18 - आर्धधातुक-तकारादिकृत् प्रत्ययाः - तव्यत्, तुमुन्, तृच्
7---ArdhadhAtukaprakaraNam/18---tavyat, tumun, tRuc
आर्धधातुकप्रक्रिया
आर्धधातुकप्रक्रिया इत्युक्ते न केवलम् आर्धधातुकतिङन्तरूपसिद्धिः अपि तु आर्धधातुककृदन्तरूपसिद्धिः अपि | अनयोः रूपसिद्धौ प्रक्रियासाम्यं वर्तते | धातुभ्यः विधीयमानाः प्रत्ययाः द्विविधाः—तिङ् कृत् च | अनयोः मध्ये प्रक्रियादृष्टया कोऽपि भेदो नास्ति | कृतः क्षेत्रे प्रातिपदिकनिष्पत्त्यानन्तरं सुप्-प्रत्ययानां विधानं तु नूतनप्रक्रिया—सुबन्तप्रक्रिया इति | तत्र च तादृशविभजनं नास्ति आर्धधातुक-सार्वधातुकयोः | आर्धधातुक-सार्वधातुकयोः विभजनं केवलं यत्र धातुतः साक्षात् प्रत्ययविधानं भवति | तत्र च आर्धधातुकप्रक्रिया वा भवतु, सार्वधातुकप्रक्रिया वा भवतु, उभयत्र प्रक्रिया एका एव—तदभ्यन्तरे पुनः “तिङन्तप्रक्रिया” वा “कृदन्तप्रक्रिया” वा तादृशं किमपि विभजनं नास्ति | आर्धधातुकप्रक्रिया एका एव; एवमेव सार्वधातुकप्रक्रिया एका एव |
आर्धधातुकप्रक्रियायां किं किं भवति इति जानीमः | इडागमचिन्तनम् अवश्यं करणीयं, तदर्थं च ज्ञातव्यं यत् धातुः सेट्, अनिट्, अथवा वेट्; पुनः प्रत्ययः इडनुकूलः न वा इति | धातुगणचिन्तनम् आर्धधातुकप्रक्रियायाम् अनावश्यकम् | पूर्वम् अनिडादयाः आर्धधातुकप्रत्ययाः केचन पठिताः | यथा णिच् प्रत्ययः | णिच् प्रत्ययः वलादिः नास्ति इति कारणतः इडनुकूलो नास्ति | एवमेव केचन यकारादि-आर्धधातुकप्रत्ययाः अपि दृष्टाः; तत्रापि वलादित्वाभावात् अनिडानुकूल्यम् | यथा कर्मणिप्रयोगे यक् प्रत्ययः | पुनः परस्मैपदे आशीर्लिङ्-लकारः अनिडादिषु अन्यतमः | अत्र यासुट्-आगमो भवति इति कारणतः सिद्धतिङ्-प्रत्ययाः यकारादयः; तदर्थं च न वलादयः | एवमेव यङन्तरूपाणि, यङ्लुगन्तरूपाणि च | एषु चतुर्षु स्थलेषु प्रत्ययः यकारादिः इत्यतः तत्र कार्यसाम्यम् अस्ति; तदर्थं तेषां चिन्तनं सामूहिकरूपेण कृतम् |
यत्र यत्र प्रक्रियासाम्यम् अस्ति तत्र एकत्र, समूहरीत्या क्रमगतपाठः करणीयः | अनेन विषयग्रहणे सौकर्यं वर्तते | इति मातुः पाठ्यक्रमस्य वैशिष्ट्यम् | सिद्धान्तकौमुद्यादिषु प्रक्रियाग्रन्थेषु एतादृशक्रमः न लभ्यते इति करणतः तेभ्यः पाठ्यक्रमः स्वीक्रियते चेत् मार्गः कुटिलः, पाठग्रहणे जाटिल्यञ्च | तदर्थं प्रथमतया सार्वधातुकप्रक्रिया अधीता—लट्, लोट्, लङ्, विधिलिङ्, शतृ, शानच् इति | तत्र सर्वत्र धातुगणम् अनुसृत्य पाठः अस्माभिः साधितः | सिद्धान्तकौमुद्यां लट्-लकारस्य अनन्तरं लिट्-लकारः पाठ्यते, किन्तु द्वयोः मध्ये महान् भेदो वर्तते इति करणतः गुरुकुलेषु विश्वविद्यालयेषु च जनानां ज्ञानं सुदृढं न भवति | मातुः पाठ्यक्रमे प्रक्रियासाम्येन अस्माकं महान् लाभः |
तर्हि यत्र प्रक्रियासाम्यं भवति, तत्र सामूहिकरूपेण पाठं कुर्मः; तदनुसृत्य इदानीं क्रमेण अनुसरामः | सद्यः लुट्-लकारः अधीतः | लुट्-लकारे जानीमः यत् तास् इति लकारनिमित्तकविकरणप्रत्ययो भवति | स्यतासी लृ-लुटोः (३.१.३३) इत्यनेन लुटि परे धातुतः तासि भवति | धातुभ्यः विधीयमानः तास् न तिङ् न वा शित् इति कृत्वा आर्धधातुकसंज्ञकः; वलादिः इति कृत्वा इडनुकूलः | इदानीं तव्यत्, तुमुन्, तृच् अपि तथैव सन्ति | एते त्रयः प्रत्ययाः न तिङ् न वा शित् इति कृत्वा आर्धधातुकसंज्ञकाः; वलादयः च वशादयः न इति कृत्वा इडनुकूलाः | अधुना अत्र पुनः इतोऽपि सादृश्यं वर्तते यतोहि तास्-प्रत्ययः तकारादिः, एते त्रयः तव्यत्, तुमुन्, तृच् अपि तकारादयः | अस्य सर्वस्य दर्शनेन अवगच्छामः यत् लुट्-लकारप्रक्रियायां यादृशम् अङ्गकार्यं सन्धिकार्यं च भवति, तादृशमेव अङ्गकार्यं सन्धिकार्यं च भवति एतेषु त्रिषु प्रत्ययेषु अपि | पुनः एतेषु त्रिषु प्रक्रियासाम्यं बहु अधिकम् अस्ति इत्यतः एतेषां त्रयाणां तकारादिकृत्प्रत्ययानां चिन्तनम् अस्मिन् पाठे मिलित्वा क्रियते | पश्चात् सकारादिप्रत्ययाः इडनुकूलप्रत्ययाः सामूहिकरूपेण पठ्यन्ते |
धातूनाम् आयोजनम्
आर्धधातुकप्रक्रियायाम् अस्माकं सौलभ्यार्थं सर्वे धातवः १४ गणेषु विभक्ताः सन्ति इति जानीमः | चतुर्दश वर्गाः एते—
१) अकारान्ताः— यथा कथ, गण, रच इत्यादयः |
२) आकारान्ताः— यथा पा, ला, वा, दा धा इत्यादयः |
३) इकारान्ताः— यथा जि, श्वि, चि कि, रि इत्यादयः |
४) ईकारान्ताः— यथा नी, शी, डी, क्री, वी इत्यादयः |
५) उकारान्ताः— यथा द्रु, नु, कु, गु, क्षु इत्यादयः |
६) ऊकारान्ताः— यथा भू, लू, पू, नू, मू इत्यादयः |
७) ऋकारान्ताः— यथा हृ, भृ, धृ, मृ, कृ, स्वृ, स्मृ इत्यादयः |
८) ॠकारान्ताः— यथा जॄ, झॄ, शॄ, गॄ, वॄ इत्यादयः |
९) एजन्ताः— यथा ग्लै, म्लै, धे, ध्यै, पै, शो, छो इत्यादयः |
१०) अदुपधाः— यथा पठ्, चल्, वद्, स्खल्, कक्, पच्, चट् इत्यादयः |
११) इदुपधाः— यथा चित्, मिद्, छिद्, भिद्, निद्, मिल् इत्यादयः |
१२) उदुपधाः— यथा बुध्, शुध्, मुद्, कुक्, उख् इत्यादयः |
१३) ऋदुपधाः— यथा कृष्, वृष्, नृत्, छृद्, वृत्, वृध् इत्यादयः |
१४) अवशिष्टाः— ये न सन्ति एषु वर्गेषु यथा मील्, शीक्, बुक्क्, अञ्च् इत्यादयः |
धातूनाम् इडागमचिन्तनम्
धातवः केचन सेटः, केचन अनिटः, केचन वेटः, इति पूर्वमधीतम् एव |
धातुः सेट् वा अनिट् वा इति कथं ज्ञायते?
एकाच उपदेशेऽनुदात्तात् (७.२.१०)
एकाच उपदेशेऽनुदात्तात् (७.२.१०) सूत्रेण निष्कर्षत्वेन अवगच्छेम यत्, एकाच्-धातुषु अनुदात्ताः अनिटः; उदात्ताः स्वरिताः च सेटः इति |
अजन्ताः धातवः आधिक्येन अनिटः | अतः ये सेटः, ते ज्ञातव्याः | केवलं १४ अजन्तधातवः कण्ठस्थीकरणीयाः; अनेन सर्वेषाम् अजन्तधातूनाम् इड्व्यवस्था मनसि सिद्धा | हलन्त-धातवः आधिक्येन सेटः | हलन्तधातुषु ये अनिटः ते स्मर्तव्याः | अजन्तधातुषु द्वादश धातवः स्वयं सेटः (श्रि, श्वि, शी, डी, यु, रु, नु, स्नु, क्षु, क्ष्णु, वृञ्, वृङ्) | अजन्तधातुषु द्वौ धातू यौ न केवलं स्वयं सेटौ अपि तु वर्गप्रतिनिधी | भू-धातुः सर्वेषाम् ऊकारान्तानां प्रतिनिधिः | तॄ-धातुः सर्वेषाम् ॠकारान्तानां प्रतिनिधिः |
प्रत्ययानाम् इडागमचिन्तनम्
आर्धधातुकस्येड्वलादेः, नेड् वशि कृति इति सूत्राभ्यां प्रत्ययस्य वर्णनं क्रियते | तिङ्-प्रत्ययः आर्धधातुकः, वलादिः अपि चेत्, अयं प्रत्ययः इडागमानुकूलः | कृत्-प्रत्ययः वलादिः अवशादिः चेत्, अयं प्रत्ययः इडागमानुकूलः |
१. आर्धधातुकस्येड्वलादेः (७.२.३५)
२. नेड् वशि कृति (७.२.८)
३. तितुत्रतथसिसुसरकसेषु च (७.२.९)
इत्येषां त्रयाणां सूत्राणाम् आधारेण सम्यक् परिशीलनानन्तरम् आहत्य त्रिंशत् वलाद्यार्धधातुक-प्रत्ययाः इडनुकूलाः वर्तन्ते इति ज्ञातम् | तेषु चतुर्दश तकारादिप्रत्ययाः | ते एव क्त, क्तवतु, क्त्वा, तव्य, तुमुन्, तव्यत्, तृच्, तृन्, तास्, तवै, तवेन्, तोसुन्, त्वन्, तवङ् |
पूर्वस्मिन् पाठे लुट् लकारः अधीतः | लुट् लकारे तास् इति लकारनिमित्तकविकरणप्रत्ययः स्यतासी लृलुटोः सूत्रेण प्रथमस्थरे एव, लकारस्य स्थाने लकारावस्थायाम् एव आयाति | तास् प्रत्ययः तकारादि प्रत्ययः | सः लकारनिमित्तकविकरणप्रत्ययः | तास् प्रत्ययः लुट्लकारं निमित्तीकृत्य आयाति | लुट् लकाररूपसिद्धिः इत्युक्ते आर्धधातुकप्रक्रिया |
इदानीं केषाञ्चन तकारादि-आर्धधातुककृत् प्रत्ययानां रूपसिद्धिः उच्यते | तव्यत्, तुमुन् , तृच्, एते त्रयः प्रत्ययाः अपि तकारादि-आर्धधातुकप्रत्ययाः एव | किन्तु, एते त्रयः कृदतिङ् सूत्रेण तिङ्वर्जिताः कृत्सज्ञकाः | तावान् एव भेदः | तास्, तव्यत्, तुमुन्, तृच् एतेषां रूपसिद्धौ प्रक्रियासाम्यं वर्तते | अतः एतेषां रूपसिद्धिः मिलित्वा कुर्मः चेत् न कापि समस्या | लुट् प्रक्रिया ज्ञाता पूर्वम् | प्रक्रियासाम्यमस्तीत्यतः तव्यत्, तुमुन्, तृच् इत्येतेषां रूपाणि इदानीं सौलभ्येन साधयितुं शक्नुमः | प्रत्येकं धातुतः तव्यत्, तुमुन्, तृच् इत्येषां त्रयाणां प्रत्ययानां संयोजनावसरे स्मर्तव्यानि नूतनानि सूत्राणि कानि इति पश्येम | तेषां रूपसिद्धेः विषये नूतनं किम् अध्येतव्यम् इति अधः दीयते |
तृच्, तव्यत्, तुमुन्- विधानार्थं विधिसूत्राणि
तृच्-प्रत्ययः
ण्वुल्तृचौ
ण्वुल्तृचौ (३.१.१३३) = सर्वेभ्यः धातुभ्यः ण्वुल् तृच् च विहितौ | कर्तरि कृत् (३.४.६७) इत्यनेन कर्त्रर्थे एतौ प्रत्ययौ भवतः | ण्वुल् च तृच् च तयोरितरेतरद्वन्द्वः ण्वुल्तृचौ | ण्वुल्तृचौ प्रथमान्तम् एकं पदमिदं सूत्रम् | धातोः, प्रत्ययः, परश्च इत्येषाम् अधिकारः | अनुवृत्ति-सहितसूत्रम्— धातोः ण्वुल्तृचौ प्रत्ययौ परौ |
अयं तृच्-प्रत्ययः कर्त्रर्थे इत्युक्तम् । अनेन ज्ञायते यत् यस्मात् धातोः तृच् विधीयते, अनेन यः शब्दः निष्पन्नो भवति सः तस्य धातोः अर्थे कर्ता इति । यथा कृ + तृच् → हलन्त्यम्, तस्य लोपः इत्याभ्यां चकारस्य इत्-संज्ञा लोपश्च → कर्तृ + सु → कर्ता । पठ् + तृच् → पठिता ।
तुमुन्-प्रत्ययः
तुमुन्-प्रत्ययः - विधिसूत्राणि, तत्सम्बद्धसूत्राणि च
तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् (३.३.१०)
तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् (३.३.१०) = एकस्याः क्रियायाः साधनार्थम् अपरस्यां क्रियायाम् उपपदे सति भविष्यदर्थे प्रथमायाः (क्रियायाः) धातुतः तुमुन् च ण्वुल् च प्रत्ययौ भवतः | क्रियार्थायां क्रियायामुपपदे धातोर्भविष्यति काले तुमुन्ण्वुलौ प्रत्ययौ भवतः इति काशिका | अत्र इमौ द्वौ प्रत्ययौ तुमुन् ण्वुल् भविष्यत्यर्थे; तुमुन् भावार्थे, ण्वुल् च कर्त्रर्थे | तत्रोपपदं सप्तमीस्थम् (३.१.९२) इत्यनेन ’क्रियायां क्रियार्थायाम्’ उपपदसप्तमीविभक्तौ स्तः | ’पठितुं गच्छति’ इत्यस्मिन् पठनक्रियायाः साधनार्थं गमनक्रिया वर्तते | पठनम् अस्ति प्रयोजनं, नाम लक्ष्यं; गमनम् अस्ति साधनम् | पठनम् इति क्रियायाः कृते गमनम् इति क्रिया वर्तते इति कृत्वा गमन-क्रिया अस्ति “क्रियार्था क्रिया” | एतदर्थं गमनक्रियायाः ’उपपद’संज्ञा भवति | तुमुन् च ण्वुल् च तयोरितरेतरद्वन्दः तुमुन्ण्वुलौ | क्रिया अर्थः प्रयोजनं यस्याः सा क्रियार्था, तस्यां क्रियार्थायां, बहुव्रीहिः | तुमुन्ण्वुलौ प्रथमान्तं, क्रियायां सप्तम्यन्तं, क्रियार्थायां सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | भविष्यति गम्यादयः (३.३.३) इत्यस्मात् भविष्यति इत्यस्य अनुवृत्तिः | प्रत्ययः (३.१.१), परश्च (३.१.२), धातोः (३.१.९१) इत्येषाम् अधिकारः | अनुवृत्ति-सहितसूत्रम्—धातोः तुमुन्ण्वुलौ प्रययौ परश्च भविष्यति क्रियार्थायां क्रियायाम् |
तत्रोपपदं सप्तमीस्थम् (३.१.९२)
तत्रोपपदं सप्तमीस्थम् (३.१.९२) = धातोः (३.१.९१) इति सूत्रस्य अधिकारे विद्यमानेषु सूत्रेषु यः शब्दः सप्तमीविभक्त्याम् अस्ति, तेन निर्दिष्टं पदम् उपपद-संज्ञकं भवति | एतेषु सूत्रेषु सप्तमीविभक्त्याः अर्थः अस्ति उपपदसप्तमी; तेषु ’तत्र’ इत्यपि अन्वेति ‘सति सप्तमी’ इति अर्थे | यत् सूत्रं धातोः (३.१.९१) इति सूत्रस्य अधिकारे अस्ति (इत्युक्ते तृतीयाध्यायस्य अन्तपर्यन्तम्), सप्तमीविभक्त्या निर्दिष्टपदस्य उपपदसंज्ञा भवति, अपि च ’तत्र’ इत्यनेन ’तस्मिन् उपपदसंज्ञकपदे सति’ (नाम तस्य उपस्थितौ) तेन सूत्रेण यः प्रत्ययः विधातव्यः, स च प्रत्ययः अस्य उपपदसंज्ञकपदबलेन विधीयते | तस्मिंश्च सत्येव वक्ष्यमाण: प्रत्यय: स्यात् |
यथा तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् (३.३.१०) इति सूत्रे निर्दिष्टपदस्य उपपदसंज्ञा भवति, अपि च तादृशपदस्य उपस्थितौ एव विहितं कार्यं विधीयते | नाम अनेन सूत्रेण ’भोक्तुं व्रजति’ इति निदर्शने, “क्रियायां क्रियार्थायाम्” इत्यनेन (तत्रोपपदं सप्तमीस्थम् (३.१.९२) इत्यस्य साहाय्येन) (१) ’व्रजति’ इत्यस्य उपपदसंज्ञा भवति, अपि च (२) ’यदा’ इयं व्रजन-क्रिया अस्ति, ’तदा’ भुज्-धातुतः तुमुन्-प्रत्ययः विधीयते | अतः उपपदसप्तमी अपि अस्ति, सति सप्तमी अपि अस्ति |
कस्याः अपि क्रियायाः साधनार्थं यदा द्वितीया क्रिया उपयुज्यते, सा द्वितीया क्रिया ’क्रियार्था क्रिया’ इत्युच्यते | यथा ’भोक्तुं गच्छति’ इत्यस्मिन् भोजनक्रियायाः साधनार्थं गमनक्रिया उपयुज्यते, अतः गमनक्रिया ’क्रियार्था क्रिया’ | तस्याः च गमनक्रियायाः उपपदसंज्ञा भवति | तत्र प्रथमा क्रिया भविष्यत्-काले अस्ति यतोहि एतावता सा क्रिया न आरब्धा | अत्र भोजनक्रिया नारब्धा अतः सा भविष्यत्-काले अस्ति | यदा एका क्रिया न आरब्धा, नाम भविष्यत्-काले अस्ति, अपि च तस्याः साधनार्थम् एका द्वितीया क्रिया उपयुज्यते, तस्यां दशायां प्रथमक्रियायाः व्यक्तीकरणार्थं यः धातुः अस्ति, तस्मात् धातोः तुमुन् च ण्वुल् च भवतः | निदर्शनार्थं ’भोक्तुं व्रजति’ इत्यस्मिन् तुमुन्-प्रत्ययः विहितः; ’भोजको व्रजति’ इत्यस्मिन् ण्वुल्-प्रतययः विहितः | किन्तु उभयत्र अर्थः भिन्नः—तुमुन्-प्रत्ययः भावार्थे, ण्वुल्-प्रत्ययः कर्त्रर्थे | तर्हि एवमस्ति चेत्, ण्वुल्तृचौ (३.१.१३३) इत्यनेन ण्वुल्-प्रत्ययः विधीयते एव; पुनः कर्त्रर्थे ण्वुल्-प्रत्ययः अपरेण सूत्रेण किमर्थम् ? इति चेत्, अत्र “यः करोति सः” इति अर्थः अस्त्येव, किन्तु भविष्यति | ’भोजको व्रजति’ इत्युक्ते गच्छति, गत्वा च खादकः भविष्यति (अधुना खादकः नास्ति) | अतः तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् (३.३.१०) इति सूत्रेण भविष्यत्कालार्थे ण्वुल्-प्रत्ययः विधीयते | इदमपि बोध्यं यत् भविष्यत्कालार्थे अयं ण्वुल्-प्रत्ययः अव्ययं नास्ति; त्रिषु लिङ्गेषु भवति—भोजकः, भोजिका, भोजकम् | तर्हि अयं ण्वुल्-प्रत्ययः भविष्यत्कालार्थे, किन्तु ण्वुल्तृचौ (३.१.१३३) इत्यनेन त्रिषु कालेषु भवति |
तुमुन्-प्रत्यये नकारस्य हलन्त्यम् (१.३.३) इत्यनेन इत्-संज्ञा, उकारस्य उपदेशेऽजनुनासिक इत् (१.३.२) इत्यनेन इत्-संज्ञा, द्वयोः लोपानन्तरं ’तुम्’ इति अवशिष्यते | ञ्नित्यादिर्नित्यम् (६.१.१९७) इत्यनेन इत्-संज्ञक-नकारेण ञित् प्रत्यये परे नित्-प्रत्यये च परे प्रकृति-प्रत्यय-समुदायस्य आदिस्वरः नित्यमुदात्तः भवति | इत्संज्ञक-उकारः उच्चारणार्थः | यः कृत्प्रत्ययान्तं पदं मकारान्तं, तस्य अव्ययसंज्ञा भवति कृन्मेजन्तः (१.१.३९) इति सूत्रेण | यैः कृत्-प्रत्ययैः अव्ययपदानि निष्पद्यन्ते, ते भावार्थे भवन्ति | अव्ययकृतो भावे भवन्ति इति महाभाष्यवाक्यम्; अव्ययकृतो भावे इति भाष्यवचनात् तुमुन्प्रत्ययः भावे भवति | आर्धधातुकस्येड्वलादेः (७.२.३५), नेड् वशि कृति (७.२.८) इत्याभ्याम् अयं तुमुन्-प्रत्ययः इडनुकूलः |
कृन्मेजन्तः (१.१.३९)
कृन्मेजन्तः (१.१.३९) = कृत्संज्ञकप्रत्ययः यः मान्तः एजन्तश्च, तदन्तशब्दः अव्ययसंज्ञकः | म् च एच् च मेचौ, मेचौ अन्तौ यस्य सः मेजन्तः | कृत् प्रथमान्तं, मेजन्तः प्रथमान्तं, द्विपदमिदं सूत्रम् | स्वरादिनिपातमव्ययम् (१.१.३७) इत्यस्मात् अव्ययम् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— कृत् मेजन्तः अव्ययम् |
निदर्शने कृष्णं द्रष्टुं याति इति वाक्यम् | अत्र ’याति’ इति गत्यर्थकक्रियायाः प्रयोजनमस्ति भविष्यति दर्शनक्रियासिद्धिः | अतः दृश्-धातोः तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् (३.३.१०) इत्यनेन तुमुन्-प्रत्ययः विधीयते |
दृश् → तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् (३.३.१०) इत्यनेन क्रियार्थायां क्रियायामुपपदे भविष्यत्यर्थे तुमुन्-प्रत्ययः विधीयते → दृश् + तुमुन् → हलन्त्यम् (१.३.३), उपदेशेऽजनुनासिक इत् (१.३.२), तस्य लोपः (१.३.९) → दृश् + तुम् → आर्धधातुकस्येड्वलादेः (७.२.३५) नेड् वशि कृति (७.२.८) इत्याभ्यां तुमुन्-प्रत्ययः इडनुकूलः, किन्तु दृश्-धातुः अनुदात्तः इत्यस्मात् एकाच उपदेशेऽनुदात्तात् (७.२.१०) इत्यनेन इडागमः बाधितः → दृश् + तुम् → सृजिदृशोर्झल्यमकिति (६.१.५८) इत्यनेन अम्-आगमः → मिदचोऽन्त्यात्परः (१.१.४७) इत्यनेन अन्तिमात् अचः परः → दृश् + अम् + तुम् → दृ-अ-श् + तुम् → इको यणचि (६.१.७६) → द्रश् + तुम् → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) → द्रष् + तुम् → ष्टुना ष्टुः (८.४.४१) → द्रष्टुम् → द्रष्टुम् + सु → अव्ययादाप्सुपः (२.४.८२) इत्यनेन अव्ययात् परस्य आप्-प्रत्ययस्य सुप्-प्रत्ययस्य च लुक् → द्रष्टुम् इति पदम् निष्पन्नम् |
सृजिदृशोर्झल्यमकिति (६.१.५८)
सृजिदृशोर्झल्यमकिति (६.१.५८) = सृज्-धातोः च दृश्-धातोः च अम्-आगमो भवति कित्-भिन्न-झलादि प्रत्यये परे | सृजिश्च दृश्च तयोरितरेत्तरद्वन्द्वः सृजिदृशौ, तयोः सृजिदृशोः | न कित् अकित् नञ्तत्पुरुषः, तस्मिन् अकिति | सृजिदृशोः षष्ठ्यन्तं, झलि सप्तम्यन्तम्, अम् प्रथमान्तम्, अकिति सप्तम्यन्तम्,अनेकपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णाम्— सृजिदृशोः अम् झलि अकिति |
समानकर्तृकेषु तुमुन् (३.३.१५८)
समानकर्तृकेषु तुमुन् (३.३.१५८) = येषाम् कर्ता समानः तादृश-इच्छार्थकधातूनाम् उपस्थितौ च तेषाम् उपपदसंज्ञायां सत्यां, धातोः तुमुन्-प्रत्ययः भवति । इच्छार्थेषु धातुषु समानकर्तृकेषु उपपदेषु धातोः तुमुन् प्रत्ययो भवति इति काशिका | तत्रोपपदं सप्तमीस्थम् (३.१.९२) इत्यस्य बलेन “इच्छार्थेषु समानकर्तृकेषु” इत्येनन ये धातवः सूचिताः, तेषाम् उपपदसंज्ञा भवति च तेषाम् उपस्थितौ एव धातुमात्रात् तुमुन्-प्रत्ययो विधीयते । समानः कर्ता येषां ते समानकर्तृकाः, तेषु समानकर्तृकेषु बहुव्रीहिः | समानकर्तृकेषु सप्तम्यन्तं, तुमुन् प्रथमान्तं, द्विपदमिदं सूत्रम् | इच्छार्थेषु लिङ्लोटौ (३.३.१५७) इत्यस्मात् इच्छार्थेषु इत्यस्य अनुवृत्तिः | प्रत्ययः (३.१.१), परश्च (३.१.२), धातोः (३.१.९१) इत्येषाम् अधिकारः | अनुवृत्ति-सहितसूत्रम्— धातोः तुमुन् प्रत्ययः परश्च इच्छार्थेषु समानकर्तृकेषु |
देवदत्तः इच्छति भोक्तुम् | देवदत्तः कामयते भोक्तुम् | देवदत्तः वाञ्च्छति भोक्तुम् | देवदत्तः वष्टि भोक्तुम् | एषु वाक्येषु इच्छार्थकधातवः सन्ति— इच्छति, कामयते, वाञ्च्छति, वष्टि (अदादौ, वश्-धातुः) । एते च उपपदसंज्ञकाः । अस्यां दशायां समानकर्तृक-भुज्-धातुतः तुमुन्-प्रत्ययो विधीयते । “देवदत्तः इच्छति भोक्तुम्” इति वाक्ये ’इच्छति’ च ’भोक्तुं’ च, अनयोः कर्ता समानः | प्रश्नः उदेति किमर्थम् अत्र समानकर्तृकेषु उक्तं किन्तु तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् (३.३.१०) इति सूत्रे नोक्तम् ? उभयत्र समानकर्तृकत्वं वर्तते | “बालकः पठितुं गच्छति” इति वाक्ये अपि यः पठिष्यति, सः एव गच्छति । उत्तरमस्ति यत् अत्र, अन्यथाबोधो न जायते । किन्तु “देवदत्तः इच्छति भोक्तुम्” इति वाक्ये भवितुमर्हति यत् देवदत्तः इच्छति यत् अन्यः कोऽपि खादेत् । यत्र इच्छा अस्ति अपि च भोजनक्रिया अस्ति, तत्र भवितुमर्हति यत् भिन्नकर्तृकत्वं स्यात् | तथा भवति चेत् किन्तु तुमुन्-प्रत्ययस्य व्यवहारः न भवेत् |
अन्यः प्रश्नः उदेति यत् “देवदत्तः भोक्तुम् इच्छति”, “बालकः पठितुं गच्छति” इति द्वयोः वाक्ययोः अपि अर्थः भविष्यति अस्त्येव | यतोहि “भोक्तुम् इच्छति” इति स्थलेऽपि देवदत्तः न खादति वर्तमाने | अग्रे गत्वा खादिष्यति | तथैव खलु इच्छार्थः । तर्हि किमर्थम् उक्तं यत् यः तुमुन्-प्रत्ययः तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् (३.३.१०) इति सूत्रेण विहितः सः भविष्यदर्थकः, किन्तु समानकर्तृकेषु तुमुन् (३.३.१५८) इत्यनेन यः तुमुन्-प्रत्ययः विहितः सः भविष्यदर्थकः इति नोक्तम् ? यतोहि भविष्यदर्थः च इच्छार्थः च समानः न । एकः अस्ति यत् अग्रे गत्वा भविष्यति; अन्यः अस्ति केवलम् इच्छा । खदितुम् इच्छति किन्तु न खादिष्यति, सोऽपि भवितुमर्हति | अतः एकः तुमुन्-व्यवहारः भविष्यति अस्ति, अन्यः इच्छार्थे अस्ति |
सिद्धान्तकौमुद्यामुक्तं यत् अक्रियार्थोपपदार्थमेतत् | अनेन बुद्धं यत् तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् (३.३.१०) इति सूत्रेण क्रियार्था क्रिया उपपदसंज्ञका अस्ति चेत् एव धातोः तुमुन्-प्रत्ययो विधीयते, किन्तु समानकर्तृकेषु तुमुन् (३.३.१५८) इति सूत्रेण क्रियार्था क्रिया नास्ति चेदपि इच्छार्थक-उपपदसंज्ञका क्रिया अस्ति चेत् धातोः तुमुन्-प्रत्ययो विधीयते |
शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु तुमुन् (३.४.६५)
शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु तुमुन् (३.४.६५) = शक-धृष-ज्ञा-ग्ला-घट-रभ-लभ-क्रम-सह-अर्ह-अस्ति इति एषु अर्थेषु उपपदेषु धातोः तुमुन् स्यात् | तत्रोपपदं सप्तमीस्थम् (३.१.९२) इत्यस्य बलेन “शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु” इत्येनन ये धातवः सूचिताः, तेषाम् उपपदसंज्ञा भवति च तेषाम् उपस्थितौ एव धातुमात्रात् तुमुन्-प्रत्ययो विधीयते । अस्तीति अर्थो येषां ते अस्त्यर्थाः, बहुव्रीहिः । शकश्च धृषश्च ज्ञाश्च ग्लाश्च घटश्च रभश्च लभश्च क्रमश्च सहश्च अर्हश्च अस्त्यर्थाश्च तेषमितरेतरद्वन्द्वः शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थाः, तेषु शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु । शक-धृष-ज्ञा-ग्ला-घट-रभ-लभ-क्रम-सह-अर्ह-अस्ति-अर्थेषु सप्तम्यन्तं, तुमुन् प्रथमान्तं, द्विपदमिदं सूत्रम् | प्रत्ययः (३.१.१), परश्च (३.१.२), धातोः (३.१.९१) इत्येषाम् अधिकारः | अनुवृत्ति-सहितसूत्रम्— धातोः तुमुन् प्रत्ययः परश्च शक-धृष-ज्ञा-ग्ला-घट-रभ-लभ-क्रम-सह-अर्ह-अस्ति-अर्थेषु |
शक्नोति भोक्तुम् | धृष्णोति भोक्तुम् (खादनार्थं प्रवीणः) | जानाति भोक्तुम् (खादनार्थं प्रवीणः) | ग्लायति भोक्तुम् (खादनार्थम् असमर्थः) | घटते भोक्तुम् (खादने योग्यः) | आरभते भोक्तुम् | लभते भोक्तुम् (भोजनं प्राप्नोति) | प्रक्रमते भोक्तुम् (खादनस्य आरम्भं करोति) | उत्सहते भोक्तुम् | अर्हति भोक्तुम् | अस्ति भोक्तुम् (आहारः वर्तते) | भवति भोक्तुम् (एवमेव) | विद्यते भोक्तुम् (एवमेव) |
व्याख्याकारेषु मतभेदः अस्ति यत् अस्मिन् सूत्रे ’अर्थेषु’ इति अंशः अन्वेति सर्वेषु उक्तेषु धातुषु अथवा केवलम् अस्-धातौ । सिद्धान्तकौमुद्याम् उच्यते यत् अन्वयो भवति ’अस्ति’ इत्यस्मिन्नेव । परन्तु अन्ये वैयाकरणाः प्रदर्शयन्ति यत्, उदाहरणार्थं ’शक्नोति’ इत्यस्मिन् अर्थे ’पारयति’ इत्यस्य व्यवहारः लभ्यते साहित्ये—“न पारयामि निवेदयितुम्” इति निदर्शनम् । विद्-धातुः ज्ञानार्थे अपि यथा “न च वेद सम्यग् द्रष्टुं न सा” इति निदर्शनम् । अतः ’अर्थेषु’ इत्यस्य अन्वयः प्रायः सर्वेषु उक्तेषु धातुषु स्यात् ।
पर्याप्तिवचनेष्वलमर्थेषु (३.४.६६)
पर्याप्तिवचनेष्वलमर्थेषु (३.४.६६) = सामर्थ्यवाचकेषु परिपूर्णतावाचकेषु उपपदसंज्ञकेषु शब्देषु धातोः तुमुन् स्यात् | पर्याप्तिवचनेषु अलमर्थेषु उपपदेषु धातोस्तुमुन् प्रत्ययो भवति इति काशिका । अनेन सूत्रेण सुबन्ताः तुमुन्-व्यवहारस्य कारणम्—“युवकः कार्यं कर्तुं कुशलः” | तत्रोपपदं सप्तमीस्थम् (३.१.९२) इत्यस्य बलेन “पर्याप्तिवचनेष्वलमर्थेषु” इत्येनन ये शब्दाः सूचिताः, तेषाम् उपपदसंज्ञा भवति (“पर्याप्तिवचनेष्वलमर्थेषु” इत्यस्य सप्तमीविभक्तिकत्वात्) च (“तत्र” इत्यनेन) तेषाम् उपस्थितौ एव धातुमात्रात् तुमुन्-प्रत्ययो विधीयते | पर्याप्तिरुच्यते यैः ते पर्याप्तिवचनाः, बहुव्रीहिः, तेषु पर्याप्तिवचनेषु । अलमार्थो येषां ते अलमार्थाः, बहुव्रीहिः, तेषु अलमार्थेषु | शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु तुमुन् (३.४.६५) इत्यस्मात् तुमुन् इत्यस्य अनुवृत्तिः | प्रत्ययः (३.१.१), परश्च (३.१.२), धातोः (३.१.९१) इत्येषाम् अधिकारः | अनुवृत्ति-सहितसूत्रम्— धातोः तुमुन् प्रत्ययः परश्च पर्याप्तिवचनेषु अलमर्थेषु |
पर्याप्तः भोक्तुम् | प्रवीणः भोक्तुम् | कुशलः भोक्तुम् | पटुः भोक्तुम् | अनेन कर्तुः सामर्थ्यम् उच्यते | खादने पर्याप्तः, प्रवीणः, कुशलः, पटुः | ये शब्दाः सामर्थ्यवाचकाः च परिपूर्णतावाचकाः च | तदर्थं सूत्रे शब्दद्वयम् उक्तम् पर्याप्तिवचनेषु अलमर्थेषु | द्वयोरपि आवश्यकता |
अत्र द्वयोः पदयोः दलसार्थक्यचिन्तनम् । पर्याप्तवचनेषु किम् ? अलं भुक्त्वा । पर्याप्तिवचनेष्वलमर्थेषु (३.४.६६) इत्यस्मिन् पर्याप्तवचनेषु इति पदम् अतः अस्ति येन पर्याप्तवचनम् अतिरिच्य अलमर्थे उपपदे सति तुमुन्-विधानं न स्यात् । नाम निषेधार्थकः अलम्-शब्दस्य अत्र व्यवहारः न भवेत् । नो चेत् ’अलं भुक्त्वा’, नाम ’मा खादतु’ इत्यस्मिन् अनिष्टार्थे भविष्यति ।
अलमर्थेषु किम् ? पर्याप्तं भुङ्क्ते । पर्याप्तिवचनेष्वलमर्थेषु (३.४.६६) इत्यस्मिन् अलमर्थेषु इति दलम् अतः अस्ति येन सामर्थ्यम् अतिरिच्य पर्याप्तार्थे उपपदे सति तुमुन्-विधानं न स्यात् । नाम बहु-अर्थकः पर्याप्त-शब्दस्य अत्र व्यवहारः न भवेत् । नो चेत् ’पर्याप्तं भुङ्क्ते’, नाम ’बहु खादति’ इत्यस्मिन् अनिष्टार्थे भविष्यति ।
कालसमयवेलासु तुमुन् (३.३.१६७)
कालसमयवेलासु तुमुन् (३.३.१६७) = काल, समय, वेला इव कालार्थवाचकशब्देषु उपपदेषु धातोः तुमुन् स्यात् | कालादिषु उपपदेषु धातोः तुमुन् प्रत्ययो भवति इति काशिका | अनेन सूत्रेण अपि सुबन्ताः तुमुन्-व्यवहारस्य कारणम्—“समयः खलु स्नानभोजने सेवितुम्” | तत्रोपपदं सप्तमीस्थम् (३.१.९२) इत्यस्य बलेन “कालसमयवेलासु” इत्येनन ये शब्दाः सूचिताः, तेषाम् उपपदसंज्ञा भवति (“कालसमयवेलासु” इत्यस्य सप्तमीविभक्तिकत्वात्) च (“तत्र” इत्यनेन) तेषाम् उपस्थितौ एव धातुमात्रात् तुमुन्-प्रत्ययो विधीयते | कालश्च समयश्च वेला च तेषामितरेतरद्वन्द्वः कालसमयवेलाः, तासु कालसमयवेलासु | कालसमयवेलासु सप्तम्यन्तं, तुमुन् प्रथमान्तं, द्विपदमिदं सूत्रम् | प्रत्ययः (३.१.१), परश्च (३.१.२), धातोः (३.१.९१) इत्येषाम् अधिकारः | अनुवृत्ति-सहितसूत्रम्— धातोः तुमुन् प्रत्ययः परश्च कालसमयवेलासु |
अनेन सूत्रेण तुमुन्-प्रत्ययः भविष्यति अपि नास्ति, क्रियार्थं क्रिया अपि नास्ति | निदर्शने “कालो भोक्तुम्”, “समयः भोक्तुम्”, “वेला भोक्तुम्” | उचितसमयः आगतः खादनार्थम् इत्यर्थः | अपरेषु समानार्थकेषु पदेषु अपि भवति | “अनेहा भोक्तुम्” इति | “अवसरोऽयमात्मानं प्रकाशयितुम्”, नाम स्वस्य सामर्थ्यप्रदर्शनार्थम् उचितसमयः आगतः |
