स्थानिवदादेशोऽनल्विधौ + अचः परस्मिन् पूर्वविधौ
अष्टाध्याय्यां स्थानिवत्त्वातिदेशप्रकरणे चत्वारि सूत्राणि सन्ति –
१) स्थानिवदादेशोऽनल्विधौ (१.१.५६)
२) अचः परस्मिन् पूर्वविधौ (१.१.५७)
३) न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु ( १.१.५८)
४) द्विर्वचनेऽचि ( १.१.५९)
स्थानिवदादेशोऽनल्विधौ (१.१.५६) अचः परस्मिन् पूर्वविधौ (१.१.५७) च इत्यनयोः विषये ज्ञातुम् इदं करपत्रं पठ्यताम् | अग्रे इतोऽपि सूत्रद्वयम् अस्ति अस्मिन् प्रकरणे न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु (१.१.५८), द्विर्वचनेऽचि (१.१.५९) चेति | अनयोः सूत्रयोः विषये ज्ञातुं अत्र पश्यन्तु |
१) स्थानिवदादेशोऽनल्विधौ (१.१.५६) इति सूत्रे भागद्वयम् अस्ति—
१) आदेशः स्थानिवत् भवति | नाम स्थानिनि ये गुणाः सन्ति, ते आदेशे अपि उपस्थिताः भवन्ति |
२) कश्चन विधिः आदेशस्य अनन्तरं भवति चेत्, अपि च स च विधिः स्थानि-सम्बद्ध-अल्-वर्णम् आश्रित्य प्रवर्तनीयः इति चेत्, आदेशः स्थानिवत् न भवति |
अस्मिन् सूत्रे विधानम् अपि अस्ति (स्थानिवद्भावः); निषेधः अपि अस्ति (स्थानिवद्भावनिषेधः) | अतिदेशसूत्रम् अस्ति यतोहि यस्य (आदेशस्य) स्वभावः तथा नास्ति (स्थानी इव न), तस्य (आदेशस्य) स्वभावः तथा (स्थानी इव) अध्यारोप्यते | परिभाषा सूत्रमपि अस्ति, यतोहि स्वयं किमपि कार्यं न करोति; विधिसूत्राणां साहाय्यं करोति—स्थानिवद्भावः यदि नाभविष्यत्, तर्हि कार्यं न स्यात् |
अनेन सत्रेण, सामान्यतया आदेशः स्थानिवत् भवति | अष्टसु स्थलेषु स्थानिवद्भावः भवति | काशिकायाम् एतदर्थं वाक्यम् अस्ति धात्वङ्गकृत्तद्धिताव्ययसुप्तिङ्पदादेशाः | अनेन—
१) स्थानी धातुः अस्ति चेत्, तस्य स्थाने आदेशः अपि धातुः भवति |
२) स्थानी अङ्गम् अस्ति चेत्, तस्य स्थाने आदेशः अपि अङ्गं भवति |
३) स्थानी कृत्-प्रत्ययः अस्ति चेत्, तस्य स्थाने आदेशः अपि कृत्-प्रत्ययः भवति |
४) स्थानी तद्धित-प्रत्ययः अस्ति चेत्, तस्य स्थाने आदेशः अपि तद्धित-प्रत्ययः भवति |
५) स्थानी अव्ययम् अस्ति चेत्, तस्य स्थाने आदेशः अपि अव्ययं भवति |
६) स्थानी सुप्-प्रत्ययः अस्ति चेत्, तस्य स्थाने आदेशः अपि सुप्-प्रत्ययः भवति |
७) स्थानी तिङ्-प्रत्ययः अस्ति चेत्, तस्य स्थाने आदेशः अपि तिङ्-प्रत्ययः भवति |
८) स्थानी पदम् अस्ति चेत्, तस्य स्थाने आदेशः अपि पदं भवति |
तर्हि सामान्यतया आदेशः स्थानिवत् भवति |
स्थानिवद्भावः कुत्र न भवति ? येन एकः स्पष्टविचारः मनसि आगच्छेत्, त्रयः कालाः कल्पनीयाः |
- प्रथमकाले स्थानी अस्ति |
- द्वितीयकाले आदेशः अस्ति |
- तृतीयकाले कश्चन विधिः अस्ति |
विधिः नाम विधिसूत्रस्य कार्यम् | तर्हि अत्र कालत्रयस्य साधनार्थं सूत्रद्वयम् अवश्यम् अपेक्षितम् | प्रथमसूत्रेण स्थानिनः स्थाने कश्चन आदेशः विधीयते; अनेन स्थानी यः आसीत्, तस्य च स्थाने अधुना आदेशः आगतः | तदानीं द्वितीयसूत्रेण एकं नूतनं कार्यं विधीयते; इदं नूतनकार्यं तृतीयकाले भवति | अत्र तृतीयकालः विशेषतः अवलोकनीयः | अस्मिन् द्वितीयसूत्रे यानि निमित्तानि अपेक्षितानि, तेषु यदि एकमपि कश्चन 'वर्णः' (‘अल्’) अस्ति यः स्थानिनि आसीत् किन्तु साक्षात् आदेशे नास्ति, तर्हि इदं कार्यं भवितुं न अर्हति— यतोहि स च अल्-वर्णस्य स्वभावः आदेशे अध्यारोपयितुं न शक्यते, नाम अत्र स्थानिवद्भावः न सम्भावति | एतत् वदामः 'अल्-विधिः' | अतः सूत्रम् अस्ति स्थानिवदादेशः अनल्विधौ (१.१.५६) | आदेशः स्थानिवत् भवति; किन्तु तादृशः अल्-विधिः अस्ति चेत्, आदेशः स्थानिवत् न भवति |
