13 - धातुपाठे हल्-सन्धौ अनुस्वारपरसावर्ण्यं च
हल्-सन्धौ चत्वारः भागाः सन्ति; ते च सर्वे समाप्ताः | तथापि अग्रे गमनात् प्राक् एकः विशेषविषये चर्चनीयमस्तीति | अपदान्ते नकारो मकारो वा अस्ति चेत्, अपि च झल्-प्रत्याहारस्य कश्चन वर्णः परे अस्ति चेत्, तस्यां दशायां का गतिरस्ति ?
A. यदा क्रियापदं निर्मीयते तदा अङ्गकार्यं सन्धिकार्यं च क्रियेते | अस्य सर्वस्यानन्तरं कुत्रचित् रूपस्य मध्ये न् वा म् वा अस्ति चेत्, सः न् / म् अपदान्तः न् / म् अस्ति | यथा—
१. रुधादिगणे, सार्वधातुकप्रत्यये परे श्नम् इति विकरणप्रत्ययः आयाति | अनुबन्धलोपे "न" इत्येव अवशिष्यते | यः सार्वधातुकप्रत्ययः परे अस्ति सः अपित् अस्ति चेत्, तर्हि श्नसोरल्लोपः (६.४.१११) इत्यनेन "न" इत्यस्य अकारस्य लोपो भवति |
रुध् + श्नम् + तस् → रुनध् + तः → श्नसोरल्लोपः इत्यनेन "न" इत्यस्य अकारस्य लोपः → रुन्ध् + तः
तथैव अपित्सु प्रत्ययेषु—
भुज् + श्नम् → भुनज् → भुन्ज्
खिद् + श्नम् → खिनद् → खिन्द्
विच् + श्नम् → विनच् → विन्च्
तृह् + श्नम् → तृनह् → तृन्ह्
कृत् + श्नम् → कृनत् → कृन्त्
एषु धातुषु यः नकारः उपविष्टोऽस्ति, सः अपदान्तनकार इति |
२. इदित्सु धातुषु यदा नुम्-आगमः विहितो भवति तदा नकारः धातोः मध्ये उपविशतीति |
शुठि → शुन्ठ्
शुठि → शुन्ठ्
शिघि → शिन्घ्
णदि → णन्द्
लाछि → लान्छ्
इखि → इन्ख्
एषु धातुषु यः नकारः उपविष्टोऽस्ति, स अपदान्तनकार इति
३. मकारान्तधातुः चेत्, मकारः तिङन्तपदस्य मध्ये भवति |
गम् + ता
रम् + ता
यम् + ता
गम् + स्यते
रम् + स्यते
एषु धातुषु यः मकारोस्ति, सः अपदान्तनकार इति |
B. अनुस्वारादेशः— नश्चापदान्तस्य झलि
नश्चापदान्तस्य झलि (८.३.२४, लघु० ७८) = झलि अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति | झल्-प्रत्याहारे वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णाः अपि च श्, ष्, स्, ह् इति वर्णाः अन्तर्भूताः | पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तः तस्य अपदान्तस्य | नः षष्ठ्यन्तं, च अव्ययपदम्, अपदान्तस्य षष्ठ्यन्तं, झलि सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | मोऽनुस्वारः इत्यस्मात् मः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रमेवम्—झलि अपदान्तस्य मः नः च अनुस्वारः |
अस्य सूत्रस्य कृते प्रथमनियमः अस्ति यत् म् / न् अपदान्ते स्यात् | यथा—
मन् + ता
हन् + ता
गम् + ता
उपरितनासु स्थितिषु धातुरस्ति अपि च प्रत्ययोऽस्ति | तयोर्योजनेन पदं निष्पन्नम्, सुप्तिङन्तं पदम् इत्यनेन | मन्, हन्, गम् च केवलं धातवः; पदानि इति न | अतः एषाम् अपदानाम् अन्ते तत्र नकारमकारौ अपदान्तौ | अपि च ता-प्रत्ययः झलादिः अस्ति | अतः नश्चापदान्तस्य झलि इत्यनेन नकरमकारयोः स्थाने अनुस्वारादेशो भवति |
मन् + ता → मंता
हन् + ता → हंता
गम् + ता → गंता
एवमेव—
यम् + ता → यंता
हन् + सि → हंसि
