01 - शत्रन्तरूपाणि - प्रातिपदिक-निर्माणम्
शतृ-शानच् इत्यनयोः अर्थः
शतृ-शानच्-प्रत्यययोरर्थः समानः— वर्तमानार्थः इति | वर्तमानः नाम प्रारब्धापरिसमाप्तत्वम् | या क्रिया आरब्धा, न समाप्ता च, सा वर्तमाना | आरब्धा क्रिया यावत् न समाप्ता च, तस्य कालः वर्तमानकालः | अस्मिन् वर्तमानकालार्थे लटः स्थाने शतृ-शानच्-प्रत्ययौ भवतः |
लटः शतृशानचावप्रथमासमानाधिकरणे (३.२.१२४) = धातुतः लटः स्थाने शतृशानचौ आदेशौ वर्तमाने काले भवतः, अप्रथमान्तेन कर्त्रा सह सामानाधिकरण्यम् अस्ति चेत् | शतृ च शानच् च, शतृ-शानचौ, इतरेतरद्वन्द्वः| न प्रथमा अप्रथमा | समानम् अधिकरणं यस्य सः समानाधिकरणः | अप्रथमया समानाधिकरणं, अप्रथमासमानाधिकरणः, तृतीयातत्पुरुषः | तस्मिन् अप्रथमासमानाधिकरणे | लटः षष्ठ्यन्तं, शतृशानचौ प्रथमान्तम्, अप्रथमासमानाधिकरणे सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | वर्तमाने लट् (३.२.१२३) इत्यस्मात् वर्तमाने इत्यस्य अनुवृत्तिः | प्रत्ययः (३.१.१), धातोः (३.१.९१), इत्यनयोः अधिकारः | अनुवृत्ति-सहितं सूत्रमेवम्— वर्तमाने धातोः लटः शतृशानचौ प्रत्ययौ अप्रथमासमानाधिकरणे |
भविष्यत्कालार्थे अपि शतृशानचोः प्रयोगः अर्हः | वदिष्यन्तं रामं पश्यतु— नाम रामः यः वदिष्यति, तं पश्यतु | पुरस्कारं लप्स्यमानं रामं पश्यतु— नाम रामः यः पुरस्कारं लप्स्यते, तं पश्यतु |
लृटः सद्वा (३.३.१४) = भविष्यत्काले विहितस्य लृटः स्थाने शतृशानचौ भवतः विकल्पेन |
शतृ-प्रत्ययः केवलं परस्मैपदिधातुभ्यः विहितः, अपि च कर्त्रर्थे एव | शानच्-प्रत्ययः कर्त्रर्थे केवलम् आत्मनेपदिधातुभ्यः विहितः; कर्मण्यर्थे परस्मैपदिधातुभ्यः च आत्मनेपदिधातुभ्यः च विहितः भवति |
शत्रन्तानां निर्माणप्रक्रिया
शत्रन्तानां निर्माणार्थं समग्रदृष्ट्या कार्यद्वयं भवति (१) प्रातिपदिकनिर्माणम्; (२) सुबन्तनिर्माणम् इति | प्रथमतया प्रातिपदिकं निष्पादनीयम्, तदा सुबन्तपदम् | प्रथमकार्यं सार्वधातुकप्रकरणे अन्तर्भूतम्; द्वितीयकार्यम् अस्माकं कृते नूतनम्— सुबन्तप्रकरणम् इति |
शत्रन्तस्य प्रातिपदिकम्
शत्रन्तस्य प्रातिपदिकनिर्माणं लघु-मार्गेण (shortcut पद्धत्या) कर्तुं शक्यते; पुनः शास्त्रीयरीत्या साधयितुं शक्यते | वस्तुतः लघुमार्गस्य आधारः शास्त्रीयरीतिः एव |
लघुमार्गः
कस्यापि परस्मैपदि-धातोः लट्-लकारस्य प्रथमपुरुषस्य बहुवचनान्तरूपं स्वीकरोतु | धातुः कस्मिन् अपि धातुगणे भवतु | नवसु गणेषु "वदन्ति" इव भवति; नाम सिद्धः तिङ्-प्रत्ययः "अन्ति" | जुहोत्यादिगणे "ददति" इव भवति, नाम सिद्धः तिङ्-प्रत्ययः "अति" | अधुना सिद्धतिङ्-प्रत्ययं निष्कासयतु; तत्स्थाने शतृ-प्रत्ययस्य "अत्" इति योजयतु— यत् रूपं निष्पन्नं तदेव शत्रन्तप्रादिपदिकम् |
