओजस् ) च सहः ( सहस् ) च अम्भः ( अम्भस् ) च तमः ( तमस् ) च तेषां समाहारद्वन्द्व: -ओजः सहोम्भस्तमस्, तस्मात्  ओजः सहोऽम्भस्तमसः | ओजःसहोऽम्भस्तमसः पञ्चम्यन्तं, तृतीयायाः षष्ठ्यन्तम् | अलुगुत्तरपदे (..) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— ओजः सहोऽम्भस्तमसः तृतीयायाः अलुगुत्तरपदे |

 

यथा –

 ओजसा कृतम् = ओजसाकृतम् | ओजः इति शक्तिः अस्ति | तया शक्त्या कृतम् इत्यर्थः |

अलौकिकविग्रहः = ओजस् + टा + कृत + सु | कर्तृकरणे कृता बहुलम् ( २.१.३२) इति सूत्रेण तृतीयातत्पुरुषसमासः विहितः भवति | समासस्य प्रातिपदिकसंज्ञा भवति | इदानीं सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन सुप् प्रत्ययानां लोपः भवति स्म परन्तु ओजः सहोऽम्भस्तमसस्तृतीयायाः (६.३.३) इत्यनेन ओजस् इत्यस्मात्  तृतीयायाः अलुक् स्यात् उत्तरपदे परे |  अतः केवलं कृत + सु इत्यत्र सुब्लुक् भवति परन्तु ओजस् + टा इत्यत्र सुब्लुक् न भवति | ओजस् + टा इति उपसर्जनसंज्ञकस्य पूर्वनिपातः भवति | ओजस् + + कृत ओजसाकृत इति प्रातिपदिकं सिद्धम् | तस्मात् सुबुत्पत्तिः भूत्वा ओजसाकृत + सु इति भवति | परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.६) इत्यनेन द्वन्द्वस्य तत्पुरुषस्य च परस्य यल्लिङ्गं तत् भवति | कृत इति शब्दः नपुंसकलिङ्गे अस्ति इति कृत्वा समासः नपुंसकलिङ्गे भवति |

 

ओजसाकृत अतोऽम् (७.१.२४) इत्यनेन अकारान्तात् नपुंसकात् अङ्गात् सु-अम्- प्रत्ययोः अम् इति आदेशः भवति | ओजसाकृत + अम्  अमि पूर्वः (६.१.१०७) इति सूत्रेण अक् वर्णात्  अम् सम्बन्धी अच् परः चेत् पूर्वपरयोः स्थाने पूर्वरुपम् एकादेशो भवति ओजसाकृतम् इति समासः सिद्धः |

 

एवमेव अम्भसा कृतम् = अम्भसाकृतम् ( जलं द्वारा कृतम्) इति भवति|

सहसा कृतम् = सहसाकृतम् (विचारं विना कृतम्) |

तमसा कृतम् = तमसाकृतम् ( अज्ञानात् कृतम् ) |

 

अञ्जस उपसंख्यानम् इति वार्तिकम् | वार्तिकार्थः – अञ्ज़स् इति शब्दात् तृतीयायाः अलुक् भवति उत्तरपदे परे |


अञ्जसा कृतम् = अञ्जसाकृतम् (आर्जवेन कृतम् इति) | समासप्रक्रिया यथापूर्वम् |  अञ्जसा इत्यस्य तृतीयाविभक्तेः अलुक् भवति अञ्जस उपसंख्यानम् इति वार्तिकेन |


पुंसानुजो जनुषान्ध इति च इति वार्तिकम् | वार्तिकार्थः = अनुज् इति उत्तरपदे परे पुंस् इति शब्दात् तृतीयायाः अलुक् भवति | एवमेव अन्ध् इति उत्तरपदे परे जनुष् इति शब्दात् तृतीयायाः अलुक् भवति | अनेन पुंसानुजः, जनुषान्धः इति समस्तपदे निष्पन्ने भवतः |


पुंस अनुजः = पुंसानुजः | यस्य अग्रजः पुमान् सः पुंसानुजः | अलौकिकविग्रहः = पुंस् + टा + अनुज् + सु | कर्तृकरणे कृता बहुलम्'(..३२) इति सूत्रेण तृतीयातत्पुरुषसमासः विहितः भवति | तत्पश्चात् समासप्रक्रिया यथापूर्वम् | पुंसानुजो जनुषान्ध इति च इति वार्तिकेन ' अनुज् इति उत्तरपदे परे पुंस् इति शब्दात् तृतीयायाः अलुक् भवति | अनेन पुंसानुजः इति समासः सिद्धः |


जनुषा अन्धः = जनुषान्धः | यः जन्मतः अन्धः सः जनुषान्धः

अलौकिकविग्रहः = जनुष् +टा + अन्ध + सु | कर्तृकरणे कृता बहुलम्'(..३२) इति सूत्रेण तृतीयातत्पुरुषसमासः विहितः भवति | तत्पश्चात् समासप्रक्रिया यथापूर्वम् | पुंसानुजो जनुषान्ध इति च इति वार्तिकेन ' अन्ध इति उत्तरपदे परे जनुष् इति शब्दात् तृतीयायाः अलुक् भवति | अनेन जनुषान्धः इति समासः सिद्धः |

 

 

३) मनसः संज्ञायाम् (..) = संज्ञायाः विषये मनस् इति शब्दात् तृतीयाविभक्तेः अलुक् भवति उत्तरपदे परे | मनसः षष्ठ्यन्तं, संज्ञायां सप्तम्यन्तम् | ओजः सहोऽम्भस्तम सस्तृतीयायाः (६.३.३) इत्यस्मात् सूत्रात् तृतीया इत्यस्य अनुवृत्तिः| अलुगुत्तरपदे (..) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— मनसः संज्ञायाम् तृतीया अलुगुत्तरपदे |


यथा –

मनसा गुप्ता = मनसागुप्ता | कस्याश्चित् महिलायाः नाम |

अलौकिकविग्रहः = मनस् +टा +गुप्ता +सु | अत्र कर्तृकरणे कृता बहुलम् ( २.१.३२) इति सूत्रेण समासः विहितः अस्ति | मनसः संज्ञायाम् (६.३.४) इति सूत्रेण मनसा इति शब्दस्य तृतीयाविभक्तेः अलुक् भवति गुप्ता इति उत्तरपदे परे | अतः मनसागुप्ता इति समासः सिद्धः भवति |

 

४) आज्ञायिनि च ( ६.३.५) = आज्ञायिनि इति उत्तरपदे परे मनस् इति शब्दात् तृतीयायाः अलुग् भवति | आज्ञायिनि इति आज्ञायिन् -शब्दस्य सप्तम्यन्तं रूपं , चावययम् | मनसः संज्ञायाम् (..)  इत्यस्मात् सूत्रात् मनसः इत्यस्य अनुवृत्तिः| ओजः सहोऽम्भस्तमसस्तृतीयायाः (६.३.३) इत्यस्मात् सूत्रात् तृतीया इत्यस्य अनुवृत्तिः |  अलुगुत्तरपदे (..) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌—मनसः तृतीया अलुग् आज्ञायिनि च उत्तरपदे |

 

 

मनसः संज्ञायाम् (६.३.४) इति सूत्रं तु संज्ञायामेव कार्यं करोति इत्यतः असंज्ञायां कार्यं कर्तुम् आज्ञायिनि च ( ६.३.५) इति सूत्रम् आवश्यकम् अस्ति |

 

मनसा ज्ञातुं शीलम् अस्य = मनसाज्ञायी | यः पुरुषः मनसा ज्ञातुं शक्नोति, सः मनसाज्ञायी इत्युच्यते |

आङ् -पूर्वकः ज्ञा-धातुतः सुप्यजातौ णिनिस्ताच्छील्ये (३.२.७८) इति सूत्रेण कृतसंज्ञकः णिनि-प्रत्ययः ( इन्) विधीयते येन आज्ञा + इन् इति भवति |  आतो युक् चिण्कृतोः (७.३.३३) इति सूत्रेण युक् इति आगामः भूत्वा आज्ञायिन् इति प्रातिपदिकं निष्पन्नं भवति | आज्ञी इति रूपं प्रथमाविभक्तौ एकवचने |

 

मनसा ज्ञातुं शीलम् अस्य = मनसाज्ञायी |

अलौकिकविग्रहः = मनस् + टा + आज्ञायिन् + सु | कर्तृकरणे कृता बहुलम् (२.१.३२) इति सूत्रेण तृतीयातत्पुरुषसमासः विहितः भवति | समासस्य प्रातिपदिकसंज्ञा भवति | इदानीं सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन सुप् प्रत्ययानां लोपः भवति स्म परन्तु आज्ञायिनि च ( ६.३.५) इत्यनेन मनस् इत्यस्मात्  तृतीयायाः अलुक् स्यात्  आज्ञायिनि इति उत्तरपदे परे |  अतः केवलं आज्ञायिन् + सु इत्यत्र सुब्लुक् भवति परन्तु मनस् + टा इत्यत्र सुब्लुक् न भवति | मनस् + टा इति उपसर्जनसंज्ञकस्य पूर्वनिपातः भवति | मनस् + + आज्ञायिन् सवर्णदीर्घसन्धिं कृत्वा मनसाज्ञायिन् इति प्रातिपदिकं सिद्धम् | तस्मात् सुबुत्पत्तिः भूत्वा मनसाज्ञायिन् + सु इति भवति | परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.६) इत्यनेन द्वन्द्वस्य तत्पुरुषस्य च परस्य यल्लिङ्गं तत् भवति | आज्ञायिन् इति शब्दः पुंलिङ्गे विवक्षितः अस्ति इति कृत्वा समासः पुंलिङ्गे भवति |

 

मनसाज्ञायिन् + सु सर्वनामस्थाने चासम्बुद्धौ (६.४.८) इत्यनेन नः अङ्गस्य उपधायाः दीर्घः सर्वनामस्थाने असम्बुद्धौ च मनसाज्ञायीन् + सु इति भवति | अधुना हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌ (६.१.६७) इत्यनेन हलन्तात्‌ सु इति अपृक्तसंज्ञकस्य हलः लोपः | अतः मनसाज्ञायीन् इति भवति | अग्रे न लोपः प्रातिपदिकान्तस्य (८.२.७) इति सूत्रेण प्रातिपदिकसंज्ञक-पदस्य अन्ते विद्यमानस्य नकारस्य लोपः मनसाज्ञायी इति समासः सिद्धः भवति |

 

 

हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌ (६.१.६७) = हलन्तात्‌, दीर्घङ्यन्तात्‌, दीर्घाबन्तात्‌ च सु-ति-सि इत्येषाम्‌ अपृक्तसंज्ञकस्य हलः लोपः | अनेन प्रथमाविभक्तौ सु इत्यस्य स्‌-लोपः, लङि प्रथमपुरुषे त्‌-लोपः, मध्यमपुरुषे स्‌-लोपश्च | हल्‌ च ङी च आप्‌ च तेषाम्‌ इतरेतरद्वन्द्वः हल्ङ्यापः, तेभ्यः हल्ङ्याब्भ्यः | सुश्च, तिश्च, सिश्च तेषां समाहारद्वन्द्वः, सुतिसि, सुतिसिनः अपृक्तं सुतिस्यपृक्तम्‌ | हल्ङ्याब्भ्यः पञ्चम्यन्तं, दीर्घात्‌ पञ्चम्यन्तं, सुतिस्यपृक्तं प्रथमान्तं, हल्‌ प्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | लोपो व्योर्वलि (६.१.६५) इत्यस्मात्‌ लोपः इत्यस्य अनुवृत्तिः; अत्र कर्मणि प्रयोगे लुप्यते इति रूपविकारः | अनुवृत्ति-सहितसूत्रम्‌— दीर्घात्‌ हल्ङ्याब्भ्यो सुतिसि अपृक्तं हल्‌ लुप्यते |

 

सर्वनामस्थाने चासम्बुद्धौ (६.४.८) = नः अङ्गस्य उपधायाः दीर्घः सर्वनामस्थाने असम्बुद्धौ च |

 

 

न लोपः प्रातिपदिकान्तस्य (८.२.७) = प्रातिपदिकसंज्ञक-पदस्य अन्ते विद्यमानस्य नकारस्य लोपः | न लुप्तषष्ठीकं पदं, लोपः प्रथमान्तम, प्रातिपदिक लुप्तषष्ठीकं पदं, अन्तस्य षष्ठ्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— प्रातिपदिकस्य पदस्य अन्तस्य नः लोपः |

  

 

५)    आत्मनश्च (६.३.६) = आत्मनः तृतीयायाः अलुक् स्यात् उत्तरपदे परे | आत्मनः पञ्चम्यन्तं, चाव्ययम् | ओजः सहोऽम्भस्तमसस्तृतीयायाः (६.३.३) इत्यस्मात् सूत्रात् तृतीया इत्यस्य अनुवृत्तिः | अलुगुत्तरपदे (..) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— आत्मनः च तृतीया अलुगुत्तरपदे |

 

पूरण इति वक्तव्यम् इति वार्तिकम् | पूरणप्रत्ययान्ते उत्तरपद इत्यर्थः | वार्तिकार्थः – पूरणप्रत्ययान्तशब्दः परः चेदेव आत्मन् -शब्दात् तृतीयायाः अलुक् इति वक्तव्यम् | अर्थात् पूरणप्रत्ययान्तशब्दः उत्तरपदे चेदेव प्रकृतसूत्रे आत्मन् इति शब्दात् तृतीयायाः अलुक् स्यात् | वार्तिके पूरण इत्यनेन पूरणप्रत्ययान्तः इत्यर्थः | पूरणप्रत्ययः तद्धितप्रकरणे विहितः भवति| प्रकृतसूत्रस्य विषयः सीमितः भवति प्रकृतवार्तिकेन |


अस्मिन् सूत्रे पूरणप्रत्ययान्तस्य शब्दस्य प्रयोजनं यत् आत्मना इति तृतीयान्तात् शब्दात् पूरणप्रत्ययान्तशब्दः चेदेव आत्मना इत्यस्य तृतीयायाः अलुक् भवति |

 

आत्मना पञ्चमः = आत्मनापञ्चमः | स्वेन सह पञ्चमः इत्यर्थः | अलौकिकविग्रहः =  आत्मन् + टा + पञ्चम + सु | अत्र प्रथमार्थे प्रकृत्यादिभ्यः उपसंख्यानम् इति वार्तिकस्य द्वारा तृतीयाविभक्तिः भवति | तृतीया तत्कृतार्थेन गुणवचनेन इति सूत्रस्य योगविभागं कृत्वा तृतीया इति अंशस्य समासः विहितः भवति | समासस्य प्रातिपदिकसंज्ञा भवति | इदानीं सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन सुप् प्रत्ययानां लोपः भवति स्म परन्तु पूरण इति वक्तव्यम् इति वार्तिकेन आत्मन् इत्यस्मात्  तृतीयायाः अलुक् स्यात् पञ्चमः इति पूरणप्रत्ययान्तपदे परे | तस्य पूरणे डट् (५.२.४८) इति सूत्रं वदति षष्ठीसमर्थात् सङ्ख्यावाचिनः शब्दात् 'पूरणः' इत्यस्मिन् अर्थे 'डट्' प्रत्ययः उच्यते | नान्तादसंख्यादेर्मट् ( ५.२.४९) इति सूत्रं वदति यः नकारान्तसङ्ख्यावाची शब्दः सङ्ख्यादिः नास्ति, तस्मात् 'पूरणः' इत्यस्मिन् अर्थे विहितस्य 'डट्' प्रत्ययस्य 'मट्' आगमः भवति | पञ्चानां पूरणः इत्यर्थे  तस्य पूरणे डट् (५.२.४८) इति सूत्रेण तद्धितीय डट्( अ) इति प्रत्ययः परः चेत् नान्तादसंख्यादेर्मद् इति सूत्रेण मट् ( म्) आगमः भूत्वा पञ्चन् + म | अग्रे नकारस्य लोपः भवति नलोपः प्रातिपदिकान्तस्य इत्यनेन | अतः पञ्चमः इति रूपं सिद्धं भवति |

 

अतः केवलं पञ्चम + सु इत्यत्र सुब्लुक् भवति परन्तु आत्मन् + टा इत्यत्र सुब्लुक् न भवति | आत्मन् + टा इति उपसर्जनसंज्ञकस्य पूर्वनिपातः भवति आत्मन् + आ + पञ्चम इति प्रातिपदिकं सिद्धम् | तस्मात् सुबुत्पत्तिः भूत्वा आत्मनापञ्चम+सु इति भवति | परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.६) इत्यनेन द्वन्द्वस्य तत्पुरुषस्य च परस्य यल्लिङ्गं तत् भवति | पञ्चम इति शब्दः पुंलिङ्गे विवक्षितः अस्ति इति कृत्वा समासः पुंलिङ्गे भवति | रुत्वविसर्गौ कृत्वा आत्मनापञ्चमः इति समासः सिद्धः |

 

  

६) वैयाकरणाख्यायां चतुर्थ्याः ( ६.३.७) = यया संज्ञया वैयाकरणाः एव व्यहरन्ति तस्याम् आत्मन् इत्यस्य उत्तरस्याः चतुर्थ्याः अलुग् भवति |  अर्थात् व्याकरणसम्बन्धी आख्यायाम् ( नामकरणम्) उत्तरपदे परे आत्मन् इति शब्दात् चतुर्थ्याः अलुक् स्यात् | व्याकरणस्य इदं वैयाकरणम्, तस्याख्या वैयाकरणाख्या, तस्यां वैयाकरणाख्याम् | अथवा व्याकरणे भवा वैयाकरणी, तस्याख्या, तस्याम् इत्यपि व्युत्पत्तिः भवितुम् अर्हति | सूत्रं सज्ञायाः विषये अस्ति इति कृत्वा द्वितीया व्युत्पत्तिः अधिकसमुचिता अस्ति | वैयाकरणाख्यायां सप्तम्यन्तं, चतुर्थ्याः षष्ठ्यन्तम्  | आत्मनश्च (६.३.६) इत्यस्मात् सूत्रात् आत्मनः इत्यस्य अनुवृत्तिः |  अलुगुत्तरपदे (६.३.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— वैयाकरणाख्यायां आत्मनः चतुर्थ्याः अलुगुत्तरपदे |


वैयाकरणानां व्यावहारिकी संज्ञा आत्मनेपदम्, आत्मनेभाषा, इत्यादीनां शब्दानां प्रकृतसूत्रेण साधुत्वं वक्तुं चतुर्थीविभक्तेः अलुक् विधीयते |


आत्मने पदम् = आत्मनेपदम् | चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः '(२.१.३६) ' इति सूत्रे चतुर्थी इति योगविभागं कृत्वा तादर्थ्ये चतुर्थीतत्पुरुषसमासः क्रियते | चतुर्थी इत्यस्य योगविभागस्य विषये भाष्ये प्रामाण्यम् अस्ति - धर्माय नियमः इत्यत्र समासः योगविभागेन क्रियते येन धर्मनियमः इति समासः सिद्ध्यति |

 

अलौकिकविग्रहः = आत्मन् + ङे + पदम् | अत्र आत्मार्थम्  इति अर्थे तादर्थ्ये चतुर्थी वाच्या इति वार्तिकेन चतुर्थीविभक्तिः भवति | समासस्य प्रातिपदिकसंज्ञा भवति | इदानीं सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन सुप् प्रत्ययानां लोपः भवति स्म परन्तु वैयाकरणाख्यायां चतुर्थ्याः ( ६.३.७) इति सूत्रेण व्याकरणसम्बन्धी आख्यायाम् आत्मन् इत्यस्मात्  चतुर्थ्याः अलुक् स्यात्  उत्तरपदे परे | अतः केवलं पद + सु इत्यत्र सुब्लुक् भवति परन्तु आत्मन् + ङे इत्यत्र सुब्लुक् न भवति | आत्मन् + ङे इति उपसर्जनसंज्ञकस्य पूर्वनिपातः भवति आत्मन् + ए + पद इति प्रातिपदिकं सिद्धम् | तस्मात् सुबुत्पत्तिः भूत्वा आत्मनेपद+सु इति भवति | परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.६) इत्यनेन द्वन्द्वस्य तत्पुरुषस्य च परस्य यल्लिङ्गं तत् भवति |  पद इति शब्दः नपुंसकलिङ्गे अस्ति इति कृत्वा समासः नपुंसकलिङ्गे भवति |

 

आत्मनेपद + सुअतोऽम् (७.१.२४) इत्यनेन अकारान्तात् नपुंसकात् अङ्गात् सु-अम्- प्रत्ययोः अम् इति आदेशः भवति | आत्मनेपद + अम् अमि पूर्वः (६.१.१०७) इति सूत्रेण अक् वर्णात् अम् सम्बन्धी अच् परः चेत् पूर्वपरयोः स्थाने पूर्वरुपम् एकादेशो भवति आत्मनेपदम् इति समासः सिद्धः |

 

 

एवमेव आत्मने भाषा = आत्मनेभाषा इति समासः सिद्ध्यति |

 

 

७) 'परस्य च (..) = ' यया संज्ञया वैयाकरणाः एव व्यहरन्ति तस्याम् पर इत्यस्य उत्तरस्याः चतुर्थ्याः अलुग् भवति | अर्थात् व्याकरणसम्बन्धी आख्यायाम् (नामकरणम्) उत्तरपदे परे पर इति शब्दात् चतुर्थ्याः अलुक् स्यात् | परस्य षष्ठ्यन्तं, चाव्यायम् | वैयाकरणाख्यायां चतुर्थ्याः (६.३.७) इत्यस्य पूर्णानुवृत्तिः | अलुगुत्तरपदे (..) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— पर चतुर्थ्याः अलुगुत्तरपदे |

 

वैयाकरणानां व्यावहारिकी संज्ञा परस्मैपदम्, परस्मैभाषा, इत्यादीनां शब्दानां प्रकृतसूत्रेण साधुत्वं वक्तुं चतुर्थीविभक्तेः अलुक् विधीयते |

 

परस्मै पदम् = परस्मैपदम् | चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः '(२.१.३६) ' इति सूत्रे चतुर्थी इति योगविभागं कृत्वा तादर्थ्ये चतुर्थीतत्पुरुषसमासः क्रियते | चतुर्थी इत्यस्य योगविभागस्य विषये भाष्ये प्रामाण्यम् अस्ति - धर्माय नियमः इत्यत्र समासः योगविभागेन क्रियते येन धर्मनियमः इति समासः सिद्ध्यति |

 

अलौकिकविग्रहः = पर + ङे +पदम् | अत्र परार्थम्  इति अर्थे तादर्थ्ये चतुर्थी वाच्या इति वार्तिकेन चतुर्थीविभक्तिः भवति | समासस्य प्रातिपदिकसंज्ञा भवति | इदानीं सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन सुप् प्रत्ययानां लोपः भवति स्म परन्तु परस्य च (..) इति सूत्रेण व्याकरणसम्बन्धी आख्यायाम् पर इत्यस्मात्  चतुर्थ्याः अलुक् स्यात्  उत्तरपदे परे | अतः केवलं पद + सु इत्यत्र सुब्लुक् भवति परन्तु पर + ङे इत्यत्र सुब्लुक् न भवति | पर इति शब्दः सर्वनामसंज्ञकः अतः ङे इति प्रत्ययस्य स्थाने सर्वनाम्नः स्मै इति सूत्रेण स्मै इति आदेशः भवति | पर + स्मै इति उपसर्जनसंज्ञकस्य पूर्वनिपातः भवति पर + स्मै + पद इति प्रातिपदिकं सिद्धम् | तस्मात् सुबुत्पत्तिः भूत्वा परस्मैपद + सु इति भवति | परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.६) इत्यनेन द्वन्द्वस्य तत्पुरुषस्य च परस्य यल्लिङ्गं तत् भवति |  पद इति शब्दः नपुंसकलिङ्गे अस्ति इति कृत्वा समासः नपुंसकलिङ्गे भवति |

 

परस्मैपद + सु अतोऽम् (७.१.२४) इत्यनेन अकारान्तात् नपुंसकात् अङ्गात् सु-अम्- प्रत्ययोः अम् इति आदेशः भवति | आत्मनेपद +अम् अमि पूर्वः (६.१.१०७) इति सूत्रेण अक् वर्णात् अम् सम्बन्धी अच् परः चेत् पूर्वपरयोः स्थाने पूर्वरुपम् एकादेशो भवति परस्मैपदम् इति समासः सिद्धः |

 

 

एवमेव परस्मै भाषा = परस्मैभाषा इति समासः सिद्ध्यति |

यद्यपि आत्मनेपदं, परस्मैपदम् इति पदद्वये अलुक् कार्यम् अनुदात्तङित आत्मनेपदम्, शेषात्कर्तरि परस्मैपदम् इत्याभ्यां सूत्राभ्याम् एव साधयितुं शक्यते तथापि अलुक् इत्यस्य पृथक् विधानं क्रियते | अनेन आख्या इति शब्दस्य प्रयोगः विशेषप्रतीत्यर्थम् इति भाति | नाम अलुक् कार्यं केवलं पारिभाषिकार्थानाम् एव भवति | व्याकरणसम्बन्धिसंज्ञां अतिरिच्य स्वतन्त्रप्रयोगे तु लुक् भवत्येव – आत्मपदम्, परपदम् इत्यादिकम् |

 

 

 

८) हलदन्तात्सप्तम्याः संज्ञायाम् (..) = संज्ञायाम् हलन्तात् अदन्तात् च सप्तम्याः अलुक् भवति उत्तरपदे परे | हल् च अत् च तयोरितरेतरयोगद्वन्द्वः हलदौ, तौ अन्ते यस्य स हलदन्तस्तस्माद् हलदन्तात् | हलदन्तात् पञ्चम्यन्तं, सप्तम्याः पञ्चम्यन्तं, संज्ञायां सप्तम्यन्तम् | अलुगुत्तरपदे (..) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— संज्ञायाम् हलदन्तात् सप्तम्याः अलुगुत्तरपदे |

 

उदाहरणम्

 

त्वचि सारः = त्वचिसारः | यस्य त्वचि अधिकबलम् अस्ति |  अलौकिकविग्रहः = त्वच् + ङि + सार + सु | संज्ञायाम् ( २.१.४३) इति सूत्रेण सप्तमीतत्पुरुषसमासः भवति | समासस्य प्रातिपदिकसंज्ञा भवति | इदानीं सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन सुप् प्रत्ययानां लोपः भवति स्म परन्तु हलदन्तात्सप्तम्याः संज्ञायाम् इत्यनेन त्वच् इति हलन्तात् सप्तम्याः अलुक् स्यात्  उत्तरपदे परे |  अतः केवलं सार + सु इत्यत्र सुब्लुक् भवति परन्तु त्वच् + ङि इत्यत्र सुब्लुक् न भवति | त्वच् + ङि इति उपसर्जनसंज्ञकस्य पूर्वनिपातः भवति | त्वच् + इ + सार त्वचिसार इति प्रातिपदिकं सिद्धम् | तस्मात् सुबुत्पत्तिः भूत्वा त्वचिसार + सु इति भवति | परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.६) इत्यनेन द्वन्द्वस्य तत्पुरुषस्य च परस्य यल्लिङ्गं तत् भवति  | सार इति शब्दः पुंलिङ्गे विवक्षितः अस्ति इति कृत्वा समासः पुंलिङ्गे भवति | त्वचिसारस् इति भवति | रुत्वविसर्गौ कृत्वा त्वचिसारः इति समासः सिद्धः भवति |

 

 

 

गवियुधिभ्यां स्थिरः (८.३.९५) = गवि, युधि इत्याभां स्थिस्य सकारस्य षकारः स्यात् | गवि, युधि इत्येतयो सप्तम्यन्तपदयोः परे उत्तरपदस्थस्य स्थिर-शब्दस्य सकारस्य षकारादेशः भवति संहिताविषये | इण्‌-प्रत्याहारात्‌ कवर्गीयात्‌ च परे सकारः अस्ति चेत्‌, तस्य सकारस्य स्थाने षकारादेशो भवति | आदेशः तु मूर्धन्यवर्णस्य इत्येव उक्तं, परं स्थानेऽन्तरतमः इत्यनेन ट्‌, ठ्‌, ड्‌, ढ्‌, ण्‌, ष्‌ इत्येषु मूर्धन्यवर्णेषु षकारस्य नैकट्यम्‌, अतः षकारः एव आदिष्टः भवति | इण्‌-प्रत्याहरे इमे वर्णाः अन्तर्भूताः— इ, , , , , , , , , , , , | अस्य कार्यस्य नाम षत्वविधिः | गवि, युधि इत्येते पदे सप्तम्यन्तपदस्य अनुकरणं करोति | प्रकृतिवदनुकरणम् इत्यनेन अनुकरणे अपि विभक्तिः भवति | अतः गविश्च युधिश्च तयोरितरेतरद्वन्द्वः गवियुधी इति समासः | ताभ्यां गवियुधिभ्याम् | गवियुधिभ्यां पञ्चम्यन्तं, स्थिरः इति षष्ठ्यर्थे प्रथमा| स्थिर- शब्दस्य इत्यर्थः | सहे साडः सः इत्यस्मात् सूत्रात् सः इत्यस्य अनुवृत्तिः | इण्कोः इत्यस्य अधिकारः | अपदान्तस्य मूर्धन्यः इत्यस्य अधिकारः | संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— गवियुधिभ्यां स्थिरः सः संहितायाम् |