एकम् उदाहरणं पश्यामः | आर्धधातुकस्येड्वलादेः (७.२.३५) इति सूत्रेण आर्धधातुकप्रत्ययस्य आदौ वल्-प्रत्याहारे अन्यतमवर्णः अस्ति चेत्, तस्य इडागमो भवति | तर्हि इदं कार्यम्, अयं विधिः, अवश्यम् अल्-विधिः अस्ति | अल्-आश्रितविधिः यतोहि तस्य निमित्तेषु अल्-वर्णः वर्तते—आर्धधातुकप्रत्ययस्य आदौ कश्चन वल्-प्रत्याहारस्थवर्णः भवेत्, इति कृत्वा अल्-विधिः |
लिख → समानकर्तृकयोः पूर्वकाले (३.४.२१) इत्यनेन 'क्त्वा' विधीयते → लिख् + क्त्वा → लिख् + त्वा → आर्धधातुकस्येड्वलादेः (७.२.३५) इत्यनेन त्वा वलादि-आर्धधातुकप्रत्ययः अतः तस्य इडागमो भवति → लिख् + इ + त्वा → लिखित्वा
अधुना यदि वि-उपसर्गपूर्वकं लिख्-धातुं स्वीकुर्मः—
विलिख् → समानकर्तृकयोः पूर्वकाले (३.४.२१) इत्यनेन क्त्वा → विलिख् + क्त्वा → समासेऽनञ्पूर्वे क्त्वो ल्यप् (७.१.३७) इत्यनेन समासे सति (धातोः पूर्वम् उपसर्गः अस्ति चेत् समासः) क्त्वा-स्थाने ल्यप्-आदेशः → विलिख् + ल्यप् → विलिख् + य → अधुना आर्धधातुकस्येड्वलादेः (७.२.३५) इत्यनेन इडागमो भवति वा ? य-प्रत्ययः वलादिः नास्ति; परन्तु 'त्वा'-स्थाने 'य' विहितः किल, अतः स्थानिवद्भावं कृत्वा अयं य-प्रत्ययः त्वा इव स्यात् | अस्य निर्णयार्थं द्रष्टव्यं यत् अस्माकम् आगम्यमानेन विधिसूत्रेण तादृशः अल्-विधिः इष्यते किम् ? आर्धधातुकस्येड्वलादेः (७.२.३५) इत्यनेन अल्-विधिः भवति एव; निमित्तम् अस्ति वलादि-प्रत्ययः | स च अल्-वर्णः (तकारः) स्थानिनि (त्वा-इत्यस्मिन्) आसीत् किन्तु आदेशे (य-इत्यस्मिन्) नास्ति अतः अत्र अल्-विधौ कर्तव्ये, स्थानिवद्भावो नास्ति | नाम त्वा-प्रत्ययस्य वलादित्वम् य-प्रत्यये आरोपयितुं न शक्यते | अतः इडागमः न भवति, रूपं भवति 'विलिख्य' |
अत्र अस्माकं त्रयः कालाः के ?
- प्रथमकाले स्थानी अस्ति क्त्वा ('त्वा')
- द्वितीयकाले आदेशः अस्ति ल्यप् ('य')
- तृतीयकाले कश्चन विधिः अस्ति इडागमः—आर्धधातुकस्येड्वलादेः (७.२.३५) |
एतादृशं चिन्तनं सर्वत्र करणीयम् |
शास्त्रे अयम् अल्-विधिः चतुर्प्रकारकः इति उच्यते | स्थानिवदादेशोऽनल्विधौ (१.१.५६) इति सूत्रे 'अल्-विधिः' इति एकः समासः; स च समासः चतुर्भिः प्रकारैः विग्रहवाक्यं कर्तुं शक्यते | 'अला विधिः' (तृतीयतत्पुरुषः), 'अलः विधिः' (पञ्चमीतत्पुरुषः), 'अलः विधिः' (षष्ठीतत्पुरुषः), 'अलि विधिः' (सप्तमीतत्पुरुषः) | इत्युक्ते अल्-विधौ— (१) अल्-द्वारा कार्यम्, (२) अल्-वर्णात् परं कार्यम्, (३) अल्-वर्णस्य स्थाने कार्यं (स्वयं स्थानी), (४) अल्-वर्णात् पूर्वं कार्यम् | उदाहरणाणि चत्वारि अपि दास्यन्ते | परन्तु मनसि एतावदेव बोध्यं यत् विधिसूत्रे यदि कुत्रचित् अल्-वर्णः निमित्तरूपेण अपेक्षितः अस्ति यः केवलं मूलस्थानिनि आसीत् अपि च आदेशे नास्ति, तर्हि स्थानिवद्भावनिषेधकत्वात् अयम् अल्-विधिः न भविष्यति |
सम्प्रति स्थानिवदादेशोऽनल्विधौ (१.१.५६) इति सूत्रे 'अल्-विधिः' इति समासस्य चतुर्णां विग्रहवाक्यानां कृते एकैकस्य दृष्टान्तः दीयते—
१. अला विधिः (तृतीयतत्पुरुषः)
यदि स्थानिघटित-अल्-वर्णस्य द्वारा कश्चन विधिः कार्यः (तृतीये काले), तर्हि स्थानिनः स्थाने यः आदेशः आगतः द्वितीयकाले, सः आदेशः स्थानिवद्भावं न प्राप्नोति | अत्र बोध्यं यत् 'द्वारा' नाम स च वर्णः कार्यं प्रति निमित्तम् | किन्तु अपरेषु त्रिषु वक्ष्यमाणेषु दृष्टान्तेषु अयं वर्णः निमित्तं नास्ति किम् ? अस्त्येव | तर्हि अत्र 'अला विधिः', नाम 'द्वारा' इत्यस्य कथनेन कः अर्थः ? अर्थः एवं यत् निमित्तं सत्यपि तद्द्वारा पूर्वकार्यं न, परकार्यं न, अपि च स्वयं स्थानी न; अपि तु कथञ्चित् अन्यरीत्या निमित्तं, यथा कार्यस्थलात् दूरं भूत्वा निमित्तम् | अस्य च उदाहरणम् अत्र उच्यते—