अवसरार्थे अयं तुमुन्-व्यवहारः भवति | अपरेषु स्थलेषु न भवति | “कालः पचति भूतानि” इति |
तव्यत् प्रत्ययः - विधिसूत्राणि, तत्सम्बद्धसूत्राणि च
तव्यत्तव्यानीयरः (३.१.९६)
तव्यत्तव्यानीयरः (३.१.९६) = धातुतः तव्यत्, तव्य, अनीयर् च प्रत्ययाः भवन्ति | तव्यच्च, तव्यश्च, अनीयर् च तेषामितरेतरद्वन्द्वः, तव्यत्तव्यानीयरः | तव्यत्तव्यानीयरः प्रथमान्तम् | एकं पदमिदं सूत्रम् | प्रत्ययः (३.१.१), परश्च (३.१.२), धातोः (३.१.९१) इत्येषाम् अधिकारः | अनुवृत्ति-सहितसूत्रम्— धातोः तव्यत्तव्यानीयरः प्रत्ययाः परश्च |
तव्यत्-प्रत्ययस्य हलन्त्यम् (१.३.३) इत्यनेन तकारस्य इत्-संज्ञा इत्यस्मात् तव्य अवशिष्यते | अयं प्रत्ययः तित्; अन्यः च तव्य-प्रत्ययः तित् न | तव्यत्-प्रत्ययः तित् इत्यतः तित्स्वरितम् (६.१.१८५) इत्यनेन तस्य आदिस्वरः स्वरितः भवति | कृत्-प्रत्ययः शित् चेत् तिङ्शित्सार्वधातुकम् (३.४.११३) इत्यनेन सार्वधातुकसंज्ञकः भवति | शित्-भिन्नः चेत् आर्धधातुकं शेषः (३.४.११४) इत्यनेन आर्धधातुकसंज्ञकः | एते त्रयः प्रत्ययाः शित्-भिन्नाः इति कृत्वा आर्धधातुकसंज्ञकाः | तव्यत् च तव्य च वलादिप्रत्ययौ न तु वशादौ इत्यतः आर्धधातुकस्येड्वलादेः (७.२.३५), नेड् वशि कृति (७.२.८) इत्याभ्यां द्वौ अपि इडनुकूलौ | अनीयर्-प्रत्ययः वलादिः न इत्यतः तस्य इडागमः न कदापि भवति |
कर्तरि कृत् (३.४.६७)
कर्तरि कृत् (३.४.६७) = कृत्-प्रत्ययः कर्त्रर्थे भवति | औत्सर्गिकसूत्रम्, अनेन सामान्यतया कृत्-प्रत्ययाः कर्त्रथे भवन्ति | अन्यत् बाधकसूत्रं नास्ति चेत्, यः कोऽपि कृत्प्रत्ययः कर्त्रर्थे एव | कर्तरि सप्तम्यन्तं, कृत् प्रथमान्तं, द्विपदमिदं सूत्रम् | प्रत्ययः (३.१.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्——कर्तरि कृत् प्रत्ययः |
तस्य बाधकसूत्रम् अस्ति—
तयोरेव कृत्यक्तखलर्थाः (३.४.७० )
तयोरेव कृत्यक्तखलर्थाः (३.४.७० ) = कृत्य, क्त, खलर्थ च प्रत्ययाः भावार्थे कर्मार्थे च भवन्ति | एते त्रयः प्रत्ययाः कर्तरि कृत् (३.४.६७) इत्यनेन कर्त्रर्थे भवन्ति स्म, तदा अनेन सूत्रेण उच्यते यत् कर्त्रर्थे न अपि तु भावर्थे कर्मार्थे च | ’तयोः’ इत्यनेन पूर्वतनसूत्रं लः कर्मणि च भावे चाकर्मकेभ्यः (३.४.६९) इत्यस्मात् कर्मणि, भावे इत्यनयोः अर्थः आयाति | खलर्थः इत्युक्ते ये प्रत्ययाः खल्-प्रत्ययस्य अर्थे भवन्ति | खलः अर्थः खलर्थः षष्ठीतत्पुरुषः | कृत्याश्च क्ताश्च खलर्थाश्च तेषमितरेतरद्वन्द्वः कृत्यक्तखलर्थाः | तयोः सप्तम्यन्तम्, एव अव्ययपदं, कृत्यक्तखलर्थाः प्रथमान्तं, त्रिपदमिदं सूत्रम् | प्रत्ययः (३.१.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्—कृत्यक्तखलर्थाः प्रत्ययाः तयोः एव |
धातुः सकर्मकः चेत् तयोरेव कृत्यक्तखलर्थाः (३.४.७० ) इत्यनेन ये प्रत्ययाः उक्ताः ते कर्मार्थे भवन्ति | अस्माभिः अजाः ग्रामं नेतव्याः | कतृपदं तृतीयाविभक्तौ, कर्मपदं च प्रथमाविभक्तौ | अत्र अजाः कर्मपदं, तस्मिन्नेव अर्थे नेतव्याः इति पदमिति कृत्वा नेतव्याः कर्मार्थे | धातुः अकर्मकः चेत्, एते प्रत्ययाः भावार्थे भवन्ति | भावे इत्युक्ते क्रियायाः अर्थे | भावार्थे चेत्, कृदन्तरूपं नित्यं नपुंस्कलिङ्गे एकवचने च | अस्माभिः उपवेष्टव्यम् | उप + विश्-धातुः अकर्मकः, अतः अत्र ’उपवेष्टव्यम्’ भावार्थे, नाम क्रियार्थे |
रूपव्युत्पत्तिरेवं भवति—
एध वृद्धौ इति अकर्मकधातुः वृद्ध्यर्थे, तस्माच्च तव्यत्-प्रत्ययः योजनीयः | एध → तव्यत्तव्यानीयरः (३.१.९६) इत्यनेन धातोः तव्यत्-प्रत्ययविधानम् → एध + तव्यत् → इत्संज्ञा लोपश्च इत्यस्मात् अनुबन्धलोपः → एध् + तव्य → तव्यत् शित्-भिन्नः अतः आर्धधातुकं शेषः (३.४.११४) इत्यनेन आर्धधातुकसंज्ञकः; वलादिः न तु वशादिः इत्यतः आर्धधातुकस्येड्वलादेः (७.२.३५), नेड् वशि कृति (७.२.८) इत्याभ्याम् इट्-अनुकूलः, एध्-धातुः च सेट् इत्यतः इट्-आगमः विधीयते; इट् टित् इत्यतः प्रत्ययस्य आदौ आयाति → एध् + इतव्य → वर्णमेलने → एधितव्य → कृदन्तरूम् इत्यतः कृत्तद्धितसमासाश्च (१.२.४६) इत्यनेन प्रातिपदिकसंज्ञा → सुबन्तप्रक्रियायां सु-विधानम्, अकर्मकधातुः इत्यतः नपुंसकलिङ्गे अतोऽम् (७.१.२४) इत्यनेन सु-स्थाने अम्-आदेशः, अमि पूर्वः (६.१.१०७) इत्यनेन अक्-वर्णात् अम्-प्रत्ययस्य अकारे परे पूर्वपरयोः एकः पूर्वरूप-एकादेशः → एधितव्यम् | भावार्थे इति कारणतः नित्यम् एकवचने नपुंसकलिङ्गे च |
तयोरेव कृत्यक्तखलर्थाः (३.४.७० ) इति सूत्रेण उक्तं यत् कृत्य, क्त, खलर्थ च प्रत्ययाः भावार्थे कर्मार्थे च भवन्ति | तर्हि ज्ञातव्यं यत् ’कृत्य’ इत्यनेन के के प्रत्ययाः सूचिताः—
कृत्याः (३.१.९५)
कृत्याः (३.१.९५) = ण्वुल्तृचौ (३.१.१३३) इत्यस्मात् पूर्वं यावन्तः प्रत्ययाः उक्ताः, ते सर्वे कृत्यसंज्ञकाः | ण्वुल्तृचावित्यतः प्राक् कृत्यसंज्ञाः स्युः इति लघुसिद्धान्तकौमुदी | इदं सूत्रम् अधिकारसूत्रमपि, संज्ञासूत्रमपि | अन्तर्गताः प्रत्ययाः सर्वे कृत्संज्ञकाः अपि, कृत्यसंज्ञकाः अपि | कृत्याः प्रथमान्तम्, एकपदमिदं सूत्रम् | प्रत्ययः (३.१.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्—कृत्याः प्रत्ययाः |
अनेन सूत्रेण एते प्रत्ययाः उक्ताः—
तव्यं च तव्यतञ्चैवानीयर्केलिमरौ तथा |
यतं ण्यतं क्यपं चापि कृत्यान् सप्त प्रचक्षते ||
नाम तव्यत्, तव्य, अनीयर्, केलिमर्, यत्, ण्यत्, क्यप् इति सप्त प्रत्ययाः |
कृत्यप्रत्ययाः इतोऽपि द्वाभ्यां विधिसूत्राभ्यां विधीयन्ते अर्थविशेषे—
अर्हे कृत्यतृचश्च (३.३.१६९)
अर्हे कृत्यतृचश्च (३.३.१६९) = ’अर्ह’ नाम योग्यकर्तृवाचकार्थे कृत्य-प्रत्ययः च तृच्-प्रत्ययः च विधिलिङ्-लकारः विधीयते | चकारात् लिङ्-लकारसङ्केतः | कृत्याश्च तृच् च तेषामितरेतरयोगद्वन्द्वः कत्यतृचः | अर्हे सप्तम्यन्तं, कृत्यतृचः प्रथमान्तं, चाव्ययं, त्रिपदमिदं सूत्रम् | प्रत्ययः (३.१.१), परश्च (३.१.२), धातोः (३.१.९१) इत्येषाम् अधिकारः | अनुवृत्ति-सहितसूत्रम्— धातोः कृत्यतृचश्च प्रत्ययाः परश्च अर्हे |
निदर्शने भवता खलु कन्या वोढव्या / वाह्या / वहनीया (कृत्य-प्रत्ययाः) | भवान् खलु कन्ययाः वोढा (तृच्) | भवान् खलु कन्यां वहेत् (लिङ्) | भवान् तया सह विवाहं कर्तुं योग्यः इत्यर्थः | अत्र वह प्रापणे इति धातुः योग्यार्थे |
कृत्याश्च (३.३.१७१)
कृत्याश्च (३.३.१७१) = आवश्यकः च आधमर्ण्यः (ऋणविशिष्टः) इत्येतादृशे वाच्यार्थे धातुमात्रात् कृत्यसंज्ञकः प्रत्ययः अपि भवति | अस्मात् पूर्वं यत् सूत्रम् आवश्यकाधमर्ण्ययोर्णिनिः (३.३.१७०), अनेन तस्मिन्नेवार्थे णिनि-प्रत्ययः विधीयते, किन्तु कर्त्रर्थे | अवश्यङ्कारी, नाम यः अवश्यं करोति | शतन्दारी, नाम शतं रूप्यकाणि दातव्यानि येन ऋणिना, सः | प्रकृतसूत्रे ’च’ इत्युक्तं यतोहि कृत्यसंज्ञकप्रत्ययाः अपि भवन्ति अस्मिन् प्रसङ्गे किन्तु कर्मार्थे भावार्थे च | आवश्यकाऽधमर्ण्ययोः इति वर्तते इति काशिका | कृत्याः प्रथमान्तं, चाव्ययं, दिपदमिदं सूत्रम् | आवश्यकाधमर्ण्ययोर्णिनिः (३.३.१७०) इत्यस्मात् आवश्यकाधमर्ण्ययोः इत्यस्य अनुवृत्तिः | प्रत्ययः (३.१.१), परश्च (३.१.२), धातोः (३.१.९१) इत्येषाम् अधिकारः | अनुवृत्ति-सहितसूत्रम्— धातोः कृत्याश्च प्रत्ययाः परश्च आवश्यकाधमर्ण्ययोः |
निदर्शने आवश्यकार्थे, भवता खलु अवश्यं कटः कर्त्तव्यः, करणीयः, कार्यः | अवश्यं हरिः सेव्यः | अत्र षेवृ (सेव्) सेवने इत्यस्मात् कृत्यसंज्ञकः ण्यत्-प्रत्ययः, सेव्यः इति रूपम् | आधमर्ण्यार्थे (ऋणविशिष्टार्थे) भवता शतं दातव्यं, देयम् | नाम शतस्य रूप्यकाणां दानयोग्यं ऋणम् | अत्र दा-धातोः कृत्यसंज्ञकः यत्-प्रत्ययः |
पञ्च उपाङ्गानि
यदा आर्धधातुकप्रत्ययः धातुभ्यः विधीयते तदा अङ्गकार्यात् प्राक् पञ्चोपाङ्गप्रसङ्गे क्रमेण चिन्तनीयं भवति |
इमानि पञ्च उपाङ्गनि सन्ति—
१) प्रत्ययादेशः
२) धात्वादेशः
३) इडागमः
४) अतिदेशः
५) द्वित्वम् अभ्यासकार्यञ्च
प्रवर्तमानपाठे तव्यत्, तुमुन्, तृच् इत्येते त्रयः अपि आर्धधातुकसंज्ञकाः अतः उपर्युक्तानि पञ्चोपाङ्गानि चिन्तनीयानि | एषु त्रिषु प्रत्ययादेशो न भवति, न वा द्वित्वम् अभ्यासकार्यम् | अतः अवशिष्यते त्रीणि उपाङ्गानि—धात्वादेशः, इडागमः, अतिदेशः च |
१) धात्वादेशः
अस् धातुः
अस्तेर्भूः (२.४.५२)
अस्तेर्भूः (२.४.५२) | , भवितव्यम्, भवितुम्, भविता |
अस्तेर्भूः (२.४.५२) = आर्धधातुकविवक्षायाम् अस्-धातोः स्थाने भू-आदेशो भवति | अनेकाल्शित् सर्वस्य (१.१.५५) इत्यनेन आदेशः सर्वस्य स्थाने न तु अन्त्यस्य | अस्तेः षष्ठ्यन्तं, भूः प्रथमान्तं, द्विपदमिदं सूत्रम् | आर्धधातुके (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अस्तेः भूः आर्धधातुके |
ब्रूञ् धातुः
ब्रुवो वचिः (२.४.५३)
ब्रुवो वचिः (२.४.५३) | वक्तव्यम्, वक्तुम्, वक्ता |
ब्रुवो वचिः (२.४.५३) = ब्रुवो वचिरादेशो भवति आर्धधातुकविषये | इकार उच्चारणार्थः | ब्रुवः षष्ठ्येकवचनं, वचिः प्रथमैकवचनं, द्विपदमिदं सूत्रम् | आर्धधातुके (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— ब्रुवः वचिः आर्धधातुके |
चक्षिङ्-धातुः—
चक्षिङः ख्याञ् (२.४.५४)
चक्षिङः ख्याञ् (२.४.५४) | ख्यातव्यम् / क्शातव्यम्, ख्यातुम् / क्शातुम्, ख्याता / क्शाता |
चक्षिङ्-धातोः आर्धधातुकप्रत्यये परे ख्याञ्-आदेशः | किन्तु अत्र भाष्यकारो वदति यत् क्शादिरयमादेशः, इत्युक्तौ आदेशः 'ख्या' न अपि तु 'ख्शा', तदा चर्त्वादेशेन 'क्शा' भवति | अपि च पूर्वत्रासिद्धम् (८.२.१) इति अधिकारे एकं वार्तिकम् अस्ति ख्शाञः शस्य यो वा वक्तव्यः | अनेन ख्शाञ् इति आदेशस्य शकारस्य विकल्पेन यकारादेशो भवति | फलितार्थः अयं यत् आर्धधातुकप्रत्यये परे चक्षिङ्-धातोः स्थाने ख्याञ्, ख्शाञ् इति द्वौ आदेशौ सिद्धौ | एकवारं ख्याञ्, अपरस्मिन् पक्षे ख्शाञ् |
चक्षिङः ख्याञ् (२.४.५४) = चक्षिङः ख्याञादेशो भवति आर्धधातुके | चक्षिङः षष्ठ्यन्तं, ख्याञ् प्रथमान्तं, द्विपदमिदं सूत्रम् | आर्धधातुके (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— चक्षिङः ख्याञ् आर्धधातुके |
अज् धातुः—
अजेर्व्यघञपोः (२.४.५६)
अजेर्व्यघञपोः (२.४.५६) | अज् → वेतव्यम्, वेतुम्, वेता |
अजेर्व्यघञपोः (२.४.५६) = अजेर्धातोः वी इत्ययमादेशः स्यादार्धधातुकविषये घञ् च अप् च वर्जयित्वा | अजेः षष्ठ्यन्तं, वी प्रथमान्तम्, अघञपोः सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | आर्धधातुके (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अजेः वी आर्धधातुके अघञपोः |
वलादावार्धधातुके वेष्यते
वलादावार्धधातुके वेष्यते इति वार्तिकेन वलादिः (इडनुकूलः) आर्धधातुकप्रत्ययः परः अस्ति चेत्, अयं धात्वादेशः विकल्पेन भवति | प्रवेतव्यम्, प्राजितव्यम् | प्रवेतुम्, प्राजितुम् | प्रवेता, प्राजिता |
ध्यै धातुः—एजन्तधातुः
आदेच उपदेशेऽशिति (६.१.४५)
आदेच उपदेशेऽशिति (६.१.४५) | ध्यै → ध्यातव्यम्, ध्यातुम्, ध्याता |
आदेच उपदेशेऽशिति (६.१.४५) = उपदेशे एजन्तस्य धातोरात्त्वं न तु शिति | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तदन्तविधिः; अलोन्त्यस्य (१.१.५२) इत्यनेन अन्त्यस्य अलः स्थाने | एच् इत्यनेन 'ए, ऐ, ओ, औ' | श् इत् यस्य स शित्, न शित् अशित्, तस्मिन् (विषये) अशिति, नञ्तत्पुरुषः | आत् प्रथमान्तम्, एचः षष्ठ्यन्तम्, उपदेशे सप्तम्यन्तम्, अशिति सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | लिटि धातोरनभ्यासस्य (६.१.८) इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— एचः धातोः आत् उपदेशे अशिति |
अन्ये एजन्तधातवः, तेषां तव्यत्, तुमुन्, तृच् रूपाणि |
ग्लै → ग्ला →ग्लातव्यम्, ग्लातुम्, ग्लाता
म्लै → म्ला →म्लातव्यम्, म्लातुम्, म्लाता
ध्यै → ध्या →ध्यातव्यम्, ध्यातुम्, ध्याता
शो → शा →शातव्यम्, शातुम्, शाता
सो → सा →सातव्यम्, सातुम्, साता
वे → वा → वातव्यम्, वातुम्, वाता
छो → छा → छातव्यम्, छातुम्, छाता,
भ्रस्ज् धातुः
भ्रस्जो रोपधयोः रमन्यतरस्याम् (६.४.४७)
भ्रस्जो रोपधयोः रमन्यतरस्याम् (६.४.४७) | भ्रस्ज् → भर्ष्टव्यं, भ्रष्टव्यम् |
भ्रस्जो रोपधयोः रमन्यतरस्याम् (६.४.४७) = भ्रस्ज्-धातोः रेफस्य उपधावर्णस्य च स्थाने विकल्पेन रम्-आगमो भवति आर्धधातुक-प्रत्यये परे | कौमुदीकारः प्रतिपादयति यदत्र 'स्थाने' इत्यपि अस्ति, ‘आगमः' इत्यपि अस्ति; एकस्मिन्नेव सूत्रे उभे कार्ये | नाम 'रेफस्य उपधावर्णस्य च स्थाने’ भवति—स्थानषष्ठीनिर्देशाद्रोपधयोर्निवृत्तिः;अपि च रम् इति आगमः अस्ति मित्त्वादन्त्यादचः परः | रम् इत्यस्मिन् अकारः उच्चारणार्थः | रश्च उपधा च तयोरितरेतरद्वन्द्वो रोपधे, तयोः रोपधयोः | भ्रस्जः षष्ठ्यन्तं, रोपधयोः षष्ठ्यन्तं, रमश्च प्रथमान्तम्, अन्यतरस्यां सप्त्यम्यन्तम्, अनेकपदमिदं सूत्रम् | आर्धधातुके (६.४.४६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूर्त्रं— भ्रस्जो रोपधयोः रम् अन्यतरस्याम् आर्धधातुके |
भ्रस्ज् + तव्यत् → भ्रस्जो रोपधयोः रमन्यतरस्याम् (६.४.४७) इत्यनेन भ्रस्ज्-धातोः रेफस्य उपधावर्णस्य च स्थाने, रम्-आगमः च → रेफसकारयोः निवृत्तिः → भज् → रेफः इति आगमः → भर्ज् → भर्ज् + तव्य → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इत्यनेन व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः झलि → भर्ष् + तव्य → ष्टुना ष्टुः (८.४.४१) → भर्ष्टव्यम्
तदभावे—
भ्रस्ज् + तव्यत् → स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यनेन संयोगाद्योः स्कोः लोपः झलि → भ्रज् + तव्य → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इत्यनेन व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः झलि → भ्रष् + तव्य → ष्टुना ष्टुः (८.४.४१) → भ्रष्टव्यम्
एवमेव अस्य धातोः तुमुन् प्रसङ्गे रूपद्वयं संपद्यते भ्रष्टुं, भर्ष्टुम् |
तृच् प्रसङ्गे अपि रूपद्वयं भ्रष्टा, भर्ष्टा |
मीञ्, मिञ्, दीङ् इति धातुत्रयम् —
मीनाति-मिनोति-दीङां ल्यपि च (६.१.५०)
मीनाति-मिनोति-दीङां ल्यपि च (६.१.५०) |
मीञ् → मा → प्रमातव्यम्, प्रमातुम्, प्रमाता
मिञ् → मा → , मातव्यम्, मातुम्, माता
दीङ् → दा → उपदातव्यम्, उपदातुम्, उपदाता
मीनाति-मिनोति-दीङां ल्यपि च (६.१.५०) = क्र्यादौ मीञ् हिंसायां, स्वादौ डुमिञ् प्रक्षेपणे, दिवादौ दीङ् क्षये इत्येतेषां धातूनाम् अन्त्यस्य अलः स्थाने आकारादेशो भवति ल्यपि विषये, एच्-निमित्त-शिद्भिन्न-प्रत्ययस्य च विषये | नाम मी, मि, दी इत्येषां यदा गुणो वा वृद्धिर्वा जायमानः यस्मात् एकारो वा ऐकारो वा जायमानः, ततः पूर्वमेव तत्स्थाने आकारादेशो भवति | अलोन्त्यस्य (१.१.५२) इत्यनेन अन्त्यस्य अलः स्थाने | केषाञ्चित् मतेन अशिति इति अनुवृत्तिः न भवेत् यतोहि कोऽपि शित् प्रत्ययः नास्ति यस्य द्वारा एतेषां धातूनाम् अन्तिम-अलः वर्णस्य स्थाने एच्-आदेशः स्यात् | केषाञ्चित् च मतेन 'उपदेशे' इत्यस्य अनुवृत्तिः न भवेत् | मीनातिश्च मिनोतिश्च दीङ् च तेषामितरेतरद्वन्द्वो मीनातिमिनोतिदीङः, तेषां मीनातिमिनोतिदीङाम् | मीनातिमिनोतिदीङां षष्ठ्यन्तं, ल्यपि सप्तम्यन्तं, चाव्ययपदं, त्रिपदमिदं सूत्रम् | आदेच उपदेशेऽशिति (६.१.४५) इत्यस्य सम्पूर्णतया अनुवृत्तिः | अनुवृत्ति-सहितसूर्त्रं— मीनातिमिनोतिदीङाम् आत् ल्यपि च एच (एज्निमित्ते प्रत्यये) उपदेशे अशिति |
ली धातुः —
विभाषा लीयतेः (६.१.५१)
विभाषा लीयतेः (६.१.५१) =लीङ् श्लेषणे (दिवादौ), ली श्लेषणे (क्र्यादौ) विकल्पेन आत्वादेशो भवति एचः विषये | नाम ली इत्यस्य यदा गुणो वा वृद्धिर्वा जायमानः यस्मात् एकारो वा ऐकारो वा जायमानः, ततः पूर्वमेव तत्स्थाने आकारादेशो भवति |
ली → ला → विलातव्यम्, विलातुम्, विलाता |
आत्वाभावे विलेतव्यम्, विलेतुम्, विलेता |
गुहू (संवरणे) धातुः —
ऊदुपधाया गोहः (६.४.८९)
ऊदुपधाया गोहः (६.४.८९) = गुहू (संवरणे) इति गुह्-धातोः उपधा-गुणादेशं प्रबाध्य ऊत्-आदेशो भवति अजादि-प्रत्यये परे | गुह उपधाया ऊत्स्यात् गुणहेतौ अजादौ प्रत्यये | ऊत् प्रथमान्तम्, उपधायाः षष्ठ्यन्तं, गोहः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यस्मात् अचि इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूर्त्रम्— गोहः अङ्गस्य उपधायाः ऊत् अचि |
धेयं यत् अत्र आर्धधातुकत्वस्य निमित्तिकत्वं नास्ति एव; केवलं गुणनिमित्तक-अजादि प्रत्यये परे |
अतः लटि अपि ऊत्-आदेशो भवति—
गुह् + शप् + ति → गुह् + अ + ति → उपधागुणस्य प्रसङ्गत्वात् ऊत्-आदेशः → गूह् + अ + ति → गूहति |
आर्धधातुकप्रसङ्गे गुहू-धातुः वेट्;
तव्यत्-तुमुन्- तृच्-प्रत्ययाः इडागमपक्षे अजादिप्रत्ययाः | अजादिप्रत्ययाभावे न ऊत्वम् |
अतः गुह् → गूहितव्यम्, गूहितुम्, गूहिता
अजादिप्रत्ययाभावे न ऊत्वम् → गोढव्यम्, गोढुम्, गोढा
चिकीर्ष सन्नन्तधातुः —
अतो लोपः (६.४.४८)
अतो लोपः (६.४.४८) | चिकीर्ष → चिकीर्षितव्यम्, चिकीर्षितुम्, चिकीर्षिता
अतो लोपः (६.४.४८) = अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन अतः अङ्गस्य नाम न केवलम् ह्रस्व-अकारः इत्यङ्गस्य, अपि तु ह्रस्व-अकारान्तस्य अङ्गस्य | अलोऽन्तस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव लोपः (न तु अङ्गस्य) | उपदेशे अनुवर्तते अतः प्रसक्तिः केवलम् उपदेशावस्थायाम्* | अतः षष्ठ्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम् | अनुदात्तोपदेश-वनति-तनोत्यादीना-मनुनासिकलोपो झलि क्ङिति (६.४.३७) इत्यस्मात् उपदेशे इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१), आर्धधातुके (६.४.४६) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूर्त्रम्— अतः अङ्गस्य लोपः आर्धधातुके उपदेशे |
*अतो लोपः (६.४.४८) इति सूत्रे प्रश्नः उदेति किमर्थम् उपदेशे इत्युक्तम् | उत्तरम् एवं यत् अनुवृत्तौ उपदेशे इति यदि नाभविष्यत्, तर्हि कासुचित् स्थितिषु (अनुपदेशावस्थायाम्) इष्टं रूपं न प्राप्स्यत् | यथा— भ्वादिगणे अय् गतौ इति धातुः; उदाहरणार्थं कश्चन आर्धधातुक-प्रत्ययः अस्ति क्विप् |
अय् + क्विप् → अनुबन्धलोपे → अय् + व् → लोपो व्योर्वलि (६.१.६५) इत्यनेन यकार-लोपः → अ + व् → अतो लोपः (६.४.४८) इत्यनेन अ-लोपः, वेरपृक्तस्य (६.१.६६) इत्यनेन व्-लोपः → शून्यम् अवशिष्यते |
अतः उपदेशे नास्ति चेत् इष्टं रूपं न प्राप्यते | उपदेशे अस्ति चेत् अ-लोपः न भवति यतोहि 'अ' इति उपदेश-अवस्थायां नास्ति |
अ + व् → ह्रस्वस्य पिति कृति तुक् (६.१.७०) इत्यनेन तुक्-आगमः → अत् + व् → वेरपृक्तस्य (६.१.६६) इत्यनेन व्-लोपः → अत् इति इष्टं रूपं प्राप्तम् |
बेभिद्य आतिदेशिकधातुः —
यस्य हलः (६.४.४९)
यस्य हलः (६.४.४९) = हलुत्तरयशब्दलोपो भवति आर्धधातुकप्रत्यये परे |
बेभिद्य + तव्यत्/ तुमुन्/ तृच् → बेभिदितव्यम्, बेभिदितुम्, बेभिदिता |
समिध्य आतिदेशिकधातुः —
क्यस्य विभाषा (६.४.५०)
क्यस्य विभाषा (६.४.५०) = हलः परयोः क्यच्-क्यङोः प्रत्यययोः लोपो वा स्यादार्धधातुके |
समिध्य → समिधितव्यम् / समिध्यितव्यम्, समिधितुम् / समिध्यितुम्, समिधिता / समिध्यिता |
कृप् धातुः —
कृपेश्च अवकल्कने (विचारं करोति, चिन्तनं करोति) | अयं धातुः वेट् अतः आर्धधातुकप्रक्रियायां यत्र प्रत्ययः इडनुकूलः, तत्र प्रायः सर्वत्र रूपद्वयं भवति—इडागमरहितम्, इडागमसहितञ्च |
कृप् → पुगन्तलघूपधस्य च (७.३.८६) → कर्प् → कृपो रो लः (८.२.१८) → कल्प् → कल्प्तव्यम् / कल्पितव्यम्, कल्प्तुम् / कल्पितुम्, कल्प्ता / कल्पिता
कृपो रो लः (८.२.१८)
कृपो रो लः (८.२.१८) = कृप्-धातोः रेफस्य लकारादेशो भवति | र इति श्रुतिसामान्यं बोध्यम् | तेन यः केवलो रेफः, यश्च ऋकारस्थः तयोः द्वयोः अपि ग्रहणम् | लः इत्यपि श्रुतिसामान्यमेव | अतः आहत्य कृप्-धातोः यदा (गुणादेशं कृत्वा) रेफो भवति, तस्य रेफस्य स्थाने लकारादेशः; पुनः कृप्-धातोः ऋकारस्य यः रेफ-सदृश-अंशः, तस्य स्थाने लसदृश-अंशादेशो भवति— नाम ऋ-स्थाने ऌ | सूत्रे कृपो → कृप + उः इति विच्छेदः | कृप लुप्तषष्ठीकं पदम्, उः षष्ठ्यन्तं, रः षष्ठ्यन्तं, लः प्रथमान्तम्, अनेकपदमिदं सूत्रम् | कृपः इत्यस्य द्विवारम् आवृत्तिः | सूत्रं स्वयं सम्पूर्णम्— कृपः उः कृपः रः लः |
कृपो रो लः (८.२.१८) इति सूत्रेण, आहत्य कृप्-धातोः रेफस्य लकारादेशः; कृप्-धातोः ऋकारस्य अंशः यः रेफसदृशः, तस्य स्थाने लकारसदृशादेशो भवति | यत्र कृप्-धातोः उपधायाः गुणः भवति कर्प्, तत्र रेफस्य स्थाने लकारादेशः अतः कल्प् इति फलं; यत्र उपधागुणो न भवति, तत्र कृप् इत्यस्य ऋकारस्य स्थाने ऌकारदेशः अतः कॢप् इति फलम् | दृष्टान्तत्वेन अपरेषु स्थलेषु कथं अनेन सूत्रेण रूपं सिध्यति इत्यत्र प्रदर्श्यते—
लटि कल्पयति/ते | कृप् + णिच् → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन उपधायां लघु-इकः गुणः → कर्प् + इ → कृपो रो लः (८.२.१८) इत्यनेन रेफस्य स्थाने लकारादेशः → कल्प् + इ → कल्पि इति धातुः → कल्पि + शप् → कल्पय इति अङ्गम् → कल्पय + ति → कल्पयति/ते
एतावत् पर्यन्तं पञ्चसु उपाङ्गकार्येषु धात्वादेशस्य प्रसङ्गे पठितम् |
२) इडागमः
इडागमपाठः पूर्वम् अधीतः | तत्र च सामान्यं ज्ञातम् | नाम, धातुः अपि सेट्, प्रत्ययः अपि इडानुकूलः इति चेत्, इडागमो भवति |
तत्र च प्रत्ययप्रसङ्गे प्रमुखसूत्रत्रयम्— आर्धधातुकस्येड्वलादेः (७.२.३५), नेड् वशि कृति (७.२.८), तितुत्रतथसिसुसरकसेषु च (७.२.९) | तिङन्तप्रसङ्गे अस्माभिः दृष्टं यत् एषु त्रिषु एकमेव प्रसक्तम्—आर्धधातुकस्येड्वलादेः (७.२.३५) | कृत्-प्रत्ययानां प्रसङ्गे सूत्रत्रयमपि परिशीलनीयम् | एषु तव्यत्/ तुमुन्/ तृच इत्येषां कृते प्रथमसूत्रद्वयं प्रसक्तम् | एते त्रयः प्रत्ययाः वलादयः किन्तु वशादयः न इति कृत्वा इडनुकूलाः अतः सेड्भ्यः धातुभ्यः इतव्यम्, इतुम्, इतृ, , इति इडागमसहिताः प्रत्ययाः योजनीयाः |
लिख् + तव्यत् → लिख् + तव्य → आर्धधातुकस्येड्वलादेः (७.२.३५), नेड् वशि कृति (७.२.८) इत्याभ्यम् इडागमः → लिख् + इतव्य → पुगन्तलघूपधस्य च (७.३.८६) → लेख् + इतव्य → लेखितव्य → लेखितव्यम्
लिख् + तुमुन् → लिख् + तुम् → आर्धधातुकस्येड्वलादेः (७.२.३५), नेड् वशि कृति (७.२.८) → लिख् + इतुम् → पुगन्तलघूपधस्य च (७.३.८६) → लेख् + इतुम् → इडागमः → लेखितुम्
लिख् + तृच् → लिख् + तृ → आर्धधातुकस्येड्वलादेः (७.२.३५), नेड् वशि कृति (७.२.८) → लिख् + इतृ → पुगन्तलघूपधस्य च (७.३.८६) → लेख् + इतृ → लेखितृ (लेखिता)
धातुः अनिट् चेत्,तव्यत्, तुमुन्, तृच् इति इडागमरहिताः प्रत्ययाः प्रयोक्तव्याः |
यथा अनिट् ,
नी + तव्यत् → नी + तव्य → ने + तव्य → नेतव्य
नी + तुमुन् → नी + तुम् → ने + तुम् → नेतुम्
नी + तृच् → नी + तृ → ने + तृ → नेतृ (नेता)
इडागमविशेषः—
तव्यत्-तुमुन्- तृच् इति एते सर्वे तकारादि-आर्धधातुकप्रत्ययाः इत्यतः एभ्यः पञ्चभ्यः धातुभ्यः तीषसहलुभरुषरिषः (७.२.४८) सूत्रेण वा इडागमो भवति —
धातुः | तव्यत् | तुमुन् | तृच् |
---|---|---|---|
इष् | एष्टव्यम् / एषितव्यम् | एष्टुम् / एषितुम् | एष्टा / एषिता |
सह् | सोढव्यम् / सहितव्यम् | सोढुम् / सहितुम् | सोढा / सहिता |
लुभ् | लोब्धव्यम् / लोभितव्यम् | लोब्धुम् / लोभितम् | लोब्धा / लोभिता |
रुष् | रोष्टव्यम् / रोषितव्यम् | रोष्टुम् / रोषितुम् | रोष्टा / रोषिता |
रिष् | रेष्टव्यम् / रेषितव्यम् | रेष्टुम् / रेषितुम् | रेष्टा / रेषिता |
तीषसहलुभरुषरिषः (७.२.४८)
तीषसहलुभरुषरिषः (७.२.४८) = दिवादिगणे इष्-धातुः, सह्, लुभ्, रुष्, रिष् इत्येभ्यः पञ्चभ्यः धातुभ्यः तकारादि-आर्धधातुकप्रत्ययाः विकल्पेन इडागमानुकूलाः | इषश्च सहश्च लुभश्च रुषश्च रिट् च तेषां समाहारद्वन्द्वः ईषसहलुभरुषरिट्, तस्मात् इषसहलुभरुषरिषः | ति सप्तम्यन्तम्, इषसहलुभरुषरिषः पञ्चम्यन्तं, द्विपदमिदं सूत्रम् | आर्धधातुकस्येड्वलादेः (७.२.३५) इत्यस्मात् आर्धधातुकस्य, इट् इत्यनयोः अनुवृत्तिः | स्वरतिसूतिसूयतिधूञूदितो वा (७.२.४४) इत्यस्मात् वा इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूर्त्रम्— ईषसहलुभरुषरिषः अङ्गात् इट् वा ति आर्धधातुके |
३) अतिदेशः —
अतिदेशसूत्रद्वारा प्रत्ययस्य स्वभावः यथा, तस्मात् भिन्नो भवति | अनेन नूतनलक्षणम् अध्यारोप्यते | अष्टाध्याय्यां प्रथमाध्यायस्य द्वितीयपादस्य आरम्भे प्रायः सर्वाणि अतिदेशसूत्राणि स्थितानि (विरलतया अन्यत्रापि प्राप्यते) | एभिः सूत्रैः त्रयाणां गुणानाम् अध्याहारः— ङित्त्वं, कित्त्वम्, अकित्त्वञ्च | १.२.१ इत्यस्मात् आरभ्य १.२.२६ इति यावत् अतिदेशप्रकरणम् | तस्मिञ्च प्रथमचत्वारि सूत्राणि सामान्यानि; १.२.५ इत्यस्मात् आरभ्य विशिष्टसूत्राणि; इमानि च सर्वाणि आर्धधातुकप्रक्रियायामेव |
सार्वधातुकप्रक्रियायाम् एकमेव अतिदेशसूत्रम्—सार्वधातुकमपित् (१.२.४) | इदञ्च सामान्यम् अतिदेशसूत्रम् | अवशिष्टत्रीणि सामान्यानि अतिदेशसूत्रणि आर्धधातुकप्रक्रियायां भवन्ति | एतावता अतिदेशसूत्रचिन्तनम् अधिकं नापेक्षितम् आसीत् यतोहि सार्वधातुकप्रक्रियायां केवलं सार्वधातुकमपित् (१.२.४) | तदा आर्धधातुकप्रक्रियायां यत्र इडागमो न भवति—प्रेरणार्थे णिच्, कर्मणि भावे यक्, परस्मैपदे आशीर्लिङ्, यङन्ताः, यङ्लुगन्ताः च इत्येते सर्वे अनिडादयः—एषु स्थलेषु अतिदेशसूत्रणि न प्रसक्तानि | गतपाठात् लुट्-लकारात् आरभ्यः अतिदेशचिन्तनम् अपेक्षितम् |
यथोक्तम् आर्धधातुकप्रक्रियायां त्रीणि सामान्यानि अतिदेशसूत्राणि | तानि च—
गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१)
विज इट् (१.२.२)
विभाषोर्णोः (१.२.३)