भ्वादिगणे गच्छन्ति → गच्छत्
अदादिगणे सन्ति → सत्
जुहोत्यादिगणे ददति → ददत्
दिवादिगणे दीव्यन्ति → दीव्यत्
स्वादिगणे चिन्वन्ति → चिन्वत्
तुदादिगणे तुदन्ति → तुदत्
रुधादिगणे रुन्धन्ति → रुन्धत्
तनादिगणे कुर्वन्ति → कुर्वत्
क्र्यादिगणे क्रीणन्ति → क्रीणत्
चुरादिगणे चोरयन्ति → चोरयत्
शास्त्रीयरीतिः
गम्ऌँ + लट् | गतौ विवक्षायां गम्ऌँ इति धातुः | वर्तमानविवक्षायां वर्तमाने लट् (३.२.१२३) | |
गम्ऌँ + लट् | लटः शतृशानचावप्रथमासमानाधिकरणे (३.२.१२४) इत्यनेन लटः स्थाने शतृ |
गम्ऌँ + शतृ | उपदेशेऽजनुनासिक इत् (१.३.२), लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९) इत्येभिः अनुबन्धलोपः |
गम् + अत् | तिङ्शित्सार्वधातुकम् (३.४.११३) इत्यनेन शतृ-प्रत्ययः सार्वधातुकप्रत्ययः
कर्तरि शप् (३.१.६८) इत्यनेन कर्त्रर्थे सार्वधातुकप्रत्यये परे धातोः शप्-प्रत्ययः भवति |
गम् + शप् + अत् | इषुगमियमां छः (७.३.७७) इत्यनेन इष्, गम्, यम् एषां छकारादेशो भवति शिति परे | हलन्त्यम् (१.३.३) इत्यनेन अनुबन्धलोपः शप् → अ |
गछ् + अ + अत् | छे च (६.१.७३) इत्यनेन छकारे परे संहितायां विषये ह्रस्वस्य तुगागमो भवति | स्तोः श्चुना श्चुः (८.४.४०) इत्यनेन सकारस्य तवर्गीयस्य च स्थाने शकारस्य चवर्गस्य च आदेशः भवति, शकारस्य चवर्गस्य च योजनेन | गछ् → गत्छ् → गच्छ् |
गच्छ् + अ + अत् | अतो गुणे (६.१.९७) इत्यनेन पूर्वपरयोः एकः पररूपादेशः |
गच्छ् + अत् → गच्छत् इति शत्रन्तप्रादिपदिकम् |
अतो गुणे (६.१.९७) = अपदान्तात् अतः गुणे परे पूर्वपरयोः स्थाने एकः पररूपमेकादेशः स्यात् | गुणः इत्युक्तौ अ, ए, ओ | इदं सूत्रं वृद्धिरेचि (६.१.८८), अकः सवर्णे दीर्घः (६.१.१०१) इत्यनयोः अपवादः | अतः पञ्चम्यन्तं, गुणे सप्तम्यन्तं, द्विपदमिदं सूत्रम् | उस्यपदान्तात् (६.१.९६) इत्यस्मात् अपदान्तात् अपि च एङि पररूपम् (६.१.९४) इत्यस्मात् पररूपम् इत्यनयोः अनुवृत्तिः | एकः पूर्वपरयोः (६.१.८४), संहितायाम् (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितं सूत्रम्— अपदान्तात् अतः गुणे पूर्वपरयोः एकः पररूपं संहितायाम् |
धेयं यत् शतृ-प्रत्यये शकार-ऋकारयोः इत्-सज्ञा लोपश्च | शकारः इत् इत्यनेन शित्, अतः तिङ्-शित्सार्वधातुकम् (३.४.११३) इत्यनेन अयं प्रत्ययः सार्वधातुकः | ऋकारः इत् इत्यनेन उगित् (उक्-प्रत्याहारे इत्-सज्ञा यस्य सः); अस्मात् उगिदचां सर्वनामस्थानेऽधातोः (७.१.७०) इत्यनेन नुम्-आगमः विहितः | अस्माच्च स्त्री-विवक्षायाम् उगितश्च (४.१.६) इत्यनेन स्त्री-प्रत्ययः ङीप् विहितः भवति |