व्यूढोरस्केन इति पदम् | विग्रहवाक्यम् अस्ति 'व्यूढम् उरो यस्य' इति कृत्वा बहुव्रीहिसमासः | अस्य पदस्य व्युत्पत्त्यर्थं समासप्रक्रियायां 'व्यूढम् + उरः' → प्रातिपदिकसंज्ञा, सुपः लुक् → व्यूढ + उरस् → उरः प्रभृतिभ्यः कप् (५.४.१५१) इत्यनेन उरःप्रभृत्यन्तात् बहुव्रीहेः कप्-प्रत्ययः → व्यूढ + उरस् + क → आद्गुणः (६.१.८७) इत्यनेन गुणः → व्यूढोरस् + क → पदान्तसकारस्य रुत्वविसर्गौ → व्यूढोरः + क → सोऽपदादौ (८.३.३८) इत्यनेन पदान्ते विसर्गस्य 'पाश-कल्प-क-काम्य' इत्येषु परेषु सकारादेशः → व्यूढोरस्क इति शब्दः → तृतीयाविभक्तेः एकवचनविवक्षायां टा-प्रत्ययः, तस्य स्थाने च इन-आदेशः, तदा गुणः → व्यूढोरस्केन → अट्कुप्वाङ्नुम्व्यवायेऽपि (८.४.२) इत्यनेन णत्वं स्यात् यतोहि रेफः इति निमित्तं वर्तते, ततः अग्रे नकारः अपि अस्ति → मध्ये स्थितः सकारः णत्वं प्रति बाधा किन्तु स च सकारः विसर्गस्थाने आगतः | विसर्गः अयोगवाहेषु अन्यतमः इति कृत्वा अट्-प्रत्याहारे परिगण्यते, अनेन च सकारे स्थानिवद्भावं कृत्वा अट्-प्रत्याहारे स्वीक्रियते चेत् णत्वं भवेत् | परन्तु अत्र विसर्जनीयः अल्-वर्णः; तस्य च कारणेन णत्वं भविष्यति अतः 'अला विधिः' इत्यनेन सकारे स्थानिवद्भावो न भवति | णत्वं च बाधितम् | व्यूढोरस्केन इति पदम् |
२. अलो विधिः (पञ्चमीतत्पुरुषः)
परकार्यस्य दृष्टान्तः | स्थानीभूतात् अलः परं कार्यं विधीयमानम् इति चेत्, आदेशे स्थानिवद्भावो न भवति |
दिव्-शब्दः + सु → दिव औत् (७.१.८४) इत्यनेन दिव्-इत्यस्य वकारस्य औत्-आदेशः भवति सु इति प्रत्यये परे → दि + औ + स् → इको यणचि (६.१.७६) → द्यौ + स् → 'औ' इत्यस्मिन् वकारस्य स्थानिवद्भावं कृत्वा हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (६.१.६७) इत्यनेन सकारस्य लोपः स्यात् → वकारः स्थानी, तस्य निमित्तत्वात् स्कारलोपः → अलो विधिः अस्ति चेत् स्थानिवद्भावो न भवति → द्यौः इतिपदम् |
हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (६.१.६७) = हलन्तात्, दीर्घङ्यन्तात्, दीर्घाबन्तात् च सु-ति-सि इत्येषाम् अपृक्तसंज्ञकस्य हलः लोपः | अनेन प्रथमाविभक्तौ सु इत्यस्य स्-लोपः, लङि प्रथमपुरुषे त्-लोपः, मध्यमपुरुषे स्-लोपश्च | हल् च ङी च आप् च तेषाम् इतरेतरद्वन्द्वः हल्ङ्यापः, तेभ्यः हल्ङ्याब्भ्यः | सुश्च, तिश्च, सिश्च तेषां समाहारद्वन्द्वः, सुतिसि, सुतिसिनः अपृक्तं सुतिस्यपृक्तम् | हल्ङ्याब्भ्यः पञ्चम्यन्तं, दीर्घात् पञ्चम्यन्तं, सुतिस्यपृक्तं प्रथमान्तं, हल् प्रथमान्तम्, अनेकपदमिदं सूत्रम् | लोपो व्योर्वलि (६.१.६५) इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः; अत्र कर्मणि प्रयोगे लुप्यते इति रूपविकारः | अनुवृत्ति-सहितसूत्रम्— दीर्घात् हल्ङ्याब्भ्यो सुतिसि अपृक्तं हल् लुप्यते |
अपृक्त एकाल् प्रत्ययः (१.२.४१) = यस्य प्रत्यस्य एकैव अल्, तस्य अपृक्त-संज्ञा भवति | एकश्चासौ अल् एकाल्, कर्मधारयः | अपृक्तः प्रथमान्तम्, एकाल् प्रथमान्तं, प्रत्ययः प्रथमान्तं, त्रिपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— एकाल् प्रत्ययः अपृक्तः |
३. अलो विधिः (षष्ठीतत्पुरुषः)
स्थानीभूतस्य अलः स्थाने एव केनचित् विधिना इष्टं कार्यमस्ति चेत् तस्मिन् विधौ कर्तव्ये आदेशे स्थानिवद्भावो न भवति |
द्युकामः इति पदम् | कामयते इति कामः, दिवः कामः इति विग्रहस्य समासे कृते—