इतः अग्रे सर्वत्र एतेषां प्रसङ्गे चिन्तनीयं भवति | एषां त्रयाणामपि कार्यं भवति तव्यत्, तुमुन्, तृच् इति प्रत्ययेषु परेषु | ततः अग्रे अन्यानि विशिष्टातिदेशसूत्रणि नापेक्षितानि | (अत्र सामान्यसूत्राणि इत्युक्तं प्रत्ययम् अवलम्ब्य | यत्र यत्र आर्धधातुकप्रक्रिया प्रवर्तते, तत्र सर्वत्र एषां त्रयाणां प्रसक्तिर्भवति | अतः अत्र 'सामान्यसूत्रम्’ इत्युक्तौ प्रत्ययम् अवलम्ब्य न तु धातुमवलम्ब्य |)
गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१)
गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) = इङ्-धातोः स्थाने यः गाङ्-धातुः तस्मात् च कुटादिगणीयेभ्यः धातुभ्यः ञित्-णित्-भिन्न-प्रत्ययः ङिद्वत् भवति | कुटादिगणे ३५ धातवः सन्ति; सर्वे धातवः तुदादिगणे सन्ति | कुट आदिर्येषां ते कुटादयः, बहुव्रीहिः | गाङ् च कुटादयश्च ते गाङ्कुटादयः, तेभ्यः कुटादिभ्यः | ञ् च ण् च तयोरितरेतरद्वन्द्वः ञ्णौ, ञ्णौ इतौ यस्य स ञ्णित् बहुव्रीहिः, न ञ्णित् अञ्णित्, द्वन्द्वगर्भबहुव्रीहिः | सूत्रं स्वयं सम्पूर्णम्— गाङ्कुटादिभ्यः अञ्णित् ङित् |
प्रश्नः उत्थापितः यत् जालस्थानेषु कुत्रचित् दत्तं यत् कुटादिगणे ४० धातवः सन्ति, कुत्रचिच्च ४६ धातवः | तर्हि कति धातवः अस्मिन् अन्तर्गणे सन्ति ? वस्तुभावे पाणिनेः धातुपाठे च सिद्धान्तकौमुद्यां च ३६ धातवः सन्ति कुटादिगणे | मातृभिः परिशीलितं च दृष्टं यत् एषु षत्त्रिंशत्सु धातुषु एकः अस्ति कड्-धातुः, यः अदुपधधातुः | अदुपधः अस्ति चेत् कुटादिगणे स्थापनेन को लाभः | एक एव प्रयोजनं वर्तते, गुणनिषेधः | किन्तु अदुपधधातुः अस्ति चेत् गुणस्य सम्भावना एव नास्ति | गुणस्य असम्भवात् गुणनिषेधस्य अनावश्यकत्वाच्च माता इमं धातुं कुटादिगणात् निष्कासितवती | अनेन मातुः धातुपाठे, कुटादिगणे ३५ धातवः सन्ति |
तव्यत्, तुमुन्, तृच् इत्येते त्रयः अपि प्रत्ययाः ञित्-णित्-भिन्नाः इत्यतः गाङ्कुटादिभ्यः धातुभ्यः एते सर्वे ङिद्वत् भवन्ति | ततः सर्वत्र क्क्ङिति च (१.१.५) इति सूत्रेण गुणनिषेधः भवति | एतदेव च गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इत्यस्य प्रयोजनं— गुणनिषेधः | अत्र प्रश्नः उदेति किमर्थम् उच्यते यत् गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) केवलम् आर्धधातुकप्रक्रियायाम् ? किमर्थं न सार्वधातुकप्रक्रियायाम् अस्य कार्यं स्यात् ? अस्य उत्तरमिदं यत् कुटादिगणः तुदादिगणे कश्चन अन्तर्गणः एव | नाम, सर्वे कुटदिगणीयाः धातवः तुदादिगणे एव | तुदादिगणे विकरणप्रत्ययः श; तस्य च 'श'-प्रत्ययस्य अपित्त्वात् सर्वत्र तुदादिगणे धातौ गुणनिषेधः | गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इति सूत्रस्य कार्यं तु गुणनिषेधः एव—यः सार्वधातुकप्रक्रियायां तुदादिगणे सार्वधातुकमपित् (१.२.४) इत्यनेन साधितः—अतः सार्वधातुकप्रक्रियायां तुदादिगणे गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इति सूत्रं निष्प्रयोजनम् | अपि च यथा अग्रे उच्यते, गाङ्-धातुः सार्वधातुकप्रक्रियायां न भवति यतोहि अयं गाङ् इङ्-धातोः स्थाने एव भवति | स च धात्वादेशः लिटि, लुङि, लृङि हि | नाम, केवलम् आर्धधातुकप्रक्रियायाम् |
क्क्ङिति च (१.१.५)
क्क्ङिति च (१.१.५) = यः प्रत्ययः गित्, कित् अथवा ङित् अस्ति, अपि च तस्मात् प्रत्ययात् पूर्वं तस्य एव प्रत्ययस्य कारणतः इकः स्थाने गुणः वा वृद्धिः वा भवति स्म, सः (गुणः वृद्धिः) न भवति | ग् च क् च ङ् च तेषाम् इतरेतरद्वन्द्वः क्क्ङः; क्क्ङः इतः यस्य सः क्क्ङित्, तस्मिन् परे क्क्ङिति | द्वन्द्वगर्भबहुव्रीहिसमासः | अत्र ग्-स्थाने ककारः खरि च इत्यनेन चर्त्वसन्धिः | क्क्ङिति सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | इको गुणवृद्धी (१.१.३) इत्यस्य पूर्णतया अनुवृत्तिः; न धातुलोप आर्धधातुके (१.१.४) इत्यस्मात् न इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्— क्क्ङिति च इकः गुणवृद्धी न |
व्यचेः कुटादित्वमनसीति वक्तव्यम्
व्यचेः कुटादित्वमनसीति वक्तव्यम् इति वार्तिकेन व्यच्-धातोः कुटादित्वं कृत्-प्रत्ययेषु परेषु एव अतः लुट्-लकारे तस्य प्रसक्तिर्नासीत्, किन्तु तव्यत्, तुमुन्, तृच् इति त्रिषु कृत्सु प्रत्ययेषु इदं कार्यं भवति | प्रत्ययः ङिद्वत् अस्ति चेत् व्यच् इति प्रकृतौ सम्प्रसारणं भवति |
व्यच् + तव्यत् → विचितव्यम्, व्यच् + तुमुन् → विचितुम्, व्यच् + तृच् → विचिता |
अस्माभिः दृष्टं लुट्-लकारे यत् लकारप्रसङ्गे यतोहि तिङ्-प्रत्ययाः भवन्ति न तु कृत्-प्रत्ययः अतः वार्तिकस्य अन्तर्गते न सन्ति, तदर्थं ङिद्वत्त्वं न भवति | फलतः सम्प्रसारणं न भवति | व्यच् + इतव्य → व्यचितव्यम् |
प्रेरणार्थे णिच्, कर्मणि भावे यक्, परस्मैपदे आशीर्लिङ्, यङन्ताः, यङ्लुगन्ताः च इत्येतेषु अनिडादिषु गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इत्यस्य कार्यं किमर्थं न जातम् ? णिच् णित् इत्यतः सूत्रस्य प्रसक्तिर्नास्ति; अपरेषु स्थलेषु कित्त्वात् ङित्त्वात् च गुणनिषेधत्वात् गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इत्यस्य किमपि फलं नास्ति— यक् कित्, परस्मैपदे आशीर्लिङि किदाशिषि (३.४.१०४) इत्यनेन आशिषि लिङ: यासुट् कित्, यङ् च ङित् |
कुटादयः धातवः
कुटादयः धातवः तेषां च तव्यत्, तुमुन्, तृच् रूपाणि अत्र प्रदर्श्यन्ते—
कुटादिगणे पञ्च अजन्तधातवः
धातुः | तव्यत् | तुमुन् | तृच् |
---|---|---|---|
गु पुरीषोत्सर्गे | गुतव्यम् | गुतुम् | गुता |
कुङ् शब्दे | कुतव्यम् | कुतुम् | कुता |
ध्रु गतिस्थैर्ययोः | ध्रुतव्यम् | ध्रुतुम् | ध्रुता |
णू स्तवने | नुवितव्यम् | नुवितुम् | नुविता |
धू विधूनने | धुवितव्यम् | धुवितुम् | धुविता |
सर्वत्र क्क्ङिति च (१.१.५) इति सूत्रेण गुणनिषेधः; णू, धू, च सेटौ इत्यतः अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यनेन अजादि प्रत्यये परे उवङ्-आदेशः |
अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७)
अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) = श्नुप्रत्ययान्ताङ्गस्य (स्वादिगणस्य अङ्गस्य यथा शक्नु इत्यस्य), इकारान्त-उकारान्तधातुरूपि-अङ्गस्य, भ्रू-प्रातिपदिकस्य च— एषाम् इकारस्य उकारस्य स्थाने क्रमेण इयङ् उवङ् च आदेशो भवति अजादि-प्रत्यये परे | श्नु-प्रसङ्गे प्रत्ययग्रहणे तदन्ता ग्राह्याः (परिभाषा #२३) इति परिभाषया तदन्तविधिः; अनेन यस्य अङ्गस्य अन्ते श्नु-प्रत्ययः स्यात्, तस्मात् इत्यर्थः | य्वोः इति विशेषणं 'धातु' शब्दस्य एव यतोहि श्नुप्रत्ययान्ताङ्गं, भ्रू-प्रातिपदिकं च उकारान्तः एव अतः तत्र इयङ् इत्यस्य प्रसक्तिः नास्ति | तर्हि 'धातु' इत्येव अवशिष्यते यस्य कृते य्वोः इति विशेषणं योग्यम् | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन यस्य धातोः अन्ते इकार-उकारः स्यात् इति अर्थः | श्नुश्च धातुश्च भ्रुश्च तेषाम् इतरेतरद्वन्द्वः श्नुधातुभ्रुवः, तेषां श्नुधातुभ्रुवाम् | इश्च उश्च तयोः इतरेतरद्वन्द्वः यू, तयोः य्वोः | इयङ् च उवङ् च तयोः इतरेतरद्वन्द्वः, इयङुवङौ | अचि सप्तम्यन्तं, श्नुधातुभ्रुवां षष्ठ्यन्तं, य्वोः षष्ठ्यन्तम्, इयङुवङौ प्रथमान्तम्, अनेकपदमिदं सूत्रम् | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— य्वोः श्नुधातुभ्रुवाम् अङ्गानाम् इयङुवङौ अचि |
कुटादिगणे हलन्तधातवः
धातुः | तव्यत् | तुमुन् | तृच् |
---|---|---|---|
डिप क्षेपे | डिपितव्यम् | डिपितुम् | डिपिता |
कुच सङ्कोचने | कुचितव्यम् | कुचितुम् | कुचिता |
गुज शब्दे | गुजितव्यम् | गुजितुम् | गुजिता |
कुटा कौटिल्ये | कुटितव्यम् | कुटितुम् | कुटिता |
पुट संश्लेषणे | पुटितव्यम् | पुटितुम् | पुटिता |
स्फुट विकसने | स्फुटितव्यम् | स्फुटितुम् | स्फुटिता |
मुट आक्षेपमर्दनयोः | मुटितव्यम् | मुटितुम् | मुटिता |
त्रुट छेदने | त्रुटितव्यम् | त्रुटितुम् | त्रुटिता |
तुट कलहकर्मणि | तुटितव्यम् | तुटितुम् | तुटिता |
चुट छेदने | चुटितव्यम् | चुटितुम् | चुटिता |
छुट छेदने | छुटितव्यम् | छुटितुम् | छुटिता |
जुट बन्धने | जुटितव्यम् | जुटितुम् | जुटिता |
लुट संश्लेषणे | लुटितव्यम् | लुटितुम् | लुटिता |
घुट प्रतिघाते | घुटितव्यम् | घुटितुम् | घुटिता |
गुड रक्षायाम् | गुडितव्यम् | गुडितुम् | गुडिता |
कुड बाल्ये | कुडितव्यम् | कुडितुम् | कुडिता |
पुड उत्सर्गे | पुडितव्यम् | पुडितुम् | पुडिता |
तुड तोडने | तुडितव्यम् | तुडितुम् | तुडिता |
थुड संवरणे | थुडितव्यम् | थुडितुम् | थुडिता |
स्थुड संवरणे | स्थुडितव्यम् | स्थुडितुम् | स्थुडिता |
स्फुड संवरणे | स्फुडितव्यम् | स्फुडितुम् | स्फुडिता |
चुड संवरणे | चुडितव्यम् | चुडितुम् | चुडिता |
व्रुड संवरणे | व्रुडितव्यम् | व्रुडितुम् | व्रुडिता |
क्रुड निमज्जने | क्रुडितव्यम् | क्रुडितुम् | क्रुडिता |
छुर छेदने | छुरितव्यम् | छुरितुम् | छुरिता |
गुरी उद्यमाने | गुरितव्यम् | गुरितुम् | गुरिता |
स्फुर सञ्चलने | स्फुरितव्यम् | स्फुरितुम् | स्फुरिता |
स्फुल सञ्चलने | स्फुलितव्यम् | स्फुलितुम् | स्फुलिता |
भृड निमज्जने | भृडितव्यम् | भृडितुम् | भृडिता |
कृड घनत्वे | कृडितव्यम् | कृडितुम् | कृडिता |
एतेषु धातुषु गुणनिषेधः भवति क्क्ङिति च (१.१.५) इति सूत्रेण |
तव्यत्, तुमुन्, तृच् इत्येषु त्रिषु प्रत्ययेषु गाङ् इतस्य प्रसङ्गो नास्ति यतोहि इङ्-धातोः स्थाने गाङ्-आदेशो न भवति एषु परेषु |
गाङ् लिटि (२.४.४९)
गाङ् लिटि (२.४.४९) इत्यनेन लिटि, लुङि, लृङि च अयम् आदेशो भवति; लिटि नित्यं, लुङि, लृङि च विकल्पेन |
ओविजी भयचलनयोः विज् धातुः
विज इट् (१.२.२)
विज इट् (१.२.२) = तुदादिगणीय-विज्-धातुतः ('ओविजी भयचलनयोः' इत्यस्मात्) सर्वे विधीयमानाः इडादि-प्रत्ययाः ङिद्वत् भवन्ति | उद्विजितव्यम्, उद्विजितुम्, उद्विजिता | इटिति किम्? उद्वेजनम्, उद्वेजनीयम् | विजः पञ्चम्यन्तम्, इट्-प्रथमान्तं, द्विपदमिदं सूत्रम् | गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इत्यस्मात् ङित् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्— विजः इट् ङित् |
यथा—
उद् + विज् + इतव्य → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणादेशः प्रसक्तः → प्रत्ययः सेट् अतः ङिद्वत्; तस्मात् क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधः → उद्विजितव्यम्
एवमेव—
उद् + विज् + इतुम् → उद्विजितुम्
उद् + विज् + इता → उद्विजिता
ऊर्णु धातुः
विभाषोर्णोः (१.२.३)
विभाषोर्णोः (१.२.३) = ऊर्णु-धातुतः विधीयमानाः इडादि-प्रत्ययाः विकल्पेन ङिद्वत् भवन्ति | विभाषा प्रथमान्तम्, ऊर्णोः पञ्चम्यन्तं, द्विपदमिदं सूत्रम् | विज इट् (१.२.२) इत्यस्मात् इट् इत्यस्य अनुवृत्तिः | गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इत्यस्मात् ङित् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्— ऊर्णोः इट् ङित् विभाषा |
यथा—
ऊर्णु + इतव्य → इतव्य विकल्पेन ङिद्वत् अतः क्क्ङिति च (१.१.५) इत्यनेन एकस्मिन् पक्षे गुणनिषेधः → ऊर्णु + इतव्य → अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यनेन उकारान्तधातुरूपि-अङ्गस्य उकारस्य स्थाने उवङ् आदेशो भवति अजादि-प्रत्यये परे → ऊर्णुवितव्य → ऊर्णुवितव्यम्
अपक्षे ङिद्वत्त्वं न भवति अतः गुणप्रसङ्गः—
ऊर्णु + इतव्य → सार्वधातुकार्धधातुकयोः (७.३.८४) → ऊर्णो + इतव्य → एचोऽयवायावः (६.१.७७) → ऊर्णवितव्यम्
एवमेव तुमुन्, तृच् अनयोः प्रसङ्गे अपि अस्य धातोः रूपाणि साधनीयानि |
विज इट् (१.२.२), विभाषोर्णोः (१.२.३) इति द्वे सूत्रे सार्वधातुकप्रक्रियायं किमर्थं न भवतः ? द्वेऽपि सूत्रे इडागमम् अवलम्ब्य कार्यं कुरुतः |
स च इडागमः सार्वधातुकप्रक्रियायां न भवति एव |
इति तव्यत्, तुमुन्, तृच् इत्येतेषां त्रयाणां प्रत्ययानां प्रसङ्गे अतिदेशकार्याणि समाप्तानि | ज्ञातं यत् इमानि त्रीणि कार्याणि सामान्यानि; अग्रे गत्वाऽपि आर्धधातुकप्रक्रियायां सर्वत्र परिशीलनीयानि |
तर्हि एतावता अस्माभिः दृष्टं यत् तव्यत्, तुमुन्, तृच् इत्येतेषां प्रसङ्गे धातु-प्रत्यययोः मध्ये सामान्य-अङ्गकार्यस्य साधनात् पूर्वं त्रीणि कार्याणि द्रष्टव्यानि—
सामान्य-अङ्गकार्यस्य साधनात् पूर्वं त्रीणि कार्याणि
१) धात्वादेशः— प्रसङ्गवशात् धातोः आकृतिः तु न परिवर्तनीया ?
२) इडागमः— धातोः इडागमदृष्ट्या मूलस्वभावः कः ? अपि च विद्यमान-प्रत्ययस्य प्रभावेन अनिट्-धातुः सेट् तु न जायमानः? अथवा प्रत्ययस्य प्रभावेन सेट्-धातुः तु वेट् न जायमानः ?
३) अतिदेशः— केनचित् अतिदेशसूत्रेण प्रत्ययः ङिद्वत् अथवा किद्वत् इति भवति वा ?
अस्य सर्वस्य परिशीलनानन्तरमेव सामान्यम् अङ्गकार्यं साधनीयम् |
सामान्यम् अङ्गकार्यम्
केनचित् अतिदेशसूत्रेण तव्यत्, तुमुन्, तृच् प्रत्ययाः ङिद्वत् न भवन्ति चेत्, इगन्तधातूनां च लघूपधधातूनां च इकः गुणादेशो भवति एव |
इगन्तधातवः
नी + तव्यत् → नी + तव्य → सार्वधातुकार्धधातुकयोः (७.३.८४) → नेतव्य → नेतव्यः, नेतव्या, नेतव्यम्
नी + तुमुन् → नी + तुम् → सार्वधातुकार्धधातुकयोः (७.३.८४) → नेतुम्
नी + तृच् → नी + तृ → सार्वधातुकार्धधातुकयोः (७.३.८४) → नेतृ → नेता , नेत्री , नेतृ
हु + तव्यत् → सार्वधातुकार्धधातुकयोः (७.३.८४) → होतव्यम्
हु + तुमुन् → सार्वधातुकार्धधातुकयोः (७.३.८४) → होतुम्
हु + तृच् → सार्वधातुकार्धधातुकयोः (७.३.८४) → होतृ (होता पुंसि, होतृ नपुंसि, होत्री स्त्रियाम्)
कृ + तव्यत् → सार्वधातुकार्धधातुकयोः (७.३.८४) → कर्तव्यम्
कृ + तुमुन् → सार्वधातुकार्धधातुकयोः (७.३.८४) → कर्तुम्
कृ +तृच् → सार्वधातुकार्धधातुकयोः (७.३.८४) → कर्तृ (कर्ता)
इगन्तधातुः सेट् अस्ति चेत्, यान्तवान्तसन्धिरपि भवति |
शी + इतव्य → सार्वधातुकार्धधातुकयोः (७.३.८४) → शे + इतव्य → एचोऽयवायावः (६.१.७७) → शय् + इतव्य → शयितव्यम्
शी + इतुम् → सार्वधातुकार्धधातुकयोः (७.३.८४) → शे + इतुम् → एचोऽयवायावः (६.१.७७) → शय् + इतुम् → शयितुम्
शी + इतृ → सार्वधातुकार्धधातुकयोः (७.३.८४) → शे + इतृ → एचोऽयवायावः (६.१.७७) → शय् + इतृ → शयितृ (शयिता )
यु + इतव्य → सार्वधातुकार्धधातुकयोः (७.३.८४) → यो + इतव्य → एचोऽयवायावः (६.१.७७) → यव् + इतव्य → यवितव्यम्
यु + इतुम् → सार्वधातुकार्धधातुकयोः (७.३.८४) → यो + इतुम् → एचोऽयवायावः (६.१.७७) → यव् + इतुम् → यवितुम् (अव्ययम्)
यु + इतृ→ सार्वधातुकार्धधातुकयोः (७.३.८४)→ यो + इतृ → एचोऽयवायावः (६.१.७७)→ यव् + इतृ → यवितृ (यविता, यवित्री,यवितृ )
सार्वधातुकार्धधातुकयोः (७.३.८४)
सार्वधातुकार्धधातुकयोः (७.३.८४) = इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | सार्वधातुकञ्च आर्धधातुकञ्च तयोरितरेतरद्वन्द्वः सार्वधातुकार्धधातुके, तयोः सार्वधातुकार्धधातुकयोः | सार्वधातुकार्धधातुकयोः सप्तम्यन्तम्, एकपदमिदं सूत्रम् | मिदेर्गुणः (७.३.८२) इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | इको गुणवृद्धी (१.१.३) इत्यनेन परिभाषा-सूत्रेण, इकः स्थानी भवति यत्र स्थानी नोक्तम् | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन 'इकः अङ्गस्य' इत्युक्ते न केवलम् इक् इति अङ्गं, किन्तु तादृशम् अङ्गं यस्य अन्ते इक्; अलोऽन्त्यस्य (१.१.५२) इत्यनेन अङ्गस्य स्थाने गुणादेशः इति न, अपि तु अङ्गस्य अन्तिमवर्णस्य स्थाने गुणादेशः | अनुवृत्ति-सहितसूत्रम्— इकः अङ्गस्य गुणः सार्वधातुकार्धधातुकयोः |
एचोऽयवायावः (६.१.७७)
एचोऽयवायावः (६.१.७७) = एचः (ए, ओ, ऐ, औ इत्येषां) स्थाने क्रमेण अय्, अव्, आय्, आव् इत्यादेशाः भवन्ति अचि परे | क्रमेण इत्युक्तं यथासंख्यमनुदेशः समानाम् (१.३.१०) इति परिभाषा सूत्रस्य साहाय्येन | अय् च, अव् च, आय् च, आव् च, तेषाम् इतरेतरद्वन्द्वः, अयवायावः | एचः षष्ठ्यन्तम्, अयवायावः प्रथमान्तं, द्विपदमिदं सूत्रम् | इको यणचि (६.१.७६) इत्यस्मात् अचि इत्यस्य अनुवृत्तिः; संहितायाम् (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— एचः अयवायावः अचि संहितायाम् |
लघूपधधातवः (सेट् धातुः )
लिख् → लिख् + इतव्य → पुगन्तलघूपधस्य च (७.३.८६) → लेख् + इतव्य → लेखितव्यः, लेखितव्या, लेखितव्यम्
लिख् → लिख् + इतुम् → पुगन्तलघूपधस्य च (७.३.८६) → लेख् + इतुम् → लेखितुम्
लिख् → लिख् + इतृ → पुगन्तलघूपधस्य च (७.३.८६) → लेख् + इतृ → लेखितृ, लेखिता, लेखित्री
एवमेव,
मिद् → मिद् + इतव्य → पुगन्तलघूपधस्य च (७.३.८६) → मेद् + इतव्य → मेदितव्यम्
मिद् → मिद् + इतुम् → पुगन्तलघूपधस्य च (७.३.८६) → मेद् + इतुम् → मेदितुम्
मिद् → मिद् + इतृ → पुगन्तलघूपधस्य च (७.३.८६) → मेद् + इतृ → मेदितृ, मेदिता, मेदित्री
वृष् → वृष् + इतव्य → पुगन्तलघूपधस्य च (७.३.८६) → वर्ष् + इतव्य → वर्षितव्यम्
वृष् → वृष् + इतुम् → पुगन्तलघूपधस्य च (७.३.८६) → वर्ष् + इतुम् → वर्षितुम्
वृष् → वृष् + इतृ → पुगन्तलघूपधस्य च (७.३.८६) → वर्ष् + इतृ → वर्षितृ, वर्षिता, वर्षित्री
पुगन्तलघूपधस्य च (७.३.८६)
पुगन्तलघूपधस्य च (७.३.८६) = पुगन्तस्य अङ्गस्य लघूपधस्य च इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | पुक् अन्ते यस्य तत् पुगन्तम्, लघ्वी उपधा यस्य तत् लघूपधम् | पुगन्तञ्च लघूपधञ्च तयोः पुगन्तलघूपधं समाहारद्वन्द्वः, तस्य पुगन्तलघूपधस्य | पुगन्तलघूपधस्य षष्ठ्यन्तं पदम्, च अव्ययपदं, द्विपदमिदं सूत्रम् | मिदेर्गुणः (७.३.८२) इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः; सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यस्य पूर्णानुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | इको गुणवृद्धी (१.१.३) इत्यनेन परिभाषा-सूत्रेण, इकः स्थानी भवति यत्र स्थानी नोक्तम् | अनुवृत्ति-सहितसूत्रम्— पुगन्तलघूपधस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः |
विशेषलघूपधधातवः
कृप् धातुः
कृपेश्च अवकल्कने (विचारं करोति, चिन्तनं करोति) |
कृप् + तव्यत्/ तुमुन् /तृच् →पुगन्तलघूपधस्य च (७.३.८६) → कर्प् + तव्यत्/ तुमुन् /तृच्→ कृपो रो लः (८.२.१८)→ कल्प् + तव्यत्/ तुमुन् /तृच् → कल्प्तव्यम्, कल्प्तुम् , कल्प्ता,
कृपो रो लः (८.२.१८) = कृप्-धातोः रेफस्य लकारादेशो भवति | र इति श्रुतिसामान्यं बोध्यम् | तेन यः केवलो रेफः, यश्च ऋकारस्थः तयोः द्वयोः अपि ग्रहणम् | लः इत्यपि श्रुतिसामान्यमेव | अतः आहत्य कृप्-धातोः यदा (गुणादेशं कृत्वा) रेफो भवति, तस्य रेफस्य स्थाने लकारादेशः; पुनः कृप्-धातोः ऋकारस्य यः रेफ-सदृश-अंशः, तस्य स्थाने लसदृश-अंशादेशो भवति— नाम ऋ-स्थाने ऌ | सूत्रे कृपो → कृप + उः इति विच्छेदः | कृप लुप्तषष्ठीकं पदम्, उः षष्ठ्यन्तं, रः षष्ठ्यन्तं, लः प्रथमान्तम्, अनेकपदमिदं सूत्रम् | कृपः इत्यस्य द्विवारम् आवृत्तिः | सूत्रं स्वयं सम्पूर्णम्— कृपः उः कृपः रः लः |
कृप्-धातुः वेट्
अतः 'कृप् + इतव्य' इति रूपमपि कल्पितव्यम् |
अत्र प्रत्ययः अजादिः ( इतव्य) अतः हल्सन्ध्यवसरो नास्ति |
तेन अस्य धातोः इड् सहितानि रूपाणि कल्पितव्यम्, कल्पितुम्, कल्पिता |
मृज्-धातोः वृद्धिः
मृज् + तव्यत् → मृजेर्वृद्धिः (७.२.११४) → मार्ज् + तव्य → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) → मार्ष्टव्यम्
मृज् + तुमुन् → मृजेर्वृद्धिः (७.२.११४) → मार्ज् + तुम् → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) → मार्ष्टुम्
मृज् + तृच् → मृजेर्वृद्धिः (७.२.११४) → मार्ज् + तृच् → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) → मार्ष्टा
अत्र ष्टुना ष्टुः सूत्रेण ष्टुत्वसन्धिकार्यम् अपि भवति |
मृजेर्वृद्धिः (७.२.११४)
मृजेर्वृद्धिः (७.२.११४) = मृज्-धातोः इकः वृद्धिः भवति सार्वधातुके च आर्धधातुके च प्रत्यये परे | अङ्गकार्यत्वात् प्रत्ययः परे अस्त्येव; स च प्रत्ययः धातोः भवति इति कृत्वा सार्वधातुकम् अथवा आर्धधातुकं भवेदेव | मृजेः षष्ठ्यन्तं, वृद्धिः प्रथमान्तं, द्विपदमिदं सूत्रम् | इकोगुण्वृद्धी (१.१.३) इत्यस्मात् परिभाषासूत्रात् इकः इत्यस्य षष्ठ्यन्ता अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— मृजेः अङ्गस्य इकः वृद्धिः |
व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६)
व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) = व्रश्च्, भ्रस्ज्, सृज्, मृज्, यज्, राज्, भ्राज्, तुक्-सहित-छकारान्ताः शकारान्ताः चैषां धातूनाम् अन्तिमवर्णस्य स्थाने षकारादेशो भवति झलि पदान्ते च | अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव स्थाने षकारादेशः, न तु पूर्णपदस्य | व्रश्चश्च भ्रस्जश्च सृजश्च मृजश्च यजश्च राजश्च भ्राजश्च छश्च श् च तेषामितरेतरद्वन्दः व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशः, तेषां व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशाम् | व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षष्ठ्यन्तं, षः प्रथमान्तं, द्विपदमिदं सूत्रम् | अत्र 'जच्छशां' इति भागे छे च (६.१.७३) इत्यनेन तुक्-आगमे सति जत्छशां, तदा श्चुत्वसन्धौ जच्छशां | झलो झलि (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात् अन्ते, च इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः झलि पदस्य अन्ते च |
मृज्-धातुः वेट्
अतः 'मृज् + इतव्य ' इति रूपमपि मार्जितव्यम् |
अत्रापि वृद्धिकार्यं, किन्तु प्रत्ययः अजादिः ( इतव्य ) अतः हल्सन्ध्यवसरो नास्ति |
तेन अस्य धातोः इड् सहितानि रूपाणि मार्जितव्यम्, मार्जितुम्, मार्जिता |
कुटादिगणीयधातवः - अतिदेशः
केनचित् अतिदेशसूत्रेण एते त्रयः प्रत्ययाः ङिद्वत् भवन्ति चेत्, गुणकार्यं निषिध्यते |
एते त्रयः प्रत्ययाः ङिद्वत् चेत् क्क्ङिति च (१.१.५) सूत्रेण गुणनिषेधः प्राप्यते |
क्क्ङिति च (१.१.५) = यः प्रत्ययः गित्, कित् अथवा ङित् अस्ति, अपि च तस्मात् प्रत्ययात् पूर्वं तस्य एव प्रत्ययस्य कारणतः इकः स्थाने गुणः वा वृद्धिः वा भवति स्म, सः (गुणः वृद्धिः) न भवति | अनुवृत्ति-सहितं सूत्रम्— क्क्ङिति च इकः गुणवृद्धी न |
३५ कुटादयः धातवः अपि च विज्-धातुः, आहत्य ३६ धातुभ्यः एते त्रयः प्रत्ययाः ( तव्यत्, तुमुन्, तृच् ) विहिताः चेत् ङिद्वत् भवन्ति इति कारणतः क्क्ङिति च (१.१.५) इत्यनेन गुणः निषिध्यते |
कुटादिगणसदस्यः नू धातुः
यथा इगन्तधातुषु—
नू + इतव्य → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन गुणप्रसक्तिः → गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इत्यनेन कुटादिगणीयेभ्यः धातुभ्यः ञित्-णित्-भिन्न-प्रत्ययः ङिद्वत् भूत्वा → तव्यत् -प्रत्ययः ञित्-णित्-भिन्न अतः ङिद्वत् → क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधः → नू +इतव्य → अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यनेन इकारान्त-उकारान्तधातुरूपि-अङ्गस्य इकारस्य उकारस्य च स्थाने क्रमेण इयङ् उवङ् आदेशो भवति अजादि-प्रत्यये परे → नुव् + इतव्य → नुवितव्यम्
एवमेव चिन्तनम् अपेक्षितं तुमुन्, तृच् योजनसमये अपि |
कुटादिगणस्य अन्यसदस्याः अत्र दीयन्ते |
उपरितनम् उदाहरणं दृष्ट्वा इमानि रूपाणि साधयन्तु |
धू + इतव्य →
धू + इतुम् →
धू + इतृच् →
गु + तव्य →
गु + तुम् →
गु + तृ →
कु + तव्य →
कु + तुम् →
कु + तृ →
ऊर्णु धातुः
एकस्मिन् पक्षे ङिद्वत्त्वं भवति, अतः गुणनिषेधः |
ऊर्णु + इ + तव्य → इतव्य विकल्पेन ङिद्वत् | अतः क्क्ङिति च (१.१.५) इत्यनेन एकस्मिन् पक्षे गुणनिषेधः → ऊर्णु + इतव्य → अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यनेन उकारान्तधातुरूपि-अङ्गस्य उकारस्य स्थाने उवङ् आदेशो भवति अजादि-प्रत्यये परे → ऊर्णुवितव्यम्
अपक्षे ङिद्वत्त्वं न भवति अतः गुणप्रसङ्गः—
ऊर्णु + इतव्य → सार्वधातुकार्धधातुकयोः (७.३.८४) → ऊर्णो + इतव्य → एचोऽयवायावः (६.१.७७) → ऊर्णवितव्यम्
ऊर्णु + इ तुम् → सार्वधातुकार्धधातुकयोः (७.३.८४) → ऊर्णो + इतुम् → एचोऽयवायावः (६.१.७७) → ऊर्णवितुम्
ऊर्णु + इ तृच्→ सार्वधातुकार्धधातुकयोः (७.३.८४) → ऊर्णो + इतृ → एचोऽयवायावः (६.१.७७) → ऊर्णवितृ → ऊर्णविता
कुटादिगणस्य लघूपधधातुषु—
कुटादिगणस्य लघूपधधातुषु
डिप् धातुः
डिप् + इतव्य → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणप्रसक्तिः → गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इत्यनेन कुटादिगणीयेभ्यः धातुभ्यः ञित्-णित्-भिन्न-प्रत्ययः ङिद्वत् → तव्यत् प्रत्ययः ञित्-णित्-भिन्न अतः ङिद्वत् → क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधः → डिपितव्यम्
एवमेव—
पुट् + इतव्य → पुटितव्यम्
पुट् + इतुम् → पुटितुम्
पुट् + इतृ → पुटिता
स्फुर् + इतव्य →
स्फुर् + इतुम् →
स्फुर् + इतृ →
कृड् + इतव्य →
कृड् + इतुम् →
कृड् + इतृ →
उत् उपसर्गपूर्वकः विज् धातुः
उद्विज् + इतव्य → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणप्रसक्तिः → विज इट् (१.२.२) इत्यनेन तुदादिगणीय-विज्-धातुतः सर्वे विधीयमानाः सेट्-प्रत्ययाः ङिद्वत् → तव्यत् प्रत्ययः अत्र इडादिः → क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधः → उद्विजितव्यम्
अनेन सामान्यम् अङ्गकार्यं समाप्तम्, अङ्गकार्यविशेषाः अपि प्रदर्शिताः |
तर्हि एतावता अस्माभिः दृष्टं यत् धातु-प्रत्यययोः मध्ये सामान्य-अङ्गकार्यस्य साधनात् पूर्वं त्रीणि कार्याणि द्रष्टव्यानि—
१) धात्वादेशः— प्रसङ्गवशात् धातोः आकृतिः तु न परिवर्तनीया ?
२) इडागमः— धातोः इडागमदृष्ट्या मूलस्वभावः कः ? अपि च विद्यमान-प्रत्ययस्य प्रभावेन अनिट्-धातुः सेट् तु न जायमानः ? अथवा प्रत्ययस्य प्रभावेन सेट्-धातुः तु वेट् न जायमानः ?
३) अतिदेशः— केनचित् अतिदेशसूत्रेण प्रत्ययः ङिद्वत् अथवा किद्वत् इति भवति वा ?
