15 - स्थानिवत्त्वातिदेशः

From Samskrita Vyakaranam
9---anye-vyAkaraNa-sambaddha-viShayAH/15---sthAnivattvAtideshaH
Jump to navigation Jump to search


2022 ध्वनिमुद्रणानि
168_preranArthE Nic-- vishEsha halantadhAtavaH--mit dhAtavaH+ sthAnivadbhAvasambaddHasUtrANi _ 2022-04-27
169_acaH parasmin pUrvavidhau -- niSHEdhakasUtram_ dvirvachanavidhi+ varEvidhi_ 2022-05-05
170_acaH parasmin pUrvavidhau--niSHEdhaksUtram_varEvidhiH+ yalopavidhiH_2022-05-11
172_acaH parasmin pUrvavidhau--niSHEdhaksUtram_savarnavidhiH+anusvAravidhiH+deerghavidhiH_2022-05-25
174_acaH parasmin pUrvavidhau--niSHEdhaksUtram_abhyAsaH_2022-06-09
175_dvirvachanEchi_2022-06-16
177_pratyayalopE pratyayalakshaNam_ 2022-06-29
178_pratyayalopE pratyayalakshaNam_2022-07-06

स्थानिवद्भावसम्बद्धसूत्राणि

अष्टाध्याय्यां स्थानिवत्त्वातिदेशप्रकरणे चत्वारि सूत्राणि सन्ति –


१) स्थानिवदादेशोऽनल्विधौ (१.१.५६)

२) अचः परस्मिन् पूर्वविधौ (१.१.५७)

३) न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु (१.१.५८)

४) द्विर्वचनेऽचि (१.१.५९)

१) स्थानिवदादेशोऽनल्विधौ (१.१.५६); २) अचः परस्मिन् पूर्वविधौ (१.१.५७)

१) स्थानिवदादेशोऽनल्विधौ (१.१.५६); २) अचः परस्मिन् पूर्वविधौ (१.१.५७) च इत्यनयोः विषये ज्ञातुम् अत्र पश्यन्तु | अग्रे इतोऽपि सूत्रद्वयम् अस्ति अस्मिन् प्रकरणे न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु (१.१.५८), द्विर्वचनेऽचि (१.१.५९) चेति | अनयोः सूत्रयोः विषये अस्माभिः अस्मिन् करपत्रे पठ्यते |

३) न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु ( १.१.५८)

३) न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु ( १.१.५८) = पदस्य चरमावयवे द्विर्वचनादौ च कर्तव्ये परनिमित्तः अजादेशः न स्थानिवत् | पदान्तविधौ, द्विर्वचनविधौ, वरे-विधौ, यलोपविधौ, स्वरविधौ, सवर्णविधौ, अनुस्वारविधौ, दीर्घविधौ, जश्विधौ, चर्-विधौ च कर्तव्ये परनिमित्तकः अजादेशः स्थानिवत् न भवति |  विधिशब्दस्य प्रत्येकं सम्बन्धः अनेन न्यायेन - द्वन्द्वादौ, द्वन्द्वमध्ये, द्वन्द्वान्ते च श्रूयमाणं पदं प्रत्येकम् अभिसम्बध्यते इति | अस्य न्यायस्य अर्थः - द्वन्द्वसमासस्य अन्ते यस्य पदस्य श्रवणं, तस्य पदस्य द्वन्द्वसमासे प्रत्येकं पदेन सह सम्बन्धः भवति इति | अतः एव विधिशब्दस्य द्वन्द्वसमासे प्रत्येकं पदेन सह सम्बन्धः इति कृत्वा पदान्तविधिः, द्विर्वचनविधिः, वरेविधिः, यलोपविधिः, स्वरविधिः, सवर्णविधिः, अनुस्वारविधिः, दीर्घविधिः, जश्विधिः, चर्-विधिः इति स्वीक्रियते |  इदं स्थानिवद्भावनिषेधकं सूत्रम् अस्ति | अर्थात् अचः परस्मिन् पूर्वविधौ (१.१.५७) इत्यस्य निषेधकं सूत्रमिदम् | पदस्यान्तः पदान्तः, षष्ठीतत्पुरुषः | पदान्तः इत्यत्र अन्तः इति शब्दः चरमः, अन्तिमः इत्यर्थे स्वीकृतः | पदान्तः अन्त्यवर्णस्य बोधकः इत्यर्थः | द्वयोर्वचनं द्विर्वचनम् | यस्य लोपो यलोपः | निपातनात् वरे इत्यत्र विभक्त्यलोपः | पदान्तश्च द्विर्वचनं च वरे च यलोपश्च स्वरश्च सवर्णश्च अनुस्वारश्च दीर्घश्च जश्च चर्च तेषामितरेतरयोगद्वन्द्वः, पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वरदीर्घजश्चरः, तेषां विधयः पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधयस्तेषु, पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु अनेकसमासगर्भषष्ठीतत्पुरुषः। न इत्यव्ययम् | पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु सप्तमीबहुवचनान्तम् | स्थानिवदादेशोऽनल्विधौ (१.१.५६) इत्यस्मात् सूत्रात् स्थानिवत्, आदेशः इत्यनयोः अनुवृत्तिः | अचः परस्मिन् पूर्वविधौ (१.१.५७) इत्यस्मात् सम्पूर्णसूत्रस्य अनुवृत्तिः | वरे इत्यस्य अचः आदेशः इत्यनेन साक्षात् सम्बन्धः वर्तते |  अनुवृत्ति-सहित-सूत्रं—पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु अचः परस्मिन् पूर्वविधौ स्थानिवद् आदेशः न |


स्थानिवद्भावचिन्तनक्रमं - चित्ररूपेण

अस्माकं वशीसुधा भगिनि, सुन्दररीत्या स्थानिवद्भावचिन्तनक्रमम् अग्रे चित्रे निरूपितवती, तस्यैव चित्रस्य किञ्चित् विस्तारः कृतः अत्र


स्थानिवद्भावः flowchart 2
स्थानिवद्भावः flowchart 2


उदाहरणानि –

१) पदान्तविधिः = पदान्तविधौ परनिमित्तकः अजादेशः स्थानिवद्भावं न प्राप्नोति |

यथा –


कानि सन्ति → किम् इति शब्दस्य प्रथमाविभक्तौ बहुवचने कानि इति पदं सिद्ध्यति | अस् इति धातुतः लटि प्रथमपुरुषे बहुवचने झि इति तिङ्प्रत्ययं योजयामः | झि इति प्रत्ययस्य स्थाने झोन्तः (७.१.३) इत्यनेन अन्त् इति आदेशः भवति → कानि + अस् + अन्ति इति भवति |


कानि + अस् + अन्ति → अधुना श्नसोरल्लोपः (६.४.१११) इत्यनेन अस् धातोः अकारस्य लोपः भवति किति ङिति सार्वधातुकप्रत्यये परे → कानि + अस् + अन्ति → अत्र झि इति अपित्-प्रत्यये परे अस् धातोः अकारस्य लोपः जायते | कानि + स् + अन्ति इति भवति |


कानि + स् + अन्ति → अस्यां स्थितौ कानि सन्ति इति रूपं सिद्धयति | किन्तु अत्र अचः परस्मिन्‌ पूर्वविधौ (१.१.५७) इत्यनेन पूर्वविधौ कर्तव्ये परनिमित्तकः अजादेशः स्थानिवद्भवति | अत्र अस् इत्यत्र अकारस्य स्थाने आदेशः जातः इत्यतः सः आदेशः अजादेशः | सः अजादेशः परनिमित्तकः यतोहि अकारस्य लोपः जातः अपित्प्रत्ययस्य कारणेन | इदानीं पूर्वविधिः कः इति चेत् परनिमित्तकस्य अजादेशस्य स्थानिवद्भावः क्रियते चेत् इको यणचि इति सूत्रं प्रसक्तं भवति | यण्सन्धिविधायकं सूत्रमेव पूर्वविधिः यतोहि तस्य कार्यं अजादेशात् पूर्वं जायते | अतः सन्ति इत्यत्र सकारात् पूर्वं यस्य अकारस्य लोपः जातः सः स्थानिवद्भवति पूर्वविधेः इको यणचि (६.१.७७)  इत्यस्य दृष्टया |


कानि + अ स् + अन्ति इति दृश्यते इको यणचि (६.१.७७)  इति सूत्रस्य दृष्ट्या | अतः अत्र अकारः अस्तीव दृश्यते इको यणचि (६.१.७७)  इति पूर्वविधौ कर्तव्ये | "अस्" दृश्यते इति कारणतः अधुना कानि इति पदस्य अन्ते पदान्तविधिः जायते स्म इको यणचि (६.१.७७) इत्यनेन अचि परे | अतः कानि इति पदस्य अन्ते इकारस्य स्थाने यणादेशः भवति स्म, येन कान्य्सन्ति इति अनिष्टरूपं प्राप्यते स्म |


एतन्निवारणाय एव पदान्तविधिप्रसङ्गे न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु (१.१.५८) इति सूत्रेण स्थानिवद्भावस्य निषेधः क्रियते येन इष्टरूपसिद्धिः जायते | अतः स्थानिवद्भावः न सिद्ध्यति | अनेन कारणेन इको यणचि (६.१.७७) इत्यनेन यणादेशः न भवति | इदानीं कानि + स् + अन्ति → इत्यत्र वर्णमेलनेन कानि सन्ति इति इष्टरूपं निष्पद्यते |

स्थानिवद्भावचिन्तनक्रमं - चित्ररूपेण

अस्माकं वशीसुधा भगिनि, सुन्दररीत्या स्थानिवद्भावचिन्तनक्रमम् अस्मिन् चित्रे स्थापितवती


स्थानिवद्भावचिन्तनक्रमः
स्थानिवद्भावचिन्तनक्रमः


एवमेव कौ स्तः इत्यत्रापि चिन्त्यम् | कौ + अस् + तस् |


श्नसोरल्लोपः (६.४.१११) = श्नम्‌-प्रत्ययस्य अपि च अस्‌-धातोः अकारस्य लोपो भवति किति ङिति सार्वधातुके परे | श्नश्च अस्‌ च तयोरितरेतरद्वन्द्वः श्नसौ | श्नसोः षष्ठ्यन्तम्‌, अल्लोपः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | अत उत्सार्वधातुके (६.४.११०) इत्यस्मात्‌ सार्वधातुके इत्यस्य अनुवृत्तिः; गमहनजनखनघसां लोपः क्ङित्यनङि (६.४.९८) इत्यस्मात्‌ क्ङिति इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अङ्गस्य श्नसोः अल्लोपः सार्वधातुके क्ङिति |

२) द्वित्वविधिः = द्वित्वविधौ कर्तव्ये परनिमित्तकः अजादेशः स्थानिवद्भावं न प्राप्नोति |

यथा –


सुधी + उपास्यः = सुधीभिः उपास्यः इति तृतीयातत्पुरुषसमासः |


सुध्य् + उपास्य → इको यणचि (६.१.७७) इत्यनेन यणादेशः अचि परे |


सुध्य् + उपास्य → अस्यां स्थितौ अनचि च (८.४.४७) इत्यनेन द्वित्वं प्राप्तम् अस्ति येन अचः परस्य यरो द्वे वा स्तः न त्वचि | अतः सुध्ध्य् + उपास्य इति भवति स्म | अर्थात् सुध्य् इत्यत्र उकारस्य अनन्तरं यर्-वर्णस्य धकारस्य द्वित्वम् अनचि परे भवति स्म अनचि च (८.४.४७) इत्यनेन सूत्रेण |