 

अस्मिन् सूत्रे आदेशप्रत्यययोः ( ८.३.५९) इति सूत्रेण प्राप्तस्य षत्वस्य सात्पदाद्योः ( ८.३.१११) इति सूत्रेण पदादि-सकारस्य षत्वं निषिध्यते| नाम पदादिस्थस्य सस्य षत्वं न स्यात् | अतः एव गवियुधिभ्यां स्थिरः (८.३.९५) इति सूत्रेण षत्वं विधीयते | गवि+स्थिर, युधि+स्थिर च स्थलयोः स्थिर इत्यत्र सकारः पदादिस्थः सकारः इति कृत्वा सात्पदाद्योः ( ८.३.१११) इति सूत्रेण षत्वं न विधीयते |

 

गवि स्थिरः = गविष्ठिरः | आकाशे स्थिररूपेण वसन् अत्रिकुलः इति एकः ऋषिः | यः पुरुषः गवां निरन्तरं सेवां करोति सः गविष्ठिरः | अलौकिकविग्रहः = गो + ङि + स्थिर् + सु | संज्ञायाम् इति सूत्रेण सप्तमीतत्पुरुषसमासः विहितः अस्ति | समासस्य प्रातिपदिकसंज्ञा भवति | इदानीं सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन सुप् प्रत्ययानां लोपः भवति स्म परन्तु गवियुधिभ्यां स्थिरः (८.३.९५) इति सूत्रे गो इति शब्दात् सप्तमीविभक्तेः अलुक् मन्यते इति कृत्वा


अस्मिन् समासेऽपि सप्तम्याः अलुक् स्यात्  स्थिरे परे | अन्यथा गो-शब्दात् स्थिर इति शब्दः चेत् तस्य षत्वविधानं व्यर्थं भवति यतो हि पूर्वपदं गवि नास्ति अपि तु गो अस्ति | षत्वविधानार्थं तदनुसृत्य सम्पम्यन्तं पदं ज्ञापकं अस्ति | अतः केवलं स्थिर + सु इत्यत्र सुब्लुक् भवति परन्तु गो + ङि इत्यत्र सुब्लुक् न भवति | गो + ङि इति उपसर्जनसंज्ञकस्य पूर्वनिपातः भवति | अधुना आदेशप्रत्यययोः ( ८.३.५९) इति सूत्रेण प्राप्तस्य षत्वस्य सात्पदाद्योः ( ८.३.१११) इति सूत्रेण पदादि-सकारस्य षत्वं निषिध्यते, अतः गवियुधिभ्यां स्थिरः (८.३.९५) इति सूत्रेण पुनः षत्वस्य प्रतिप्रसवः भवति येन सकारस्य षत्वं विधीयते   गो+ङि + ष्थिर इति  भवति| अग्रे ष्टुना ष्टुः इत्यनेन थकारस्य स्थाने ठकारादेशः भवति षकारस्य प्रभावेण गो+इ+ ष्ठिर एचोऽयवायवः ( ६.१.७८) इत्यनेन ओकारस्य स्थाने अव् इति आदेशः भवति अचि परे गवि + ष्ठिर गविष्ठिर इति  गविप्रातिपदिकं सिद्धम् | तस्मात् सुबुत्पत्तिः भूत्वा गविष्ठिर + सु इति भवति | परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.६) इत्यनेन द्वन्द्वस्य तत्पुरुषस्य च परस्य यल्लिङ्गं तत् भवति |  स्थिर इति शब्दः पुंलिङ्गे विवक्षितः इति कृत्वा समासः पुंलिङ्गे भवति | अधुना रुत्वविसर्गौ कृत्वा गविष्ठिरः इति समासः सिद्धः |

 

गविष्ठिरः इति समासनिर्माणप्रसङ्गे एकः प्रश्नः उदेति | गो + इ + स्थिर + सु इति स्थितौ एचोऽयवायवः ( ६.१.७८) इति सूत्रस्य प्रसक्तिः अस्ति, सुपो धातुप्रातिपदिकयोः (२.४.७१) इति सूत्रेण सुब्लुक् इत्यस्य च प्रसक्तिः अस्ति | अस्यां स्थितौ किं सूत्रं प्रथमं कार्यं कुर्यात्? 


वस्तुतस्तु एचोऽयवायवः ( ६.१.७८) इति सूत्रम् अन्तरङ्गम् अस्ति यतोहि अस्मिन् सूत्रे केवलम् अचि इत्यस्य अपेक्षा येन ओकारस्य स्थाने अवादेशः भवति | सुपो धातुप्रातिपदिकयोः (२.४.७१) इति सूत्रेण सुब्लुक्प्राप्तुं पदद्वयसम्बन्धि समासप्रयुक्तं प्रातिपदिकम् अपेक्षितम्, अतः इदं सूत्रं बहिरङ्गम् | असिद्धं बहिरङ्गमन्तरङ्गे इति परिभाषायाः बलेन अलुक् कार्यम् बहिरङ्गम् इति कृत्वा शास्त्रासिद्धम्, अनेन एचोऽयवायवः ( ६.१.७८) इति अन्तरङ्गम् सूत्रं प्रथमं कार्यं कुर्यात् | एवं भवति चेत् गव् + इ + स्थिर + सु इति भवति | गव् इति हलन्तः अस्ति इति कारणेन हलदन्तात्सप्तम्याः संज्ञायाम् (..) इत्यनेन संज्ञायाम् हलन्तात् सप्तम्याः अलुक् भवति उत्तरपदे परे | येन गव् + स्थिर इति प्रातिपदिकं सिद्ध्येत् |  परन्तु गवियुधिभ्यां स्थिरः (८.३.९५) इति सूत्रस्य कार्यार्थं गवि इति शब्दः आवश्यकः अस्ति | अस्य समाधानम् एवमस्ति – यद्यपि बहिरङ्गस्य अपेक्षया अन्तरङ्गं बलवत् येन अवादेशः प्रथमं स्यात् सुब्लुक् इत्यस्य अपेक्षया, तथापि अन्तरङ्गानपि विधीन् बहिरङ्गो लुग्बाधते इति परिभाषायाः बलेन सुब्लुक् प्रथमं भवति | अन्तरङ्गानपि विधीन् बहिरङ्गो लुग्बाधते इति परिभाषा वदति यत्  बहिरङ्गे सत्यपि लुक् अन्तरङ्गविधीन् बाधते | अनया परिभाषया सुपो धातुप्रातिपदिकयोः (२.४.७१) इति सूत्रेण सुब्लुक् बलवत् इति कृत्वा तस्य कार्यं प्रथमं भवति अवादेशस्य अपेक्षया |

 

एवमेव युधि स्थिरः = युधिष्ठिरः | युद्धे यः स्थिरः अस्ति; ज्येष्ठपाण्डवस्य संज्ञा इयम् | युध् इति युद्धवाचकशब्दस्य सप्तमीविभक्तिः युधि इति | अलौकिकविग्रहः = युध् + ङि + स्थिर + सु | गविष्ठिरः इति पदस्य या प्रक्रिया सा एव प्रक्रिया युधिष्ठिरः इत्यस्यापि |

 

अरण्ये तिलकाः = अरण्येतिलकाः | अलौकिकविग्रहः = अरण्य + ङि + तिलक + सु | संज्ञायाम् इति सूत्रेण सप्तमीतत्पुरुषसमासः विहितः अस्ति | समासस्य प्रातिपदिकसंज्ञा भवति | इदानीं सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन सुप् प्रत्ययानां लोपः भवति स्म परन्तु हलदन्तात्सप्तम्याः संज्ञायाम् (..) इत्यनेन संज्ञायाम् हलन्तात् अजन्तात् शब्दात् सप्तमीविभक्तेः अलुक् भवति उत्तरपदे परे | अतः केवलं तिलक + सु इत्यत्र सुब्लुक् भवति परन्तु अरण्य + ङि इत्यत्र सुब्लुक् न भवति | अरण्य + ङि इति उपसर्जनसंज्ञकस्य पूर्वनिपातः भवति अरण्य + + तिलक अरण्येतिलक इति प्रातिपदिकं सिद्धम् | तस्मात् सुबुत्पत्तिः भूत्वा अरण्येतिलक + जस् इति भवति | परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.६) इत्यनेन द्वन्द्वस्य तत्पुरुषस्य च परस्य यल्लिङ्गं तत् भवति |  तिलक इति शब्दः पुंलिङ्गे अस्ति इति कृत्वा समासः पुंलिङ्गे भवति | अरण्येतिलक + अस् प्रथमयोः पूर्वसवर्णः ( ६.१.१०२) इत्यनेन अक्-वर्णात् प्रथमा-द्वितीयायाः अजादि प्रत्ययः अस्ति चेत् पूर्वपरयोः एकः पूर्वसवर्णदीर्घः भवति  अरण्येतिलकाः इति समासः सिद्धः |

 

संज्ञायाम् इति सूत्रेण सप्तमीतत्पुरुषसमासः विहितः अस्ति | समासस्य प्रातिपदिकसंज्ञा भवति | इदानीं सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन सुप् प्रत्ययानां लोपः भवति स्म परन्तु हलदन्तात्सप्तम्याः संज्ञायाम् (..) इत्यनेन संज्ञायाम् हलन्तात् अजन्तात् शब्दात् सप्तमीविभक्तेः अलुक् भवति उत्तरपदे परे | अतः केवलं तिलक + सु इत्यत्र सुब्लुक् भवति परन्तु अरण्य + ङि इत्यत्र सुब्लुक् न भवति | अरण्य + ङि इति उपसर्जनसंज्ञकस्य पूर्वनिपातः भवति अरण्य + + तिलक अरण्येतिलक इति प्रातिपदिकं सिद्धम् | तस्मात् सुबुत्पत्तिः भूत्वा अरण्येतिलक + जस् इति भवति | परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.६) इत्यनेन द्वन्द्वस्य तत्पुरुषस्य च परस्य यल्लिङ्गं तत् भवति |  तिलक इति शब्दः पुंलिङ्गे अस्ति इति कृत्वा समासः पुंलिङ्गे भवति | अरण्येतिलक + अस् प्रथमयोः पूर्वसवर्णः ( ६.१.१०२) इत्यनेन अक्-वर्णात् प्रथमा-द्वितीयायाः अजादि प्रत्ययः अस्ति चेत् पूर्वपरयोः एकः पूर्वसवर्णदीर्घः भवति  अरण्येतिलकाः इति समासः सिद्धः |

 

 

 

हृद्द्युभ्यां च इति वार्तिकम् | अनेन वार्तिकेन हृद्, दिव् च शब्दयोः सप्तमीविभक्तेः अलुक् भवति | अनयोः संज्ञा नास्ति इति कारणेन प्रकृतसूत्रेण अलुक् न प्राप्तम् आसीत्, अतः वार्तिकम् उक्तम् |

 

हृदयं स्पृशति = हृदिस्पृक् | अर्थात् हृदयस्पर्शी इति | अलौकिकविग्रहः = हृद् + ङि + स्पृश् + सु | स्पृश् इति शब्दः क्विन् -प्रत्ययान्तः| 'स्पृश्' अयं धातुः स्पृशोऽनुदके क्विन्||५८ इत्यनेन क्विन्-प्रत्ययं प्राप्नोति | क्विन्-अयं सर्वापहारी प्रत्ययः, अतः स्पृश् + क्वि्न स्पृश् इत्येव प्रातिपदिकं सिद्ध्यति | हृदि इति पदं सप्तमीविभक्तौ कर्मार्थे अस्ति न तु अधिकरणार्थे | अधिकरणार्थे सप्तम्यां हृदिस्पृक् इति पदात् अभीष्टार्थः न प्रतीयते , अतः एव लौकिकविग्रहे हृदयं स्पृशति इति उक्तम् |

 

भाष्यकारेण उक्तम् – अन्यार्थे चैषा सप्तमी द्रष्टव्या |  अतः उक्तकामार्थस्य सप्तमेः सप्तमी इति सूत्रस्य योगविभागेन सप्तमीतत्पुरुषसमासः सिद्ध्यति | पद्दन्नोमास्हृन्निशसन्यूषन्दोषन्यकञ्छकन्नुदन्नासञ्छस्प्रभृतिषु (६.१.६३) इति सूत्रेण हृदय इति शब्दस्य स्थाने विकल्पेन हृद् इति आदेशः भवति | पूर्वपदस्य विभक्तेः अलुक् भवति हृद्द्युभ्यां च  इति वार्तिकेन | एवं हृद् + इ + स्पृश् इति प्रातिपदिकं सिद्धम् | तस्मात् सुबुत्पत्तिः भूत्वा हृदिस्पृश् + सु इति भवति | परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.६) इत्यनेन द्वन्द्वस्य तत्पुरुषस्य च परस्य यल्लिङ्गं तत् भवति |  स्पृश् इति शब्दः पुंलिङ्गे विवक्षितः इति कृत्वा समासः पुंलिङ्गे भवति | हृदिस्पृश् + सु हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌ (६.१.६७) इति सूत्रेण हलन्तात् प्रातिपदिकात् सु इति प्रत्ययस्य लोपः भवति   हृदिस्पृश्   क्विन्प्रत्ययस्य कुः ( ८.२.६२) क्विन्प्रत्ययान्तशब्दस्य पदान्ते कवर्गादेशः भवति |ये शब्दाः क्विन्-प्रत्ययान्ताः सन्ति, तेषामन्तिमवर्णस्य पदान्ते कवर्गादेशः भवति | अतः हृदिस्पृश् इत्यत्र शकारस्य स्थाने कवर्गादेशः भवति हृदिस्पृक् इति समासः सिद्ध्यति |

 

 

दिवं स्पृशति = दिविस्पृक् | अलौकिकविग्रहः = दिव् + ङि + स्पृश् + सु | यथापूर्वं समासः सिद्धः भवति |

 

९)  कारनाम्नि च प्राचां हलादौ (६.३.१०) = प्राचां देशे यत्कारनाम तत्र हलादौ उत्तरपदे हलदन्तात् उत्तरस्याः सप्तम्याः अलुग् भवति | भारते प्राच्य-देशे करेभ्यः शब्देभ्यः यः हलादिशब्दः उत्तरपदे अस्ति चेत् , तदा हलन्तात्, अदन्तात् करेभ्यः सप्तमीविभक्तेः अलुक् भवति | अत्र करशब्दस्य संज्ञा स्यात् प्राचां देशे | नाम्नि पदस्य द्वारा करस्य प्रचलितसंज्ञायाः बोधः भवति | कर एव कारः, कारस्य नाम कारनाम, तस्मिन् कारनाम्नि, षष्ठीतत्पुरुषः | हल् आदिः यस्य सः हलादिस्तस्मिन् हलादौ | कारनाम्नि सप्तम्यन्तं, चाव्ययं, प्राचां षष्ठ्यन्तं, हलादौ सप्तम्यन्तम् | हलदन्तात्सप्तम्याः संज्ञायाम् (..) इत्यस्मात् सूत्रात् हलदन्तात् सप्तम्याः इत्यनयोः अनुवृत्तिः भवति | अलुगुत्तरपदे (..) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— कारनाम्नि च प्राचां हलादौ हलदन्तात् सप्तम्याः अलुगुत्तरपदे |

 

मुकुटे कार्षापणम् = मुकुटेकार्षापणम् | अर्थात् राजा जनेभ्यः करं ( coin) स्वीकरोति तत् मुकुटेकार्षापणम् |  अलौकिकविग्रहः = मुकुट + ङि + कार्षापण + सु | संज्ञायाम् इति सूत्रेण सप्तमीतत्पुरुषसमासः विहितः अस्ति | समासस्य प्रातिपदिकसंज्ञा भवति | इदानीं सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन सुप् प्रत्ययानां लोपः भवति स्म परन्तु कारनाम्नि च प्राचां हलादौ (६.३.१०) इत्यनेन प्राचां देशे कारनाम्नि हलन्तात् अजन्तात् शब्दात् सप्तमीविभक्तेः अलुक् भवति उत्तरपदे परे | अतः केवलं कार्षापण + सु इत्यत्र सुब्लुक् भवति परन्तु मुकुटे + ङि इत्यत्र सुब्लुक् न भवति | मुकुट + ङि इति उपसर्जनसंज्ञकस्य पूर्वनिपातः भवति मुकुट + + कार्षापण गुणसन्धिं कृत्वा आद्गुणः इत्यनेन मुकुटेकार्षापण इति प्रातिपदिकं सिद्धम् | तस्मात् सुबुत्पत्तिः भूत्वा मुकुटेकार्षापण + सु इति भवति | परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.६) इत्यनेन द्वन्द्वस्य तत्पुरुषस्य च परस्य यल्लिङ्गं तत् भवति |  कार्षापण इति शब्दः नपुंसकलिङ्गे विवक्षितः इति कृत्वा समासः नपुंसकलिङ्गे भवति | मुकुटेकार्षापण + सु अतोऽम् (७.१.२४) इत्यनेन अकारान्तात् नपुंसकात् अङ्गात् सु-अम्- प्रत्ययोः अम् इति आदेशः भवति| मुकुटेकार्षापण + अम् अमि पूर्वः (६.१.१०७) इति सूत्रेण अक् वर्णात् अम् सम्बन्धी अच् परः चेत् पूर्वपरयोः स्थाने पूर्वरुपम् एकादेशो भवति मुकुटेकार्षापणम् इति समासः सिद्धः |

 

दृषदि माषकः = दृषदिमाषकः ( tax raised from millstones) | अलौकिकविग्रहः = दृषद् + ङि + माषक + सु | संज्ञायाम् इति सूत्रेण सप्तमीतत्पुरुषसमासः विहितः अस्ति | समासस्य प्रातिपदिकसंज्ञा भवति | इदानीं सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन सुप् प्रत्ययानां लोपः भवति स्म परन्तु कारनाम्नि च प्राचां हलादौ (६.३.१०) इत्यनेन प्राचां देशे कारनाम्नि हलन्तात् अजन्तात् शब्दात् सप्तमीविभक्तेः अलुक् भवति उत्तरपदे परे | अतः केवलं माषक + सु इत्यत्र सुब्लुक् भवति परन्तु दृषद् + ङि इत्यत्र सुब्लुक् न भवति | दृषद् + ङि इति उपसर्जनसंज्ञकस्य पूर्वनिपातः भवति दृषद् + + माषक दृषदिमाषक इति प्रातिपदिकं सिद्धम् | तस्मात् सुबुत्पत्तिः भूत्वा दृषदिमाषक + सु इति भवति | परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.६) इत्यनेन द्वन्द्वस्य तत्पुरुषस्य च परस्य यल्लिङ्गं तत् भवति |  माषक इति शब्दः पुंकलिङ्गे अस्ति इति कृत्वा समासः पुंलिङ्गे भवति | दृषदिमाषक + सु रुत्वविसर्गौ कृत्वा दृषदिमाषकः इति समासः सिद्धः भवति |

 

हलदन्तात्सप्तम्याः संज्ञायाम् (६.३.९) इत्यनेन तु संज्ञायां हलन्तात् अदन्तात् च सप्तम्याः अलुक् तु भवति उत्तरपदे परे | तर्हि पुनः कारनाम्नि च प्राचां हलादौ  इति कथनस्य का आवश्यकता ? सिद्धे सति आरभ्यमाणो विधिर्नियमाय भवति | अयं सुबलुक्  पुनः उक्तः यतोहि अनेन नियमयति; इदं सूत्रं नियमसूत्रम्‌ | कारनाम्नि च प्राचां हलादौ   इति सूत्रे त्रयः नियमाः सन्ति – १) कारनाम्नि एव, नाम करानां विषये प्रचलितनाम्नाम् एव २) प्राचां देशे एव ३) हलादि-उत्तरपदे परे एव पूर्वपदस्य सप्तमीविभक्तेः अलुक् | यथा – अभ्याहिते पशु इत्यत्र अभ्याहितपशुः इति समासः सिद्धः भवति | अस्मिन् समासे अभ्याहिते इति पदस्य विभक्तेः लुक् भवति एव यतो करसम्बन्धि संज्ञापदं नास्ति | अभ्याहिते पशु इत्यनेन दक्षिणारूपेण यः पशुः दीयते आचार्याय | अभ्याहितम् इति करः नास्ति |

  

 

०)  मध्याद् गुरौ ( ६.३.११) = मध्यात् उत्तरस्याः सप्तम्याः गुरौ उत्तरपदे परे लुक् भवति | मध्यात् पञ्चम्यन्तं, गुरौ सप्तम्यन्तम् | संज्ञा नास्ति इति कारणेन हलदन्तात्सप्तम्याः संज्ञायाम् (..) इति सूत्रेण अलुक् अप्राप्तः आसीत् इति कृत्वा इदं सूत्रं निर्मीयते |  हलदन्तात्सप्तम्याः संज्ञायाम् (..) इत्यस्मात् सूत्रात् हलदन्तात् सप्तम्याः इत्यनयोः अनुवृत्तिः भवति | अलुगुत्तरपदे (..) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— मध्यात् हलदन्तात् सप्तम्याः गुरौ अलुगुत्तरपदे |

 

मध्ये गुरुः = मध्येगुरुः | अलौकिकविग्रहः = मध्य + ङि + गुरु + सु | सप्तमी इति सूत्रेण सप्तमीतत्पुरुषसमासः विहितः अस्ति | समासस्य प्रातिपदिकसंज्ञा भवति | इदानीं सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन सुप् प्रत्ययानां लोपः भवति स्म परन्तु मध्याद् गुरौ ( ६.३.११) इत्यनेन मध्यात् उत्तरस्याः सप्तम्याः गुरौ उत्तरपदे परे लुक् भवति | अतः केवलं गुरु + सु इत्यत्र सुब्लुक् भवति परन्तु मध्य + ङि इत्यत्र सुब्लुक् न भवति | मध्य + ङि इति उपसर्जनसंज्ञकस्य पूर्वनिपातः भवति मध्य + + गुरु आद्गुणः इत्यनेन गुणसन्धिं कृत्वा मध्येगुरु इति प्रातिपदिकं सिद्धम् | तस्मात् सुबुत्पत्तिः भूत्वा मध्येगुरु + सु इति भवति | परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.६) इत्यनेन द्वन्द्वस्य तत्पुरुषस्य च परस्य यल्लिङ्गं तत् भवति |  गुरु इति शब्दः पुंकलिङ्गे अस्ति इति कृत्वा समासः पुंलिङ्गे भवति | मध्येगुरु + सु रुत्वविसर्गौ कृत्वा मध्येगुरुः इति समासः सिद्धः भवति |

 

अन्ताच्च इति वार्तिकं अस्ति | वार्तिकार्थः – गुरु-शब्दः उत्तरपदे चेत् अन्त-शब्दात् सप्तमीविभक्तेः अलुक् भवति |

अन्ते गुरुः = अन्तेगुरुः | अलौकिकविग्रहः = अन्त + ङि + गुरु + सु | अन्ताच्च इति वार्तिकेन पूर्वपदस्य विभक्तेः अलुक् भवति | समासप्रक्रिया यथापूर्वं भवति |

 

११)  अमूर्धमस्तकात्स्वाङ्गादकामे (६.३.१२) = मूर्धमस्तकवर्जितात् स्वाङ्गात् उत्तरस्याः सप्तम्याः अकामे उत्तरपदे अलुग् भवति | मूर्धन् -शब्दः, मस्तक-शब्दः, एतौ  शब्दौ विहाय अन्यस्वाङ्गवाचिनः हलन्तात्, अदत्नात् शब्दात् विभक्तेः अलुक् भवति  अकामे उत्तरपदे परे | मूर्धा च मस्तकञ्च तयोः समाहारद्वन्द्वः मूर्धमस्तकं, न मूर्धमस्तकम् अमूर्धमस्तकं, तस्मात् अमूर्धमस्तात् | न कामोऽकामस्तस्मिन् अकामे | अमूर्धमस्तकात् पञ्चम्यन्तं, स्वाङ्गात् पञ्चम्यन्तम्, अकामे सप्तम्यन्तम् | हलदन्तात्सप्तम्याः संज्ञायाम् (६.३.९) इत्यस्मात् सूत्रात् हलदन्तात् सप्तम्याः इत्यनयोः अनुवृत्तिः भवति |  अलुगुत्तरपदे (.३.) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अमूर्धमस्तकात् स्वाङ्गात् हलदन्तात् सप्तम्याः अलुक् अकामे उत्तरपदे |

व्याकरणे स्वाङ्गः इति शब्दः पारिभाषिकः अस्ति | अद्रवं मूर्तिमत्स्वाङ्गं प्राणिस्थम् अविकारजम् इति पद्ये स्वाङ्गम् इति उक्तम् | स्वाङ्गं त्रिधेति | मूर्तिमदिति | स्पर्शवद्द्रव्यपरिमाणं मूर्तिः | प्राणीति |

मूर्धन्, मतस्क, आभ्यां शब्दाभ्यां सप्तमीविभक्तेः अलुकः निषेधः क्रियते परन्तु यः निषेधः कामशब्दे उत्तरपदे न भवति |

 

कण्ठेस्थः कालः यस्य सः = कण्ठेकालः | अर्थात् यस्य कण्ठे कालीयवर्णः अस्ति अथवा विषः अस्ति नाम शिवः इति | अलौकिकविग्रहः = कण्ठेस्थ + सु + काल + सु |  सप्तम्युपमानपूर्वपदस्योत्तरपदलोपश्च इति वार्तिकेन बहुव्रीहिसमासः विधीयते, अपि च स्थ इति शब्दस्य लोपः भवति  | समासस्य प्रातिपदिकसंज्ञा भवति | इदानीं सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन सुप् प्रत्ययानां लोपः भवति येन कण्ठे + काल इति भवति |  अधुना अमूर्धमस्तकात्स्वाङ्गादकामे (६.३.१२) इत्यनेन मूर्धमस्तकवर्जितात् स्वाङ्गात् उत्तरस्याः सप्तम्याः अकामे उत्तरपदे अलुग् भवति | अतः कण्ठे इत्यस्मिन् यः ङिप्रत्ययः अस्ति, तस्य लुक् न भवति | कण्ठ + ङि इति उपसर्जनसंज्ञकस्य पूर्वनिपातः भवति कण्ठ + + काल आद्गुणः इत्यनेन गुणसन्धिं कृत्वा कण्ठेकाल इति प्रातिपदिकं सिद्धम् | तस्मात् सुबुत्पत्तिः भूत्वा कण्ठेकाल + सु इति भवति | बहुव्रीहिसमासः अन्यपदार्थप्राधान्यः अस्ति | अन्यपदार्थः अस्ति शिवः, तस्य लिङगम् अस्ति पुंलिङ्गं, अतः समासस्य लिङ्गं पुंलिङ्गम् | कण्ठेकाल + सु रुत्वविसर्गौ कृत्वा कण्ठेकालः इति समासः सिद्धः भवति |  

 

उरसि लोमानि यस्य सः = उरसिलोमा | अर्थात् वक्षस्थले केशाः इति |  अलौकिकविग्रहः = उरस् + ङि + लोमन् + जस् |  विविधज्ञापनेन बहुव्रीहिसमासः विधीयते | समासस्य प्रातिपदिकसंज्ञा भवति | इदानीं सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन सुप् प्रत्ययानां लोपः भवति स्म  परन्तु अमूर्धमस्तकात्स्वाङ्गादकामे (६.३.१२) इत्यनेन मूर्धमस्तकवर्जितात् स्वाङ्गात् उत्तरस्याः सप्तम्याः अकामे उत्तरपदे अलुग् भवति |  अतः केवलं लोमन् + जस् इत्यत्र सुब्लुक् भवति परन्तु उरस् + ङि इत्यत्र सुब्लुक् न भवति | उरस् + ङि इति उपसर्जनसंज्ञकस्य पूर्वनिपातः भवति उरस् + + लोमन् आद्गुणः इत्यनेन गुणसन्धिं कृत्वा उरसिलोमन् इति प्रातिपदिकं सिद्धम् | तस्मात् सुबुत्पत्तिः भूत्वा उरसिलोमन् + सु इति भवति| बहुव्रीहिसमासः अन्यपदार्थप्राधान्यः अस्ति| अन्यपदार्थः अस्ति कश्चन पुरुषः, तस्य लिङ्गम् अस्ति पुंलिङ्गम्, अतः समासस्य लिङ्गं पुंलिङ्गम् | उरसिलोमन्+सु सर्वनामस्थाने चासम्बुद्धौ (६.४.८) इत्यनेन नः अङ्गस्य उपधायाः दीर्घः सर्वनामस्थाने असम्बुद्धौ च | अतः उरसिलोमान् + सु इति भवति |