अस्य सर्वस्य परिशीलनानन्तरमेव सामान्यम् अङ्गकार्यं साधनीयम् |
सामान्यम् अङ्गकार्यं मनसि निधाय सर्वेभ्यः धातुभ्यः तव्यत्, तुमुन्, तृच् रूपाणां सिद्धिः इदं वर्गीकरणम् अनुसृत्य चिन्तनीयम्—
१) भ्वादिगणात् आरभ्य क्र्यादिगण-पर्यन्तं सर्वेषाम् अजन्तधातूनां तव्यत्, तुमुन्, तृच् रूपाणां सिद्धिः |
२) भ्वादिगणात् आरभ्य क्र्यादिगण-पर्यन्तं सर्वेषां सेटां हलन्तधातूनां तव्यत्, तुमुन्, तृच् रूपाणां सिद्धिः |
३) भ्वादिगणात् आरभ्य क्र्यादिगण-पर्यन्तं सर्वेषां वेटाम् अनिटां च हलन्तधातूनां तव्यत्, तुमुन्, तृच् रूपाणां सिद्धिः |
४) णिजन्तधातूनां तव्यत्, तुमुन्, तृच् रूपसिद्धिः |
५) सन्नन्तधातूनां तव्यत्, तुमुन्, तृच् रूपसिद्धिः |
६) यङन्तधातूनां तव्यत्, तुमुन्, तृच् रूपसिद्धिः |
७) यङ्लुगन्तधातूनां तव्यत्, तुमुन्, तृच् रूपसिद्धिः |
८) क्यच्, क्यष्, क्यङ्-प्रत्ययान्तधातूनां तव्यत्, तुमुन्, तृच् रूपसिद्धिः |
अग्रे गत्वा सर्वत्र धातुः सेट् इति चेत्, ‘इडादयः प्रत्ययाः' संयोजनीयाः | धातुः अनिट् इति चेत्, ‘अनिडादयः प्रत्ययाः' संयोजनीयाः |
१) भ्वादिगणात् आरभ्य क्र्यादिगण-पर्यन्तं सर्वेषाम् अजन्तधातूनां तव्यत्, तुमुन्, तृच् रूपसिद्धिः
आकारान्ताः च एजन्ताः च धातवः
सामान्याः आकारान्तधातवः
आकारान्तधातवः सर्वे एकाचः अनिटः सन्ति |
अत्र च किमपि विशिष्टकार्यं न वर्तते |
अतः एतेभ्यः धातुभ्यः अनिट् प्रत्ययः विहितः भवति |
दा + तव्यत् →
पा + तव्यत् →
दा + तुमुन् →
पा + तुमुन् →
दा + तृच् → दातृ → दाता
पा + तृच् → पातृ → पाता
दरिद्रा-धातुः
अनेकाच्-धातवः सर्वे सेटः इति जानीमः |
अत्र तादृशः एकः आकारान्तधातुः वर्तते— दरिद्रा-धातुः |
तत्र च एकं वार्तिकमस्ति—
दरिद्रातेरार्धधातुके लोपो वक्तव्यः इत्यनेन दरिद्रा-धातोः आर्धधातुके प्रत्यये परे आकारलोपो भवति |
दरिद्रा + इ + तव्यत् → दरिद्र् + इ + तव्य → दरिद्रितव्य (प्रातिपदिकम्)
दरिद्रा + इ + तुमुन् → दरिद्र् + इ + तुम् → दरिद्रितुम् (अव्ययम्)
दरिद्रा + इ + तृच् → दरिद्र् + इ + तृ → दरिद्रितृ → दरिद्रिता ( पुंसि ), दरिद्रित्री ( स्त्रियाम् ), दरिद्रितृ ( नपुंसि )
दरिद्रितव्य प्रातिपदिकस्य सुबन्तरूपाणि त्रिषु लिङ्गेषु रूपाणि → दरिद्रितव्यः, दरिद्रितव्या, दरिद्रितव्यम्
एजन्तधातवः
आदेच उपदेशेऽशिति (६.१.४५) = उपदेशे एजन्तस्य धातोरात्त्वं न तु शिति | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तदन्तविधिः; अलोन्त्यस्य (१.१.५२) इत्यनेन अन्त्यस्य अलः स्थाने | एच् इत्यनेन 'ए, ऐ, ओ, औ' | श् इत् यस्य स शित्, न शित् अशित्, तस्मिन् (विषये) अशिति, नञ्तत्पुरुषः | आत् प्रथमान्तम्, एचः षष्ठ्यन्तम्, उपदेशे सप्तम्यन्तम्, अशिति सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | लिटि धातोरनभ्यासस्य (६.१.८) इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— एचः धातोः आत् उपदेशे अशिति |
धे + तव्यत् → आदेच उपदेशेऽशिति (६.१.४५) → धा + तव्य → धातव्य → धातव्यम्, धातव्या, धातव्यः
धे + तुमुन् → आदेच उपदेशेऽशिति (६.१.४५) → धा + तुमुन् → धातुम्
धे + तृच् → आदेच उपदेशेऽशिति (६.१.४५) → धा + तृ → धातृ → धाता, धात्री, धातृ
ध्यै + तव्यत् → आदेच उपदेशेऽशिति (६.१.४५) → ध्या + तव्य → ध्यातव्य → ध्यातव्यः, ध्यातव्या, ध्यातव्यम्
ध्यै + तुमुन् → आदेच उपदेशेऽशिति (६.१.४५) → ध्या + तुम् → ध्यातुम्
ध्यै + तृच् → आदेच उपदेशेऽशिति (६.१.४५) → ध्या + तृ → ध्यातृ → ध्याता, ध्यात्री, ध्यातृ ( त्रिषु लिङ्गेषु रूपाणि )
शो + तव्यत् → आदेच उपदेशेऽशिति (६.१.४५) → शा + तव्य → शातव्य → शातव्यम्, शातव्यः, शातव्या
शो + तुमुन् → आदेच उपदेशेऽशिति (६.१.४५) → शा + तृ → शातुम्
शो + तृच् → आदेच उपदेशेऽशिति (६.१.४५) → शा + तृ → शातृ → शाता, शात्री, शातृ
गै + तव्यत् → आदेच उपदेशेऽशिति (६.१.४५) → गा + तव्य → गातव्य → गातव्यः, गातव्या, गातव्यम्
गै + तुमुन् → आदेच उपदेशेऽशिति (६.१.४५) → गा + तुम् → गातुम्
गै + तृच् → आदेच उपदेशेऽशिति (६.१.४५) → गा + तृ → गातृ → गाता, गात्री, गातृ
इकारान्तधातवः
सामान्याः इकारान्तधातवः
अत्र गुणकार्यं भवति यथापेक्षितं, सार्वधातुकार्धधातुकयोः (७.३.८४) इति सूत्रेण |
अपि च श्रि, श्वि इति धातुद्वयं त्यक्त्वा अन्ये सर्वे एकाचः इकारान्तधातवः अनिटः |
जि + तव्यत् → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन आर्धधातुकप्रत्यये परे इगन्ताङ्गस्य इकः गुणः भवति → जे + तव्य → जेतव्यम्
जि + तुमुन् → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन आर्धधातुकप्रत्यये परे इगन्ताङ्गस्य इकः गुणः भवति → जे + तुम् → जेतुम्
जि + तृच् → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन आर्धधातुकप्रत्यये परे इगन्ताङ्गस्य इकः गुणः भवति → जे + तृ → जेता
चि + तव्यत् → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन आर्धधातुकप्रत्यये परे इगन्ताङ्गस्य इकः गुणः भवति→ चे + तव्य → चेतव्यम्
चि + तुमुन् → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन आर्धधातुकप्रत्यये परे इगन्ताङ्गस्य इकः गुणः भवति → चे + तुम् → चेतुम्
चि + तृच् → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन आर्धधातुकप्रत्यये परे इगन्ताङ्गस्य इकः गुणः भवति → चेतृ → चेता,चेत्री, चेतृ
अधि + इ + तव्यत् → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन आर्धधातुकप्रत्यये परे इगन्ताङ्गस्य इकः गुणः भवति → अधि + इ + तव्य → अध्येतव्य → अध्येतव्यः, अध्येतव्या, अध्येतव्यम्
अधि + इ + तुमुन्→ सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन आर्धधातुकप्रत्यये परे इगन्ताङ्गस्य इकः गुणः भवति→अधि + इ + तुम् → अध्येतुम्
अधि + इ + तृच् → सार्वधातुकार्धधातुकयोः (७.३.८४) → अधि + ए + तृ → अध्येतृ → अध्येता, अध्येत्री, अध्येतृ
श्रि, श्वि इति धातू
इमौ द्वौ धातू सेटौ इति जानीमः |
श्रि + इ + तव्यत् → सार्वधातुकार्धधातुकयोः (७.३.८४) → श्रे + इतव्य → एचोऽयवायावः (६.१.७७) → श्रयितव्य → श्रयितव्यम्
श्रि + इ + तुमुन् → सार्वधातुकार्धधातुकयोः (७.३.८४) → श्रे + इतुम् → एचोऽयवायावः (६.१.७७) → श्रयितुम्
श्रि + इ + तृच् → सार्वधातुकार्धधातुकयोः (७.३.८४) → श्रे + इतृ → एचोऽयवायावः (६.१.७७) → श्रयितृ → श्रयिता, श्रयित्री, श्रयितृ
श्वि + इ + तव्यत् → सार्वधातुकार्धधातुकयोः (७.३.८४) → श्वे + इतव्य → एचोऽयवायावः (६.१.७७) → श्वयितव्य → श्वयितव्यम्
श्वि + इ + तुमुन् → सार्वधातुकार्धधातुकयोः (७.३.८४) → श्वे + इतुम् → एचोऽयवायावः (६.१.७७) → श्वयितुम्
श्वि + इ+ तृच् → सार्वधातुकार्धधातुकयोः (७.३.८४)→ श्वे + इतृ → एचोऽयवायावः (६.१.७७) → श्वयितृ → श्वयिता, श्वयित्री, श्वयितृ
डुमिञ् प्रक्षेपणे
मीनाति-मिनोति-दीङां ल्यपि च (६.१.५०) = क्र्यादौ मीञ् हिंसायां, स्वादौ डुमिञ् प्रक्षेपणे, दिवादौ दीङ् क्षये इत्येतेषां धातूनाम् अन्त्यस्य अलः स्थाने आकारादेशो भवति ल्यपि विषये, एच्-निमित्त-शिद्भिन्न-प्रत्ययस्य च विषये | नाम मी, मि, दी इत्येषां यदा गुणो वा वृद्धिर्व जायमानः यस्मात् एकारो वा ऐकारो वा जायमानः, ततः पूर्वमेव तत्स्थाने आकारादेशो भवति | अलोन्त्यस्य (१.१.५२) इत्यनेन अन्त्यस्य अलः स्थाने | केषाञ्चित् मतेन अशिति इति अनुवृत्तिः न भवेत् यतोहि कोऽपि शित् प्रत्ययः नास्ति यस्य द्वारा एतेषां धातूनाम् अन्तिम-अलः वर्णस्य स्थाने एच्-आदेशः स्यात् | केषाञ्चित् च मतेन 'उपदेशे' इत्यस्य अनुवृत्तिः न भवेत् | मीनातिश्च मिनोतिश्च दीङ् च तेषामितरेतरद्वन्द्वो मीनातिमिनोतिदीङः, तेषां मीनातिमिनोतिदीङाम् | मीनातिमिनोतिदीङां षष्ठ्यन्तं, ल्यपि सप्तम्यन्तं, चाव्ययपदं, त्रिपदमिदं सूत्रम् | आदेच उपदेशेऽशिति (६.१.४५) इत्यस्य सम्पूर्णतया अनुवृत्तिः | अनुवृत्ति-सहितसूर्त्रं— मीनातिमिनोतिदीङाम् आत् ल्यपि च एच (एज्निमित्ते प्रत्यये) उपदेशे अशिति |
क्र्यादौ मीञ् हिंसायाम्,
स्वादौ डुमिञ् प्रक्षेपणे,
दिवादौ दीङ् क्षये
इत्येतेषां धातूनाम् अन्त्यस्य अलः स्थाने आकारादेशो भवति ल्यपि विषये, एच्-निमित्त-शिद्भिन्न-प्रत्ययस्य च विषये |
नाम मी, मि, दी इत्येषां यदा गुणो वा वृद्धिर्व जायमानः यस्मात् एकारो वा ऐकारो वा जायमानः ततः पूर्वमेव तत्स्थाने आकारादेशो भवति |
डुमिञ् + तव्यत् → मि + तव्य → 'सार्वधातुकार्धधातुकयोः' (७.३.८४) इत्यनेन गुणप्रसक्तिः → मीनाति-मिनोति-दीङां ल्यपि च (६.१.५०) इत्यनेन स्वादौ डुमिञ् प्रक्षेपणे इत्यस्य धातोः अन्त्यस्य अलः स्थाने आकारादेशो भवति एच्-निमित्त-शिद्भिन्न-प्रत्ययस्य च विषये → मा + तव्य → मातव्य → मातव्यः, मातव्या, मातव्यम्
डुमिञ् + तुमुन् → मि + तुम् → 'सार्वधातुकार्धधातुकयोः' (७.३.८४) इत्यनेन गुणप्रसक्तिः → मीनाति-मिनोति-दीङां ल्यपि च (६.१.५०) इत्यनेन स्वादौ डुमिञ् प्रक्षेपणे इत्यस्य धातोः अन्त्यस्य अलः स्थाने आकारादेशो भवति एच्-निमित्त-शिद्भिन्न-प्रत्ययस्य च विषये → मा + तुम् → मातुम्
डुमिञ् + तृच् → मि + तृ → 'सार्वधातुकार्धधातुकयोः' (७.३.८४) इत्यनेन गुणप्रसक्तिः → मीनाति-मिनोति-दीङां ल्यपि च (६.१.५०) इत्यनेन स्वादौ डुमिञ् प्रक्षेपणे इत्यस्य धातोः अन्त्यस्य अलः स्थाने आकारादेशो भवति एच्-निमित्त-शिद्भिन्न-प्रत्ययस्य च विषये → मा + तृ → माता, मात्री , मातृ
एवमेव
१. क्र्यादौ मीञ् हिंसायाम्,
२. दिवादौ दीङ् क्षये
धातुद्वयस्य तव्यत्, तुमुन्, तृच् रूपसिद्धिः अपि भवति |
ईकारान्तधातवः
सामान्याः ईकारान्तधातवः
अत्र गुणकार्यं भवति यथापेक्षितं, सार्वधातुकार्धधातुकयोः (७.३.८४) इति सूत्रेण | डीङ्, शीङ् इति धातुद्वयं त्यक्त्वा अन्ये सर्वे एकाचः ईकारान्तधातवः अनिटः |
नी + तव्यत्→ सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन आर्धधातुकप्रत्यये परे इगन्ताङ्गस्य इकः गुणः भवति → ने + तव्य → नेतव्यम्
नी + तुमुन् → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन आर्धधातुकप्रत्यये परे इगन्ताङ्गस्य इकः गुणः भवति → ने + तुमु → नेतुम्
नी + तृच् → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन आर्धधातुकप्रत्यये परे इगन्ताङ्गस्य इकः गुणः भवति→ ने + तृ→ नेतृ → नेता
भी + तव्यत् → सार्वधातुकार्धधातुकयोः (७.३.८४) → भेतव्य → भेतव्यः, भेतव्या, भेतव्यम्
भी + तुमुन् → सार्वधातुकार्धधातुकयोः (७.३.८४) → भेतुम्
भी + तृच् → सार्वधातुकार्धधातुकयोः (७.३.८४) → भेतृ → भेता, भेत्री, भेतृ
क्री + तव्यत् → सार्वधातुकार्धधातुकयोः (७.३.८४) → क्रे + तव्य → क्रेतव्य → क्रेतव्यः, क्रेतव्या, क्रेतव्यम्
क्री + तुमुन् → सार्वधातुकार्धधातुकयोः (७.३.८४) → क्रे + तुम् → क्रेतुम्
क्री + तृच् → सार्वधातुकार्धधातुकयोः (७.३.८४) → क्रे + तृ → क्रेतृ → क्रेता, क्रेत्री, क्रेतृ
डीङ्, शीङ् इति धातू
इमौ द्वौ धातू सेटौ इति जानीमः |
डीङ् + इतव्य → सार्वधातुकार्धधातुकयोः (७.३.८४) → डे + इतव्य → एचोऽयवायावः (६.१.७७) → डयितव्य → डयितव्यम्
डीङ् + इतुमुन् → सार्वधातुकार्धधातुकयोः (७.३.८४) → डे + इतुम् → एचोऽयवायावः (६.१.७७) → डयितुम्
डीङ् + इ+ तृच् → सार्वधातुकार्धधातुकयोः (७.३.८४) → डे + इतृ → एचोऽयवायावः (६.१.७७) → डयितृ → डयिता , डयित्री , डयितृ
शीङ् + इतव्य → सार्वधातुकार्धधातुकयोः (७.३.८४) → शे + इतव्य → एचोऽयवायावः (६.१.७७) → शयितव्य →शयितव्यम्
शीङ् + इतुमुन् → सार्वधातुकार्धधातुकयोः (७.३.८४) → शे + इतुम् → एचोऽयवायावः (६.१.७७) → शयितुम्
शीङ् + इ+ तृच् → सार्वधातुकार्धधातुकयोः (७.३.८४) → शे + इतृ → एचोऽयवायावः (६.१.७७) → शयितृ →शयिता, शयित्री, शयितृ
दीधी, वेवी
दीधी, वेवी इति द्वौ धातू अनेकाचौ अतः सेटौ
दीधीवेवीटाम् (१.१.६) = दीधीङ्, वेवीङ् इति धात्वोः च इट् इत्यागमस्य च, एषां गुणः वृद्धिः च न भवतः | दिधीश्च वेवीश्च इट् च तेषामितरेतरद्वन्द्वः दीधीवेवीटः, तेषां दीधीवेवीटाम् | इको गुणवृद्धी (१.१.३) इत्यस्मात् गुणवृद्धी इत्यस्य अनुवृत्तिः | न धातुलोप आर्धधातुके (१.१.४) इत्यस्मात् न इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूर्त्रं— दीधी-वेवी-इटाम् इकः गुणवृद्धी न |
यीवर्णयोर्दीधीवेव्योः (७.४.५३) = यकारादिः च इकारादिः च प्रत्यये परे दीधी, वेवी इति धात्वोः ईकारस्य लोपो भवति |
दीधी + इतव्य → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन गुणप्रसक्तिः → दीधीवेवीटाम् (१.१.६) इत्यनेन गुणनिषेधः → दीधी + इतव्य → यीवर्णयोर्दीधीवेव्योः (७.४.५३) इत्यनेन धातोः ईकारलोपः → दीध् + इतव्य → दीधितव्य → दीधितव्यः, दीधितव्या, दीधितव्यम्
दीधी + इतुम् → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन गुणप्रसक्तिः → दीधीवेवीटाम् (१.१.६) इत्यनेन गुणनिषेधः → दीधी + इतुम् → यीवर्णयोर्दीधीवेव्योः (७.४.५३) इत्यनेन धातोः ईकारलोपः → दीध् + इतुम् → दीधितुम्
दीधी + इ+ तृच् → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन गुणप्रसक्तिः → दीधीवेवीटाम् (१.१.६) इत्यनेन गुणनिषेधः → दीधी + इ + तृ → यीवर्णयोर्दीधीवेव्योः (७.४.५३) इत्यनेन धातोः ईकारलोपः → दीध् + इतृ → दीधितृ → दीधिता, दीधित्री, दीधितृ
एवमेव वेवी धातुतः तव्यत्, तुमुन्, तृच् प्रत्ययान्तरूपाणि निर्मातुं शक्यन्ते |
मीञ् हिंसायां, दीङ् क्षये इति द्वौ धातू
मीनाति-मिनोति-दीङां ल्यपि च (६.१.५०) = क्र्यादौ मीञ् हिंसायां, स्वादौ डुमिञ् प्रक्षेपणे, दिवादौ दीङ् क्षये इत्येतेषां धातूनाम् अन्त्यस्य अलः स्थाने आकारादेशो भवति ल्यपि विषये, एच्-निमित्त-शिद्भिन्न-प्रत्ययस्य च विषये | नाम मी, मि, दी इत्येषां यदा गुणो वा वृद्धिर्व जायमानः यस्मात् एकारो वा ऐकारो वा जायमानः, ततः पूर्वमेव तत्स्थाने आकारादेशो भवति | अलोन्त्यस्य (१.१.५२) इत्यनेन अन्त्यस्य अलः स्थाने | केषाञ्चित् मतेन अशिति इति अनुवृत्तिः न भवेत् यतोहि कोऽपि शित् प्रत्ययः नास्ति यस्य द्वारा एतेषां धातूनाम् अन्तिम-अलः वर्णस्य स्थाने एच्-आदेशः स्यात् | केषाञ्चित् च मतेन 'उपदेशे' इत्यस्य अनुवृत्तिः न भवेत् | मीनातिश्च मिनोतिश्च दीङ् च तेषामितरेतरद्वन्द्वो मीनातिमिनोतिदीङः, तेषां मीनातिमिनोतिदीङाम् | मीनातिमिनोतिदीङां षष्ठ्यन्तं, ल्यपि सप्तम्यन्तं, चाव्ययपदं, त्रिपदमिदं सूत्रम् | आदेच उपदेशेऽशिति (६.१.४५) इत्यस्य सम्पूर्णतया अनुवृत्तिः | अनुवृत्ति-सहितसूर्त्रं— मीनातिमिनोतिदीङाम् आत् ल्यपि च एच (एज्निमित्ते प्रत्यये) उपदेशे अशिति |
(प्र +) मीञ् + तव्यत् → मी + तव्य → मीनाति-मिनोति-दीङां ल्यपि च (६.१.५०) इत्यनेन स्वादौ डुमिञ् प्रक्षेपणे इत्यस्य धातोः अन्त्यस्य अलः स्थाने आकारादेशो भवति एच्-निमित्त-शिद्भिन्न-प्रत्ययस्य च विषये → प्र + मा + तव्य → प्रमातव्य → प्रमातव्यम्
(प्र +) मीञ् + तुमुन् → मी + तुम् → मीनाति-मिनोति-दीङां ल्यपि च (६.१.५०) इत्यनेन स्वादौ डुमिञ् प्रक्षेपणे इत्यस्य धातोः अन्त्यस्य अलः स्थाने आकारादेशो भवति एच्-निमित्त-शिद्भिन्न-प्रत्ययस्य च विषये → प्र + मा + तुम् → प्रमातुम्
(प्र +) मीञ् + तृच् → मी + तृ → मीनाति-मिनोति-दीङां ल्यपि च (६.१.५०) इत्यनेन स्वादौ डुमिञ् प्रक्षेपणे इत्यस्य धातोः अन्त्यस्य अलः स्थाने आकारादेशो भवति एच्-निमित्त-शिद्भिन्न-प्रत्ययस्य च विषये → प्र + मा + तृ → प्रमातृ → प्रमाता, प्रमात्री, प्रमातृ
(उप ) + दीङ् + तव्यत् → दी + तव्य → मीनाति-मिनोति-दीङां ल्यपि च (६.१.५०) इत्यनेन स्वादौ डुमिञ् प्रक्षेपणे इत्यस्य धातोः अन्त्यस्य अलः स्थाने आकारादेशो भवति एच्-निमित्त-शिद्भिन्न-प्रत्ययस्य च विषये → उप +दा + तव्य → उपदातव्य → उपदातव्यः, उपदातव्या, उपदातव्यम्
लीङ् श्लेषणे ली श्लेषणे इति द्वौ धातू
विभाषा लीयतेः (६.१.५१) = लीङ् श्लेषणे (दिवादौ), ली श्लेषणे (क्र्यादौ) इत्यनयोः विकल्पेन आत्वादेशो भवति एचः विषये | लीयतेः इति पदे यक्प्रत्यययुक्तनिर्देशः न तु श्यन्-प्रत्ययः | अतः सिद्धान्तकौमुद्यां—लीयतेरिति यका निर्देशो न तु श्यना | लीलीङोरात्वं वा स्यादेज्विषये ल्यपि च | अनेन ज्ञायते यत् ’लीयतेः’ इत्यनेन ली-धातुः श्ना-प्रत्यययुक्तः अपि श्यन्-प्रत्यययुक्तः अपि, दिवादौ च क्र्यादौ च द्वयोरपि प्रयोजनमस्ति अस्मिन् सूत्रे | पूर्वसूत्रे मीनाति-मिनोति-दीङां ल्यपि च (६.१.५०) इत्यस्मिन् एचः इति पदेन सः ’निमित्त’ इति शब्दार्थः आसीत्, ’एज्निमित्तविषये’ इति; अत्रापि तथैव भवति | विभाषा प्रथमान्तं, लीयतेः षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | मीनाति-मिनोति-दीङां ल्यपि च (६.१.५०) इत्यस्मात् ल्यपि इत्यस्य अनुवृत्तिः | आदेच उपदेशेऽशिति (६.१.४५) इत्यस्मात् आत्, एचः इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहितसूर्त्रं— लीयतेः आत् विभाषा ल्यपि च एज्निमित्तप्रत्ययविषये |
अस्य धातोः तव्यदन्तरूपाणि आत्वादेशो भवति चेत् एवम् |
वि + ली → वि + ला → विलातव्यः, विलातव्या, विलातव्यम्
आत्वाभावे अस्य रूपाणि विलेतव्यः, विलेतव्या, विलेतव्यम् |
अस्य धातोः तुमुन् प्रत्ययान्तरूपाणि आत्वादेशो भवति चेत् |
वि + ली → वि + ला → विलातुम्
आत्वाभावे अस्य रूपं विलेतुम् |
अस्य धातोः तृजन्तरूपाणि एवम् |
वि + ली → वि + ला → विलाता, विलात्री, विलातृ |
आत्वाभावे अस्य रूपाणि विलेता, विलेत्री, विलेतृ |
उकारान्तधातवः
सामान्याः उकारान्तधातवः
अत्र गुणकार्यं भवति यथापेक्षितं, सार्वधातुकार्धधातुकयोः (७.३.८४) इति सूत्रेण | यु, रु, नु, स्नु, क्षु, क्ष्णु इत्येतान् धातून् त्यक्त्वा अन्ये सर्वे एकाचः उकारान्तधातवः अनिटः |
हु + तव्यत् → सार्वधातुकार्धधातुकयोः (७.३.८४) → हो + तव्यत् → होतव्य → होतव्यः, होतव्या, होतव्यम्
हु + तुमुन् → सार्वधातुकार्धधातुकयोः (७.३.८४) → हो + तुमुन् → होतुम्
हु + तृच् → सार्वधातुकार्धधातुकयोः (७.३.८४) → हो + तृ → होतृ → होता, होत्री, होतृ
एवमेव
द्रु + तव्यत् → सार्वधातुकार्धधातुकयोः (७.३.८४) → द्रो + तव्य → द्रोतव्य
द्रु + तुमुन् → सार्वधातुकार्धधातुकयोः (७.३.८४) → द्रो + तुम् → द्रोतुम्
द्रु + तृच् → सार्वधातुकार्धधातुकयोः (७.३.८४) → द्रो + तृ → द्रोतृ → द्रोता, द्रोत्री, द्रोतृ
षट् सेटः उकारान्तधातवः
यु, रु, नु, स्नु, क्षु, क्ष्णु इत्येते धातवः सेटः |
यु + इतव्य → सार्वधातुकार्धधातुकयोः (७.३.८४) → यो + इतव्य → एचोऽयवायावः (६.१.७७) → यवितव्य → यवितव्यम्
यु + इ + तुमुन् → सार्वधातुकार्धधातुकयोः (७.३.८४) → यो + इतुम् → एचोऽयवायावः (६.१.७७) → यवितुम्
यु + इ + तृच् → सार्वधातुकार्धधातुकयोः (७.३.८४) → यो + इतृ → एचोऽयवायावः (६.१.७७) → यवितृ → यविता, यवित्री, यवितृ
एवमेव रु, नु, स्नु, क्षु, क्ष्णु |
उकारान्ताः कुटादिधातवः
गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) = इङ्-धातोः स्थाने यः गाङ्-धातुः तस्मात् च कुटादिगणीयेभ्यः धातुभ्यः ञित्-णित्-भिन्न-प्रत्ययः ङिद्वत् भवति | कुटादिगणे ३५ धातवः सन्ति; सर्वे धातवः तुदादिगणे सन्ति | कुट आदिर्येषां ते कुटादयः, बहुवीहिः | गाङ् च कुटादयश्च ते गाङ्कुटादयः, तेभ्यः कुटादिभ्यः | ञ् च ण् च तयोरितरेतरद्वन्द्वः ञ्णौ, ञ्णौ इतौ यस्य स ञ्णित् बहुव्रीहिः, न ञ्णित् अञ्णित्, द्वन्द्वगर्भो बहुव्रीहिः | सूत्रं स्वयं सम्पूर्णम्— गाङ्कुटादिभ्यः अञ्णित् ङित् |
तव्यत्, तुमुन्, तृच् प्रत्ययाः ञित्-णित्-भिन्नाः इत्यतः गाङ्कुटादिभ्यः धातुभ्यः एते सर्वे ङिद्वत् भवन्ति | ततः सर्वत्र क्क्ङिति च (१.१.५) इति सूत्रेण गुणनिषेधः भवति |
क्क्ङिति च (१.१.५) = यः प्रत्ययः गित्, कित् अथवा ङित् अस्ति, अपि च तस्मात् प्रत्ययात् पूर्वं तस्य एव प्रत्ययस्य कारणतः इकः स्थाने गुणः वा वृद्धिः वा भवति स्म, सः (गुणः वृद्धिः) न भवति | ग् च क् च ङ् च तेषाम् इतरेतरद्वन्द्वः क्क्ङः; क्क्ङः इतः यस्य सः क्क्ङित्, तस्मिन् परे क्क्ङिति | द्वन्द्वगर्भबहुव्रीहिसमासः | अत्र ग्-स्थाने ककारः खरि च इत्यनेन चर्त्वसन्धिः | क्क्ङिति सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | इको गुणवृद्धी (१.१.३) इत्यस्य पूर्णतया अनुवृत्तिः; न धातुलोप आर्धधातुके (१.१.४) इत्यस्मात् न इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्— क्क्ङिति च इकः गुणवृद्धी न |
गु पुरीषोत्सर्गे
गु + तव्यत् → गुतव्य → गुतव्यः, गुतव्या, गुतव्यः
गु + तुमुन् → गुतुम्
गु + तृच् → गुतृ → गुता, गुत्री, गुतृ
ध्रु गतिस्थैर्ययोः
ध्रु + तव्यत् → ध्रुतव्य
ध्रु + तुमुन् → ध्रुतुम्
ध्रु + तृच् → ध्रुता, ध्रुत्री, ध्रुतृ
एवमेव कुङ् शब्दे धातोः प्रसङ्गे अपि |
कु + तव्यत् / तुमुन् / तृच् → कुतव्यं, कुतुं, कुता
ऊर्णु-धातुः
विभाषोर्णोः (१.२.३) = ऊर्णु-धातुतः विधीयमानाः इडादि-प्रत्ययाः विकल्पेन ङिद्वत् भवन्ति | विभाषा प्रथमान्तम्, ऊर्णोः पञ्चम्यन्तं, द्विपदमिदं सूत्रम् | विज इट् (१.२.२) इत्यस्मात् इट् इत्यस्य अनुवृत्तिः | गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इत्यस्मात् ङिट् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्— ऊर्णोः इट् ङिट् विभाषा |
यथा—
ऊर्णु + इ + तव्य → इतव्य विकल्पेन ङिद्वत् अतः क्क्ङिति च (१.१.५) इत्यनेन एकस्मिन् पक्षे गुणनिषेधः → ऊर्णु + इता → अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यनेन उकारान्तधातुरूपि-अङ्गस्य उकारस्य स्थाने उवङ् आदेशो भवति अजादि-प्रत्यये परे → ऊर्णुवितव्यम्
अपक्षे ङिद्वत्त्वं न भवति अतः गुणप्रसङ्गः—
ऊर्णु + इतव्य → सार्वधातुकार्धधातुकयोः (७.३.८४) → ऊर्णो + इतव्य → एचोऽयवायावः (६.१.७७) → ऊर्णवितव्यम्
ऊर्णु + इ तुम् → सार्वधातुकार्धधातुकयोः (७.३.८४) → ऊर्णो + इतुम् → एचोऽयवायावः (६.१.७७) → ऊर्णवितुम्
ऊर्णु + इ तृच्→ सार्वधातुकार्धधातुकयोः (७.३.८४) → ऊर्णो + इतृ → एचोऽयवायावः (६.१.७७) → ऊर्णवितृ → ऊर्णविता
ऊकारान्तधातवः
सामान्याः ऊकारान्तधातवः
अत्र गुणकार्यं भवति यथापेक्षितं, सार्वधातुकार्धधातुकयोः (७.३.८४) इति सूत्रेण |
इडागमपाठे 'सर्वे ऊकारान्तधातवः सेटः' इति अधीतवन्तः |
भू + इ + तव्यत् → सार्वधातुकार्धधातुकयोः (७.३.८४) → भो + इ + तव्य → एचोऽयवायावः (६.१.७७) → भवितव्यम्
भू + इ + तुम् → सार्वधातुकार्धधातुकयोः (७.३.८४) → भो + इ + तुम् → एचोऽयवायावः (६.१.७७) → भवितुम्
भू + इ + तृच् → सार्वधातुकार्धधातुकयोः (७.३.८४) → भो + इ + तृ → एचोऽयवायावः (६.१.७७) → भवितृ → भविता
पू + इ + तव्यत् → सार्वधातुकार्धधातुकयोः (७.३.८४) → पो + इ + तव्य → एचोऽयवायावः (६.१.७७) → पवितव्यम्
पू + इ + तुम् → सार्वधातुकार्धधातुकयोः (७.३.८४) → पो + इ + तुम् → एचोऽयवायावः (६.१.७७) → पवितुम्
पू + इ + तृच् → सार्वधातुकार्धधातुकयोः (७.३.८४) → पो + इ + तृ → एचोऽयवायावः (६.१.७७) → पवितृ → पविता
वस्तुतस्तु चत्वारः ऊकारान्तधातवः वेटः इत्यपि ज्ञातवन्तः वेट्-धातुपाठे |
एते चत्वारः वेट्-धातवः सन्ति—
द्वौ धू-धातू (धूञ् कम्पने, स्वादौ क्र्यादौ च),
द्वौ सू-धातू ('षूङ् प्राणिगर्भविमोचने' अदादिगणे, ‘षूङ् प्राणिप्रसवे' दिवादिगणे) |
धू विधूनने, धूञ् कम्पने चुरादि चेति द्वौ धातू सेटौ |
इडादिपक्षे—