किन्तु अचः परस्मिन्‌ पूर्वविधौ (१.१.५७) इत्यनेन पूर्वविधौ कर्तव्ये परनिमित्तकः अजादेशः स्थानिवद्भवति | सुधी इत्यत्र यः यणादेशः जातः सः अजादेशः अस्ति यतोहि सः आदेशः अच्वर्णस्य स्थाने विहितः अस्ति | सः अजादेशः परनिमित्तकः अपि अस्ति यतोहि यणादेशस्य निमित्तं परे अस्ति | अर्थात् यः अच्वर्णः परः अस्ति सः एव निमित्तम् अस्ति द्वित्वस्य कृते | अतः सुध्य् इत्यत्र अन्त्यः यकारः अच्वर्णस्य स्थाने विहितः इति कृत्वा स्थानिवद्भवति, ईकारः इव दृश्यते अनचि च (८.४.४७) इति पूर्वविधौ कर्तव्ये | अनचि च (८.४.४७) इति सूत्रेण "सुधी" दृश्यते इति कारणतः द्वित्वकार्यं न भवति स्म यतोहि अधुना धकारस्य अनन्तरम् अच्-वर्णः दृश्यते न तु हल्वर्णः | अनेन कारणेन सुध्युपास्य इति एकमेव रूपं लभ्यते स्म | अत्र वैकल्पिकं रूपम् अपि इष्यते, तस्य साधनार्थं द्वित्वविषये अचः परस्मिन्‌ पूर्वविधौ (१.१.५७) इत्यस्य निषेधकं सूत्रम् अपेक्षितम् |


अतः अचः परस्मिन् पूर्वविधौ (१.१.५७) इत्यनेन यः स्थानिवद्भावः प्राप्तः अस्ति तस्य निषेधः क्रियते न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु (१.१.५८) इति सूत्रेण द्वित्वप्रसङ्गे | अतः स्थानिवद्भावः न सिद्ध्यति | अनेन कारणेन अनचि च (८.४.४७) इति सूत्रस्य कार्यं जायते यतोहि स्थानिवद्भावः न प्राप्यते | एवञ्च सुध्य् + उपास्य इत्यत्र उकारोत्तवर्ती यः यर्-वर्णः, धकारः दृश्यते, तस्य द्वित्वं क्रियते यकारः इति अनच्-वर्णे परे → सुध्ध्युपास्यः इति रूपं निष्पद्यते | आहत्य रूपद्वयं सिद्धयति - सुध्ध्युपास्यः, सुध्युपास्यः इति |


स्मर्तव्यं यत् अनचि च (८.४.४७) इत्यनेन द्वित्वकार्यं पदान्तविधिः नास्ति यतोहि द्वित्वकार्यं सुध्य् इति पदस्य मध्ये जायमानं कार्यम्, अतः पदान्तविधेः चिन्तनम् अत्र न कार्यम् |


अनचि च (८.४.४७) = अचः परस्य यरो द्वे वा स्तः न त्वचि | न अच्‌, अनच्‌ नञ्तत्पुरुषः, तस्मिन्‌ अनचि | अनचि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | यरोऽनुनासिकेऽनुनासिको वा (८.४.४५) इत्यस्मात्‌ यरः, वा इत्यनयोः अनुवृत्तिः | अचो रहाभ्यां द्वे (८.४.४६) इत्यस्मात्‌ अचः, द्वे इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अचः यरः द्वे वा अनचि च संहितायाम्‌ |

३) वरे-विधौ = वरेविधौ परनिमित्तकः अजादेशः स्थानिवद्भावं न प्राप्नोति |

यथा –


या प्रापणे इति धातुतः यङ्प्रत्ययः विधीयते चेत् → या + यङ् | अग्रे द्वित्वं जायते येन या या + यङ् इति भवति | यङ् इति प्रत्यये य इति अवशिष्यते ङकारस्य इत्संज्ञानन्तरम् | अतः याया + य इति भवति |


द्वित्वानन्तरम् अभ्यासकार्यानन्तरं यायाय इति यङन्तधातुः सिद्धयति | यङन्तधातुः कथं निष्पन्नः इति अस्माकं प्रासङ्गिकविषयः नास्ति इत्यतः तस्य विषये न चिन्त्यम् | अधुना यश्च यङः (३.२.१७६) इत्यनेन सूत्रेण या प्रापणे, इत्यस्मात् धातोः यङन्तात् तच्छीलादिषु (स्वाभावे) कर्तृषु वरच् प्रत्ययः भवति | यायावरः इति रूपं सिद्धयति | यायावरः नाम यः पुनः पुनः अतिशयेन वा याति, देशात् देशान्तरं गच्छति इति अर्थः |


यायावरः इति पदस्य प्रक्रियां पश्यामः


यायाय + वरच् → यश्च यङः (३.२.१७६) इत्यनेन सूत्रेण वरच्-प्रत्ययः विधीयते यङन्तधातुतः | वरच् इत्यत्र चकारस्य इत्संज्ञा, लोपश्च भवति → यायाय + वर इति भवति | याया इत्यत्र अन्ते यः इति अस्ति सः तु यङ्प्रत्ययः अस्ति |


यायाय + वर → अधुना अतो लोपः (६.४.४८) इत्यनेन अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे → यायाय् इति भवति |


अतः यायाय् + वर → अस्यां स्थितौ लोपो व्योर्वलि (६.१.६५) इत्यनेन यकार-लोपः भवति स्म वलि परे, अतः याया + वर इति भवति स्म |


किन्तु अत्र अचः परस्मिन्‌ पूर्वविधौ (१.१.५७) इत्यनेन पूर्वविधौ कर्तव्ये परनिमित्तकः अजादेशः स्थानिवद्भवति | अतो लोपः (६.४.४८) इत्यनेन सूत्रेण यस्य अकारस्य लोपः जातः, सः परनिमित्तकः अजादेशः यतोहि तस्य निमित्तम् आर्धधातुकप्रत्ययः अस्ति | इदानीं पूर्वविधिः अस्ति लोपो व्योर्वलि (६.१.६५) इति सूत्रस्य कार्यम् | अतः  यायाय् इत्यत्र अन्त्यः यकारः (अकारसहितः) इव दृश्यते लोपो व्योर्वलि (६.१.६५) इति सूत्रस्य दृष्ट्या | अर्थात् याया + वर इति दृश्यते → अतः लोपो व्योर्वलि (६.१.६५) इत्यनेन सूत्रेण तु यायाय इति दृश्यते इति कारणेन यकारलोपः न भवति स्म | एवं सति यायावरः इति रूपम् अपि न लभ्यते, यायाय्वरः इति अनिष्टरूपापत्तिः जायते |


अतः एव स्थानिवद्भावं निषेधयितुम् एकं सूत्रं कृतं पाणिनिना यलोपप्रसङ्गे | अस्य यलोपविषये अग्रेऽपि पुनः पश्यामः | अचः परस्मिन् पूर्वविधौ (१.१.५७) इत्यनेन यः स्थानिवद्भावः प्राप्तः, तस्य निषेधः क्रियते न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु (१.१.५८) इति सूत्रेण यलोपविषये/वरेविधौ | अतः स्थानिवद्भावः न सिद्ध्यति इत्यतः लोपो व्योर्वलि (६.१.६५) इत्यनेन सूत्रेण तु यायाय् + वर इत्येव दृश्यते इति कृत्वा यकारस्य लोपः जायते वलि परे | इत्थं च याया + वर = यायावर इति प्रतिपदिकं सिद्धयति स्म | अत्र इतोपि अग्रे किञ्चित् चिन्तनीयं भवति |


याया + वर → पूर्वं प्रक्रियायाः आदौ यायाय इति यदा आसीत् तदा यङ्-प्रत्ययस्य अकारस्य लोपः जातः आसीत् अतो लोपः (६.४.४८) इत्यनेन सूत्रेण | तत्पश्चात् यङ्प्रत्ययस्य यकारस्य लोपः जातः लोपो व्योर्वलि (६.१.६५) इत्यनेन सूत्रेण | यदि यङ्प्रत्ययस्य लुप्तस्य अकारस्य अचः परस्मिन् पूर्वविधौ (१.१.५७) इत्यनेन स्थानिवद्भावः स्वीक्रियते, तर्हि याया ( यङ्प्रत्ययस्य भागः) + वर इति भवति | इदानीम् आतो लोप इटि च (६.४.६४) इत्यनेन आकारान्तस्य अङ्गस्य आकारस्य लोपः स्यात् अजादौ किति ङिति आर्धधातुकप्रत्यये परे |


याया अ + वर → याया इति आकारान्तम् अङ्गम् अस्ति, अ इति यङ्प्रत्ययस्य अवशिष्टः भागः अजादिः, ङित्, आर्धधातुकञ्च अस्ति इति कृत्वा आतो लोप इटि च (६.४.६४) इत्यनेन याया इति अङ्गस्य आकारस्य लोपः भवति स्म | अर्थात् अचः परस्मिन् पूर्वविधौ (१.१.५७) इत्यनेन सूत्रेण स्थानिवद्भावस्य स्वीकारेण - याया + + वर इति दृश्येत आतो लोप इटि च (६.४.६४) इति सूत्रस्य दृष्ट्या | अतः याया इत्यत्र आकारस्य लोपः भवति स्म अजादौ आर्धधातुके ङिति परे |


परन्तु वरच्-प्रत्ययविधौ रूपसिद्धौ अचः परस्मिन् पूर्वविधौ (१.१.५७) इत्यनेन निर्दिष्टः स्थानिवद्भावः नैव प्रवर्तते यतोहि तस्य निषेधः क्रियते न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु (१.१.५८) इति सूत्रेण | अतः अत्र आकारलोपः अपि न भवति आतो लोप इटि च (६.४.६४) इत्यनेन | अन्ततो गत्वा यायावर इति प्रातिपदिपकं लभ्यते तस्मात् सुबुत्पत्तिः क्रियते चेत् इष्टरूपं सिद्धयति |


याया अ + वर → इत्यत्र एकः प्रश्नः उदेति यत् यङ्प्रत्ययस्य यकारस्य स्थानिवद्भावः भवति वा आतो लोप इटि च (६.४.६४) इति विधेः प्रसङ्गे  ?


यङ्प्रत्ययस्य यकारस्य स्थानिवद्भावः न शक्यते अचः परस्मिन् पूर्वविधौ (१.१.५७) इत्यनेन यतोहि यकारः हल्वर्णः अस्ति न तु अज्वर्णः, अतः यकारप्रसङ्गे अचः परस्मिन् पूर्वविधौ (१.१.५७) इत्यस्य प्रसक्तिः नास्ति | तर्हि यकारस्य स्थानिवदादेशोऽनल्विधौ (१.१.५६) इत्यनेन स्थानिवद्भावः शक्यते वा इति चिन्तनीयम् | आतो लोप इटि च (६.४.६४) इति सूत्रे यानि निमित्तानि सन्ति तेषु स्थानिनि यः यकारः अस्ति सः वर्णः निमित्तं नास्ति अस्य सूत्रस्य प्रवर्तनार्थम्, अतः आतो लोप इटि च (६.४.६४) इति सूत्रम् अनल्विधिः अस्ति | एवञ्चेत् स्थानिवदादेशोऽनल्विधौ (१.१.५६) इत्यनेन स्थानिवद्भावः भवति स्म | तर्हि आतो लोप इटि च (६.४.६४) इति सूत्रस्य अप्रवृत्तिः भविष्यति |


अत्र यदि स्थानिवदादेशोऽनल्विधौ (१.१.५६) इति सूत्रेण यकारस्य स्थानिवद्भावः स्यात्‌ तर्हि 'याया + य् अ + वर ' इति दृश्येत | तथा भवति चेत्‌ आतो लोप इटि च (६.४.६४) इत्यनेन आकारस्य लोप-आदेशः न स्यात्‌ | यकारे सति शास्त्रस्य अप्रवृत्तिः भविष्यति, इष्टं रूपं च न सेत्स्यति | अतः एतादृशस्थले, नाम यत्र शास्त्रस्य अप्रवृत्तिः जायते स्थानिवद्भावात्‌, तत्र स्थानिवदादेशोऽनल्विधौ (१.१.५६) इति सूत्रेण स्थानिवद्भावो न भवति |  इत्थञ्च यकारस्य स्थानिवद्भावः न स्वीक्रियते यतोहि इदं कार्यम् अशास्त्रीयमिति मन्यते |