दिव् + काम → दिव उत् (६.१.१३१) इत्यनेन दिव्-प्रातिपदिकस्य पदस्य (न तु दिव्-धातोः) वकारस्य उ-आदेशः → दि + उ + काम → इको यणचि (६.१.७६) → द्यु + काम → उकारस्य वकारस्थानिवद्भावं कृत्वा लोपो व्योर्वलि (६.१.६६) इत्यनेन उकारस्य लोपः स्यात् → अलः स्थाने विधिः भवति चेत् अलो विधिः इति कृत्वा स्थानिवद्भावो न भवति → द्युकाम इति प्रातिपदिकम् → प्रथमाविभक्तौ एकवचने द्युकामः सिद्धः |
लोपो व्योर्वलि (६.१.६६) = वकारयकारयोः लोपो भवति वल्-प्रत्याहारे परे | व् च य् च व्यौ इतरेतरद्वन्द्वः, तयोः व्योः | लोपः प्रथमान्तं, व्योः षष्ठ्यन्तं, वलि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णं— व्योः लोपः वलि |
४. अलि विधिः ( सप्तमीतत्पुरुषः)
अलि परे पूर्वस्य विधेः कर्तव्ये सति अल्-स्थाने आदेशस्य स्थानिवद्भावो न भवति |
क इष्टः | यज्-धातुः + क्त → यज् + त → वचिस्वपियजादीनां किति (६.१.१५) इत्यनेन सम्प्रसारणम् → इ अ ज् + त → पूर्वरूपैकादेशः → इज् + त → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इत्यनेन व्रश्च्, भ्रस्ज्, सृज्, मृज्, यज्, राज्, भ्राज्, छकारान्ताः शकारान्ताः चैषां धातूनाम् अन्तिमवर्णस्य स्थाने षकारादेशः झलि परे → इष् + त → ष्टुना ष्टुः (८.४.४१) → इष्ट → एतस्मात् पूर्वं 'किम् + सु' → किमः कः (७.२.१०३) इत्यनेन किम्-शब्दस्य विभक्ति-प्रत्यये परे "क" आदेशः → क + स् → ससजुषो रुः (८.२.६६) → कर् + इष्ट → यज्-धातोः सम्प्रसारणेन निष्पन्नस्य इकारस्य यकारस्थानिवद्भावं कृत्वा हशि च (६.१.११४) इत्यनेन अप्लुत-ह्रस्व-अकारात् परस्य रुँ-सम्बद्धरेफस्य उकारादेशः हशि परे → 'क + उ + इष्ट' इति भवति स्म, परन्तु 'हशि परे' इत्यस्य कथनेन 'अलि विधिः' इति कारणतः इकाररूपादेशे यकरत्वस्य स्थानिवद्भावो न भवति → कर् + इष्ट → भोभगोअघोअपूर्वस्य योशि (८.३.१७) इत्यनेन अकारोतरस्य 'रु'-शब्दस्य रेफस्य यकारादेशः अशि परे → कय् + इष्ट → लोपः शाकल्यस्य (८.३.१९) इत्यनेन अपूर्वयोः पदान्तयोः वकारयकारयोः लोपः विकल्पेन भवति अशि परे → क इष्टः / कयिष्टः |
भोभगोअघोअपूर्वस्य योशि (८.३.१७) = भो-भगो-अघो-अवर्ण-पूर्वस्य रु-शब्दस्य रेफस्य यकारादेशो भवति अशि परे | भो-भगो-अघो इत्येवं पूर्वस्य अवर्णपूर्वस्य च रो रेफस्य यकारादेशो भवति अशि परे | प्रथमे पदे सन्ध्यभावः सौत्रप्रयोगः | भोश्च भगोश्च अघोश्च अश्च तेषामितरेतरद्वन्द्वः, भोभगोअघोआः | भोभगोअघोआः पूर्वे यस्मात् स भोभगोअघोअपूर्वः बहुव्रीहिः, तस्य भोभगोअघोअपूर्वस्य | भोभगोअघोअपूर्वस्य षष्ठ्यन्तं, यः प्रथमान्तम्, अशि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | रोः सुपि (८.३.१६) इत्यस्मात् रोः इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— भोभगोअघोअपूर्वस्य रोः यः अशि संहितायाम् |
हशि च (६.१.११४) = प्लुतभिन्न-ह्रस्व-अकारोत्तरवर्तिनः रु-सम्बद्ध-रेफस्य स्थाने उकारादेशो भवति हशि च | हशि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | अतो रोरप्लुतादप्लुते (६.१.११३) इत्यस्मात् अप्लुतात्, अतः, रोः इत्येषाम् अनुवृत्तिः | ऋत उत् (६.१.१११) इत्यस्मात् उत् इत्यस्य अनुवृत्तिः | संहितायाम् (६.१.७१) इत्यस्य अधिकारः अनुवृत्ति-सहितसूत्रं— | अप्लुतात् अतः रोः उत् हशि च संहितायाम् |
