01 - अनदन्ताङ्गानां कृते सिद्ध-तिङ्प्रत्ययाः
सार्वधातुकलकारेषु तिङन्तपदस्य निर्माणार्थं त्रीणि सोपानानि सन्ति—
१. विकरणप्रत्यय-निमित्तकम् अङ्गकार्यं, तदा धातु-विकरणप्रत्यययोः मेलनम्
२. तिङ्संज्ञकप्रत्यय-सिद्धिः
३. तिङ्संज्ञकप्रत्यय-निमित्तकम् अङ्गकार्यं, तदा अङ्ग-तिङ्संज्ञकप्रत्यययोः मेलनम्
सोपानत्रयस्य एका दृष्टिः
अदन्ताङ्गस्य दृष्टान्तः | धात्वर्थविवक्षायां भू धातुः आनीयते | लकारविवक्षायां लट्-लकारः आनीयते | प्रथमपुरुषैकवचनस्य विवक्षायां लटः स्थाने तिप्-आदेशः | भू + तिप् इत्यस्ति | तिप् सार्वधातुकसंज्ञकः, कर्त्रर्थकः, तिङ्संज्ञकः च अतः कर्तरि शप् इत्यनेन मध्ये शप् इति विकरणप्रत्ययः विहितः | भू + शप् + तिप् | अनुबन्धलोपे भू + अ + ति | अस्यामेव स्थित्याम् उपर्युक्तं सोपानत्रयं प्रारभ्यते |
प्रथमसोपाने विकरणप्रत्यय-निमित्तकम् अङ्गकार्यम् | तर्हि अत्र "अ" इति विकरणप्रत्ययं निमित्तीकृत्य सार्वधातुकार्धधातुकयोः इत्यनेन गुणः क्रियते, भू → भो | एतदेव अस्माकं अङ्गकार्यम् | तदा सन्धिकार्यम्—एचोऽयवायावः इत्यनेन भो + अ → भ् + अव् + अ → भव | इदं सन्धिकार्यम् अङ्गकार्यं नास्त्येव, यतोहि शपं निमित्तीकृत्य कार्यं न जातम् | सन्धिकार्यं तु केवलं वर्णस्तरे प्रवर्तते—ओकारः अस्ति, परश्च अकारः अस्ति | 'शप्' इति कारणं नास्ति अत्र; यः कोऽपि अकारः भवतु, तादृशं कार्यं भविष्यति एव | ओकाराकारयोः मेलनेन ओ-स्थाने अव्-आदेशः, इति सन्धिकार्यम् | एवं च धातु-विकरणप्रत्यययोः मेलनेन भव इत्यङ्गं जातं, प्रथमं सोपानम् समाप्तम् |
द्वितीयसोपाने तिङ्संज्ञकप्रत्यय-सिद्धिः; अत्र तिप् इति मूलप्रत्ययः, हलन्त्यम् इत्यनेन पकारस्य इत्-संज्ञा लोपश्च, ति इति सिद्ध-तिङ्प्रत्ययः निष्पन्नः | द्वितीयसोपानं समाप्तम् | भव + ति इत्यस्ति |
तृतीयसोपानं तिङ्संज्ञकप्रत्यय-निमित्तकम् अङ्गकार्यम् | ति-प्रत्ययः तिङ्शित् सार्वधातुकम् (३.४.११३) इत्यनेन सार्वधातुकप्रत्ययः अस्ति, अतः पूर्वम् इक्-प्रत्याहारे स्थितः कश्चन वर्णः यदि स्यात्, तर्हि सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन गुणकार्यं स्यात् | किन्तु एतावता अस्माकम् अङ्गम् सर्वदा अदन्तम् आसीत्; यत्र अङ्गस्य अन्तिमः वर्णः अत् (ह्रस्वः अकारः), तत्र गुणकार्यं न सम्भवति | इक् (इ, उ, ऋ, ऌ) अन्ते अस्ति चेदेव गुणकार्यम् अर्हति; यत्र अङ्गम् अदन्तम् अस्ति तु नार्हत्येव | यत्र अङ्गमदन्तम् अस्ति तत्र तिङ्संज्ञकप्रत्यय-निमित्तकम् अङ्गकार्यम् अतीव न्यूनम्*— अतः तृतीयसोपाने आधिक्येन केवलम् अङ्ग-तिङ्संज्ञकप्रत्ययोः मेलनं भवति | यथा भव + ति → भवति | किन्तु अग्रे गत्वा यत्र अङ्गम् अदन्तं नास्ति, यत्र अङ्गस्य अन्ते उदाहरणार्थम् उकारः अस्ति, तत्र तृतीयसोपाने अङ्गकार्यं बहुत्र भविष्यति | इति तिङन्तपदस्य निर्माणार्थं सोपानत्रयस्य एका दृष्टिः |
*अदन्ताङ्गे सति, यञादि-सार्वधातुकप्रत्यये परे, अङ्गकार्यं भवति |
अतो दीर्घो यञि (७.३.१०१) = अदन्ताङ्गस्य दीर्घत्वं यञादि-सार्वधातुकप्रत्यये परे | यञ् प्रत्याहारः = य व र ल ञ म ङ ण न झ भ | अनुवृत्ति-सहितसूत्रम्— अतः अङ्गस्य दीर्घः यञि सार्वधातुके |
पठ + वः → अतो दीर्घो यञि (७.३.१०१) इत्यनेन अदन्ताङ्गस्य दीर्घादेशः → पठावः
दशानां धातुगणानां गणसमूहौ
धातूनां दश गणाः सन्ति इति वयं जानीमः | एते दश गणाः पुनः समूहद्वये विभाजिताः सन्ति इत्यपि जानीमः |
१. प्रथमगणसमूहः = भ्वादिः, दिवादिः, तुदादिः, चुरादिः इति चत्वारः गणाः
२. द्वितीयगणसमूहः = अदादिः, जुहोत्यादिः, स्वादिः, रुधादिः, तनादिः, क्र्यादिः इति षट् गणाः