 

उरसिलोमान् + सु हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌ (६.१.६७) इत्यनेन हलन्तात्‌ सु इत्यस्य अपृक्तसंज्ञकस्य हलः लोपः | अनेन प्रथमाविभक्तौ सु इत्यस्य स्‌-लोपः | अतः उरसिलोमा इति समासः सिद्धः भवति| रूपाणि राजन्-शब्दवत् भवति | उरसिलोमा, उरसिलोमानौ, उरसिलोमानः इत्यादयः |

 

मूर्ध्निं शिखा यस्य सः= मूर्धशिखः | शिरसि केशाः इत्यर्थः| अलौकिकविग्रहः = मूर्धन् + ङि + शिखा + सु |  व्यधिकरणबहुव्रीहिसमासः विधीयते| समासस्य प्रातिपदिकसंज्ञा भवति | इदानीं सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन सुप् प्रत्ययानां लोपः भवति यतोहि अमूर्धमस्तकात्स्वाङ्गादकामे (६.३.१२) इत्यनेन मूर्धमस्तकवर्जितात् स्वाङ्गात् उत्तरस्याः सप्तम्याः अकामे उत्तरपदे अलुग् भवति | अस्मिन् समासे तु मूर्ध इति शब्दः पूर्वपदे अस्ति इति कृत्वा पूर्वपदस्य सप्तमेः लुक् भवति अतः सुब्लुक् भूत्वा मूर्धन् + शिखा इति भवति | मूर्धन् इति उपसर्जनसंज्ञकस्य पूर्वनिपातः भवति मूर्धन्शिखा इति भवति मूर्धन् इत्यस्य पदसंज्ञा अस्ति इति कृत्वा न लोपः प्रातिपदिकान्तस्य (८.२.७) इत्यनेन प्रातिपदिकसंज्ञक-पदस्य अन्ते विद्यमानस्य नकारस्य लोपः भवति मूर्धशिखा इति प्रातिपदिकं सिद्धम् | तस्मात् सुबुत्पत्तिः भूत्वा मूर्धशिखा + सु इति भवति | बहुव्रीहिसमासः अन्यपदार्थप्राधान्यः अस्ति | अन्यपदार्थः अस्ति कश्चन पुरुषः, तस्य लिङ्गम् अस्ति पुंलिङ्गम्, अतः समासस्य लिङ्गं पुंलिङ्गम् | मूर्धशिखा + सु एकविभक्ति चापूर्वनिपाते (१.२.४४) इत्यनेन विग्रहस्य अवस्थायां यत् पदं नियतविभक्त्यां भवति तस्य पूर्वनिपातात् भिन्नकार्ये कर्तव्ये उपसर्जनसंज्ञा भवति परन्तु तस्य पूर्वनिपातः न भवति | अतः अनेन सूत्रेण शिखा इति नित्यस्त्रीलिङ्गपदस्य उपसर्जनसंज्ञा भवति परन्तु पूर्वनिपातः न भवति | तत्पश्चात्  गोस्त्रियोरुपसर्जनस्य ( १.२.४८) इत्यनेन उपसर्जनगोशब्दान्तस्य उपसर्जनस्त्रीप्रत्ययान्तस्य च प्रातिपदिकस्य ह्रस्वो भवति| अतः मूर्धशिख + सु इति भवति रुत्वविसर्गौ कृत्वा मूर्धशिखः इति समासः सिद्धः भवति |  मूर्धशिख इति प्रातिपदिकस्य रूपाणि राम-शब्दवत् भवति |

 

एकविभक्ति चापूर्वनिपाते (१.२.४४) = विग्रहस्य अवस्थायां यत् पदं नियतविभक्त्यां भवति तस्य पूर्वनिपातात् भिन्नकार्ये कर्तव्ये उपसर्जनसंज्ञा भवति परन्तु तस्य पूर्वनिपातः न भवति |  विग्रहे यत् नियतविभक्तिकं तद् उपसर्जनसंज्ञं स्यात् न तु तस्य पूर्वनिपातः | विग्रहवाक्यस्य दशायां यस्य पदस्य विभक्तिः निश्चिता अस्ति तस्य पदस्य उपसर्जनसंज्ञा भवति यदा तत्र पूर्वनिपातनं विहाय अन्यकार्यं भवति | इदं संज्ञा-सूत्रम् अस्ति | एका विभक्तिः यस्य तद् एकविभक्तिः, बहुव्रीहिः | पूर्वश्चासौ निपातश्चेति पूर्वनिपातः, कर्मधारयः | न पूर्वनिपातः अपूर्वनिपातः, तस्मिन्, अपपूर्वनिपाते, नञ्तत्पुरुषः | एकविभक्तिः प्रथमान्तं, चाव्ययम्, अपूर्वनिपाते सप्तम्यन्तम् प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इत्यस्यमात् सूत्रात् समासः तथा उपसर्जनम् इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्‌— एकविभक्ति च अपूर्वनिपाते समासे उपसर्जनम् |

 

मस्तके शिखा यस्य सः = मस्तकशिखः | यस्य मस्तके केशाः भवन्ति | प्रक्रिया यथा मूर्धशिखः इत्यस्य आसीत् तथैव भवति |

 

मुखे कामः अस्य = मुखकामः | अलौकिकविग्रहः = मुख + ङि + काम + सु |  व्यधिकरणबहुव्रीहिसमासः विधीयते | समासस्य प्रातिपदिकसंज्ञा भवति | इदानीं सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन सुप् प्रत्ययानां लोपः भवति यतोहि अमूर्धमस्तकात्स्वाङ्गादकामे (६.३.१२) इत्यनेन मूर्धमस्तकवर्जितात् स्वाङ्गात् उत्तरस्याः सप्तम्याः अकामे उत्तरपदे अलुग् भवति | अस्मिन् समासे तु काम इति शब्दः उत्तररपदे अस्ति इति कृत्वा पूर्वपदस्य सप्तमेः लुक् भवति अतः सुब्लुक् भूत्वा मुख + काम इति भवति | मुख इति उपसर्जनसंज्ञकस्य पूर्वनिपातः भवति मुखकाम इति प्रातिपदिकं सिद्धम् | तस्मात् सुबुत्पत्तिः भूत्वा मुखकाम + सु इति भवति | बहुव्रीहिसमासः अन्यपदार्थप्राधान्यः अस्ति | अन्यपदार्थः अस्ति कश्चन पुरुषः, तस्य लिङ्गम् अस्ति पुंलिङ्गम्, अतः समासस्य लिङ्गं पुंलिङ्गम् | मुखकाम + सु रुत्वविसर्गौ कृत्वा मुखकामः इति समासः सिद्धः भवति |  

 

 

 

१२) बन्धे च विभाषा ( ६.३.१३) = बन्धः इति घञन्तो गृह्यते| तस्मिन्नुत्तरपदे हलन्तात् अदन्तात् उत्तरस्याः सप्तम्याः विभाषा अलुग् भवति बन्धः इति घञ्यन्ते उत्तरपदे परे |  हलन्तात् अदन्तात् शब्दात् सप्तमीविभक्तेः अलुक् भवति बन्धशब्दात्मके उत्तरपदे परे | बन्धे सप्तम्यन्तं, चाव्ययं, विभाषा प्रथमान्तम् | हलदन्तात्सप्तम्याः संज्ञायाम् (..) इत्यस्मात् सूत्रात् हलदन्तात् सप्तम्याः इत्यनयोः अनुवृत्तिः भवति |  अलुगुत्तरपदे (..) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— हलदन्तात् सप्तम्याः अलुक् बान्धे च उत्तरपदे  विभाषा|

 

अस्य सूत्रस्य प्रयोजनं यत् बहुव्रीहिसमासे अमूर्धमस्तकात्स्वाङ्गादकामे (६.३.१२) इति सूत्रेण अलुक् नित्यरूपेण प्राप्तः आसीत्, अपि च तत्पुरुषसमासे वक्ष्यमाणेन नेन्सिद्धबध्नातिषु (६.३.१९) इति सूत्रेण निषेधः प्राप्तः आसीत्, प्रकृतसूत्रेण उभयत्र विकल्पेन अलुक् क्रियते |

 

हस्ते बन्धः यस्य सः = हस्तेबन्धः, हस्तबन्धः ( handcuffs,  हस्तपाशः, हस्तनिगडः) |  अलौकिकविग्रहः = हस्त + ङि + बन्ध + सु | अत्र व्यधिकरणे बहुव्रीहिसमासः भवति |  हस्ते बन्धः इत्यस्य तत्पुरुषसमासः अपि भवति संज्ञायाम् इति सूत्रेण | समासप्रक्रियायां बन्धे च विभाषा ( ६.३.१३) इत्यनेन पूर्वपदस्य विभक्तेः अलुक् भवति विकल्पेन |

 

यस्मिन् पक्षे पूर्वपदस्य विभक्तेः अलुक् भवति, तस्मिन् पक्षे हस्तेबन्ध इति प्रातिपदिकं सिद्धम् |

तस्मात् सुबुत्पत्तिः भूत्वा हस्तेबन्ध + सु इति भवति | परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.६) इत्यनेन द्वन्द्वस्य तत्पुरुषस्य च परस्य यल्लिङ्गं तत् भवति | बन्ध इति शब्दः पुंलिङ्गे अस्ति इति कृत्वा समासः पुंलिङ्गे भवति | हस्तेबन्ध + सु रुत्वविसर्गौ कृत्वा हस्तेबन्धः इति समासः सिद्ध्यति |

 

यस्मिन् पक्षे पूर्वपदस्य विभक्तेः अलुक् न भवति, तस्मिन् पक्षे हस्तबन्ध इति प्रातिपदिकं निष्पन्नं भवति | तस्मात् सुबुत्पत्तिः भूत्वा हस्तबन्ध + सु इति भवति | परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.६) इत्यनेन द्वन्द्वस्य तत्पुरुषस्य च परस्य यल्लिङ्गं तत् भवति | बन्ध इति शब्दः पुंलिङ्गे अस्ति इति कृत्वा समासः पुंलिङ्गे भवति | हस्तबन्ध + सु रुत्वविसर्गौ कृत्वा हस्तबन्धः इति समासः सिद्ध्यति |

 

गुप्तौ बन्धः = गुप्तिबन्धः | अस्मिन् समासे पूर्वपदस्य विभक्तेः अलुक् न भवति बन्धे च विभाषा ( ६.३.१३) इत्यनेन यतोहि पूर्वपदं हलन्तात् अथवा अदन्तात् नास्ति | अस्मिन् समासे पूर्वपदं तु इकारान्तात् अस्ति | अतः प्रातिपदिकं भवति गुप्तिबन्ध इति | तस्मात् सुबुत्पत्तिः भूत्वा गुप्तिबन्ध + सु इति भवति | परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.६) इत्यनेन द्वन्द्वस्य तत्पुरुषस्य च परस्य यल्लिङ्गं तत् भवति | बन्ध इति शब्दः पुंलिङ्गे अस्ति इति कृत्वा समासः पुंलिङ्गे भवति | गुप्तिबन्ध + सु रुत्वविसर्गौ कृत्वा गुप्तिबन्धः इति समासः सिद्ध्यति |

 

 

१३)  तत्पुरुषे कृति बहुलम् ( ६.३.१४) = तत्पुरुषे समासे कृदन्ते उत्तरपदे सप्तम्याः बहुलमलुग् भवति | बहुलम् इत्युक्ते बहून् अर्थान् लाति( गृह्णाति) इति बहुलम् |अत्र बहुलम् इति शब्दस्य प्रयोगेण कुत्रचित् विकल्पेन अम्-आदेशः भवति, कुत्रचित् अम् आदेशः नित्यः भवति | कुत्र विकल्पेन, कुत्र नित्यः इति निर्णयः प्रयोगं दृष्ट्वा करणीयः | सामान्यतया विकल्पेन इति स्वीकर्तुं शक्यते | यदि विकल्पार्थः इष्टः तर्हि विकल्पः अथवा वा इति शब्दस्य प्रयोगः भवति परन्तु अत्र बहुलम् इत्यनेन विशिष्टार्थः बुध्यते | तत्पुरुषे सप्तयन्तं, कृति सप्तम्यन्तं, बहुलं प्रथमान्तम् | हलदन्तात् सप्तम्याः | हलदन्तात्सप्तम्याः संज्ञायाम् (..) इत्यस्मात् सूत्रात् सप्तम्याः इत्यस्य अनुवृत्तिः भवति |   अलुगुत्तरपदे (..) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— तत्पुरुषे सप्तम्याः अलुक् बहुलं कृति उत्तरपदे |

 

प्रत्ययग्रहणे तदन्ता ग्राह्याः इति परिभाषाम् अनुसृत्य कृति इत्यत्र तदन्तस्य ग्रहणं भवति; अतः कृदन्तस्य इति अर्थः सिद्धः |

 

बहुलशब्दस्य चत्वारः अर्थाः सन्ति –क्वचित् प्रवृत्तिः, क्वचित् अप्रवृत्तिः, क्वचित् विकल्पेन, क्वचित् अन्यदेव नाम किञ्चित् विलक्षणकार्यं भवति | एवमेव प्रकृतसूत्रे अपि कुत्रचित् नित्यरूपेण सप्तम्याः अलुक् भवति, कुत्रचित् सप्तम्याः अलुक् न भवति, कुत्रचित् विकल्पेन सप्तम्याः अलुक् भवति, कुत्रचित् विलक्षणकार्यं भवति | अस्मिन् सूत्रे बहुलग्रहणं  विकल्पार्थकम्, अप्रवृत्यर्थकञ्च भवति |

 

धेयं यत् उपपदसमासे कर्तव्ये कृदन्तशब्दात् सुप्-प्रत्ययस्य विधानात् प्रागेव समासः भवति - गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक्सुबुत्पत्तेः इति नियमात् | प्रकृतसूत्रम् उपपदसमासस्य विषये अस्ति | अर्थात् उपपदसमासानन्तरं अलुकः विधानं क्रियते प्रकृतसूत्रेण |

 

स्तम्बे रमते = स्तम्बेरमः, स्तम्बरमः ( one who enjoys a bunch of grass)| स्तम्बः (  bunch of grass) | अलौकिकविग्रहः = स्तम्ब + ङि + रम् ( धातु) स्तम्बकर्णयो रमिजपोः ( ३.१.१३) इति सूत्रेण स्तम्ब, कर्ण, इत्येतयोः सुबन्तयोः उपपदयोः यथासङ्ख्यं रमिजपोः धात्वोः अच्प्रत्ययो भवति | अतः स्तम्ब + ङि + रम् ( धातु)  कृत्संज्ञकः अच्-प्रत्ययस्य विधानेन स्तम्ब + ङि + रम् + अच्  स्तम्ब + ङि + रम इति निष्पद्यते | गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक्सुबुत्पत्तेः इति नियमात् उपपदसमासे कर्तव्ये रम इति कृदन्तशब्दात् सुप्-प्रत्ययस्य विधानात् प्रागेव समासः भवति | अतः स्तम्ब + ङि + रम   उपपदमतिङ् ( २.२.१९) इत्यनेन उपपदं सुबन्तं समर्थेन नित्यं समस्यते | अर्थात् उपपदमतिङन्तं समर्थेन पदान्तरेण सह समस्यते नित्यं, तत्पुरुषश्च समासो भवति |

 

अलौकिकविग्रहः = स्तम्ब + ङि + रम | समासप्रक्रियायां तत्पुरुषे कृति बहुलम् (६.३.१४) इत्यनेन तत्पुरुषे समासे कृदन्ते उत्तरपदे सप्तम्याः विकल्पेन अलुग् भवति |

 

यस्मिन् पक्षे पूर्वपदस्य विभक्तेः अलुक् भवति, तस्मिन् पक्षे

 

 स्तम्ब + ङि + रम स्तम्ब + इ + रम आद्गुणः इति सूत्रेण गुणसन्धिं कृत्वा स्तम्बेरम इति प्रातिपदिकं सिद्धम् |

तस्मात् सुबुत्पत्तिः भूत्वा स्तम्बेरम +सु इति भवति| परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.६) इत्यनेन द्वन्द्वस्य तत्पुरुषस्य च परस्य यल्लिङ्गं तत् भवति | रम इति शब्दः पुंलिङ्गे विवक्षितः इति कृत्वा समासः पुंलिङ्गे भवति | स्तम्बेरम +सु रुत्वविसर्गौ कृत्वा स्तम्बेरमः इति समासः सिद्ध्यति |

 

यस्मिन् पक्षे पूर्वपदस्य विभक्तेः अलुक् न भवति, तस्मिन् पक्षे

 

स्तम्ब + ङि + रम सुब्लुक् भवति सुपो धातुप्रातिपदिकयोः इत्यनेन स्तम्ब + रम स्तम्बरम इति

इति प्रातिपदिकं निष्पन्नं भवति | तस्मात् सुबुत्पत्तिः भूत्वा स्तम्बरम + सु इति भवति | परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.६) इत्यनेन द्वन्द्वस्य तत्पुरुषस्य च परस्य यल्लिङ्गं तत् भवति | रम इति शब्दः पुंलिङ्गे विवक्षितः इति कृत्वा समासः पुंलिङ्गे भवति | स्तम्बरम + सु रुत्वविसर्गौ कृत्वा स्तम्बरमः इति समासः सिद्ध्यति |

 

आहत्य रूपद्वयम् – स्तम्बेरमः, स्तम्बरमः इति |

 

एवमेव –

 कर्णे जपति = कर्णेजपः, कर्णजपः ( informer)|  कर्ण + ङि + जप् ( धातु) स्तम्बकर्णयो रमिजपोः ( ३.१.१३) इति सूत्रेण स्तम्ब, कर्ण, इत्येतयोः सुबन्तयोः उपपदयोः यथासङ्ख्यं रमिजपोः धात्वोः अच्प्रत्ययो भवति | अतः कर्ण + ङि + जप् ( धातु)  कृत्संज्ञकः अच्-प्रत्ययस्य विधानेन कर्ण + ङि + जप् + अच्  कर्ण + ङि + जप इति निष्पद्यते | गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक्सुबुत्पत्तेः इति नियमात् उपपदसमासे कर्तव्ये जप इति कृदन्तशब्दात् सुप्-प्रत्ययस्य विधानात् प्रागेव समासः भवति | अतः कर्ण + ङि + जप   उपपदमतिङ् ( २.२.१९) इत्यनेन उपपदं सुबन्तं समर्थेन नित्यं समस्यते | अर्थात् उपपदमतिङन्तं समर्थेन पदान्तरेण सह समस्यते नित्यं, तत्पुरुषश्च समासो भवति| अग्रे प्रक्रिया यथा स्तम्बेरमः इत्यत्र आसीत् भवति| अत्रापि तत्पुरुषे कृति बहुलम् (६.३.१४) इति सूत्रेण विकल्पेन पूर्वपदस्य सप्तम्याः अलुक् भवति |

 

एवमेव – जलेजनिः, वनेवासः, वनेचरः, दिविष्ठः, गोषुचरः इत्यादीनि समस्तपदानि अपि सिद्ध्यन्ति |

 

तत्पुरुषे कृति बहुलम् ( ६.३.१४) इति सूत्रे बहुलग्रहणत् क्वचित् अप्रवृत्तिः अस्ति | तस्य उदाहरणम् अस्ति कुरुचरः इति समासः |

 

कुरुषु चरति = कुरुचरः | कुरु + सुप् + चर् ( धातु) चरेष्टः ( ३.१.१६) इति सूत्रेण रेः धातोः अधिकरणे सुबन्त- उपपदे टप्रत्ययो भवति| अतः कुरु + सुप् + चर् ( धातु)  कृत्संज्ञकः ट-प्रत्ययस्य विधानेन कुरु + सुप् + चर् +  कुरु + सुप् + चर् +  कुरु + सुप् + चर  इति निष्पद्यते | गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक्सुबुत्पत्तेः इति नियमात् उपपदसमासे कर्तव्ये चर इति कृदन्तशब्दात् सुप्-प्रत्ययस्य विधानात् प्रागेव समासः भवति | अतः कुरु + सुप् + चर     उपपदमतिङ् ( २.२.१९) इत्यनेन उपपदं सुबन्तं समर्थेन नित्यं समस्यते | अर्थात् उपपदमतिङन्तं समर्थेन पदान्तरेण सह समस्यते नित्यं, तत्पुरुषश्च समासो भवति |

 

अलौकिकविग्रहः = कुरु + सुप् + चर समासस्य प्रातिपदिकसंज्ञा भवति कृत्तद्धितसमासाश्च (१.२.४६) इत्यनेन सूत्रेण| इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन, अतः सुप् इत्यस्य लुक्‌ भवति कुरु + चर इति भवति | तत्पुरुषे कृति बहुलम् (..१४) इति सूत्रे बहुलग्रहणत् अस्मिन् समासप्रसङ्गे सूत्रस्य अप्रवृत्तिः अस्ति, अतः पूर्वपदस्य विभक्तेः अलुक् न भवति |

 

 

अत्रापि तत्पुरुषे कृति बहुलम् (६.३.१४) इति सूत्रेण विकल्पेन पूर्वपदस्य सप्तम्याः अलुक् भवति |

 

तस्मात् सुबुत्पत्तिः भूत्वा कुरुचर + सु इति भवति | परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.६) इत्यनेन द्वन्द्वस्य तत्पुरुषस्य च परस्य यल्लिङ्गं तत् भवति | चर इति शब्दः पुंलिङ्गे विवक्षितः इति कृत्वा समासः पुंलिङ्गे भवति | कुरुचर + सु रुत्वविसर्गौ कृत्वा कुरुचरः इति समासः सिद्ध्यति |

 

१४)  'प्रावृट्छरत्कालदिवां जे ( ६.३.१५) = इति उत्तरपदे परे प्रावृट्, शरत्, काल दिव् इत्येतेषां सप्तम्याः अलुक् भवति | प्रावृट् च शरत् च कालश्च दिव् च, तेषाम् इतरेतरयोगद्वन्द्वः, प्रावृट्छरत्कालदिवस्तेषां प्रावृट्छरत्कालदिवां षष्ठ्यन्तं, जे  सप्तम्यन्तम् | हलदन्तात्सप्तम्याः संज्ञायाम् (..) इत्यस्मात् सूत्रात् सप्तम्याः इत्यस्य अनुवृत्तिः भवति | अलुगुत्तरपदे (..) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— ' प्रावृट्छरत्कालदिवां सप्तम्याः अलुक् जे उत्तरपदे |

 

प्रावृट्छरत्कालदिवां जे (६.३.१५) इति सूत्रेण यत् कार्यं उक्तं, तत् कार्यं तु तत्पुरुषे कृति बहुलम् (६.३.१४) इति सूत्रेणैव सम्भवति, तर्हि किमर्थं प्रावृट्छरत्कालदिवां जे (६.३.१५) इति सूत्रस्य आवश्यकता इति प्रश्नः उदेति ?

 

सत्यमेव इदं सूत्रं नास्ति चेदपि तत्पुरुषे कृति बहुलम् (६.३.१४) इति सूत्रेणैव नित्यरूपेण अलुक् साधयितुं शक्नुमः यतोहि तस्मिन् सूत्रे बहुलग्रहणेन नित्यप्रवृत्तिः अपि साधयितुं शक्यते | अतः सारांशः यत् प्रकृतसूत्रं नास्ति चेदपि उक्तकार्यं प्राप्तुं शक्यते | अतः एव उच्यते पूर्वस्यायं प्रपञ्चः इति | अर्थात्  प्रकृतसूत्रेण उक्तकार्यं पूर्वसूत्रेण तत्पुरुषे कृति बहुलम् (६.३.१४) इत्यनेन एव सिद्धं भवति | अतः प्रकृतसूत्रं केवलं पूर्वसूत्रस्य विस्तारमात्रम् अस्ति | यदि प्रकृतसूत्रं नास्ति चेदपि कार्यं प्राप्यते पूर्वसूत्रेण |

व्याकरणस्य लक्ष्यम् अस्ति लघुत्वं एह्त् किमर्थं पाणिनना अनावश्यकसूत्राणि न अपाकृतानि | एतस्य समाधानं भाष्याकारेण उक्तं यत् आचार्याः कृत्वा न निवर्तन्ते | अर्थात् सूत्रकारेण यदा एकवारं सूत्राणि कृतानि चेत् तत्पश्चात् तेषां अपाकरणं न क्रियन्ते|


यथा—


प्रावृषि जायते = प्रावृषिजः |  वृष्टौ उत्पन्नः यः सः प्रावृषिजः | प्रावृष् + ङि + जन्( धातु) सप्तम्यां जनेर्डः ( ३.२.९७) इति सूत्रेण सप्तम्यन्त उपपदे जनेः धातोः डः प्रत्ययो भवति| अतः प्रावृष् + ङि + जन्( धातु)  कृत्संज्ञकः ड-प्रत्ययस्य विधानेन प्रावृष् + ङि + जन् +  प्रावृष् + ङि + जन् + अधुना टेः ( ६.४.१४३) इति सूत्रेण भसंज्ञकस्य अङ्गस्य टि-संज्ञकस्य डित्-प्रत्यये परे लोपः भवति  अन् इति टिभागस्य लोपानन्तरं प्रावृष् + ङि + ज् + अ प्रावृष+ ङि + ज इति निष्पद्यते | गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक्सुबुत्पत्तेः इति नियमात् उपपदसमासे कर्तव्ये ज इति कृदन्तशब्दात् सुप्-प्रत्ययस्य विधानात् प्रागेव समासः भवति | अतः प्रावृष् + ङि + ज   उपपदमतिङ् ( २.२.१९) इत्यनेन उपपदं सुबन्तं समर्थेन नित्यं समस्यते | अर्थात् उपपदमतिङन्तं समर्थेन पदान्तरेण सह समस्यते नित्यं, तत्पुरुषश्च समासो भवति |

 

अलौकिकविग्रहः = प्रावृष् + ङि + ज समासस्य प्रातिपदिकसंज्ञा भवति कृत्तद्धितसमासाश्च (१.२.४६) इत्यनेन सूत्रेण| इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति स्म सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन परन्तु प्रावृट्छरत्कालदिवां जे (६.३.१५) इत्यनेन इति उत्तरपदे परे प्रावृट्, शरत्, काल दिव् इत्येतेषां सप्तम्याः अलुक् भवति| अतः प्रावृष् इत्यस्मात् ङि इत्यस्य लुक् न भवति प्रावृष् + ङि + ज प्रावृष् + इ + ज प्रावृषिज |

 

तस्मात् सुबुत्पत्तिः भूत्वा प्रावृषिज +सु इति भवति | परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.६) इत्यनेन द्वन्द्वस्य तत्पुरुषस्य च परस्य यल्लिङ्गं तत् भवति | ज इति शब्दः पुंलिङ्गे विवक्षितः इति कृत्वा समासः पुंलिङ्गे भवति | प्रावृषिज + सु रुत्वविसर्गौ कृत्वा प्रावृषिजः इति समासः सिद्ध्यति |

 

एवमेव –

शरदि जायते = शरदिजः | शरद्‍-ऋतौ यः उत्पन्नः सः शरदिजः |  शरद् + ङि + जन् (धातु) सप्तम्यां जनेर्डः ( ३.२.९७) इति सूत्रेण सप्तम्यन्त उपपदे जनेः धातोः डः प्रत्ययो भवति | अतः शरद् + ङि + जन् ( धातु)  कृत्संज्ञकः ड-प्रत्ययस्य विधानेन शरद् + ङि + जन् +  शरद् + ङि + जन् + अधुना टेः ( ६.४.१४३) इति सूत्रेण भसंज्ञकस्य अङ्गस्य टि-संज्ञकस्य डित्-प्रत्यये परे लोपः भवति  अन् इति टिभागस्य लोपानन्तरं शरद् + ङि + ज् + अ शरद् + ङि + ज इति निष्पद्यते |

ततः अग्रे प्रक्रिया प्रावृषिजः इत्यस्मिन् यथा आसीत् तथैव अत्रापि भवति | शरदिजः इति समासः सिद्धः भवति |

 