४) यलोप-विधिः = यलोपविधौ परनिमित्तकः अजादेशः स्थानिवद्भावं न प्राप्नोति |

यथा –


या प्रापणे इति धातुतः यङ्प्रत्ययः विधीयते चेत् द्वित्वानन्तरं यायाय इति यङन्तधातुः सिद्धयति | अधुना अस्मात् धातुतः क्तिच्-प्रत्ययः विधीयते क्तिच्क्तौ च संज्ञायाम् (३.३.१७४) इत्यनेन सूत्रेण | क्तिच्क्तौ च संज्ञायाम् (३.३.१७४) इत्यनेन सर्वेभ्यः धातुभ्यः क्तिच् क्तश्च स्यात् आशिषि संज्ञायाम् | यथा तनुतात् तन्तिः weaver | सनुतात् सातिः wealth | भवतात् भूतिः success | मनुतात् मन्तिः respect | क्तिच् इति प्रत्यये ति अवशिष्यते इत्संज्ञानन्तरम् |


 यायाय + ति → अतो लोपः (६.४.४८) इत्यनेन अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे → यायाय् + ति इति भवति |


यायाय् + ति → अस्यां स्थितौ लोपो व्योर्वलि (६.१.६५) इत्यनेन यकार-लोपः भवति स्म वलि परे |


किन्तु अचः परस्मिन्‌ पूर्वविधौ (१.१.५७) इत्यनेन पूर्वविधौ कर्तव्ये परनिमित्तकः अजादेशः स्थानिवद्भवति | अतो लोपः (६.४.४८) इत्यनेन सूत्रेण यस्य अकारस्य लोपः जातः, सः परनिमित्तकः अजादेशः यतोहि तस्य निमित्तम् आर्धधातुकप्रत्ययः अस्ति | इदानीं पूर्वविधिः अस्ति लोपो व्योर्वलि (६.१.६५) इति सूत्रस्य कार्यम् | यायाय् + ति इत्यत्र अन्त्यः यकारः इव दृश्यते स्थानिवद्भावेन | अर्थात् यायाय् + ति इति दृश्यते लोपो व्योर्वलि (६.१.६५) इत्यस्य दृष्ट्या इति कारणेन यकारलोपः न भवति स्म | एवं चेत् इष्टरूपसिद्धिः न जायते |


अतः अचः परस्मिन् पूर्वविधौ (१.१.५७) इत्यनेन यः स्थानिवद्भावः प्राप्तः, तस्य निषेधः क्रियते न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु (१.१.५८) इति सूत्रेण यलोपविधौ | अतः स्थानिवद्भावः न सिद्ध्यति इति कृत्वा लोपो व्योर्वलि (६.१.६५) इत्यनेन सूत्रेण तु यायाय् + ति इत्यत्र यकारस्य लोपः जायते वलि परे | याया + ति इति सिद्ध्यति |


अग्रे याया + ति → आतो लोप इटि च ( ६.४.६४) इत्यनेन अजादौ आर्धधातुके क्ङिति, इटि च आकारान्तस्य अङ्गस्य आकारस्य लोपो भवति → याय् + ति इति भवति | अत्रापि यङ्प्रत्ययस्य अकारस्य स्थानिवद्भावस्य विषये चिन्तनं कार्यं यथा पूर्वं वरेलोपप्रसङ्गे कृतम् |


याया + ति → पूर्वं प्रक्रियायाः आदौ यायाय इति यदा आसीत् तदा यङ्-प्रत्ययस्य अकारस्य लोपः जातः आसीत् अतो लोपः (६.४.४८) इत्यनेन सूत्रेण | तत्पश्चात् यङ्प्रत्ययस्य यकारस्य लोपः जातः लोपो व्योर्वलि (६.१.६५) इत्यनेन सूत्रेण | यदि यङ्प्रत्ययस्य लुप्तस्य अकारस्य अचः परस्मिन् पूर्वविधौ (१.१.५७) इत्यनेन स्थानिवद्भावः स्वीक्रियते, तर्हि याया ( यङ्प्रत्ययस्य भागः) + ति इति भवति | इदानीम् आतो लोप इटि च (६.४.६४) इत्यनेन आकारान्तस्य अङ्गस्य आकारस्य लोपः स्यात् अजादौ किति ङिति आर्धधातुकप्रत्यये परे |


याया + ति → याया इति आकारान्तम् अङ्गम् अस्ति, अ इति यङ्प्रत्ययस्य अवशिष्टः भागः अजादिः, ङित्, आर्धधातुकञ्च अस्ति इति कृत्वा आतो लोप इटि च (६.४.६४) इत्यनेन याया इति अङ्गस्य आकारस्य लोपः भवति | अर्थात् अचः परस्मिन् पूर्वविधौ (१.१.५७) इत्यनेन सूत्रेण स्थानिवद्भावस्य स्वीकारेण - याया + + ति इति दृश्येत आतो लोप इटि च (६.४.६४) इति सूत्रस्य दृष्ट्या | अतः याया इत्यत्र आकारस्य लोपः भवति अजादौ आर्धधातुके ङिति परे | अतः याय् + ति इति भवति |


याय् + ति → अधुना पुनः लोपो व्योर्वलि (६.१.६५) इत्यनेन यकार-लोपः वलि परे भवति स्म, अतः याति इति रूपं भवति स्म |


किन्तु अचः परस्मिन्‌ पूर्वविधौ (१.१.५७) इत्यनेन पूर्वविधौ कर्तव्ये परनिमित्तकः अजादेशः स्थानिवद्भवति | अतः याय् + ति इत्यत्र अन्त्यः यकारः या इव दृश्यते | अर्थात् लोपो व्योर्वलि (६.१.६५) इत्यस्य दृष्ट्या याया + ति इति दृश्यते | अतः लोपो व्योर्वलि (६.१.६५) इत्यनेन सूत्रेण तु याया इति दृश्यते इति कारणेन यकारलोपः न भवति स्म | एवं सति यातिः इति इष्टरूपसिद्धिः अपि न भवति |


अतः अत्र अचः परस्मिन्‌ पूर्वविधौ (१.१.५७) इति सूत्रस्य कार्यं निषिध्यते यलोपप्रसङ्गे | अचः परस्मिन् पूर्वविधौ (१.१.५७) इत्यनेन यः स्थानिवद्भावः प्राप्तः, तस्य निषेधः क्रियते न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु (१.१.५८) इति सूत्रेण यलोपविधौ | अतः स्थानिवद्भावः न सिद्ध्यति इति कृत्वा लोपो व्योर्वलि (६.१.६५) इत्यनेन सूत्रेण तु याय् + ति इत्यत्र यकारस्य लोपः जायते वलि परे | अतः यातिः इति रूपं निष्पद्यते सुबुत्पत्तेः अनन्तरम् |

५) स्वरविधिः = स्वरविधौ परनिमित्तकः अजादेशः स्थानिवद्भावं न प्राप्नोति |

यथा –


कृ इति धातुतः धातोः कर्मणः समानकर्तृकादिच्छायां वा (३.१.७) इत्यनेन सूत्रेण इच्छार्थे सन् इति प्रत्ययः विधीयते | धातोः द्वित्वम्, अभ्यासकार्याणि च कृत्वा चिकिर् + स इति भवति | अग्रे हलि च (८.२.७७) इत्यनेन हलि च परे रेफवकारान्तस्य धातोरुपधाया इको दीर्घो भवति | अतः चिकीर् + स इति भवति | अधुना आदेशप्रत्यययोः (८.३.५९) इत्यनेन इण्‌-प्रत्याहारात्‌ कवर्गीयात्‌ च परे अपदान्तः आदेशरूपी प्रत्ययावयवो वा सकारः अस्ति चेत्‌, तस्य सकारस्य स्थाने षकारादेशो भवति | अतः चिकीर्+ ष इति भवति | चिकीर्ष इत्यस्य धातुसंज्ञा भवति सनाद्यन्ता धातवः( ३.१.३२) इत्यनेन सूत्रेण |


अग्रे ण्वुलन्तं रूपं साधयितुं चिकीर्ष इति धातुतः ण्वुल् प्रत्ययः विहितः भवति ण्वुल्तृचौ (३.१.१३३) इत्यनेन सूत्रेण |


चिकीर्ष + ण्वुल् → अग्रे ण्वुल् इति प्रत्ययस्य स्थाने युवोरनाकौ (७.१.१) इत्यनेन अकादेशः भवति → चिकीर्ष + अक |


चिकीर्ष + अक → अतो लोपः (६.४.४८) इत्यनेन अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे → चिकीर्ष् + अक = चिकीर्षक |


अधुना अचः परस्मिन्‌ पूर्वविधौ ( १.१.५७) इत्यनेन पूर्वविधौ कर्तव्ये परनिमित्तकः अजादेशः स्थानिवद्भवति | अतः चिकीर्ष् + अक इत्यत्र चिकीर्ष् इति भागस्य अन्तिमः वर्णः अकारवत् दृश्यते पूर्वविधेः लिति ( ६.१.१९३) इत्यस्य दृष्ट्या | लिति ( ६.१.१९३) इत्यनेन लित्-प्रत्यये परे प्रत्ययात् पूर्वमुपस्थितः स्वरः उदात्तः भवेत् | यस्मिन् प्रत्यये लकारः इत्संज्ञकः अस्ति, सः प्रत्ययः 'लित्-प्रत्ययः' इति नाम्ना ज्ञायते | ण्वुल् इति प्रत्ययः लित् अस्ति यतोहि तस्मिन् लकारस्य इत्संज्ञा जाता |


लिति ( ६.१.१९३) इत्यस्य दृष्ट्या चिकीर्ष + अक इव दृश्यते स्थानिवद्भावेन, अतः अक इति लित्-प्रत्यये परे, प्रत्ययात् पूर्वमुपस्थितः स्वरः उदात्तः भवेत् |  अत्र स्वरविधौ कर्तव्ये यदि लुप्तः अकारः स्थानिवद् भवति तर्हि चिकीर्ष् इत्यत्र तु अक इति प्रत्ययात् पूर्वम् स्वरः नास्ति इत्यतः अक इति प्रत्ययस्य अकारस्य एव उदातत्त्वं स्यात् | एवञ्चेत् चिकीर्षक इत्यत्र षकारोत्तरवर्ती अकारः उदात्तः भवति स्म |


परन्तु अचः परस्मिन् पूर्वविधौ (१.१.५७) इत्यनेन यः स्थानिवद्भावः प्राप्तः, तस्य निषेधः क्रियते न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु (१.१.५८) इति सूत्रेण स्वरविधौ | अत्र लुप्तः अकारः स्थानिवद् न भवति, अतः चिकीर्ष् + अक इत्यत्र ककारोत्तस्य ईकारस्य एव उदात्तत्वं विधीयते लिति ( ६.१.१९३) इत्यनेन यतोहि लिति ( ६.१.१९३) इति सूत्रं तु पूर्वम् उपस्थितस्य स्वरस्य एव उदातत्त्वं विधीयते | अत्र तु लिति प्रत्यये परे तु स्वरः अस्ति ककारोत्तरवर्ती ईकारः इति कृत्वा तस्यैव उदातत्त्वं जायते |

६) सवर्णविधिः = सवर्णविधौ परनिमित्तकः अजादेशः स्थानिवद्भावं न प्राप्नोति |

यथा –


शिषॢँ विश्लेषणे इति रुधादिगणीयः धातुः, तस्मात् लोटि मध्यपुरुषे एकवचने सिप् प्रत्ययः विधीयते |


शिष् + लोट् → शिष् + सिप् |


शिष् + सिप्  → सेर्ह्यपिच्च (३.४.८७) इति सूत्रेण सिप् प्रत्ययस्य स्थाने हि-आदेशः भवति, प्रत्ययः अपिच्च भवति |


शिष् + हि → हुझल्भ्यो हेर्धिः (६.४.१०१) इत्यनेन झलन्तेभ्यः अङ्गेभ्यः हि इति प्रत्ययस्य स्थाने इति धि-आदेशः भवति → शिष् + धि |


शिष् + धि → अधुना रुधादिभ्यः श्नम् (३.१.७८) इत्यनेन श्नम्-प्रत्ययस्य विधानं भवति | श्नम् इति प्रत्ययः मित् अतः मिदचोऽन्त्यात्परः ( १.१.४७) इत्यनेन मित्-आगमः यस्य शब्दस्य विधीयते तस्य शब्दस्य अन्तिमस्वरस्य अनन्तरम् आयाति | प्रकृतस्थले तु श्नम् इति प्रत्ययविधानं शिष् इति धातोः अस्ति इत्यतः शिष् इत्यस्मिन् इकारस्य अनन्तरम् आयाति |