अङ्गान्ते भेदः एव विभजनस्य कारणम् | प्रथमगणसमूहे धातु-विकरणप्रत्यययोः मेलनेन निष्पन्नम् अङ्गम् अदन्तम् अस्ति सर्वत्र— अङ्गस्य अन्ते अकारः | यथा भू + शप् → भव, नश् + श्यन् → नश्य, लिख् + श → लिख, चुर् + णिच् + शप् → चोरय, इति एषु चतुर्षु धातुगणेषु अङ्गम् अदन्तम् |
द्वितीयगणसमूहे सर्वाणि अङ्गानि अनदन्तानि | यथा स्वादिगणे शक् + श्नु → शक्नु इति उकारान्तम् अङ्गं; क्र्यादिगणे क्री + श्ना → क्रीणा इति आकारान्तम् अङ्गम् |
प्रथमगणसमूहस्य कृते, तिङन्तपदम् उपर्युक्त-सोपानत्रयेण कथं सिध्यति इति विस्तृतरूपेण अस्माभिः अनुभूतम्— चतुर्णाम् अपि गणानां प्रसङ्गे | सम्प्रति द्वितीयगणसमूहे तिङन्तपदव्युत्पत्तिः अनेन एव सोपानत्रयेण कथं भवति इति परिशीलयाम |
प्रथमसोपानं तृतीयसोपानं चेत्यनयोः गणसम्बद्धा चर्चा भवतु, यतोहि गणम् अनुसृत्य सोपानद्वयं भिद्यते | अतः तत्तद्गणे अनयोः द्वयोः सोपानयोः अवलोकनं करिष्यते | परन्तु द्वितीयसोपानं—तिङ्संज्ञकप्रत्यय-सिद्धिः—सर्वेषाम् अनदन्ताङ्गानां कृते समाना | अतः एतत् कार्यम् अधुना परिशीलयाम |
प्रथमगणसमूहे द्वितीयगणसमूहे च सिद्ध-तिङ्प्रत्ययाः भिन्नाः
प्रथमतया ज्ञातव्यं यत् प्रथमगणसमूहे द्वितीयगणसमूहे च सिद्ध-तिङ्प्रत्ययाः किञ्चित् भिन्नाः | प्रथमगणसमूहे प्रथमगणसमूहस्य सिद्ध-तिङ्प्रत्ययाः विहिताः; द्वितीयगणसमूहे द्वितीयगणसमूहस्य सिद्ध-तिङ्प्रत्ययाः विहिताः | तर्हि समूहद्वयस्य सिद्ध-तिङ्प्रत्ययानां भेदः कुत्र इति अस्माभिः सम्प्रति अवलोकनीयम् |
सर्वे सिद्ध-तिङ्प्रत्ययाः निष्पन्नाः भवन्ति मूल-तिङ्प्रत्ययेभ्यः—
परस्मैपदिधातूनां मूल-तिङ्प्रत्ययाः
तिप् तस् झि
सिप् थस् थ
मिप् वस् मस्
आत्मनेपदिधातूनां मूल-तिङ्प्रत्ययाः
त आताम् झ
थास् आथाम् ध्वम्
इड् वहि महिङ्
अदन्ते अनदन्ते च सिद्ध-तिङ्प्रत्ययानां पार्थक्यं कुत्र इति विषयः | वस्तुतः किञ्चिदेव भेदः अस्ति | अदन्तानां सिद्धप्रत्ययानां व्युत्पत्तिः पूर्वमेव प्रदर्शिता (पाठः १, २ च) अतः पुनः अत्र न क्रियते | सा पूर्वप्रदर्शिता व्युत्पत्तिः अधोभागस्य आधारः | अनदन्ताङ्गानां तिङ्-प्रत्ययाः यत्र अदन्ताङ्गानां तिङ्-प्रत्ययेभ्यः भिद्यन्ते, तत्र भेदस्य कारणं परिणामं च अधः प्रदर्शितम् |
अधः अनदन्ताङ्गानां तिङ्-प्रत्ययाः यत्र अदन्ताङ्गानां तिङ्-प्रत्ययेभ्यः भिद्यन्ते, तत्र प्रत्ययः स्थूलवर्णेन, तिर्यक्-रूपेण लिखितः |
A. परस्मैपदस्य तिङ्-प्रत्ययाः — अदन्ते अनदन्ते च भेदः
१. परस्मैपदस्य लट्-लकारे कोऽपि भेदः नास्ति | अङ्गम् अदन्तं स्यात् अनदन्तं वा स्यात्, परस्मैपदसंज्ञकेषु प्रत्ययेषु न कोऽपि भेदः |
अतः अनदन्ताङ्गानां कृते लटि सिद्ध-प्रत्ययाः—
ति तः अन्ति*
सि थः थ
मि वः मः
*अङ्गम् अभ्यस्तं चेत्, अति भवति न तु अन्ति | अभ्यस्तं नाम यत्र द्वित्वं भवति, यथा जुहोत्यादिगणे | अतः दा-धातोः लटि प्रथमपुरुषबहुवचने ददति |
अदभ्यस्तात् (७.१.४) = अभ्यस्तसंज्ञक-धातूत्तरस्य प्रत्ययस्य आदिमावयवस्य झकारस्य स्थाने अत्-आदेशो भवति | अत् प्रथमान्तम्, अभ्यस्तात् पञ्चम्यन्तं, द्विपदमिदं सूत्रम् | झोऽन्तः (७.१.३) इत्यस्मात् झः (षष्ठ्यन्तम्) इत्यस्य अनुवृत्तिः | आयनेयीनीयियः फढखच्छगां प्रत्ययादीनाम् (७.१.२) इत्यस्मात्, वचनपरिणामं कृत्वा प्रत्ययादेः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— अभ्यस्तात् अङ्गात् प्रत्ययादेः झः अत् |
२. परस्मैपदस्य लोट्-लकारे केवलम् एकः भेदः | मध्यमपुरुषे सिपः स्थाने हि-आदेशः सर्वत्र— अदन्ताङ्गेषु अनदन्ताङ्गेषु च— भवति एव | अदन्ताङ्गेषु तस्य हि-इत्यस्य लुक् (लोपः) भवति | अनदन्ताङ्गेषु तस्य लुक् न भवति |