धू + इ + तव्यत् → सार्वधातुकार्धधातुकयोः (७.३.८४) → धो + इ + तव्य → एचोऽयवायावः (६.१.७७) → धवितव्यम् |
सू + इ + तव्यत् → सार्वधातुकार्धधातुकयोः (७.३.८४) → सो + इ + तव्य → एचोऽयवायावः (६.१.७७) → सवितव्यम् |
धवितुं, धवितृ (धविता ) अपि एवमेव |
सवितुं, सवितृ (सविता ) अपि एवमेव |
अनिडादिपक्षे—
धू + तव्यत् → सार्वधातुकार्धधातुकयोः (७.३.८४) → धो + तव्यत् → धोतव्य → धोतव्यम्
धू + तुमुन् → सार्वधातुकार्धधातुकयोः (७.३.८४) → धो + तुम् → धोतव्य → धोतुम्
धू + तृच् → सार्वधातुकार्धधातुकयोः (७.३.८४) → धो + तृ → धोतृ → धोता, धोत्री, धोतृ
एवेमेव
सू + तव्यत् →
सू + तुमुन् →
सू + तृच् →
कुटादिधातवः
कुटादिगणे णू स्तवने, धू विधूनने इति द्वौ ऊकारान्तधातवः स्तः |
द्वावपि सेटौ; द्वयोरपि कुटादिगणीयत्वस्य गुणनिषेधत्वात् उवङ्-आदेशः |
णू स्तवने → नुवितव्यं, नुवितुं, नुवितृ ( नुविता )
धू विधूनने → धुवितव्यं, धुवितुं, धुवितृ ( धुविता )
णू + इ+तव्य → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन गुणः प्रसक्तः → क्क्ङिति च (१.१.५) इति सूत्रेण गुणनिषेधः→ नू + इ+तव्य → अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यनेन अजादि प्रत्यये परे उवङ्-आदेशः → न् + उव् + इतव्य → नुवितव्य → नुवितव्यम्
एवमेव नुवितुं, नुवितृ अपि |
अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) = श्नुप्रत्ययान्ताङ्गस्य (स्वादिगणस्य अङ्गस्य यथा शक्नु इत्यस्य), इकारान्त-उकारान्तधातुरूपि-अङ्गस्य, भ्रू-प्रातिपदिकस्य च— एषाम् इकारस्य उकारस्य स्थाने क्रमेण इयङ् उवङ् च आदेशो भवति अजादि-प्रत्यये परे |
ब्रू-धातोः वच् इति धात्वादेशः
ब्रू + तव्यत् → ब्रुवो वचिः (२.४.५३) इत्यनेन ब्रुवो वचिरादेशो भवति आर्धधातुकविषये → वच् + तव्य → वच् + तव्य → चोः कुः (८.२.३०) इत्यनेन चवर्गस्य स्थाने कवर्गादेशो भवति झलि परे → वक्तव्य → वक्तव्यम्
एवमेव वक्तुं, वक्तृ ( वक्ता ) अपि |
ब्रुवो वचिः (२.४.५३) = ब्रुवो वचिरादेशो भवति आर्धधातुकविषये | इकार उच्चारणार्थः | ब्रुवः षष्ठ्येकवचनं, वचिः प्रथमैकवचनं, द्विपदमिदं सूत्रम् | आर्धधातुके (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— ब्रुवः वचिः आर्धधातुके |
ऋकारान्तधातवः
सामान्याः ऋकारान्तधातवः
अत्र गुणकार्यं भवति यथापेक्षितं, सार्वधातुकार्धधातुकयोः (७.३.८४) इति सूत्रेण | वृङ्,वृञ् इति द्वौ धातू सेटौ; स्वृ-धातुः वेट्; एतान् त्रीन् धातून् विहाय अन्ये सर्वे एकाचः ऋकारान्तधातवः अनिटः |
कृ + तव्यत् → सार्वधातुकार्धधातुकयोः (७.३.८४) → कर् + तव्य → कर्तव्यम्
कृ + तुमुन् → सार्वधातुकार्धधातुकयोः (७.३.८४) → कर् + तुम् → कर्तुम्
कृ + तृच् → सार्वधातुकार्धधातुकयोः (७.३.८४) → कर् + तृ → कर्तृ → कर्ता, कर्त्री, कर्तृ ( त्रिषु लिङ्गेषु )
धृ + तव्यत् → सार्वधातुकार्धधातुकयोः (७.३.८४) →
धृ + तुमुन् → सार्वधातुकार्धधातुकयोः (७.३.८४) →
धृ + तृच् → सार्वधातुकार्धधातुकयोः (७.३.८४) →
भृ + तव्यत् → सार्वधातुकार्धधातुकयोः (७.३.८४) →
भृ + तुमुन् → सार्वधातुकार्धधातुकयोः (७.३.८४) →
भृ + तृच् → सार्वधातुकार्धधातुकयोः (७.३.८४) →
वृङ्,वृञ् इति द्वौ धातू सेटौ
वॄतो वा (७.२.३८)
वॄतो वा (७.२.३८) = वृ-धातोः ॠकारान्तेभ्यश्च धातुभ्यः इटो वा दीर्घो भवति | वृ इत्यनेन वृङ्वृञोः सामान्येन ग्रहणम् |
वृङ् + इ + तव्यत् → सार्वधातुकार्धधातुकयोः (७.३.८४) → वर् + इतव्य → वॄतो वा (७.२.३८) → वरितव्यं / वरीतव्यम्
वृङ् + इ + तुम् → सार्वधातुकार्धधातुकयोः (७.३.८४) → वर् + इतुम् → वॄतो वा (७.२.३८) → वरितुम् / वरीतुम्
वृङ् + इ + तृच् → सार्वधातुकार्धधातुकयोः (७.३.८४) → वर् + इतृ → वॄतो वा (७.२.३८) → वरितृ / वरीतृ → वरिता / वरीता
वृञ् + इ + तव्यत् → सार्वधातुकार्धधातुकयोः (७.३.८४) →
वृञ् + इ + तुमुन् → सार्वधातुकार्धधातुकयोः (७.३.८४) →
वृञ् + इ + तृच् → सार्वधातुकार्धधातुकयोः (७.३.८४) →
स्वृ-धातुः वेट्
इडादिपक्षे—
स्वृ + इ तव्यत् → सार्वधातुकार्धधातुकयोः (७.३.८४) → स्वर् + इतव्य → स्वरितव्यम् |
स्वृ + इ तुम् → सार्वधातुकार्धधातुकयोः (७.३.८४) → स्वर् + इ तुम् → स्वरितुम् |
स्वृ + इ तृच् → सार्वधातुकार्धधातुकयोः (७.३.८४) → स्वर् + इतृ → स्वरितृ → स्वरिता , स्वरित्री , स्वरितृ |
अनिडादिपक्षे—
स्वृ + तव्यत् → सार्वधातुकार्धधातुकयोः (७.३.८४) → स्वर् + तव्य → स्वर्तव्यम्
स्वृ + तुमुन् → सार्वधातुकार्धधातुकयोः (७.३.८४) → स्वर् + तुम् → स्वर्तुम्
स्वृ + तृच् → सार्वधातुकार्धधातुकयोः (७.३.८४) → स्वर् + तृ → स्वर्तृ → स्वर्ता, स्वर्त्री, स्वर्तृ
ॠकारान्तधातवः
अत्र गुणकार्यं भवति यथापेक्षितं, सार्वधातुकार्धधातुकयोः (७.३.८४) इति सूत्रेण | यथा अधीतवन्तः इडागमपाठे, सर्वे एकाचः ॠकारान्तधातवः सेटः |
तॄ + इ+ तव्यत् → सार्वधातुकार्धधातुकयोः (७.३.८४) → तर् + इ + तव्य → तरितव्य → वॄतो वा (७.२.३८) इत्यनेन ॠकारान्तेभ्यश्च धातुभ्यः इटो वा दीर्घो भवति → तरीतव्य → तरितव्यं, तरीतव्यम् |
एवमेव तरितुं, तरीतुम् |
एवमेव तरितृ (तरिता, तरित्री, तरितृ) / तरीतृ (तरीता, तरीत्री, तरीतृ )
शॄ + इतव्य →
जॄ + इतव्य →
गॄ + इतव्य →
शॄ + इतुम् →
जॄ + इतुम् →
गॄ + इतुम् →
शॄ + इ + तृच् →
जॄ + इ + तृच् →
गॄ + इ + तृच् →
इति सर्वेषाम् अजन्तधातूनां तव्यत्, तुमुन्, तृच् रूपाणां सिद्धिः समाप्ता |
२) भ्वादिगणात् आरभ्य क्र्यादिगण-पर्यन्तं सर्वेषां सेटां हलन्तधातूनां तव्यत्, तुमुन्, तृच् रूपसिद्धिः
हलन्तधातवः आधिक्येन सेटः इति जानीमः |
यावन्तः हलन्तधातवः सेटः, तेषु ये लघूपधधातवः न, एषां किमपि कार्यं नास्ति— केवलं वर्णमेलनम् |
सामान्यहलन्ताः
यथा—
अर्च पूजायाम् → अर्च् → अर्च् + इतव्य → अर्चितव्यम्
चर्च परिभाषणहिंसातर्जनेषु → चर्च् → चर्च् + इतव्य → चर्चितव्यम्
टुयाचृ याञ्चायाम् → याच् → याच् + इतव्य → याचितव्यम्
घट चेष्टायाम् → घट् + इतव्य → घटितव्यम्
वन शब्दे → वन् + इतव्य → वनितव्यम्
प्रस् विस्तारे → प्रस् → प्रस् + इतव्य → प्रसितव्यम्
एवमेव—
पठ् + इतव्य → पठितव्यम्
वद् + इतव्य → वदितव्यम्
मील् + इतव्य → मीलितव्यम्
मूष् + इतव्य → मूषितव्यम्
एवमेव तुमुन् रूपाणि, तृच् रूपाणि च वक्तव्यानि |
पठितुं, वदितुं, मीलितुं, मूषितुं - तुमुन्नन्तानि |
पठिता, वदिता, मीलिता, मूषिता - तृजन्तानि |
ये सेट्-धातवः लघूपधाः, तेषां पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन उपधा-गुणः भवति |
सेट् इदुपधधातवः
लिख् + इतव्य → पुगन्तलघूपधस्य च (७.३.८६) → लेख् + इतव्य → लेखितव्यम्
मिद् + इतव्य → पुगन्तलघूपधस्य च (७.३.८६) → मेद् + इतव्य → मेदितव्यम्
चित् + इतव्य → पुगन्तलघूपधस्य च (७.३.८६) → चेत् + इतव्य → चेतितव्यम्
सेट् इदुपधधातुः एकः एव कुटादिगणीयः — डिप्-धातुः
गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इत्यनेन कुटादिगणीयेभ्यः धातुभ्यः ञित्-णित्-भिन्न-प्रत्ययः ङिद्वत् भवति | अतः एभ्यः धातुभ्यः क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधो भवति |
डिप् + इतुमुन् → डिपितुम्
गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) = इङ्-धातोः स्थाने यः गाङ्-धातुः तस्मात् च कुटादिगणीयेभ्यः धातुभ्यः ञित्-णित्-भिन्न-प्रत्ययः ङिद्वत् भवति | कुटादिगणे ३५ धातवः सन्ति; सर्वे धातवः तुदादिगणे सन्ति | कुट आदिर्येषां ते कुटादयः, बहुवीहिः | गाङ् च कुटादयश्च ते गाङ्कुटादयः, तेभ्यः कुटादिभ्यः | ञ् च ण् च तयोरितरेतरद्वन्द्वः ञ्णौ, ञ्णौ इतौ यस्य स ञ्णित् बहुव्रीहिः, न ञ्णित् अञ्णित्, द्वन्द्वगर्भो बहुव्रीहिः | सूत्रं स्वयं सम्पूर्णम्— गाङ्कुटादिभ्यः अञ्णित् ङित् |
क्क्ङिति च (१.१.५) = यः प्रत्ययः गित्, कित् अथवा ङित् अस्ति, अपि च तस्मात् प्रत्ययात् पूर्वं तस्य एव प्रत्ययस्य कारणतः इकः स्थाने गुणः वा वृद्धिः वा भवति स्म, सः (गुणः वृद्धिः) न भवति | ग् च क् च ङ् च तेषाम् इतरेतरद्वन्द्वः क्क्ङः; क्क्ङः इतः यस्य सः क्क्ङित्, तस्मिन् परे क्क्ङिति | द्वन्द्वगर्भबहुव्रीहिसमासः | अत्र ग्-स्थाने ककारः खरि च इत्यनेन चर्त्वसन्धिः | क्क्ङिति सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | इको गुणवृद्धी (१.१.३) इत्यस्य पूर्णतया अनुवृत्तिः; न धातुलोप आर्धधातुके (१.१.४) इत्यस्मात् न इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्— क्क्ङिति च इकः गुणवृद्धी न |
विज्-धातुः
विज इट् (१.२.२) = तुदादिगणीय-विज्-धातुतः ('ओविजी भयचलनयोः' इत्यस्मात्) सर्वे विधीयमानाः इडादि-प्रत्ययाः ङिद्वत् भवन्ति | उद्विजिता, उद्विजितुम्, उद्विजितव्यम् | इटिति किम्? उद्वेजनम्, उद्वेजनीयम् | विजः पञ्चम्यन्तम्, इट्-प्रथमान्तं, द्विपदमिदं सूत्रम् | गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इत्यस्मात् ङित् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्— विजः इट् ङित् |
यथा—
उद् + विज् + इतव्यत् → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणादेशः प्रसक्तः → प्रत्ययः सेट् अतः ङिद्वत्; तस्मात् क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधः → उद्विजितव्यम्
उद् + विज् + इतुम् → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणादेशः प्रसक्तः → प्रत्ययः सेट् अतः ङिद्वत्; तस्मात् क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधः → उद्विजितुम्
उद् + विज् + इतृ → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणादेशः प्रसक्तः → प्रत्ययः सेट् अतः ङिद्वत्; तस्मात् क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधः → उद्विजिता
सेट् उदुपधधातवः
ये सेट्-धातवः उदुपधाः, तेषां पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन उपधा-गुणः भवति |
मुद् + इतव्य→ पुगन्तलघूपधस्य च (७.३.८६) → मोद् + इतव्य → मोदितव्यम्
प्लुष् + इतव्य → पुगन्तलघूपधस्य च (७.३.८६) → प्लोष् + इतव्य → प्लोषितव्यम्
कुटादिगणीयाः सेट्-उदुपधधातवः
गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इत्यनेन कुटादिगणीयेभ्यः धातुभ्यः ञित्-णित्-भिन्न-प्रत्ययः ङिद्वत् भवति | अतः एभ्यः धातुभ्यः क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधो भवति |
कुटादिगणे हलन्तधातवः
धातुः | तव्यत् | तुमुन् | तृच् |
---|---|---|---|
डिप क्षेपे | डिपितव्यम् | डिपितुम् | डिपिता |
कुच सङ्कोचने | कुचितव्यम् | कुचितुम् | कुचिता |
गुज शब्दे | गुजितव्यम् | गुजितुम् | गुजिता |
कुटा कौटिल्ये | कुटितव्यम् | कुटितुम् | कुटिता |
पुट संश्लेषणे | पुटितव्यम् | पुटितुम् | पुटिता |
स्फुट विकसने | स्फुटितव्यम् | स्फुटितुम् | स्फुटिता |
मुट आक्षेपमर्दनयोः | मुटितव्यम् | मुटितुम् | मुटिता |
त्रुट छेदने | त्रुटितव्यम् | त्रुटितुम् | त्रुटिता |
तुट कलहकर्मणि | तुटितव्यम् | तुटितुम् | तुटिता |
चुट छेदने | चुटितव्यम् | चुटितुम् | चुटिता |
छुट छेदने | छुटितव्यम् | छुटितुम् | छुटिता |
जुट बन्धने | जुटितव्यम् | जुटितुम् | जुटिता |
लुट संश्लेषणे | लुटितव्यम् | लुटितुम् | लुटिता |
घुट प्रतिघाते | घुटितव्यम् | घुटितुम् | घुटिता |
गुड रक्षायाम् | गुडितव्यम् | गुडितुम् | गुडिता |
कुड बाल्ये | कुडितव्यम् | कुडितुम् | कुडिता |
पुड उत्सर्गे | पुडितव्यम् | पुडितुम् | पुडिता |
तुड तोडने | तुडितव्यम् | तुडितुम् | तुडिता |
थुड संवरणे | थुडितव्यम् | थुडितुम् | थुडिता |
स्थुड संवरणे | स्थुडितव्यम् | स्थुडितुम् | स्थुडिता |
स्फुड संवरणे | स्फुडितव्यम् | स्फुडितुम् | स्फुडिता |
चुड संवरणे | चुडितव्यम् | चुडितुम् | चुडिता |
व्रुड संवरणे | व्रुडितव्यम् | व्रुडितुम् | व्रुडिता |
क्रुड निमज्जने | क्रुडितव्यम् | क्रुडितुम् | क्रुडिता |
छुर छेदने | छुरितव्यम् | छुरितुम् | छुरिता |
गुरी उद्यमाने | गुरितव्यम् | गुरितुम् | गुरिता |
स्फुर सञ्चलने | स्फुरितव्यम् | स्फुरितुम् | स्फुरिता |
स्फुल सञ्चलने | स्फुलितव्यम् | स्फुलितुम् | स्फुलिता |
भृड निमज्जने | भृडितव्यम् | भृडितुम् | भृडिता |
कृड घनत्वे | कृडितव्यम् | कृडितुम् | कृडिता |
एतेषु धातुषु गुणनिषेधः भवति क्क्ङिति च (१.१.५) सूत्रेण
सेट् ऋदुपधधातवः
ये सेट्-धातवः ऋदुपधाः, तेषां पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन उपधा-गुणः भवति |
वृष् + इतव्य → पुगन्तलघूपधस्य च (७.३.८६) → वर्ष् + इतव्य → वर्षितव्यम्
हृष् + इतव्य → पुगन्तलघूपधस्य च (७.३.८६) → हर्ष् + इतव्य → हर्षितव्यम्
वृष् + इतुम् → पुगन्तलघूपधस्य च (७.३.८६) → वर्ष् + इतुम् → वर्षितुम्
हृष् + इतुम् → पुगन्तलघूपधस्य च (७.३.८६) → हर्ष् + इतुम् → हर्षितुम्
वृष् + इतृ → पुगन्तलघूपधस्य च (७.३.८६) → वर्ष् + इतृ → वर्षिता
हृष् + इतृ → पुगन्तलघूपधस्य च (७.३.८६) → हर्ष् + इतृ → हर्षिता
कुटादिगणीयौ सेटौ ऋदुपधधातू द्वौ— कृड्, भृड्
गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इत्यनेन कुटादिगणीयेभ्यः धातुभ्यः ञित्-णित्-भिन्न-प्रत्ययः ङिद्वत् भवति | अतः एभ्यः धातुभ्यः क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधो भवति |
कृड् + इतव्य → गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१), क्क्ङिति च (१.१.५) → कृडितव्यम्
भृड् + इतव्य → गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१), क्क्ङिति च (१.१.५) → भृडितव्यम्
कृड् + इतुम् → गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१), क्क्ङिति च (१.१.५) → कृडितुम्
भृड् + इतुम् → गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१), क्क्ङिति च (१.१.५) → भृडितुम्
कृड् + इतृ → गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१), क्क्ङिति च (१.१.५) → कृडिता
भृड् + इतृ → गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१), क्क्ङिति च (१.१.५) → भृडिता
कृप्-धातुः
कृप् + इतव्य → पुगन्तलघूपधस्य च (७.३.८६) → कर्प् + इतव्य → कृपो रो लः (८.२.१८) इत्यनेन् कृप्-धातोः रेफस्य लकारादेशः → कल्प् + इतव्य → कल्पितव्यम्
कृपो रो लः (८.२.१८) = कृप्-धातोः रेफस्य लकारादेशो भवति | र इति श्रुतिसामान्यं बोध्यम् | तेन यः केवलो रेफः, यश्च ऋकारस्थः तयोः द्वयोः अपि ग्रहणम् | लः इत्यपि श्रुतिसामान्यमेव | अतः आहत्य कृप्-धातोः यदा (गुणादेशं कृत्वा) रेफो भवति, तस्य रेफस्य स्थाने लकारादेशः; पुनः कृप्-धातोः ऋकारस्य यः रेफ-सदृश-अंशः, तस्य स्थाने लसदृश-अंशादेशो भवति— नाम ऋ-स्थाने ऌ | सूत्रे कृपो → कृप + उः इति विच्छेदः | कृप लुप्तषष्ठीकं पदम्, उः षष्ठ्यन्तं, रः षष्ठ्यन्तं, लः प्रथमान्तम्, अनेकपदमिदं सूत्रम् | कृपः इत्यस्य द्विवारम् आवृत्तिः | सूत्रं स्वयं सम्पूर्णम्— कृपः उः कृपः रः लः |
ग्रह्-धातुः
ग्रहोऽलिटि दीर्घः (७.२.३७) = एकाच्-ग्रहेः विहितस्य इटः दीर्घः स्यात् न तु लिटि |
ग्रह् + इतव्य → ग्रहोऽलिटि दीर्घः (७.२.३७) → ग्रह् + ईतव्य → ग्रहीतव्यम्
ग्रह् + इतुम् → ग्रहोऽलिटि दीर्घः (७.२.३७) → ग्रह् + ईतुम् → ग्रहीतुम्
ग्रह् + इतृ → ग्रहोऽलिटि दीर्घः (७.२.३७) → ग्रह् + ईतृ → ग्रहीता
चक्षिङ्-धातुः
चक्ष्-धातोः ख्या / क्शा इति आदेशौ | यद्यपि चक्ष्-धातुः सेट्, तथापि तस्य ख्या/क्शा इति धात्वादेशौ अनिटौ |
चक्ष् + तव्यत् → ख्या + तव्य → ख्यातव्यम्
चक्ष् + तव्यत् → क्शा + तव्य → क्शातव्यम्
चक्षिङः ख्याञ् (२.४.५४) | ख्यातव्यम् / क्शातव्यम् |
एवमेव
ख्यातुम् / क्शातुम् |
ख्याता / क्शाता |
चक्षिङ्-धातोः आर्धधातुकप्रत्यये परे ख्याञ्-आदेशः | किन्तु अत्र भाष्यकारो वदति यत् क्शादिरयमादेशः, इत्युक्तौ आदेशः 'ख्या' न अपि तु 'ख्शा', तदा चर्त्वादेशेन 'क्शा' भवति | अपि चा पूर्वत्रासिद्धम् (८.२.१) इति अधिकारे एकं वार्तिकम् अस्ति ख्शाञः शस्य यो वा वक्तवयः | अनेन ख्शाञ् इति आदेशस्य शकारस्य विकल्पेन यकारादेशो भवति | फलितार्थः अयं यत् आर्धधातुकप्रत्यये परे चक्षिङ्-धातोः स्थाने ख्याञ्, ख्शाञ् इति द्वौ आदेशौ सिद्धौ | एकवारं ख्याञ्, अपरस्मिन् पक्षे ख्शाञ् |
चक्षिङः ख्याञ् (२.४.५४) = चक्षिङः ख्याञादेशो भवति आर्धधातुके | चक्षिङः षष्ठ्यन्तं, ख्याञ् प्रथमान्तं, द्विपदमिदं सूत्रम् | आर्धधातुके (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— चक्षिङः ख्याञ् आर्धधातुके |
अज्-धातुः
अज्-धातोः वी इति आदेशः | यद्यपि अज्-धातुः सेट्, तथापि तस्य वी इति धात्वादेशः अनिट् |
अज् + तव्यत् → वी + तव्य → सार्वधातुकार्धधातुकयोः (७.३.८४) → वे + तव्य → वेतव्यम्
अजेर्व्यघञपोः (२.४.५६) | अज् → वेतव्यम्, वेतुं, वेता अपि |
अजेर्व्यघञपोः (२.४.५६) = अजेर्धातोः वी इत्ययमादेशः स्यादार्धधातुकविषये घञ् च अप् च वर्जयित्वा | अजेः षष्ठ्यन्तं, वी प्रथमान्तम्, अघञपोः सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | आर्धधातुके (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्—अजेः वी आर्धधातुके अघञपोः |
अनेन भ्वादिगणात् आरभ्य क्र्यादिगण-पर्यन्तं सर्वेषां सेटां हलन्तधातूनां रूपसिद्धिः समाप्ता |
३) भ्वादिगणात् आरभ्य क्र्यादिगण-पर्यन्तं सर्वेषां वेटाम् अनिटां च हलन्तधातूनां रूपसिद्धिः
हलन्तधातुषु १०२ धातवः अनिटः इति जानीमः | अपि च हलन्तधातुषु ३७ धातवः वेटः इत्यस्माभिः दृष्टम् | एतेषु पुनः २४ धातवः ऊदितः, ८ धातवः रधादयः, अपि च एकः निर्-उपसर्गपूर्वक-कुष्-धातुः | सम्प्रति एतेषां सर्वेषां तव्यत्, तुमुन्, तृच् रूपाणि साधयिष्यामः | धेयं यत् एते प्रत्ययाः तकारादयः | अतः सर्वत्र तकारे परे हल्-सन्धिः यथा भवति, तथैव अत्र सर्वत्र चिन्तनीयम् अस्ति |
कवर्गान्तधातवः
धातोः अन्तिमवर्णः ककारः, खकारः, अथवा गकारः चेत्, खरि च (८.४.५५) इत्यनेन चर्त्वं कृत्वा रूपसिद्धिः क्रियते |
एक एव एकाच् कवर्गान्तधातुः अनिट् अस्ति—
शक् + तव्यत् → खरि च (८.४.५५) → शक्तव्यम्
शक् + तुमुन् → खरि च (८.४.५५) → शक्तुम्
शक् + तृच् → खरि च (८.४.५५) → शक्ता
खरि च (८.४.५५) = झलः स्थाने चरादेशो भवति खरि परे | खरि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | झलां जश् झशि (८.४.५३) इत्यस्मात् झलां इत्यस्य अनुवृत्तिः; अभ्यासे चर्च (८.४.५४) इत्यस्मात् चर्च इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— झलां चर् खरि च संहितायाम् |
चवर्गान्तधातवः
एकाच्-चकारान्तधातवः - षड् धातवः अनिटः
पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन यथासङ्गं लघूपधधातूनाम् उपधागुणः भवति |
तदा सर्वत्र चोः कुः (८.२.३०) इत्यनेन कुत्वं, तदा खरि च (८.४.५५) इत्यनेन चर्त्वम् |
पच् + तव्य → चोः कुः (८.२.३०) → पक् + तव्य → खरि च (८.४.५५) + तव्य → पक् + तव्य → पक्तव्यम्
पच् + तुम् → चोः कुः (८.२.३०) → पक् + तुम् → खरि च (८.४.५५) + तुम् → पक् + तुम् → पक्तुम्
पच् + तृच् → चोः कुः (८.२.३०) → पक् + तृ → खरि च (८.४.५५) + तृ → पक् + तृ → पक्तृ → पक्ता, पक्त्री, पक्तृ
एवमेव अन्येषां धातूनां रूपाणि निर्मान्तु |
वच् + तव्यत् / तुमुन् / तृच् →
रिच् + तव्यत् / तुमुन् / तृच् →
विच् + तव्यत् / तुमुन् / तृच् →
सिच् + तव्यत् / तुमुन् / तृच् →
मुच् + तव्यत् / तुमुन् / तृच् →
पुगन्तलघूपधस्य च (७.३.८६) = पुगन्तस्य अङ्गस्य लघूपधस्य च इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | पुक् अन्ते यस्य तत् पुगन्तम्, लघ्वी उपधा यस्य तत् लघूपधम् | पुगन्तञ्च लघूपधञ्च तयोः पुगन्तलघूपधं समाहारद्वन्द्वः, तस्य पुगन्तलघूपधस्य | पुगन्तलघूपधस्य षष्ठ्यन्तं पदम्, च अव्ययपदं, द्विपदमिदं सूत्रम् | मिदेर्गुणः (७.३.८२) इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः; सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यस्य पूर्णानुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | इको गुणवृद्धी (१.१.३) इत्यनेन परिभाषा-सूत्रेण, इकः स्थानी भवति यत्र स्थानी नोक्तम् | अनुवृत्ति-सहितसूत्रम्— पुगन्तलघूपधस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः |
चोः कुः (८.२.३०) = चवर्गस्य स्थाने कवर्गादेशो भवति झलि पदान्ते च | चोः षष्ठ्यन्तं, कुः प्रथमान्तं, द्विपदमिदं सूत्रम् | झलो झलि (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात् अन्ते, च इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— चोः कुः झलि पदस्य अन्ते च |
वेट्-चकारान्तधातवः—तञ्चू, ओव्रश्चू
तञ्चू, ओव्रश्चू इत्येतौ द्वौ धातू वेटौ |
तञ्चू-धातुः
इडादिपक्षे—
तञ्च् + इतव्य → तञ्चितव्यम्
तञ्च् + इतुम् → तञ्चितुम्
तञ्च् + इतृ → तञ्चितृ → तञ्चिता
अनिडादिपक्षे—
अस्य साधनार्थं धेयं यत् वस्तुतस्तु नोपधधातूनां मूले दन्त्यनकारः एव अस्ति |
तन्च् + तव्य→ चोः कुः (८.२.३०) → तन्क् + तव्य → नश्चापदान्तस्य झलि (८.३.२४) → खरि च (८.४.५५) → तंक् + तव्य → अनुस्वारस्य ययि परसवर्णः (८.४.५८) → तङ्क्तव्यम्
तन्च् + तुमुन् → चोः कुः (८.२.३०) → तन्क् + तुम् → नश्चापदान्तस्य झलि (८.३.२४) → खरि च (८.४.५५) → तंक् + तुम् → अनुस्वारस्य ययि परसवर्णः (८.४.५८) → तङ्क्तुम्
तन्च् + तृच् → चोः कुः (८.२.३०) → तन्क् +तृ → नश्चापदान्तस्य झलि (८.३.२४) → खरि च (८.४.५५) → तंक् + तृ → अनुस्वारस्य ययि परसवर्णः (८.४.५८) → तङ्क्ता
नश्चापदान्तस्य झलि (८.३.२४) = अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति झलि परे | झल्-प्रत्याहारे वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णाः अपि च श्, ष्, स्, ह् इति वर्णाः अन्तर्भूताः | पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तः तस्य अपदान्तस्य | नः षष्ठ्यन्तं, च अव्ययपदम्, अपदान्तस्य षष्ठ्यन्तं, झलि सप्तम्यन्तं, अनेकपदमिदं सूत्रम् | मोऽनुस्वारः (८.३.२३) इत्यस्मात् मः, अनुस्वारः इत्यनयोः अनुवृत्तिः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अपदान्तस्य मः नः च अनुस्वारः झलि संहितायाम् |
अनुस्वारस्य ययि परसवर्णः (८.४.५८) = अनुस्वारस्य स्थाने परसवर्णादेशो भवति ययि परे | परस्य सवर्णः, परसवर्णः, षष्ठी तत्पुरुषः | अनुस्वारस्य षष्ठ्यन्तं, ययि सप्तम्यन्तं, परसवर्णः प्रथमान्तं, त्रिपदमिदं सूत्रम् | यय्-प्रत्याहारे श्, ष्, स्, ह् एतान् वर्जयित्वा सर्वे हल्-वर्णाः अन्तर्भूताः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अनुस्वारस्य ययि परसवर्णः संहितायाम् |
व्रश्च-धातुः
इडादिपक्षे—
व्रश्च् + इतव्य → व्रश्चितव्यम्
व्रश्च् + इतुम् → व्रश्चितुम्
व्रश्च् + इतृ → व्रश्चितृ → व्रश्चिता
अनिडादिपक्षे—
व्रश्च् + तव्यत् → स्कोः संयोगाद्योरन्ते च (८.२.२९) → व्रच् +तव्य → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) → व्रष् + तव्य → ष्टुना ष्टुः (८.४.४१) → व्रष्टव्यम्
प्रश्नः उदेति कथं स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यनेन शकारलोपः यदा सूत्रेण सकारलोपस्य विधानम् | सामान्यतया वदामः यत् 'वस्तुतः अत्र मूले सकारः आसीत्; श्चुत्वसन्धिना एव शकारः जातः' | अस्तु, तत्तु सत्यं; किन्तु अधुना शकारः अस्ति किल न तु सकारः | इति चेत् कथं वा स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यनेन सकारलोपः स्यात्?