शि श्नम् ष् + धि   → शि न ष् + धि → श्नसोरल्लोपः (६.४.१११) इति  सूत्रेण श्नम् इति विकरणप्रत्ययस्य च 'अस्' धातोः च अङ्गस्य अकारस्य सार्वधातुके किति, ङिति प्रत्यये परे लोपः भवति | अतः नकारोत्तरस्य अकारस्य लोपः भवति → शि न् ष् + धि |


शि न् ष् + धि → नश्चापदान्तस्य झलि (८.३.२४) इति सूत्रेण अनुस्वारादेशः भवति नकारस्य स्थाने झलि परे → शिं ष् + धि भवति | अस्मिन् सोपने अपि अचः परस्मिन्‌ पूर्वविधौ (१.१.५७) इत्यस्य प्रसक्तिः अस्ति, परन्तु अस्मिन् विषये अनुस्वारविधौ चर्चयिष्यामः |


शिं ष् + धि → ष्टुना ष्टुः (८.४.४१) इति धकारस्य ष्टुत्वे ढकारः → शिं ष् + ढि |


शिं ष् + ढि → झलां जश् झशि (८.४.५३) इत्यनेन षकारस्य जश्त्वे डकारः जायते झशि परे → शिं ड् + ढि |


शिं ड् + ढि → अनुस्वारस्य ययि परसवर्णः (८.४.५८) इत्यनेन अनुस्वारस्य परसवर्णादेशः णकारः जायते स्म येन शिण्ड्ढि इति रूपं भवति स्म |


किन्तु अचः परस्मिन्‌ पूर्वविधौ (१.१.५७) इत्यनेन पूर्वविधौ कर्तव्ये परनिमित्तकः अजादेशः स्थानिवद्भवति | अतः नकारोत्तरवर्ती ( इदानीम् अनुस्वारोत्तरवर्ती) अकारः स्थानिवद्भवति स्म  |  अर्थात् शिं ड् + ढि इव  दृश्यते अनुस्वारस्य ययि परसवर्णः (८.४.५८) इति सूत्रस्य दृष्ट्या | अतः अनुस्वारस्य ययि परसवर्णः (८.४.५८) इत्यनेन अनुस्वारस्य परसवर्णादेशः णकारः नैव प्राप्यते यतोहि अनुस्वारस्य अनन्तरं यय्-वर्णः एव नास्ति |  एवं चेत् शिण्ड्ढि इति इष्टरूपं न प्राप्यते एव अतः अचः परस्मिन् पूर्वविधौ (१.१.५७) इत्यस्य निषेधः आवश्यकः सवर्णविधौ |


अतः अचः परस्मिन् पूर्वविधौ (१.१.५७) इत्यनेन यः स्थानिवद्भावः प्राप्तः, तस्य निषेधः क्रियते न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु (१.१.५८) इति सूत्रेण सवर्णविधौ | अतः अत्र परसवर्णे कर्तव्ये परनिमित्तकः अकारलोपः स्थानिवन्न भवति | अतः शिं ड् + ढि इत्यत्र अनुस्वारस्य ययि परसवर्णः (८.४.५८) इत्यनेन अनुस्वारस्य परसवर्णादेशः णकारः जायते → शिण्ड्ढि |


शिण्ड्ढि →‌ झरो झरि सवर्णे (८.४.६५) इत्यनेन हलः परस्य झर्-वर्णस्य सवर्णे झर्-वर्णे परे विकल्पेन लोपः भवति | शिण्ड्ढि इत्यत्र णकारः हल्वर्णः, तस्य अनन्तरं यः झर्-वर्णः डकारः तस्य लोपः विकल्पेन भवति सवर्णे झरि, ढकारे परे; सर्वेषां टवर्गीयवर्णानां सावर्ण्यम् अस्ति → शिण्ढि /शिण्ड्ढि इति रूपद्वयं सिद्धयति |

७) अनुस्वारविधिः = अनुस्वारविधौ परनिमित्तकः अजादेशः स्थानिवद्भावं न प्राप्नोति |

यथा –


शिषॢँ विश्लेषणे इति रुधादिगणीयः धातुतः लट्लकारे प्रथमपुरुषे एकवचने झि इति प्रत्ययः विधीयते |


शिष् + लट् → शिष् + झि  → झोन्तः ( ७.१.३) इत्यनेन झ् इति प्रत्ययस्य स्थाने अन्त् इति आदेशः भवति → शिष् + अन्त् + इ |


शिष् + अन्ति → रुधादिभ्यः श्नम् (३.१.७८) इत्यनेन श्नम्-प्रत्ययस्य विधानम् | श्नम् इति प्रत्ययः मित्, अतः मिदचोऽन्त्यात्परः ( १.१.४७) इत्यनेन अचां मध्ये यः अन्त्यः, तस्मात् परः तस्यैव अन्तावयवः मित् स्यात् | श्नम् इति प्रत्ययः शिष् इति धातौ अन्तिमस्वरात् परम् आयाति |


शि ष् + अन्ति → शि न् ष् + अन्ति → अधुना श्नसोरल्लोपः (६.४.१११) इति  सूत्रेण श्नम् इति विकरणप्रत्ययस्य च 'अस्' धातोः च अङ्गस्य अकारस्य सार्वधातुके किति, ङिति प्रत्यये परे लोपः भवति | अतः नकारोत्तरस्य अकारस्य लोपः भवति | शि न् ष् + अन्ति → अकारस्य लोपः भवति अन्ति इति ङिति सार्वधातुके परे |


शि न् ष् + अन्ति → नश्चापदान्तस्य झलि (८.३.२४) इति सूत्रेण नकारस्य स्थाने झलि परे अनुस्वारादेशः भवति स्म |


किन्तु अचः परस्मिन्‌ पूर्वविधौ (१.१.५७) इत्यनेन पूर्वविधौ कर्तव्ये अजादेशः स्थानिवद्भवति, अतः अनुस्वारोत्तरवर्ती अकारः स्थानिवद् ( शिन् ष् + अन्ति इव ) भवति स्म, अतः नश्चापदान्तस्य झलि (८.३.२४) इति सूत्रेण अनुस्वारादेशः नैव प्राप्यते यतोहि नकारस्य अनन्तरं झल्-वर्णः न दृश्यते |


परन्तु अचः परस्मिन् पूर्वविधौ (१.१.५७) इत्यनेन यः स्थानिवद्भावः प्राप्तः अस्ति तस्य निषेधः क्रियते न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु (१.१.५८) इति सूत्रेण अनुस्वारविधौ | अतः अत्र अनुस्वारवर्णे कर्तव्ये अकारलोपः स्थानिवद् न भवति → अतः नश्चापदान्तस्य झलि (८.३.२४) इति सूत्रेण अनुस्वारादेशः जायते → शिंष् + अन्ति →‌ शिंषन्ति इति रूपं सिद्धयति |

८) दीर्घविधिः = दीर्घविधौ परनिमित्तकः अजादेशः स्थानिवद्भावं न प्राप्नोति |

यथा –


प्रति इति उपसर्गकपूर्वकात् दिव् इति धातुतः कनिन् युवृषितक्षिराजिधन्विद्युप्रतिदिवः इति उणादिसूत्रेण कनिन्-प्रत्ययः विधीयते चेत् → प्रति + दिव् + कनिन् इति भवति | कनिन् इति प्रत्यये इत्संज्ञकवर्णानां लोपानन्तरं अन् इति अवशिष्यते → प्रति + दिव् + अन् इति भवति | कनिन् इति प्रत्ययः कृत्प्रत्ययः अतः तस्य योजनेन प्रातिपदिकं लभ्यते कृत्तद्धितसमासाश्च ( १.२.४६) इत्यनेन सूत्रेण→ प्रतिदिवन् इति प्रातिपदिकं लभ्यते | प्रतिदिवन् इति नकारान्तः पुंलिङ्गः शब्दः | प्रतिदिवन् नाम दिनं, सूर्यः इति | अधुना प्रतिदिवन् इत्यस्मात् प्रातिपदिकात् तृतीयाविभक्तौ एकवचने टा इति प्रत्ययः विधीयते |


प्रतिदिवन् + टा → प्रतिदिवन् + आ → अधुना अल्लोपोनः ( ६.४.१३४) इत्यनेन 'अन्' यस्य अन्ते अस्ति, तादृशस्य भसंज्ञकस्य अङ्गस्य उपधा-अकारस्य लोपः भवति | यचि भम्‌ (१.४.१८) इत्यनेन सर्वनामस्थानसंज्ञक-प्रत्ययान्‌ अतिरिच्य सु-प्रत्ययात्‌ आरभ्य कप्‌-प्रत्ययपर्यन्तं ये प्रत्ययाः यकारादयः अजादयश्च, एषु कश्चन परः अस्ति चेत्‌ पूर्वतन-शब्दस्वरूपस्य भ-संज्ञा भवति | अतः प्रतिदिवन् इत्यस्य भसंज्ञा भवति आ इति अजादौ विभक्तिप्रत्यये परे → प्रतिदिव् न् + आ → अत्र अन् इति भागस्य अकारस्य लोपः भवति, अर्थात् उपधास्थस्य अकारस्य लोपः जायते → प्रतिदिव् न् + आ इति भवति |


प्रतिदिव् न् + आ → अस्यां स्थितौ लोपो व्योर्वलि (६.१.६५) इत्यनेन वकार-लोपः वलि परे भवति स्म | किन्तु अत्र लोपो व्योर्वलि (६.१.६५) इत्यनेन कार्यं जायते चेत् इष्टरूपं न प्राप्यते तर्हि स्थानिवद्भावस्य विषये चिन्तनीयं भवति | अचः परस्मिन्‌ पूर्वविधौ (१.१.५७) इत्यनेन पूर्वविधौ कर्तव्ये अजादेशः स्थानिवद्भवति, अतः कनिन् इति प्रत्ययस्य यः अकारः लुप्तः सः अकारः स्थानिवद्भवति ( प्रतिदिव् न् + आ इव ), अतः लोपो व्योर्वलि (६.१.६५) इत्यनेन सूत्रेण वकारलोपः नैव प्राप्यते यतोहि वकारस्य अनन्तरं वल्-वर्णः न दृश्यते | एवञ्च स्थानिवद्भावेन लोपो व्योर्वलि (६.१.६५) इत्यस्य कार्यं बाधितं भवति | स्मर्तव्यं यत् अचः परस्मिन्‌ पूर्वविधौ (१.१.५७) इति सूत्रस्य कार्यं निषिद्धं भवति केवलं यलोपविषये न तु वलोपविषये, अतः एव अत्र स्थानिवद्भावः स्वीक्रियते |


प्रतिदिव् न् + आ  → अधुना हलि च (८.२.७७) इत्यनेन हलि च परे रेफवकारान्तस्य धातोः उपधायाः इको दीर्घो भवति स्म → दिव् इति धातोः अन्ते वकारः अस्ति, तस्य उपधायाम् इक्-वर्णः अपि अस्ति, वकारात् परः हल्वर्णः अपि अस्ति | अतः वकारात् पूर्वं स्थितस्य इकारस्य दीर्घादेशः भवति स्म हलि च (८.२.७७) इत्यनेन सूत्रेण | प्रतिदीव् न् + आ इति भवति स्म |


किन्तु अचः परस्मिन्‌ पूर्वविधौ (१.१.५७) इत्यनेन पूर्वविधौ कर्तव्ये अजादेशः स्थानिवद्भवति, अतः वकारोत्तरवर्ती अकारः स्थानिवद् ( प्रतिदिव् न् + आ इव ) भवति स्म, अतः हलि च (८.२.७७) इत्यनेन दीर्घादेशः न प्राप्यते यतोहि वकारान्तात् धातोः अनन्तरं हल्वर्णः नास्ति अपि तु अकारः अस्ति |