रम् + स्यते → रंस्यते
नम् + स्यति → नंस्यति
मन् + स्यते → मंस्यते
रुधादिगणे अपि रुन्ध् इत्यस्मिन् नकारः अपदान्तः; झल्-प्रत्याहारे धकारः परे अस्ति | अतः अत्रापि नश्चापदान्तस्य झलि इत्यनेन अनुस्वारादेशो भवति |
रुन्ध् → रुंध् शुन्ठ् → शुंठ्
भुन्ज् → भुंज् शिन्घ् → सिंघ्
खिन्द् → खिंद् नन्द् → नंद्
विन्च् → विंच् लान्छ् → लांछ्
तृन्ह् → तृंह् इन्ख् → इंख्
कृन्त् → कृंत्
C. परसवर्णादेशः— अनुस्वारस्य ययि परसवर्णः
अनुस्वारस्य ययि परसवर्णः (८.४.५८) = ययि अनुस्वारस्य स्थाने परसवर्णादेशो भवति | परस्य सवर्णः, परसवर्णः, षष्ठी तत्पुरुषः | अनुस्वारस्य षष्ठ्यन्तं, ययि सप्तम्यन्तं, परसवर्णः प्रथमान्तं, त्रिपदमिदं सूत्रम् | यय्-प्रत्याहारे श्, ष्, स्, ह् एतान् वर्जयित्वा सर्वे हल्-वर्णाः अन्तर्भूताः |
परसवर्णः इत्युक्ते अनुस्वारात् परे यः वर्णः, तस्य सवर्णः | सवर्णः नाम अनुस्वारात् परे यः वर्णः तस्य वर्णस्य वर्गे ये स्थिताः ते | अनुस्वारस्य स्थाने तेषु परसवर्णेषु अन्यतमः आदिष्टः भवतु | परन्तु तेषु परसवर्णेषु अस्माभिः कः अपेक्षितः ? स्थानेऽन्तरतमः (१.१.५०) सूचयति यत् यस्य स्थाने आदेशो भवति तस्य अन्तरतमो नाम सदृश आदिष्टो भवतु | वर्गीयव्यञ्जनेषु अनुस्वारस्य सदृशः पञ्चमसदस्यः एव | अतः स्थानेऽन्तरतमः इत्यस्य साहाय्येन अनुस्वारस्य ययि परसवर्णः इत्यनेन अनुस्वारस्य स्थाने अग्रिमवर्णस्य वर्गीयपञ्चमादेशो भवति | यथा—अंग → अङ्ग, मंच → मञ्च, मंता → मन्ता
धेयम्— यय्-प्रत्याहारः वक्ति यत् श्, ष्, स्, ह् एषु अन्यतमः परे अस्ति चेत्, अनुस्वारस्य परसवर्णादेशो नैव भवति | यथा—रंस्यते = रंस्यते, नंस्यति = नंस्यति, संगंस्यते = संगंस्यते |
स्थानेऽन्तरतमः (१.१.५०) = प्रसङ्गे (स्थानम्, अर्थं, गुणं, प्रमाणं वा अनुसृत्य) तुल्यतम आदेशो भवतु | यत्र यत्र स्थानेन निर्णेतुं शक्येत तत्र तत्र स्थानमेव निर्णयस्य आधारः | स्थाने सप्तम्यम्तम्, अन्तरतमः प्रथमान्तं, द्विपदमिदं सूत्रम् | इदं सूत्रं परिभाषा-सूत्रम् इत्युच्यते | उदाहरणार्थं यत्र (१) आदेशः अपेक्षितः, अपि च (२) अनेकानां वर्णानां ग्रहणम् अस्ति, अपि च (३) तेषु कः वर्णः गृहीतः स्यात् इत्यर्थं कोऽपि नियमः नास्ति, तस्यां दशायां यत् सूत्रम् आगत्य नियमति तत् परिभाषा-सूत्रम् इत्युच्यते | केवलम् आदेश-प्रसङ्गे इति न; यत्र कुत्रापि कार्यम् अपेक्षितं किन्तु नियमः नास्ति, तत्र येन सूत्रेण निर्णयः क्रियते तत् परिभाषा-सूत्रम् इति | अन्यच्च अत्र प्रसङ्गे तुल्यतम आदेश इति उक्तम् | "प्रसङ्ग" इत्युक्ते यत्र प्राप्तिरस्ति | तुल्यता, समानता, सादृश्यम् इत्यस्य आधारेण आदेशस्य विधानं चेत्, तर्हि स्थानम्, अर्थं, गुणं, प्रमाणं वा अनुसृत्य तुल्यता परिशील्यताम् | सर्वप्रथमं स्थानं; स्थानं नोपलभ्यते चेत्, अर्थः; अर्थः नोपलभ्यते चेत्, गुणः; गुणः नोपलभ्यते चेत् प्रमाणम् इति निर्णयस्य आधारः |