अत्र प्रश्नः उदेति किमर्थं लघुमार्गः सर्वत्र कार्यं करोति; उत्तरं वर्तते यत् तस्य पृष्ठतः शास्त्रीयविधिरस्ति एव |
सार्वधातुकप्रत्ययाः केवलं चतुर्विधाः— अजाद्यपित्, हलाद्यपित्, अजादि पित्, हलादि पित् | तदनुगुणं सार्वधातुकप्रत्ययेषु कार्यं चतुर्विधम् एव भवति | इदं तथ्यं मनसि निधाय यः पाणिनीयव्याकरणक्षेत्रे अग्रे सरति, तस्य कृते मार्गः सरल एव |
तिङन्तप्रसङ्गे एतत् सर्वम् अस्माभिः अवलोकितं प्रागेव | दृष्टान्तरीत्या पुनः स्मार्यते येन सर्वेभ्यः अतिस्पष्टं स्यात्—
हलादि पित्सु— (लटि) चिनु + ति → पित्सु गुणः अतः इकः गुणः (सार्वधातुकार्धधातुकयोः) → चिनो + ति → हलादिषु सन्धिकार्यं नास्ति → चिनोति
अजादि पित्सु— (लोटि) चिनु + आनि → पित्सु गुणः अतः इकः गुणः (सार्वधातुकार्धधातुकयोः) → चिनो + आनि → यान्तवान्तसन्धिः अव्-आदेशः → चिनवानि
हलाद्यपित्सु— (लटि) चिनु + तः → अपित्सु गुण-निषेधः (सार्वधातुकमपित्, क्क्ङिति च); हलादिषु सन्धिकार्यं नास्ति → चिनुतः
अजाद्यपित्सु— (लटि) चिनु + अन्ति → अपित्सु गुण-निषेधः; अजाद्यपित्सु यण्-सन्धिः (हुश्नुवोः सार्वधातुके इत्यनेन यण्-आदेशः) → चिन् + व् + अन्ति → चिन्वन्ति
एवं च सार्वधातुकप्रत्ययेषु कार्यं चतुर्विधम् | तिङन्तप्रसङ्गे सर्वाणि चत्वारि प्राप्यन्ते यथा उपरि प्रदर्शितम् | अधुना शत्रन्तप्रसङ्गे अयं सिद्धान्तः पुनः अन्वितः; किन्तु शत्रन्तप्रसङ्गे चतुर्षु कार्येषु एकविधमेव सञ्जायते— अजाद्यपित्सु यत् क्रियते तत् | अतः अत्र अस्माकं कृते सौलभ्यं विद्यते |
"अन्ति" इति सिद्धतिङ्-प्रत्ययः "अजादि अपित् सार्वधातुकप्रत्ययः" अस्ति | नवसु गणेषु “अन्ति” इत्येव सिद्धतिङ्-प्रत्ययः भवति; जुहोत्यादिगणे "अति" अस्ति, सोऽपि तथा "अजादि अपित् सार्वधातुकप्रत्ययः" | सर्वेषु गणेषु मूलप्रत्ययः "झि" इति स्मर्यताम् | झि अपित् च तिङ् सन् सार्वधातुकश्च, अतः अन्ति अजादि, अपित्, सार्वधातकः | अस्य अभिज्ञानम् अत्यावश्यकम् |
शतृ-प्रत्ययस्य सिद्धप्रत्ययः "अत्"; सोऽपि अजादि, अपित्, सार्वधातुकः | अतः यत् कार्यम् अन्ति/अति-प्रत्यययोः परे भवति, तदेव कार्यं अत्-प्रत्यये परेऽपि भवति— शतं प्रतिशतम् |
आहत्य लट्-लकारस्य प्रथमपुरुषबहुवचने यत् यत् कार्यं भवति, तत् सर्वं समानरीत्या भवति शतृ-प्रत्यये परे | अतः लघुमार्गः यदृच्छया कार्यं करोति इति न; पृष्ठतः शास्त्रीयतर्कस्तु अस्त्येव | “गच्छन्ति" इत्यस्य व्युत्पत्त्यर्थं यत् यत् कार्यं भवति, तदेव समानकार्यं भवति "गच्छत्" इत्यस्य व्युत्पत्त्यर्थम् | अपि च अयम् अन्वयः तिष्ठति सर्वेषां द्विसहस्रस्य धातूनां कृते |