परन्तु अचः परस्मिन् पूर्वविधौ (१.१.५७) इत्यनेन यः स्थानिवद्भावः प्राप्तः अस्ति तस्य निषेधः क्रियते न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु (१.१.५८) इति सूत्रेण दीर्घविधौ | अत्र दीर्घविधौ कर्तव्ये अकारलोपः स्थानिवद् भवति, अतः हलि च (८.२.७७) इत्यनेन दीर्घादेशः प्राप्यते येन प्रतिदीव्ना इति रूपं सिद्धयति | एवमेव चतुर्थीविभक्तौ प्रतिदीव्ने इति रूपं लभ्यते | पञ्चमीविभक्तौ, षष्ठीविभक्तौ च प्रतिदीव्नः इति रूपं प्राप्यते |

९) जश्त्वविधिः = जश्-विधौ परनिमित्तकः अजादेशः स्थानिवद्भावं न प्राप्नोति |

यथा –


अदँ भक्षणे इति अदादिगणीयः धातुतः स्त्रियां क्तिन् (३.३.९४) इति सूत्रेण क्तिन् इति प्रत्ययः भावार्थे विधीयते | अद् + क्तिन् इति भवति  |


अद् + क्तिन्  → अधुना बहुलं छन्दसि (२.४.३९) इति सूत्रेण छन्दसि विषये अद् धातोः स्थाने घसॢँ-आदेशः भवति → घसॢ + ति | घस् इति अवशिष्यते |


घस् + ति घसिभसोर्हलि च (६.४.१००) इति सूत्रेण घसि, भस इत्येतयोः छन्दसि विषये उपधायाः लोपो भवति हलादौ अजादौ च किति ङिति प्रत्यये परे | घस् + ति → अत्र  घकारोत्तरस्य अकारस्य लोपः भवति घसिभसोर्हलि च (६.४.१००) इति सूत्रेण → घ् स् + ति इति भवति |


घ् स् + ति → अधुना झलो झलि (८.२.२६) इति सूत्रेण झलः उत्तरस्य सकारस्य झलि परे लोपो भवति | घ् स् + ति → अत्र सकारस्य लोपः भवति झलो झलि (८.२.२६) इति सूत्रेण यतोहि घकारः झल्-वर्णः अस्ति, तस्य अनन्तरं सकारः अस्ति, सकारात् परं तकारः झल्वर्णः वर्तते | अतः घ् + ति इति भवति |


घ् + ति → अधुना झषस्तथोर्धोऽधः (८.२.४०) इति सूत्रेण धा-धातुं विहाय अन्येषाम् धातूनां विषये झष्-वर्णात् परस्य तकारस्य थकारस्य च स्थाने धकारः इति आदेशः भवति | अतः घ् + ति इत्यत्र  तकारस्य स्थाने धकारादेशो भवति यतोहि घकारः झषन्तः अस्ति → घ् + धि इति भवति | अचः परस्मिन्‌ पूर्वविधौ (१.१.५७) इत्यस्य प्रसक्तिः न भवति अत्र यतोहि झषस्तथोर्धोऽधः (८.२.४०) इति सूत्रस्य विधिः पूर्वविधिः नास्ति |


घ् + धि → अधुना झलां जश् झशि (८.४.५३) इति सूत्रेण झशि परे झल् स्थाने जशादेशः स्यात् | अतः ग् + धि इति भवति स्म |


किन्तु अचः परस्मिन्‌ पूर्वविधौ (१.१.५७) इत्यनेन पूर्वविधौ कर्तव्ये अजादेशः स्थानिवद्भवति | अतः घकारोत्तरवर्ती अकारः स्थानिवद्भवति स्म | घ् + ति इतिवत् दृश्यते येन झलां जश् झशि (८.४.५३) इति सूत्रेण जश्त्वं न प्राप्यते स्म यतोहि झश्-वर्णः परः नास्ति |


किन्तु अचः परस्मिन् पूर्वविधौ (१.१.५७) इत्यनेन यः स्थानिवद्भावः प्राप्तः अस्ति तस्य निषेधः क्रियते न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु (१.१.५८) इति सूत्रेण जश्त्वविधौ | अत्र जश्त्वविधौ कर्तव्ये अकारलोपः स्थानिवद् न भवति, अतः घ् + धि इत्यत्र झलां जश् झशि (८.४.५३) इति सूत्रेण घकारस्य जश्त्वे गकारं कृत्वा ग् + धि → ‌ग्धि इति रूपं लभ्यते |

१०) चर् -विधिः = चर्-विधौ परनिमित्तकः अजादेशः स्थानिवद्भावं न प्राप्नोति |

यथा –


अद भक्षणे इति धातुतः लिट्लकारे प्रथमपुरुषे द्विवचने तस् इति प्रत्ययः विहितः भवति |


अद् + लिट् → ‌ अद् + तस् → ‌ अधुना परस्मैपदानां णलतुसुस्थलथुसणल्वमाः (३.४.८२) इति सूत्रेण तस्-प्रत्ययस्य स्थाने अतुस्-आदेशः भवति → ‌अद् + अतुस् |


अद् + अतुस् → ‌लिट्यन्यतरस्याम् (२.४.४०) इति सूत्रेण लिटि परतः अद् धातोः घस्लृ इति आदेशो भवति विकल्पेन | घस्लृ इति आदेशे घस् इति अवशिष्यते | घस्लृ इति आदेशपक्षे घस् + अतुस् इति भवति, विकल्पेन अद् + अतुस् इत्यपि भवति | अधुना घस्लृ इति आदेशप्रसङ्गे स्थानिवद्भावस्य चिन्तनं कुर्मः |


घस् + अतुस् → लिटि धातोरनभ्यासस्य (६.१.८) इति सूत्रेण द्वित्वं जायते → घस् घस् + अतुस् → अभ्यासकार्याणि भूत्वा जघस् + अतुस् इति भवति |


जघस् + अतुस् → गमहनजनखनघसां लोपः क्ङित्यनङि (६.४.९८) इति सूत्रेण गम्, हन्, जन्, खन्, घस् इत्येतेषां धातूनाम् उपधावर्णस्य अजादौ किति, ङिति प्रत्यये परे लोपः भवति | असंयोगाल्लिट् कित् ( १.२.५) इत्यनेन असंयोगान्ताद् धातोः परः लिट् प्रत्ययः अपित् कित् च भवति | जघस् इत्यत्र घस् इति धातुः विद्यते; अतुस् इति प्रत्ययः अपित् कित् च अस्ति, अपि च जघस् इत्यत्र धातोः अन्ते संयोगः नास्ति | एवञ्च अत्र गमहनजनखनघसां लोपः क्ङित्यनङि (६.४.९८) इति सूत्रस्य प्रसक्तिः भवति | अतः जघ् स् + अतुस् इत्यत्र घकारोत्तरस्य अकारस्य लोपः भूत्वा जघ् स् + अतुस् इति भवति |


जघ् स् + अतुस् → शासिवसिघसीनां च (८.३.६०)  इति सूत्रेण इण्कोः ( इण्-प्रत्याहारस्थवर्णाः, कवर्गीयवर्णाः) परस्य शास्, वस्, घस् इत्येतेषां धातूनाम् अपदान्तसकारस्य षकारादेशः भवति | अतः जघ् स् + अतुस् इत्यत्र घकारः कवर्गीयवर्णः , तस्य अनन्तरं सकारस्य स्थाने षकारादेशः भवति शासिवसिघसीनां च (८.३.६०)  इति सूत्रेण → जघ् ष् + अतुस् इति भवति |


जघ् ष् + अतुस् → अधुना खरि च ( ८.४.५५) इत्यनेन चर्वत्वं प्राप्तम् अस्ति येन घकारस्य स्थाने ककारादेशः भवति स्म षकारः इति खर्वर्णे परे |


परन्तु अचः परस्मिन्‌ पूर्वविधौ ( १.१.५७) इत्यनेन पूर्वविधौ कर्तव्ये अजादेशः स्थानिवद्भवति, अतः घकारोत्तरवर्ती अकारः स्थानिवद्भवति स्म | अतः ज ष् + अतुस् इतिवत् दृश्यते येन खरि च ( ८.४.५५) इति सूत्रेण चर्त्वं न प्राप्यते स्म यतोहि घकारात् परं तु अधुना खर्-वर्णः एव नास्ति अपि तु अकारः अस्ति |


किन्तु अचः परस्मिन् पूर्वविधौ (१.१.५७) इत्यनेन यः स्थानिवद्भावः प्राप्तः अस्ति तस्य निषेधः क्रियते न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु (१.१.५८) इति सूत्रेण चर् -विधौ | अत्र चर्त्वविधौ कर्तव्ये अकारलोपः स्थानिवद् न भवति, अतः जघ् ष् + अतुस् इत्यत्र खरि च (८.४.५५) इति सूत्रेण घकारस्य चर्त्वे ककारे कृते जक् ष् + अतुस् → जक्षतुस् → रुत्वविसर्गौ कृत्वा जक्षतुः इति रूपं लभ्यते |

४) द्विर्वचनेऽचि (१.१.५९)

४) द्विर्वचनेऽचि (१.१.५९) = द्वित्वनिमित्ते अचि परे अजादेशो न स्यात् द्वित्वे कर्तव्ये | अर्थात् धातोः द्वित्वस्य निमित्तम् अजादिः प्रत्ययः अस्ति चेत्, तस्मिन् प्रत्यये परे द्वित्वे कर्तव्ये अजादेशः न भवति | यदि प्रक्रियायाम् अजादेशः तथा च अजादिनिमित्तकं द्वित्वं द्वयमपि युगपत् प्राप्तं तर्हि आदौ द्वित्वकार्यं कृत्वा, तदनन्तरमेव अजादेशः कर्तव्यः, अतः एव अचः आदेशः न स्याद् द्वित्वे कर्तव्ये इति उक्तं कौमुदीकारेण | यावद् द्वित्वम् न कृतं तावत् अजादेशः अपि न करणीयः, परन्तु द्वित्वे कृते अग्रिमसोपाने एव अजादेशस्य प्रसक्तिः चेत् तदा करणीया | द्विरुच्यते अस्मिन् इति द्विर्वचनम्, अधिकरणे ल्युट् प्रत्ययः | तस्मिन् द्विर्वचने | अचः परस्मिन् पूर्वविधौ (१.१.५७) इत्यस्मात् अचः इत्यस्य अनुवृत्तिः  | स्थानिवदादेशोऽनल्विधौ ( १.१.५६)  इत्यस्मात् आदेशः इत्यस्य अनुवृत्तिः | न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु ( १.१.५८) इत्यस्मात् सूत्रात्  इत्यस्य अनुवृत्तिः | प्रकृतसूत्रे अचि इति पदं द्विर्वचने इत्यस्य विशेषणम् अस्ति | अनुवृत्ति-सहित-सूत्रं— अचः आदेशः न अचि द्विर्वचने |


न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु (१.१.५८) इति सूत्रेण यस्य द्वित्वस्य विषये उक्तं तत्तु अष्टमाध्याये विद्यमानैः सूत्रैः विधीयते | अर्थात् अस्मिन् सूत्रे द्वित्वकार्यं वर्णनिमित्तककार्यस्य प्रसङ्गः अस्ति | यथा अनचि च (८.४.४७) इति सूत्रेण उक्तं द्वित्वकार्यम् |


प्रकृतसूत्रेण यस्य द्वित्वस्य विषये उक्तं तत्तु षष्ठाध्यायस्य प्रथमपादे विद्यमानैः सूत्रैः विधीयते | धातोः द्वित्वस्य प्रसङ्गे यानि सूत्राणि उक्तानि तेषां ग्रहणं क्रियते | अर्थात् प्रकृतसूत्रेण धातोः द्वित्वम् उच्यते, तादृशद्वित्वं तु अङ्गकार्यम् इति स्मर्तव्यम् |


यथा –


पा-धातुतः लिट्लकारे प्रथमपुरुषद्विवचने तस् इति प्रत्ययः विधीयते आदौ |


पा + तस् → अधुना परस्मैपदानां णलतुसुस्थलथुसणल्वमाः (३.४.८२) इति सूत्रेण तस्-प्रत्ययस्य स्थाने अतुस्-आदेशः भवति | पा + अतुस् इति भवति | लिट् च (३.४.११५) इति सूत्रेण सर्वे तिङ्प्रत्ययाः आर्धधातुकाः भवन्ति लिट्लकारे |