एवमेव –

काले जायते = कालेजः | उपयुक्तसमये यः उत्पन्नः सः कालेजः |

दिवि जायते = दिविजः |

 

 

१५)  विभाषा वर्षक्षरशरवरात् (६.३.१६) =  इति उत्तरपदे परे वर्ष, क्षर, शर, वर, इत्येतेभ्यः उत्तरस्याः सप्तम्याः विभाषा अलुग् भवति| वर्षश्च क्षरश्च शरश्च वरश्च तेषां समाहारद्वन्द्वो वर्षक्षरशरवरं, तस्माद् वर्षक्षरशरवरात् | प्रावृट्छरत्कालदिवां जे (६.३.१५) इत्यस्मात् सूत्रात् जे इत्यस्य अनुवृत्तिः | हलदन्तात्सप्तम्याः संज्ञायाम् (..) इत्यस्मात् सूत्रात् सप्तम्याः इत्यस्य अनुवृत्तिः भवति | अलुगुत्तरपदे (..) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— हलदन्तात्सप्तम्याः संज्ञायाम् (..) इत्यस्मात् सूत्रात् सप्तम्याः इत्यस्य अनुवृत्तिः भवति | वर्षक्षरशरवरात्  सप्तम्याः अलुक् विभाषा जे उत्तरपदे |

 

केवलं विकल्पसाधनार्थमेव इदं सूत्रं कृतम्, अन्यथा तत्पुरुषे कृति बहुलम् (६.३.१४) इति सूत्रेण एव कार्यं सिद्धं भवति | प्रकृतसूत्रं नास्ति चेदपि तत्पुरुषे कृति बहुलम् (६.३.१४) इति सूत्रेणैव विकल्पेन अलुक् साधयितुं शक्नुमः यतोहि तस्मिन् सूत्रे बहुलग्रहणेन वैकल्पिककार्यम् अपि साधयितुं शक्यते | अतः सारांशः यत् प्रकृतसूत्रं नास्ति चेदपि उक्तकार्यं प्राप्तुं शक्यते | वस्तुतः विभाषा वर्षक्षरशरवरात् (६.३.१६) इत्यस्मात् विभाषा इति पदस्य अग्रेमेषु सूत्रेषु अनुवृत्त्यर्थम् इदं सूत्रं कृतम् इति समाधानं प्राप्यते |

 

वर्षे जायते = वर्षेजः वर्षजः | वर्षे यः उत्पन्नः सः इत्यर्थः | वर्ष + ङि + जन् ( धातु) सप्तम्यां जनेर्डः ( ३.२.९७) इति सूत्रेण सप्तम्यन्त उपपदे जनेः धातोः डः प्रत्ययो भवति| अतः वर्ष + ङि + जन् ( धातु)  कृत्संज्ञकः ड-प्रत्ययस्य विधानेन वर्ष + ङि + जन् +  वर्ष + ङि + जन् + अधुना टेः ( ६.४.१४३) इति सूत्रेण भसंज्ञकस्य अङ्गस्य टि-संज्ञकस्य डित्-प्रत्यये परे लोपः भवति  अन् इति टिभागस्य लोपानन्तरं वर्ष + ङि + ज् + अ वर्ष + ङि + ज इति निष्पद्यते | गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक्सुबुत्पत्तेः इति नियमात् उपपदसमासे कर्तव्ये ज इति कृदन्तशब्दात् सुप्-प्रत्ययस्य विधानात् प्रागेव समासः भवति | अतः वर्ष + ङि + ज   उपपदमतिङ् ( २.२.१९) इत्यनेन उपपदं सुबन्तं समर्थेन नित्यं समस्यते | अर्थात् उपपदमतिङन्तं समर्थेन पदान्तरेण सह समस्यते नित्यं, तत्पुरुषश्च समासो भवति |

 

अलौकिकविग्रहः = वर्ष + ङि + ज समासस्य प्रातिपदिकसंज्ञा भवति कृत्तद्धितसमासाश्च (१.२.४६) इत्यनेन सूत्रेण| इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति स्म सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन परन्तु विभाषा वर्षक्षरशरवरात् (६.३.१६) इत्यनेन ज इति उत्तरपदे परे वर्ष, क्षर, शर, वर, इत्येतेभ्यः उत्तरस्याः सप्तम्याः विभाषा अलुग् भवति |

 

यस्मिन् पक्षे वर्ष इत्यस्मात् शब्दात् ङि इति प्रत्ययस्य विकल्पेन लुक् न भवति तस्मिन् पक्षे

 

वर्ष + ङि + ज वर्ष + इ + ज आद्गुणः इति सूत्रेण गुणसन्धिं कृत्वा वर्षेज इति प्रातिपदिकं सिद्धं भवति |

 

तस्मात् सुबुत्पत्तिः भूत्वा वर्ष + सु इति भवति | परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.६) इत्यनेन द्वन्द्वस्य तत्पुरुषस्य च परस्य यल्लिङ्गं तत् भवति | ज इति शब्दः पुंलिङ्गे विवक्षितः इति कृत्वा समासः पुंलिङ्गे भवति | वर्षज + सु रुत्वविसर्गौ कृत्वा वर्षेजः इति समासः सिद्ध्यति |

 

यस्मिन् पक्षे वर्ष इत्यस्मात् शब्दात् ङि इति प्रत्ययस्य लुक् भवति तस्मिन् पक्षे

 

वर्ष + ज वर्ष + वर्षज इति प्रातिपदिकं सिद्धं भवति | तस्मात् सुबुत्पत्तिः भूत्वा वर्ष + सु इति भवति | परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.६) इत्यनेन द्वन्द्वस्य तत्पुरुषस्य च परस्य यल्लिङ्गं तत् भवति | ज इति शब्दः पुंलिङ्गे विवक्षितः इति कृत्वा समासः पुंलिङ्गे भवति | वर्षज + सु रुत्वविसर्गौ कृत्वा वर्षजः इति समासः सिद्ध्यति |

 

आहत्य वर्षेजः, वर्षजः इति रूपद्वयं सिद्धं भवति |

 

एवमेव –

क्षरे जायते = क्षरेजः, क्षरजः | जले, मेघे इत्यादिषु क्षरणशीलेषु वस्तुषु उत्पन्नः इत्यर्थः |

शरे जायते = शरेजः, शरजः | कार्तिकेयः इत्यर्थः |

वरे जायते = वरेजः वरजः | वरदानात् (gift) यः उत्पन्नः |

 

 

 

१६)  घकालतनेषु कालनाम्नः (..१७) = घसंज्ञके प्रत्यये, कालशब्दे, तनप्रत्यये च परतः कालनाम्नः उत्तरस्याः सप्तम्या विभाषा अलुग् भवति | घश्च कालश्च तनश्च, तेषामितरेतरयोगद्वन्द्वः घकालतनाः, तेषु, घकालतनेषु | कालस्य नाम कालनाम, तस्मात् कालनाम्नः, षष्ठीतत्पुरुषः | विभाषा वर्षक्षरशरवरात् (६.३.१६) इत्यस्मात् सूत्रात्  विभाषा इत्यस्य अनुवृत्तिः भवति | | हलदन्तात्सप्तम्याः संज्ञायाम् (..) इत्यस्मात् सूत्रात् सप्तम्याः इत्यस्य अनुवृत्तिः भवति | अलुगुत्तरपदे (..) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— घकालतनेषु सप्तम्याः अलुगुत्तरपदे  विभाषा |

 

तरप्तमपौ घः (१.१.२२) इति सूत्रेण तरप्, तमप् च तद्धितप्रत्ययौ घसंज्ञकौ स्तः | प्रकृतसूत्रे घप्रत्ययः इत्यनेन तरप्-तमप्, अनयो प्रत्यययोः ग्रहणं भवति | कालशब्दः इत्यनेन कालवाचिशब्दस्य ग्रहणं भवति | तन्-प्रत्ययः इत्यनेन ट्यु-ट्युल् प्रत्यययोः स्थाने यः अनादेशः, तुडागमः च क्रियते, तेन यः तन्नन्तशब्दः निष्पद्यते तस्य ग्रहणं भवति |  कालनाम्नः इत्यनेन कालशब्दस्य पर्यायवाचिशब्दानां ग्रहणं भवति |

 

अ)   घसंज्ञकशब्दस्य उदाहरणम्

 

अधिके पूर्वाह्णे = पूर्वाह्नेतरे, पूर्वाह्नतरे | अधिकं पूर्वाह्णम्   अह्नः पूर्वम् इति लौकिकविग्रहवाक्यम् अस्ति |अलौकिकविग्रहः = अहन् + ङस् + पूर्व + सु | पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे (..) इति सूत्रेण अत्र तत्पुरुषसमासः विधीयते | समासस्य प्रातिपदिकसंज्ञा भवति | इदानीं सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन सुप् प्रत्ययानां लोपः भवति पूर्व +अहन् |

 

पूर्व +अहन् राजाहस्सखिभ्यष्टच् (५.४.९१) इति सूत्रेण तत्पुरुषसमासस्य उत्तरपदे 'राजन्', 'अहन्', 'सखि' च एतेषु कश्चन शब्दः विद्यते चेत्, तस्मात् टच् इति समासान्तप्रत्ययः भवति | पूर्व + अहन् + टच्   पूर्व + अहन् + पूर्व + अहन अह्नोऽह्न एतेभ्यः( ५.४.८८) इति सूत्रेण यस्मिन् समस्तपदे 'सर्व' शब्दः, 'सङ्ख्यात'शब्दः, एकदेशवाचकः शब्दः उत अव्ययवाचकः शब्दः पूर्वपदरूपेण विद्यते, तथा च 'अहन्' शब्दः उत्तरपदरूपेण विद्यते, तस्मात् समासान्तप्रत्यये प्राप्ते अहन्-शब्दस्य अह्न-आदेशः भवति | अस्मिन् उदाहरणे पूर्व इति शब्दः एकदेशवाचकः शब्दः अस्ति पूर्वपदेन विद्यते, अहन् इति शब्दः उत्तरपदेन विद्यते अतः अहन् इत्यस्य स्थाने अह्न् इति आदेशः भवति पूर्व + अह्न् + पूर्व +अह्न अकः सर्वणे दीर्घः इति सूत्रेण सर्वणदीर्घसन्धिं कृत्वा पूर्वाह्न अह्नोऽदन्तात् ( ८.४.७) इत्यनेन  अदन्तपूर्वपदस्थात् रेफात् रस्य ह्नादेशस्य नस्य णः स्यात् |  अतः पूर्वाह्न इत्यत्र णत्वं भूत्वा पूर्वाह्ण  इति सिद्ध्यति |

 

अग्रे अनयोः अतिशयेन पूर्वाह्णे इत्यर्थे पूर्वाह्ण + ङि द्विवचनविभज्योपपदे तरबीयसुनौ (५.३.५७) इति सूत्रेण द्वयोः एकः अतिशयेन प्रकृष्टः इत्यर्थे 'तरप्' प्रत्ययः विधीयते पूर्वाह्ण + ङि + तरप् तरप् इति प्रत्यये पकारस्य इत्संज्ञा भवति हलन्त्यम् इति सूत्रेण, तस्य लोपः इत्यनेन पकारस्य लोपः भवति तर इति अवशिष्यते |

 

पूर्वाह्ण + ङि + तर एतस्य तद्धितसमुदायस्य प्रातिपदिकसंज्ञा भवति कृत्तद्धितसमासाश्च (१.२.४६) इत्यनेन सूत्रेण | इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति स्म सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन परन्तु घकालतनेषु कालनाम्नः (..१७) इत्यनेन घसंज्ञकप्रत्ययात् परतः कालनाम्नः उत्तरस्याः सप्तम्या विभाषा अलुग् भवति | पूर्वाह्ण + ङि + तर आद्गुणः इति सूत्रेण गुणसन्धिं कृत्वा पूर्वाह्णेतर इति प्रातिपदिकं सिद्धं भवति |

 

 

 

यस्मिन् पक्षे घसंज्ञकशब्दः उत्तरपदे चेत् पूर्वपदस्य ङि इति प्रत्ययस्य विकल्पेन लुक् न भवति तस्मिन् पक्षे

 

पूर्वाह्णेतर + ङि सुबुत्पत्तिः भवति | परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.६) इत्यनेन द्वन्द्वस्य तत्पुरुषस्य च परस्य यल्लिङ्गं तत् भवति | तर इति शब्दः पुंलिङ्गे विवक्षितः इति कृत्वा समासः पुंलिङ्गे भवति | पूर्वाह्णेतर + ङि आद्गुणः इति सूत्रेण गुणसन्धिं कृत्वा पूर्वाह्णेतर + इ पूर्वाह्णेतरे इति समासः सिद्द्यति |

 

यस्मिन् पक्षे घसंज्ञकशब्दः उत्तरपदे चेत् पूर्वपदस्य ङि इति प्रत्ययस्य विकल्पेन लुक् भवति तस्मिन् पक्षे

पूर्वाह्णतर इति प्रातिपदिकं सिद्धं भवति | पूर्वाह्णतर + ङि सुबुत्पत्तिः भवति | परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.६) इत्यनेन द्वन्द्वस्य तत्पुरुषस्य च परस्य यल्लिङ्गं तत् भवति | तर इति शब्दः पुंलिङ्गे विवक्षितः इति कृत्वा समासः पुंलिङ्गे भवति | पूर्वाह्णतर +ङि आद्गुणः इति सूत्रेण गुणसन्धिं कृत्वा पूर्वाह्णतर +  पूर्वाह्णेतरे इति समासः सिद्धः भवति |

 

आहत्य पूर्वाह्णेतरे पूर्वाह्णतरे इति रूपद्वयं सिद्धं भवति |

 

एवमेव –

अह्नः पूर्वं = पूर्वाह्णेतमे, पूर्वाह्णतमे | अत्यधिकं पूर्वाह्णम् इत्यर्थः | प्रक्रिया यथा पूर्वोक्ता | तमप् इति तद्धितप्रत्ययः विधीयते अतिशायने तमबिष्ठनौ (..५५)  इति सूत्रेण | अन्यानि सोपानानि समानानि भवन्ति |

 

 

द्विवचनविभज्योपपदे तरबीयसुनौ (५.३.५७) = द्वयोः एकः अतिशयेन प्रकृष्टः अस्ति' अस्मिन् सन्दर्भे, तथा च केचन पदार्थाः विभज्य 'एते पदार्थाः अन्येभ्यः केभ्यश्चित् प्रकृष्टाः सन्ति' इति वक्तव्यमस्ति चेत् तस्मिन् सन्दर्भे प्रातिपदिकात् स्वार्थे तरप्-प्रत्ययः तथा ईयसुँन्-प्रत्ययः भवति | केभ्यचन तिङन्तेभ्यः अपि अस्मिन्नेव सन्दर्भे 'तरप्' प्रत्ययः विधीयते | उदा – रामकृष्णयोः रामः शान्ततरः आसीत् |

 

अतिशायने तमबिष्ठनौ (..५५) = प्रकर्षेण' इत्यस्मिन् सन्दर्भे प्रातिपदिकात् स्वार्थे तमप् तथा इष्ठन् प्रत्ययौ भवतः | उदा- सर्वेषु छात्रेषु रामः पटुतमः अस्ति|

 

आ) कालवाचकस्य उदाहरणम्

 

पूर्वाह्णे काले = पूर्वाह्णेकाले, पूर्वाह्णकाले | प्रक्रिया यथापूर्विक्ता | अलौकिकविग्रहः = पूर्वाह्ण + ङि + काल + ङि | प्रा पूर्वाह्ण + ङि + काल + ङि  प्रातिपदिकसंज्ञा भवति कृत्तद्धितसमासाश्च (१.२.४६) इत्यनेन सूत्रेण | इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति स्म सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन परन्तु घकालतनेषु कालनाम्नः (..१७) इत्यनेन कालवाचिशब्दात् परतः कालनाम्नः उत्तरस्याः सप्तम्या विभाषा अलुग् भवति |

 

यस्मिन् पक्षे कालवाचकशब्दः उत्तरपदे चेत् पूर्वपदस्य ङि इति प्रत्ययस्य विकल्पेन लुक् न भवति तस्मिन् पक्षे

पूर्वाह्ण + ङि + काल आद्गुणः इति सूत्रेण गुणसन्धिं कृत्वा पूर्वाह्णेकाल इति प्रातिपदिकं सिद्धं भवति | पूर्वाह्णेकाल + ङि सुबुत्पत्तिः भवति | परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.६) इत्यनेन द्वन्द्वस्य तत्पुरुषस्य च परस्य यल्लिङ्गं तत् भवति | काल इति शब्दः पुंलिङ्गे अस्ति इति कृत्वा समासः पुंलिङ्गे भवति | पूर्वाह्णेकाल + ङि आद्गुणः इति सूत्रेण गुणसन्धिं कृत्वा पूर्वाह्णेकाल + पूर्वाह्णेकाले इति समासः सिद्धः भवति |

 

यस्मिन् पक्षे कालवाचकशब्दः उत्तरपदे चेत् पूर्वपदस्य ङि इति प्रत्ययस्य विकल्पेन लुक् भवति तस्मिन् पक्षे

 

पूर्वाह्ण + काल आद्गुणः इति सूत्रेण गुणसन्धिं कृत्वा पूर्वाह्णकाल इति प्रातिपदिकं सिद्धं भवति | पूर्वाह्णकाल + ङि सुबुत्पत्तिः भवति | परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.६) इत्यनेन द्वन्द्वस्य तत्पुरुषस्य च परस्य यल्लिङ्गं तत् भवति | काल इति शब्दः पुंलिङ्गे अस्ति इति कृत्वा समासः पुंलिङ्गे भवति | पूर्वाह्णकाल + ङि आद्गुणः इति सूत्रेण गुणसन्धिं कृत्वा पूर्वाह्णकाल + पूर्वाह्णकाले इति समासः सिद्धः भवति |

 

आहत्य रूपद्वयं सिद्धं भवति पूर्वाह्णेकाले, पूर्वाह्णकाले इति |

 

इ)     तन्-प्रत्ययान्तस्य उदाहरणम् –

पूर्वाह्णे समये = पूर्वाह्णेतने , पूर्वाह्णतने | अह्नः पूर्वम् = पूर्वाह्णः | पूर्व + अहन् राजाहस्सखिभ्यष्टच् (५.४.९१) इति सूत्रेण तत्पुरुषसमासस्य उत्तरपदे 'राजन्', 'अहन्', 'सखि' च एतेषु कश्चन शब्दः विद्यते चेत्, तस्मात् टच् इति समासान्तप्रत्ययः भवति | पूर्व + अहन् + टच्   पूर्व + अहन् + पूर्व + अहन अह्नोऽह्न एतेभ्यः( ५.४.८८) इति सूत्रेण यस्मिन् समस्तपदे 'सर्व' शब्दः, 'सङ्ख्यात'शब्दः, एकदेशवाचकः शब्दः उत अव्ययवाचकः शब्दः पूर्वपदरूपेण विद्यते, तथा च 'अहन्' शब्दः उत्तरपदरूपेण विद्यते, तस्मात् समासान्तप्रत्यये प्राप्ते अहन्-शब्दस्य अह्न-आदेशः भवति | अस्मिन् उदाहरणे पूर्व इति शब्दः एकदेशवाचकः शब्दः अस्ति पूर्वपदेन विद्यते, अहन् इति शब्दः उत्तरपदेन विद्यते अतः अहन् इत्यस्य स्थाने अह्न् इति आदेशः भवति पूर्व + अह्न् + अ+ पूर्व + अह्न अकः सर्वणे दीर्घः इति सूत्रेण सर्वणदीर्घसन्धिं कृत्वा पूर्वाह्न अह्नोऽदन्तात् ( ८.४.७) इत्यनेन  अदन्तपूर्वपदस्थात् रेफात् रस्य ह्नादेशस्य नस्य णः स्यात् |  अतः पूर्वाह्न इत्यत्र णत्वं भूत्वा पूर्वाह्ण  इति सिद्ध्यति |

 

पूर्वाह्ण + ङि विभाषा पूर्वाह्णापराह्णाभ्याम् (४.३.२४) इति सूत्रेण पूर्वाह्ण-अपराह्ण-शब्दाभ्यां विभाषा ट्युट्युलौ प्रत्ययौ भवतः, तुट् च तयोरागमः अतः विभाषा पूर्वाह्णापराह्णाभ्याम् (४.३.२४) इति सूत्रेण पूर्वाह्ण इति शब्दात् ट्यु इति प्रत्ययः विधीयते, तुट् इति आगमः अपि भवति पूर्वाह्ण + ङि + तुट् ट्यु ट्यु इति प्रत्यये टकारस्य इत्संज्ञा चुटू इत्यनेन; तस्य लोपः इत्यनेन टकारस्य लोपः; यु इति अवशिष्यते | तुट् इति आगमः टित्वात् ट्यु इति प्रत्ययस्य आदौ आयाति आद्यन्तौ टकितौ ( १.१.४६) इत्यनेन सूत्रेण | तुट् इति आगमे टकारस्य इत्संज्ञा भूत्वा लोपः भवति, अकारः उच्चारणार्थः , तकारः एव अवशिष्यते |


पूर्वाह्ण + ङि + त् + यु युवोरनाकौ (७.१.१) इत्यनेन अङ्गात् परस्य प्रत्ययस्य आदौ विद्यमानस्य 'युँ' इत्यस्य 'अन' आदेशः, 'वुँ' इत्यस्य च 'अक' आदेशः भवति अतः पूर्वाह्ण + ङि + त् + यु इत्यत्र यु इत्यस्य स्थाने अन इति आदेशः भवति पूर्वाह्ण + ङि + त् + अन  पूर्वाह्ण +ङि + तन इति भवति | पूर्वाह्ण + ङि + तन इत्यस्य प्रातिपदिकसंज्ञा भवति कृत्तद्धितसमासाश्च (१.२.४६) इत्यनेन सूत्रेण| इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति स्म सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन परन्तु घकालतनेषु कालनाम्नः (..१७) इत्यनेन तनप्रत्ययान्तात् परतः कालनाम्नः उत्तरस्याः सप्तम्या विभाषा अलुग् भवति |

 

 

यस्मिन् पक्षे तनप्रत्ययान्तशब्दः उत्तरपदे चेत् पूर्वपदस्य ङि इति प्रत्ययस्य विकल्पेन लुक् न भवति तस्मिन् पक्षे

 

पूर्वाह्ण + ङि + तन  आद्गुणः इति सूत्रेण गुणसन्धिं कृत्वा पूर्वाह्णेतन इति प्रातिपदिकं सिद्धं भवति | पूर्वाह्णेतन + ङि सुबुत्पत्तिः भवति | परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.६) इत्यनेन द्वन्द्वस्य तत्पुरुषस्य च परस्य यल्लिङ्गं तत् भवति | तन इति शब्दः पुंलिङ्गे अस्ति इति कृत्वा समासः पुंलिङ्गे भवति | पूर्वाह्णेतन + ङि आद्गुणः इति सूत्रेण गुणसन्धिं कृत्वा पूर्वाह्णेतन + पूर्वाह्णेतने इति समासः सिद्धः भवति |

 

यस्मिन् पक्षे तनप्रत्ययान्तशब्दः उत्तरपदे चेत् पूर्वपदस्य ङि इति प्रत्ययस्य विकल्पेन लुक् भवति तस्मिन् पक्षे

 

पूर्वाह्ण + तन पूर्वाह्णतन इति प्रातिपदिकं सिद्धं भवति | पूर्वाह्णतन + ङि सुबुत्पत्तिः भवति | परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.६) इत्यनेन द्वन्द्वस्य तत्पुरुषस्य च परस्य यल्लिङ्गं तत् भवति | तन इति शब्दः पुंलिङ्गे विवक्षितः इति कृत्वा समासः पुंलिङ्गे भवति | पूर्वाह्णतन + ङि आद्गुणः इति सूत्रेण गुणसन्धिं कृत्वा पूर्वाह्णतन + पूर्वाह्णतने इति समासः सिद्धः भवति |

 

आहत्य रूपद्वयं सिद्धं भवति पूर्वाह्णेतने, पूर्वाह्णतने इति |

 

 

१७) शयवासवासिष्वकालात् ( ६.३.१८)= शय वास वासिन् इत्येतेषु उत्तरपदेषु हलन्तात् अदन्तात् अकालवाचिनः ( कालवाचिनः शब्दात् भिन्नः शब्दः इत्यर्थः) उत्तरस्याः सप्तम्याः विभाषा अलुक् भवति | शयश्च वासश्च वासी च, तेषाम् इतरेतरयोगद्वन्द्वः, शयवासवासिनः तेषु, शयवासवासिषु |  न कालोऽकालः तस्मात् कालात् , नञ्तत्पुरुषः | शयवासवासिषु सप्तम्यनतम्, अकालात् पञ्चम्यन्तम् | विभाषा वर्षक्षरशरवरात् (६.३.१६) इत्यस्मात् सूत्रात्  विभाषा इत्यस्य अनुवृत्तिः भवति | हलदन्तात्सप्तम्याः संज्ञायाम् (..) इत्यस्मात् सूत्रात् हलदन्तात् सप्तम्याः इत्यस्य अनुवृत्तिः भवति | अलुगुत्तरपदे (..) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌हलदन्तात् अकालात् सप्तम्याः अलुक् शयवासवासिषु उत्तरपदे विभाषा|

 

खे शेते = खेशयः, खशयः | आकाशे यः निद्रां करोति सः इत्यर्थः | ख + ङि + शी( धातु) अधिकरणे शेतेः ( ३.२.१५) इति सूत्रेण  शेतेः धातोः अधिकरणे सुबन्त- उपपदे अच् प्रत्ययो भवति | अतः ख + ङि + शी ( धातु)  कृत्संज्ञकः अच्-प्रत्ययस्य विधानेन ख + ङि + शी + अच्  ख + ङि + शी + अधुना शी इत्यस्य ईकारस्य गुणः भवति सार्वधातुकार्धधातुकयोः (७.३.८४) |  सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे + ङि + शे + अ एचोऽवायवः इत्यनेन  ख + ङि + शय् + + ङि + शय इति निष्पद्यते | गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक्सुबुत्पत्तेः इति नियमात् उपपदसमासे कर्तव्ये शय इति कृदन्तशब्दात् सुप्-प्रत्ययस्य विधानात् प्रागेव समासः भवति | अतः ख + ङि + शय   उपपदमतिङ् ( २.२.१९) इत्यनेन उपपदं सुबन्तं समर्थेन नित्यं समस्यते | अर्थात् उपपदमतिङन्तं समर्थेन पदान्तरेण सह समस्यते नित्यं, तत्पुरुषश्च समासो भवति |

 

 

अलौकिकविग्रहः = ख + ङि + शय समासस्य प्रातिपदिकसंज्ञा भवति कृत्तद्धितसमासाश्च (१.२.४६) इत्यनेन सूत्रेण | इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति स्म सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन परन्तु शयवासवासिष्वकालात् ( ६.३.१८) इत्यनेन शय वास वासिन् इत्येतेषु उत्तरपदेषु हलन्तात् अदन्तात् अकालवाचिनः उत्तरस्याः सप्तम्याः विभाषा अलुक् भवति |

 

यस्मिन् पक्षे शय इत्यस्मात् उत्तरपदात् पूर्वपदस्य ङि इति प्रत्ययस्य विकल्पेन लुक् न भवति तस्मिन् पक्षे

 

ख + ङि + शय ख + इ + शय आद्गुणः इति सूत्रेण गुणसन्धिं कृत्वा खेशय इति प्रातिपदिकं सिद्धं भवति |

 

तस्मात् सुबुत्पत्तिः भूत्वा खेशय + सु इति भवति | परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.६) इत्यनेन द्वन्द्वस्य तत्पुरुषस्य च परस्य यल्लिङ्गं तत् भवति | शय इति शब्दः पुंलिङ्गे विवक्षितः इति कृत्वा समासः पुंलिङ्गे भवति | खेशय + सु रुत्वविसर्गौ कृत्वा खेशयः इति समासः सिद्ध्यति |

 

यस्मिन् पक्षे शय इत्यस्मात् उत्तरपदात् पूर्वपदस्य ङि इति प्रत्ययस्य लुक् भवति तस्मिन् पक्षे

 

ख + शय  खशय इति प्रातिपदिकं सिद्धं भवति | तस्मात् सुबुत्पत्तिः भूत्वा खशय+सु इति भवति | परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.६) इत्यनेन द्वन्द्वस्य तत्पुरुषस्य च परस्य यल्लिङ्गं तत् भवति | शय इति शब्दः पुंलिङ्गे विवक्षितः इति कृत्वा समासः पुंलिङ्गे भवति | खशय + सु रुत्वविसर्गौ कृत्वा खशयः इति समासः सिद्ध्यति |