D. अनुस्वारस्य स्थाने के के आदेशाः भवन्ति इति पश्याम
१. अनुस्वारात् परे क्, ख्, ग्, घ् वा चेत्, अनुस्वारस्य स्थाने ङकारादेशो भवति |
अंक → अङ्क
पुंख → पुङ्ख
अंग → अङ्ग
लंघन → लङ्घन
२. अनुस्वारात् परे च्, छ्, ज्, झ् वा चेत्, अनुस्वारस्य स्थाने ञकारादेशो भवति |
मंच → मञ्च
उंछ → उञ्छ
मंजु → मञ्जु
झंझा → झञ्झा
३. अनुस्वारात् परे ट्, ठ्, ड्, ढ् वा चेत्, अनुस्वारस्य स्थाने णकारादेशो भवति |
घंटा → घण्टा
शुंठी → शुण्ठी
मुंड → मुण्ड
शंढ → शण्ढ
४. अनुस्वारात् परे त्, थ्, द्, ध् वा चेत्, अनुस्वारस्य स्थाने नकारादेशो भवति |
मंता → मन्ता
मंथन → मन्थन
कुंद → कुन्द
बंधन → बन्धन
५. अनुस्वारात् परे प्, फ्, ब्, भ् वा चेत्, अनुस्वारस्य स्थाने मकारादेशो भवति |
कंपन → पम्पन
गुंफ → गुम्फ
लंब → लम्ब
स्तंभ → स्तम्भ
E. नकारमकारयोः अनुस्वारः, अनुस्वारस्य परसावर्ण्यम्— द्वयोः कार्ययोः प्रसङ्गभेदः कः ?
नकारमकारयोः अनुस्वारः झलि भवति (नश्चापदान्तस्य झलि इति); अनुस्वारस्य परसावर्ण्यं ययि भवति (अनुस्वारस्य ययि परसवर्णः इति) | अत्र प्रमुखो भेदोऽस्ति यत् झलि श्, ष्, स्, ह् एते अन्तर्भूताः; ययि श्, ष्, स्, ह् एते नैव अन्तर्भूताः | अतः नकारमकारयोः परे श्, ष्, स्, ह् एषु अन्यतमोऽस्ति चेत्, स्थाने अनुस्वारादेशो भवति | परन्तु यतः परे श्, ष्, स्, ह् एषु अन्यतमोऽस्ति, अधुना अनुस्वारस्य परसवर्णादेशो न भवति |
यथा— रम् + स्यते → नश्चापदान्तस्य झलि इत्यनेन अनुस्वारादेशः → रं + स्यते → अनुस्वारस्य ययि परसवर्णः कार्यं नैव करोति यतः सकारः ययि नास्ति अतः केवलं वर्णमेलनं भवति → रंस्यते
एवमेव हंसि = हंसि, संस्यते = संस्यते, संशय = संशय, संहार = संहार | अत्र परसवर्णादेशः नैव भवति यतः सकारः हकारः च ययि न स्तः |
F. अनुस्वारस्य परसवर्णादेशः— प्रक्रियायाः अन्ते एव क्रियताम् |
१. अनुस्वारात् अग्रे विद्यमानस्य वर्णस्य विकारो न भवति चेत्, तस्य एव सवर्णादेशो विहितः अनुस्वारस्य स्थाने | यथा विन्च् + आते | अत्र अजादि-प्रत्ययोऽस्ति अतो हल्-सन्धेः प्रसङ्गो नास्ति, चकारो यथावत् तिष्ठति | विन्च् + आते → विंच् + आते → विञ्च् + आते → विञ्चाते |