अ) मध्यमपुरुषस्य सिप् प्रत्ययस्य स्थाने हि-आदेशः सर्वत्र भवति |
सेर्ह्यपिच्च (३.४.८७) = लोट्-लकारस्य सि इत्यस्य स्थाने हि-आदेशो भवति; स च हि अपित् भवति | सेः षष्ठ्यन्तं, हिः प्रथमान्तम्, अपित् प्रथमान्तं, च अव्ययपदम्, अनेकपदमिदं सूत्रम् | लोटो लङ्वत् (३.४.८५) इत्यस्मात् लोटः इत्यस्य अनुवृत्तिः | लस्य (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— लोटः लस्य सेः हि अपित् च |
आ) अङ्गम् अदन्तं चेत् तस्य हि-प्रत्ययस्य लोपः |
अतो हेः (६.४.१०५) = ह्रस्व-अकारात् अङ्गात् परस्य हि इत्यस्य लुक् (लोपः) भवति | अतः पञ्चम्यन्तं, हेः षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | चिणो लुक् (६.४.१०४) इत्यस्मात् लुक् इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः (अत्र अङ्गात् भवति विभक्तिपरिणाम इति सिद्धान्तेन) | अनुवृत्ति-सहितसूत्रम्— अतः अङ्गात् हेः लुक् |
तर्हि अङ्गम् अनदन्तं चेत्, हि इत्यस्य लोपः न भवति | (कुत्रचित् अपवादभूतेषु अनदन्तेषु हि-लोपः भवति; तत् तु पृथक् गणेषु पश्येम |)
अनदन्ताङ्गानां कृते लोटि सिद्ध-प्रत्ययाः—
तु, तात् ताम् अन्तु
हि, तात् तम् त
आनि आव आम
*अङ्गम् अभ्यस्तं चेत्, अतु भवति न तु अन्तु | अभ्यस्तं नाम यत्र द्वित्वं भवति, यथा जुहोत्यादिगणे | अतः दा-धातोः लोटि प्रथमपुरुषबहुवचने ददतु |
३. परस्मैपदस्य लङ्-लकारे कोऽपि भेदः नास्ति |
अनदन्ताङ्गानां कृते लङि सिद्ध-प्रत्ययाः—
त् ताम् अन् *
स् तम् त
अम् व म
*अङ्गम् अभ्यस्तं चेत्, उः भवति न तु अन् | अभ्यस्तं नाम यत्र द्वित्वं भवति, यथा जुहोत्यादिगणे | अतः दा-धातोः लङि प्रथमपुरुषबहुवचने अददुः |
सिजभ्यस्तविदिभ्यश्च (३.४.१०९) = ङित्-लकारस्य अवस्थायां, सिच्-प्रत्ययात्, अभ्यस्तसंज्ञकात् धातोः, विद्-धातोः च, परस्य झि-प्रत्ययस्य स्थाने जुस्-आदेशो भवति | सिच् च अभ्यस्तश्च विदिश्च तेषामितरेतरद्वन्द्वः सिजभ्यस्तविदयः, तेभ्यः सिजभ्यस्तविदिभ्यः | सिजभ्यस्तविदिभ्यः पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | नित्यं ङितः (३.४.९९) इत्यस्मात् ङितः इत्यस्य अनुवृत्तिः | झेर्जुस् (३.४.१०८) इत्यस्मात् झेः जुस् इत्यनयोः अनुवृत्तिः | लस्य (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— सिजभ्यस्तविदिभ्यः च ङितः लस्य झेः जुस् |
अनेन लङि अभ्यस्तसंज्ञकधातोः परस्य झि-स्थाने जुस्-आदेशः | जुस् इत्यस्य अनुबन्धलोपे, रुत्वविसर्गौ, उः इति भवति | तर्हि अभ्यस्तसंज्ञकः धातुः अस्ति चेत्, लङि अन्-स्थाने उः इति प्रत्ययः भवति |
४. परस्मैपदस्य विधिलिङ्-लकारः सर्वत्र भिन्नः एव |
पूर्वम् उक्तं यत् विधिलिङि यासुट् आगमः भवति प्रत्ययात् प्राक् यासुट् 'परस्मैपदेषूदात्तो' ङिच्च (३.४.१०३) इत्यनेन | तत्र अनुबन्धलोपे सति "यास्" इति शिष्यते |
a) यदि अङ्गम् अदन्तं तर्हि तस्य यासुडागमस्य स्थाने इय् इति आदेशः | अतो येयः (७.२.८०) इत्यनेन यासः स्थाने इय् आदेशः | यथा पठ् + अ + यास् + त् → पठ् + अ + इय् + त् → पठ (इति अङ्गम्) + इत् (इति सिद्ध-तिङ्प्रत्ययः) → पठेत् |
b) अनदन्तेषु इय्-आदेशः न भवति | यथा चिनु + यास् + त् → चिनुयात्
यासुट् परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) = लिङ्-लकारस्य परस्मैपदि-प्रत्ययानां यासुट्-आगमो भवति; स च आगमो ङिद्वत् | विधिसूत्रम् अतिदेशसूत्रं च | लिङः सीयुट् (सामान्यसूत्रं किन्तु अनेन आत्मनेपदानां एव कृते) इत्यस्य अपवादः | आद्यन्तौ टकितौ (१.१.४६) इत्यनेन यासुट्, प्रत्ययात् प्राक् आयाति | यासुट् प्रथमान्तं, परस्मैपदेषु सप्तम्यन्तम्, उदात्तः प्रथमान्तं, ङित् प्रथमान्तं, च अव्ययपदम्, अनेकपदमिदं सूत्रम् | लिङः सीयुट् (३.४.१०२) इत्यस्मात् लिङः इत्यस्य अनुवृत्तिः | लस्य (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— परस्मैपदानां लिङः लस्य उदात्तः यासुट् ङित् च |