 

आहत्य खेशयः, खशयः इति रूपद्वयं सिद्धं भवति |

 

एवमेव –

ग्रामे वासः यस्य सः = ग्रामेवासः, ग्रामवासः| अलौकिकविग्रहः = ग्रामे + ङि + वास + सु | अत्र व्यधिकरणबहुव्रीहिसमासः विधीयते | समासस्य प्रातिपदिकसंज्ञा भवति कृत्तद्धितसमासाश्च (१.२.४६) इत्यनेन सूत्रेण | इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति स्म सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन परन्तु शयवासवासिष्वकालात् ( ६.३.१८) इत्यनेन शय वास वासिन् इत्येतेषु उत्तरपदेषु  हलन्तात् अदन्तात् अकालवाचिनः उत्तरस्याः सप्तम्याः विभाषा अलुक् भवति |

 

यस्मिन् पक्षे वास इत्यस्मात् उत्तरपदात् पूर्वपदस्य ङि इति प्रत्ययस्य विकल्पेन लुक् न भवति तस्मिन् पक्षे

 

ग्राम + ङि + वास ग्राम + इ + वास आद्गुणः इति सूत्रेण गुणसन्धिं कृत्वा ग्रामेवास इति प्रातिपदिकं सिद्धं भवति |

तस्मात् सुबुत्पत्तिः भूत्वा ग्रामेवास + सु इति भवति | बहुव्रीहिसमासः अन्यपदार्थप्रधानः अस्ति| अन्यपदार्थः कोपि पुरुषः इति कृत्वा अयं समासः पुंलिङ्गे भवति | ग्रामेवास + सु रुत्वविसर्गौ कृत्वा ग्रामेवासः इति समासः सिद्ध्यति |

 

यस्मिन् पक्षे वास इत्यस्मात् उत्तरपदात् पूर्वपदस्य ङि इति प्रत्ययस्य लुक् भवति तस्मिन् पक्षे

 

ग्राम + वास ग्रामवास इति प्रातिपदिकं सिद्धं भवति | तस्मात् सुबुत्पत्तिः भूत्वा ग्रामेवास + सु इति भवति | बहुव्रीहिसमासः अन्यपदार्थप्रधानः अस्ति | अन्यपदार्थः कोपि पुरुषः इति कृत्वा अयं समासः पुंलिङ्गे भवति |  ग्रामवास + सु रुत्वविसर्गौ कृत्वा ग्रामवासः इति समासः सिद्ध्यति |

 

आहत्य रूपद्वयम् – ग्रामेवासः, ग्रामवासः |

 

एवमेव ग्रामे वसति = ग्रामेवासी, ग्रामवासी | ग्रामे एव यः सामान्यतया वासं करोति सः इत्यर्थः| ग्राम + ङि + वस् (धातु)  ग्रामे वसति तच्छीलमस्य इत्यर्थे ग्राम + ङि + व इति धातुतः  सुबन्त- उपपदे णिनि प्रत्ययो भवति, उपधावृद्धिः अपि भवति | अतः ग्राम + ङि + वस् ( धातु) उपधावृद्धिः भवति तथा च कृत्संज्ञकः णिनि-प्रत्ययस्य विधानेन ग्राम + ङि + वास् + णिनि  ग्राम + ङि + वास् +इन् ग्राम + ङि + वासिन् इति निष्पद्यते | गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक्सुबुत्पत्तेः इति नियमात् उपपदसमासे कर्तव्ये वासिन् इति कृदन्तशब्दात् सुप्-प्रत्ययस्य विधानात् प्रागेव समासः भवति | अतः ग्रामे + ङि + वासिन्   उपपदमतिङ् ( २.२.१९) इत्यनेन उपपदं सुबन्तं समर्थेन नित्यं समस्यते | अर्थात् उपपदमतिङन्तं समर्थेन पदान्तरेण सह समस्यते नित्यं, तत्पुरुषश्च समासो भवति|

 

अलौकिकविग्रहः = ग्राम + ङि + वासिन् समासस्य प्रातिपदिकसंज्ञा भवति कृत्तद्धितसमासाश्च (१.२.४६) इत्यनेन सूत्रेण | इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति स्म सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन परन्तु शयवासवासिष्वकालात् ( ६.३.१८) इत्यनेन शय वास वासिन् इत्येतेषु उत्तरपदेषु हलन्तात् अदन्तात् अकालवाचिनः उत्तरस्याः सप्तम्याः विभाषा अलुक् भवति |

 

यस्मिन् पक्षे वासिन् इति उत्तरपदे परे पूर्वपदस्य ङि इति प्रत्ययस्य विकल्पेन लुक् न भवति तस्मिन् पक्षे

ग्राम + ङि + वासिन् ग्राम + इ + वासिन् आद्गुणः इति सूत्रेण गुणसन्धिं कृत्वा ग्रामेवासिन् इति प्रातिपदिकं सिद्धं भवति |

 

तस्मात् सुबुत्पत्तिः भूत्वा ग्रामेवासिन् +सु इति भवति | परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.६) इत्यनेन द्वन्द्वस्य तत्पुरुषस्य च परस्य यल्लिङ्गं तत् भवति | वासिन् इति शब्दः पुंलिङ्गे विवक्षितः इति कृत्वा समासः पुंलिङ्गे भवति | ग्रामेवासिन् + सु सर्वनामस्थाने चासम्बुद्धौ (६.४.८) इत्यनेन नः अङ्गस्य उपधायाः दीर्घः सर्वनामस्थाने असम्बुद्धौ च | अतः ग्रामेवासीन्+ सु इति भवति हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌ (६.१.६७) इत्यनेन हलन्तात् प्रातिपदिकात् सु इति प्रत्ययस्य लोपः भवति ग्रामेवासीन् न लोपः प्रातिपदिकान्तस्य (८.२.७) इत्यनेन प्रातिपदिकसंज्ञक-पदस्य अन्ते विद्यमानस्य नकारस्य लोपः ग्रामेवासी इति समासः सिद्ध्यति |

 

यस्मिन् पक्षे वासिन् इति उत्तरपदे परे पूर्वपदस्य ङि इति प्रत्ययस्य लुक् भवति तस्मिन् पक्षे

 

ग्राम + वासिन् ग्रामवासिन् इति प्रातिपदिकं सिद्धं भवति | तस्मात् सुबुत्पत्तिः भूत्वा ग्रामवासिन् + सु इति भवति | परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.६) इत्यनेन द्वन्द्वस्य तत्पुरुषस्य च परस्य यल्लिङ्गं तत् भवति | वासिन् इति शब्दः पुंलिङ्गे विवक्षितः इति कृत्वा समासः पुंलिङ्गे भवति | ग्रामवासिन् + सु सर्वनामस्थाने चासम्बुद्धौ (६.४.८) इत्यनेन नः अङ्गस्य उपधायाः दीर्घः सर्वनामस्थाने असम्बुद्धौ च | अतः ग्रामवासीन् + सु इति भवति हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌ (६.१.६७) इत्यनेन हलन्तात् प्रातिपदिकात् सु इति प्रत्ययस्य लोपः भवति ग्रामवासीन् न लोपः प्रातिपदिकान्तस्य (८.२.७) इत्यनेन प्रातिपदिकसंज्ञक-पदस्य अन्ते विद्यमानस्य नकारस्य लोपः ग्रामवासी इति समासः सिद्ध्यति |

 

आहत्य रूपद्वयं = ग्रामेवासी, ग्रामवासी |

 

भूमौ शेते = भूमिशयः इति समासे शयवासवासिष्वकालात् ( ६.३.१८) इति सूत्रेण पूर्वपदस्य सप्तम्याः अलुक् न भवति यतोहि सूत्रं तत्र एव कार्यं करोति यत्र  हलन्तात् अदन्तात् अकालवाची शब्दः अस्ति | अत्र अकालवाची शब्दः भूमि इति | अयं शब्दः हलन्तः अथवा अदन्तः नास्ति इति कृत्वा भूमौशयः इति समासः न भवति | अत्र तु एकमेव रूपम् अस्ति भूमिशयः इति |

 

भूमि + ङि + शी (धातु) अधिकरणे शेतेः ( ३.२.१५) इति सूत्रेण  शेतेः धातोः अधिकरणे सुबन्त- उपपदे अच् प्रत्ययो भवति | अतः भूमि + ङि + शी (धातु)  कृत्संज्ञकः अच्-प्रत्ययस्य विधानेन भूमि + ङि + शी + अच्  भूमि + ङि + शी + अधुना शी इत्यस्य ईकारस्य गुणः भवति सार्वधातुकार्धधातुकयोः (७.३.८४)|  सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे भूमि + ङि + शे + अ एचोऽवायवः इत्यनेन  भूमि + ङि + शय् + भूमि + ङि + शय इति निष्पद्यते | गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक्सुबुत्पत्तेः इति नियमात् उपपदसमासे कर्तव्ये शय इति कृदन्तशब्दात् सुप्-प्रत्ययस्य विधानात् प्रागेव समासः भवति | अतः भूमि + ङि + शय   उपपदमतिङ् ( २.२.१९) इत्यनेन उपपदं सुबन्तं समर्थेन नित्यं समस्यते | अर्थात् उपपदमतिङन्तं समर्थेन पदान्तरेण सह समस्यते नित्यं, तत्पुरुषश्च समासो भवति |

 

 

अलौकिकविग्रहः = भूमि + ङि + शय समासस्य प्रातिपदिकसंज्ञा भवति कृत्तद्धितसमासाश्च (१.२.४६) इत्यनेन सूत्रेण| इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति स्म सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन| अत्र शयवासवासिष्वकालात् ( ६.३.१८) इति सूत्रेण पूर्वपदस्य सप्तम्याः अलुक् न भवति यतोहि भूमि इति पूर्वपदं न हलन्तं न वा अदन्तम् |

भूमि + शय  भूमिशय इति प्रातिपदिकं सिद्धं भवति | तस्मात् सुबुत्पत्तिः भूत्वा भूमिशय + सु इति भवति | परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.६) इत्यनेन द्वन्द्वस्य तत्पुरुषस्य च परस्य यल्लिङ्गं तत् भवति | शय इति शब्दः पुंलिङ्गे विवक्षितः इति कृत्वा समासः पुंलिङ्गे भवति | भूमिय + सु रुत्वविसर्गौ कृत्वा भूमिशयः इति समासः सिद्ध्यति | अत्र एकमेव रूपम् अस्ति भूमिशयः इति | भूमौशयः इति समासः न सिद्ध्यति |

 

अपो योनियन्मतुषु इति वार्तिकम् अस्ति | वार्तिकार्थः = योनि, यत्, मतु इत्येतेषु कश्चन शब्दः उत्तरपदे चेत् अप् इति पूर्वपदात् सप्तम्याः अलुक् भवति | योनि इति शब्दः, यत् इति प्रत्ययः तथा मतु ( मतुप्) इत्यपि प्रत्ययः |

 

अप्सु योनिः यस्य सः = अप्सुयोनिः | यस्य योनिः (उत्पत्तिः) जले अस्ति सः इत्यर्थः |  अप् + सुप् + योनि + सु इति अलौकिकविग्रहः | व्यधिकरणबहुव्रीहिसमासः विधीयते अत्र | अप् + सुप् + योनि + सु समासस्य प्रातिपदिकसंज्ञा भवति कृत्तद्धितसमासाश्च (१.२.४६) इत्यनेन सूत्रेण | इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति स्म सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन परन्तु अपो योनियन्मतुषु इत्यनेन वार्तिकेन योनि, इति शब्दः उत्तरपदे चेत् अप् इति पूर्वपदात् सप्तम्याः अलुक् भवति अप् + सुप् + योनि अप्सुयोनि इति प्रातिपदिकं सिद्धं भवति |

 

तस्मात् सुबुत्पत्तिः भूत्वा आप्सुयोनि + सु इति भवति | बहुव्रीहिसमासः अन्यपदार्थप्रधानः अस्ति | अन्यपदार्थः कोपि पुरुषः इति कृत्वा अयं समासः पुंलिङ्गे भवति | आप्सुयोनि + सु रुत्वविसर्गौ कृत्वा आप्सुयोनि इति समासः सिद्ध्यति |

 

अप्सुभवः = अप्सव्यः | जले यः उत्पद्यते | अप् + सुप् इत्यस्मात् दिगादिभ्यो यत् ( ४.३.५४) इति सूत्रेण दिशित्येवमादिभ्यः प्रातिपदिकेभ्यः यत् प्रत्ययो भवति तत्र भवः इत्येतस्मिन् विषये अप् + सुप् + यत् तद्धितप्रयुक्तस्य प्रातिपदिकसंज्ञा भवति कृत्तद्धितसमासाश्च (१.२.४६) इत्यनेन सूत्रेण | इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति स्म सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन परन्तु अपो योनियन्मतुषु इत्यनेन वार्तिकेन यत्प्रत्ययान्तः शब्दः उत्तरपदे चेत् अप् इति पूर्वपदात् सप्तम्याः अलुक् भवति अप् + सुप् + यत् अप्सु + य इति भवति अधुना ओर्गुणः ( ६.४.१४६) इत्यनेन उवर्णान्तस्य भसंज्ञकस्य तद्धितप्रत्यये परे गुणादेशः भवति अप्सु इत्यस्य गुणः भवति यत् इति तद्धितप्रत्यये परे अप्सो + वान्तो यि प्रत्यये ( ६.१.७९) इत्यनेन ओकार-औकारयोः यकारादि-प्रत्यये परे क्रमेण अव्/आव् आदेशाः भवन्ति अप्स् + अव् + य = अप्सव्य इति प्रातिपदिकं सिद्धं भवति |

 

तस्मात् सुबुत्पत्तिः भूत्वा अप्सव्य + सु इति भवति| | अप्सव्य + सु रुत्वविसर्गौ कृत्वा अप्सव्यः इति समासः सिद्ध्यति |

 

 

अप्सुमन्तौ आज्यभागौ | यज्ञे अप्सु इत्यादीनां मन्त्राणां उच्चारणं भवति |  अप्सु इति यदीयमन्त्रयोः अस्ति इत्यस्मिन् अर्थे अप् + सु अस्मात्  तदस्यास्त्यस्मिन्नि मतुप् ( ५.२.९४) इति सूत्रेण मतुप् -प्रत्ययः  विधीयते | अतः  अप् + सु + मत् इति भवति | तद्धितप्रयुक्तस्य प्रातिपदिकसंज्ञा भवति कृत्तद्धितसमासाश्च (१.२.४६) इत्यनेन सूत्रेण | इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति स्म सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन परन्तु अपो योनियन्मतुषु इत्यनेन वार्तिकेन मतुप्प्रत्ययान्तः शब्दः उत्तरपदे चेत् अप् इति पूर्वपदात् सप्तम्याः अलुक् भवति अप् + सु + मत् अप्सु + मत् इति भवति अप्सुमत् इति प्रातिपदिकं सिद्धं भवति | तस्मात् सुबुत्पत्तिः भूत्वा अप्सुमत् + औ इति भवति | अधुना उगिदचां सर्वनामस्थानेऽधातोः (७.१.७०) इत्यनेन सर्वनामस्थानसंज्ञक-प्रत्यये परे धातुभिन्न-उगितः नुमागमो भवति अप्सुमन्त् + औ =  अप्सुमन्तौ इति समासः सिद्ध्यति |


अपो योनियन्मतुषु इति वार्तिके मतभेदाः सन्ति भाष्यकारः अलुगुत्तरपदे ( ६.३.१) इति सूत्रस्य व्याख्यानस्य चर्चासमये अपो योनियन्मतिषु चोपसंख्यानम् इति वार्तिकस्य चर्चा अस्ति |  वार्तिककारः अलुक्-विधानस्य प्रसङ्गे एकवच्च इति कथनद्वारा केवलम् एकवचने एव अलुक् इत्यस्य प्रस्तावः कृतः दृश्यते | तस्य अनावश्यकता प्रदर्श्य गोषुचरः, वर्षासुजः, अप्सुयोनिः, अप्सव्यः, अप्सुमतिः इत्यादीनां बहुचनानां विग्रहे अलुक् कथं जायते ?

अप्सुमन्तौ इत्यत्र तु एकवद्भावस्य प्रयोगः नास्ति यतोहि अप्सुमत् इति कथनेन एकत्वमात्रस्य एव बोधकः अस्ति, यतोहि आहुतीनां विवरणे अप्सु इति शब्देन युक्तमन्त्रे प्रयुक्तस्य अप्सु इति शब्दः एकसंख्यायाः बोधकः अस्ति | अन्यविषयः यत् मतुषु इति पाठः अपि समीचीनः नास्ति यतोहि अप्सुमत् इति शब्दः केवलम् अनुकरणात्मकः इति कृत्वा सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन सुब्लुक् न प्राप्यते | एवञ्च अलुक्-विधानस्य विषयः एव नास्ति | अतः एव मतुषु इत्यस्य स्थाने मतिषु इति पाठः उपयुक्तः अस्ति| एतादृपाठेन वार्तिकार्थः भवति - योनि, यत्, मति इत्येतेषु कश्चन शब्दः उत्तरपदे चेत् अप् इति पूर्वपदात् सप्तम्याः अलुक् भवति  इति| तनुसारं अप्सुयोनिः अप्सव्यः, अप्सुमतिः इति उदाहरणानि सिद्ध्यन्ति |

 

 

 

१८)  नेन्सिद्धबध्नातिषु च (..१९) = इन्नन्ते उत्तरपदे, सिद्धशब्दे,न्ध्-धातौ च परतः पूर्वपदस्य सप्तम्याः अलुग् न भवति | अर्थात् इन्-प्रत्ययान्तशब्दः, सिद्ध-शब्दः, बन्ध्-धातुः उत्तरपदे चेत् पूर्वपदस्य सप्तम्याः अलुक् न भवति | तत्पुरुषे कृति बहुलम् ( ६.३.१४)  इत्यस्य इदं निषेधकसूत्रम् अस्ति | बध्नाति इति पदं श्तिप् -प्रत्ययान्तः अस्ति | अनेन कारणेन बन्ध् -धातुतः यः कोपि कृत्प्रत्ययः परः चेदपि अस्य सूत्रस्य कार्यं भवति | इन् च सिद्धश्च बध्नातिश्च तेषाम् इतरेतरयोद्वन्द्वः इन्सिद्धबध्नातयः तेषु इन्सिद्धबध्नातिषु सप्तम्यन्तं, नाव्ययम् | हलदन्तात्सप्तम्याः संज्ञायाम् (..) इत्यस्मात् सूत्रात् सप्तम्याः इत्यस्य अनुवृत्तिः भवति | तत्पुरुषे कृति बहुलम् ( ६.३.१४)  इत्यस्मात् मण्डुकप्लुत्या तत्पुरुषे इत्यस्य अनुवृत्तिः | अलुगुत्तरपदे (..) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— तत्पुरुषे इन्सिद्धबध्नातिषु च  उत्तरपदेषु सप्तम्याः अलुक् न |

 

१)  स्थण्डिले शेते तत् व्रतम् अस्य = स्थण्डिलशायी | अर्थात् यः भूमौ शयनस्य व्रतम् आचरति | स्थण्डिल + ङि पूर्वकः शी-धातुतः व्रते ( ३.२.८०)  इति सूत्रेण कृत्संज्ञकः णिनि-प्रत्ययः विधीयते | व्रते (३.२.८०) इति सूत्रं वदति व्रते गम्यमाने सुबन्त-उपपदे धातोः णिनिः प्रत्ययो भवति | णिनि इति प्रत्यये णकारस्य इत्संज्ञा भवति चुटू इत्यनेन, इकारस्य इत्संज्ञा भवति उपदेशेऽजनुनासिक इत् इत्यनेन | तस्य लोपः इत्यनेन इत्संज्ञकयोः वर्णयोः लोपः भवति |

स्थण्डिल + ङि + शी + इन् णिनि इति प्रत्ययः णित् इति कृत्वा अत्र अचो ञ्णिति (७.२.११५) इति सूत्रेण अजन्ताङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति ञिति णिति प्रत्यये परे शी इत्यस्मिन् इकारस्य वृद्धिः ऐकारः स्थण्डिल + ङि + शै + इन् एचोऽयवायवः ( ६.१.७८) इत्यनेन ऐकारस्य स्थाने आय आदेशः भवति अचि परे स्थण्डिल + ङि + शाय् + इन् स्थण्डिल + ङि + शायिन् इति भवति | गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक्सुबुत्पत्तेः इति नियमात् उपपदसमासे कर्तव्ये शायिन् इति कृदन्तशब्दात् सुप्-प्रत्ययस्य विधानात् प्रागेव समासः भवति | अतः स्थण्डिल + ङि + शायिन्   उपपदमतिङ् ( २.२.१९) इत्यनेन उपपदं सुबन्तं समर्थेन नित्यं समस्यते | अर्थात् उपपदमतिङन्तं समर्थेन पदान्तरेण सह समस्यते नित्यं, तत्पुरुषश्च समासो भवति |

 

अलौकिकविग्रहः = स्थण्डिल + ङि + शायिन् समासस्य प्रातिपदिकसंज्ञा भवति कृत्तद्धितसमासाश्च (१.२.४६) इत्यनेन सूत्रेण| इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति स्म सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन | अत्र

तत्पुरुषे कृति बहुलम् (..१४) इत्यनेन तत्पुरुषे समासे कृदन्ते उत्तरपदे सप्तम्याः लुग् प्राप्तः अस्ति | परन्तु नेन्सिद्धबध्नातिषु च (..१९) इत्यनेन इन्नन्ते उत्तरपदे पूर्वपदस्य सप्तम्याः अलुग् न भवति| नेन्सिद्धबध्नातिषु च (..१९) इति सूत्रं तत्पुरुषे कृति बहुलम् ( ६.३.१४) इति सूत्रस्य निषेधः क्रियते येन सुब्लुक् पुनः प्राप्यते | फलितार्थः अत्र स्थण्डिल + ङि इत्यत्र सप्तम्याः लुक् भवति | अतः स्थण्डिल + शायिन् स्थाण्डिलशायिन् इति प्रातिपदिकं सिद्धम् |

 

तस्मात् सुबुत्पत्तिः भूत्वा स्थाण्डिलशायिन् + सु इति भवति | परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.६) इत्यनेन द्वन्द्वस्य तत्पुरुषस्य च परस्य यल्लिङ्गं तत् भवति | शायिन् इति शब्दः पुंलिङ्गे विवक्षितः इति कृत्वा समासः पुंलिङ्गे भवति | स्थाण्डिलशायिन् + सु सर्वनामस्थाने चासम्बुद्धौ (६.४.८) इत्यनेन नः अङ्गस्य उपधायाः दीर्घः सर्वनामस्थाने असम्बुद्धौ च | अतः स्थाण्डिलशायीन् + सु इति भवति हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌ (६.१.६७) इत्यनेन हलन्तात् प्रातिपदिकात् सु इति प्रत्ययस्य लोपः भवति स्थाण्डिलशायीन् न लोपः प्रातिपदिकान्तस्य (८.२.७) इत्यनेन प्रातिपदिकसंज्ञक-पदस्य अन्ते विद्यमानस्य नकारस्य लोपः स्थाण्डिलशायी इति समासः सिद्ध्यति |

 

 

२) साङ्काश्ये सिद्धः = साङ्काश्यसिद्धः | राज्ञः जनकस्य भ्राता कुशध्वजः आसीत् तस्य राजधानी साङ्काश्यः आसीत् | अलौकिकविग्रहः = साङ्काश्य + ङि + सिद्ध + सु | अत्र सप्तमी शौण्डैः इत्यनेन सप्तमीतत्पुरुषसमासः विधीयते |

 

साङ्काश्य + ङि + सिद्ध + सु समासस्य प्रातिपदिकसंज्ञा भवति कृत्तद्धितसमासाश्च (१.२.४६) इत्यनेन सूत्रेण | इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति स्म सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन | अत्र

तत्पुरुषे कृति बहुलम् (..१४) इत्यनेन तत्पुरुषे समासे कृदन्ते उत्तरपदे सप्तम्याः लुग् प्राप्तः अस्ति | परन्तु नेन्सिद्धबध्नातिषु च (..१९) इत्यनेन सिद्धशब्दे परे पूर्वपदस्य सप्तम्याः अलुग् न भवति | नेन्सिद्धबध्नातिषु च (..१९) इति सूत्रं तत्पुरुषे कृति बहुलम् (..१४) इति सूत्रस्य निषेधः क्रियते येन सुब्लुक् पुनः प्राप्यते | फलितार्थः अत्र साङ्काश्य + ङि इत्यत्र सप्तम्याः लुक् भवति | अतः साङ्काश्य+ सिद्धसाङ्काश्यसिद्ध इति प्रातिपदिकं सिद्धम् |

 

 

तस्मात् सुबुत्पत्तिः भूत्वा साङ्काश्यसिद्ध + सु इति भवति | परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.६) इत्यनेन द्वन्द्वस्य तत्पुरुषस्य च परस्य यल्लिङ्गं तत् भवति | सिद्ध इति शब्दः पुंलिङ्गे विवक्षितः इति कृत्वा समासः पुंलिङ्गे भवति | साङ्काश्यसिद्ध + सु रुत्वविसर्गौ कृत्वा साङ्काश्यसिद्धः इति समासः सिद्ध्यति |

 

३) चक्रे बद्धः = चक्रबद्धः | अलौकिकविग्रहः = चक्र + ङि + बद्ध + सु | अत्र सप्तमी शौण्डैः इत्यनेन सप्तमीतत्पुरुषसमासः विधीयते | बन्ध् इति धातुतः क्तप्रत्ययः क्रियते चेत्, बद्ध इति प्रातिपदिकं सिद्ध्यति |

 

चक्र + ङि + बद्ध + सु समासस्य प्रातिपदिकसंज्ञा भवति कृत्तद्धितसमासाश्च (१.२.४६) इत्यनेन सूत्रेण | इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति स्म सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन | अत्र

तत्पुरुषे कृति बहुलम् ( ६.३.१४) इत्यनेन तत्पुरुषे समासे कृदन्ते उत्तरपदे सप्तम्याः अलुग् प्राप्तः अस्ति | परन्तु नेन्सिद्धबध्नातिषु च (..१९) इत्यनेन बन्ध्‌-शब्दे परे पूर्वपदस्य सप्तम्याः अलुग् न भवति | नेन्सिद्धबध्नातिषु च (..१९) इति सूत्रं तत्पुरुषे कृति बहुलम् ( ६.३.१४) इति सूत्रस्य निषेधः क्रियते येन सुब्लुक् पुनः प्राप्यते | फलितार्थः अत्र चक्र + ङि इत्यत्र सप्तम्याः लुक् भवति | अतः चक्र + बद्धचक्रबद्ध इति प्रातिपदिकं सिद्धम् |

 

 

तस्मात् सुबुत्पत्तिः भूत्वा चक्रबद्ध + सु इति भवति | परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.६) इत्यनेन द्वन्द्वस्य तत्पुरुषस्य च परस्य यल्लिङ्गं तत् भवति | बद्ध इति शब्दः पुंलिङ्गे विवक्षितः इति कृत्वा समासः पुंलिङ्गे भवति | चक्रबद्ध + सु रुत्वविसर्गौ कृत्वा चक्रबद्धः इति समासः सिद्ध्यति |

 

चक्रं बन्धः यस्य = चक्रेबन्धः, चक्रबन्धः | अलौकिकविग्रहः = चक्र + ङि + बन्ध + सु | अत्र पूर्वपदस्य विभक्तेः अलुक् भवति विकल्पेन बन्धे ''च विभाषा (..१३) इत्यनेन | बन्धे च विभाषा ( ६.३.१३) इत्यनेन हलन्तात् अदन्तात् उत्तरस्याः सप्तम्याः विभाषा अलुग् भवति बन्धः इति घञ्यन्ते उत्तरपदे परे |  अतः रूपद्वयं सिद्ध्यति |

 

 

अचो ञ्णिति (७.२.११५) = अजन्ताङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति ञिति णिति प्रत्यये परे | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन अचः अङ्गस्य नाम न केवलम्‌ अच्‌ इत्यङ्गस्य, अपि तु अजन्तस्य अङ्गस्य | अलोऽन्तस्य इत्यनेन अन्तिमवर्णस्य एव स्थाने वृद्धिः | ञ्‌ च ण्‌ च ञ्णौ, ञ्णौ इतौ यस्य तत्‌ ञ्णित्‌, तस्मिन्‌ ञ्णिति, द्वन्द्वगर्भबहुव्रीहिसमासः | अचः षष्ठ्यन्तं, ञ्णिति सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | मृजेर्वृद्धिः (७.२.११४) इत्यस्मात्‌ वृद्धिः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अचः अङ्गस्य वृद्धिः ञ्णिति |