अकृतव्यूहाः पाणिनीयाः (५६) इति परिभाषया नशिष्यमाणं निमित्तं न स्वीकर्तव्यम् इत्यस्मात् व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इत्यनेन श्चुत्वसन्धेः निमित्तचकारस्य जायमानात् नाशात् स्तोः श्चुना श्चुः (८.४.४०) इति सूत्रं न प्रवर्तनीयमेव | अतः सकारः तिष्ठति |
व्रस्च् + तव्यत् → स्कोः संयोगाद्योरन्ते च (८.२.२९) → व्रच् + तव्य → व्रष्टव्यम्
स्कोः संयोगाद्योरन्ते च (८.२.२९) = संयोगस्य प्रथमसदस्यः सकारः ककारः वा चेत्, संयोगस्य प्रथमसदस्यलोपो भवति न तु द्वितीयसदस्यस्य, झलि पदान्ते च | स् च क् च तयोरितरेतरद्वन्द्वः स्कौ, तयोः स्कोः | संयोगस्य आदि संयोगादि, तयोः संयोगाद्योः, षष्ठीतत्पुरुषः | संयोगान्तस्य लोपः (८.२.२३) इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः | झलो झलि (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— संयोगाद्योः स्कोः लोपः झलि पदस्य अन्ते च |
व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) = व्रश्च्, भ्रस्ज्, सृज्, मृज्, यज्, राज्, भ्राज्, छकारान्ताः शकारान्ताः चैषां धातूनाम् अन्तिमवर्णस्य स्थाने षकारादेशो भवति झलि पदान्ते च | अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव स्थाने षकारादेशः, न तु पूर्णपदस्य | व्रश्चश्च भ्रस्जश्च सृजश्च मृजश्च यजश्च राजश्च भ्राजश्च छश्च श् च तेषामितरेतरद्वन्दः व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशः, तेषां व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशाम् | व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षष्ठ्यन्तं, षः प्रथमान्तं, द्विपदमिदं सूत्रम् | अत्र 'जच्छशां' इति भागे छे च (६.१.७३) इत्यनेन तुक्-आगमे सति जत्छशां, तदा श्चुत्वसन्धौ जच्छशां | झलो झलि (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात् अन्ते, च इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः झलि पदस्य अन्ते च |
ष्टुना ष्टुः (८.४.४१) = दन्त्यसकारस्य तवर्गीयवर्णस्य च स्थाने मूर्धन्यषकारादेशः टवर्गीयवर्णादेशश्च भवतः, मूर्धन्यषकार-टवर्गीयवर्णयोः योजनेन |
व्यच्-धातुः
व्यच्-धातुः सेट् | अत्र विशेषवार्ता एवं यत् व्यचेः कुटादित्वमनसीति वक्तव्यम् इति वार्तिकेन व्यच्-धातोः परं यावन्तः अस्-भिन्न-कृत्-प्रत्ययाः सन्ति, ते सर्वे ङिद्वत् भवन्ति | तिङ्-प्रत्ययाः तथा न भवन्ति, यथा लुट्-लकारे | तत्र ’तास्’ वार्तिकस्य अन्तर्गते नास्ति अतः ङिद्वत् नास्ति | किन्तु अत्र तव्यत्, तुमुन्, तृच्-प्रत्ययाः कृत्-प्रत्ययाः न तु तिङ्, अतः एषाम् अत्र ङिद्वद्वात् व्यच् इति प्रकृतौ सम्प्रसारणं भवति ग्रहि-ज्या-वयि-व्यधि-वष्टि-विचति-वृश्चति-पृच्छति भृज्जतीनां ङिति च (६.१.१६) इति सूत्रेण |
व्यच् + इतव्य → ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च (६.१.१६) इत्यनेन सम्प्रसारणम् → विच् + इतव्य → ङिद्वद्वात् क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधः → विचितव्यम् |
एवमेव—
व्यच् + तुमुन् →
व्यच् + तृच् →
ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च (६.१.१६) = ग्रह्, ज्या, वय्, व्यध्, वश्, व्यच्, व्रश्च्, प्रच्छ्, भ्रस्ज्, एषां सम्प्रसारणं भवति किति ङिति प्रत्यये परे | इतरेतरद्वन्द्वः, षष्ठीविभक्तौ | ग्रहि-ज्या-वयि-व्यधि-वष्टि-विचति-वृश्चति-पृच्छति-भृज्जतीनां षष्ठ्यन्तं, ङिति सप्तम्यन्तं, च अव्ययं, त्रिपदमिदं सूत्रम् | वचिस्वपियजादीनां किति (६.१.१५) इत्यस्मात् किति इत्यस्य अनुवृत्तिः; ष्यङः सम्प्रसारणम् पुत्रपत्योस्तत्पुरुषे (६.१.१३) इत्यस्मात् सम्प्रसारणम् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति किति च सम्प्रसारणम् |
इग्यणः सम्प्रसारणम् (१.१.४५) = यणः स्थाने यः इक्-प्रत्याहारे स्थितवर्णः आदिष्टः, तस्य सम्प्रसारण-संज्ञा भवति | इक् प्रथमान्तं, यणः षष्ठ्यन्तं, सम्प्रसारणम् प्रथमान्तं, त्रिपदमिदं सूत्रम् | सूत्रं सम्पूर्णम्— यणः इक् सम्प्रसारणम् |
सम्प्रसारणाच्च (६.१.१०८) = सम्प्रसारण-संज्ञक-वर्णात् परम् अच् अस्ति चेत्, पूर्वपरयोः स्थाने एकः पूर्वरूपादेशो भवति | सम्प्रसारणात् पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | इको यणचि (६.१.७७) इत्यस्मात् अचि, अमि पूर्वः (६.१.१०७) इत्यस्मात् पूर्वः इत्यनयोः अनुवृत्तिः भवतः | एकः पूर्वपरयोः (६.१.८४), संहितायाम् (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहित-सूत्रम्— सम्प्रसारणात् च अचि पूर्वपरयोः एकः पूर्वः संहितायाम् |
न सम्प्रसारणे सम्प्रसारणम् (६.१.३७) = सम्प्रसारणे परे पूर्वं स्थितस्य सम्प्रसारणं न भवति | न अव्ययपदं, सम्प्रसारणे सप्तम्यन्तं, सम्प्रसारणं प्रथमान्तं, त्रिपदमिदं सूत्रम् | सूत्रं सम्पूर्णम्— न सम्प्रसारणे सम्प्रसारणम् |
प्रच्छ् धातुः
एकाच्-छकारान्तधातुः - एक एव छकारन्तधातुः अनिट् अस्ति |
च्छ्वोः शूडनुनासिके च (६.४.१९) इत्यनेन शत्वं, तदा व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इत्यनेन षत्वम् |
प्रच्छ् + तव्यत् → च्छ्वोः शूडनुनासिके च (६.४.१९) → प्रश् + तव्य → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) → प्रष् + तव्य → ष्टुना ष्टुः (८.४.४१) → प्रष्टव्यम्
एवमेव—
प्रच्छ् + तुमुन् →
प्रच्छ् + तृच् →
च्छ्वोः शूडनुनासिके च (६.४.१९) = तुक्-सहित-छकारस्य स्थाने शकारादेशः अपि च वकारस्य स्थाने ऊठ्-आदेशो भवति अनुनासिकादि-प्रत्यये परे, क्वि परे, झलादि-प्रत्यये च परे | च्छ् च व् च तयोरितरेतरद्वन्द्वः च्छ्वौ, तयोः च्छ्वोः | श् च ऊठ् च तयोः समाहारद्वन्द्वः शूड् | झलां जशोऽन्ते (८.२.३९) इत्यनेन ठकारस्य स्थाने डकारः | च्छ्वोः षष्ठ्यन्तं, शूड् प्रथमान्तम्, अनुनासिके सप्तम्यन्तं, च अव्ययपदम्, अनेकपदमिदं सूत्रम् | अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) इत्यस्मात् क्विझलोः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— च्छ्वोः अङ्गस्य शूड् क्विझलोः अनुनासिके च |
जकारान्तधातवः
एकाच्-जकारान्तधातवः - १५ धातवः अनिटः |
एषु केचन सामान्याः, केचन च विशेषाः | ये सामान्याः सन्ति ते लघूपधाः चेत् पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणकार्यं भवति; सामान्यानां सर्वेषां हल्सन्धिः भवति चोः कुः (८.२.३०) च खरि च (८.४.५५) चेति सूत्राभ्याम् |
त्यज् + तव्यत् → चोः कुः (८.२.३०) → त्यग् + तव्य → खरि च (८.४.५५) → त्यक्तव्यम्
भज् + तुमुन् → चोः कुः (८.२.३०) → भग् + तव्य → खरि च (८.४.५५) → भक्तुम्
निज् + तृच् → पुगन्तलघूपधस्य च (७.३.८६) → नेज् + तृ → चोः कुः (८.२.३०) → खरि च (८.४.५५) → नेक्ता
एवमेव अन्येषां जकारान्तधातूनां रूपाणि साध्यन्ते |
विज् + तव्यत् →
भुज् + तव्यत् →
रुज् + तव्यत् →
युज् + तव्यत् →
भञ्ज् + तव्यत् →
रञ्ज् + तव्यत् →
स्वञ्ज् +तव्यत् →
सञ्ज् + तव्यत् →
विशिष्ट-अनिट्-जकारान्तधातवः
धातौ आगमः
मस्ज् - मस्जिनशोर्झलि (७.१.६०)
सृज् - सृजिदृशोर्झल्यमकिति (६.१.५८)
मस्ज्-धातुः
मस्ज्-धातोः नुमागमः भवति झलादिप्रत्यये परे |
मस्जिनशोर्झलि (७.१.६०) = मस्ज्-धातोः च नश्-धातोः च नुम्-आगमो भवति झालादि-प्रत्यये परे | मस्जिश्च नश् च तयोरितरेतरद्वन्द्वः मस्जिनशौ, तयोर्मस्जिनशोः | मस्जिनशोः षष्ठ्यन्तं, झलि सप्तम्यन्तं, द्विपदमिदं सूत्रम् | इदितो नुम् धातोः (७.१.५८) इत्यस्मात् नुम् इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः, येन 'प्रत्यय'-पदस्यापि सूत्रार्थे आक्षेपः | अनुवृत्ति-सहितसूत्रम्— मस्जिनशोः अङ्गस्य नुम् झलि प्रत्यये |
मस्जेरन्त्यात्पूर्व नुम् वक्तव्यः इति वार्तिकेन मस्ज्-धातोः नुम्-आगमः भवति अन्त्यात् वर्णात् पूर्वम् |
मस्ज् + तव्यत् → मस्न्ज् + तव्य → स्कोः संयोगाद्योरन्ते च (८.२.२९) → मन्ज् + तव्य → चोः कुः (८.२.३०) → मन्ग् + तव्य → नश्चापदान्तस्य झलि (८.३.२४) → मंग् → तव्य → खरि च (८.४.५५) → मंक् + तव्य → अनुस्वारस्य ययि परसवर्णः (८.४.५८) → मङ्क्तव्यम्
एवमेव—
मस्ज् + तुमुन् →
मस्ज् + तृच् →
स्कोः संयोगाद्योरन्ते च (८.२.२९) = संयोगस्य प्रथमसदस्यः सकारः ककारः वा चेत्, संयोगस्य प्रथमसदस्यलोपो भवति न तु द्वितीयसदस्यस्य, झलि पदान्ते च | स् च क् च तयोरितरेतरद्वन्द्वः स्कौ, तयोः स्कोः | संयोगस्य आदि संयोगादि, तयोः संयोगाद्योः, षष्ठीतत्पुरुषः | संयोगान्तस्य लोपः (८.२.२३) इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः | झलो झलि (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— संयोगाद्योः स्कोः लोपः झलि पदस्य अन्ते च |
नश्चापदान्तस्य झलि (८.३.२४) = अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति झलि परे | झल्-प्रत्याहारे वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णाः अपि च श्, ष्, स्, ह् इति वर्णाः अन्तर्भूताः | पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तः तस्य अपदान्तस्य | नः षष्ठ्यन्तं, च अव्ययपदम्, अपदान्तस्य षष्ठ्यन्तं, झलि सप्तम्यन्तं, अनेकपदमिदं सूत्रम् | मोऽनुस्वारः (८.३.२३) इत्यस्मात् मः, अनुस्वारः इत्यनयोः अनुवृत्तिः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अपदान्तस्य मः नः च अनुस्वारः झलि संहितायाम् |
अनुस्वारस्य ययि परसवर्णः (८.४.५८) = अनुस्वारस्य स्थाने परसवर्णादेशो भवति ययि परे | परस्य सवर्णः, परसवर्णः, षष्ठी तत्पुरुषः | अनुस्वारस्य षष्ठ्यन्तं, ययि सप्तम्यन्तं, परसवर्णः प्रथमान्तं, त्रिपदमिदं सूत्रम् | यय्-प्रत्याहारे श्, ष्, स्, ह् एतान् वर्जयित्वा सर्वे हल्-वर्णाः अन्तर्भूताः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अनुस्वारस्य ययि परसवर्णः संहितायाम् |
सृज्-धातुः
सृजिदृशोर्झल्यमकिति (६.१.५८) इत्यनेन सृज्-धातोः अम्-आगमो भवति कित्-भिन्न-झलादि प्रत्यये परे |
सृज् + तव्यत् → सृजिदृशोर्झल्यमकिति (६.१.५८) → सृज् + अम् + तव्य → सृ-अ-ज् + तव्य → इको यणचि (६.१.७६) → स्रज् + तव्य → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) → स्रष् + तव्य → ष्टुना ष्टुः (८.४.४१) → स्रष्टव्य → स्रष्टव्यम्
एवमेव—
सृज् + तुमुन् →
सृज् + तृच् →
सृजिदृशोर्झल्यमकिति (६.१.५८) = सृज्-धातोः च दृश्-धातोः च अम्-आगमो भवति कित्-भिन्न-झलादि प्रत्यये परे | सृजिश्च दृश्च तयोरितरेत्तरद्वन्द्वः सृजिदृशौ, तयोः सृजिदृशोः | न कित् अकित् नञ्तत्पुरुषः, तस्मिन् अकिति | सृजिदृशोः षष्ठ्यन्तं, झलि सप्तम्यन्तम्, अम् प्रथमान्तम्, अकिति सप्तम्यन्तम्,अनेकपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णाम्— सृजिदृशोः अम् झलि अकिति |
धात्वादेशः
भ्रस्ज् - भ्रस्जो रोपधयोः रमन्यतरस्याम् (६.४.४७)
अज्-धातुः - अजेर्व्यघञपोः (२.४.५६)
विज्-धातुः - विज इट् (१.२.२)
भ्रस्ज्-धातुः
भ्रस्जो रोपधयोः रमन्यतरस्याम् (६.४.४७) |
भ्रस्ज् → भर्ष्टव्यं, भ्रष्टव्यम् इति तव्यन्तरूपद्वयम् |
एवमेव तुमुन् तृच् प्रसङ्गे अपि विकल्पेन रूपद्वयम् |
भ्रस्जो रोपधयोः रमन्यतरस्याम् (६.४.४७) = भ्रस्ज्-धातोः रेफस्य उपधावर्णस्य च स्थाने विकल्पेन रम्-आगमो भवति आर्धधातुक-प्रत्यये परे | 'रम्' इति आगमे अकारः उच्चारणार्थः; मकारः इत्संज्ञकश्च | कौमुदीकारः प्रतिपादयति यदत्र 'स्थाने' इत्यपि अस्ति, ‘आगमः' इत्यपि अस्ति; एकस्मिन्नेव सूत्रे उभे कार्ये | नाम 'रेफस्य उपधावर्णस्य च स्थाने’ भवति—स्थानषष्ठीनिर्देशाद्रोपधयोर्निवृत्तिः;अपि च रम् इति आगमः अस्ति मित्त्वादन्त्यादचः परः | रम् इत्यस्मिन् अकारः उच्चारणार्थः | रश्च उपधा च तयोरितरेतरद्वन्द्वो रोपधे, तयोः रोपधयोः | भ्रस्जः षष्ठ्यन्तं, रोपधयोः षष्ठ्यन्तं, रमश्च प्रथमान्तम्, अन्यतरस्यां सप्त्यम्यन्तम्, अनेकपदमिदं सूत्रम् | आर्धधातुके (६.४.४६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूर्त्रं— भ्रस्जो रोपधयोः रम् अन्यतरस्याम् आर्धधातुके |
भ्रस्ज् + तव्य → भ्रस्जो रोपधयोः रमन्यतरस्याम् (६.४.४७) इत्यनेन भ्रस्ज्-धातोः रेफस्य उपधावर्णस्य च स्थाने, रम्-आगमः च → रेफसकारयोः निवृत्तिः → भज् → रेफः इति आगमः → भर्ज् → भर्ज् + तव्य → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इत्यनेन व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः झलि → भर्ष् + तव्य → ष्टुना ष्टुः (८.४.४१) → भर्ष्टव्यम्
तदभावे—
भ्रस्ज् + तव्य → स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यनेन संयोगाद्योः स्कोः लोपः झलि → भ्रज् + तव्य → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इत्यनेन व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः झलि → भ्रष् + तव्य → ष्टुना ष्टुः (८.४.४१) → भ्रष्टव्यम्
एवमेव—
भ्रस्ज् + तुमुन् →
भ्रस्ज् + तृच् →
अज् धातुः
अज् + तव्यत् → वेतव्यम् |
एवमेव—
अज् + तुमुन् →
अज् + तृच् →
अजेर्व्यघञपोः (२.४.५६) = अजेर्धातोः वी इत्ययमादेशः स्यादार्धधातुकविषये घञ् च अप् च वर्जयित्वा | अजेः षष्ठ्यन्तं, वी प्रथमान्तम्, अघञपोः सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | आर्धधातुके (२.४.३५) इत्यस्य अधिकारः |अनुवृत्ति-सहितसूत्रम्—अजेः वी आर्धधातुके अघञपोः |
विज् धातुः
उद् + विज् + इतव्य → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणादेशः प्रसक्तः → प्रत्ययः सेट् अतः ङिद्वत्; तस्मात् क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधः → उद्विजितव्यम्
एवमेव—
उद् + विज् + इतुम् →
उद् + विज् + इतृ →
विज इट् (१.२.२) = तुदादिगणीय-विज्-धातुतः ('ओविजी भयचलनयोः' इत्यस्मात्) सर्वे विधीयमानाः इडादि-प्रत्ययाः ङिद्वत् भवन्ति | उद्विजितव्यम्, उद्विजितुम्, उद्विजिता | इटिति किम्? उद्वेजनम्, उद्वेजनीयम् | विजः पञ्चम्यन्तम्, इट्-प्रथमान्तं, द्विपदमिदं सूत्रम् | गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इत्यस्मात् ङित् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्— विजः इट् ङित् |
यज्-धातुः - सन्धिविशेषः
यज् - व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इत्यनेन झलि परे षत्त्वम् |
यज् + तव्यत् → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) → यष् + तव्य → ष्टुना ष्टुः (८.४.४१) → यष्टव्यम्
एवमेव—
यज् + तुमुन् →
यज् + तृच् →
वेट्-धातवः - अञ्जू, मृजू
अञ्ज्-धातुः
इडादिपक्षे—
अञ्ज् + इतव्य → अञ्जितव्यम्
एवमेव—
अञ्ज् + इतुम् →
अञ्ज् + इतृ →
अनिडादिपक्षे—
अन्ज् + तव्य → चोः कुः (८.२.३०) → अन्ग् + तव्य → नश्चापदान्तस्य झलि (८.३.२४) → खरि च (८.४.५५) → अनुस्वारस्य ययि परसवर्णः (८.४.५८) → अङ्क्तव्यम्
एवमेव—
अञ्ज् + तुमुन् →
अञ्ज् + तृच् →
मृज्-धातुः
मृजेर्वृद्धिः (७.२.११४) इत्यनेन मृज्-धातोः इकः वृद्धिः भवति सार्वधातुके च आर्धधातुके च प्रत्यये परे |
इडादिपक्षे—
मृज् + इतव्य → मृजेर्वृद्धिः (७.२.११४) → मार्जितव्यम्
एवमेव—
मृज् + इतुम् →
मृज् + इतृ →
अनिडादिपक्षे—
मृज् + तव्य → मृजेर्वृद्धिः (७.२.११४) → मार्ज् + तव्य → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) → मार्ष्टव्यम्
एवमेव—
मृज् + तुमुन् →
मृज् + तृच् →
मृजेर्वृद्धिः (७.२.११४) = मृज्-धातोः इकः वृद्धिः भवति सार्वधातुके च आर्धधातुके च प्रत्यये परे | अङ्गकार्यत्वात् प्रत्ययः परे अस्त्येव; स च प्रत्ययः धातोः भवति इति कृत्वा सार्वधातुकम् अथवा आर्धधातुकं भवेदेव | मृजेः षष्ठ्यन्तं, वृद्धिः प्रथमान्तं, द्विपदमिदं सूत्रम् | इकोगुण्वृद्धी (१.१.३) इत्यस्मात् परिभाषासूत्रात् इकः इत्यस्य षष्ठ्यन्ता अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— मृजेः अङ्गस्य इकः वृद्धिः |
तवर्गान्तधातवः
तकारान्ताः थकारान्ताः च धातवः सर्वे सेटः | एकाच्-दकारान्तधातवः - १५ धातवः अनिटः | एते सर्वे सामान्याः— लघूपधाः चेत् पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणकार्यं भवति; सर्वेषां हल्सन्धिः भवति खरि च (८.४.५५) इति सूत्रेण |
अद् + तव्य → खरि च (८.४.५५) → अत् + तव्य → अत्तव्यम् |
पद् + तव्य → खरि च (८.४.५५) → पत् + तव्य → पत्तव्यम् |
सद् + तव्यत् / तुमुन् / तृच् →
शद् + तव्यत् / तुमुन् / तृच् →
हद् + तव्यत् / तुमुन् / तृच् →
खिद् + तव्यत् / तुमुन् / तृच् →
छिद् + तव्यत् / तुमुन् / तृच् →
भिद् + तव्यत् / तुमुन् / तृच् →
विद्+ तव्यत् / तुमुन् / तृच् →
स्विद् + तव्यत् / तुमुन् / तृच् →
क्षुद् + तव्यत् / तुमुन् / तृच् →
तुद् + तव्यत् / तुमुन् / तृच् →
नुद् + तव्यत् / तुमुन् / तृच् →
स्कन्द + तव्यत् / तुमुन् / तृच् →
दकारान्तधातुषु द्वौ धातू वेटौ - क्लिद्, स्यन्द्
क्लिद्-धातुः
इडादिपक्षे—
क्लिद् + इतव्य → पुगन्तलघूपधस्य च (७.३.८६) → क्लेदितव्यम्
एवमेव—
क्लिद् + इतुम् →
क्लिद् + इ+ तृच् →
अनिडादिपक्षे—
क्लिद् + तव्यत् → पुगन्तलघूपधस्य च (७.३.८६) → क्लेद् + तव्यत् → खरि च (८.४.५५) → क्लेत्तव्यम्
एवमेव—
क्लिद् + तुमुन् →
क्लिद् + तृच् →
स्यन्द्-धातुः
इडादिपक्षे—
स्यन्द् + इतव्यत् → स्यन्दितव्यम्
एवमेव—
स्यन्द् + इतुम् →
स्यन्द् + इ + तृच् →
अनिडादिपक्षे—
स्यन्द् + तव्यत् → स्यन्तव्यम्
एवमेव—
स्यन्द् + तुमुन् →
स्यन्द् + तृच् →
एकाच्-धकारान्तधातवः - १० धातवः अनिटः | एते सर्वे सामान्याः— लघूपधाः चेत् पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणकार्यं भवति; सर्वेषां हल्सन्धिः भवति झषस्तथोर्धोऽधः (८.२.४०), झलां जश् झशि (८.४.५३) इति सूत्राभ्याम् |
१) झषस्तथोर्धोऽधः इत्यनेन प्रत्ययादौ त्, थ् इत्यनयोः स्थाने धकारादेशो भवति |
झषस्तथोर्धोऽधः (८.२.४०) = झष्-उत्तरस्य तकारथकारयोः स्थाने धकारादेशो भवति, धा-धातुं वर्जयित्वा | तश्च थ् च तथौ इतरेतरद्वन्द्वः; तयोः, तथोः | तकारोत्तर-अकारः उच्चारणार्थम् अस्ति; अग्रे 'धः' इत्यस्य धकारोत्तर-अकारः अपि तथा | न धा, अधा नञ्तत्पुरुषः, तस्मात् अधः | झषः पञ्चम्यन्तं, तथोः षष्ठ्यन्तं, धः प्रथमान्तम्, अधः पञ्चम्यन्तम्, अनेकपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— झषः तथोः धः अधः |
२) तदा झलां जश् झशि इत्यनेन धात्वन्ते चतुर्थवर्णस्य स्थाने तृतीयादेशो भवति |
झलां जश् झशि (८.४.५३) = झलां स्थाने जशादेशो भवति झशि परे | स्थानेऽन्तरतमः (१.१.५०) इत्यनेन जश्-वर्णेषु वर्णनिर्धारणम् | झलां षष्ठ्यन्तं, जशः प्रथमान्तम्, झशि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | झश्-प्रत्याहारे वर्गाणां तृतीयचतुर्थाः च वर्णाः अन्तर्भूताः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— झलां जश् झशि संहितायाम् |
सिध् + तव्यत् → पुगन्तलघूपधस्य च → सेध् + तव्य → झषस्तथोर्धोऽधः (८.२.४०) → सेध् + धव्य → झलां जश् झशि (८.४.५३) → सेद् + धव्य → सेद्धव्यम्
एवमेव—
सिध् + तुमुन् →
सिध् + तृच् →
व्यध् + तव्यत् / तुमुन् / तृच् →
क्रुध् + तव्यत् / तुमुन् / तृच् →
क्षुध् + तव्यत् / तुमुन् / तृच् →
बुध् + तव्यत् / तुमुन् / तृच् →
युध् + तव्यत् / तुमुन् / तृच् →
शुध् + तव्यत् / तुमुन् / तृच् →
राध् + तव्यत् / तुमुन् / तृच् →
साध् + तव्यत् / तुमुन् / तृच् →
बन्ध् + तव्यत् / तुमुन् / तृच् →
द्वौ धकारान्तौ वेटौ धातू - सिध्, रध्
सिध्-धातुः
इडादिपक्षे—
सिध् + इतव्य → सेधितव्यम्
एवमेव—
सिध् + इतुम् →
सिध् + इतृ →
अनिडादिपक्षे—
सिध् + तव्यत् → सेध् + तव्य → सेध् + धव्य → सेद् + धव्य → सेद्धव्यम्
एवमेव—
सिध् + तुमुन् →
सिध् + तृच् →
रध्-धातुः
रधिजभोरचि (७.१.६१) इत्यनेन रध्-धातोः, जभ्-धातोः च नुमागमः अजादिप्रत्यये परे | परन्तु—नेट्यलिटि रधेः (७.१.६२) इत्यनेन रध्-धातोः नुमागमः न भवति इडादौ लिट्-भिन्नप्रत्यये परे | अतः तव्यत् , तुमुन् , तृच् प्रत्ययानां योजनसमये रध्-धातोः नुमागमो नास्ति |
इडादिपक्षे—
रध् + इतव्य → रधितव्यम्
एवमेव—
रध् + इतुम् →
रध् + इतृ →
अनिडादिपक्षे—
रध् + तव्यत् → झषस्तथोर्धोऽधः (८.२.४०), झलां जश् झशि (८.४.५३) इति सन्धिकार्यद्वयेन → रद्धव्यम
एवमेव—
रध् + तुमुन् →
रध् + तृच् →
एकाच्-नकारान्तधातवः
द्वौ धातू अनिटौ - मन्, हन्
अत्र नश्चापदान्तस्य झलि (८.३.२४), अनुस्वारस्य ययि परसवर्णः (८.४.५८) इति सूत्राभ्याम् अनुस्वारः, तदा परसवर्णादेशः |
मन् + तव्यत् → नश्चापदान्तस्य झलि (८.३.२४), अनुस्वारस्य ययि परसवर्णः (८.४.५८) इति सूत्राभ्याम् → मन्तव्यम्
एवमेव—
मन् + तुमुन् →
मन् + तृच् →
हन् + तव्यत् → नश्चापदान्तस्य झलि (८.३.२४), अनुस्वारस्य ययि परसवर्णः (८.४.५८) इति सूत्राभ्याम्→ हन्तव्यम्
एवमेव—
हन् + तुमुन् →
हन् + तृच् →
एतावता अनिट् नकारान्तधातूनां चिन्तनं समाप्तम् |
पवर्गान्तधातवः
एकाच्-पकारान्तधातवः - १३ धातवः अनिटः | एषु दश धातवः सामान्याः; त्रयः ये ऋदुपधधातवः, तेषां विशिष्टकार्यम् |
दश सामान्यपकारान्ताः अनिट्-धातवः
दश सामान्यपकारान्ताः अनिट्-धातवः—
तप् + तव्यत् / तुमुन् / तृच् → खरि च (८.४.५५) → तप्तव्यम् / तप्तुम् / तप्ता
वप् + तव्यत् / तुमुन् / तृच् →
शप् + तव्यत् / तुमुन् / तृच् →
स्वप् + तव्यत् / तुमुन् / तृच् →
क्षिप् + तव्यत् / तुमुन् / तृच् →
तिप् + तव्यत् / तुमुन् / तृच् →
लिप् + तव्यत् / तुमुन् / तृच् →
छुप् + तव्यत् / तुमुन् / तृच् →
लुप् + तव्यत् / तुमुन् / तृच् →
आप् + तव्यत् / तुमुन् / तृच् →
तृप्, दृप्, सृप् एते त्रयः धातवः अनुदात्ताः च ऋदुपधाः
तृप्, दृप्, सृप् एते त्रयः धातवः अनुदात्ताः च ऋदुपधाः च इत्यतः विकल्पेन तेषाम् अमागमो भवति | अधस्थसूत्रद्वयं दृश्यताम्—
एकाच उपदेशेऽनुदात्तात् (७.२.१०)
एकाच उपदेशेऽनुदात्तात् (७.२.१०) = यः औपदेशिकधातुः एकाच् अपि अनुदात्तः अपि अस्ति, तस्मात् विहितस्य प्रत्ययस्य इडागमो न भवति |
अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् (६.१.५९)
अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् (६.१.५९) = उपदेशे अनुदात्तः यः ऋदुपधः तस्य अम्-आगमः विकल्पेन भवति झलादौ अकिति प्रत्यये परे | तृप्, दृप्, सृप्, मृश्, स्पृश्, कृष् (भ्वादि,तुदादि च) इति सप्त धातवः अनुदात्ताः च ऋदुपधाः | ऋत् उपधायां यस्य सः ऋदुपधः बहुव्रीहिः, तस्य ऋदुपधस्य | अनुदात्तस्य षष्ठ्यन्तं, च अव्ययपदम्, ऋदुपधस्य षष्ठ्यन्तम्, अन्यतरस्यां सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | आदेच उपदेशेऽशिति (६.१.४५) इत्यस्मात् उपदेशे इत्यस्य अनुवृत्तिः | सृजिदृशोर्झल्यमकिति (६.१.५८) इअत्यस्मात् झलि, अम्, अकिति इत्येषाम् अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— उपदेशे अनुदात्तस्य ऋदुपधस्य अम् झलि अकिति अन्यतरस्याम् |
सृप्, स्पृश्, मृश्, कृष् इत्येते चत्वारः धातवः अनिटः
सृप्, स्पृश्, मृश्, कृष् इत्येते चत्वारः धातवः अनिटः; तृप्, दृप् इत्येतौ द्वौ धातू वेटौ |
तृप्, दृप् इत्येतौ द्वौ धातू वेटौ
तृप्, दृप् इत्येतौ द्वौ धातू तौ एव यौ अनिट्-हलन्तधातुपाठे उक्तौ— तृपँ प्रीणने दि प० (तृप्यति), दृपँ हर्षमोहनयोः दि प० (दृप्यति) | तर्हि कथम् अत्र वेट्-धातुषु अपि पठितौ ? वस्तुतस्तु एतौ द्वौ धातू मूलतः 'अनुदात्तौ' | अनुदात्तः नाम कः अपि च कथं जानीमः के के धातवः अनुदात्ताः ? अनुदात्तः धातोः एका संज्ञा; अत्र पाणिनिना प्रसङ्गवशात् द्वयोः सूत्रयोः अस्याः संज्ञायाः उपयोगः कृतः— एकाच उपदेशेऽनुदात्तात् (७.२.१०), अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् (६.१.५९) | तर्हि 'अनुदात्तः' इति संज्ञा उपयुज्यते अष्टाध्याय्यां, किन्तु अस्मिन् ग्रन्थे के के धातवः अनुदात्ताः इति नोक्तम | प्रायः पाणिनेः धातुपाठे दत्तं स्यात् परन्तु तादृशग्रन्थः आधुनिकयुगे लुप्तः | तर्हि सूत्रद्वयस्य दर्शनेन प्रकटमस्ति यत् अस्याः संज्ञायाः महत्त्वमस्ति | अधुना किं प्रमाणं कस्य कस्य धातोः अनुदात्तसंज्ञा ?
महाभाष्ये दीयते यत् हलन्तधातुषु १०२ धातवः अनुदात्ताः | अपि च एवमपि दीयते यत् अजन्तेषु १२ +सर्वे ऊकारान्ताः च ॠकारान्ताः च सेटः; तान् विहाय सर्वे अजन्ताः अनिटः | तत्र एकाच उपदेशेऽनुदात्तात् (७.२.१०) इति सामान्यसूत्रेण यः धातुः एकाच् च अनुदात्तः च, तस्मात् विहितस्य प्रत्ययस्य इडागमो न भवति | परन्तु त्रिभिः सूत्रैः विकल्पेन इडागमः विधीयते | एभिः त्रिभिः सूत्रैः धातुभ्यः इडागमः वा भवति; तेषु धातुषु केवलं द्वौ धातू अनुदात्तौ— तृप्, दृप् | येषाम् इडागमः वा भवति, तेषु तृप्, दृप् इति धातू विहाय अवशिष्टधातवः सर्वे सेट् इति क्षेत्रात् स्वीकृताः |
एषु च त्रिषु सूत्रेषु एकमस्ति रधादिभ्यश्च (७.२.४५), येन विशिष्टसूत्रेण रध्, नश्, तृप्, दृप्, द्रुह्, मुह्, ष्णुह्, ष्णिह् इत्येभ्यः धातुभ्यः वलादेरार्धधातुकस्य इडागमः विकल्पेन भवति | एवञ्च रधादिभ्यश्च (७.२.४५) इति सूत्रम् एकाच उपदेशेऽनुदात्तात् (७.२.१०) इति सामान्यसूत्रस्य अपवादः | एकाच उपदेशेऽनुदात्तात् (७.२.१०) इति सामान्यसूत्रेण इडागमनिषेधः भवति स्म, तदा रधादिभ्यश्च (७.२.४५) इत्यनेन विकल्पेन विधीयते | त्रीणि अपि वेट्-विधायकसूत्राणि इडागमनिषेधापवादाः वा इडागमविधानापवादाः वा भवन्ति | तृप्, दृप् स्वीकृत्य इडागमनिषेधापवादाः; अन्यान्नपि वेट्-धातून् स्वीकृत्य इडागमविधानापवादाः |
बोध्यं यत् अष्टाध्याय्यां केवलम् 'इट्' शब्दः लभ्यते; ‘सेट्', 'अनिट्', ‘वेट्' इत्येते त्रयः शब्दाः अष्टाध्याय्यां न लभ्यन्ते | तर्हि इट् इति संज्ञा लभ्यते; अपि च 'अनुदात्तः' इत्यपि लभ्यते | सौकर्यार्थं ‘सेट्', 'अनिट्', ‘वेट्' इति वदामः, परन्तु मूलसंज्ञा अस्ति 'अनुदात्तः' |
अतः अष्टाध्याय्याः च महाभाष्यस्य च पठनेन धातुस्वभावप्रसङ्गे किं जानीमः ? महाभाष्यात् जानीमः के धातवः अनुदात्ताः | अतः 'स्वभावतः', ‘मूलतः' धातुः अनुदात्तः अस्ति न वा इति जानीमः, न तु ‘सेट्', 'अनिट्', ‘वेट्' | धातुः अनुदात्तः चेत्, एकाच उपदेशेऽनुदात्तात् (७.२.१०) इति सूत्रेण सामान्यतया तस्मात् धातुतः इडागमः न भवति, नाम स च धातुः 'अनिट्' इति वदामः | अपि च अनुदात्तः नास्ति चेत्, उदात्तः—नाम धातुतः इडागमः विधीयते—धातुः 'सेट्' | एवं च महाभाष्यस्य द्वारा के धातवः अनुदात्ताः, के च उदात्ताः च इति ज्ञायते | तादा अष्टाध्याय्यं त्रिभिः सूत्रैः केभ्यः धातुभ्यः इडागमः विकल्पेन विधीयते—नाम के धातवः 'वेटः'—इति ज्ञायते |
आहत्य तृप्, दृप् इति द्वौ धातू मूलतः अनुदात्तौ; परन्तु किमर्थम् अनुदात्तौ इति चेत्, येन इडागमनिषेधः स्यात् इति तु नास्ति यतोहि रधादिभ्यश्च (७.२.४५) इत्यनेन साक्षात् उच्यते यत् अनयोः धात्वोः इडागमः विकल्पेन विधीयते | तर्हि तृप्, दृप् इत्यनयोः द्वयोः अनुदात्तत्वं किमर्थम् उक्तम् ? येन अमागमः भवेत् | अनयोः द्वयोः धात्वोः, अनिट्ट्वेन सह, कोऽपि सम्बन्धो नास्ति | अनयोः अनुदात्तत्वं तर्हि किमर्थम् उक्तम् ? अमागमार्थम् | येन अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् (६.१.५९) इत्यनेन अम्-आगमः विकल्पेन विधीयेत |
धेयं यत् यद्यपि एतौ द्वौ धातू वेटौ—नाम इडामः भवति विकल्पेन—तथापि अम्-आगमपक्षे इडागमसहितरूपं न भवति—यतोहि झलादौ प्रत्यये परे एव अमागमः विधीयते | अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् (६.१.५९) इत्यनेन उपदेशे अनुदात्तः यः ऋदुपधः तस्य अम्-आगमः विकल्पेन भवति झलादौ अकिति प्रत्यये परे | तर्हि रधादिभ्यश्च (७.२.४५) इत्यनेन एताभ्यां द्वाभ्यां धातुभ्याम् इडागमः विकल्पेन विधीयते, किन्तु इडागमः न भवति चेदव अमागमः विधीयते |
रधादिभ्यश्च (७.२.४५)
रधादिभ्यश्च (७.२.४५) = रध्, नश्, तृप्, दृप्, द्रुह्, मुह्, ष्णुह्, ष्णिह् इत्येभ्यः धातुभ्यः वलादेरार्धधातुकस्येड् वा स्यात् |
अनिडादि-तव्यत्-तुमुन्-तृच्-प्रत्ययाः झलादि-अकितः, अतः तेषु परेषु अम्-आगमो भवति | तदा इको यणचि (६.१.७६) इत्यनेन यण्-आदेशः |
सृप्-धातुः अनिट्
सृप् + तव्यत् → अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् (६.१.५९) इत्यनेन अम्-आगमः विकल्पेन भवति झलादौ अकिति प्रत्यये परे → सृ + अम् + प् + तव्य → सृ + अ + प् + तव्य → इको यणचि (६.१.७६) → स्रप् + तव्य → खरि च (८.४.५५) → स्रप्तव्यम्
यस्मिन् पक्षे अम्-आगमो न भवति—
सृप् + तव्यत् → पुगन्तलघूपधस्य च (७.३.८६) → सर्प् + तव्य → सर्प्तव्यम्
एवमेव तुमुन् / तृच् इत्यनयों कृते रूपाणि कल्पनीयानि |
तृप्, दृप्, इति द्वौ धातू वेटौ
यथोक्तम् इडादि-तव्यत्-तुमुन्-तृच्-प्रत्यये परे अम्-आगमः न भवति यतोहि अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् (६.१.५९) इत्यनेन अम्-आगमो भवति झलादि-प्रत्यये परे | इडादि-तव्यत्-तुमुन्-तृच् प्रत्ययाः झलादयः न सन्ति | अतः आहत्य तृप्-धातोः त्रीणि रूपाणि भवन्ति; तथैव च दृप्-धातोः |
इडादिपक्षे
तृप् + इतव्य → पुगन्तलघूपधस्य च (७.३.८६) → तर्पितव्य → तर्पितव्यम् / तर्पितव्यः / तर्पितव्या
एवमेव—
तृप् + इतुम् →
तृप् + इतृ →
अनिडादिपक्षे
तृप् + तव्यत् → अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् (६.१.५९) इत्यनेन अम्-आगमः → त्रप्तव्य
एवमेव—
तृप् + तुमुन् →
तृप् + तृच् →
अमागमः न भवति चेत्—
तृप् + तव्यत् → पुगन्तलघूपधस्य च (७.३.८६) → तर्प्तव्य
तृप् + तुमुन् →
तृप् + तृच् →
दृप्-धातुः अपि तथा, त्रीणि रूपाणि
दृप् + इतव्य →
दृप् + तव्यत् → अमागमे सति →
दृप् + तव्यत् → अमागमे असति →
एवमेव—
दृप् + तुमुन् →
दृप् + तृच् →