यास्-आगमे, विधिलिङि सकारलोपः सर्वत्र भवति—
लिङः सलोपोऽनन्तस्य (७.२.७९) = सार्वधातुकलिङि, अपदान्तस्य सकारस्य लोपो भवति | अन्ते भवः अन्त्यः, न अन्त्यः अनन्त्यः नञ्तत्पुरुषः, तस्य अनन्तस्य | लिङः षष्ठ्यन्तं, स लुप्तषष्ठीकं पदं, लोपः प्रथमान्तम्, अनन्तस्य षष्ठ्यन्तम्, अनेकपदमिदं सूत्रम् | रुदादिभ्यः सार्वधातुके (७.२.७६) इत्यस्मात् सार्वधातुकस्य इत्यस्य अनुवृत्तिः विभक्तिपरिणामं कृत्वा | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अङ्गात् सार्वधातुकस्य लिङः अनन्तस्य सः लोपः |
आशीर्लिङ् आर्धधातुकलकारः इति कारणतः अनेन सूत्रेण सकारलोपः न भवति | विधिलिङि प्रथमपुरुषे यात् याताम् युः; आशीर्लिङि यात् यास्ताम् यासुः | धेयं यत् विधिलिङि आशीर्लिङि च प्रथमपुरुषैकवचने 'यात्' समानम् अस्ति; उभयत्र सकारलोपः, किन्तु भिन्न-सूत्रेण | प्रथमपुरुषैकवचने उभयत्र यास् + त् → यास्त् | विधिलिङि लिङः सलोपोऽनन्तस्य (७.२.७९) इत्यनेन सकारलोपः | आशीर्लिङि यत्र सकारलोपः भवति, स्कोः संयोगाद्योरन्ते च (८.२.२९) इति सूत्रेण भवति | अनेन सूत्रेण पदान्ते संयोगः भवति चेत्, तस्य च संयोगस्य प्रथमसदस्यः सकारः ककारः वा चेत्, तर्हि तस्य सकारस्य ककारस्य च लोपः भवति |
अदन्ताङ्गेषु इव, अत्र अपि झि-स्थाने जुस् आदेशः, झेर्जुस् (३.४.१०८) | जकारस्य इत्-संज्ञा चुटू इति सूत्रेण; तस्य लोपः इत्यनेन लोपः | उस् अवशिष्यते |
झेर्जुस् (३.४.१०८) = लिङ्-लकारस्य झि इत्यस्य स्थाने जुस्-आदेशो भवति | झेः षष्ठ्यन्तं, जुस् प्रथमान्तं, द्विपदमिदं सूत्रम् | लिङः सीयुट् (३.४.१०२) इत्यस्मात् लिङः इत्यस्य अनुवृत्तिः | लस्य (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— लिङः लस्य झेः जुस् | झोऽन्तः (७.१.३) इत्यस्य अपवादः |
उस्यपदान्तात् (६.१.९५) = अपदान्तात् अवर्णात् उसि परे पूर्वपरयोः स्थाने पररूपादेशो भवति | अस्य सूत्रस्य प्रसक्तिः केवलम् अनदन्ताङ्गेषु | न पदान्तम् अपदान्तं, तस्मात् अपदान्तात् | उसि सप्तम्यन्तम्, अपदान्तात् पञ्चम्यन्तं, द्विपदमिदं सूत्रम् | आद्गुणः (६.१.८६) इत्यस्मात् आत् इत्यस्य अनुवृत्तिः | इको यणचि (६.१.७६) इत्यस्मात् अचि इत्यस्य अनुवृत्तिः | एङि पररूपम् (६.१.९३) इत्यस्मात् पररूपम् इत्यस्य अनुवृत्तिः | एकः पूर्वपरयोः (६.१.८३), संहितायाम् (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्— अपदान्तात् आत् उसि अचि एकः पूर्वपरयोः पररूपं संहितायाम् |
यास् + तिप → यास् + त् → सकारलोपः → यात्
तस् → ताम् → यास् + ताम् → सकारलोपः → याताम्
यास् + झि → लिङि झि-स्थाने जुस् → या + उस् → उस्यपदान्तात् (६.१.९६) इत्यनेन पररूपादेशः → युस् → रुत्वविसर्गौ (न विभक्तौ तुस्माः इत्यनेन सकार-लोप-निषेधः; स् स्थाने "रु”*, रु स्थाने विसर्गः**) → युः
यास् + सिप् → यास् + स् → सकारलोपः → या + स् → रुत्वविसर्गौ → याः
थस् → तम् → यास् + तम् → यातम्
थ → त → यास् + त → यात
मिप् → अम् → यास् + अम् → सकारलोपः, सवर्णदीर्घः → याम्
वस् → व → यास् + व → सकारलोपः → याव
मस् → म → यास् + म → सकारलोपः → याम
* ससजुषो रुः (८.२.६६)
** खरवसानयोर्विसर्जनीयः (८.३.१५)
उपरितन-प्रत्ययानां सिद्ध्यर्थं एषां सूत्राणाम् आवश्यकता इति स्मर्यताम् | अङ्गम् अदन्तं चेदपि अनदन्तं चेदपि एषां सूत्राणां प्रसक्तिः—