 

१९)  'स्थे च भाषायाम् (..२०) = स्थे च उत्तरपदे भाषायां सप्तम्या अलुक् न भवति | स्थे सप्तम्यन्तं, चाव्ययं, भाषायां सप्तम्यन्तम् | सूत्रे भाषायाम् इत्युक्तत्वात् वैदिकप्रयोगे तु अलुक् भवत्येव  |अलुगुत्तरपदे (..) इत्यस्य अधिकारः | नेन्सिद्धबध्नातिषु च (..१९) इत्यस्मात् न इत्यस्य अनुवृत्तिः |  हलदन्तात्सप्तम्याः संज्ञायाम् (..) इत्यस्मात् सूत्रात् सप्तम्याः इत्यस्य अनुवृत्तिः भवति | अनुवृत्ति-सहितसूत्रम्‌— स्थे उत्तरपदे च भाषायाम् सप्तम्याः अलुग् न |

 

समे तिष्ठति = समस्थः | भूमौ यः तिष्ठति इत्यर्थः | सम+ङि पूर्वकः ष्ठा गतिनिवृतौ( स्था) इति धातुतः सुपि स्थः इति सूत्रेण क-प्रत्ययः विधीयते | सुपि स्थः (३.२.४) इति सूत्रेण सुबन्ते उपपदे तिष्ठतेः कप्रत्ययो भवति | अस्मिन् सूत्रे कर्मणि इत्यस्य अनुवृत्तिः अस्तीति कारणेन सुबन्तं कर्मरूपेण अस्ति चेदेव उपपदे पूर्वपदे कप्रत्ययो भवति | परन्तु अत्र स्था इति धातुः अकर्मकः, अतः कर्म न भवितुं न अर्हति, अतः कथं वा सूत्रस्य प्रवृत्तिः इति प्रश्नः उदेति | काशिकाकारः वदति धातुः अकर्मकः चेत् तत्र कर्मणि इत्यस्य सम्बन्धः न मन्तव्यः |

 

अतः सम + ङि + स्था + क कप्रत्यये ककारस्य इत्संज्ञा भवति लश्क्वतद्धिते इत्यनेन, तस्य लोपः इत्यनेन ककारस्य लोपः भवति सम + ङि + स्था + अ अधुना आतो लोप इटि च (६.४.६४) इत्यनेन अजाद्यार्धाधातुके क्ङिति परे आकारान्तस्य अङ्गस्य आकरस्य लोपः स्यात् अतः स्था इत्यस्य आकरस्य लोपः भवति अ इति अजाद्यार्धाधातुके किति प्रत्यये परे   सम + ङि + स्थ् +अ सम + ङि + स्थ इति भवति |

गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक्सुबुत्पत्तेः इति नियमात् उपपदसमासे कर्तव्ये शायिन् इति कृदन्तशब्दात् सुप्-प्रत्ययस्य विधानात् प्रागेव समासः भवति | अतः सम + ङि + स्थ   उपपदमतिङ् ( २.२.१९) इत्यनेन उपपदं सुबन्तं समर्थेन नित्यं समस्यते | अर्थात् उपपदमतिङन्तं समर्थेन पदान्तरेण सह समस्यते नित्यं, तत्पुरुषश्च समासो भवति |

अलौकिकविग्रहः = सम + ङि + स्थ समासस्य प्रातिपदिकसंज्ञा भवति कृत्तद्धितसमासाश्च (१.२.४६) इत्यनेन सूत्रेण | इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति स्म सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन | अत्र

तत्पुरुषे कृति बहुलम् (..१४) इत्यनेन तत्पुरुषे समासे कृदन्ते उत्तरपदे सप्तम्याः लुग् प्राप्तः अस्ति | परन्तु स्थे च भाषायाम् (..२०) इत्यनेन स्थे च उत्तरपदे भाषायां सप्तम्याः अलुक् निषिध्यते | फलितार्थः अत्र सम + ङि + स्थ इत्यत्र सप्तम्याः लुक् भवति | अतः सम + स्थ समस्थ इति प्रातिपदिकं सिद्धम् |

तस्मात् सुबुत्पत्तिः भूत्वा समस्थ + सु इति भवति | परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.६) इत्यनेन द्वन्द्वस्य तत्पुरुषस्य च परस्य यल्लिङ्गं तत् भवति | स्थ इति शब्दः पुंलिङ्गे विवक्षितः इति कृत्वा समासः पुंलिङ्गे भवति | समस्थ + सु रुत्वविसर्गौ कृत्वा समस्थः इति समासः सिद्ध्यति |

 

 

आतो लोप इटि च (६.४.६४) = अजाद्यार्धधातुके क्ङिति परे, आर्धाधातुके इटि परे च आकारान्तस्य अङ्गस्य आकरस्य लोपो भवति |

 

खरे तिष्ठति = खरेष्ठः |  अयं वैदिकप्रयोगः अस्ति |

 

 खर + ङि पूर्वकः ष्ठा गतिनिवृतौ (स्था) इति धातुतः सुपि स्थः इति सूत्रेण क-प्रत्ययः विधीयते | सुपि स्थः (३.२.४) इति सूत्रेण सुबन्ते उपपदे तिष्ठतेः कप्रत्ययो भवति | अतः खर + ङि + स्था + क कप्रत्यये ककारस्य इत्संज्ञा भवति लश्क्वतद्धिते इत्यनेन, तस्य लोपः इत्यनेन ककारस्य लोपः भवति खर + ङि + स्था + अ अधुना आतो लोप इटि च (६.४.६४) इत्यनेन अजाद्यार्धाधातुके क्ङिति परे आकारान्तस्य अङ्गस्य आकरस्य लोपः स्यात् अतः स्था इत्यस्य आकरस्य लोपः भवति अ इति अजाद्यार्धाधातुके किति प्रत्यये परे   खर + ङि+ स्थ् + खर + ङि + स्थ इति भवति | अग्रे प्रक्रिया यथा समस्थः इत्यत्र | केवलं तावान् एव भेदः यत् तत्पुरुषे कृति बहुलम् (..१४) इत्यनेन तत्पुरुषे समासे कृदन्ते उत्तरपदे सप्तम्याः लुग् भवति | अत्र स्थे च भाषायाम् (..२०) इति सूत्रस्य प्रवृत्तिः नास्ति यतोहि इदं सूत्रं लोके एव प्रयुज्यते न तु वैदिकप्रयोगेषु |

 

अतः पूर्वपदस्य विभक्तेः अलुक् भवति   खर + + स्थ   गुणसन्धिं कृत्वा खरे + स्थ इति भवति | अग्रे आदेशप्रत्यययोः (८.३.५९) इत्यनेन स्थ इत्यत्र यः आदेशरूपी सकारः अस्ति, तस्य षत्वं भवति यतोहि सकारात् पूर्वं यः एकारः अस्ति सः इण्-प्रत्याहारस्थः वर्णः अस्ति | अतः खरेष्थ इति भवति | अग्रे ष्टुना ष्टुः (८.४.४१) इत्यनेन ष्टुत्वादेशः भवति, येन षकारस्य प्रभावेण थकारस्य स्थाने ठकारादेशः भवति | खरेष्ठ इति प्रातिपदिकं सिद्धं भवति |  तदनन्तरं सुबुत्पत्तिं कृत्वा खरेष्ठः इति समासः सिद्धः |

 

 

आदेशप्रत्यययोः (८.३.५९) = इण्‌-प्रत्याहारात्‌ कवर्गीयात्‌ च परे अपदान्तः आदेशरूपी प्रत्ययावयवो वा सकारः अस्ति चेत्‌, तस्य सकारस्य स्थाने षकारादेशो भवति | आदेशः तु मूर्धन्यवर्णस्य इत्येव उक्तं, परं स्थानेऽन्तरतमः इत्यनेन ट्‌, ठ्‌, ड्‌, ढ्‌, ण्‌, ष्‌ इत्येषु मूर्धन्यवर्णेषु षकारस्य नैकट्यम्‌, अतः षकारः एव आदिष्टः भवति | नुम्‌, विसर्गः, शर्‍-प्रत्याहारस्थ-वर्णः एषु अन्यतमः मध्ये अस्ति चेदपि कार्यं भवति | इण्‌-प्रत्याहरे इमे वर्णाः अन्तर्भूताः— इ, , , , , , , , , , , , | अस्य कार्यस्य नाम षत्वविधिः | आदेशश्च प्रत्ययश्च आदेशप्रत्ययौ, तयोः आदेशप्रत्यययोः इतरेतरद्वन्द्वः | षष्ठ्यन्तम्‌ एकपदमिदं सूत्रम्‌ | सहे साडः सः (८.३.५६) इत्यस्मात्‌ सः इत्यस्य अनुवृत्तिः | नुंविसर्जनीयशर्व्यवायेऽपि (८.३.५८) इत्यस्य पूर्णा अनुवृत्तिः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम्‌ इत्यस्य अधिकारः | इण्कोः (८.३.५७), अपदान्तस्य मूर्धन्यः (८.३.५५) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌—इण्कोः आदेशप्रत्यययोः अपदान्तस्य सः मूर्धन्यः संहितायां, नुंविसर्जनीयशर्व्यवायेऽपि |

 

  

षष्ठीविभक्तेः अलुक्

  

२०)  'षष्ठ्या आक्रोशे (६.३.२१) = आक्रोशे गम्यमाने उत्तरपदे षष्ठ्या अलुग् भवति | आक्रोशः नाम निन्दा इत्यर्थः | षष्ठ्याः षष्ठ्यन्तम्, आक्रोशे सप्तम्यन्तम् ' | अलुगुत्तरपदे (..) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌—षष्ठ्या अलुग् आक्रोशे उत्तरपदे |

 

चौरस्य कुलम् = चौरस्यकुलम् | अलौकिकविग्रहः = चौर + ङस् + कुल + सु | षष्ठी (..) इति सूत्रेण षष्ठीतत्पुरुषसमासः विधीयते | 

 

चौर + ङस् + कुल + सु समासस्य प्रातिपदिकसंज्ञा भवति कृत्तद्धितसमासाश्च (१.२.४६) इत्यनेन सूत्रेण | इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति स्म सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन | परन्तु षष्ठ्या आक्रोशे (६.३.२१) = आक्रोशे गम्यमाने उत्तरपदे षष्ठ्या अलुग् भवति | चौर + ङस् + कुल इत्यत्र निन्दायां द्योत्यां चौर इत्यस्य षष्ठ्याः लुक् न भवति , कुल इत्यस्य विभक्तेः लुक् भवति | अतः चौर + ङस् + कुल चौर + अस् + कुल टाङसिङसामिनात्स्याः (७.१.१२) इत्यनेन सूत्रण अदन्तात् अङ्गात् परस्य टा, ङसि, ङस् च प्रत्ययानां स्थाने  क्रमेण इन, आत्, स्य इत्येते आदेशाः भवन्ति | अतः ङस् इत्यस्य स्थाने स्य इति आदेशः भवति   चौर + स्य + कुलचौरस्यकुल इति प्रातिपदिकं सिद्धम् |

 

तस्मात् सुबुत्पत्तिः भूत्वा समस्थ + सु इति भवति | परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.६) इत्यनेन द्वन्द्वस्य तत्पुरुषस्य च परस्य यल्लिङ्गं तत् भवति | कुल इति शब्दः नपुंसकलिङ्गे अस्ति इति कृत्वा समासः नपुंसकलिङ्गे भवति | चौरस्यकुल + सु अतोऽम् ( ७.१.२४) इत्यनेन अकारान्तात् नपुंसकात् अङ्गात्  सु-अम्- प्रत्ययोः अम् इति आदेशः भवति चौरस्यकुल + अम् अमि पूर्वः (६.१.१०७) इत्यनेन अक् वर्णात्  अम् सम्बन्धी अच् परः चेत् पूर्वपरयोः स्थाने पूर्वरुपम् एकादेशो भवति  चौरस्यकुलम् इति समासः सिद्ध्यति |

 

 

अतोऽम् ( ७.१.२४) = अकारान्तात् नपुंसकात् अङ्गात्  सु-अम्- प्रत्ययोः अम् इति आदेशः भवति | अतः पञ्चम्यन्तं, अम् प्रथमान्तं, द्विपदमिदं सूत्रम् |  अङ्गस्य ( ६.४.१) इत्यस्य अधिकारः | स्वमोर्नपुंसकात्‌ (७.१.२३) इति सूत्रस्य पूर्णानुवृत्तिः अस्ति | अनुवृत्ति-सहितसूत्रम्‌—  नपुंसकात् अतः अङ्गात्  स्वमोः अम् |

 

अमि पूर्वः (६.१.१०७) = अक् वर्णात्  अम् सम्बन्धी अच् परः चेत् पूर्वपरयोः स्थाने पूर्वरुपम् एकादेशो भवति | अमि सप्तम्यन्तं, पूर्वः प्रथमान्तं, द्विपदमिदं सूत्रम् | अकः सवर्णे दीर्घः ( ६.१.९९) इत्यस्मात् सूत्रात् अकः इत्यस्य अनुवृत्तिः | एकः पूर्वपरयोः (६.१.८३), संहितायाम् (६.१.७१) इत्यनयोः अधिकारः| इको यणचि ( ६.१.७७) इत्यस्मात् सूत्रात् अचि इत्यस्य अनुवृत्तिः | अनुवृत्ति सहितसूत्रम् — अकः अमि अचि पूर्वपरयोः एकः पूर्वः संहितायाम् |

 

ब्राह्मणस्य कुलम् = ब्राह्मणकुलम् | अस्मिन् समासे ब्राह्मणस्य इत्यस्मात् विभक्तेः अलुक् न भवति यतोहि षष्ठ्या आक्रोशे (६.३.२१) इति सूत्रे आक्रोशे इति पदम् अस्ति येन निन्दार्थे गम्यमाने एव पूर्वपदस्य विभक्तेः अलुक् भवति | निन्दार्थः न अवगम्यते चेत्, नाम यत्र यथार्थकथनम् अस्ति, तत्र पूर्वपदस्य अलुक् न भवति | अत एव ब्राह्मणस्य कुलम् इत्यस्मिन् यथार्थकथनेन निन्दा न बुध्यते इत्यतः ब्राह्मणस्य इति षष्ठ्यन्तस्य अलुक् न भवति अपितु लुक् भूत्वा ब्राह्मणकुलम् इति समासः सिद्ध्यति |

 

अस्मिन् सूत्रे पञ्च वार्तिकानि सन्ति, तानि अवलोक्यन्ते |

1)     वाग्दिक्पश्यद्भो युक्तिदण्डहरेषु इति वार्तिकम् | वार्तिकार्थः -  युक्त, दण्ड, तथा हर इत्येतेषां शब्दानाम् उत्तरपदे वाच्, दिश्, तथा पश्यत् इति शब्देभ्यः षष्ठ्याः अलुक् भवति | निमित्त-निमित्तियोः समानसङ्ख्या अस्ति इति कारणेन यथासङ्ख्यमनुदेशः समानाम् इति परिभाषासूत्रस्य साहाय्येन यथासङ्ख्यं नियमाः क्रियन्ते | अर्थात् युक्ति-शब्दात् परे वाच्-शब्दः. दण्ड-शब्दात् परे दिश्‌-शब्दः, अपि च हर-शब्दात् परे पश्यत् -शब्दः चेत्, तेभ्यः षष्ठीविभक्तेः अलुक् भवति |

 

अ)   वाचः युक्तिः = वाचोयुक्तिः |  अलौकिकविग्रहः = वाच् + ङस् + युक्ति + सु | षष्ठी (..) इति सूत्रेण षष्ठीतत्पुरुषसमासः विधीयते | 

 

वाच् + ङस् + युक्ति + सु समासस्य प्रातिपदिकसंज्ञा भवति कृत्तद्धितसमासाश्च (१.२.४६) इत्यनेन सूत्रेण | इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति स्म सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन | परन्तु वाग्दिक्पश्यद्भो युक्तिदण्डहरेषु इति वार्तिकेन युक्ति इति उत्तरपदे परे वाचः इति पूर्वपदात् षष्ठ्याः अलुक् भवति | वाच् + ङस् + युक्ति इत्यत्र वाच् इत्यस्य षष्ठ्याः लुक् न भवति , युक्ति इत्यस्य विभक्तेः लुक् भवति | अतः वाच् + ङस् + युक्ति वाच् + अस् + युक्ति वाचस् + युक्ति ससजुषो रुः (८.२.६६) इत्यनेन पदान्ते सकारस्य  स्थाने रु-आदेशो भवति |


वाचरु + युक्ति इति भवति हशि च (६.१.११४) इत्यनेन प्लुतभिन्न-ह्रस्व-अकारोत्तरवर्तिनः रु-सम्बद्ध-रेफस्य स्थाने उकारादेशो भवति हशि च वाच + + युक्ति गुणसन्धिं कृत्वा वाचो + युक्ति वाचोयुक्ति इति प्रातिपदिकं सिद्धम् |

 

तस्मात् सुबुत्पत्तिः भूत्वा वाचोयुक्ति + सु इति भवति | परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.६) इत्यनेन द्वन्द्वस्य तत्पुरुषस्य च परस्य यल्लिङ्गं तत् भवति | युक्ति इति शब्दः स्त्रीलिङ्गे अस्ति इति कृत्वा समासः स्त्रीलिङ्गे भवति | वाचोयुक्ति + सु रुत्वविसर्गौ कृत्वा वाचोयुक्तिः इति समासः सिद्ध्यति |

 

 

ससजुषो रुः (८.२.६६) = पदान्ते सकारस्य च सजुष्‌-शब्दस्य षकारस्य च स्थाने रु-आदेशो भवति | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन न केवलं यत्‌ पदं सकारः अस्ति, अपि तु यस्य पदस्य अन्ते सकारः अस्ति | अलोऽन्त्यस्य (१.१.५२) इत्यनेन पदान्तस्य वर्णस्य स्थाने रु-आदेशः न तु पूर्णपदस्य | सश्च सजुश्च ससजुषौ, इतरेतरद्वन्द्वः, तयोः ससजुषोः | ससजुषोः षष्ठ्यन्तं, रुः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— ससजुषोः पदस्य रुः |

 

हशि च (६.१.११४) = प्लुतभिन्न-ह्रस्व-अकारोत्तरवर्तिनः रु-सम्बद्ध-रेफस्य स्थाने उकारादेशो भवति हशि च | हशि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | अतो रोरप्लुतादप्लुते (६.१.११३) इत्यस्मात्‌ अप्लुतात्‌, अतः, रोः इत्येषाम्‌ अनुवृत्तिः | ऋत उत्‌ (६.१.१११) इत्यस्मात्‌ उत्‌ इत्यस्य अनुवृत्तिः | संहितायाम्‌ (६.१.७१) इत्यस्य अधिकारः अनुवृत्ति-सहितसूत्रं— | अप्लुतात्‌ अतः रोः उत्‌ हशि च संहितायाम्‌ |

 

 

आ)  दिशो दण्डः = दिशोदण्डः | आकाशीयताराणां दण्डाकारः इति स्थितिः | अलौकिकविग्रहः = दिश् + ङस् + दण्ड + सु | अत्र षष्ठी (..) इति सूत्रेण षष्ठीतत्पुरुषसमासः विधीयते | 

 

दिश् + ङस् + दण्ड + सु समासस्य प्रातिपदिकसंज्ञा भवति कृत्तद्धितसमासाश्च (१.२.४६) इत्यनेन सूत्रेण | इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति स्म सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन | परन्तु वाग्दिक्पश्यद्भो युक्तिदण्डहरेषु इति वार्तिकेन दण्ड इति उत्तरपदे परे दिशः इति पूर्वपदात् षष्ठ्याः अलुक् भवति | दिश् + ङस् + दण्ड + सु  इत्यत्र दिशः इत्यस्य षष्ठ्याः लुक् न भवति , दण्ड इत्यस्य विभक्तेः लुक् भवति | अतः दिश् + ङस् + दण्डदिश् + अस् + दण्ड   दिशस् + दण्ड ससजुषो रुः (८.२.६६) इत्यनेन पदान्ते सकारस्य  स्थाने रु-आदेशो भवति |

दिशरु + दण्ड इति भवति हशि च (६.१.११४) इत्यनेन प्लुतभिन्न-ह्रस्व-अकारोत्तरवर्तिनः रु-सम्बद्ध-रेफस्य स्थाने उकारादेशो भवति हशि च दिश+ + दण्ड गुणसन्धिं कृत्वा दिशो + दण्ड दिशोदण्ड इति प्रातिपदिकं सिद्धम् |

 

 

तस्मात् सुबुत्पत्तिः भूत्वा दिशोदण्ड + सु इति भवति | परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.६) इत्यनेन द्वन्द्वस्य तत्पुरुषस्य च परस्य यल्लिङ्गं तत् भवति | दण्ड इति शब्दः पुंलिङ्गे अस्ति इति कृत्वा समासः पुंलिङ्गे भवति | दिशोदण्ड + सु रुत्वविसर्गौ कृत्वा दिशोदण्डः इति समासः सिद्ध्यति |

 

इ)     पश्यतः हरः = पश्यतोहरः | पश्यतः एव कोपि चौर्यं करोति, सुवर्णकारः | अलौकिकविग्रहः = पश्यत् + ङस् + हर + सु | अत्र षष्ठी (..) इति सूत्रेण षष्ठीतत्पुरुषसमासः विधीयते |  दृश्- धातोः शत्रन्तप्रातिपदिकम् पश्यत् इति | पश्यत् इति प्रातिपदिकस्य षष्ठ्यन्तं रूपं पश्यतः इति |

 

पश्यत् + ङस् + हर + सुसमासस्य प्रातिपदिकसंज्ञा भवति कृत्तद्धितसमासाश्च (१.२.४६) इत्यनेन सूत्रेण | इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति स्म सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन | परन्तु वाग्दिक्पश्यद्भो युक्तिदण्डहरेषु इति वार्तिकेन हर इति उत्तरपदे परे पश्यतः इति पूर्वपदात् षष्ठ्याः अलुक् भवति | पश्यत् + ङस् + हर + सु  इत्यत्र पश्यतः इत्यस्य षष्ठ्याः लुक् न भवति , हर इत्यस्य विभक्तेः लुक् भवति | अतः पश्यत् + ङस् + हर +पश्यत् + अस् + हर   पश्यतस्  + हर ससजुषो रुः (८.२.६६) इत्यनेन पदान्ते सकारस्य  स्थाने रु-आदेशो भवति |

पश्यतरु + हर इति भवति हशि च (६.१.११४) इत्यनेन प्लुतभिन्न-ह्रस्व-अकारोत्तरवर्तिनः रु-सम्बद्ध-रेफस्य स्थाने उकारादेशो भवति हशि च पश्यत + + हर गुणसन्धिं कृत्वा पश्यतो + हर पश्यतोहर इति प्रातिपदिकं सिद्धम् |

 

तस्मात् सुबुत्पत्तिः भूत्वा पश्यतोहर + सु इति भवति | परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.६) इत्यनेन द्वन्द्वस्य तत्पुरुषस्य च परस्य यल्लिङ्गं तत् भवति | हर इति शब्दः पुंलिङ्गे अस्ति इति कृत्वा समासः पुंलिङ्गे भवति | पश्यतोहर + सु रुत्वविसर्गौ कृत्वा पश्यतोहरः इति समासः सिद्ध्यति |

 

2)      आमुष्यायाणामुष्यपुत्रिकामुष्यकुलिकेति च इति वार्तिकम् | वार्तिकार्थः - आमुष्यायण, आमुष्यपुत्रिका, आमुष्यकुलिका इत्येभ्यः शब्देभ्यः षष्ठ्याः अलुक् निपात्यते उत्तरपदे परे |

 

 

अ)   अमुष्य अपत्यम् = आमुष्यायणः | अदस्-शब्दस्य षष्ठ्यन्तं रूपम् अमुष्य इति | अमुष्य अपत्यम् इत्यस्मिन् अर्थे अदस् + ङस् इति षष्ठ्यन्त-प्रातिपदिकात् नडादिभ्यः फक् (..९९) इति सूत्रेण तद्धितीय-फक् इति प्रत्ययः विधीयते | अतः अदस् + ङस् + फक् फक् इति प्रत्यये ककारस्य इत्संज्ञा भवति हलन्त्यम् इत्यनेन, तस्य लोपः इत्यनेन ककारस्य लोपः भवति अदस् + ङस् + फ |  अग्रे  फकारस्य स्थाने आयन् इति आदेश भवति आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् (७.१.२) इत्यनेन सूत्रेण | अदस् + ङस् + फ् + अ अदस् + ङस् + आयन् + अ इति भवति | अदस् + ङस् + आयन इति भवति |

अदस् + ङस् + आयन तद्धितस्य प्रातिपदिकसंज्ञा भवति कृत्तद्धितसमासाश्च (१.२.४६) इत्यनेन सूत्रेण | इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति स्म सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन | परन्तु आमुष्यायाणामुष्यपुत्रिकामुष्यकुलिकेति च इति वार्तिकेन उत्तरपदे परे अमुष्य इति पूर्वपदात् षष्ठ्याः अलुक् निपात्यते |

 

अधुना त्यदादीनामः (..१०२) इत्यनेन त्यदादिगणस्य शब्दानां विभक्तिप्रत्यये परे अकारादेशः भवति |'त्यदादिगणः' नाम कश्चन गणः अस्ति | अस्मिन् गणे अष्ट-शब्दाः सन्ति - त्यद्, तद्, यद्, एतद्, इदम्, अदस्, एक, द्वि | एतेषाम् सर्वेषां शब्दानां विभक्तिप्रत्यये परे अङ्गस्य अन्तिमवर्णस्य स्थाने अकारादेशः भवति | अतः

अद + अ + अस् + आयन अतो गुणे (६.१.९७) इत्यनेन अपदान्तात्‌ अतः गुणे परे पूर्वपरयोः स्थाने एकः पररूपमेकादेशः स्यात्‌ दकारोत्तरवर्ती अकारः अपदान्तः अकारः, तस्मात् अकारःगुणसंज्ञकः अस्ति इति कृत्वा पूर्वपरयोः स्थाने पूर्वरूपादेशः भवति अद + अस् + आयन |

 

अद + अस् + आयन टाङसिङसामिनात्स्याः (७.१.१२) इत्यनेन सूत्रण अदन्तात् अङ्गात् परस्य टा, ङसि, ङस् च प्रत्ययानां स्थाने क्रमेण इन, आत्, स्य इत्येते आदेशाः भवन्ति | अत्र ङस् इति षष्ठ्यन्तप्रत्ययः अस्ति इति कृत्वा तस्य स्थाने स्य इति आदेशः भवति अद + स्य + आयन |

 

 अद + स्य + आयन अग्रे किति च (७.२.११८) इत्यनेन कित्-तद्धित-प्रत्यये परे अङ्गस्य आदि-स्वरस्य वृद्धिः भवति आयन इत्यत्र कित्वम् अस्ति यतोहि आयन् इति आदेशः फक् इति प्रत्ययस्य फकारस्य स्थाने जातः, अतः किति च (७.२.११८) इत्यनेन अङ्गस्य आदिमस्वरस्य वृद्धिः भवति आदस्य + आयन इति भवति |

अग्रे आद + स्य +आयन अदसोऽसेर्दादु दो मः (८.२.८०) इत्यनेन यस्य अन्ते सकारो नास्ति, एतादृशस्य अदस्‌-शब्दस्य दकारोत्तरवर्णस्य स्थाने उकारादेशः ऊकारादेशः च; दकारस्य च स्थाने मकारादेशो भवति | अर्थात् अदसः असकारान्तस्य वर्णस्य दात् परस्य उवर्णादेशो भवति, दकारस्य च मकारः| अतः  आद इति शब्दे दकारोत्तरवर्तिनः अकारस्य स्थाने उकारादेशः अपि च दकारस्य स्थाने मकारादेशः च भवति आमु + स्य + आयन इति भवति | अग्रे आदेशप्रत्यययोः (८.३.५९) इत्यनेन इण्‌-प्रत्याहारात्‌ कवर्गीयात्‌ च परे अपदान्तः प्रत्ययावयवः सकारः अस्ति चेत्‌, तस्य सकारस्य स्थाने षकारादेशो भवति | आमु इत्यत्र उकाराः इण्वर्णः अस्ति, अतः स्य इति प्रत्ययस्य अवयवरूपेण यः सकारः अस्ति, तस्य स्थाने षकारादेशः भवति, अतः  आमुष्य + आयन इति भवति |

 