पा + अतुस् → अत्र युगपत् कार्यद्वयस्य प्रसक्तिः भवति –


१) आतो लोप इटि च (६.४.६४) इत्यनेन अजादौ किति ङिति आर्धधातुकप्रत्यये परे पा-इत्यस्य आकारस्य लोपः | अयम् आकारलोपः अजादेशः | असंयोगाल्लिट् कित् ( १.२.५) इत्यनेन असंयोगान्ताद् धातोः परः लिट् प्रत्ययः अपित् कित् च भवति | अतः अतुस् प्रत्ययः किद्वत् भवति यतोहि पा धातुः असंयोगान्तः; अतुस् प्रत्ययः अपित् अपि अस्ति |


२) लिटि धातोरनभ्यासस्य (६.१.८) इति सूत्रेण लिटि परे अनभ्यासधात्ववयवस्य एकाचः प्रथमस्य द्वे स्तः, आदिभूतादचः परस्य तु द्वितीयस्य । लिट्-लकारे परे यस्य धातोः द्वित्वं न कृतमस्ति तस्य द्वित्वं भवति | अतुस् इति प्रत्ययं निमित्तीकृत्य धातोः द्वित्वम् | इदं द्वित्वम् अजादिनिमित्तकम् अस्ति  |


एतयोः द्वयोः कार्ययोः मध्ये आकारलोपः नित्यकार्यम् अस्ति यतोहि द्वित्वे कृते अकृते आकारलोपः जायते एव | किन्तु प्रथमम् आकारलोपः क्रियते तत्पश्चात् तु द्वित्वं न सिद्ध्यति अजभावात् | एकाचो द्वे प्रथमस्य ( ६.१.१) इत्यनेन सूत्रेण उच्यते यत् प्रथमस्य एकाच्‌-भागस्य द्वित्वं भवति इति | यदि धातौ अच्-वर्णः एव नास्ति तर्हि द्वित्वमेव न जायते |


किन्तु अत्र द्विर्वचनेऽचि (१.१.५९) इत्यनेन धातोः द्वित्वस्य निमित्तम् अजादिः प्रत्ययः अस्ति चेत्, तस्मिन् प्रत्यये परे द्वित्वे कर्तव्ये अजादेशः न भवति |  अर्थात् आदौ द्वित्वमेव करणीयं, तत्पश्चात् एव आकारलोपः क्रियते | अतः आदौ द्वित्वं कृत्वा पा पा + अतुस् इति सिद्धे ततः आकारलोपः करणीयः आतो लोप इटि च (६.४.६४) इत्यनेन   |


प्रक्रिया अधो लिखिता वर्तते  —


पा + लिट् →  पा + तस् → परस्मैपदानां णलतुसुस्थलथुसणल्वमाः (३.४.८२) इति सूत्रेण प्रथमपुरुषद्विवचनस्य  तस् स्थाने अतुस् इति आदेशः भवति | पा + अतुस् इति भवति | असंयोगाल्लिट् कित् ( १.२.५) इत्यनेन असंयोगान्ताद् धातोः परः लिट् प्रत्ययः अपित् कित् च भवति |


पा + अतुस्  →  आदौ अच्-निमित्तकं द्वित्वं कर्तव्यं लिटि धातोरनभ्यासस्य (६.१.८) इति सूत्रेण यद्यपि आतो लोप इटि च (६.४.६४) इत्यनेन आकारलोपः अपि प्राप्तः अस्ति | अतः पा पा + अतुस् इति भवति |


पा पा + अतुस् → अधुना द्वित्वानन्तरम् आतो लोप इटि च (६.४.६४) इत्यनेन आकारलोपः | पा प् + अतुस् इति भवति |


पा प् + अतुस् → अजादौ किति-प्रत्यये परे आतो लोप इटि च (६.४.६४) इति आकारलोपः जायते | द्वित्वे कृते अपि अयम् आकारलोपस्य प्रसक्तिः प्राप्तिः च भवति | अग्रे अभ्यासस्य ह्रस्वत्वं ह्रस्वः (७.४.५९) इति सूत्रेण कृत्वा पप् + अतुस् → ससजुषो रुः (८.२.६६), खरवसानयोर्विसर्जनीयः (८.३.१५) इति विसर्गः → पपतुः इति रूपं सिद्धयति |


स्मर्तव्यं यत् द्विर्वचनेऽचि (१.१.५९) इति सूत्रस्य अर्थः कौमुदीकारस्य मतम् अनुसृत्य अस्माभिः ज्ञातम् उपर्युक्तायां प्रक्रियायाम् | काशिकाकारस्य मतानुसारम् अस्य सूत्रस्य अर्थः भिन्नरीत्या स्वीकृतः अस्ति इति ज्ञातव्यम् |


काशिकाकारस्य मतानुसारं द्विर्वचनेऽचि (१.१.५९) इति सूत्रस्य अर्थः एवम् अस्ति –


अच्-वर्णस्य स्थाने जायमानः आदेशः अजादिनिमित्ते द्वित्वे कर्तव्ये स्थानिवद् भवति | अर्थात् प्रक्रियायां यदि अजादेशः तथा च अजादिनिमित्तकं द्वित्वं द्वयमपि युगपत् प्राप्तं तर्हि आदौ अजादेशं कृत्वा, तत्पश्चात् अयम् अजादेशः स्थानिवद् भवति द्वित्वकार्यस्य कृते ‌|


काशिकारस्य मतानुसारं प्रक्रिया एवं भवति पा धातोः लिट् -लकारे प्रथमपुरुषे द्विवचने –


पा + लिट् →  पा + तस् → परस्मैपदानां णलतुसुस्थलथुसणल्वमाः (३.४.८२) इति सूत्रेण प्रथमपुरुषद्विवचनस्य तस् स्थाने अतुस् इति आदेशः भवति | पा + अतुस् इति भवति |


पा + अतुस्  →  आदौ  आतो लोप इटि च (६.४.६४) इत्यनेन आकारलोपः नाम अजादेशः कर्तव्यः यद्यपि अच्‌ -निमित्तकं द्वित्वम् अपि प्राप्तम् अस्ति लिटि धातोरनभ्यासस्य (६.१.८) इति सूत्रेण | प् + अतुस् इति भवति यतोहि आकारस्य लोपः जातः आतो लोप इटि च (६.४.६४) इत्यनेन सूत्रेण |


प् + अतुस् → अधुना आकारलोपे कृते अपि अतुस् इति अजादिप्रत्यये परे द्वित्वे कर्तव्ये लुप्तः आकारः स्थानिवद् भवति द्विर्वचनेऽचि (१.१.५९) इति सूत्रेण |  यदि अत्र स्थानिवद्भावः न स्वीक्रियते तर्हि प् + अतुस् इति स्थितौ धातौ एकः अपि अच् वर्णः नास्ति इत्यतः द्वित्वमेव न सम्भवति  | एकाच्-प्रकृतेः एव द्वित्वं सम्भवति यतोहि एकाचो द्वे प्रथमस्य ( ६.१.१) इति सूत्रेण द्वित्वं धातोः प्रथमस्य एकाच्-अवयवस्य भवति | अतः अजादेशानन्तरं स्थानिवद्भावं स्वीकृत्य, अच्-निमित्तकं द्वित्वं जायते लिटि धातोरनभ्यासस्य (६.१.८) इति सूत्रेण |


अतः प् + आ +  अतुस् इतिवत् दृश्यते लिटि धातोरनभ्यासस्य (६.१.८) इति सूत्रस्य द्वित्वार्थं येन द्वित्वं जायते   → पा प् + अतुस् इति भवति | अग्रे अभ्यासस्य ह्रस्वत्वं  ह्रस्वः (७.४.५९) इति सूत्रेण कृत्वा पप् + अतुस् → ससजुषो रुः (८.२.६६), खरवसानयोर्विसर्जनीयः (८.३.१५) इति विसर्गः → पपतुः इति रूपं सिद्धयति |


एकाचो द्वे प्रथमस्य (६.१.१) = अधिकारसूत्रं— प्रथमस्य एकाच्‌-भागस्य द्वित्वं भवति | जागृ → जा जागृ | पच्‌ → पच्‌ पच्‌ | इ → इ इ | षष्ठाध्यायस्य प्रदमपादस्य द्वादशं सूत्रं (६.१.१२) पर्यन्तं सर्वत्र अनुवर्तते | एकाचः षष्ठ्यन्तं, द्वे प्रथमान्तं, प्रथमस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्‌— प्रथमस्य एकाचः द्वे |


पूर्वोऽभ्यासः (६.१.४) = द्वित्वानन्तरं, यस्मिन्‌ द्विवारम्‌ उच्चारणं जातं तस्मिन्‌ प्रथमभागस्य नाम अभ्यासः | पूर्वः प्रथमान्तम्‌, अभ्यासः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | एकाचो द्वे प्रथमस्य (६.१.१) इत्यस्मात्‌ द्वे इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— पूर्वः अभ्यासः द्वयोः |


उभे अभ्यस्तम् (६.१.५) = द्वित्वानन्तरं, द्वयोः समुदायः अभ्यस्तसंज्ञको भवति | उभे प्रथमान्तम्‌, अभ्यस्तं प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | एकाचो द्वे प्रथमस्य (६.१.१) इत्यस्मात्‌ द्वे इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌—उभे द्वे अभ्यस्तम् |


परिशिष्टम्-१

प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२)

स्थानिवद्भावस्य अपि च प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनयोः कः सम्बन्धः इति ज्ञातुं प्रत्ययलोपे प्रत्ययलक्षणम् (१.१.६२) इति सूत्रस्य अध्ययनम् आवश्यकम् |


प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) = प्रत्यये लुप्ते सति, प्रत्ययं मत्वा तस्य द्वारा विहितं कार्यं स्यात्‌ | प्रत्ययलुप्तेऽपि तदाश्रितं कार्यं स्यादित्यर्थः | प्रत्ययलोपे प्रत्ययनिमित्तकं कार्यं भवति इत्यर्थः | प्रत्ययस्य लोपः प्रत्ययलोपः षष्ठीतत्पुरुषः, तस्मिन्‌ प्रत्ययलोपे | प्रत्ययस्य लक्षणं निमित्तं यस्य तत्‌ प्रत्ययलक्षणम्‌, बहुव्रीहिः | सूत्रं स्वयं सम्पूर्णं— प्रत्ययलोपे प्रत्ययलक्षणम्‌ |


यथा –


राजन्‌ + सु → हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌ (६.१.६७) इत्यनेन स्‌-लोपः → प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) इत्यनेन सुप्‌-प्रत्ययं निमित्तीकृत्य राजन्‌ सुबन्तम्‌ इति मत्वा सुप्तिङन्तं पदम्‌ (१.४.१४) इत्यनेन तस्य पद-संज्ञा-ग्रहणेन न लोपः प्रातिपदिकान्तस्य (८.२.७) इत्यनेन प्रातिपदिकान्तस्य पदान्त-नकारस्य लोपो जायते |


प्रत्ययस्य लुक्श्लुलुपः ( १.१.६१) इत्यस्मात् सूत्रात् प्रत्ययस्य इति अनुवृत्त्या सिद्धे आद्यप्रत्ययग्रहणसामर्थ्यात् कृत्स्नप्रत्ययलोपे एव प्रत्ययलक्षणं, न तु तदवयवलोपे इत्यर्थः सिद्धयति | पूर्वसूत्रात् प्रत्ययग्रहणानुवृत्त्या सिद्धे प्रत्ययग्रहणसामर्थ्यात् कृत्स्नस्य प्रत्ययस्य लोपः, न तु एकदेशस्य इति अर्थः लभ्यते | यथा आघ्नीत | प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) इति सूत्रे आद्यप्रत्ययग्रहणमेव ज्ञापकं यत् सकलप्रत्ययलोपे एव प्रत्ययलक्षणं भवति इति | यद्यपि प्रत्ययस्य इति पदं पूर्वसूत्रे विद्यते तथापि अस्मिन् सूत्रे प्रत्ययग्रहणं क्रियते केवलं ज्ञापनार्थं यत् कृत्स्नप्रत्ययलोपे एव प्रत्ययलोपे प्रत्ययलक्षणं भवति इति | प्रत्ययस्य एकस्य अंशस्य अथवा एकस्य वर्णस्य लोपः जायते चेत् तदा प्रत्ययलक्षणं न भवति | तात्पर्यं यत् सम्पूर्णस्य प्रत्ययस्य लोपे सत्येव प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) इत्यस्य कार्यम् अर्हति | प्रत्ययस्य कश्चन भागः लुप्यते चेत् तदा प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) इत्यनेन लक्षणं कर्तुं न शक्यते |