स्वादिगणे "चिन्वन्ति" इति पश्येम | चिनु + अन्ति | अन्ति "अजादि अपित् सार्वधातुकप्रत्ययः" अतः हुश्नुवोः सार्वधातुके इत्यनेन यण्-आदेशः उ → व् | अधुना शत्रन्ते चिनु + अत् इति स्थितौ अपि तदेव कार्यं यण्-आदेशः | चिनु + अत् → उ-स्थाने व् → चिन्वत् इति शत्रन्तप्रादिपदिकम् |
हुश्नुवोः सार्वधातुके (६.४.८७) = हु-धातोः अपि च श्नु-प्रत्ययान्तस्य असंयोगपूर्वस्य उकारस्य स्थाने यण्-आदेशः भवति (किति ङिति) अजादि-सार्वधातुकप्रत्यये परे |
तनादिगणे कुरु + अन्ति → कुर्वन्ति | अत्र इको यणचि इत्यनेन उ → व् | कुरु + अत् → कुर्वत् इति स्थितौ अपि इको यणचि इत्यनेन उ → व् भवति |
सारांशः एवं यत् सर्वेषु दशसु गणेषु कार्यं समानं भवति लटि शतरि च | लट्-लकारस्य प्रथमपुरुषबहुवचने यत् यत् कार्यं भवति, तत् सर्वं समानरीत्या भवति शतृ-प्रत्यये परे | कारणम् अस्ति उभयत्र प्रत्ययः अजादि अपित् सार्वधातुकः |
पुंलिङ्गे नपुंसके च
शत्रन्तप्रातिपदिकं तदेव "गच्छत्", “चिन्वत्", “कुर्वत्" इत्यादीनि रूपाणि | एकवारं यदा कृत्-प्रत्ययः धातुतः संयुक्तः, तदा कृत्तद्धितसमासाश्च (१.२.४६) इति सूत्रेण प्रातिपदिक-संज्ञा प्राप्ता |
दशसु गणेषु तथा— गच्छत्, सत्, ददत्, दीव्यत्, चिन्वत्, तुदत्, रुन्धत्, कुर्वत्, क्रीणत्, चोरयत् | प्रातिपदिकस्य निर्माणे धातुगणम् अनुसृत्य कार्यं भिद्यते विकरणप्रत्ययभेदात् परन्तु अस्माकं लघुमार्गः समानः सर्वत्र, उपरि दृष्टं शास्त्रीयचिन्तनञ्च समानम् | अग्रिमे पाठे गणम् अनुसृत्य कार्यम् अवलोकयिष्यते |
पूर्वमेव अस्माभिः ज्ञातं यत् सार्वधातुकलकारेषु तिङन्तपदस्य निर्माणार्थं त्रीणि सोपानानि सन्ति—
१. विकरणप्रत्यय-निमित्तकम् अङ्गकार्यम्, तदा धातु-विकरणप्रत्यययोः मेलनम्
२. तिङ्प्रत्यय-सिद्धिः
३. तिङ्प्रत्यय-निमित्तकम् अङ्गकार्यं, तदा अङ्ग-तिङ्प्रत्यययोः मेलनम्
प्रथमसोपाने अङ्गं निष्पन्नम | द्वितीये सोपाने तिङ्प्रत्यय-सिद्धिः | तृतीये सोपाने अङ्ग-तिङ्प्रत्यययोः मेलनम् | शत्रन्तप्रसङ्गे अपि अयमेव क्रमः | परन्तु द्वितीयसोपानम् अत्यन्तं लघु, सर्वत्र समानञ्च | शतृ → अनुबन्धलोपः → अत् |
पुंसि नपुंसके च सुबन्तपदानां कुत्रचित् नकारः (नुमागमः) दृश्यते | गच्छन्, गच्छन्तम् इत्यादीनि रूपाणि; पुनः अन्यत्र नुमागमः नैव दृश्यते गच्छद्भ्याम्, गच्छत्सु इत्यादीनि रूपाणि | तत् चिन्तनम् इतः अग्रे द्वितीये पाठे भविष्यति यदा शत्रन्तानां सुबन्तप्रकरणं परिशील्यते |