आमुष्य + आयन अकः सवर्णे दीर्घः इत्यनेन सर्वणदीर्घसन्धिं कृत्वा आमुष्यायन इति भवति | अग्रे णत्वं क्रियते अट्कुप्वाङ्‌नुम्व्यवायेऽपि (८.४.२) इति सूत्रेण | अतः आमुष्यायण इति प्रातिपदिकं सिद्धियति |

तस्मात् सुबुत्पत्तिः भूत्वा आमुष्यायन + सु इति भवति | परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.६) इत्यनेन द्वन्द्वस्य तत्पुरुषस्य च परस्य यल्लिङ्गं तत् भवति | आमुष्यायन इति शब्दः पुंलिङ्गे अस्ति इति कृत्वा समासः पुंलिङ्गे भवति | आमुष्यायण + सु रुत्वविसर्गौ कृत्वा आमुष्यायणः इति समासः सिद्ध्यति |

 

 

नडादिभ्यः फक् (..९९) इति सूत्रं वदति यत् गोत्रापत्यस्य निर्देशार्थम् नडादिगणस्य शब्देभ्यः फक्-प्रत्ययः भवति |

 

आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् (७.१.२) इति सूत्रं वदति यत् प्रत्ययस्य आदिस्थितस्य फ्-ढ्-ख्-छ्-घ्- इत्येतेषाम् क्रमेण आयन्-एय्-ईन्-ईय्-इय्- आदेशाः भवन्ति इति |

 

अतो गुणे (६.१.९७) = अपदान्तात्‌ अतः गुणे परे पूर्वपरयोः स्थाने एकः पररूपमेकादेशः स्यात्‌ | गुणः इत्युक्तौ अ, , | इदं सूत्रं वृद्धिरेचि (६.१.८८), अकः सवर्णे दीर्घः (६.१.१०१) इत्यनयोः अपवादः | अतः पञ्चम्यन्तं, गुणे सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | उस्यपदान्तात्‌ (६.१.९६) इत्यस्मात्‌ अपदान्तात्‌ अपि च एङि पररूपम्‌ (६.१.९४) इत्यस्मात्‌ पररूपम्‌ इत्यनयोः अनुवृत्तिः | एकः पूर्वपरयोः (६.१.८४), संहितायाम्‌ (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितं सूत्रम्‌— अपदान्तात्‌ अतः गुणे पूर्वपरयोः एकः पररूपं संहितायाम्‌ |

 

आदेशप्रत्यययोः (८.३.५९) = इण्‌-प्रत्याहारात्‌ कवर्गीयात्‌ च परे अपदान्तः आदेशरूपी प्रत्ययावयवो वा सकारः अस्ति चेत्‌, तस्य सकारस्य स्थाने षकारादेशो भवति | आदेशः तु मूर्धन्यवर्णस्य इत्येव उक्तं, परं स्थानेऽन्तरतमः इत्यनेन ट्‌, ठ्‌, ड्‌, ढ्‌, ण्‌, ष्‌ इत्येषु मूर्धन्यवर्णेषु षकारस्य नैकट्यम्‌, अतः षकारः एव आदिष्टः भवति | नुम्‌, विसर्गः, शर्‍-प्रत्याहारस्थ-वर्णः एषु अन्यतमः मध्ये अस्ति चेदपि कार्यं भवति | इण्‌-प्रत्याहरे इमे वर्णाः अन्तर्भूताः— इ, , , , , , , , , , , , | अस्य कार्यस्य नाम षत्वविधिः | आदेशश्च प्रत्ययश्च आदेशप्रत्ययौ, तयोः आदेशप्रत्यययोः इतरेतरद्वन्द्वः | षष्ठ्यन्तम्‌ एकपदमिदं सूत्रम्‌ | सहे साडः सः (८.३.५६) इत्यस्मात्‌ सः इत्यस्य अनुवृत्तिः | नुंविसर्जनीयशर्व्यवायेऽपि (८.३.५८) इत्यस्य पूर्णा अनुवृत्तिः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम्‌ इत्यस्य अधिकारः | इण्कोः (८.३.५७), अपदान्तस्य मूर्धन्यः (८.३.५५) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌—इण्कोः आदेशप्रत्यययोः अपदान्तस्य सः मूर्धन्यः संहितायां, नुंविसर्जनीयशर्व्यवायेऽपि |

 

 

आ)   अमुष्यपुत्रस्य भावः आमुष्यपुत्रिका | तस्य पुत्रस्य स्वभावः इत्यर्थः| अमुष्य पुत्रः इति लौकिकविग्रहात् समासं कृत्वा आमुष्यायाणामुष्यपुत्रिकामुष्यकुलिकेति च इति वार्तिकेन उत्तरपदे परे अमुष्य इति पूर्वपदात् षष्ठ्याः अलुक् निपात्यते | पूर्वोक्तरीत्या कार्याणि कृत्वा आमुष्य इति रूपं निष्पद्यते | अमुष्यपुत्र इति प्रातिपदिकं निष्पद्यते | तत्पश्चात् द्वंद्वमनोज्ञादिभ्यश्च (५.१.१३३) इति सूत्रेण द्वन्द्वसमासेन निर्मितेभ्यः प्रातिपदिकेभ्यः तथा च मनोज्ञादिगणस्य शब्देभ्यः षष्ठीसमर्थेभ्यः 'भावः' तथा 'कर्म' एतयोः अर्थयोः वुञ्-प्रत्ययः भवति | अतः अमुष्यपुत्र + वुञ् इति भवति |  वुञ् इति प्रत्यये ञकारस्य इत्संज्ञा भवति , वु इति अवशिष्यते | युवोरनाकौ ( ७.१.१) इत्यनेन अङ्गात् परस्य प्रत्ययस्य आदौ विद्यमानस्य 'युँ' इत्यस्य 'अन' आदेशः, 'वुँ' इत्यस्य च 'अक' आदेशः भवति |  अमुष्यपुत्र + वु इत्यत्र वु स्थाने अक इति आदेशः भवति | अतः अमुष्यपुत्र + अक इति भवति |

 

अमुष्यपुत्र + अक तद्धितेष्वचामादेः (७.२.११७) इत्यनेन णित् , ञित्-तद्धित-प्रत्यये परे अङ्गस्य आदि-स्वरस्य वृद्धिः भवति | अक इत्यत्र प्रत्ययः ञित् इति कृत्वा अङ्गस्य आदिमस्वरस्य वृद्धिः भवति | अतः आमुष्यपुत्र + अक इति भवति |  अधुना यस्येति च (६.४.१४८) इत्यनेन भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च ईकारे परे, तद्धितप्रत्यये परे च लोपः भवति | आमुष्यपुत्र + अक इत्यत्र अक इति तद्धितप्रत्ययः इति कृत्वा भसंज्ञकस्य अङ्गस्य अकारस्य लोपः भवति आमुष्यपुत्र् + अक आमुष्यपुत्रक इति भवति |  स्त्रीत्वविवक्षायां टाप् -प्रत्ययः विधीयते प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः ( ७.३.४४) इति सूत्रेण | प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः ( ७.३.४४) इति सूत्रं वदति यत् प्रत्ययस्थात् ककारात् पूर्वस्य अकारस्य इकारादेशो भवति आपि परतः, स चेदाप् सुपः परो न भवति | अतः आमुष्यपुत्रिका इति रूपं सिद्धं भवति |

 

तस्मात् सुबुत्पत्तिः भूत्वा आमुष्यपुत्रिका + सु इति भवति | परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.६) इत्यनेन द्वन्द्वस्य तत्पुरुषस्य च परस्य यल्लिङ्गं तत् भवति | पुत्रिका इति शब्दः स्त्रीलिङ्गे अस्ति इति कृत्वा समासः स्त्रीलिङ्गे भवति | आमुष्यपुत्रिका + सु हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌ (६.१.६७) इत्यनेन हलन्तात्‌, दीर्घङ्यन्तात्‌, दीर्घाबन्तात्‌ च सु-ति-सि इत्येषाम्‌ अपृक्तसंज्ञकस्य हलः लोपः | अतः सुप्रत्ययस्य लुक् भूत्वा आमुष्यपुत्रिका इति समासः सिद्ध्यति |

 

एवमेव आमुष्यकुलिका इति समासः अपि सिद्ध्यति | कुलस्य स्वाभावः इत्यर्थः |  अमुष्य कुलम् इति लौकिकविग्रहः अस्ति |  यथापूर्वं समासं कृत्वा अमुष्यकुल इति प्रातिपदिकात् वुञ्-प्रत्ययः विधीयते , अकादेशः ,आदिमस्वरस्य वृद्धिः च भूत्वा आमुष्यकुलक इति प्रातिपदिकं सिद्ध्यति | स्त्रीत्वविवक्षायां टाप् -प्रत्ययः विधीयते प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः ( ७.३.४४) इति सूत्रेण | प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः ( ७.३.४४) इति सूत्रं वदति यत् प्रत्ययस्थात् ककारात् पूर्वस्य अकारस्य इकारादेशो भवति आपि परतः, स चेदाप् सुपः परो न भवति | अतः आमुष्यकुलिका इति प्रातिपदिकं सिद्धं भवति |

 

 

 तस्मात् सुबुत्पत्तिः भूत्वा आमुष्यकुलिका + सु इति भवति | परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.६) इत्यनेन द्वन्द्वस्य तत्पुरुषस्य च परस्य यल्लिङ्गं तत् भवति | पुत्रिका इति शब्दः स्त्रीलिङ्गे अस्ति इति कृत्वा समासः स्त्रीलिङ्गे भवति | आमुष्यपुकुलिका + सु हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌ (६.१.६७) इत्यनेन हलन्तात्‌, दीर्घङ्यन्तात्‌, दीर्घाबन्तात्‌ च सु-ति-सि इत्येषाम्‌ अपृक्तसंज्ञकस्य हलः लोपः | अतः सुप्रत्ययस्य लुक् भूत्वा आमुष्यकुलिका इति समासः सिद्ध्यति |

 

देवानाम्प्रिय इति च मूर्खे इति वार्तिकम् अस्ति | वार्तिकार्थः – मूर्खार्थे गम्यमाने देवानाम् प्रियः इत्यस्य षष्ठ्याः अलुक् निपात्यते | देवानां प्रियः नाम यः स्वस्य कर्तव्यतां विस्मृत्य देवतानां प्रसन्नता सम्पाद्यति इति कारणेन मूर्खः देवानाम्प्रियः इत्युच्यते | यः पुरुषः शाश्वतं चिरस्थायि फलं प्राप्तुं ब्रह्मचिन्तनम् अकृत्वा अल्पसुखं प्राप्तुं देवानां पूजां करोति, तस्य निःश्रेयसः अपेक्षया अभ्युदयस्य कामनां करोति इति कारणेन मूर्खः इत्युच्यते |

 

देवानां प्रियः = देवानाम्प्रियः | अलौकिकविग्रहः = देव + आम् + प्रिय + सु | अत्र षष्ठी (..) इति सूत्रेण षष्ठीतत्पुरुषसमासः विधीयते | मूर्खार्थे गम्यमाने देवानाम् प्रियः इत्यस्य षष्ठ्याः अलुक् निपात्यते देवानाम्प्रिय इति च मूर्खे इति वार्तिकेन | अतः समासप्रक्रियानन्तरं देवानाम्प्रियः इति समासः निष्पन्नः भवति |

 

शेपपुच्छलाङ्गलेषु शुनः इति वार्तिकम् अस्ति | वार्तिकार्थः – श्वन् – शब्दस्य षष्ठ्याः अलुक् भवति यदि शेप, पुच्छ, लाङ्गूल इत्येतेषु किञ्चन उत्तरपदं विद्यते | अनेन वार्तिकेन ये शब्दाः सिद्ध्यन्ते ते सर्वे प्रायः संज्ञावाचिनः भवन्ति |

 

शुनः शेपः इव शेपः अस्य  = शुनःशेपः | अर्थात् शुनकस्य जननेन्द्रियम् इव जननेन्द्रियवान् पुरुषः इति | अपि च अस्य अर्थः अजीर्गतस्य पुत्रः इति | शेप, शेपस् इति द्वौ शब्दौ स्तः | अनयोः अर्थः अस्ति लिङ्गस्य, पुरुषस्य च जननेन्द्रियम् | अलौकिकविग्रहः = श्वन् + ङस् + शेप + सु |  सप्तम्युपमानपूर्वपदस्योत्तरपदलोपश्च इति वार्तिकेन बहुव्रीहिसमासः विधीयते | शेप इति उत्तरपदे परे शुनः इत्यस्य षष्ठ्याः अलुक् भवति शेपपुच्छलाङ्गलेषु शुनः इति वार्तिकेन | समासप्रक्रियानन्तरं श्वन् + ङस् + शेप इति भवति |  अधुना श्वयुवमघोनामतद्धिते ( ६.१.१३३) इत्यनेन श्वन् , युवन्, मघवन् -एतेषाम् भसंज्ञकस्य अङ्गस्य तद्धितभिन्ने प्रत्यये परे सम्प्रसारणम् भवति | अतः ङस् इति अतद्धितप्रत्यये परे श्वन् इत्यस्य सम्प्रसारणं भवति, अतः वकारस्य स्थाने उकारादेशो भवति श् + + + न् + अस् + शेप  अधुना सम्प्रसारणाच्च (६.१.१०८) इत्यनेन सम्प्रसारणात् अनन्तरं पूर्वपरयोः एकः पूर्ववर्णादेशः भवति श् + + न् + अस् + शेप इति भवति  | शुनस् + शेप अधुना ससजुषो रुः (८.२.६६) इति सूत्रेण पदान्तसकारस्य स्थाने रु आदेशः भवति | शुनरु + शेप इति भवति |  उकारस्य इत्संज्ञा भवति उपदेशेऽजनुनासिक इत् ( १.३.२) इत्यनेन, तत्पश्चात् उकारस्य लोपः भवति तस्य लोपः (१.३.९) इत्यनेन |  शुनर् + पुत्र इति भवति |  अग्रे खरवसानयोर्विसर्जनीयः (८.३.१५) इति सूत्रेण पदान्तस्य रेफस्य स्थाने विसर्गादेशः भवति खरि परे शुनःपुत्र इति प्रातिपदिकं निष्पन्नम् |

 

तस्मात् सुबुत्पत्तिः भूत्वा शुनःपुत्र + सु इति भवति | परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.६) इत्यनेन द्वन्द्वस्य तत्पुरुषस्य च परस्य यल्लिङ्गं तत् भवति | पुत्र इति शब्दः पुंलिङ्गे अस्ति इति कृत्वा समासः पुंलिङ्गे भवति | शुनःपुत्र + सु रुत्वविसर्गौ कृत्वा शुनःपुत्रः इति समासः सिद्ध्यति |

 

 

शुनः शेपः = शुनःशेपः | यथापूर्वम् अत्रापि प्रक्रिया प्रचलति | शुनःशेपः इति हरिश्चन्द्रस्य पुत्रः अस्ति |

 

शुनः पुच्छम् इव पुच्छम् यस्य तत् = शुनःपुच्छम् |  अर्थात् शुनस्य पुच्छः इव पुच्छः यस्य सः | श्वन् + ङस् + पुच्छ + सु इति अलौकिकविग्रहः | सप्तम्युपमानपूर्वपदस्योत्तरपदलोपश्च इति वार्तिकेन बहुव्रीहिसमासः विधीयते | पुच्छ इति उत्तरपदे परे शुनः इत्यस्य षष्ठ्याः अलुक् भवति शेपपुच्छलाङ्गलेषु शुनः इति वार्तिकेन | समासप्रक्रियानन्तरं श्वन + ङस् + पुच्छ इति भवति अधुना श्वयुवमघोनामतद्धिते ( ६.१.१३३) इत्यनेन श्वन् , युवन्, मघवन् -एतेषाम् भसंज्ञकस्य अङ्गस्य तद्धितभिन्ने प्रत्यये परे सम्प्रसारणम् भवति | अतः ङस् इति अतद्धितप्रत्यये परे श्वन् इत्यस्य सम्प्रसारणं भवति, अतः वकारस्य स्थाने उकारादेशो भवति श् + + + न् + अस् + पुच्छ  अधुना सम्प्रसारणाच्च (६.१.१०८) इत्यनेन सम्प्रसारणात् अनन्तरं पूर्वपरयोः एकः पूर्ववर्णादेशः भवति श् + + न् + अस् + पुच्छ इति भवति  |  शुन + अस् + पुच्छ शुनस् + पुच्छ अधुना ससजुषो रुः (८.२.६६) इति सूत्रेण पदान्तसकारस्य स्थाने रु आदेशः भवति| शुनरु + पुच्छ इति भवति |  उकारस्य इत्संज्ञा भवति उपदेशेऽजनुनासिक इत् ( १.३.२) इत्यनेन, तत्पश्चात् उकारस्य लोपः भवति तस्य लोपः (१.३.९) इत्यनेन |  शुनर्+ पुच्छ इति भवति |  अग्रे खरवसानयोर्विसर्जनीयः (८.३.१५) इति सूत्रेण पदान्तस्य रेफस्य स्थाने विसर्गादेशः भवति खरि परे शुनः पुच्छ इति प्रातिपदिकं निष्पन्नम् |

 

तस्मात् सुबुत्पत्तिः भूत्वा शुनः पुच्छ + सु इति भवति | बहुव्रीहिसमासः अन्यपदार्थप्रधानः इति कृत्वा अन्यपदं नपुंसकलिङ्गे इति कृत्वा समासः नपुंसकलिङ्गे भवति | शुनःपुच्छ + सु अतोऽम् (७.१.२४) इत्यनेन अकारान्तात् नपुंसकात् अङ्गात्  सु-अम्- प्रत्ययोः अम् इति आदेशः भवति शुनःपुच्छ + अम् अमि पूर्वः (६.१.१०७) इत्यनेन अक् वर्णात्  अम् सम्बन्धी अच् परः चेत् पूर्वपरयोः स्थाने पूर्वरुपम् एकादेशो भवति| शुनःपुच्छम् इति समासः सिद्धः भवति |

 

 

शुनकस्य लाङ्गूलम् इव लाङ्गूलं यस्य  तत् = शुनोलाङ्गूलम् | श्वन् + ङस् + लाङ्गूल + सु इति अलौकिकविग्रहः |  सप्तम्युपमानपूर्वपदस्योत्तरपदलोपश्च इति वार्तिकेन बहुव्रीहिसमासः विधीयते | लाङ्गूल इति उत्तरपदे परे शुनः इत्यस्य षष्ठ्याः अलुक् भवति शेपपुच्छलाङ्गलेषु शुनः इति वार्तिकेन | समासप्रक्रियानन्तरं श्वन् + ङस् + लाङ्गूलम् इति भवति अधुना श्वयुवमघोनामतद्धिते ( ६.१.१३३) इत्यनेन श्वन् , युवन्, मघवन् -एतेषाम् भसंज्ञकस्य अङ्गस्य तद्धितभिन्ने प्रत्यये परे सम्प्रसारणम् भवति | अतः ङस् इति अतद्धितप्रत्यये परे श्वन् इत्यस्य सम्प्रसारणं भवति, अतः वकारस्य स्थाने उकारादेशो भवति श् + + + न् + अस् + लाङ्गूल  अधुना सम्प्रसारणाच्च (६.१.१०८) इत्यनेन सम्प्रसारणात् अनन्तरं पूर्वपरयोः एकः पूर्ववर्णादेशः भवति श् + + न् + अस् + लाङ्गूल इति भवति  |    शुन + अस् + लाङ्गूल शुनस् + लाङ्गूल अधुना ससजुषो रुः (८.२.६६) इति सूत्रेण पदान्तसकारस्य स्थाने रु आदेशः भवति| शुनरु+ लाङ्गूल इति भवति |  उकारस्य इत्संज्ञा भवति उपदेशेऽजनुनासिक इत् ( १.३.२) इत्यनेन, तत्पश्चात् उकारस्य लोपः भवति तस्य लोपः (१.३.९) इत्यनेन |  शुनर् + लाङ्गूल इति भवति|  अग्रे खरवसानयोर्विसर्जनीयः (८.३.१५) इति सूत्रेण पदान्तस्य रेफस्य स्थाने विसर्गादेशः भवति खरि परे शुनः लाङ्गूल इति प्रातिपदिकं निष्पन्नम् |

 

तस्मात् सुबुत्पत्तिः भूत्वा शुनः लाङ्गूल + सु इति भवति | बहुव्रीहिसमासः अन्यपदार्थप्रधानः इति कृत्वा अन्यपदं नपुंसकलिङ्गे इति कृत्वा समासः नपुंसकलिङ्गे भवति | शुनः लाङ्गूल + सु अतोऽम् (७.१.२४) इत्यनेन अकारान्तात् नपुंसकात् अङ्गात्  सु-अम्- प्रत्ययोः अम् इति आदेशः भवति शुनःलाङ्गूल + अम् अमि पूर्वः (६.१.१०७) इत्यनेन अक् वर्णात्  अम् सम्बन्धी अच् परः चेत् पूर्वपरयोः स्थाने पूर्वरुपम् एकादेशो भवति | शुनःलाङ्गूलम् इति समासः सिद्धः भवति |

 

 

 

दिवसश्च दासे इति वार्तिकम् अस्ति | वार्तिकार्थः – दिव् इति शब्दात् षष्ठ्याः अलुक् भवति दास इति उत्तरपदे परे |

दिवो दासः = दिवोदासः | दिव् + ङस् + दास + सु इति अलौकिकविग्रहः | अत्र षष्ठीतत्पुरुषसमासः विधीयते | समासप्रक्रियायां दिव् + ङस् + दास + सु दिवसश्च दासे इति वार्तिकेन दिव् इति शब्दात् षष्ठ्याः अलुक् भवति दास इति उत्तरपदे परे दिव् + ङस् +दास दिवस् + दास इति भवति | अधुना ससजुषो रुः (८.२.६६) इति सूत्रेण पदान्तसकारस्य स्थाने रु आदेशः भवति | दिवरु + दास इति भवति |  उकारस्य इत्संज्ञा भवति उपदेशेऽजनुनासिक इत् ( १.३.२) इत्यनेन, तत्पश्चात् उकारस्य लोपः भवति तस्य लोपः (१.३.९) इत्यनेन |  दिवर् + दास इति भवति |  अग्रे खरवसानयोर्विसर्जनीयः (८.३.१५) इति सूत्रेण पदान्तस्य रेफस्य स्थाने विसर्गादेशः भवति खरि परे हशि च( ६.१.१४४) इत्यनेन अप्लुत-ह्रस्व-अकारात् परस्य रुँ-इत्यस्य हश्-वर्णे परे उकारादेशः भवति अतः दिव + + दास आद्गुणः इत्यनेन दिवोदास इति प्रातिपदिकं निष्पन्नम् |

 

तस्मात् सुबुत्पत्तिः भूत्वा दिवोदास + सु इति भवति | परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.६) इत्यनेन द्वन्द्वस्य तत्पुरुषस्य च परस्य यल्लिङ्गं तत् भवति | दास इति शब्दः पुंलिङ्गे अस्ति इति कृत्वा समासः पुंलिङ्गे भवति | दिवोदास + सु रुत्वविसर्गौ कृत्वा दिवोदास इति समासः सिद्ध्यति |

 

 

 

२१)  पुत्रेऽन्यतरस्याम् (६.३.२२) = पुत्रशब्दे उत्तरपदे आक्रोशे गम्यमाने पूर्वपदस्य अन्यतरस्यां षष्ठ्याः अलुग् भवति | आक्रोशे नाम निन्दा इत्यर्थः | पुत्रे सप्तम्यन्तम्, अन्यतरस्यां विभक्तिप्रतिरूपकमव्ययम् | षष्ठ्या आक्रोशे (६.३.२१) इत्यस्मात् सूत्रात् षष्ठ्या इत्यस्य अनुवृत्तिः| अलुगुत्तरपदे (..) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— आक्रोशे षष्ठ्या अलुक् पुत्रे उत्तरपदे अन्यतरस्याम् |

 

दास्याः पुत्रः = दास्याः पुत्रः | अलौकिकविग्रहः = दासी + ङस् + पुत्र + सु | अत्र षष्ठी (..) इति सूत्रेण षष्ठीतत्पुरुषसमासः विधीयते | समासस्य प्रातिपदिकसंज्ञा भवति | इदानीं सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन सुप् प्रत्ययानां लोपः भवति स्म परन्तु पुत्रेऽन्यतरस्याम् (६.३.२२)  इत्यनेन पुत्रशब्दे उत्तरपदे आक्रोशे गम्यमाने पूर्वपदस्य अन्यतरस्यां षष्ठ्याः अलुग् भवति |

 

यस्मिन् पक्षे पूर्वपदस्य विकल्पेन षष्ठ्याः अलुग् भवति

 

केवलं पुत्र + सु इत्यत्र सुब्लुक् भवति परन्तु दासी + ङस् इत्यत्र सुब्लुक् न भवति | दासी + ङस् इति उपसर्जनसंज्ञकस्य पूर्वनिपातः भवति दासी + अस् + पुत्र दासी इति शब्दः स्त्रीलिङ्गे अस्ति अतः तस्य नदीसंज्ञा अस्ति , अतः आण्णद्या (७.३.११२) इत्यनेन नदीसंज्ञकात् अङ्गात् परस्य ङित्-प्रत्ययस्य आट्-आगमः भवति इति कृत्वा दासी + आट् + अस् + पुत्र इति भवति आडागमः टित् इति कृत्वा आद्यन्तौ टकितौ इत्यनेन प्रत्ययस्य आदौ आयाति| आडागमे टकारस्य इत्संज्ञा भूत्वा तस्य लोपः आ इत्येव अवशिष्यते दासी + + अस् + पुत्र अधुना अकः सवर्णे दीर्घः इत्यनेन सवर्णदीर्घसन्धिं कृत्वा दासी + आस् + पुत्र इति भवति |

दासी + आस् + पुत्र इको यणचि इत्यनेन यण्सन्धिः भवति | दास्यास् + पुत्र अधुना ससजुषो रुः (८.२.६६) इति सूत्रेण पदान्तसकारस्य स्थाने रु आदेशः भवति | दास्यारु + पुत्र इति भवति |  उकारस्य इत्संज्ञा भवति उपदेशेऽजनुनासिक इत् ( १.३.२) इत्यनेन, तत्पश्चात् उकारस्य लोपः भवति तस्य लोपः (१.३.९) इत्यनेन |  दास्यार् + पुत्र इति भवति |  अग्रे खरवसानयोर्विसर्जनीयः (८.३.१५) इति सूत्रेण पदान्तस्य रेफस्य स्थाने विसर्गादेशः भवति खरि परे दास्याःपुत्र इति प्रातिपदिकं निष्पन्नम् |

 

तस्मात् सुबुत्पत्तिः भूत्वा दास्याःपुत्र + सु इति भवति | परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.६) इत्यनेन द्वन्द्वस्य तत्पुरुषस्य च परस्य यल्लिङ्गं तत् भवति | पुत्र इति शब्दः पुंलिङ्गे अस्ति इति कृत्वा समासः पुंलिङ्गे भवति | दास्याःपुत्र + सु रुत्वविसर्गौ कृत्वा दास्याःपुत्रः इति समासः सिद्ध्यति |

 

यस्मिन् यस्मिन् पक्षे पूर्वपदस्य विकल्पेन षष्ठ्याः अलुग्  भवति

दास्याः पुत्रः = दास्याः पुत्रः | अलौकिकविग्रहः = दासी + ङस् + पुत्र + सु | अत्र षष्ठी (..) इति सूत्रेण षष्ठीतत्पुरुषसमासः विधीयते | समासस्य प्रातिपदिकसंज्ञा भवति | इदानीं सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन सुप् प्रत्ययानां लोपः भवति | दासी + पुत्र दासीपुत्र इति प्रातिपदिकं सिद्धम् |

 

तस्मात् सुबुत्पत्तिः भूत्वा दासीपुत्र + सु इति भवति | परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.६) इत्यनेन द्वन्द्वस्य तत्पुरुषस्य च परस्य यल्लिङ्गं तत् भवति | पुत्र इति शब्दः पुंलिङ्गे अस्ति इति कृत्वा समासः पुंलिङ्गे भवति | दासीपुत्र + सु रुत्वविसर्गौ कृत्वा दासीपुत्रः इति समासः सिद्ध्यति |

 

आहत्य दास्याःपुत्रः, दासीपुत्रः इति समासौ सिद्धौ | केवलम् आक्रोशे एव पूर्वपदस्य षष्ठ्याः अलुक् भवति पुत्रशब्दे परे नान्यन्त्र |

 