२) अचः परस्मिन् पूर्वविधौ (१.१.५७) = परनिमित्तकः अजादेशः स्थानिवत् भवति, पूर्वविधौ कर्तव्ये | अचः स्थाने यः आदेशः सः अजादेशः | यस्य स्थाने आदेशः विधीयते सः स्थानी | 'अजादेशः स्थानिवत्' नाम यः आदेशः अचः स्थाने विहितः, सः पुनः मूलः अच् इव— 'स्थानिवत्' भवति | पूर्वविधौ नाम सा स्थितिः यदा स्थानिनः अचः पूर्वस्थितस्य कार्यं विधीयते | परस्मिन् इति निमित्तसप्तमी | पूर्वविधौ इति विषयसप्तमी | पूर्वस्य विधिः पूर्वविधिः षष्ठीतत्पुरुषः, तस्मिन् पूर्वविधौ | अचः षष्ठ्यन्तं, परस्मिन् सप्तम्यन्तं, पूर्वविधौ सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | स्थानिवदादेशोऽनल्विधौ (१.१.५६) इत्यस्मात् स्थानिवत्, आदेशः इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहितसूर्त्रम्— अचः आदेशः स्थानिवत् परस्मिन् पूर्वविधौ |
चुरादिगणे त्रिनवतिः धातवः अदन्ताः सन्ति | यथा कथ, गृह, गण, क्षिप— एषाम् अन्ते ह्रस्व-अकारः वर्तते | तस्य अकारस्य लोपः तु भवति, परन्तु उपदेशेऽजनुनासिक इत् इति सूत्रेण इति न | यतोहि एषु धातुषु स च अन्त्यः अकारः अनुनासिकः (अँ) नास्त्येव; अतः इमे अकाराः इत्-संज्ञकवर्णाः न सन्ति | तर्हि एषां धातूनाम् अन्त्यः अकारः कथं लुप्यते ? चुरादिगणे धातुभ्यः णिच्-प्रत्ययः विधीयते, अतः एकं सूत्रम् अस्ति अतो लोपः, यस्य द्वारा अकार-लोपः सिध्यति—
अतो लोपः (६.४.४८) = अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन अतः अङ्गस्य नाम न केवलम् ह्रस्व-अकारः इत्यङ्गस्य, अपि तु ह्रस्व-अकारान्तस्य अङ्गस्य | अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव लोपः (न तु अङ्गस्य) | उपदेशे अनुवर्तते अतः प्रसक्तिः केवलम् उपदेशावस्थायाम्* | अतः षष्ठ्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम् | अनुदात्तोपदेश-वनति-तनोत्यादीना-मनुनासिकलोपो झलि क्ङिति (६.४.३७) इत्यस्मात् उपदेशे इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१), आर्धधातुके (६.४.४६) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूर्त्रम्— अतः अङ्गस्य लोपः आर्धधातुके उपदेशे |
यथा—
कथ + णिच् → कथ्
गृह + णिच् → गृह्
इदानीं कथ् इति धातुः अस्ति, गृह् इति धातुः अस्ति | अस्यां दशायां कथ्-धातोः उपधायाम् अत् (ह्रस्व-अकारः) इत्यस्य वृद्धिः, अपि च गृह्-धातोः उपधायां लघु-इकः गुणः |
अत उपधायाः (७.२.११६) = उपधायाम् अतः वृद्धिः ञिति णिति प्रत्यये परे | अनुवृत्ति-सहितसूत्रम्— अङ्गस्य उपधायाः अतः वृद्धिः ञ्णिति |
पुगन्तलघूपधस्य च (७.३.८६) = पुगन्तस्य अङ्गस्य लघूपधस्य च इकः गुणो भवति सार्वधातुके आर्धधातुके च प्रत्यये परे |
आभ्यां सूत्राभ्यां कार्यम् अभविष्यत् | परन्तु धातुः अदन्तः चेत्, इमे सूत्रे प्रबाध्य अन्यत् सूत्रं कार्यं करोति— अचः परस्मिन् पूर्वविधौ (१.१.५७) इति |
इत्थं च चुरादिगणे अदन्तधातुभ्यः णिच्-प्रत्ययः विधीयते, अतः लोपः स्थानिवत् नाम ह्रस्व-अकारः इव | अनेन कारणेन अत उपधायाः इति सूत्रस्य दृष्ट्या कथ्-धातुः 'कथ' इतिवत् दृश्यते | तस्मात् उपधायां थकारः प्रतीयते न तु ह्रस्व-अकारः | अस्यां दशायां किमपि कार्यं न सम्भवति | यथा—
कथ + णिच् → अतो लोपः → कथ् + णिच् → अत उपधायाः इत्यनेन स्थितस्य अतः वृद्धिः भवति स्म → अचः परस्मिन् पूर्वविधौ → कथ् धातोः अन्त्यः लोपः अत् इव दृश्यते → अत उपधायाः इति सूत्रेण "कथ" दृश्यते इति कारणतः उपधायाम् अधुना थकारः वर्तते → अतः वृद्धिः न भवति |
चुरादिगणे अदन्तेषु धातुषु एतादृशी गतिः सर्वत्र—
कथ् + णिच् → कथि + शप् → कथयति/ते
गण् + णिच् → गणि + शप् → गणयति/ते
क्षिप् + णिच् → क्षिपि + शप् → क्षिपयति/ते
पुट् + णिच् → पुटि + शप् → पुटयति/ते
गृह् + णिच् → गृहि + शप् → गृहयति/ते