स्त्रीलिङ्गे
स्त्रियां शत्रन्तप्रातिपदिकं नदी शब्दवत् सर्वत्र; नाम ईकारान्तशब्दः | तत्र प्रमुखप्रश्नः भवति नकारः (नुमागमः) कुत्र कुत्र आयाति, अपि च कुत्र न | यथा "बालिका वदन्ती चलति" इत्यस्मिन् वद्-धातोः स्त्रियां नुमागमः भवति | परन्तु "बालिका कार्यं कुर्वती चलति" इत्यस्मिन् कृ-धातोः स्त्रियां नुमागमः न भवति | स्त्रियाम् अयं नुमागमः प्रातिपदिके आयाति |
स्त्रियां नुमागमः भवति प्रातिपदिके एव | अतः प्रातिपदिकनिर्माण-समये नुम्-आगमविचारः करणीयः |
a) स्त्री-प्रातिपदिकं भ्वादिगणे, दिवादिगणे, चुरादिगणे
एषु त्रिषु गणेषु शत्रन्तप्रातिपदिके नुमागमः नित्यः |
वद् + अ + अत् → वदत् इति पुंसि नपुंसके च शत्रन्तं प्रादिपदिकम् | प्रक्रिया यथा पूर्वोक्तम् |
वदत् → उगितश्च इत्यनेन उगित्-प्रातिपदिकेभ्यः स्त्रीत्वविवक्षायां ङीप्-प्रत्ययः भवति → वदती → शप्श्यनोर्नित्यम् इत्यनेन भ्वादिगणे, दिवादिगणे, चुरादिगणे च नित्यं नुमागमः → वदन्ती इति स्त्रियां शत्रन्तं प्रातिपदिकम् |
भ्वादौ भू-धातुः— भवन्ती, भवन्त्यौ, भवन्त्यः
दिवादौ दिव्-धातुः— दीव्यन्ती, दीव्यन्त्यौ, दीव्यन्त्यः
चुरादिगणे चोरि-धातुः— चोरयन्ती, चोरयन्त्यौ, चोरयन्त्यः
उगितश्च (४.१.६) = उगित्-प्रातिपदिकेभ्यः स्त्रीत्वविवक्षायां ङीप्-प्रत्ययः भवति | उक् प्रत्याहारे उ, ऋ, लृ एते वर्णाः अन्तर्भूताः | उक् इत् यस्य (प्रातिपदिकस्य) तद् उगित्, तस्मात् उगितः | उगितः पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | ऋन्नेभ्यो ङीप् (४.१.५) इत्यस्मात् ङीप् इत्यस्य अनुवृत्तिः | स्त्रियाम् (४.१.३),ङ्याप्प्रातिपदिकात् (४.१.१) इत्यस्मात् प्रातिपदिकात्, प्रत्ययः (३.१.१), परश्च (३.१.२) इत्येषाम् अधिकारः | अनुवृत्ति-सहितं सूत्रम्— स्त्रियाम्, उगितः प्रातिपदिकात् च ङीप् प्रत्ययः परः |
शप्श्यनोर्नित्यम् (७.१.८१) = शप्श्यन्-प्रत्यययोः अवर्णात् अङ्गात् शत्रन्ताङ्गस्य नित्यं नुम्-आगमो भवति शी-प्रत्यये च नदी-प्रत्यये परे | नदी एका संज्ञा अस्ति; ङीप्, ङीष्, ङीन् इत्येषां स्त्री-प्रत्ययानां नदी-संज्ञा भवति | शप् च श्यन् च तयोरितरेतरद्वन्द्वः शप्श्यनौ, तयोः शप्शनोः | शप्श्यनोः षष्ठ्यन्तं, नित्यं क्रियाविशेषणं द्वितीयान्तम् | आच्छीनद्योर्नुम् (७.१.८०) इत्यस्मात् आत्, शीनद्योः, नुम्, अपि च नाभ्यस्ताच्छतुः (७.१.७८) इत्यस्मात् शतुः इत्येषाम् अनुवृत्तिः | अङ्गस्य इत्यस्य अधिकारः | अनुवृत्ति-सहितं सूत्रम्— शप्श्यनोः आत् अङ्गात् शतुः नित्यं नुम् शीनद्योः |