इतश्च (३.४.१००) = ङित्-लकारस्य स्थाने यः परस्मैपद-ह्रस्व-इकारान्त-तिङ्प्रत्ययः, तस्य अन्त्य-इकारस्य लोपो भवति | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन इकारान्तः इत्यर्थः | अलोऽन्त्यस्य (१.१.५२) इत्यनेन प्रत्ययस्य अन्तिमवर्णस्य (इकारस्य) लोपः न तु पूर्णप्रत्ययस्य | इतश्च लोपः परस्मैपदेषु (३.४.९७) इत्यस्मात् लोपः, परस्मैपदेषु इत्यनयोः अनुवृत्तिः | नित्यं ङितः (३.४.९९) इत्यस्मात् ङितः इत्यस्य अनुवृत्तिः | लस्य (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— ङितः लस्य इतः परस्मैपदस्य लोपः |
तस्थस्थमिपां तान्तन्तामः (३.४.१०१) = "तस्, थस्, थ, मिप्" ङित्सु लकारेषु एतेषां प्रत्ययानां स्थाने क्रमेण "ताम्, तम्, त, अम्" एते आदेशाः | तश्च थश्च थश्च मिप् च तेषामितरेतरद्वन्द्वः तस्थस्थमिपः, तेषां तस्थस्थमिपाम् | ताम् च तम् च तश्च अम् च तेषामितरेतरद्वन्द्वः तान्तन्तामः | तस्थस्थमिपां षष्ठ्यन्तं, तान्तन्तामः प्रथमान्तं, द्विपदमिदं सूत्रम् | नित्यं ङितः (३.४.९९) इत्यस्मात् ङितः इत्यस्य अनुवृत्तिः | लस्य (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— ङितः लस्य तस्थस्थमिपां तान्तन्तामः |
नित्यं ङितः (३.४.९९) = ङितः लकारस्य सकारान्त-उत्तमपुरुष-प्रत्ययस्य अन्त्यसकार-लोपो भवति | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन सकारान्तः इत्यर्थः | अलोऽन्त्यस्य (१.१.५२) इत्यनेन प्रत्ययस्य अन्तिमवर्णस्य (सकारस्य) लोपः न तु पूर्णप्रत्ययस्य | नित्यं द्वितीयान्तं क्रियाविशेषणम्, ङितः षष्ठ्यन्तम्, द्विपदमिदं सूत्रम् | स उत्तमस्य (३.४.९८) इति सूत्रस्य पूर्णतया अनुवृत्तिः; इतश्च लोपः परस्मैपदेषु (३.४.९७) इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः | लस्य (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— ङितः लस्य सः उत्तमस्य नित्यं लोपः |
अनदन्ताङ्गानां कृते विधिलिङि सिद्ध-प्रत्ययाः—
यात् याताम् युः
याः यातम् यात
याम् याव याम
B. आत्मनेपदस्य तिङ्-प्रत्ययाः — अदन्ते अनदन्ते च भेदः
१. आत्मनेपदस्य लटि, लोटि, लङि च समानेषु त्रिषु प्रत्ययेषु भेदः | अधः पश्यन्तु—
अनदन्ताङ्गानां कृते लटि सिद्ध-प्रत्ययाः—
ते आते अते
से आथे ध्वे
ए वहे महे
अनदन्ताङ्गानां कृते लोटि सिद्ध-प्रत्ययाः—
ताम् आताम् अताम्
स्व आथाम् ध्वम्
ऐ आवहै आमहै
अनदन्ताङ्गानां कृते लङि सिद्ध-प्रत्ययाः—
त आताम् अत
थाः आथाम् ध्वम्
इ वहि महि
त्रिषु लकारेषु भेदः भवति (१) प्रथमपुरुष-मध्यमपुरुषयोः द्विवचने (२) प्रथमपुरुषस्य बहुवचने
अतः उदाहरणार्थम्—
यत्र अङ्गम् अदन्तम् अस्ति, रूपाणि एवं भवन्ति लटि— प्रकाशते, प्रकाशेते, प्रकाशन्ते |
यत्र अङ्गम् अनदन्तम् अस्ति, रूपाणि एवं भवन्ति लटि— चिनुते, चिन्वाते, चिन्वते |
तथा किमर्थमिति अधः वीक्ष्यताम्—
(१) प्रथमपुरुष-मध्यमपुरुषयोः द्विवचने
पूर्वम् अस्माभिः दृष्टं यत् अङ्गम् अदन्तम् अस्ति चेत्, तर्हि तत्र आत्मनेपदसंज्ञकप्रत्ययेषु यः आकारः अस्ति, तस्य स्थाने इकारः भवति | द्विवचने मूलप्रत्ययौ 'आताम्' 'आथाम्' अनयोः स्थितस्य आकारस्य स्थाने 'इ' | आतो ङितः (७.२.८१) = अदन्तात् अङ्गात् परस्य आकारस्य स्थाने इत्वं स्यात् | तर्हि लटि इते, इथे; लोटि इताम्, इथाम्; लङि इताम्, इथाम् |
परन्तु अङ्गम् अनदन्तं चेत् आकारस्य स्थाने इ-आदेशः न भवत्येव | अनदन्ताङ्गेषु लटि आते, आथे इत्येव भवतः; लोटि आताम्, आथाम् इत्येव भवतः; लङि आताम्, आथाम् इत्येव भवतः |
(२) प्रथमपुरुषस्य बहुवचने
आत्मनेपदे अङ्गम् अदन्तं चेत्, तर्हि लटि, लोटि, लङि च झोऽन्तः (७.१.३) इत्यनेन झ्-स्थाने अन्त्-आदेशः भवति | अतः लटि अन्ते, लोटि अन्ताम्, लङि अन्त इति सिद्ध-प्रत्ययाः भवन्ति |