प्रश्नः उदेति यत् अत्र अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् (६.१.५९), पुगन्तलघूपधस्य च (७.३.८६) इति बाध्यबाधकभावप्रसङ्गे द्वयोः कः सम्बन्धः ? 'तृप् + तव्यत्' इति स्थितौ द्वयोरपि युगपत् प्रसक्तिः | अपि च पुगन्तलघूपधस्य च (७.३.८६) स्वीक्रियते चेत् अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् (६.१.५९) इति सूत्रं निरवकाशं भवति | अतः अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् (६.१.५९) इति पुगन्तलघूपधस्य च (७.३.८६) इति सूत्रं प्रति अपवादभूतम् |
अन्यः प्रश्नः उदेति यत् अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् (६.१.५९) इति सूत्रे प्रसज्यप्रतिषेधः भवति वा, पर्युदासप्रतिषेधः भवति वा ? सूत्रार्थः उक्तः यत् उपदेशे अनुदात्तः यः ऋदुपधः तस्य अम्-आगमः विकल्पेन भवति झलादौ अकिति प्रत्यये परे | यथा आदेच उपदेशेऽशिति (६.१.४५) इत्यनेन उपदेशे एजन्तस्य धातोरात्त्वं न तु शिति | अनुवृत्ति-सहितसूत्रम् अस्ति एचः धातोः आत् उपदेशे अशिति | अस्य सूत्रार्थस्य व्यक्तीकरणार्थं वाक्यद्वयं वक्तव्यं भवति—उपदेशे एजन्तस्य धातोरात्त्वं भवति | शिति प्रत्यये परे न भवति | नाम अत्र आत्वस्य विधानार्थं सप्तमीविभक्तौ किमपि निमित्तं नास्ति | ‘उपदेशे एजन्तस्य धातोरात्त्वं भवति' | विधानपक्षे किमपि नियमनं नास्ति | तर्हि एवमेव प्रकृतौ तथा कुर्मः चेत् किं भवति—उपदेशे अनुदात्तः यः ऋदुपधः तस्य अम्-आगमः विकल्पेन भवति | झलादौ किति प्रत्यये परे न भवति | एवं वदामः चेत् कः दोषः ? अजादिप्रत्यये परे अपि अमागमः भविष्यति | यकारादिप्रत्यये परे अपि अमागमः भविष्यति | केवलं न भवति कुत्र ? झलादौ किति प्रत्यये परे न भवति |
यङ्लुगन्तस्य उदाहरणं स्वीकुर्मः | तृप्-धातोः यङ्लुकि आतिदेशिकधातुः भवति तरीतृप्| लटि तरीतृप् + ति → अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् (६.१.५९) इत्यनेन विकल्पेन अमागमः → तरीत्रप्ति | यस्मिन् पक्षे अमागमः न भवति, तस्मिन् पक्षे पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणः → तरीतर्प्ति | अधुना लोटि तरीतृप् + आनि → अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् (६.१.५९) इत्यनेन 'उपदेशे अनुदात्तः यः ऋदुपधः तस्य अम्-आगमः विकल्पेन भवति' → अत्रापि अमागमः विकल्पेन भविष्यति → तरीत्रपाणि | यत् अनिष्टम् | तथैव विधिलिङि यकारादिप्रत्यये परे अमागमः भविष्यति— तरीतृप् + यात् → तरीत्रप्यात् | एतदपि अनिष्टं रूपम् | कुत्र न भविष्यति ? परः स्थितः प्रत्ययः झलादिः कित् अस्ति चेदेव अमागमः न स्यात् |
नूनं सार्वधातुकलकारेषु कोऽपि कित्-प्रत्ययः एव नास्ति, अतः यङ्लुकि, लटि लोटि लङि विधिलिङि च, त्रिषु अपि वचनेषु, त्रिषु अपि पुरुषेषु सर्वत्र अमागमो भविष्यति | अनेन महती समस्या | अस्याः समस्यायाः निवारणार्थं प्रसज्यप्रतिषेधः न भवेत्; अपि तु पर्युदासः एव स्वीकर्तव्यः | अमागमस्य विधानार्थं प्रत्ययः अपेक्षितः; स च प्रत्ययः झालादिः भवेत्, कित् न स्यात् | अनेन अजादिप्रत्ययाः यकारादिप्रत्ययाः च निवार्यन्ते |
अन्यः प्रश्नः उदेति यत् इडागमः अथवा अमागमः—द्वयोः मध्ये कस्य विधानं प्रथमम् ? रधादिभ्यश्च (७.२.४५) इत्यनेन रध्, नश्, तृप्, दृप्, द्रुह्, मुह्, ष्णुह्, ष्णिह् इत्येभ्यः धातुभ्यः वलादेरार्धधातुकस्येड् वा स्यात् | अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् (६.१.५९) इत्यनेन उपदेशे अनुदात्तः यः ऋदुपधः तस्य अम्-आगमः विकल्पेन भवति झलादौ अकिति प्रत्यये परे | द्वयोः कृते धातोः परः कश्चन प्रत्ययः अपेक्षितः एव | रधादिभ्यश्च (७.२.४५) च परसूत्रम् अतः प्रथमम् इडागमः | तदा एव अमागमः परिशीलनीयः | अन्यच्च प्रथमम् अमागमः आनीयते चेत् समस्या भवति यत् इडागमस्य विधानात् पूर्वं तव्यत्-तुमुन्-तृच् इति प्रत्ययाः झलादयः एव | अतः प्रथमम् अमागमः भवति चेत्, स च अमागमः आगमिष्यति यत्र न आगन्तव्यमस्ति | तदा इडागमः भविष्यति; इडागमविधानसूत्रे अमागमः धातौ अस्ति न वा इति प्रसङ्गे किमपि नोक्तम् अतः अमागमः अस्ति चेदपि इडागमविधानं भवति | तस्य निवारणार्थं रधादिभ्यश्च (७.२.४५) परसूत्रम् | अनेन प्रथमम् इडागमः | अनेन इडागमः यत्र भवति तत्र प्रत्ययः झलादिः नास्ति; तस्माच्च तत्र अमागमः न भवति यतोहि प्रत्ययः अजादिः | प्रथमम् इडागमविधानं भवति चेदेव अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् (६.१.५९) इत्यस्य निमित्तम् 'झलादि अकिति प्रत्यये परे' व्यवहारे आगच्छति |
गुपू-धातुः
स्वरतिसूतिसूयतिधूञूदितो वा (७.२.४४)
स्वरतिसूतिसूयतिधूञूदितो वा (७.२.४४) इति सूत्रेण 'स्वृ शब्दोपतापयोः', षूङ् प्राणिगर्भविमोचने' अदादिगणे, ‘षूङ् प्राणिप्रसवे' दिवादिगणे, ‘धूञ् कम्पने' (स्वादौ क्र्यादौ च), अपि च येषाम् ऊकारस्य इत्संज्ञा, एभ्यः सर्वेभ्यः धातुभ्यः परस्य वलादेरार्धधातुकस्येड् वा स्यात् |
अतः स्वभावतः गुपू-धातुः वेट् |
तदा गुपू-धातोः आय-प्रत्ययः गुपूधूपविच्छिपणिपनिभ्य आयः (३.१.२८) इति सामान्यसूत्रेण नित्यः, परन्तु आर्धधातुके आयादय आर्धधातुके वा (३.१.३१) इत्येनन विकल्पेन | 'आय' इति धातुप्रत्ययस्य विधानेन अयं धातुः अनेकाच् अतः सेट् |
आयादय आर्धधातुके वा (३.१.३१) इत्यनेन आर्धधातुकप्रत्ययस्य विवक्षायां स्वार्थे आय-प्रत्ययः विकल्पेन भवति | तव्यत्-तुमुन्-तृच् इति प्रत्ययाः आर्धधातुकसंज्ञकाः, अतः एषु परेषु आय-प्रत्ययः विकल्पेन विधीयते |
गुप् + आय → पुगन्तलघूपधस्य च (७.३.८६) → गोपाय → गोपाय अनेकाच् अतः अयं धातुः सेट् → गोपाय + इतव्य → अतो लोपः (६.४.४८) इत्यनेन अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे → गोपाय् + इतव्य → गोपायितव्य
एवमेव—
गुप् + आय → → + इतुम् →
गुप् + आय → → + इतृ →
यस्मिन् पक्षे 'आय' इति धातु-प्रत्ययः न विधीयते, स्वभावतः गुपू-धातुः वेट् |
इडादिपक्षे
गुप् + इतव्य → पुगन्तलघूपधस्य च (७.३.८६) → गोप् + इतव्य → गोपितव्य
एवमेव—
गुप् + इतुम् →
गुप् + इतृ →
अनिडादिपक्षे
गुप् + तव्यत् → पुगन्तलघूपधस्य च (७.३.८६) → गोप् + तव्य → गोप्तव्य
एवमेव—
गुप् + तुमुन् →
गुप् + तृच् →
आयादय आर्धधातुके वा (३.१.३१) = आर्धधातुकप्रत्ययस्य विवक्षायां स्वार्थे आय-प्रत्ययः विकल्पेन भवति | आय-आदिषु त्रयः प्रत्ययाः अन्तर्भूताः— आय, ईयङ्, णिङ् | आय आदौ येषां ते आयादयः | आयादयः प्रथमान्तम्, आर्धधातुके सप्तम्यन्तं, वा अव्ययपदं, त्रिपदमिदं सूत्रम् | धातोः (३.१.२२), प्रत्ययः (३.१.१), परश्च (३.१.२) इत्येषाम् अधिकारः | अनुवृत्ति-सहितसूत्रम्— आर्धधातुके, धातोः आयादयः वा प्रत्ययाः परश्च |
अतो लोपः (६.४.४८) = अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन अतः अङ्गस्य नाम न केवलम् ह्रस्व-अकारः इत्यङ्गस्य, अपि तु ह्रस्व-अकारान्तस्य अङ्गस्य | अलोऽन्तस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव लोपः (न तु अङ्गस्य) | उपदेशे अनुवर्तते अतः प्रसक्तिः केवलम् उपदेशावस्थायाम्* | अतः षष्ठ्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम् | अनुदात्तोपदेश-वनति-तनोत्यादीना-मनुनासिकलोपो झलि क्ङिति (६.४.३७) इत्यस्मात् उपदेशे इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१), आर्धधातुके (६.४.४६) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूर्त्रम्— अतः अङ्गस्य लोपः आर्धधातुके उपदेशे |
चुरादिगणे विशिष्टधातूनां पाठे इदं सूत्रम् अवलोकितमासीत् | णिच्-प्रत्ययः आर्धधातुकः अस्ति अतः धातुः अदन्तः चेत्, अतो लोपः (६.४.४८) इत्यस्य प्रसक्तिः भवति |
यथा—
कथ + णिच् → कथ्
गृह + णिच् → गृह्
त्रप् इति वेट्-धातुः
इडादिपक्षे
त्रप् + इतव्य → त्रपितव्य
एवमेव—
त्रप् + इतुम् →
त्रप् + इतृ →
अनिडादिपक्षे
त्रप् + तव्यत् → त्रप्तव्य
एवमेव—
त्रप् + तुमुन् →
त्रप् + तृच् →
स्वरतिसूतिसूयतिधूञूदितो वा (७.२.४४) इति सूत्रेण येषां धातूनाम् ऊकारस्य इत्संज्ञा, एभ्यः सर्वेभ्यः धातुभ्यः परस्य वलादेरार्धधातुकस्येड् वा स्यात् | त्रपूष् इति धातुः ऊदित्, अतः अस्मात् धातोः इडागमो वा भवति |
कृपू इति वेट्-धातुः
कृपो रो लः (८.२.१८) = कृप्-धातोः रेफस्य लकारादेशो भवति | सूत्रं स्वयं सम्पूर्णम्— कृपः उः कृपः रः लः |
कृपो रो लः (८.२.१८) इति सूत्रेण, आहत्य कृप्-धातोः रेफस्य लकारादेशः; कृप्-धातोः ऋकारस्य अंशः यः रेफसदृशः, तस्य स्थाने लकारसदृशादेशो भवति | यत्र कृप्-धातोः उपधायाः गुणः भवति कर्प्, तत्र रेफस्य स्थाने लकारादेशः अतः कल्प् इति फलं; यत्र उपधागुणो न भवति, तत्र कृप् इत्यस्य ऋकारस्य स्थाने ऌकारदेशः अतः कॢप् इति फलम् |
तासि च क्लृपः (७.२.६०) = कृप्-धातोः परस्य परस्मैपदसंज्ञक-तास् च परस्मैपदसंज्ञक-सकारादि-आर्धधातुकप्रत्ययः च अनयोः इडागमो न भवति | नाम, केवलम् आत्मनेपदसंज्ञक-तासः च आत्मनेपदसंज्ञक-सकारादि-आर्धधातुकप्रत्ययस्य इडागमो भवति | अनुवृत्ति-सहितसूत्रं— क्लृपः परस्मैपदेषु आर्धधातुकस्येड्वलादेः न तासि से च |
लुट्-लकारप्रसङ्गे वयं दृष्टवन्तः यत् कृपू-धातुः उपदेशे आत्मनेपदी | किन्तु लुटि च क्लृपः (१.३.९३) इत्यनेन स्य, सन्, तास् इत्येषु त्रिषु प्रत्ययेषु परेषु अयं कृप्-धातुः विकल्पेन परस्मैपदी अपि भवति | अतः लुटि परस्मैपदे इडागमाभावे 'कल्प्ता' | आत्मनेपदे इडागमे सति 'कल्पिता' |
कृप् → पुगन्तलघूपधस्य च (७.३.८६) → कर्प् → कल्प् → कल्पिता आत्मनेपदे / परस्मैपदे तासि च क्लृपः (७.२.६०) इत्यनेन इडागमनिषेधः अतः कल्प्ता |
तव्यत्-तुमुन्-तृच् इत्येषु त्रिषु प्रत्ययेषु स्वरतिसूतिसूयतिधूञूदितो वा (७.२.४४) इति सूत्रेण कृपू-धातुः वेट् भवति ।
इडादिपक्षे
कृप् + इतव्य → पुगन्तलघूपधस्य च (७.३.८६) → कर्प् + इतव्य → कृपो रो लः (८.२.१८) इत्यनेन कृप्-धातोः रेफस्य लकारादेशः → कल्प् + इतव्य → कल्पितव्य
एवमेव—
कृप् + इतुम् →
कृप् + इतृ →
अनिडादिपक्षे
कृप् + तव्यत् → पुगन्तलघूपधस्य च (७.३.८६) → कर्प् + तव्य → कृपो रो लः (८.२.१८) इत्यनेन कृप्-धातोः रेफस्य लकारादेशः → कल्प् + तव्य → खरि च (८.४.५५) इत्यनेन चर्त्वम् → कल्प्तव्य
एवमेव—
कृप् + तुमुन् →
कृप् + तृच् →
भकारान्तधातवः
एकाच्-भकारान्तधातवः
एकाच्-भकारान्तधातवः - ३ धातवः अनिटः
त्रिषु अपि सामान्यहल्सन्धिकार्यमस्ति |
१) झषस्तथोर्धोऽधः इत्यनेन प्रत्ययादौ त्, थ् इत्यनयोः स्थाने धकारादेशो भवति |
झषस्तथोर्धोऽधः (८.२.४०) = झष्-उत्तरस्य तकारथकारयोः स्थाने धकारादेशो भवति, धा-धातुं वर्जयित्वा | तश्च थ् च तथौ इतरेतरद्वन्द्वः; तयोः, तथोः | तकारोत्तर-अकारः उच्चारणार्थम् अस्ति; अग्रे 'धः' इत्यस्य धकारोत्तर-अकारः अपि तथा | न धा, अधा नञ्तत्पुरुषः, तस्मात् अधः | झषः पञ्चम्यन्तं, तथोः षष्ठ्यन्तं, धः प्रथमान्तम्, अधः पञ्चम्यन्तम्, अनेकपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— झषः तथोः धः अधः |
२) तदा झलां जश् झशि इत्यनेन धात्वन्ते चतुर्थवर्णस्य स्थाने तृतीयादेशो भवति |
झलां जश् झशि (८.४.५३) = झलां स्थाने जशादेशो भवति झशि परे | स्थानेऽन्तरतमः (१.१.५०) इत्यनेन जश्-वर्णेषु वर्णनिर्धारणम् | झलां षष्ठ्यन्तं, जशः प्रथमान्तम्, झशि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | झश्-प्रत्याहारे वर्गाणां तृतीयचतुर्थाः च वर्णाः अन्तर्भूताः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— झलां जश् झशि संहितायाम् |
यभ् + तव्यत् → यभ् + धव्य → यब् + धव्य → यब्धव्य
एवमेव—
यभ् + तुमुन् →
यभ् + तृच् →
एवमेव—
रभ् + तव्यत्-तुमुन्-तृच् →
लभ् + तव्यत्-तुमुन्-तृच् →
एकः भकारान्तधातुः वेट् - लुभ्
इडादिपक्षे
लुभ् + इतव्य → पुगन्तलघूपधस्य च (७.३.८६) → लोभ् + इतव्य → लोभिव्य
एवमेव—
लुभ् + इतुम् →
लुभ् + इतृ →
अनिडादिपक्षे
लुभ् + तव्यत् → पुगन्तलघूपधस्य च (७.३.८६) → लोभ् + तव्य → लोब्धव्य
एवमेव—
लुभ् + तुमुन् →
लुभ् + तृच् →
लुभ्-धातोः तकारादि-आर्धधातुकप्रत्ययेषु इडागमवैशिष्ट्यम्—
तीषसहलुभरुषरिषः (७.२.४८) = इष्-धातुः (तुदादौ क्र्यादौ) च, सह्, लुभ्, रुष्, रिष् इत्येभ्यः पञ्चभ्यः धातुभ्यः तकारादि-आर्धधातुकप्रत्ययाः विकल्पेन इडागमानुकूलाः | ति सप्तम्यन्तम्, इषसहलुभरुषरिषः पञ्चम्यन्तं, द्विपदमिदं सूत्रम् |
तव्यत्-तुमुन्-तृच्-प्रत्ययाः तकारादि-आर्धधातुकप्रत्ययाः अतः तेषां वा इडागमो भवति एभ्यः पञ्चभ्यः धातुभ्यः—
इष् → एष्टव्य / एषिव्य
सह् → सोढव्य / सहिव्य
लुभ् → लोब्धव्य / लोभिव्य
रुष् → रोष्टव्य / रोषिव्य
रिष् → रेष्टव्य / रेषिव्य
मकारान्तधातवः
चत्वारः मकारान्तधातवः अनिटः - गम्, नम्, यम्, रम्,
अत्र नश्चापदान्तस्य झलि (८.३.२४), अनुस्वारस्य ययि परसवर्णः (८.४.५८) इति सूत्राभ्याम् अनुस्वारः, तदा परसवर्णादेशः |
गम् + तव्य → गं + तव्य → गन्तव्य
नम् + तव्य →
यम् + तव्य →
रम् + तव्य →
एकः मकारान्तधातुः वेट् - क्षम्
इडादिपक्षे
क्षम् + इतव्य → क्षमितव्य
अनिडादिपक्षे
क्षम् + तव्य → क्षं + तव्य → क्षन्तव्य
उष्मान्तधातवः
शकारान्तधातवः
शकारान्तधातवः - १० धातवः अनिटः
सप्त धातवः सामान्याः
एषु दशसु, सप्त धातवः सामान्याः | तेषां कृते पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणकार्यं तदा व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इत्यनेन शकारान्तानां झलि परे षत्वं, तदा ष्टुना ष्टुः (८.४.४१) इत्यनेन ष्टुत्वम् |
दिश् + तव्यत् → देश् + तव्यत् → देष् + तव्य → देष्टव्य
एवमेव—
दिश् + तुमुन् →
दिश् + तृच् →
अवशिष्टाः धातवः तथैव—
रिश् + तव्यत् / तुमुन् / तृच् →
लिश् + तव्यत् / तुमुन् / तृच् →
विश् + तव्यत् / तुमुन् / तृच् →
रुश् + तव्यत् / तुमुन् / तृच् →
क्रुश् + तव्यत् / तुमुन् / तृच् →
दंश् + तव्यत् / तुमुन् / तृच् →
दृश्-धातुः
दृश्-धातुः अनिट्, परन्तु अमागमः विकल्पेन अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् (६.१.५९) इत्यनेन न भवति यतोहि साक्षात् सृजिदृशोर्झल्यमकिति (६.१.५८) इत्यनेन उक्तः, अनेन च अमागमः नित्यः |
सृजिदृशोर्झल्यमकिति (६.१.५८) इत्यनेन दृश्-धातोः अम्-आगमो भवति कित्-भिन्न-झलादि प्रत्यये परे |
दृश् + तव्यत् → दृश् + अम् + तव्य → दृ-अ-श् + तव्य → इको यणचि (६.१.७६) → द्रश् + तव्य → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) → द्रष् + तव्य → ष्टुना ष्टुः (८.४.४१) → द्रष्टव्य
सृजिदृशोर्झल्यमकिति (६.१.५८) = सृज्-धातोः च दृश्-धातोः च अम्-आगमो भवति कित्-भिन्न-झलादि प्रत्यये परे | सृजिश्च दृश्च तयोरितरेत्तरद्वन्द्वः सृजिदृशौ, तयोः सृजिदृशोः | न कित् अकित् नञ्तत्पुरुषः, तस्मिन् अकिति | सृजिदृशोः षष्ठ्यन्तं, झलि सप्तम्यन्तम्, अम् प्रथमान्तम्, अकिति सप्तम्यन्तम्,अनेकपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णाम्— सृजिदृशोः अम् झलि अकिति |
एवमेव—
दृश् + तुमुन् →
दृश् + तृच् →
मृश्, स्पृश् धातू
मृश्, स्पृश् इति धात्वोः विकल्पेन अम्-आगमः, अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् (६.१.५९) इति सूत्रेण |
अमागमपक्षे
मृश् + तव्यत् → मृश् + अम् + तव्य → मृ-अ-श् + तव्य → इको यणचि (६.१.७६) → म्रश् + तव्य → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) → म्रष् + तव्य → ष्टुना ष्टुः (८.४.४१) → म्रष्टव्य
एवमेव—
मृश् + तुमुन् →
मृश् + तृच् →
अमागमाभावे
मृश् + तव्यत् → पुगन्तलघूपधस्य च (७.३.८६) → मर्श् + तव्य → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) → मर्ष् + तव्य → ष्टुना ष्टुः (८.४.४१) → मर्ष्टव्य
एवमेव—
मृश् + तुमुन् →
मृश् + तृच् →
अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् (६.१.५९) = उपदेशे अनुदात्तः यः ऋदुपधः तस्य अम्-आगमः विकल्पेन भवति झलादौ अकिति प्रत्यये परे | तृप्, दृप्, सृप्, मृश्, स्पृश्, कृष् इति षड् धातवः अनुदात्ताः च ऋदुपधाः | ऋत् उपधायां यस्य सः ऋदुपधः बहुव्रीहिः, तस्य ऋदुपधस्य | अनुदात्तस्य षष्ठ्यन्तं, च अव्ययपदम्, ऋदुपधस्य षष्ठ्यन्तम्, अन्यतरस्यां सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | आदेच उपदेशेऽशिति (६.१.४५) इत्यस्मात् उपदेशे इत्यस्य अनुवृत्तिः | सृजिदृशोर्झल्यमकिति (६.१.५८) इअत्यस्मात् झलि, अम्, अकिति इत्येषाम् अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— उपदेशे अनुदात्तस्य ऋदुपधस्य अम् झलि अकिति अन्यतरस्याम् |
एवमेव स्पृश्-धातोः रूपाणि कल्पनीयानि
स्पृश् + तव्यत् / तुमुन् / तृच् →
त्रयः धातवः वेटः— अशू, क्लिशू, नश
अशू-धातुः
इडागमपक्षे—
अश् + इतव्य → अशितव्य
अनिडागमपक्षे—
अश् + तव्यत् → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) → अष् + तव्य → ष्टुना ष्टुः (८.४.४१) → अष्टव्य
एवमेव—
अश् + तुमुन् →
अश् + तृच् →
क्लिशू-धातुः
इडागमपक्षे—
क्लिश् + इतव्य → क्लेशिता |
एवमेव—
क्लेश् + इतुम् →
क्लेश् + इतृ →
अनिडागमपक्षे—
क्लेश् + तव्यत् → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) → क्लेष् + तव्य → ष्टुना ष्टुः (८.४.४१) → क्लेष्टव्य
एवमेव—
क्लेश् + तुमुन् →
क्लेश् + तृच् →
नश्-धातुः
इडागमपक्षे—
नश् + इतव्य → नशितव्य
अनिडागमपक्षे—
नश् + तव्यत् → मस्जिनशोर्झलि (७.१.६०) इत्यनेन नश्-धातोः नुमागमः भवति झलादिप्रत्यये परे → नंश् + तव्य → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) → नंष् + तव्य → ष्टुना ष्टुः (८.४.४१) → नंष्टव्य
मस्जिनशोर्झलि (७.१.६०) = मस्ज्-धातोः च नश्-धातोः च नुम्-आगमो भवति झालादि-प्रत्यये परे | मस्जिश्च नश् च तयोरितरेतरद्वन्द्वः मस्जिनशौ, तयोर्मस्जिनशोः | मस्जिनशोः षष्ठ्यन्तं, झलि सप्तम्यन्तं, द्विपदमिदं सूत्रम् | इदितो नुम् धातोः (७.१.५८) इत्यस्मात् नुम् इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः, येन 'प्रत्यय'-पदस्यापि सूत्रार्थे आक्षेपः | अनुवृत्ति-सहितसूत्रम्— मस्जिनशोः अङ्गस्य नुम् झलि प्रत्यये |
एवमेव—
नश् + तुमुन् →
नश् + तृच् →
षकारान्तधातवः
षकारान्तधातवः - १२ धातवः अनिटः
दश धातवः सामान्याः
एषु द्वादशसु, दश धातवः सामान्याः | तेषां कृते पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणकार्यं तदा ष्टुना ष्टुः (८.४.४१) इत्यनेन ष्टुत्वम् |
त्विष् + तव्यत् → त्वेष् + तव्य → त्वेष्टव्य
एवमेव—
त्विष् + तुमुन् →
त्विष् + तृच् →
एवमेव—
द्विष् + तव्यत् / तुमुन्/ तृच् →
पिष् + तव्यत् / तुमुन्/ तृच् →
विष् + तव्यत् / तुमुन्/ तृच् →
शिष् + तव्यत् / तुमुन्/ तृच् →
श्लिष् + तव्यत् / तुमुन्/ तृच् →
तुष् + तव्यत् / तुमुन्/ तृच् →
दुष् + तव्यत् / तुमुन्/ तृच् →
पुष् + तव्यत् / तुमुन्/ तृच् →
शुष् + तव्यत् / तुमुन्/ तृच् →
अनिट्-धातुषु विशिष्टौ द्वौ धातू - कृष् भ्वादौ तुदादौ च
अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् (६.१.५९) इत्यनेन अमागमः विकल्पेन झलादौ अकिति प्रत्यये परे |
अमागमपक्षे—
कृष् + तव्यत् → अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् (६.१.५९) इत्यनेन अम्-आगमः विकल्पेन भवति झलादौ अकिति प्रत्यये परे → कृ + अम् + ष् + तव्य → कृ + अ + ष् + तव्य → इको यणचि (६.१.७६) → क्रष् + तव्य → ष्टुना ष्टुः (८.४.४१) → क्रष्टव्य
एवमेव—
कृष् + तुमुन् →
कृष् + तृच् →
यस्मिन् पक्षे अम्-आगमो न भवति—
कृष् + तव्यत् → पुगन्तलघूपधस्य च (७.३.८६) → कर्ष् + तव्य → कर्ष्टव्य
एवमेव—
कृष् + तुमुन् →
कृष् + तृच् →
अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् (६.१.५९) = उपदेशे अनुदात्तः यः ऋदुपधः तस्य अम्-आगमः विकल्पेन भवति झलादौ अकिति प्रत्यये परे | तृप्, दृप्, सृप्, मृश्, स्पृश्, कृष् इति षड् धातवः अनुदात्ताः च ऋदुपधाः | ऋत् उपधायां यस्य सः ऋदुपधः बहुव्रीहिः, तस्य ऋदुपधस्य | अनुदात्तस्य षष्ठ्यन्तं, च अव्ययपदम्, ऋदुपधस्य षष्ठ्यन्तम्, अन्यतरस्यां सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | आदेच उपदेशेऽशिति (६.१.४५) इत्यस्मात् उपदेशे इत्यस्य अनुवृत्तिः | सृजिदृशोर्झल्यमकिति (६.१.५८) इअत्यस्मात् झलि, अम्, अकिति इत्येषाम् अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— उपदेशे अनुदात्तस्य ऋदुपधस्य अम् झलि अकिति अन्यतरस्याम् |
षकारान्तधातवः - ७ धातवः वेटः [इष्, रुष्, रिष्, निर्-उपसर्गपूर्वक-कुष्, अक्षू, तक्षू, त्वक्षू]
इडागमे सति यथासङ्गं पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणकार्यम् | अनिडागमपक्षे यथासङ्गं पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणकार्यं, तदा ष्टुना ष्टुः (८.४.४१) इत्यनेन ष्टुत्वम् |
इष् + तव्यत् → एष्टव्य / एषितव्य
एवमेव—
इष् + तुमुन् →
इष् + तृच् →
एवमेव—
रुष् + तव्यत् / तुमुन् / तृच् →
रिष् + तव्यत् / तुमुन् / तृच् →
निर् + कुष् + तव्यत् → निष्कोष्टव्य / निष्कोषितव्य [खरवसानयोर्विसर्जनीयः (८.३.१५), इदुदुपधस्य चाप्रत्ययस्य (८.३.४१)
निर् + कुष् + तुमुन् / तृच् →
अक्षू, तक्षू, त्वक्षू
अनिडादिपक्षे स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यनेन ककारलोपः, तदा ष्टुना ष्टुः (८.४.४१) इत्यनेन ष्टुत्वम् |
अक्ष् + तव्यत् → अष्टव्य / अक्षितव्य
एवमेव—
अक्ष् + तुमुन् →
अक्ष् + तृच् →
तक्ष् + तव्यत् / तुमुन् / तृच् →
त्वक्ष् + तव्यत् / तुमुन् / तृच् →
स्कोः संयोगाद्योरन्ते च (८.२.२९) = संयोगस्य प्रथमसदस्यः सकारः ककारः वा चेत्, संयोगस्य प्रथमसदस्यलोपो भवति न तु द्वितीयसदस्यस्य, झलि पदान्ते च | स् च क् च तयोरितरेतरद्वन्द्वः स्कौ, तयोः स्कोः | संयोगस्य आदि संयोगादि, तयोः संयोगाद्योः, षष्ठीतत्पुरुषः | संयोगान्तस्य लोपः (८.२.२३) इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः | झलो झलि (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— संयोगाद्योः स्कोः लोपः झलि पदस्य अन्ते च |
चक्ष्-धातुः - धात्वादेशः
चक्षिङ्-धातुः—
चक्ष्-धातोः ख्या / क्शा इति आदेशौ | यद्यपि चक्ष्-धातुः सेट्, तथापि तस्य ख्या/क्शा इति धात्वादेशौ अनिटौ |
ख्या-पक्षे—
चक्ष् + तव्यत् → ख्या + तव्य → ख्यातव्य
एवमेव—
चक्ष् + तुमुन् →
चक्ष् + तृच् →
क्शा-पक्षे—
चक्ष् + तव्यत् → क्शा + तव्य → क्शातव्य
एवमेव—
चक्ष् + तुमुन् →
चक्ष् + तृच् →
चक्षिङ्-धातोः आर्धधातुकप्रत्यये परे ख्याञ्-आदेशः | किन्तु अत्र भाष्यकारो वदति यत् क्शादिरयमादेशः, इत्युक्तौ आदेशः 'ख्या' न अपि तु 'ख्शा', तदा चर्त्वादेशेन 'क्शा' भवति | अपि च पूर्वत्रासिद्धम् (८.२.१) इति अधिकारे एकं वार्तिकम् अस्ति ख्शाञः शस्य यो वा वक्तवयः | अनेन ख्शाञ् इति आदेशस्य शकारस्य विकल्पेन यकारादेशो भवति | फलितार्थः अयं यत् आर्धधातुकप्रत्यये परे चक्षिङ्-धातोः स्थाने ख्याञ्, ख्शाञ् इति द्वौ आदेशौ सिद्धौ | एकवारं ख्याञ्, अपरस्मिन् पक्षे ख्शाञ् |
चक्षिङः ख्याञ् (२.४.५४) = चक्षिङः ख्याञादेशो भवति आर्धधातुके | चक्षिङः षष्ठ्यन्तं, ख्याञ् प्रथमान्तं, द्विपदमिदं सूत्रम् | आर्धधातुके (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— चक्षिङः ख्याञ् आर्धधातुके |
सकारान्तधातवः
एकाच्-सकारान्तधातवः - द्वौ धातू अनिटौ [वस्, घस्]
अत्र न अङ्गकार्यं वर्तते, न वा सन्धिकार्यम्
वस् + तव्यत् → वस्तव्य
एवमेव—
वस् + तुमुन् →
वस् + तृच् →
घस् + तव्यत् / तुमुन् / तृच् →
धात्वादेशः - अस्-धातुः
अस्तेर्भूः (२.४.५२) | भवितव्य |
अस् + तव्यत् → अस्तेर्भूः (२.४.५२) → भू + इतव्य → भवितव्य
एवमेव—
अस् + तुमुन् →
अस् + तृच् →
अस्तेर्भूः (२.४.५२) = आर्धधातुकविवक्षायाम् अस्-धातोः स्थाने भू-आदेशो भवति | अनेकाल्शित् सर्वस्य (१.१.५५) इत्यनेन आदेशः सर्वस्य स्थाने न तु अन्त्यस्य | अस्तेः षष्ठ्यन्तं, भूः प्रथमान्तं, द्विपदमिदं सूत्रम् | आर्धधातुके (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अस्तेः भूः आर्धधातुके |
हकारान्तधातवः
एकाच्-हकारान्तधातवः - ८ धातवः अनिटः, १२ धातवः वेटः (११ सामान्य-वेट्-धातवः + सह्-धातुः)
१. सामान्यहकारान्तधातवः
त्रयः सामान्यहकारान्तधातवः अनिटः - मिह्, लिह्, रुह्
- गुणकार्यं यथासङ्गम् |
- तकारादि प्रत्यये परे, धात्वन्तस्य हकारस्य स्थाने ढकारादेशो भवति, हो ढः (८.२.३१) इत्यनेन सूत्रेण |
- प्रत्ययादौ स्थितस्य तकारस्य ध्-आदेशो भवति झषस्तथोर्धोऽधः (८.२.४०) इति सूत्रेण |
- प्रत्ययादौ स्थितस्य धकारस्य स्थाने ढ्-आदेशो भवति ष्टुना ष्टुः (८.४.४१) इति सूत्रेण |
- पूर्वतनस्य ढ्-लोपो भवति ढो ढे लोपः (८.३.१३) इति सूत्रेण |
मिह् + तव्यत् → पुगन्तलघूपधस्य च (७.३.८६) → मेह् + तव्य → हो ढः (८.२.३१) → मेढ् + तव्य → झषस्तथोर्धोऽधः (८.२.४०) → मेढ् + धव्य → ष्टुना ष्टुः (८.४.४१) → मेढ् + ढव्य → ढो ढे लोपः (८.३.१३) → मेढव्य
एवमेव—
मिह् + तुमुन् →
मिह् + तृच् →
एवमेव—
लिह् + तव्यत् / तुमुन् / तृच् →
रुह् + तव्यत् / तुमुन् / तृच् →
षड् सामान्यहकारान्तधातवः वेटः - तृह्, स्तृह्, वृह्, तृंह्, गृह्, गाह्
इडादिपक्षे
तृह् + इतव्य → तर्हिव्य
एवमेव—
तृह् + इतुम् →
तृह् + इतृ →
एवमेव—
स्तृह् + इतव्य / इतुम् / इतृ →
वृह् + इतव्य / इतुम् / इतृ →
तृंह् + इतव्य / इतुम् / इतृ →
गृह् + इतव्य / इतुम् / इतृ →
गाह् + इतव्य / इतुम् / इतृ →
अनिडादिपक्षे
तृह् + तव्यत् → तर्ढव्य
एवमेव—
तृह् + तुमुन् →
तृह् + तृच् →
एवमेव—
स्तृह् + तव्यत् / तुमुन् / तृच् →
वृह् + तव्यत् / तुमुन् / तृच् →
तृंह् + तव्यत् / तुमुन् / तृच् → तृण्ढव्य
गृह् + तव्यत् / तुमुन् / तृच् →
गाह् + तव्यत् / तुमुन् / तृच् →
हो ढः (८.२.३१) = हकारस्य स्थाने ढकारादेशो भवति झलि पदान्ते च | हः षष्ठ्यन्तं, ढः प्रथमान्तं, द्विपदमिदं सूत्रम् | झलो झलि (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात् अन्ते, च इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— हः ढः झलि पदस्य अन्ते च |
झषस्तथोर्धोऽधः (८.२.४०) = झष्-उत्तरस्य तकारथकारयोः स्थाने धकारादेशो भवति, धा-धातुं वर्जयित्वा | तश्च थ् च तथौ इतरेतरद्वन्द्वः; तयोः, तथोः | तकारोत्तर-अकारः उच्चारणार्थम् अस्ति; अग्रे 'धः' इत्यस्य धकारोत्तर-अकारः अपि तथ | न धा, अधा नञ्तत्पुरुषः, तस्मात् अधः | झषः पञ्चम्यन्तं, तथोः षष्ठ्यन्तं, धः प्रथमान्तम्, अधः पञ्चम्यन्तम्, अनेकपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— झषः तथोः धः अधः |
ढो ढे लोपः (८.३.१३) = ढकारे परे पूर्वतनस्य ढकारस्य लोपो भवति | ढः षष्ठ्यन्तं, ढे सप्तम्यन्तं, लोपः प्रथमान्तं, त्रिपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— ढः ढे लोपः |
२. त्रयः दकारादिहकारान्तधातवः - दह्, दिह्, दुह्
२. त्रयः दकारादिहकारान्तधातवः - दह्, दिह्, दुह् | एते सर्वे अनिटः |
- गुणकार्यं यथासङ्गम् |
- तकारादि प्रत्यये परे, दकारादि-हकारान्तधातोः धात्वन्तस्य हकारस्य स्थाने घकारादेशो भवति दादेर्धातोर्घः (८.२.३२) इत्यनेन सूत्रेण |
- अधुना प्रत्ययः झष्-परतः अस्ति, अतः प्रत्ययादौ स्थितस्य तकारस्य ध्-आदेशो भवति झषस्तथोर्धोऽधः (८.२.४०) इति सूत्रेण |
- अधुना धातु-परतः झश् अस्ति (धकारः), अतः धात्वन्ते घ्-स्थाने तृतीयादेशो भवति झलां जश् झशि इति सूत्रेण | जश्त्वसन्धिरिति |
दह् + तव्यत् → दादेर्धातोर्घः (८.२.३२) → दघ् + तव्य → झषस्तथोर्धोऽधः (८.२.४०) → दघ् + धव्य → झलां जश् झशि (८.४.५३) → दग् + धव्य → दग्धव्य
एवमेव—
दह् + तुमुन् →
दह् + तृच् →
एवमेव—
दिह् + तव्यत् / तुमुन् / तृच् → देह् →
दुह् + तव्यत् / तुमुन् / तृच् →
दादेर्धातोर्घः (८.२.३२) = दकारादिधातोः हकारस्य स्थाने घकारादेशो भवति झलि पदान्ते च | दः आदौ यस्य स दादिः, तस्य दादेः, बहुव्रीहीः | दादेः षष्ठ्यन्तं, धातोः षष्ठ्यन्तं, घः प्रथमान्तं, त्रिपदमिदं सूत्रम् | हो ढः (८.२.३१) इत्यस्मात् हः इत्यस्य अनुवृत्तिः | झलो झलि (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— दादेः धातोः हः घः झलि पदस्य अन्ते च |
झलां जश् झशि (८.४.५३) = झलां स्थाने जशादेशो भवति झशि परे | स्थानेऽन्तरतमः (१.१.५०) इत्यनेन जश्-वर्णेषु वर्णनिर्धारणम् | झलां षष्ठ्यन्तं, जशः प्रथमान्तम्, झशि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | झश्-प्रत्याहारे वर्गाणां तृतीयचतुर्थाः च वर्णाः अन्तर्भूताः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— झलां जश् झशि संहितायाम् |
३. चत्वारः धातवः येषां विकल्पेन हकारस्य घकारादेशः ढकारादेशः च - द्रुह्, मुह्, ष्णुह्, ष्णिह्
३. चत्वारः धातवः येषां विकल्पेन हकारस्य घकारादेशः ढकारादेशः च - सर्वे चत्वारः वेटः
द्रुह्, मुह्, ष्णुह्, ष्णिह्
इडादिपक्षे
द्रुह् + इतव्य → द्रोहितव्य
एवमेव—
द्रुह् + इतुम् →
द्रुह् + इतृ →
एवमेव—
मुह् + इतव्य / इतुम् / इतृ →
ष्णुह् + इतव्य / इतुम् / इतृ → स्नोहिव्य
ष्णिह् + इतव्य / इतुम् / इतृ →
अनिडादिपक्षे
द्रुह् + तव्यत् → द्रोढव्य / द्रोग्धव्य
एवमेव—
द्रुह् + तुमुन् →
द्रुह् + तृच् →
एवमेव—
मुह् + तव्यत् / तुमुन् / तृच् →
ष्णुह् + तव्यत् / तुमुन् / तृच् →
ष्णिह् + तव्यत् / तुमुन् / तृच् →
वा द्रुहमुहष्णुहष्णिहाम् (८.२.३३) = द्रुह्, मुह्, ष्णुह्, ष्णिह् एषां चतुर्णां धातूनां हकारस्य स्थाने विकल्पेन घकारादेशो भवति झलि पदान्ते च; घ्-अभावे हो ढः (८.२.३१) इत्यनेन ढकारादेशो भवति | द्रुहश्च मुहश्च ष्णुहश्च ष्णिहश्च तेषाम इतरेतर्तद्वान्द्वः, द्रुहमुहष्णुहष्णिहः, तेषां द्रुहमुहष्णुहष्णिहाम् | वा अव्ययपदं, द्रुहमुहष्णुहष्णिहां षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | हो ढः (८.२.३१) इत्यस्मात् हः, दादेर्धातोर्घः (८.२.३२) इत्यस्मात् घः, झलो झलि (८.२.२६) इत्यस्मात् झलि, स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात् अन्ते, च इत्येषाम् अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— द्रुह-मुह-ष्णुह-ष्णिहाम् वा हः घः झलि पदस्य अन्ते च |