मिदचोऽन्त्यात्परः (१.१.४७) = यः मित् अस्ति, सः अच्-वर्णेषु अन्त्यात् परः आयाति, अपि च अयं मित् यस्य वर्ण-समुदायस्य, तस्य अन्तिमावयवो भवति | म् इत् यस्य सः मित्, बहुव्रीहिः | मित् प्रथमान्तम्, अचः षष्ठ्यन्तम्, अन्त्यात् पञ्चम्यन्तम्, परः प्रथमान्तम्, अनेकपदमिदं सूत्रम् | आद्यन्तौ टकितौ (१.१.४६) इत्यस्मात् अन्तः इत्यस्य अनुवृत्तिः | अस्मिन् सूत्रे 'अचः' षष्ठीविभक्तौ; "अचः अन्त्यात्" इत्यस्य अर्थः निर्धारणम्— नाम "सर्वेषु स्वरेषु अन्तिमः, तस्मात्" | अत्र अचः एकवचने यतोहि अनेन अच्-जातिः इति इष्टम् | आशयः बहुवचनं, निर्धारण-सप्तमी (बहुषु एकम्) | जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम् (१.२.५८) = जाति-आख्यायाम् एकस्मिन् बहुवचनम् अन्यतरस्याम् | तर्हि 'अचः' एकवचने चेदपि सार्वत्रिक-बहुवचनार्थकः | इत्थञ्च षष्ठीविभक्तेः अर्थः 'स्थाने' इति न; षष्ठी स्थानेयोगा (१.१.४९) इति सामान्यम्, इदं सूत्रं विशेषः | अनुवृत्ति-सहितसूत्रम्— मित् अचः अन्त्यात् परः अन्तः |
नश्चापदान्तस्य झलि (८.३.२४) = अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति झलि परे | झल्-प्रत्याहारे वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णाः अपि च श्, ष्, स्, ह् इति वर्णाः अन्तर्भूताः | पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तः तस्य अपदान्तस्य | नः षष्ठ्यन्तं, च अव्ययपदम्, अपदान्तस्य षष्ठ्यन्तं, झलि सप्तम्यन्तं, अनेकपदमिदं सूत्रम् | मोऽनुस्वारः (८.३.२३) इत्यस्मात् मः, अनुस्वारः इत्यनयोः अनुवृत्तिः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अपदान्तस्य मः नः च अनुस्वारः झलि संहितायाम् |
अनुस्वारस्य ययि परसवर्णः (८.४.५८) = अनुस्वारस्य स्थाने परसवर्णादेशो भवति ययि परे | परस्य सवर्णः, परसवर्णः, षष्ठी तत्पुरुषः | अनुस्वारस्य षष्ठ्यन्तं, ययि सप्तम्यन्तं, परसवर्णः प्रथमान्तं, त्रिपदमिदं सूत्रम् | यय्-प्रत्याहारे श्, ष्, स्, ह् एतान् वर्जयित्वा सर्वे हल्-वर्णाः अन्तर्भूताः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अनुस्वारस्य परसवर्णः ययि संहितायाम् |
अधुना विस्तारेण पुनः वदन्ती इति प्रातिपदिकस्य व्युत्पत्ति-प्रक्रियाम् अवलोकयाम—
वदत् | स्त्रीत्वविवक्षायां उगितश्च इत्यनेन उगित्-प्रातिपदिकेभ्यः ङीप्-प्रत्ययः भवति |
वदत् + ङीप् | ङ्-प्-लोपः लशक्वतद्धिते (१.३.८), हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९) |
वदत् + ई | शप्श्यनोर्नित्यम् इत्यनेन भ्वादिगणे, दिवादिगणे, चुरादिगणे च नित्यं नुमागमः |
