06 - सार्वधातुकप्रकरणम् (अनदन्तम् अङ्गम्)
स्वागतम् ! पूर्वं यत्र अङ्गम् अदन्तं, तत्र सार्वधातुकलकाराणां तिङन्तरूपाणि कथं निष्पन्नानि इत्यस्माभिः दृष्टम् | सम्प्रति अङ्गम् अनदन्तं चेत्, व्युत्पत्त्यर्थं को भेदः इति अवलोकनीयम् |
सर्वप्रथमं यत्र अङ्गम् अनदन्तम् अस्ति, तत्र सिद्ध-तिङ्प्रत्ययाः किञ्चित् भिन्नाः | सर्वे प्रत्ययाः भिन्नाः इति न; कुत्रचित् पार्थक्यं वर्तते | अत्र अस्माकं प्रथमाध्यायः अस्मिन्नेव विषये भवति |
तदा धातु-विकरणयोः मेलनेन यत् अङ्गं निष्पद्यते, तस्य अन्तिमस्वरः ह्रस्वः अकारः नास्ति चेत्, प्रक्रियायां को भेदः इति परिशीलनीयम् | कुत्रचित् अङ्गम् उकारान्तं, कुत्रचित् आकारान्तं, कुत्रचित् विकरणाभावे अङ्गम् इकारान्तम्, ईकारान्तं, ऋकारान्तं च | अपि च कुत्रचित् हलन्तम् अङ्गम् अस्ति | आहत्य यत्र अङ्गम् अदन्तं न, तत्र अङ्गकार्यं भिद्यते—कथमिति अग्रे पश्येम |
तर्हि प्रथमं सिद्ध-तिङ्प्रत्ययाः के अपि च कथं निष्पन्नाः इत्यनयोः विषययोः चर्चा भवतु | तदा क्रमेण गणानुसृत्य अग्रे सराम—स्वादिगणः, तनादिगणः, क्र्यादिगणः, अदादिगणः, जुहोत्यादिगणः, रुधादिगणः इति |
मध्ये हल्-सन्धेः विषयोऽपि आयास्यति, यतः अदादिगणे, जुहोत्यादिगणे, रुधादिगणे च हलन्ताङ्गानि वर्तन्ते | तत्र केचन विशिष्ट-सन्धयः वर्तन्ते ये एतावता न लब्धाः |
अस्य पाठस्य अन्तर्भूताः भागाः --