यथा –


प्रत्ययस्य कश्चन भागः लुप्यते चेत् प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) इत्यनेन प्रत्ययलक्षणं साधयितुं न शक्यते इति प्रदर्शनार्थं हन् हिंसागत्योः इति अदादिगणीयधातोः विधिलिङ्लकारे उत्तमपुरुषैकवचनस्य प्रक्रियां पश्यामः | आङ् इति उपसर्गपूर्वकः हन् इति धातुः अकर्मकप्रयोगेषु आत्मनेपदी भवति आङो यमहनः (१.३.२८) इत्यनेन सूत्रेण |


आङ् + हन् + लिङ् → विधिलिङ्लकारस्य विवक्षायां हन् इति धातुतः लिङ्लकारः विधीयते |


आ + हन् + इड् → आङ् इति उपसर्गपूर्वकः हन् इति धातुतः आत्मनेपदिसंज्ञकः इड् इति तिङ्प्रत्ययः विधीयते विधिलिङ्लकारस्य स्थाने उत्तमपुरुषैकवचनस्य विवक्षायाम् | इड् इति तिङ्प्रत्ययः अपित् इत्यतः सार्वधातुकमपित् (१.२.४) इति सूत्रेण इड् इति प्रत्ययः ङिद्वत् भवति | इड् इति प्रत्यये डकारस्य इत्संज्ञा भूत्वा, लोपः च भवति, अतः इ इति अवशिष्यते |


आ + हन् + इ → अधुना कर्तरि शप् ( ३.१.६८) इति सूत्रेण शप् इति विकरणप्रत्ययः विधीयते कर्त्रर्थे सार्वधातुकप्रत्यये परे → आ + हन् + अ + इ इति भवति |


आ + हन् + अ + इ → अदिप्रभृतिभ्यः शपः (२.४.७२) इति सूत्रेण अदिप्रभृतिभ्यः उत्तरस्य शपः लुग् भवति → आ + हन् + इ इति भवति |


आ + हन् + इ → लिङस्सीयुट् (३.४.१०२) इत्यनेन सूत्रेण लिङादेशानां सीयुडागमो भवति | अतः इ-प्रत्ययस्य सीयुट्-आगमः भवति | सीयुट् इति आगमः टित् इति कृत्वा आद्यन्तौ टकितौ ( १.१.४६) इति सूत्रेण तिङ्प्रत्ययस्य आद्यवयवः भवति | टकारस्य इत्संज्ञा भूत्वा लोपः च भवति, यकारोत्तरवर्ती उकारः उच्चारणार्थः, सीय् इति अवशिष्यते | आ + हन् + सीय् + इ इति भवति | सीय् इति आगमः प्रत्ययस्य अवयवः अस्ति यतोहि आगमः यस्य भवति तस्य आद्यवयवः भवति | इदानीं सीयि इति तिङ्प्रत्ययः इति स्वीक्रियते |


आ + हन् + सीयि → अग्रे लिङः सलोपोऽनन्त्यस्य (७.२.७९) इति सूत्रेण सार्वधातुके यो लिङ् तस्य अनन्त्यस्य सकारस्य लोपो भवति | अर्थात् लिङ्लकारस्य प्रत्ययस्य अवयवरूपेण यः सकारः न तु पदान्ते, तस्य लोपः भवति | आ + हन् + ईयि इति भवति | अधुना अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिक लोपो झलि क्ङिति (६.४.३७) इति सूत्रेण अनुदात्तोपदेशानाम् अङ्गानां वनतेः तनोत्यादीनां च अनुनासिकलोपो भवति झलादौ क्ङिति प्रत्यये परे | अनुनासिकान्त-अनुदात्तोपदेश-धातवः एते सन्ति यम्‌, रम्‌, नम्‌, गम्‌, हन्‌, मन्‌ | सीयि इति प्रत्यये तु सकारस्य लोपः अभवत् तर्हि अत्र प्रश्नः उदेति यत् प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) इति सूत्रेण सकारस्य लोपानन्तरम् अपि तस्य लक्षणं झलादित्वं तिष्ठति वा येन अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिक लोपो झलि क्ङिति (६.४.३७) इति सूत्रेण अङ्गस्य अन्तिमवर्णस्य नकारस्य लोपः स्यात् ?


उत्तरम् अस्ति यत् प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) इत्यनेन कृत्स्नप्रत्ययलोपे एव प्रत्ययलक्षणं, न तु तदवयवलोपे इति कृत्वा सकारस्य लक्षणं स्वीकर्तुं न शक्यते यतोहि सम्पूर्णस्य प्रत्ययस्य लोपः न कृतः अपितु केवलम् एकस्य अंशस्यैव लोपः कृतः अस्ति | अनेन कारणेन अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिक लोपो झलि क्ङिति (६.४.३७) इति सूत्रेण झलादि-ङित्-प्रत्ययं निमित्तीकृत्य अनुनासिकस्य लोपः न सिद्धयति |


अपि च अत्र स्थानिवदादेशोऽनल्विधौ ( १.१.५६) इत्यनेन स्थानिवद्भावेन अपि झलादित्वम् इति यः धर्मः स्थानिनि अस्ति तस्य अध्यारोपः लोपादेशे न शक्यते यतोहि अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिक लोपो झलि क्ङिति (६.४.३७) इति सूत्रम् अल्विधिः अस्ति | अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिक लोपो झलि क्ङिति (६.४.३७) इति सूत्रं तदा एव कार्यं कर्तुं शक्यते यदा स्थानिनि यः झलादित्वम् अस्ति तस्य अध्यारोपः क्रियते ईयि इति प्रत्यये इति कृत्वा इदं सूत्रम् अल्विधिः इति मन्यते | अचः परस्मिन् पूर्वविधौ ( १.१.५७) इति सूत्रस्य प्रसङ्गः एव नास्ति यतोहि अत्र आदेशः तु सकारस्य स्थाने जातः न तु अच्वर्णस्य स्थाने |


आ + हन् + ईयि → अधुना गमहनजनखनघसां लोपः क्ङित्यनङि ( ६.४.९८) इत्यनेन सूत्रेण गम हन जन खा घस इत्येतेषाम् अङ्गानाम् उपधायाः लोपो भवति अजादौ क्ङिति प्रत्यये, अनङि च परे | ईयि इति प्रत्ययः अजादिः, ङिद्वत्प्ररत्ययः इति कृत्वा हकारोत्तरवर्तिनः अकारस्य लोपः जायते | आ + ह् न् + ईयि इति भवति |


आ + ह् न् + ईयि → अग्रे हो हन्तेर्ञ्णिन्नेषु (७.३.५४) इति सूत्रेण हन्तेः हकारस्य कवर्गादेशो भवति ञिति णिति प्रत्यये परे नकारे च परे | अतः हकारस्य स्थाने ककारादेशः जायते स्थानेऽन्तरतमः (१.१.५०) इत्यनेन → आ + घ् न् + ईयि इति भवति |


आ + घ् न् + ईयि→ अधुना इटोऽत् (३.४.१०६) इति सूत्रेण लिङादेशस्य इटः अत् स्यात् | अतः इ इति प्रत्ययस्य स्थाने अ इति आदेशः भवति → आ + घ् न् + ईय् + अ आघ्नीय इति रूपं सिद्धं भवति |


स्थानिवदादेशोऽनल्विधौ (१.१.५६) इति अतिदेशसूत्रेण एव प्रत्ययलोपेऽपि स्थानिवद्भावेन तत्प्रयुक्तकार्यस्य सिद्धत्वात् प्रत्ययलोपे प्रत्ययलक्षणम् ( १.१.६२) इति सूत्रं किमर्थम् इति प्रश्नः उदेति |


समाधानत्वेन उच्यते यत् प्रत्ययलोपे तल्लक्षणं स्थानिवद्भावेन न सिद्ध्यति यतोहि अनल्विधौ इति निषेधात् | यदि प्रक्रियायां तिङ्प्रत्ययस्य लोपः जायते तर्हि तिङ्प्रत्ययस्य स्थानिवद्भावः तदा एव शक्यते यदा तृतीयकाले विधिसूत्रम् अनल्विधिः अस्ति | अल्विधौ अपि प्रत्ययलोपे प्रत्ययलक्षणम् इष्यते, तदर्थम् एव प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) इति सूत्रम् आवश्यकम् | स्थानिवद्भावादेव सिद्धे अल्विध्यर्थमिदं प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) इति सूत्रम् |


प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) इति सूत्रस्य कार्यक्षेत्रं किम्?


स्थानिवत्सूत्रेण सिद्धे नियमार्थम् इदं सूत्रम् | यत्र प्रत्ययस्याऽसाधारणं रूपं प्रयोजकं तदेव कार्यं प्रत्ययलोपे सति भवतीति नियमार्थम् इदं सूत्रम् इति भाष्यादिषु स्पष्टतया उक्तम् | प्रत्ययस्याऽसाधरणं रूपं यत्र प्रयोजकं तद् एव कार्यं प्रत्ययलोपे सति भवति, न तु प्रत्ययाऽप्रत्ययसाधरणम् इति | यत्र हि प्रत्ययस्यासाधारणं रूपमाश्रीयते तत्रैव प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) इत्यस्य कार्यम् | यत्र प्रत्यये परे अप्रत्यये परे च उभयत्र ग्रहणं भवति, तत्र प्रत्ययलक्षणं न कर्तव्यम्‌ | इतोऽपि स्पष्टीकरणार्थम्‌ उच्यते, यत्र हि प्रत्ययस्यासाधारणं रूपमाश्रीयते तत्रैव तत्‌ | केवलं प्रत्ययस्य असाधारणरूपम् आश्रयम्‌ अवलम्ब्य कार्यं यत्र स्यात्‌, तत्रैव प्रत्ययलक्षणं भवति यथा राजा इत्यत्र |


राजा इत्यस्य प्रक्रियायां राजन् इति प्रातिपदिकात् सु इति प्रत्ययः विधीयते प्रथमाविभक्तौ एकवचने | राजन्‌ + सु → हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌ (६.१.६७) इत्यनेन हलन्ताद्, ङ्यन्तात् आबन्तात् च दीर्घात् परं सु, ति, सि इत्येतदपृक्तं हल् लुप्यते | अतः राजन्‌ + सु इत्यत्र अपृक्तः स्‌-लोपः → अधुना प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) इत्यनेन सुप्‌-प्रत्ययधर्ममात्रस्य पुरस्कारं कृत्वा राजन्‌ सुबन्तम्‌ इति मत्वा सुप्तिङन्तं पदम्‌ (१.४.१४) इत्यनेन तस्य पद-संज्ञा-ग्रहणेन न लोपः प्रातिपदिकान्तस्य (८.२.७) इत्यनेन प्रातिपदिकान्तस्य पदान्त-नकारस्य लोपो जायते |


अन्यदृष्टान्तः अस्ति अनुदात्तङित‌ आत्मनेपदम्‌ (१.३.१२) इति सूत्रम् | अनेन यत्‌ आत्मनेपदत्वं विधीयते, तस्य ङित्त्वं केवलं प्रत्ययनिमित्तकङित्त्वं न अपि तु यत्किमपि ङित्त्वं— प्रकृतेः ङित्त्वम्‌, प्रत्ययस्य ङित्त्वम्‌ इत्यादिकमपि आत्मनेपदत्वस्य निमित्तं स्वीक्रियते | प्रत्ययमात्रधर्मस्य पुरस्कारं कृत्वा ङित्त्व-प्रयुक्त-आत्मनेपदत्वं नास्ति | तात्पर्यम्‌ इदं यत्‌ आत्मनेपदत्वं केवलं प्रत्ययनिमित्तकं कार्यं नास्ति अपि तु प्रत्यय-अप्रत्ययस्य च उभयत्र विद्यमानं ङित्त्वम् आत्मनेपदत्वस्य कारणम्‌ | अस्य अर्थः स्पष्टीभविष्यति उदाहरणस्य परिशीलनेन |


यथा यङ्लुगन्तधातोः प्रसङ्गे यङ्प्रत्ययस्य लुक् विकल्पेन भवति येन यङ्लुगन्तधातुः सिद्धयति | यङ्प्रत्ययस्य योजनने इदानीं यङन्तधातुः ङित् जातः, तत्पश्चात् यङ्प्रत्ययस्य लुग् जातम्, तर्हि यङ्लुगन्तधातुभ्यः प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) इत्यनेन ङित्वम् आश्रित्य अनुदात्तङित‌ आत्मनेपदम्‌ (१.३.१२) इत्यनेन आत्मनेपदसंज्ञकानां तिङ्प्रत्ययानां विधानं शक्यते वा इति प्रश्नः?