ब्राह्मण्याः पुत्रः = ब्राह्मणीपुत्रः | अयं समासः निन्दार्थे नास्ति इत्यतः पूर्वस्य षष्ठ्याः अलुक् न भवति पुत्रशब्दे परे | अतः

ब्राह्मणीपुत्रः इत्येकमेव रूपम् |

 

२२) ऋतो विद्यायोनिसम्बन्धेभ्यः (..२३) = ऋकारान्तेभ्यो विद्यसम्बन्धवचिभ्यो योनिसम्बन्धवाचिभ्यश्च उत्तरस्याः षष्ठ्या अलुग् भवति| विद्यासम्बन्धवाचिनः, योनिसम्बन्धवाचिनः ( जननसम्बन्धवाचिनः), ह्रस्व-ऋकारान्तात् शब्दात् षष्ठीविभक्तेः अलुक् भवति उत्तरपदे परे |  विद्या च योनिश्च तयोरितरेतरयोगद्वन्द्वः विद्यायोनी, तयोः सम्बन्धः, विद्यायोनिसम्बन्धास्तेभ्यो विद्यायोनिसम्बन्धेभ्यः | ऋतः इत्यत्र तदन्तविधिः भवति, अतः ऋदन्तात् इति |  ऋतः पञ्चम्यन्तं, विद्यायोनिसम्बन्धेभ्यः पञ्चम्यन्तम् | षष्ठ्या आक्रोशे (६.३.२१) इत्यस्मात् सूत्रात् षष्ठ्या इत्यस्य अनुवृत्तिः| अलुगुत्तरपदे (..) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— ऋतः विद्यायोनिसम्बन्धेभ्यः षष्ठ्या अलुगुत्तरपदे |

 

 

होतुः अन्तेवासी = होतुरन्तेवासी |

अलौकिकविग्रहः = होतृ + ङस् + अन्तवासिन् + सु | अत्र षष्ठी (..) इति सूत्रेण षष्ठीतत्पुरुषसमासः विधीयते | समासस्य प्रातिपदिकसंज्ञा भवति| इदानीं सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन सुप् प्रत्ययानां लोपः भवति स्म परन्तु ऋतो विद्यायोनिसम्बन्धेभ्यः (..२३) इत्यनेन ऋकारान्तेभ्यो विद्यसम्बन्धवचिभ्यो उत्तरस्याः षष्ठ्या अलुग् भवति|

 

केवलं अन्तेवासिन् + सु इत्यत्र सुब्लुक् भवति परन्तु होतृ + ङस् इत्यत्र सुब्लुक् न भवति | होतृ + ङस् इति उपसर्जनसंज्ञकस्य पूर्वनिपातः भवति होतृ + अस् + अन्तेवासिन् अधुना ऋत उत् (..१११)  इति सूत्रेण ऋवर्णात् /ऌवर्णात् परस्य ङसिँ/ङस्-प्रत्यययोः अकारे परे पूर्वपरयोः एकः उकारादेशः भवति | अतः होत् + उ + स् इति भवति उरण रपरः( १.१.५१) इत्यनेन ऋकारस्य स्थाने यदा अण् इति आदेशः भवति, सः अण् सदा रपरः भवति होत् + उर् + स् होतुर्स् इति भवति | अग्रे होतुर्स् रात्सस्य (८.२.२४) इत्यनेन पदस्य अन्ते संयोगोऽस्ति चेत्, संयोगस्य प्रथमसदस्यः रेफः चेत्‌, रेफात्‌ परस्य सकारस्य एव लोपो भवति, अन्यवर्णस्य न अतः होतुर्स् इति पदम् अस्ति, पदान्ते रेफसकारयोः संयोगः इति कृत्वा रेफात् परस्य सकारस्य लोपः भवति होतुर् इति भवति   खरवसानयोर्विसर्जनीयः ( ८.३.१५) इत्यनेन खरि परे एव रेफस्य स्थाने विसर्गादेशः, अत्र अन्तेवासी इत्यस्य अकारः परः अस्ति इति कृत्वा विसर्गः न भवति   होतुर् + अन्तेवासिन् होतुरन्तेवासिन् इति प्रातिपदिकं सिद्धम्  |

 

तस्मात् सुबुत्पत्तिः भूत्वा होतुरन्तेवासिन् + सु इति भवति | परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.६) इत्यनेन द्वन्द्वस्य तत्पुरुषस्य च परस्य यल्लिङ्गं तत् भवति | अन्तेवासिन् इति शब्दः पुंलिङ्गे अस्ति इति कृत्वा समासः पुंलिङ्गे भवति | होतुरन्तेवासिन् + सु सर्वनामस्थाने चासम्बुद्धौ (६.४.८) इत्यनेन नः अङ्गस्य उपधायाः दीर्घः सर्वनामस्थाने असम्बुद्धौ च   होतुरन्तेवासीन् + सु   हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌ (६.१.६७) इति सूत्रेण हलन्तात् प्रातिपदिकात् सु इति प्रत्ययस्य लोपः भवति  होतुरन्तेवासीन्  अग्रे न लोपः प्रातिपदिकान्तस्य (८.२.७) इति सूत्रेण प्रातिपदिकसंज्ञक-पदस्य अन्ते विद्यमानस्य नकारस्य लोपः होतुरन्तेवासी इति समासः सिद्धः भवति |

 

एवमेव –

पितुः अन्तेवासी = पितुरन्तेवासी |

पितुः पुत्रः = पितुःपुत्रः |

 

योनिसम्बन्धविषयः –

 

होतुः पुत्रः = होतुःपुत्रः | प्रक्रिया यथापूर्वम् |

 

विद्यायोनिसम्बदेभ्यस्तत्पूर्वोत्तरपदग्रहणम् इति वार्तिकम् अस्ति | वार्तिकार्थः – पूर्वपदम् उत्तरपदं च विद्यासम्बन्धवाची अथवा योनिसम्बन्धवाची चेदेव पूर्वपदस्य षष्ठ्याः अलुक् भवति | अर्थात् प्रकृतसूत्रे पूर्वोत्तरसम्बन्धग्रहणम् आवश्यकम् | पूर्वपदे, उत्तरपदे सामञ्जस्य स्थापनार्थम् इदं वार्तिकम् उक्तम् |

 

होतुः धनम् = होतृधनम् | अलौकिकविग्रहः = होतृ + ङस् + धन + सु |

विद्यायोनिसम्बदेभ्यस्तत्पूर्वोत्तरपदग्रहणम् इति वार्तिकेन पूर्वपदस्य षष्ठ्याः अलुक् न भवति यतोहि होतुः  धनम् इत्यत्र होतुः इति पदं विद्यासम्बन्धवाचि अस्ति किन्तु धन-शब्दः विद्यासम्बन्धवाची अपि नास्ति, योनिसम्बन्धवाची अपि नास्ति | समासप्रक्रियायां समासस्य प्रातिपदिकसंज्ञा भवति, पूर्वोत्तरपदयोः सुब्लुक् भवति | स्वादिकार्यानन्तरं होतृधनम् इति समासः सिद्धः|

 

 

 

२३)  विभाषा स्वसृपत्योः (..२४) = ह्रस्व-ऋकारान्तात् शब्दात् षष्ठीविभक्तेः विकल्पेन अलुक् भवति स्वसृ, पति च शब्दयोः परयोः | स्वसृ, पति इत्येतयोः उत्तरपदयोः ऋकारान्तेभ्यः विद्यायोनिसम्बन्धवाचिभ्यः विभाषा लुग् भवति | स्वसा च पतिश्च तयोरितरेतरयोगद्वन्द्वः स्वसृपती, तयोः स्वसृपत्योः | विभाषा प्रथमान्तं, स्वसृपत्योः सप्तमीद्विवचनान्तम् | षष्ठ्या आक्रोशे ( ६.३.२१) इत्यस्मात् सूत्रात् षष्ठ्या इत्यस्य अनुवृत्तिः | ऋतो विद्यायोनिसम्बन्धेभ्यः ( ६.३.२३) इत्यस्मात् सूत्रात् ऋतः इत्यस्य अनुवृत्तिः | अलुगुत्तरपदे (..) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— ऋतः षष्ठ्या अलुक् स्वसृपत्योः उत्तरपदयोः |

 

ऋतो विद्यायोनिसम्बन्धेभ्यः (..२३) इति पूर्वसूत्रेण नित्यरूपेण षष्ठ्याः अलुक् प्राप्तः आसीत्, तस्य अनेन प्रकृतसूत्रेण विकल्पेन षष्ठ्याः अलुक् क्रियते |

 

मातुः पितुर्भ्यामन्यतरस्याम् ( ८.३.८५) = समासे मातुः पितुः इत्येताभ्यां परस्य स्वसृशब्दस्य सकारस्य विकल्पेन षकारादेशः भवति यदा मातुः , पितु च शब्दस्य अन्ते इण् वर्णः, कवर्गीयवर्णः अस्ति , नुं , विसर्गः, शर्-प्रत्याहरस्थवर्णः मध्ये चेदपि |  मातुः पितुः इत्येताभ्याम् उत्तरस्य स्वसृशब्दस्य अन्यतरस्यां मूर्धन्यादेशो भवति समासे| आदेशः तु मूर्धन्यवर्णस्य इत्येव उक्तं, परं स्थानेऽन्तरतमः इत्यनेन ट्‌, ठ्‌, ड्‌, ढ्‌, ण्‌, ष्‌ इत्येषु मूर्धन्यवर्णेषु षकारस्य नैकट्यम्‌, अतः षकारः एव आदिष्टः भवति | नुम्‌, विसर्गः, शर्‍-प्रत्याहारस्थ-वर्णः एषु अन्यतमः मध्ये अस्ति चेदपि कार्यं भवति | इण्‌-प्रत्याहरे इमे वर्णाः अन्तर्भूताः— इ, , , , , , , , , , , , | अस्य कार्यस्य नाम षत्वविधिः | मातुश्च पितुश्च तयोरितरेतरयोगद्वन्द्वः, मातुःपितरौ, ताभ्यां मातुः पितुर्भ्याम् | मातुःपितुर्भ्यां पञ्चम्यन्तम्, अन्यतरस्यां सप्तमीप्रतिरूपकमव्ययम्| मातृपितृभ्यां स्वस्वा ( ८.३.८४) इत्यस्मात् सूत्रात् स्वसा इत्यस्य विभक्तिपरिणां कृत्वा स्वसुः इत्यस्य अनुवृत्तिः |  सहे साडः सः ( ८.३.५६) इत्यस्मात् सः इत्यस्य अनुवृत्तिः | अपदान्तस्य मूर्धन्यः ( ८.३.५५), इण्कोः ( ८.३.५७) इत्यनयोः अधिकारः | नुम्विसर्जनीयशर्व्यवायेऽपि ( ८.३.५८) इत्यस्य सम्पूर्णतया अनुवृत्तिः | समासेऽङ्गुले सङ्गः( ८.३.८०) इत्यस्मात् सूत्रात् समासे इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— समासे मातुः पितुर्भ्याम् स्वसुः इण्कोः नुम्विसर्जनीयशर्व्यवायेऽपि सः अपदान्तस्य मूर्धन्यः  अन्यतरस्याम् |

 

आदेः परस्य (१.१.५४)इति परिभाषासूत्रस्य साहाय्येन परस्य स्थाने यत्‌ कार्यं विधीयते, तत्‌ आदिमस्य अलः एव स्थाने भवति | अतः स्वसृशब्दस्य आदिमसकारस्य स्थाने षकारादेशः भवति | समासे एव प्रकृतसूत्रस्य प्रवृत्तिः अन्यथा नास्ति |

 

यस्मिन् पक्षे विभाषा स्वसृपत्योः (..२४) इत्यनेन मातृ, पितृ शब्दाभ्यां सु षष्ठीविभक्तेः अलुक् भवति, तत्र मातुः पितुर्भ्यामन्यतरस्याम् ( ८.३.८५) इति सूत्रेण स्वसृशब्दस्य सकारस्य षत्वं विकल्पेन भवति | यस्मिन् पक्षे विभाषा स्वसृपत्योः (..२४) इत्यनेन मातृ, पितृ शब्दाभ्यां सुब्लुक् भवति, तस्मिन् पक्षे मातृपितृभ्यां स्वसा (..८४) इति सूत्रेण षत्वं भवति, तस्य विवरणम् अग्रे दीयते |

 

 

मातुः स्वसा = मातुःष्वसा, मातुःस्वसा| अलौकिकविग्रहः = मातृ + ङस् + स्वसृ + सु | अत्र षष्ठी (..) इति सूत्रेण षष्ठीतत्पुरुषसमासः विधीयते | समासस्य प्रातिपदिकसंज्ञा भवति | इदानीं सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन सुप् प्रत्ययानां लोपः भवति स्म परन्तु विभाषा स्वसृपत्योः (..२४) इत्यनेन ह्रस्व-ऋकारान्तात् शब्दात् षष्ठीविभक्तेः विकल्पेन अलुक् भवति स्वसृ, पति च शब्दयोः परयोः |

 

 

यस्मिन् पक्षे विभाषा स्वसृपत्योः (..२४) इत्यनेन मातृ, पितृ शब्दाभ्यां सु षष्ठीविभक्तेः अलुक् भवति, तत्र मातुः पितुर्भ्यामन्यतरस्याम् (..८५) इति सूत्रेण स्वसृशब्दस्य सकारस्य षत्वं भवति विकल्पेन, तस्य प्रक्रियां पश्याम: -

 

 केवलं स्वसृ + सु इत्यत्र सुब्लुक् भवति परन्तु मातृ + ङस् इत्यत्र सुब्लुक् न भवति | मातृ + ङस् इति उपसर्जनसंज्ञकस्य पूर्वनिपातः भवति मातृ + अस् + स्वसृ अधुना ऋत उत् (..१११)  इति सूत्रेण ऋवर्णात् /ऌवर्णात् परस्य ङसिँ/ङस्-प्रत्यययोः अकारे परे पूर्वपरयोः एकः उकारादेशः भवति | अतः मात् + उ + स् इति भवति उरण रपरः( १.१.५१) इत्यनेन ऋकारस्य स्थाने यदा अण् इति आदेशः भवति, सः अण् सदा रपरः भवति मात् + उर् + स् मातुर्स् इति भवति | अग्रे मातुर्स् रात्सस्य (८.२.२४) इत्यनेन पदस्य अन्ते संयोगोऽस्ति चेत्, संयोगस्य प्रथमसदस्यः रेफः चेत्‌, रेफात्‌ परस्य सकारस्य एव लोपो भवति, अन्यवर्णस्य न अतः मातुर्स् इति पदम् अस्ति, पदान्ते रेफसकारयोः संयोगः इति कृत्वा रेफात् परस्य सकारस्य लोपः भवति मातुर् इति भवति   खरवसानयोर्विसर्जनीयः ( ८.३.१५) इत्यनेन खरि परे रेफस्य स्थाने विसर्गादेशः मातुः इति भवति |

 

मातुः + स्वसृ →  मातुः पितुर्भ्यामन्यतरस्याम् ( ८.३.८५) इत्यनेन समासे मातुः पितुः इत्येताभ्यां परस्य स्वसृशब्दस्य सकारस्य विकल्पेन षकारादेशः भवति यदा मातुः , पितु च शब्दस्य अन्ते इण् वर्णः, कवर्गीयवर्णः अस्ति , नुं , विसर्गः, शर्-प्रत्याहरस्थवर्णः मध्ये चेदपि  मातुःस्वसृ  इत्यत्र मातु इत्यत्र उकारः इण्वर्णः अस्ति मध्ये विसर्गस्य व्यधाने चेदपि स्वसृ इत्यस्य आदिमसकारस्य स्थाने षकारादेशः भवति विकल्पेन  | अतः मातुःष्वसृ इति प्रातिपदिकं सिद्धम् | तस्मात् सुबुत्पत्तिः भूत्वा मातुःष्वसृ + सु इति भवति | परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.६) इत्यनेन द्वन्द्वस्य तत्पुरुषस्य च परस्य यल्लिङ्गं तत् भवति | स्वसा इति शब्दः स्त्रीलिङ्गे अस्ति इति कृत्वा समासः स्त्रीलिङ्गे भवति | मातुःष्वसृ + सु ऋदुशनस्पुरुदंसोऽनेहसां च ( ७.१.१४) इत्यनेन ऋदन्तशब्दानां, तथा उशनस्/पुरुदंसस्/अनेहस्-एतेषां शब्दानां असम्बुद्धौ सुँ-प्रत्यये परे अनङ् आदेशः भवति | मातुःष्वस् + अनङ् + सु  अनङ् इति आदेशः ङित् इति कृत्वा अन्तादेशः भवति, अनङ् इत्यत्र ङकारस्य, नकारोत्तरवर्ती अकारस्य इत्संज्ञा भूत्वा लोपः भवति |

 

मातुःष्वसन् + स् अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम् ( ६.४.११) इत्यनेन तृन्-प्रत्ययान्तशब्दाः, तृच्-प्रत्ययान्तशब्दाः, तथा अप्, स्वसृ, नप्तृ, नेष्टृ, त्वष्टृ, क्षत्तृ, होतृ, पोतृ, तथा प्रशातृ - एतेषामङ्गस्य उपधायाः असम्बुद्धिवाचके सर्वनामस्थानपरे दीर्घः भवति मातुःष्वसान् + स्    हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌ (६.१.६७) इति सूत्रेण हलन्तात् प्रातिपदिकात् सु इति प्रत्ययस्य लोपः भवति  मातुःष्वसान्  अग्रे न लोपः प्रातिपदिकान्तस्य (८.२.७) इति सूत्रेण प्रातिपदिकसंज्ञक-पदस्य अन्ते विद्यमानस्य नकारस्य लोपः मातुःष्वसा इति समासः सिद्धः भवति |

 

 

यस्मिन् पक्षे मातुः पितुर्भ्यामन्यतरस्याम् ( ८.३.८५) इत्यनेन षत्वं न भवति

मातुःस्वसृ 'मातुः पितुर्भ्यामन्यतरस्याम् (८.३.८५) इति सूत्रस्य कार्यं विकल्पेन भवति इत्यतः यस्मिन् पक्षे अस्य कार्यं न भवति तस्मिन् पक्षे स्वसृ इत्यस्य आदिमसकारस्य स्थाने षत्वं न भवति अतः मातुःस्वसृ इति प्रातिपदिकं सिद्धम् | तस्मात् सुबुत्पत्तिः भूत्वा मातुःस्वसृ + सु इति भवति | परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.६) इत्यनेन द्वन्द्वस्य तत्पुरुषस्य च परस्य यल्लिङ्गं तत् भवति | स्वसा इति शब्दः स्त्रीलिङ्गे अस्ति इति कृत्वा समासः स्त्रीलिङ्गे भवति |  मातुःस्वसृ + सु ऋदुशनस्पुरुदंसोऽनेहसां च ( ७.१.१४) इत्यनेन ऋदन्तशब्दानां, तथा उशनस्/पुरुदंसस्/अनेहस्-एतेषां शब्दानां असम्बुद्धौ सुँ-प्रत्यये परे अनङ् आदेशः भवति | मातुःस्वसृ + अनङ् + सु  अनङ् इति आदेशः ङित् इति कृत्वा अन्तादेशः भवति, अनङ् इत्यत्र ङकारस्य, नकारोत्तरवर्ती अकारस्य इत्संज्ञा भूत्वा लोपः भवति |

 

मातुःस्वसन् + स् अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम् ( ६.४.११) इत्यनेन तृन्-प्रत्ययान्तशब्दाः, तृच्-प्रत्ययान्तशब्दाः, तथा अप्, स्वसृ, नप्तृ, नेष्टृ, त्वष्टृ, क्षत्तृ, होतृ, पोतृ, तथा प्रशातृ - एतेषामङ्गस्य उपधायाः असम्बुद्धिवाचके सर्वनामस्थानपरे दीर्घः भवति मातुःस्वसान् + स्    हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌ (६.१.६७) इति सूत्रेण हलन्तात् प्रातिपदिकात् सु इति प्रत्ययस्य लोपः भवति  मातुःस्वसान्  अग्रे न लोपः प्रातिपदिकान्तस्य (८.२.७) इति सूत्रेण प्रातिपदिकसंज्ञक-पदस्य अन्ते विद्यमानस्य नकारस्य लोपः मातुःस्वसा इति समासः सिद्धः भवति |

 

 

एवमेव –

 

पितुः स्वसा = पितुःष्वसा / पितुःस्वसा |

 

 

 

 

आदेः परस्य (१.१.५४) = परस्य स्थाने यत्‌ कार्यं विधीयते, तत्‌ आदिमस्य अलः एव स्थाने भवति | पञ्चमीविभक्तौ यत्‌ कार्यं निर्दिष्टं, तत्‌ अग्रिमशब्दस्वरूपस्य आदिमवर्णस्य एव स्थाने न तु सम्पूर्णशब्दस्वरूपस्य | अलोऽन्त्यस्य (१.१.५२) इत्यस्य बाधकसूत्रम्‌ | आदेः षष्ठ्यन्तं, परस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | स्थानेऽन्तरतमः (१.१.५०) इत्यस्मात्‌ स्थाने इत्यस्य अनुवृत्तिः | अलोऽन्त्यस्य (१.१.५२) इत्यस्मात्‌ अलः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— परस्य आदेः अलः स्थाने |

 

रात्सस्य (८.२.२४) = यस्य पदस्य अन्ते संयोगोऽस्ति, संयोगस्य प्रथमसदस्यः रेफः चेत्‌, रेफात्‌ परस्य सकारस्य एव लोपो भवति, अन्यवर्णस्य न | रात्‌ पञ्चम्यन्तं, सस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | संयोगान्तस्य लोपः (८.२.२३) इति सूत्रस्य पूर्णतया अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— रात्‌ संयोगान्तस्य पदस्य सस्य लोपः |

 

 

यस्मिन् पक्षे विभाषा स्वसृपत्योः (..२४) इत्यनेन मातृ, पितृ शब्दाभ्यां सुब्लुक् भवति, तस्मिन् पक्षे मातृपितृभ्यां स्वसा (..८४) इति सूत्रेण षत्वं भवति –

 

मातृपितृभ्यां स्वसा ( ८.३.८४) = समासे मातृ पितृ इत्येताभ्यां परस्य स्वसृशब्दस्य सकारस्य विकल्पेन षकारादेशः भवति यदा मातुः , पितु च शब्दस्य अन्ते इण् वर्णः, कवर्गीयवर्णः अस्ति , नुं , विसर्गः, शर्-प्रत्याहरस्थवर्णः मध्ये चेदपि |  मातुः पितुः इत्येताभ्याम् उत्तरस्य स्वसृशब्दस्य मूर्धन्यादेशो भवति समासे | मातुः पितुः इत्येताभ्याम् उत्तरस्य स्वसृशब्दस्य अन्यतरस्यां मूर्धन्यादेशो भवति समासे | आदेशः तु मूर्धन्यवर्णस्य इत्येव उक्तं, परं स्थानेऽन्तरतमः इत्यनेन ट्‌, ठ्‌, ड्‌, ढ्‌, ण्‌, ष्‌ इत्येषु मूर्धन्यवर्णेषु षकारस्य नैकट्यम्‌, अतः षकारः एव आदिष्टः भवति | नुम्‌, विसर्गः, शर्‍-प्रत्याहारस्थ-वर्णः एषु अन्यतमः मध्ये अस्ति चेदपि कार्यं भवति | इण्‌-प्रत्याहरे इमे वर्णाः अन्तर्भूताः— इ, , , , , , , , , , , , | अस्य कार्यस्य नाम षत्वविधिः | माता च पिता च मातृपितरौ ताभ्यां मातृपितृभ्याम्| मातृपितृभ्यां पञ्चम्यन्तं, स्वसा प्रथमान्तम्| सहे साडः सः ( ८.३.५६) इत्यस्मात् सः इत्यस्य अनुवृत्तिः | अपदान्तस्य मूर्धन्यः ( ८.३.५५), इण्कोः ( ८.३.५७) इत्यनयोः अधिकारः | नुम्विसर्जनीयशर्व्यवायेऽपि ( ८.३.५८) इत्यस्य सम्पूर्णतया अनुवृत्तिः | समासेऽङ्गुले सङ्गः( ८.३.८०) इत्यस्मात् सूत्रात् समासे इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— समासे मातुः पितुर्भ्याम् स्वसुः इण्कोः नुम्विसर्जनीयशर्व्यवायेऽपि सः अपदान्तस्य मूर्धन्यः  |

 

मातुः स्वसा = मातृष्वसा |  

 

मातुः स्वसा = मातृष्वसा | अलौकिकविग्रहः = मातृ + ङस् + स्वसृ + सु | अत्र षष्ठी (..) इति सूत्रेण षष्ठीतत्पुरुषसमासः विधीयते | समासस्य प्रातिपदिकसंज्ञा भवति | इदानीं सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन सुप् प्रत्ययानां लोपः भवति स्म परन्तु विभाषा स्वसृपत्योः (..२४) इत्यनेन ह्रस्व-ऋकारान्तात् शब्दात् षष्ठीविभक्तेः विकल्पेन अलुक् भवति स्वसृ, पति च शब्दयोः परयोः |

 

यस्मिन् पक्षे षष्ठीविभक्तेः लुक् भवति

 

 

मातृ + स्वसृ →  'मातृपितृभ्यां स्वसा ( ८.३.८४)  इति सूत्रेण स्वसृ इत्यस्य आदिमसकारस्य स्थाने षत्वं भवति अतः मातृष्वसृ इति प्रातिपदिकं सिद्धम् | तस्मात् सुबुत्पत्तिः भूत्वा मातृष्वसृ + सु इति भवति | परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.६) इत्यनेन द्वन्द्वस्य तत्पुरुषस्य च परस्य यल्लिङ्गं तत् भवति | स्वसा इति शब्दः स्त्रीलिङ्गे अस्ति इति कृत्वा समासः स्त्रीलिङ्गे भवति |  मातृस्वसृ + सु ऋदुशनस्पुरुदंसोऽनेहसां च ( ७.१.१४) इत्यनेन ऋदन्तशब्दानां, तथा उशनस्/पुरुदंसस्/अनेहस्-एतेषां शब्दानां असम्बुद्धौ सुँ-प्रत्यये परे अनङ् आदेशः भवति | मातृष्वसृ + अनङ् + सु  अनङ् इति आदेशः ङित् इति कृत्वा अन्तादेशः भवति, अनङ् इत्यत्र ङकारस्य, नकारोत्तरवर्ती अकारस्य इत्संज्ञा भूत्वा लोपः भवति |

 

मातृष्वसन् + स् अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम् ( ६.४.११) इत्यनेन तृन्-प्रत्ययान्तशब्दाः, तृच्-प्रत्ययान्तशब्दाः, तथा अप्, स्वसृ, नप्तृ, नेष्टृ, त्वष्टृ, क्षत्तृ, होतृ, पोतृ, तथा प्रशातृ - एतेषामङ्गस्य उपधायाः असम्बुद्धिवाचके सर्वनामस्थानपरे दीर्घः भवति मातृष्वसान् + स्    हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌ (६.१.६७) इति सूत्रेण हलन्तात् प्रातिपदिकात् सु इति प्रत्ययस्य लोपः भवति  मातृष्वसान्  अग्रे न लोपः प्रातिपदिकान्तस्य (८.२.७) इति सूत्रेण प्रातिपदिकसंज्ञक-पदस्य अन्ते विद्यमानस्य नकारस्य लोपः मातृष्वसा इति समासः सिद्धः भवति |

 

 

एवमेव –

पितुः स्वसा = पितृष्वसा |

मातृष्वसा, पितृष्वा इत्यत्र तु स्वसा इत्यस्य आदिमसकारस्य षकारादेशः अप्राप्तः आसीत् आदेशप्रत्यययोः ( ८.३.५९) यतोहि सकारः प्रत्ययस्य अवयवः नास्ति | अपि च सात्पदाद्योः (८.३.१११) इति सूत्रेण पदादेः सकारस्य मूर्धन्यादेशो न भवति | अतः मातृपितृभ्यां स्वसा ( ८.३.८४) इति सूत्रस्य आवश्यकता अस्ति |

 


असमासे तु मातुः स्वसा, पितुः स्वसा इति भवति | अत्र समासः नास्ति इति कृत्वा मातृपितृभ्यां स्वसा ( ८.३.८४) इति सूत्रं कार्यं न करोति यतोहि तत् सूत्रं समासे एव भवति | समासः नास्ति इति कारणेन षत्वं न भवति | 




–––––––––––––––––––––––––––


धेयम्‌ -- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, [click here] and fill in your email address. New lessons are added every few weeks.

Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, click here.

To join a class, or for any questions feel free to contact Swarup <dinbandhu@sprynet.com>.