एवेमेव रुध् + श्नम् + आते → रुन्ध् + आते → नश्चापदान्तस्य झलि → रुंध् + आते → अनुस्वारस्य ययि परसवर्णः → रुन्ध् + आते → रुन्धाते
२. अनुस्वारात् अग्रे विद्यमानस्य वर्णस्य विकारो भवति चेत्, कार्यम् एवं कारणीयम्—
अष्टाध्यायी इति ग्रन्थः भागद्वये विभक्तः— सपादी त्रिपादी च | त्रिपाद्यां यानि सूत्राणि सन्ति, तानि सूत्रसङ्ख्याधारेण प्रवर्तनीयानि— पूर्वसूत्रस्य पूर्वकार्यं, परसूत्रस्य परकार्यम् इति |
पूर्वत्रासिद्धम् (८.२.१) = सपादसप्ताध्याय्यां स्थितस्य सूत्रस्य दृष्ट्या त्रिपादी असिद्धा अपि च त्रिपाद्यां पूर्वत्रिपाद्याः दृष्ट्या परत्रिपादी असिद्धा | पूर्वस्मिन् इति पूर्वत्र | न सिद्धम् असिद्धम् | पूर्वत्र अव्ययम्, असिद्धं प्रथमान्तं, द्विपदमिदं सूत्रम् |
अनुस्वारस्य ययि परसवर्णः (८.४.५८) इति सूत्रं त्रिपाद्याः अन्ते अस्ति, अतः तस्य सूचितं कार्यम् अन्ते एव भवति | कस्यचित् क्रियापदस्य निर्माणक्रमे अनुस्वारात् अग्रे यः वर्णः अस्ति, तस्य चरमरूपं दृष्ट्वा एव एकवारं परसवर्णादेशः प्रवर्तनीयः |
यथा—
विच्* + श्नम् + ध्वे → विन्च् + ध्वे → चोः कुः इत्यनेन चवर्गस्य स्थाने कवर्गादेशो भवति → विन्क् + ध्वे → नश्चापदान्तस्य झलि इत्यनेन अपदान्तस्य नकारस्य स्थाने अनुस्वारादेशः → विंक् + ध्वे → झलां जश् झशि इत्यनेन जश्त्वादेशः → विंग् + ध्वे → अनुस्वारस्य ययि परसवर्णः इत्यनेन अनुस्वारस्य स्थाने परसवर्णादेशः → विङ्ग् + ध्वे → वर्णमेलने → विङ्ग्ध्वे
चोः कुः (८.२.३०)
नश्चापदान्तस्य झलि (८.३.२४)
झलां जश् झशि (८.४.५३)
अनुस्वारस्य ययि परसवर्णः (८.४.५८)
एवेमेव—
भुज् + श्नम् + ते → भुन्ज् + ते → चोः कुः → भुन्ग् + ते → नश्चापदान्तस्य झलि → भुंग् + ते → खरि च → भुंक् + ते → अनुस्वारस्य ययि परसवर्णः → भुङ्क्ते
खरि च (८.४.५५) = खरि परे झलः स्थाने चरादेशः भवति | अनुवृत्ति-सहित-सूत्रं—झलां चर् खरि च इति |
३. अनुस्वारात् अग्रे यय् नास्ति चेत्, परसवर्णादेशो न भवति