अत्र अङ्गद्वयं वर्तते इति धेयम्— शतृ (अत्) निमित्तीकृत्य अङ्गं वद; अपि च ङीप् निमित्तीकृत्य वदत् | वद इति शप्श्यन्-प्रत्यययोः (अत्र शप् प्रत्ययस्य) अवर्णान्तम् अङ्गम्— वद् + अ = वद | वदत् इति शत्रन्तम् अ`ङ्गम्— वद + अत् = वदत् | अधुना नदी-प्रत्ययः (ङीप्) परः अस्ति, अतः शप्श्यन्-प्रत्यययोः अवर्णात् अङ्गात् (वद इत्यस्मात्) शत्रन्ताङ्गस्य (वदत् इत्यस्य) नित्यं नुम् आगमः भवति |
नुम्-आगमः शत्रन्ताङ्गस्य आगमः | यस्य आगमः अस्ति, सः आगमः कदाचित् तस्मात् पूर्वम् आयाति, कदाचित् तस्य अनन्तरम् आयाति, कदचित् तस्य मध्ये एव आयाति | नुम् मित् अस्ति अतः मिदचोऽन्त्यात्परः (१.१.४७) इत्यनेन शत्रन्ताङ्गस्य मध्ये एव आयाति— तस्य शत्रन्ताङ्गस्य अच्-वर्णेषु अन्त्यात् परम् आयाति | नाम वद इत्यस्य दकारोतरवर्ती-अकारस्य अनन्तरम् |
वद + नुम् + त् + ई | अनुबन्धलोपे हलन्त्यम् (१.३.३), उपदेशेऽजनुनासिक इत् (१.३.२) |
वद + न् + त् + ई | त् झलि अस्ति, अतः नश्चापदान्तस्य झलि इत्यनेन नकारस्य स्थाने अनुस्वारादेशः |
वद + ं + त् + ई | त् ययि अस्ति, अतः अनुस्वारस्य ययि परसवर्णः इत्यनेन अनुस्वार-स्थाने नकारादेशः |
वद + न् + त् + ई | वर्णमेलने |
वदन्ती इति स्त्रियां शत्रन्तं प्रातिपदिकं निष्पन्नम् | |
b) स्त्री-प्रातिपदिकं तुदादिगणे, अदादिगणस्य १४ आकारान्तधातुषु च
तुदादिगणे, अदादिगणस्य १४ आकारान्तधातुषु च शत्रन्तप्रातिपदिके नुमागमः वैकल्पिकः |
तुद् + अ + अत् → तुदत् इति पुंसि नपुंसके च शत्रन्तं प्रादिपदिकम् | प्रक्रिया यथा पूर्वोक्तम् |
तुदत् → उगितश्च इत्यनेन उगित्-प्रातिपदिकेभ्यः स्त्रीत्वविवक्षायां ङीप्-प्रत्ययः भवति → तुदती → आच्छीनद्योर्नुम् इत्यनेन तुदादिगणे विकल्पेन नुमागमः → तुदती / तुदन्ती इति स्त्रियां शत्रन्तं प्रातिपदिकम् |
तुदादौ तुद्-धातुः— | तुदती, तुदत्यौ, तुदत्यः |
तुदन्ती, तुदन्त्यौ, तुदन्त्यः |
अदादिगणे चतुर्दश आकारान्त-धातवः सन्ति | आच्छीनद्योर्नुम् इत्यस्य सूत्रस्य प्रसक्तिः तेषां कृते अपि अस्ति | नाम तत्रापि शत्रन्त-प्रसङ्गे स्त्रीत्वविवक्षायां नुम्-आगमः विकल्पेन भवति | कारणम् इदं यत् एषां धातूनाम् अवर्णान्तम् अङ्गम् अस्ति, परन्तु इदम् अङ्गं शबन्तम् श्यनन्तं च नास्ति | धातवः एते— या, वा, भा, ष्णा, श्रा, द्रा, प्सा, पा, रा, ला, दा, ख्या, प्रा, मा |
अदादौ या-धातुः— | याती, यात्यौ, यात्यः |
यान्ती, यान्त्यौ, यान्त्यः |