अदन्ताङ्गेषु—
झोऽन्तः (७.१.३) = प्रत्ययस्य झकार-अवयवस्य स्थाने अन्त्-आदेशः भवति | झः षष्ठ्यन्तम्, अन्तः प्रथमान्तम्, द्विपदमिदं सूत्रम् | झकारे अन्त्-अवयवे च अकारः संयोजितः उच्चारणार्थम् | आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् (७.१.२) इत्यस्मात् प्रत्ययस्य इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अङ्गस्य प्रत्ययस्य झः अन्तः |
अनदन्ताङ्गेषु झकारस्य स्थाने अन्त्-आदेशः न भवति, अपि तु अत्-आदेशः एव भवति | जुहोत्यादिगणे अदभ्यस्तात् (७.१.४) इति सूत्रेण; अपरेषु गणेषु आत्मनेपदेष्वनतः (७.१.५) इति सूत्रेण | इमे द्वे सूत्रे झोऽन्तः (७.१.३) इति सूत्रं प्रबाध्य झ्-स्थाने अत्-आदेशम् आनयतः |
अदभ्यस्तात् (७.१.४) = अभ्यस्तसंज्ञक-धातूत्तरस्य प्रत्ययस्य आदिमावयवस्य झकारस्य स्थाने अत्-आदेशो भवति | अत् प्रथमान्तम्, अभ्यस्तात् पञ्चम्यन्तं, द्विपदमिदं सूत्रम् | झोऽन्तः (७.१.३) इत्यस्मात् झः (षष्ठ्यन्तम्) इत्यस्य अनुवृत्तिः | आयनेयीनीयियः फढखछगां प्रत्ययादीनाम् (७.१.२) इत्यस्मात्, वचनपरिणामं कृत्वा प्रत्ययादेः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— अभ्यस्तात् अङ्गात् प्रत्ययादेः झः अत् |
आत्मनेपदेष्वनतः (७.१.५) = आत्मनेपदेषु ह्रस्व-अकार-भिन्नवर्णात् परस्य झकार-अवयवस्य स्थाने अत्-आदेशो भवति | न विभक्तौ तुस्माः (१.३.४) इत्यस्य निषेधेन अत् इत्यस्य तकारस्य इत्-संज्ञा न भवति | न अत् अनत्, तस्मात् अनतः | आत्मनेपदेषु सप्तम्यन्तम्, अनतः पञ्चम्यन्तं, द्विपदमिदं सूत्रम् | आत्मनेपदेषु इत्यस्य षष्ठ्यर्थे सप्तमी; आत्मनेपदावयवस्य झकारस्य इति लभ्यते | झोऽन्तः (७.१.३) इत्यस्मात् झः इत्यस्य अनुवृत्तिः | अदभ्यस्तात् (७.१.४) अत् इत्यस्य अनुवृत्तिः | आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् (७.१.२) इत्यस्मात् प्रत्ययादेः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अनतः अङ्गात् आत्मनेपदेषु प्रत्ययादेः झः अत् |
२. विधिलिङ्गि कोऽपि भेदः नास्ति |
विधिलिङि सिद्ध-प्रत्ययाः—
ईत ईयाताम् ईरन्
ईथाः ईयाथाम् ईध्वम्
ईय ईवहि ईमहि
एतावता मूलशिक्षा इयम्, अदन्ताङ्गस्य अनदन्ताङ्गस्य च सिद्धतिङ्प्रत्यय-तुलना—
परस्मैपदे लटि = न कोऽपि भेदः
परस्मैपदे लोटि = अङ्गम् अदन्तं चेत् हि-लोपः; अङ्गम् अनदन्तं चेत् हि-लोपो न |
परस्मैपदे लङि = न कोऽपि भेदः
परस्मैपदे विधिलिङि = इय्-यासुट्-भेदात् सर्वत्र भेदः
आत्मनेपदे लटि = त्रिषु स्थलेषु भेदः— प्रथमपुरुष-मध्यमपुरुषयोः द्विवचने, प्रथमपुरुषस्य बहुवचने
आत्मनेपदे लोटि = त्रिषु स्थलेषु भेदः— प्रथमपुरुष-मध्यमपुरुषयोः द्विवचने, प्रथमपुरुषस्य बहुवचने
आत्मनेपदे लङि = त्रिषु स्थलेषु भेदः— प्रथमपुरुष-मध्यमपुरुषयोः द्विवचने, प्रथमपुरुषस्य बहुवचने
आत्मनेपदे विधिलिङि = न कोऽपि भेदः
C. अनदन्ताङ्गानां सिद्ध-तिङ्प्रत्ययानां पित्त्वम् अपित्त्वं च
मूलतिङ्प्रत्ययान् आधारीकृत्य सिद्ध-तिङ्प्रत्ययाः पितः अपितः च भवन्ति | मूलप्रत्ययः पित् अस्ति चेत्, सिद्ध-प्रत्ययः अपि तथा | यथा तिप् पित् अस्ति, अतः लटि ति, लोटि तु, लङि त् इत्येषामपि पित्त्वं भवति | अयं बिन्दुः महत्त्वपूर्णः, यतः प्रत्ययः पित् अस्ति चेत्, तिङन्तपदस्य निर्माणार्थं, तृतीयसोपाने (तिङ्संज्ञकप्रत्यय-निमित्तकम् अङ्गकार्यम् इत्यस्मिन्) गुणकार्यं भविष्यति यत्र प्रसक्तिः अस्ति | धेयं यत् अङ्गं यत्र अदन्तम् अस्ति, तत्र तिङ्प्रत्ययम् अधिकृत्य गुणकार्यं न कुत्रापि सम्भवति अतः एतावता तिङ्प्रत्यायानां पित्त्वापित्त्व-विषये अस्माकम् अवधानं नासीत् | किन्तु इतः अग्रे अङ्गम् अनदन्तम्; अस्य च प्रसङ्गे गुणकार्यं बहुत्र अतः तिङ्प्रत्यायानां पित्त्वापित्त्व -विषये अवधातव्यम् | यथा स्वादिगणे चि-धातुः, श्नु प्रत्ययः, तयोः मेलनेन चिनु इति अङ्गम् | चिनु + ति → ति पित् अस्ति अतः सार्वधातुकार्धधातुकयोः इत्यनेन गुणः → चिनो + ति → चिनोति |