समाधानमेवमस्ति -


अनुदात्तङित‌ आत्मनेपदम्‌ (१.३.१२) इत्यनेन सूत्रेण यस्य धातोः अनुदात्तस्वरस्य, ङकारस्य च इत्‌-संज्ञा भवति, सः धातुः आत्मनेपदी भवति | अस्मिन् सूत्रे अनुदात्तेत्‌ङित्‌ चेत्याभ्यां पदाभ्याम्‌ अनुबन्धग्रहणं भवति | यङ्लुगन्तप्रसङ्गे तु ङित्वस्य चिन्तनं क्रियमाणम् अस्ति | अनुदात्तङित‌ आत्मनेपदम्‌ (१.३.१२) इति सूत्रस्य कार्यार्थं प्रत्ययस्य ङित्वं, धातोः ङित्वं, यत्किमपि ङित्वं स्वीकर्तुं शक्यते | अस्य सूत्रस्य प्रवर्तनार्थं केवलं ङित्वम् आवश्यकं, तच्च ङित्वं प्रत्यये,अप्रत्यये उभयत्र भवितुम् अर्हति |


१) अप्रत्यये (धातौ) ङित्वम् = शीङ् इति धातौ, धातोः ङित्वं स्वीकृत्य आत्मनेपदसंज्ञकः प्रत्ययः विधीयते, तदर्थं शेते इति रूपं सिद्धयति लटि प्रथमपुरुषैकवचने |


२) प्रत्यये ङित्वम् = पठ् इति धातुतः यङ्प्रत्ययः क्रियते चेत् तदा पापठ्य इति यङन्तधातुः सिद्धयति | अयं च यङन्तधातुः ङित् यङ्प्रत्ययस्य ङित्वम् आश्रित्य | तर्हि प्रत्ययस्य ङित्वं स्वीकृत्य पापठ्य इति धातुतः आत्मनेपदसंज्ञकानां प्रत्ययानां विधानं क्रियते | अतः एव पापठ्यते इति रूपं सिद्धयति लटि प्रथमपुरुषैकवचने | एवमेव ऋतेरीयङ् ( ३.१.२९) इत्यनेन ऋति, जुगुप्सायां, कृपायाम् इति सौत्रधातुतः ईयङ् प्रत्ययो भवति | अयं धातुः धातुपाठे न लभ्यते | ऋतेरीयङ् ( ३.१.२९) इति सूत्रे एव अयं धातुः पाठितः | अस्मिन् सूत्रे ईयङ् इति प्रत्यये ङकारः आत्मनेपदार्थः इत्यतः ऋतीयते, ऋतीयेते, ऋतियन्ते इत्यादीनि रूपाणि लभ्यन्ते लटि प्रथमपुरुषे |


यङ्लुगन्तधातुभ्यः प्रत्ययलक्षणेन आत्मनेपदित्वं न ग्रहीतम् इति दृश्यते, किमर्थं चेत् प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) इत्यस्य कार्यं तत्रैव भवति यत्र प्रत्ययं निमित्तीकृत्य कार्यं विधीयमानम् अस्ति | यथा - पठ् इति धातुतः यङ्प्रत्ययः विधीयते चेत् पठ् + यङ् इति भवति | यदा यङ्प्रत्ययस्य विकल्पेन लुक् भवति, तदा पापठ् इति यङ्लुगन्तधातुः निष्पद्यते द्वित्वानन्तरम् | पापठ् इति धातौ यङ्प्रत्ययस्य विधानं कृत्वा तस्य लुक् जातम् | तर्हि प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) इत्यनेन पापठ् इति धातौ यङ्प्रत्ययस्य लक्षणं कृत्वा धातुः ङित् इति मत्वा अनुदात्तङित‌ आत्मनेपदम्‌ (१.३.१२) इत्यनेन आत्मनपदसंज्ञकानां तिङ्प्रत्ययानां विधानं न शक्यते यतोहि ङित्त्वं केवलप्रत्ययधर्मो नास्ति अपि तु अपरेषु स्थलेष्वपि भवति, यथा शीङ्‌-धातौ | इति कृत्वा यङ्लुगन्तप्रसङ्गे प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) इत्यनेन सूत्रेण यङ्प्रत्ययस्य लक्षणम् अस्ति इति मत्वा अनुदात्तङित‌ आत्मनेपदम्‌ (१.३.१२) इति सूत्रस्य कार्यं न शक्यते यतोहि अनुदात्तङित‌ आत्मनेपदम्‌ (१.३.१२) इति सूत्रं केवलं प्रत्ययस्य असाधारणधर्मम् आश्रित्य न प्रवर्तते | प्रत्ययस्य असाधारणधर्मः केवलं प्रत्यये भवति | तादृशधर्मं मत्वा प्रत्ययलक्षणं भवति, किन्तु यः धर्मः साधारणः, सः प्रत्यये अपि भवति अप्रत्यये अपि भवति, तादृशधर्मं मत्वा प्रत्ययलक्षणं न भवति | तात्पर्यं यत् अनुदात्तङित‌ आत्मनेपदम्‌ (१.३.१२) इति सूत्रस्य कार्यार्थं यत्किमपि ङित्वं स्वीकर्तुं शक्यते, प्रत्ययस्य अप्रत्ययस्य द्वयोः अपि ग्रहणं शक्यते इत्यतः अस्य सूत्रस्य कार्यार्थं प्रत्ययलक्षणं स्वीकर्तुं नैव शक्यते |


सारांशः यत् प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन सूत्रेण प्रत्ययलुप्ते सति प्रत्ययलक्षणं तदा एव शक्यते यदा सम्पूर्णस्य प्रत्ययस्य लोपः जायते अपि च यदा तृतीयकाले विधिसूत्रं केवलं प्रत्ययं निमित्तीकृत्य प्रवर्तते | तात्पर्यं यत् वर्णनिमित्तकं कार्यं चेत् प्रत्ययलोपे प्रत्ययलक्षणं कर्तुं न शक्यते | तदर्थमेव परिभाषा अस्ति वर्णाश्रये नास्ति प्रत्ययलक्षणम् इति | परिभाषायाः अर्थः एवमस्ति प्रत्ययलक्षणं तदा एव भवति यदा सम्पूर्णप्रत्ययनिमित्तकं कार्यं जायमानम् अस्ति, न हि प्रत्ययस्य विशिष्टवर्णनिमित्तकं कार्यम् | यदा प्रत्ययस्य लोपः जायते तदा प्रत्ययलक्षणम् आश्रित्य वर्णकार्यं न कर्तव्यम्, सम्पूर्णप्रत्ययम् आश्रित्य कार्यं जायमानं चेत् प्रत्ययलक्षणम् आश्रित्य कार्यं करणीयम् |


यथा –


गवे हितम् इति विग्रहे सति गोहितम् इति चतुर्थीतत्पुरुषसमासः जायते चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः (२.१.३६) इति सूत्रेण | गवे हितम् = गोहितम् इति चतुर्थीतत्पुरुषसमासः | अस्य अलौकिकविग्रहवाक्यं भवति गो +ङे + हित + सु इति | समासप्रक्रियायां समासस्य प्रातिपदिकसंज्ञा भवति कृत्तद्धितसमासाश्च (१.२.४६) इति सूत्रेण | अग्रे सुपो धातुप्रातिपदिकयोः (२.४.७१) इति सूत्रेण समासे विद्यमानयोः सुप्प्रत्यययोः लुक् भवति इत्यतः ङे-प्रत्ययस्य, सु-प्रत्ययस्य च लुक् भवति | गो + ङे + हित + सु इत्यत्र ङे (ए) इति प्रत्ययस्य लोपे कृतेऽपि, प्रत्ययलोपे प्रत्ययलक्षणम् (१.१.६२) इत्यनेन लक्षणं स्वीक्रियते चेत् तदा एचोऽयवायावः (६.१.७८) इत्यनेन अवादेशः प्राप्येत येन गव्हितम् इति अनिष्टरूपं सिद्ध्येत् | आद्ये ङेप्रत्ययस्य लुका लुप्तत्वेन तत्र प्रत्ययलोपे तल्लक्षणमिति अज्-निमित्तकः अयादिः प्रसज्येत | प्रत्ययग्रहणे प्रत्ययनिमित्तकमेव कार्यं प्रत्ययलोपे भवति, न तु वर्णनिमित्तकमिति अयादेः अचीति वर्णनिमित्तकत्वेन न तत्र प्रत्ययलक्षणप्रसक्तिः | अतः एव तद्वारणाय उच्यते वर्णाश्रये नास्ति प्रत्ययलक्षणमिति | वर्णाश्रये कार्ये प्रत्ययलोपे प्रत्ययलक्षणम् (१.१.६२) इत्यस्य कार्यं न भवति इत्यर्थः | अत्र अवादेशः केवलं प्रत्ययं निमित्तीकृत्य कार्यं नास्ति, अपितु वर्णनिमित्तकं कार्यम् | अतः एव उच्यते वर्णाश्रये नास्ति प्रत्ययलक्षणम् इति | वर्णाश्रये कार्ये प्रत्ययलक्षणं न स्वीक्रियते इति कृत्वा गो + ङे इत्यत्र ङे इति प्रत्ययस्य लक्षणं न स्वीक्रियते एचोऽयवायावः (६.१.७८) इत्यस्य कार्यार्थं येन गोहितम् इति रूपं सिद्धयति |


अनुदात्तङित‌ आत्मनेपदम्‌ (१.३.१२) = यस्य धातोः अनुदात्तस्वरस्य ङकारस्य च इत्‌-संज्ञा भवति, सः धातुः आत्मनेपदी | अनुदात्तश्च ङ्‌ च अनुदात्तङौ, तौ इतौ यस्य सः अनुदात्तङित्‌ द्वन्द्वगर्भ-बहुव्रीहिः, तस्मात्‌ अनुदात्तङितः | अनुदात्तङितः पञ्चम्यन्तम्‌, आत्मनेपदं प्रथमान्तम्‌, द्विपदमिदं सूत्रम्‌ | भूवादयो धातवः (१.३.१) इत्यस्मात्‌ धातोः इत्यस्य अनुवृत्तिः | टीकाकाराः सूचयन्ति यत्‌ लस्य इति पदम्‌ आयाति आक्षेपेण यतोहि तस्य अर्थः निहितः आत्मनेपदम्‌ इत्यस्मिन्‌ | अनुवृत्ति-सहितसूत्रम्— अनुदात्तङितः धातोः लस्य आत्मनेपदम्‌ |


परिशिष्टम्‌ -२

अत्र श्रीराममहोदयेन अतीव सुन्दररीत्या, सूत्रसहितदृष्ट्या उदाहरणसहितं स्थानिवद्भावस्य निरूपणं कृतम् —


स्थानिवद्भावः Template - Excel
स्थानिवद्भावः Template - PDF

Vidhya, April 27, 2022