झषस्तथोर्धोऽधः (८.२.४०) = झष्-उत्तरस्य तकारथकारयोः स्थाने धकारादेशो भवति, धा-धातुं वर्जयित्वा | तश्च थ् च तथौ इतरेतरद्वन्द्वः; तयोः, तथोः | तकारोत्तर-अकारः उच्चारणार्थम् अस्ति; अग्रे 'धः' इत्यस्य धकारोत्तर-अकारः अपि तथ | न धा, अधा नञ्तत्पुरुषः, तस्मात् अधः | झषः पञ्चम्यन्तं, तथोः षष्ठ्यन्तं, धः प्रथमान्तम्, अधः पञ्चम्यन्तम्, अनेकपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— झषः तथोः धः अधः |
४. सह् वह् इति द्वौ धातू - वह्-धातुः अनिट्; सह्-धातुः अत्र वेट् (स्वभावतः सेट्; तकारादि-आर्धधातुकप्रत्यये परे वेट्)
- तकारादि प्रत्यये परे, धात्वन्तस्य हकारस्य स्थाने ढकारादेशो भवति, हो ढः (८.२.३१) इत्यनेन सूत्रेण |
- अधुना प्रत्ययः झष्-परतः अस्ति, अतः प्रत्ययादौ स्थितस्य तकारस्य थकारस्य च ध्-आदेशो भवति झषस्तथोर्धोऽधः (८.२.४०) इति सूत्रेण |
- प्रत्ययादौ स्थितस्य धकारस्य स्थाने ढ्-आदेशो भवति ष्टुना ष्टुः ८.४.४१)इ ति सूत्रेण |
- पूर्वतनस्य ढ्-लोपो भवति ढो ढे लोपः (८.३.१३) इति सूत्रेण |
- लुप्तढकारस्य पूर्ववर्तिनः अकारस्य ओकारादेशो भवति सहिवहोरोदवर्णस्य इति सूत्रेण | ढ्रलोपे पूर्वस्य दीर्घोऽणः (६.३.१११) इत्यस्य अपवादः |
सह् + तव्यत् → हो ढः (८.२.३१) → सढ् + तव्य → झषस्तथोर्धोऽधः (८.२.४०) → सढ् + धव्य → ष्टुना ष्टुः (८.४.४१) → सढ् + ढव्य → ढो ढे लोपः (८.३.१३) → स + ढव्य → सहिवहोरोदवर्णस्य (६.३.११२) → सो + ढव्य → सोढव्य
एवमेव—
सह् + तुमुन् →
सह् + तृच् →
एवमेव—
वह् + तव्यत् / तुमुन् / तृच् →
सहिवहोरोदवर्णस्य (६.३.११२) = ढकारस्य लोपश्चेत्, सह् वह् इति धात्वोः अकारस्य स्थाने ओकारादेशो भवति | सहिश्च वह् च तयोरितरेतरद्वन्द्वः सहिवहौ, तयोः सहिवहोः | सहिवहोः षष्ठ्यन्तम्, ओत् प्रथमान्तम्, अवर्णस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | ढ्रलोपे पूर्वस्य दीर्घोऽणः (६.३.१११) इत्यस्मात् ढलोपे इत्यस्य अनुवृत्तिः (रेफस्य कार्यं अत्र न भवति एव अतः रेफः नानीतः) | अनुवृत्ति-सहितसूत्रम्—सहिवहोः अवर्णस्य ओत् ढलोपे इति |
इडादिपक्षे
सह्-धातुः
सह् + इतव्य → सहितव्य
एवमेव—
सह् + इतुम् → सह् + इतृ →
तीषसहलुभरुषरिषः (७.२.४८) = इष्, सह्, लुभ्, रुष्, रिष् इत्येतेभ्यः पञ्चभ्यः धातुभ्यः तकारादेः आर्धधातुकप्रत्ययस्य इडागमो विकल्पेन भवति | इच्छत्यादेः परस्य तादेरार्धधातुकस्येड्वा स्यात् | एते पञ्च धातवः नियमेन सेटः; अनेन सूत्रेण तकारादि-आर्धधातुकप्रत्यये परे वेटः | इष् एष्टा, एषिता | सह सोढा, सहिता | लुभ लोब्धा, लोभिता | रुष रोष्टा, रोषिता | रिष रेष्टा, रेषिता | तीति किम् ? एषिष्यति | इष् इत्यनेन तुदादिगणीयः च क्र्यादिगणीयः च न तु दिवादिगणीयः | इषेस्तकारे श्यन्प्रत्ययात् प्रतिषेधः इति वार्तिकेन प्रकृतसूत्रस्य कार्यं दिवादिगणीय-इष्-धातोः न भवति | इषश्च सहश्च लुभश्च रुषश्च रिषश्च तेषां समाहारद्वन्द्वः इषसहलुभरुषरिष्, तस्मात् इषसहलुभरुषरिषः | ति सप्तम्यन्तम्, इषसहलुभरुषरिषः पञ्चम्यन्तं, द्विपदमिदं सूत्रम् | विभक्ति-परिणाम इति सिद्धान्तेन प्रसङ्गवशात् ति इत्यस्य षष्ठ्यन्तत्वं जायते, तः इति | आर्धधातुकस्येड् वलादेः (७.२.३५) इत्यस्मात् आर्धधातुकस्य, इट् इत्यनयोः अनुवृतिः | स्वरतिसूतिसूयतिधूञूदितो वा (७.२.४४) इत्यस्मात् वा इत्यस्य अनुवृतिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्—इषसहलुभरुषरिषः अङ्गात् तः आर्धधातुकस्य वा इट् इति |
५. नह्-धातुः - अनिट्
नह् + तव्यत् → नहो धः (८.२.३४) → नध् + तव्य → झषस्तथोर्धोऽधः (८.२.४०) → नध् + धव्य → झलां जश् झशि (८.४.५३) → नद् + धव्य → नद्धव्य
एवमेव—
नह् + तुमुन् →
नह् + तृच् →
नहो धः (८.२.३४) = नह्-धातोः हकारस्य धकारादेशो भवति झलि पदान्ते च | नहः षष्ठ्यन्तं, धः प्रथमान्तं, द्विपदमिदं सूत्रम् | हो ढः (८.२.३१) इत्यस्मात् हः इत्यस्य अनुवृत्तिः | दादेर्धातोर्घः (८.२.३२) इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः | झलो झलि (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात् अन्ते, च इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— नहः धातोः हः धः झलि पदस्य अन्ते च |
६. गुहू-धातुः - वेट्
ऊदुपधाया गोहः (६.४.८९) इत्यनेन गुह्-धातोः उपधा-गुणादेशं प्रबाध्य ऊत्-आदेशो भवति अजादि-प्रत्यये परे |
इडागमपक्षे
अत्र तव्यत्-तुमुन्-तृच्-प्रत्ययाः अजादयः | अतः उपधा-गुणादेशं प्रबाध्य ऊत्-आदेशः |
गुह् + इतव्य → गूहितव्य
एवमेव—
गुह् + इतुम् →
गुह् + इतृ →
अनिडादिपक्षे
अजादिप्रत्ययाभावे न ऊत्वम्
गुह् + तव्यत् → गोढव्य
एवमेव—
गुह् + तुमुन् →
गुह् + तृच् →
ऊदुपधाया गोहः (६.४.८९) = गुहू (संवरणे) इति गुह्-धातोः उपधा-गुणादेशं प्रबाध्य ऊत्-आदेशो भवति अजादि-प्रत्यये परे | गुह उपधाया ऊत्स्यात् गुणहेतौ अजादौ प्रत्यये | ऊत् प्रथमान्तम्, उपधायाः षष्ठ्यन्तं, गोहः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यस्मात् अचि इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूर्त्रम्— गोहः अङ्गस्य उपधायाः ऊत् अचि |
धेयं यत् अत्र आर्धधातुकत्वस्य निमित्तिकत्वं नास्ति एव; केवलम् गुणनिमित्तक-अजादि प्रत्यये परे | अतः लटि अपि भवति— गुह् + शप् + ति → गुह् + अ + ति → उपधागुणस्य प्रसङ्गत्वात् ऊत्-आदेशः → गूह् + अ + ति → गूहति |
इति भ्वादिगणात् आरभ्य क्र्यादिगण-पर्यन्तं सर्वेषां वेटाम् अनिटां च हलन्तधातूनां तव्यत्-तुमुन्-तृच् इत्यन्त-रूपाणां सिद्धिः समाप्ता |
४) णिजन्तधातूनां तव्यत्-तुमुन्-तृजन्त-रूपसिद्धिः
चुरादिगणे स्वार्थे णिच् चेदपि प्रेरणार्थे णिच् चेदपि यत्र यत्र णिच्-सम्बद्धरूपमपेक्षितं, तत्र तत्र प्रथमकार्यमस्ति धातुतः णिचः विधानम् | अतः तव्यत्-तुमुन्-तृच् इत्येषां प्रसङ्गे सति सर्वप्रथमं णिजन्तधातुः सिध्यति तदा एव तव्यत्-तुमुन्-तृच्-सम्बद्धकार्यम् | सर्वे णिजन्तधातवः अनेकाचः इकारान्ताः च |
फलतः तव्यत्-तुमुन्-तृच् यदा विधीयन्ते, तावता, पूर्वम् अनेकाच् इकारान्तधातुः वर्तते एव | अनेकाच् इति कृत्वा सेट्; इकारान्तः इति कृत्वा सार्वधातुकार्धधातुकयोः (७.३.८४) इति सूत्रस्य कार्यक्षेत्रम् | धातुः सेट्, तव्यत्-तुमुन्-तृच् च वलादयः इत्यतः इडागमः भवति एव इति कृत्वा गुणकार्यानन्तरम् एचोऽयवायावः (६.१.७७) इति सूत्रस्य अवसरः | एवं सति णिजन्तधातूनां तव्यत्-तुमुन्-तृच् इत्येषां रूपसिद्धिमार्गः सर्वत्र समानः |
तद्यथा—
चुर् + णिच् → चोरि इति अनेकाच् इकारान्तधातुः → अनेकाच् अतः सेट् → चोरि + इतव्य → चोरि इगन्तः अतः सार्वधातुकार्धधातुकयोः (७.३.८४) इति सूत्रस्य कार्यक्षेत्रम् → चोरे + इतव्य → धातुः सेट्, तव्यत् च वलादिः इत्यतः इडागमः भवति एव इति कृत्वा गुणकार्यानन्तरम् एचः स्थाने अयादेशः अचि परे → एचोऽयवायावः (६.१.७७) चोरय् + इतव्य → चोरयितव्य
एवमेव—
चुर् + णिच् →→ + इतुम् →
चुर् + णिच् →→ + इतृ →
तथा च सर्वेभ्यः धातुभ्यः, तव्यत्-तुमुन्-तृच् इत्येषां रूपसिद्धिः भवति |
चिन्तनम्
गम् + अनीयर् →
गम् + तव्यत् →
गम् + णिच् + तव्यत् →
क्षल् + अनीयर् →
क्षल् + तव्यत् →
क्षल् + णिच् + तव्यत् →
बुध् + अनीयर् →
बुध् + तव्यत् →
बुध् + णिच् + तव्यत् →
कृ + अनीयर् →
कृ + तव्यत् →
कृ + णिच् + तव्यत् →
नी + अनीयर् →
नी + तव्यत् →
नी + णिच् + तव्यत् →
लिख् + अनीयर् →
लिख् + तव्यत् →
लिख् + णिच् + तव्यत् →
प्रच्छ् + अनीयर् →
प्रच्छ् + तव्यत् →
प्रच्छ् + णिच् + तव्यत् →
पठ् + अनीयर् →
पठ् + तव्यत् →
पठ् + णिच् + तव्यत् →
दृश् + अनीयर् →
दृश् + तव्यत् →
दृश् + णिच् + तव्यत् →
नश् + अनीयर् →
नश् + तव्यत् →
नश् + णिच् + तव्यत् →
वह् + अनीयर् →
वह् + तव्यत् →
वह् + णिच् + तव्यत् →
तॄ + अनीयर् →
तॄ + तव्यत् →
तॄ + णिच् + तव्यत् →
५) सन्नन्तधातूनां तव्यत्-तुमुन्-तृजन्त-रूपसिद्धिः
सर्वेषां सन्नन्तधातूनाम् अन्तिमवर्णः अकारः— इत्युक्तौ सर्वे सन्नन्तधातवः अदन्ताः | तदर्थं तव्यत्-तुमुन्-तृजन्त-विवक्षायां, एषु अन्यतमे प्रत्यये आर्धधातुके सति अतो लोपः (६.४.४८) इत्यस्य प्रसक्तिश्च प्राप्तिश्च भवति एव | तस्मात् सन्नन्तधातोः अन्ते यः अकारः तस्य लोपः | सन्नन्तधातुः च सदा अनेकाच् इति कृत्वा सर्वे सन्नन्तधातवः सेटः | एवं सति सन्नन्तधातूनां तव्यत्-तुमुन्-तृच् इत्येषां रूपसिद्धिमार्गः सर्वत्र समानः |
तद्यथा—
जिगमिष + इतव्य → अतो लोपः (६.४.४८) इत्यनेन अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे → जगमिष् + इतव्य → जिगमिषितव्य
एवमेव—
जिगमिष + इतुम् →
जिगमिष + इतृ →
अतो लोपः (६.४.४८) = अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन अतः अङ्गस्य नाम न केवलम् ह्रस्व-अकारः इत्यङ्गस्य, अपि तु ह्रस्व-अकारान्तस्य अङ्गस्य | अलोऽन्तस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव लोपः (न तु अङ्गस्य) | उपदेशे अनुवर्तते अतः प्रसक्तिः केवलम् उपदेशावस्थायाम्* | अतः षष्ठ्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम् | अनुदात्तोपदेश-वनति-तनोत्यादीना-मनुनासिकलोपो झलि क्ङिति (६.४.३७) इत्यस्मात् उपदेशे इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१), आर्धधातुके (६.४.४६) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूर्त्रम्— अतः अङ्गस्य लोपः आर्धधातुके उपदेशे |
अत्र धेयं यत् ह्रस्व-अकारस्य लोपानन्तरम् पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन उपधायां लघु-इकः गुणप्रसक्तिर्भवति स्म, परन्तु—
अचः परस्मिन् पूर्वविधौ (१.१.५७) = परनिमित्तकः अजादेशः स्थानिवत् भवति, पूर्वविधौ कर्तव्ये | अचः स्थाने यः आदेशः सः अजादेशः | यस्य स्थाने आदेशः विधीयते सः स्थानी | 'अजादेशः स्थानिवत्' नाम यः आदेशः अचः स्थाने विहितः, सः पुनः मूलः अच् इव— 'स्थानिवत्' भवति | पूर्वविधौ नाम सा स्थितिः यदा स्थानिनः अचः पूर्वस्थितस्य कार्यं विधीयते | परस्मिन् इति निमित्तसप्तमी | पूर्वविधौ इति विषयसप्तमी | पूर्वस्य विधिः पूर्वविधिः षष्ठीतत्पुरुषः, तस्मिन् पूर्वविधौ | अचः षष्ठ्यन्तं, परस्मिन् सप्तम्यन्तं, पूर्वविधौ सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | स्थानिवदादेशोऽनल्विधौ (१.१.५६) इत्यस्मात् स्थानिवत्, आदेशः इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहितसूर्त्रम्— अचः आदेशः स्थानिवत् परस्मिन् पूर्वविधौ |
यदा पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन उपधायां स्थितस्य लघु-इकः गुणः जायमानः, तदा 'इतव्य / इतुम् / इतृ' निमित्तं मत्वा अल्लोपः स्थानिवत् भवति अतः उपधागुणः न सम्भवति |
एवमेव सर्वेभ्यः सन्नन्तधातुभ्यः तव्यत्-तुमुन्-तृच् इत्येषां रूपसिद्धिः भवति |
चिन्तनम्
पठ् → पिपठिष + तव्यत् / तुमुन् /तृच्
कृ → चिकीर्ष + तव्यत् / तुमुन् /तृच्
मुच् → मुमुक्ष + तव्यत् / तुमुन् /तृच्
खाद् → चिखादिष + तव्यत् / तुमुन् /तृच्
वद् → विवदिष + तव्यत् / तुमुन् /तृच्
वच् → विवक्ष + तव्यत् / तुमुन् /तृच्
पा → पिपास + तव्यत् / तुमुन् /तृच्
दा → दित्स + तव्यत् / तुमुन् /तृच्
जि → जिगीष + तव्यत् / तुमुन् /तृच्
युध् → युयुत्स + तव्यत् / तुमुन् /तृच्
लभ् → लिप्स + तव्यत् / तुमुन् /तृच्
ज्ञा → जिज्ञास + तव्यत् / तुमुन् /तृच्
श्रु → शुश्रूष + तव्यत् / तुमुन् /तृच्
दृश् → दिदृक्ष + तव्यत् / तुमुन् /तृच्
वृध् → विवर्धिष + तव्यत् / तुमुन् /तृच्
६) यङन्तधातूनां तव्यत्-तुमुन्-तृजन्त-रूपसिद्धिः
सर्वेषां यङन्तधातूनाम् अन्तिमवर्णः अकारः— इत्युक्तौ सर्वे यङन्तधातवः अदन्ताः |
यङ्-प्रत्ययात् पूर्वं यः वर्णः सः अच्-वर्णः चेत् तव्यत्-तुमुन्-तृजन्तानां रूपमेवम्
यङ्-प्रत्ययात् पूर्वं यः वर्णः सः अच्-वर्णः चेत् तव्यत्-तुमुन्-तृजन्तानां रूपमेवम्—
तदर्थं तव्यत्-तुमुन्-तृजन्त-विवक्षायां, एषु अन्यतमे प्रत्यये आर्धधातुके सति अतो लोपः (६.४.४८) इत्यस्य प्रसक्तिश्च प्राप्तिश्च भवति एव | तस्मात् यङन्तधातोः अन्ते यः अकारः तस्य लोपः | यङन्तधातुः च सदा अनेकाच् इति कृत्वा सर्वे यङन्तधातवः सेटः | एवं सति यङन्तधातूनां तव्यत्-तुमुन्-तृच् इत्येषां रूपसिद्धिमार्गः सर्वत्र समानः |
तद्यथा—
नेनीय + इतव्य → अतो लोपः (६.४.४८) इत्यनेन अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे → नेनीय् + इतव्य → नेनीयितव्य
एवमेव—
नेनीय + इतुम् →
नेनीय + इतृ →
एवमेव—
लोलूय + इतव्य / इतुम् / इतृ →
बोभूय + इतव्य / इतुम् / इतृ →
यङ्-प्रत्ययात् पूर्वं यः वर्णः सः हल्-वर्णः चेत् तव्यत्-तुमुन्-तृजन्त-रूपमेवम्
यङ्-प्रत्ययात् पूर्वं यः वर्णः सः हल्-वर्णः चेत् तव्यत्-तुमुन्-तृजन्त-रूपमेवम्—
यस्य हलः (६.४.४९) = हलुत्तरयशब्दलोपो भवति आर्धधातुकप्रत्यये परे | अनेन 'य' इत्यस्य लोपः बेभिद्य → बेभिदितव्य |
बाभ्रश्य + इतव्य → यस्य हलः (६.४.४९) इत्यनेन हलुत्तरयशब्दलोपो भवति आर्धधातुकप्रत्यये परे → बाभ्रश् + इतव्य → बाभ्रशितव्य
एवमेव—
बाभ्रश्य + इतुम् →
बाभ्रश्य + इतृ →
एवमेव—
दन्द्रम्य + इतव्य / इतुम् / इतृ →
चङ्क्रम्य + इतव्य / इतुम् / इतृ →
लेलिख्य + इतव्य / इतुम् / इतृ →
पापठ्य + इतव्य / इतुम् / इतृ →
वावश्य + इतव्य / इतुम् / इतृ →
नेनिज्य + इतव्य / इतुम् / इतृ →
वेविध्य + इतव्य / इतुम् / इतृ →
मोमुद्य + इतव्य / इतुम् / इतृ →
अत्र धेयं यत् यशब्दस्य लोपानन्तरम् पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन उपधायां लघु-इकः गुणप्रसक्तिर्भवति स्म, परन्तु—
अचः परस्मिन् पूर्वविधौ (१.१.५७) = परनिमित्तकः अजादेशः स्थानिवत् भवति, पूर्वविधौ कर्तव्ये | अचः स्थाने यः आदेशः सः अजादेशः | यस्य स्थाने आदेशः विधीयते सः स्थानी | 'अजादेशः स्थानिवत्' नाम यः आदेशः अचः स्थाने विहितः, सः पुनः मूलः अच् इव— 'स्थानिवत्' भवति | पूर्वविधौ नाम सा स्थितिः यदा स्थानिनः अचः पूर्वस्थितस्य कार्यं विधीयते | परस्मिन् इति निमित्तसप्तमी | पूर्वविधौ इति विषयसप्तमी | पूर्वस्य विधिः पूर्वविधिः षष्ठीतत्पुरुषः, तस्मिन् पूर्वविधौ | अचः षष्ठ्यन्तं, परस्मिन् सप्तम्यन्तं, पूर्वविधौ सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | स्थानिवदादेशोऽनल्विधौ (१.१.५६) इत्यस्मात् स्थानिवत्, आदेशः इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहितसूर्त्रम्— अचः आदेशः स्थानिवत् परस्मिन् पूर्वविधौ |
यदा पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन उपधायां स्थितस्य लघु-इकः गुणः जायमानः, तदा 'इतव्य / इतुम् / इतृ' निमित्तं मत्वा अल्लोपः स्थानिवत् भवति अतः उपधागुणः न सम्भवति |
यस्य हलः (६.४.४९) = हलुत्तरस्य यशब्दस्य लोपो भवति आर्धधातुकप्रत्यये परे | यस्य षष्ठ्यन्तं, हलः पञ्चम्यन्तं, द्विपदमिदं सूत्रम् | अतो लोपः (६.४.४८) इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१), आर्धधातुके (६.४.४६) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्— हलः यस्य अङ्गस्य लोपः आर्धधातुके |
अत्र प्रश्नः आगतः यत् यस्य हलः (६.४.४९) इत्यनेन ‘य’-शब्दस्य लोपानन्तरं यदा पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणः जायमानः, तदा 'इतव्य / इतुम् / इतृ' निमित्तं मत्वा “अल्लोपः स्थानिवत्” भवति इत्यस्मात् उपधागुणः यत्र बाधितः तत्र “अल्लोपः स्थानिवत्” इत्यस्य कथनेन अल्लोपस्य स्थानिवत्त्वम् अकारे एव वा, सम्पूर्णयशब्दे वा | तत्र मात्रा उच्यते यत् “अचः परस्मिन् पूर्वविधौ (१.१.५७) इत्यनेन परनिमित्तकः अजादेशः स्थानिवत् भवति पूर्वविधौ कर्तव्ये”, अत्रैव सूत्रार्थे अस्यां परिस्थितौ समस्या जायते यतोहि ’य’-शब्दस्य लोपः अजादेशः एव नास्ति अतः ’य’-शब्दस्य लोपः प्रसङ्गः इति चेत, “अचः परस्मिन् पूर्वविधौ (१.१.५७) इत्यस्य प्रसक्तिरेव नास्ति |
समाधानत्वेन मातृभिः प्रतिपाद्यते यत् यस्य हलः (६.४.४९) इत्यनेन ’य’-शब्दस्य लोपो न भवति; यकारस्य एव लोपः | तदा अतो लोपः (६.४.४८) इत्यनेन अकारस्य लोपः—अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे (प्रथमं यस्य हलः (६.४.४९) तदा अतो लोपः (६.४.४८); यदि अतो लोपः (६.४.४८) इत्यस्य कार्यं प्रथमं क्रियते, तर्हि यस्य हलः (६.४.४९) इत्यस्य प्रसक्तिरेव न भविष्यति यकारोत्तरवर्त्यकारस्याभावात् | अपि च अचः परस्मिन् पूर्वविधौ (१.१.५७) इत्यस्मिन् स्थानिवद्भावः निषेधार्थ न तु विधानार्थं भवति अतः अतो लोपः (६.४.४८) इत्यनेन अकारलोपविधानं साधयितुं न शक्यते अकारस्य स्थानिवद्भावेन |) यस्य हलः (६.४.४९) इत्यनेन यकारस्य एव लोपः, इयम् आश्चर्यस्य वार्ता यतोहि यस्य हलः (६.४.४९) इत्यस्य काशिका-व्याख्यायां लिखितमस्ति यत् “हल उत्तरस्य यशब्दस्य आर्धधातुके लोपो भवति”; सिद्धान्तकौमुद्याञ्च “हलः परस्य यशब्दस्य लोपः स्यादार्धधातुके |“ तदुत्तरे माता वदति यत् द्वयोः ग्रन्थयोः ’य-शब्दः’ इत्यस्य अर्थः एवं नास्ति यत् यकार-अकारयोः लोपो भवति, उभयग्रन्थे ’संघातग्रहणम्’ इत्यस्य उक्तत्वात् | ’संघातग्रहणम्’ इत्यस्य सम्पूर्णबोधनार्थम् अग्रे पठितव्यम् |
लेलिख्य + इतव्य → यस्य हलः (६.४.४९) इत्यनेन यकारलोपः → लेलिख + इतव्य → अतो लोपः (६.४.४८) इत्यनेन अल्लोपः → लेलिख् + इतव्य → अचः परस्मिन् पूर्वविधौ (१.१.५७) इत्यनेन अकारस्य स्थानिवत्त्वात् पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणकार्यं न भवति → लेलिखितव्य
यथोक्तं माता वदति यत् यस्य हलः (६.४.४९) इत्यनेन ’य’-शब्दस्य (यकराकारयोः) लोपः यदि स्यात् तर्हि अचः परस्मिन् पूर्वविधौ (१.१.५७) इत्यस्य प्रसक्तिरेव नाभविष्यत् यतोहि अचः एव स्थानिवत्त्वं विधीयते, तत्र च अकारः स्थानी नास्ति अपि तु ’य’-शव्दः एव स्थानी | तस्यां दशायां स्थानिवत्त्वं न भवति |
लेलिख्य + इतव्य इति स्थले अतो लोपः (६.४.४८) इत्यनेन एव अकारस्य लोपः भवति न तु यस्य हलः (६.४.४९) इत्येनन, प्रमाणार्थं यस्य हलः (६.४.४९) इत्यस्य पदमञ्जरी-व्याख्यायां माता प्रदर्शितवती यत् “अवश्यं चातो लोप एवात्रैष्टव्यः, अन्यथा पापचक इत्यादौ अत उपधायाः इति वृद्धिः स्यात्, स्थानिवद्भावान्न भवति | तस्मात्सङ्घातस्य ग्रहणम्, अवयवशस्तु लोप इति, तदेव युक्तम् |“ पच् + यङ् → पापच्य + ण्वुल् → यस्य हलः (६.४.४९) → पापच् + ण्वुल् → अकारसहितयकारस्य लोपेन अचः परस्मिन् पूर्वविधौ (१.१.५७) इत्यस्य अप्रसक्तिः; स्थानिवत्त्वाभावात् अत उपधायाः इत्यनेन वृद्धिः → पापाचक इति अनिष्टरूपम् | यदि क्रमेण यस्य हलः (६.४.४९) इत्यनेन यकारस्य लोपः क्रियते अपि च अतो लोपः (६.४.४८) इत्यनेन अकारस्य लोपः, तदा अचः परस्मिन् पूर्वविधौ (१.१.५७) इत्यस्य स्थानिवत्त्वात् अत उपधायाः इत्यनेन वृद्धित्वं नास्ति, तस्मात् ’पापचक’ इति इष्टं रूपं जायते |
अधुना काशिकायां किं लिखितमिति पश्येम—
“हल उत्तरस्य यशब्दस्यार्धधातुके लोपो भवति | बेभिदिता | बेभिदितुम् | बेभिदितव्यम् | यस्येति सङ्घातग्रहणमेतत् | तत्र ’अलोऽन्त्यस्य’ (१.१.५२) इत्येतद् न भवति, ’अतो लोपः’ (६.४.४८) इत्यनेनैव तस्य सिद्धत्वात् | हल इति वा पञ्चमीनिर्देशः, तत्र ’आदेः परस्य’ (६.४.४९) इति यकारोऽनेन लुप्यते | सङ्घातग्रहणं किम् ? ईर्ष्यिता | मव्यिता | हल इति किम्? लोलूयिता | पोपूयिता |”
अत्र काशिकायां “यशब्दस्यार्धधातुके लोपो भवति” इति तु लिखितमस्ति, किन्तु तदा लिखितमस्ति “यस्येति सङ्घातग्रहणमेतत्” | सङ्घातग्रहणम् इत्युक्ते यत् यकारस्य लोपः एव भवति न तु अकारस्य, किन्तु तदा यकारलोपः प्रसक्तः यदा स च यकारः अकारसहितः | अकारः नास्ति चेत्, यकारलोपः न जायते | अतः विशेषतः उक्तं यत् “यस्येति सङ्घातग्रहणमेतत्” | नो चेत् यदि “यशब्दस्य लोपः” इत्यस्य सामान्यः अर्थः अभिविष्यत् तर्हि “यस्येति सङ्घातग्रहणमेतत्” इति वदनस्य आवश्यकता नासीत्—“यशब्दस्य लोपः” इत्यस्य वदनेन सर्वेषां बोधः तु भवत्येव यत् द्वयोः वर्णयोः लोपः जायमानः; तदानीम् अतिरिक्तं वक्तव्यमस्ति यदा सामान्यः अर्थः नास्ति |
प्रश्नः उदेति यत् काशिकाकारस्य च अपरेषां व्याख्याकाराणाञ्च मनसि कुतः विचारः आगतः “यस्येति सङ्घातग्रहणमेतत्” ? यस्य हलः (६.४.४९) इति सूत्रे तदर्थमेव ’यस्य’ इत्युक्तं न तु ’यः’ | नो चेत् ’यः हलः’ इति सूत्ररूपं स्यात् तेन यकारस्य एव लोपः इति स्पष्टतया सूचितः अभविष्यत् | किन्तु तदा “अकारसहितयकारः भवेत्” इति तादृशी सूचना न प्राप्येत | ’यस्य’ इत्यस्य कथनेन प्रथमाविभक्तौ ’यः’; ’यः’ इत्यस्य प्रथमाविभक्तौ ’य्’ इत्येव, नाम यकारः एव | किन्तु अनेन इष्टकार्यं सर्वत्र न सिध्यति; अधोभागे प्रदर्श्यते | अपि च यथोक्तम् उपरि, ’यस्य’ इत्यस्य कथनेन य-शब्दः इति अर्थः न भवितुमर्हति यतोहि तथा अस्ति चेत्, अचः परस्मिन् पूर्वविधौ (१.१.५७) इत्यनेन अजादेशस्य अभावात् स्थानिवद्भावः न भविष्यति, यस्मात् गुणकार्यस्य सिद्धत्वात् अनिष्टं रूपम् आयास्यति | अतः ’यः’ नोक्तम् इति कृत्वा केवलं सामान्ययकारलोपः अपि नास्ति, ’यस्य’ इति उक्तम् चेदपि यशब्दलोपः असम्भवः, अनेन पर्यवसितं यत् ’यस्य’ इत्यस्य कथनेन तादृशस्य यकारस्य लोपः यः यकारः अकारयुक्तः—इति इष्टः अर्थः इति कृत्वा व्याख्याकारैः उक्तं “यस्येति सङ्घातग्रहणमेतत्” |
अग्रे “तत्र ’अलोऽन्त्यस्य’ (१.१.५२) इत्येतद् न भवति, ’अतो लोपः’ (६.४.४८) इत्यनेनैव तस्य सिद्धत्वात् |” यस्य हलः (६.४.४९) इति सूत्रे ‘यस्य’ इति षष्ठ्यन्तं पदं; तदर्थं सूत्रे यस्य लोपः इत्यस्य कथनेन अलोऽन्त्यस्य (१.१.५२) इत्यनेन यकारोत्तरवर्तिनः अकारस्य एव लोपः भवति स्म | किन्तु अस्य आवश्यकता नास्ति यतोहि अतो लोपः (६.४.४८) इत्यनेन अकारलोपः सेत्स्यति | अतः उक्तं यत् अतो लोपः (६.४.४८) इत्यनेनैव तस्य (अकारलोपस्य) सिद्धत्वात् अलोऽन्त्यस्य (१.१.५२) इत्येतद् न भवति |
तदा काशिकायां दत्तमस्ति यत् “हल इति वा पञ्चमीनिर्देशः, तत्र ’आदेः परस्य’ (६.४.४९) इति यकारोऽनेन लुप्यते |” अत्र उच्यते यत् यतोहि ’हलः’ इति कार्यस्य निमित्तं पञ्चमीविभक्तौ, तदर्थं लोपः यः विधीयते सः केवलम् अग्रिमभागस्य प्रथमवर्णस्य स्थाने भवति | अत्र बोध्यं यत् ’वा’ इत्यस्य कथनेन ’सूत्रार्थविकल्पः’ इत्यस्य इङ्गितं नास्ति, इति मात्रा उक्तम् | अत्र केवलं यस्य हलः (६.४.४९) इत्यस्य यः एकः एव अर्थः (यत् यकारस्य एव लोपः न तु य-शब्दस्य), तस्य प्रतिपादनार्थम् इतोऽपि एकः मार्गः अयम् |
आदेः परस्य (६.४.४९) = पञ्चमीनिर्दिष्टात् निमित्तात् विद्यमानशब्दः, उक्तः आदेशः तस्य शब्दस्य प्रथमवर्णस्य एव स्थाने भवति | परस्य यद्विहितं तत्तस्यादेर्बोध्यम् इति सिद्धान्तकौमुदी | परिभाषासूत्रम् एतत् | इदं सूत्रं तस्मादित्त्युत्तरस्य (१.१.६७) इति नियमयति | तस्मादित्त्युत्तरस्य (१.१.६७) इत्यनेन यावत् अस्ति परं तत्सर्वम् इति सूचयति; आदेः परस्य (६.४.४९) इत्यनेन उच्यते यत् केवलं परभागस्य प्रथमवर्णस्य कार्यम् इति | स्थानेऽन्तरतमः (१.१.५०) इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः | अलोऽन्त्यस्य (१.१.५२) इत्यस्मात् अलः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— परस्य आदेः अलः स्थाने |
अग्रे काशिकायाम् उक्तं यत् “सङ्घातग्रहणं किम् ? ईर्ष्यिता | मव्यिता |” अत्र ईर्ष्य्-धातुः, मव्य्-धातुः योगः तृच्-प्रत्ययः | ईर्ष्य् + इतृ → यदि यस्य हलः (६.४.४९) इत्यनेन हल्वर्णात् आर्धधातुके परे यकारलोपः भवति तर्हि यकारस्य अत्रापि लोपः भविष्यति यः अनिष्टः | तस्य निवारणार्थम् उक्तं “यस्येति सङ्घातग्रहणमेतत्” इति | अनेन अवगम्यते यत् यः यकारः अकारसहितः तस्य एव लोपः भवति हलः आर्धधातुके |
काशिकायाः अन्तिमः अंशः अस्ति, “हल इति किम् ? लोलूयिता | पोपूयिता |” अनेन बोध्यं यत् यकारात् प्राक् हल् वर्णः नास्ति चेत्, यकारलोपो न भवतीति | लोलूय + इतृ | पोपूय + इतृ |
अत्र प्रश्नः उदेति यत् यस्य हलः (६.४.४९) इति सूत्रेण ’य’-शब्दस्य (यकाराकारयोः) लोपः भवति चेत् लाघवं भवति अतो लोपः (६.४.४८) इत्यस्य अनावश्यकत्वात् | तदर्थम् अचः परस्मिन् पूर्वविधौ (१.१.५७) इत्यनेन यः लोपः अजादेशः उक्तः, तस्य अजादेशत्वं यशब्दलोपे स्वीकर्तव्यम्, अनेन तस्य स्थानिवद्भावः अपि भविष्यति, लाघवमपि भविष्यति | नो चेत् लेलिख्य + इतव्य इति स्थले यशब्दलोपानन्तरं लेलिख् + इतव्य → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन उपधायां स्थितस्य लघु-इकः गुणः भविष्यति अतः लेलेखितव्य इति अनिष्टरूपं जायेत | तर्हि अजादेशत्वं यशब्दलोपे स्वीकर्तव्यम् | मातृभिः पृष्टं तथा भवितुमर्हति वा इति | ताभिः प्रतिपादितं यत् भाष्यकारैः प्रदर्शितं यत् अनेकैः कारणैः अचः परस्मिन् पूर्वविधौ (१.१.५७) इति स्थले अजादेशः इत्युक्ते एक एव अच्-वर्णस्यः यः आदेशः | अच्-युक्तहल्वर्णः चेत् अथवा अच्-युक्त-अच्-वर्णः चेत् अजादेशः स्वीकर्तुं न शक्यते |
भाष्यकारैः प्रमाणत्वेन अनेकानि उदाहरणानि दत्तनि | अत्र एकम्—
विंशति → “विंशतेः पूरणम्” इति अर्थे विंशति-शब्दात् तस्य पूरणे डट् (५.२.४८) इत्यनेन डट्-प्रत्ययः → विंशति + डट् → अनुबन्धलोपानन्तरम् → विंशति + अ → अस्मिन् प्रत्यये परे 'विंशति' इत्यस्य यचि भम् (१.४.१८) इत्यनेन भ-संज्ञा भवति, तदा ति विंशतेर्डिति (६.४.१४२) इत्यनेन भसंज्ञकस्य विंशति-शब्दस्य 'ति'-इत्यस्य लोपः → विंश + अ → अतो गुणे (६.१.९७) इत्यनेन पूर्वपरयोः पररूप-एकादेशः → विंश इति शब्दः
अत्र ति-लोपः भवति, ’ति’ इत्यत्र तकारः + इकारः, वर्णद्वयस्य लोपः| अत्र अचः परस्मिन् पूर्वविधौ (१.१.५७) इत्यनेन तिलोपः अजादेशः इति स्वीक्रियते चेत् विंशः इति रूपं न लभ्यते यतोहि “विंश + ति + अ” इति भवति | अतो गुणे (६.१.९७) इत्यस्य प्रसक्तिः तदा नास्ति | “विंश + ति + अ” इति एव तिष्ठति | अथवा अजादेशत्वेन इकारः एव स्वीक्रियते चेत् “विंश + इ + अ” → अतो गुणे (६.१.९७) → विंशि + अ → विंश्य इति अनिष्टं रूपम् | अतः कथञ्चिदपि अस्यां दशायां यत्र एकमेव अच्-वर्णं त्यक्त्वा वर्णद्वयमस्ति, तत्र अचः परस्मिन् पूर्वविधौ (१.१.५७) इत्यनेन अजादेशः न स्वीकर्तव्यः |
अन्यत् उदाहरणाम्—
स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः (६.४.१५६) = स्थूल-दूर-युव-ह्रस्व-क्षिप्र-क्षुद्र इत्येतेषां यणादिपरं लुप्यते इष्ठ-इमन्-ईयस् इत्येषु प्रत्ययेषु परेषु, पूर्वस्य च गुणो भवति |
स्थूल + इष्ठन् → स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः (६.४.१५६) इत्यनेन यणादिः लुप्यते → ल (ल् + अ) इत्यस्य लोपः → स्थू + इष्ठन् → तदा तेन एव सूत्रेण गुणः → स्थो + इष्ठ → एचोऽयवायावः (६.१.७८) → स्थविष्ठः इति रूपम् |
अत्र अजादेशत्वं लशब्दलोपे स्वीक्रियते चेत् तस्य स्थानिवद्भावः भवति | तर्हि स्थो + इष्ठ → गुणादेशः तु भवति स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः (६.४.१५६) इति सूत्रेण | परन्तु स्थो + इष्ठ → अधुना स्थानिवद्भावः भवति ल इति एकादेशस्य | अतः स्थो + ल + इष्ठ → एचोऽयवायावः (६.१.७८) इत्यस्य कार्यं न भवति अतः ’स्थविष्ठ’ इति रूपं न लभ्यते | अतः यत्र एकमेव अच्-वर्णं त्यक्त्वा वर्णद्वयमस्ति, तत्र अचः परस्मिन् पूर्वविधौ (१.१.५७) इत्यनेन अजादेशः च स्थानिवद्भावश्च न स्वीकर्तव्यः |
आहत्य यस्य हलः (६.४.४९) इति सूत्रेण आर्धधातुकप्रत्यये परे हलुत्तरस्य ’य’-शब्दस्य लोपो नास्ति अपि तु यकारस्य एव | तदा अतो लोपः (६.४.४८) इत्यनेन अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे | अनेन च अचः परस्मिन् पूर्वविधौ (१.१.५७) इत्यनेन पूर्वविधौ कर्तव्ये परनिमित्तकः अजादेशः स्थानिवत् भवति, यस्मात् लेलिख्य + इतव्य इति स्थले अनिष्टं गुणकार्यं न भवति, इष्टं रूपञ्च लेलिखितव्य जायते |
७) यङ्लुगन्तधातूनां तव्यत्-तुमुन्-तृजन्त-रूपसिद्धिः
आकारान्तधातुः दादा + इतव्य → दादितव्य
आतो लोप इटि च (६.४.६४) = आकारान्तस्य अङ्गस्य आकरस्य लोपो भवति अजाद्यार्धधातुके क्ङिति परे, आर्धाधातुके इटि परे च |
एवमेव—
दादा + इतुम् →
दादा + इतृ →
इकारान्तधातुः शोश्रि + इतव्य → शोश्रयितव्य
एवमेव—
शोश्रि + इतुम् →
शोश्रि + इतृ →
उकारान्तधातुः बोभू + इतव्य → बोभवितव्य
एवमेव—
बोभू + इतुम् →
बोभू + इतृ →
ऋकारान्तधातुः चर्कृ + इतव्य → चर्करितव्य
एवमेव—
चर्कृ + इतुम् →
चर्कृ + इतृ →
ॠकारान्तधातुः तातॄ + इतव्य → तातरितव्य
एवमेव—
इतव्य + इतुम् →
इतव्य + इतृ →
अदुपधधातुः शाशक् + इतव्य → शाशकितव्य
एवमेव—
शाशक् + इतुम् →
शाशक् + इतृ →
इदुपधधातुः लेलिख् + इतव्य → लेलेखितव्य
एवमेव—
लेलिख् + इतुम् →
लेलिख् + इतृ →
उदुपधधातुः मोमुद् + इतव्य → मोमोदितव्य
एवमेव—
मोमुद् + इतुम् →
मोमुद् + इतृ →
ऋदुपधधातुः वरीवृत् + इतव्य → वरीवर्तितव्य
एवमेव—
वरीवृत् + इतुम् →
वरीवृत् + इतृ →
अवशिष्टधातूनां किमपि कार्यं नास्ति—
बाबन्ध् + इतव्य → बाबन्धितव्य
एवमेव—
बाबन्ध् + इतुम् →
बाबन्ध् + इतृ →
८) क्यच्, क्यष्, क्यङ्-प्रत्ययान्तधातूनां तव्यत्-तुमुन्-तृजन्त-रूपसिद्धिः
क्यस्य विभाषा (६.४.५०) = हलः परयोः क्यच्-क्यङोः प्रत्यययोः लोपो वा स्यादार्धधातुके |
समिध्य + इतव्य → समिधितव्य, समिध्यितव्य |
एवमेव—
समिध्य + इतुम् →
समिध्य + इतृ →
इति सर्वेषां धातूनां तव्यत्-तुमुन्-तृजन्त-रूपसिद्धिः समाप्ता |
Swarup March 2023