श्, ष्, स्, ह् एषु अन्यतमः अनुस्वारात् अग्रे चेत्, तर्हि अनुस्वारस्य ययि परसवर्णः इत्यस्य प्रसक्तिर्नास्त्येव |
तृह् + श्नम् + अन्ति → तृन्ह् + अन्ति → नश्चापदान्तस्य झलि → तृंह् + अन्ति → तृंहन्ति
४. यदि हल्-सन्दौ हकारस्य विकारो भवति ययि, तदा अनुस्वारस्य ययि परसवर्णः इत्यस्य प्रसक्तिर्भवति |
तृह् + श्नम् + तः → तृन्ह् + तः → हो ढः इत्यनेन ह्-स्थाने ढ्-आदेशः → तृन्ढ् + तः → झषस्तथोर्धोऽधः → तृन्ढ् + धः → ष्टुना ष्टुः इत्यनेन ष्टुत्वम् → तृन्ढ् + ढः → ढो ढे लोपः → तृन् + ढः → तृन्ढः → नश्चापदान्तस्य झलि → तृंढः → अनुस्वारस्य ययि परसवर्णः → तृण्ढः
हो ढः (८.२.३१) = झलि पदान्ते वा हकारस्य स्थाने ढकारादेशो भवति | हः षष्ठ्यन्तं, ढः प्रथमान्तं, द्विपदमिदं सूत्रम् | झलि इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च इत्यस्मात् अन्ते इतस्य अनुवृत्तिः | पदस्य इत्यस्य अधिकारः | अनुवृत्ति-सहितं सूत्रम्— हः ढः झलि पदस्य अन्ते च |
झषस्तथोर्धोऽधः (८.२.४०) = झष्-परतः त्, थ् इत्यनयोः स्थाने धकारादेशो भवति; परन्तु धा-धातु-परतः न भवति | तस्च थ् च तथौ, तयोस्तथोः | न धाः, अधाः, तस्मात् अधः | झषः पञ्चम्यन्तं, तथोः षष्ठ्यन्तं, धः प्रथमान्तम्, अधः पञ्चम्यन्तम्, अनेकपदमिदं सूत्रम् |
ष्टुना ष्टुः (८.४.४१) = दन्त्यतकारस्य तवर्गीयवर्णस्य च स्थाने मूर्धन्यषकारादेशः टवर्गीयवर्णादेशश्च भवतः, मूर्धन्यषकार-टवर्गीयवर्णयोः योजनेन | ष् च टुश्च ष्टुः, तेन ष्टुना, समाहारद्वन्द्वः | ष् च टुश्च ष्टुः, समाहारद्वन्द्वः | ष्टुना तृतीयान्तं, ष्टुः प्रथमान्तं, द्विपदमिदं सूत्रम् | स्तोः श्चुना श्चुः इत्यस्मात् स्तोः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रमेवम्— स्तोः ष्टुना ष्टुः |
ढो ढे लोपः (८.३.१३) = ढकारे परे पूर्वतनस्य ढकारस्य लोपो भवति | ढः षष्ठ्यन्तं, ढे सप्तम्यन्तं, लोपः प्रथमान्तं, त्रिपदमिदं सूत्रम् |
इति नकारमकारयोः अनुस्वारपरसावर्ण्यं च परिसमाप्तम् |
१३ - धातुपाठे हल्-सन्धौ अनुस्वारपरसावर्ण्यं च.pdf (53k) Swarup Bhai, Apr 9, 2019, 6:16 AM, v.1
Swarup – October 2013