पित्-प्रत्ययाः पुनः द्विविधाः; अपित्-प्रत्ययाः अपि द्विविधाः | प्रत्ययस्य आदौ अच्-वर्णः अस्ति चेत्, प्रत्ययः अजादिः | प्रत्ययस्य आदौ हल्-वर्णः अस्ति चेत्, प्रत्ययः हलादिः | पित्सु अजादि-प्रत्ययाः, हलादि-प्रत्ययाः च सन्ति; अपित्सु अपि अजादि-प्रत्ययाः, हलादि-प्रत्ययाः च सन्ति | तर्हि आहत्य प्रत्ययाः चतुर्विधाः—हलादिपित्सार्वधातुकप्रत्ययाः, अजादिपित्सार्वधातुकप्रत्ययाः, हलाद्यपित्सार्वधातुकप्रत्ययाः, अजाद्यपित्सार्वधातुकप्रत्ययाः चेति | एतदनुसृत्य कार्यमपि भिन्नं भवति |
यथा, प्रत्ययः पित् अस्ति चेत्, गुणकार्यस्य प्रसक्तिः; अपित् अस्ति चेत् गुणः नार्हति | प्रत्ययः अजादिः अस्ति चेत् स्वरसन्धिः अर्हति; हलादिः अस्ति चेत् नार्हति | एवं च चतुर्षु प्रत्ययप्रकारेषु भिन्नरीत्या कार्यं भवति | इमां विविधताम् अग्रिमे करपत्रे द्रक्ष्यामः | अधुना कः कः प्रत्ययः कीदृशः इति अवलोकयाम |
ये प्रत्ययाः स्थूलाक्षरैः लिखिताः, ते पितः इति धेयम् |
परस्मैपदम् आत्मनेपदम्
लट्-लकारः
ति तः अन्ति ते आते अते
सि थः थ से आथे ध्वे
मि वः मः ए वहे महे
हलादिपित्सार्वधातुकप्रत्ययाः— ति, सि, मि
अजादिपित्सार्वधातुकप्रत्ययाः— ०
हलाद्यपित्सार्वधातुकप्रत्ययाः— तः, थः, थ, वः, मः, ते, से, ध्वे, वहे, महे
अजाद्यपित्सार्वधातुकप्रत्ययाः— अन्ति, आते, अते, आथे, ए
लोट्-लकारः
तु, तात् ताम् अन्तु ताम् आताम् अताम्
हि, तात् तम् त स्व आथाम् ध्वम्
आनि आव आम ऐ आवहै आमहै
हलादिपित्सार्वधातुकप्रत्ययाः— तु
अजादिपित्सार्वधातुकप्रत्ययाः— आनि, आव, आम, ऐ, आवहै, आमहै
हलाद्यपित्सार्वधातुकप्रत्ययाः— हि, तात्, ताम्, तात्, तम्, त, ताम्, स्व, ध्वम्
अजाद्यपित्सार्वधातुकप्रत्ययाः— अन्तु, आताम्, अताम्, आथाम्
लङ्-लकारः
त् ताम् अन् त आताम् अत
स् तम् त थाः आथाम् ध्वम्
अम् व म इ वहि महि
हलादिपित्सार्वधातुकप्रत्ययाः— त्, स्
अजादिपित्सार्वधातुकप्रत्ययाः— अम्
हलाद्यपित्सार्वधातुकप्रत्ययाः— ताम्, तम्, त, व, म, त, थाः, ध्वम्, वहि, महि
अजाद्यपित्सार्वधातुकप्रत्ययाः— अन्, आताम्, अत, आथाम्, इ
विधिलिङ्-लकारः
यात् याताम् युः ईत ईयाताम् ईरन्
याः यातम् यात ईथाः ईयाथाम् ईध्वम्
याम् याव याम ईय ईवहि ईमहि
हलादिपित्सार्वधातुकप्रत्ययाः— ०
अजादिपित्सार्वधातुकप्रत्ययाः— ०
हलाद्यपित्सार्वधातुकप्रत्ययाः— नव (सर्वे) यकारादयः परमैपदिनः
अजाद्यपित्सार्वधातुकप्रत्ययाः— नव (सर्वे) ईकारादयः आत्मनेपदिनः
आहत्य हलादिपितः - ६, अजादिपितः - ७, हलाद्यपितः - ३८, अजाद्यपितः - २३ | प्रत्ययानां वर्गचतुष्टयं; प्रत्येकस्मिन् वर्गे यत् कार्यं भवति, तत् कार्यं समानम् अस्ति सर्वेषां वर्गसदस्यानां कृते | अयमेव द्वितीयगणसमूहस्य कार्यविधिः | अतः इमं जानीमः चेत्, द्वितीयगणसमूहस्य क्रियापदरूपाणि जानीमः हि |
अधुना अन्तिमः एकः विचारणीयः | उपरि उक्तम् आसीत् यत् पित्त्वविषये यथा मूलप्रत्ययः तथैव सिद्धप्रत्ययः | मूलस्य पित्त्वं चेत्, सिद्धस्यापि पित्त्वम् इति | किञ्च अत्र अपवादत्रयं प्रतीयते |
१. लोट्-लकारस्य उत्तमपुरुषे आनि, आव, आम,ऐ, आवहै, आमहै | आनि मिप् इत्यस्मात् आगतः अतः तस्य पित्त्वम् अस्ति | किन्तु अवशिष्टप्रत्ययाः मूले तु पितः न सन्ति | तेषां पित्त्वं कुतः आगतम् ?