अत्र प्रश्नः उदेति यत् कथ् + णिच् इति स्थले अत उपधायाः (७.२.११६) इत्यनेन यः वृद्ध्यादेशः, गृह् + णिच् इति स्थले च पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन यः गुणादेशः, द्वयोः निवारणार्थं स्थानिवद्भावः अपेक्षितः इति तु सत्यं किन्तु स्थानिवदादेशोऽनल्विधौ (१.१.५६) इति सामान्यसूत्रेण किमर्थं न स्यात् ? अचः परस्मिन् पूर्वविधौ (१.१.५७) इति विशिष्टसूत्रस्य का आवश्यकता ? इति चेत्, प्रथमतया स्थानिवदादेशोऽनल्विधौ (१.१.५६) इति सूत्रस्य पुनस्स्मरणम् अत्र सम्यक् रीत्या भवेत् | तदा अग्रे पठनीयम् |
अत्र सङ्क्षेपे परिशील्यते यत् अस्यां दशायां स्थानिवदादेशोऽनल्विधौ (१.१.५६) इत्यनेन स्थानिवद्भावः जायते न वा—
कथ + णिच् → अतो लोपः (६.४.४८) → कथ् + णिच् → अत उपधायाः (७.२.११६)
अत उपधायाः (७.२.११६) = उपधायाम् अतः वृद्धिः ञिति णिति प्रत्यये परे | अनुवृत्ति-सहितसूत्रम्—अङ्गस्य उपधायाः अतः वृद्धिः ञ्णिति |
अत्र अत उपधायाः (७.२.११६) इत्यनेन यः वृद्धि-आदेशः, अयं विधिः अल्विधिः अस्ति किम् ? यस्य स्थानिवद्भावः क्रियते, सः कः ? कथ-धातोः थकारोत्तरवर्ती अकारः | अल्विधिः नाम पूर्वं यः स्थानी आसीत् (कथ-धातोः धात्वन्तः अकारः), तस्य च अकारस्य अस्मिन् वृद्धि-कार्ये निमित्तत्वम् अस्ति किम् ? अत उपधायाः (७.२.११६) इत्यस्य यत् कार्यं वृद्ध्यादेशः; तं वृद्धिं प्रति धात्वन्ताकारः निमित्तम् अस्ति किम् ? तर्हि अस्य सूत्रस्य निमित्तानि कानि ? उपधायाम् अत्-वर्णः, परश्च ञित्, णित् प्रत्ययः | चतुर्भिः प्रकारैः निमित्तत्वं सम्भवति | 'अला विधिः' (तृतीयतत्पुरुषः), 'अलः विधिः' (पञ्चमीतत्पुरुषः), 'अलः विधिः' (षष्ठीतत्पुरुषः), 'अलि विधिः' (सप्तमीतत्पुरुषः) | अला विधिः—स्थानिवद्भावानन्तरं यः अकारः आगतः, तम् अकारं निमित्तिकृत्य वृद्धिः जायते वा ? नास्ति | अलः विधिः—तस्मात् एव धात्वन्त-अकारात् परं कार्यं क्रियते वा ? न | अलः विधिः—तस्य च अकारस्य स्थाने कार्यं क्रियते वा ? न हि | स्थानिवद्भावेन यः अकारः आगतः, तस्मिन् परे कार्यं क्रियते वा ? तदपि नास्ति | स्थानिवद्भावेन यः अकारः, स च निमित्तीभूतो नास्ति | अतः अल्विधिः नास्ति |
इत्थञ्च अल्विधिः नास्ति | नास्ति यतोहि स्थानिवद्भावेन यः अकारः आगतः, अकारत्वं यत् अध्यारोपितं भवति आदेशे लोपे, तेन अकारत्वेन अत उपधायाः (७.२.११६) इत्यनेन वृद्धिः जायते इति नास्ति | अपि तु विपरीतम्—स च अकारः अस्ति चेत्, वृद्धिकार्यं न जायते | अकारः अल् तु अस्ति, परन्तु तस्य इदं कार्यं प्रति निमित्तत्वं नास्ति | अतः अल्विधिः न मन्यते |
स्थानिवदादेशोऽनल्विधौ (१.१.५६) इति सामान्यसूत्रं किं सूचयति ? (१) आदेशः स्थानिवत् भवति; (२) परन्तु अल्विधिः अस्ति चेत्, आदेशः स्थानिवत् न भवति—नाम स्थानिवद्भावनिषेधः | अत्र कथ-धातोः प्रसङ्गे उक्तं यत् अत उपधायाः (७.२.११६) इत्यनेन यः वृद्धिः जायमानः, स च वृद्धिः अल्विधिः नास्ति | अतः स्थानिवद्भावनिषेधः नास्ति | स्थानिवद्भावनिषेधस्य अभावे स्थानिवदादेशोऽनल्विधौ (१.१.५६) इति सामान्यसूत्रेण स्थानिवद्भावः स्यात् | अपि च कथ-धातोः प्रसङ्गे स्थानिवद्भावः अपेक्षितः वृद्धिकार्यस्य निवारणार्थम् | अल्विधिः नास्ति चेत् स्थानिवदादेशोऽनल्विधौ (१.१.५६) इति सूत्रेण स्थानिवद्भावः भवेत्, किन्तु केनचित् कारणेन न भवति इति जानीमः यतोहि अचः परस्मिन् पूर्वविधौ (१.१.५७) इत्यनेन एव भवति | तर्हि अल्विध्यभावे स्थानिवदादेशोऽनल्विधौ (१.१.५६) द्वारा स्थानिवद्भावः न सिद्धः अस्य च अन्यत् कारणं स्यात्—तच्च किम् ?