आच्छीनद्योर्नुम् (७.१.८०) = अवर्णात् अङ्गात् शत्रन्ताङ्गस्य विकल्पेन नुम्-आगमो भवति शी-प्रत्यये च नदी-प्रत्यये परे | शी च नदी च शीनद्यौ, तयोः शीनद्योः | आत् पञ्चम्यन्तं, शीनद्योः सप्तम्यन्तं, नुम् प्रथमान्तं, त्रिपदमिदं सूत्रम् | नाभ्यस्ताच्छतुः (७.१.७८) इत्यस्मात् शतुः, अपि च वा नपुंसकस्य (७.१.७१) इत्यस्मात् वा इत्यनयोः अनुवृत्तिः | अङ्गस्य इत्यस्य अधिकारः | अनुवृत्ति-सहितं सूत्रम्— आत् अङ्गात् शतुः वा नुम् शीनद्योः |
धेयं यत् आच्छीनद्योर्नुम् (७.१.८०) इति सामान्यशास्त्रं, शप्श्यनोर्नित्यम् (७.१.८१) इति विशेषशास्त्रम् | आच्छीनद्योर्नुम् इत्यनेन शत्रन्ताङ्गस्य अवर्णात् अङ्गात् विकल्पेन नुम् आगमः भवति | भ्वादिगणे, दिवादिगणे, चुरादिगणे च शत्रन्ताङ्गस्य अवर्णान्तम् अङ्गं भवति (भव, दीव्य, चोरय) | अतः आच्छीनद्योर्नुम् इत्यनेन एषु त्रिषु गणेषु अपि नुम् आगमः वैकल्पिकः भवति स्म | नाम एषु त्रिषु गणेष्वपि आच्छीनद्योर्नुम् इत्यस्य प्रसक्तिरस्ति | तदा शप्श्यनोर्नित्यम् आगत्य वदति यत् "न— एषु गणेषु शप्-श्यन् इति विकरणप्रत्ययौ भवतः, अतः अत्र नुम्-आगमः नित्यः न तु वैकल्पिकः |
c) स्त्री-प्रातिपदिकम् अवशिष्टगणेषु (नुम्-आगमः नैव भवति)
षट्सु गणेषु अङ्गम् अदन्तं नास्ति, अतः नुम्-आगमस्य किमपि विधायकं सूत्रम् नास्ति | तदर्थं स्त्रीत्वविवक्षायां केवलं ङीप्-प्रत्ययः संयुज्यते |
यथा— चिनु + अत् + ई | अत्र चिनु इति अङ्गम् उकारान्तं (न तु अकारान्तम्), अतः न आच्छीनद्योर्नुम् इत्यस्य प्रसक्तिः, न वा शप्श्यनोर्नित्यम् इत्यस्य |
अदादौ अस्-धातुः— सती, सत्यौ, सत्यः
जुहोत्यादिगणे* दा-धातुः— ददती, ददत्यौ, ददत्यः
स्वादौ चि-धातुः— चिन्वती, चिन्वत्यौ, चिन्वत्यः
तनादौ तन्-धातुः— तन्वती, तन्वत्यौ, तन्वत्यः
क्र्यादौ क्री-धातुः— क्रीणती, क्रीणत्यौ, क्रीणत्यः
रुधादौ रुध्-धातुः— रुन्धती, रुन्धत्यौ, रुन्धत्यः
*जुहोत्यादिगणे श्नाभ्यस्तयोरातः (६.४.११२) इत्यनेन आकारस्य लोपः, अतः अङ्गं हलन्तम् अस्ति न तु अदन्तम् | ददा + अत् → दद् + अत् → ददत् | दद् इति अङ्गम्, अतः अत्रापि आच्छीनद्योर्नुम् इत्यस्य प्रसक्तिः नास्ति | अपि च अन्ततो गत्वा नाभ्यस्ताच्छतुः (७.१.७८) इत्यनेन अभ्यस्तसंज्ञकात् शतृ-प्रत्ययस्य नुम्-आगमो न भवति | अनुवृत्ति-सहितसूत्रम्— न अभ्यस्तात् अङ्गात् शतुः नुम् |
सर्वैः चिन्तनं समक्तया कर्तव्यं किमर्थं सूत्रदृष्ट्या स्त्रीत्व-विवक्षायां भ्वादौ, दिवादौ, चुरादौ च नुम्-आगमः नित्यः, तुदादौ, १४ अदादिगणस्थेषु आकारान्तधातुषु नुम्-आगमः वैकल्पिकः, अपि च अवशिष्टेषु षट्सु गणेषु नुम्-आगमस्य प्रसक्तिर्नास्ति |
इति शन्त्रन्तानां प्रातिपदिक-निर्माणम् समाप्तम् |
०१ - शत्रन्तरूपाणि - प्रातिपदिक-निर्माणम्.pdf (67k) Swarup Bhai, Nov 16, 2019, 12:09 AM v.1
Swarup – Sept 2014