लोटि सर्वत्र परस्मैपदे आत्मनेपदे च उत्तमपुरुषे आड् आगमः | अयम् आगमः ("आ") प्रत्ययानाम् आदौ युज्यते | येन सूत्रेण अयम् आड्-आगमः विहितः, तेन एव सूत्रेण व्युत्पन्न-प्रत्ययस्य पित्त्वं विधीयते |
आडुत्तमस्य पिच्च (३.४.९२) = लोट्-लकारस्य लस्य स्थाने यः उत्तमपुरुष-प्रत्ययः भवति, तस्य आट्-आगमो भवति, अपि च तस्य पित्त्वं भवति | आद्यन्तौ टकितौ इत्यनेन आट्-आगमः प्रत्ययात् प्राक् आयाति | आड् प्रथमान्तम्, उत्तमस्य षष्ठ्यन्तम्, पित् प्रथमान्तम्, च अव्ययपदम्, अनेकपदमिदं सूत्रम् | लोटो लङ्वत् (३.४.८५) इत्यस्मात् सूत्रात् लोटः इत्यस्य अनुवृत्तिः | लस्य (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— लोटः लस्य उत्तमस्य आट् पित् च |
अनेन लोट्-लकारे, उत्तमपुरुषे सर्वेषां प्रत्ययानाम् आड्-आगमः, अपि च सर्वेषां प्रत्ययानां पित्त्वम् |
तात् इति प्रत्ययस्य मूलरूपं तातङ्; ङित्वात् अपित् |
२. परस्मैपदे विधिलिङि यद्यपि मूलप्रत्ययेषु तिप्, सिप्, मिप् च पितः सन्ति, तथापि यात्, याः, याम् इति सिद्धप्रत्ययानां पित्त्वं नास्ति | किमर्थम् ?
परस्मैपदस्य विधिलिङि यासुट्-आगमः भवति, इति अस्माभिः दृष्टम् | यासुट् परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) इत्यनेन लिङ्-लकारस्य परस्मैपदि-प्रत्ययानां यासुट्-आगमो भवति; स च आगमो ङिद्वत् | ङिद्वत् अतः क्ङिति च (१.१.५) इत्यनेन गुणनिषेधः | धातु-विकरणप्रत्यययोः मेलनेन यत् अङ्गं निष्पन्नं, तेन अङ्गेन ङिद्वत् यासुट्-आगमः दृश्यते न तु तिप्, सिप्, मिप् ये मूले पितः | मूल-प्रत्ययः पित् भवतु नाम, परन्तु अङ्गेन इदं पित्त्वं न दृश्यते यतः मध्ये ङिद्वत् यासुट्-आगमः अस्ति | मध्ये ङिद्वत् यासुट्-आगमः, अतः अङ्गेन केवलं ङिद्वत्त्वं दृश्यते | तस्मात् किमपि पित्-निमित्तकं कार्यं नार्हम् | फलितार्थः एवं यत् सिद्ध-प्रत्ययानां पित्त्वं नास्ति |
३. लोट्-लकारस्य मध्यपुरुषे हि | हि सिप् इत्यस्मात् आगतः अतः तस्य पित्त्वं स्यात् | किन्तु तस्य अपित्त्वं कुतः आगतम् ?
लोटि परस्मैपदे मध्यपुरुषे सिप् प्रत्ययस्य स्थाने हि आदेशः भवति, अपिच्च भवति सेर्ह्यपिच्च ( ३.४. ८७) इत्यनेन सूत्रेण |
सारांशः
अस्मिन् करपत्रे बहुकिमपि उक्तं— प्रत्ययानां व्युत्पत्तिः दत्ता यत्र अदन्ते अनदन्ते भेदः वर्तते | एषां व्युत्पत्तीनां च बोधनेन महान् लाभः | तदा चतुर्विधाः सिद्ध-तिङ्प्रत्ययाः प्रदर्शिताः; ते अस्माभिः सम्यक्तया बोध्याः यतोहि सर्वाणि द्वितीयगणसमूह-तिङन्तरूपाणि तेषु आधारितानि |
परिशिष्टम्
अत्र श्रीराममहोदयः अतीव सुन्दररीत्या, सूत्रसहितदृष्ट्या परस्मैपदि- अनदन्ताङ्गानां लट्, लोट्, लङ्, विधिलिङ् इत्येषामपितिङ्-सिद्धिः चित्रत्वेन निरूपितवान् । ततः अधोभागे आत्मनेपदि-अदन्ताङ्गानां लट्, लोट्, लङ्, विधिलिङ् इत्येषामपि तिङ्-सिद्धिः चित्रत्वेन निरूपितवान्—
१ - अनदन्ताङ्गानां कृते सिद्ध-तिङ्_प्रत्ययाः (95k) Swarup Bhai, Apr 29, 2018, 2:46 PM
Swarup – June 2013 (Updated September 2015)