अत्र—कथ-धातोः प्रसङ्गे—स्थानिवद्भावः अपेक्षितः इति तु सत्यम् | स्थानिवदादेशोऽनल्विधौ (१.१.५६) इति सामान्यसूत्रेण किमर्थं न स्यात् इति चेत्, अनेन सूत्रेण तत्रैव स्थनिवद्भावो भवति यत्र शास्त्रीयं कार्यं स्यात् | नाम अभावरूपकार्यं न स्यात् अपि तु किमपि विधानं स्यात् | निषेधरूपं यत् कार्यं, तत् अभावरूपकार्यं, तच्च अशास्त्रीयं कार्यम् इति उच्यते | अत्र 'अशास्त्रीयम्' उक्तं यतोहि कोऽपि विधिः न जायते अपि तु निषेधः एव | 'शास्त्रस्य अप्रवृत्तिः' इति अशास्त्रीयं, न तु शास्त्रविरुद्धत्वम् |
प्रकृतौ कथ् + णिच् इति स्थितौ स्थानिवद्भावेन शास्त्रस्य अप्रवृत्तिः सिध्यति, वृद्धिः न भविष्यति | वृद्धिविधायकशास्त्रस्य अप्रवृत्तिः भविष्यति | अतः इदम् अशास्त्रीयकार्यम् | अशास्त्रीयकार्यकरणसमये स्थानिवदादेशोऽनल्विधौ (१.१.५६) इत्यनेन स्थानिवद्भावः न भवति इति नियमः |
कथ-धातोः प्रसङ्गे बालमनोरमायां दत्तमस्ति यत्, "अन्ते अकारो नेत्संज्ञको, नाप्युच्चारणार्थ इति भावः | तत्र कथधातोर्णिचि अतोलोपे 'कथि' इत्यस्मात्तिपि शपि गुणेऽयादेशे कथयतीति रूपं वक्ष्यति | तत्र णिचमाश्रित्य उपधावृद्धिमाशङ्क्याह—अल्लोपस्य स्थानिवद्भावादिति | अचः परस्मिन्नित्यनेनेति भावः | अत्रेदमवधेयं—स्थानिनि सति शास्त्रीयं यत्कार्यं तदेव स्थानिवदादेशोऽनल्विधावित्यत्रातिदिश्यते यत्तु स्थानिनि सति निमित्तव्याघातान्न भवति तस्याऽभावस्याऽशास्त्रीयत्वान्नाऽतिदेशः |” ‘यत्तु' इत्यनेन 'यत् कार्यं तु' इति बोध्यम् | ‘व्याघातः' इत्यनेन विनाशः | निमित्तस्य व्याघातात् विधिः न जायते चेत्, तद्विहितकार्यस्य अभावात्, शास्त्रप्रवृत्त्यभावात्, अशास्त्रीयत्वात्, तादृशस्थले स्थानिवदादेशोऽनल्विधौ (१.१.५६) इत्यनेन अतिदेशः—स्थानिवद्भावः—न भवति |
अस्य सर्वस्य श्रवणानन्तरमपि यदि कोऽपि न मन्यते यत् अशास्त्रीयप्रसङ्गे स्थानिवदादेशोऽनल्विधौ (१.१.५६) इत्यनेन स्थानिवद्भावः न भवेत्, तर्हि एतादृशेषु स्थलेषु अनेन एव सूत्रेण स्थानिवद्भावः स्वीक्रियते चेत् समस्या का इत्यस्य प्रदर्शनार्थं बालमनोरमायाम् अग्रे उच्यते—"अन्यथा 'नायक' इत्यत्र ईकारस्थानिकस्य ऐकारस्य आयादेशानापत्तेः | ईकारे स्थानिनि सति आयभावस्य दृष्टत्वेन तस्याप्यैकारे अतिदेशप्रसङ्गात् । अचः परस्मिन्नित्यत्र तु स्थानिनि सति यच्छास्त्रीयं कार्यं प्रसज्यते तस्य, तदभावस्य चाऽशास्त्रीयस्याप्यतिदेश इति भाष्ये स्पष्टम् |" अशास्त्रीयप्रसङ्गे आयादेशानापत्तेः स्थानिवद्भावः मन्यते चेत् समस्या प्रमाणिता | ऐकारे अतिदेशप्रसङ्गात् आयभावस्य दृष्टत्वेन स्थानिवद्भावः न करणीयः | स्थानिवदादेशोऽनल्विधौ (१.१.५६) इत्यनेन स्थानिवद्भावः अशास्त्रीये कार्ये न भवति इति ज्ञेयम् |
नी + ण्वुल् → युवोरनाकौ (७.१.१) इत्यनेन वु-स्थाने अक-आदेशः → अचो ञ्णिति (७.२.११५) इत्यनेन धात्वन्ते अचः वृद्धिः → नै + अक → एचोऽयवायावः (६.१.७७) इत्यनेन आय्-आदेशः → नाय् + अक → नायक | नायकः |
अत्र यदि स्थानिवदादेशोऽनल्विधौ (१.१.५६) इति सूत्रेण ऐकारस्य स्थानिवद्भावः स्यात् तर्हि 'नी + अक' इति दृश्येत | तथा भवति चेत् एचोऽयवायावः (६.१.७७) इत्यनेन आय्-आदेशः न स्यात् | ईकारे सति शास्त्रस्य अप्रवृत्तिः भविष्यति, इष्टं रूपं च न सेत्स्यति | अतः एतादृशस्थले, नाम यत्र शास्त्रस्य अप्रवृत्तिः जायते स्थानिवद्भावात्, तत्र स्थानिवदादेशोऽनल्विधौ (१.१.५६) इति सूत्रेण स्थानिवद्भावो न भवति |
प्रकृतौ स्थानिवदादेशोऽनल्विधौ (१.१.५६) इति सूत्रेण अत उपधायाः (७.२.११६) इत्यनेन वृद्धिः न भविष्यति, नाम अशास्त्रीयकार्यम् | अतः अत्र स्थानिवदादेशोऽनल्विधौ (१.१.५६) इति सूत्रेण स्थानिवद्भावः न भवति अपि तु सूत्रान्तरेण अचः परस्मिन् पूर्वविधौ (१.१.५७) इत्यनेन |
अचः परस्मिन् पूर्वविधौ (१.१.५७) इति सूत्रेण अशास्त्रीये स्थानिवद्भावः जायते | कार्यं अशास्त्रीयं भवेत् इति न; शास्त्रीयेऽपि अस्य प्रसक्तिः प्राप्तिः च जायते | एवमेव विधिः अल्विधिः भवेत् इति न; अल्विधिः चेदपि भवति, अनल्विधिः अस्ति चेदपि भवति | प्रकृतौ कार्यम् अनल्विधिः, अशास्त्रीयं च | अनल्विधिः इति कारणतः स्थानिवदादेशोऽनल्विधौ (१.१.५६) इत्यनेन स्थानिवद्भावः भवति स्म, किन्तु अनल्विधिः चेदपि अन्यकारणात्—अशास्त्रीयत्वात्—न जातः | अशास्त्रीयत्वात्, अनल्विधिः स्थानिवद्भावः भवति अचः परस्मिन् पूर्वविधौ (१.१.५७) इति सूत्रेण |
तर्हि स्थानिवदादेशोऽनल्विधौ (१.१.५६) इत्यनेन अल्विधिः अस्ति चेत्, स्थानिवद्भावः न भवति; अल्विधिः अस्ति चेदपि अचः परस्मिन् पूर्वविधौ (१.१.५७) इत्यनेन स्थानिवद्भावः भवति इति तु सत्यं किन्तु अल्विधिः भवेदेव इति नास्ति, यथा अत्र प्रकृतौ | अत्र अल्विधिः अस्ति इति कृत्वा स्थानिवद्भावस्य साधनार्थम् अचः परस्मिन् पूर्वविधौ (१.१.५७) इत्यस्य आवश्यकता इति नास्ति; अल्विधिरेव नास्ति |
ण्वुल्तृचौ (३.१.१३३) = धातुतः ण्वुल् तृच् च विहितौ | कर्तरि कृत् (३.४.६७) इत्यनेन कर्त्रर्थे एतौ प्रत्ययौ भवतः | ण्वुल् च तृच् च तयोरितरेतरद्वन्द्वः ण्वुल्तृचौ | ण्वुल्तृचौ प्रथमान्तम् एकं पदमिदं सूत्रम् | धातोः, प्रत्ययः, परश्च इत्येषाम् अधिकारः | अनुवृत्ति-सहित-सूत्रम्— धातोः ण्वुल्तृचौ प्रत्ययौ परौ |
युवोरनाकौ (७.१.१) = अङ्गात् परं यु, वु इत्यनयोः स्थाने क्रमशः अन च अक च आदेशौ भवतः | युश्च वुश्च तयोः समाहारद्वन्द्वः युवुः, तस्य युवोः युवोः षष्ठ्यन्तं, अनाकौ प्रथमान्तं, द्विपदमिदं सूत्रम् | अङ्गस्य इत्यस्य अधिकारः, अत्र पञ्चमीविभक्तौ | अनुवृत्ति-सहित-सूत्रम्— अङ्गात् युवोः अनाकौ |
अचो ञ्णिति (७.२.११५) = अङ्गम् अजन्तं चेत्, अन्त्यवर्णस्य वृद्धिः भवति ञिति णिति प्रत्यये परे | ञ् च ण् च ञ्णौ, ञ्णौ इतौ यस्य तत् ञ्णित्, तस्मिन् ञ्णिति, द्वन्द्वगर्भबहुव्रीहिसमासः | अचः षष्ठ्यन्तं, ञ्णिति सप्तम्यन्तं, द्विपदमिदं सूत्रम् | मृजेर्वृद्धिः (७.२.११४) इत्यस्मात् वृद्धिः इत्यस अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्— अङ्गस्य अचः वृद्धिः ञ्णिति | अलोऽन्त्यस्य इत्यनेन अन्तिमवर्णस्य एव स्थाने वृद्धिः |
Swarup – August 2019