णिजन्तव्यवस्थायां प्रयोज्यकर्तुः कर्मत्वम्

From Samskrita Vyakaranam
9---anye-vyAkaraNa-sambaddha-viShayAH/11A---preraNArthe-Nic---prayojyakartuH--- karmatvam
Jump to navigation Jump to search


२०२३ ध्वनिमुद्रणानि
१) preranArthe Nic - gatibuddhipratyavasAnArthAkarmakANAm aNikarta sa Nau _ 2023-05-01
२) preranArthe Nic - gatibuddhipratyavasAnArthAkarmakANAm aNikarta sa Nau_2023-05-08
३) preranArthe Nic- gatibuddhipratyavasAnArthAkarmakANAm aNikarta sa Nau- abhyAsaH_  2023-05-15
४) preranArthe Nic- gatibuddhipratyavasAnArthAkarmakANAm aNikarta sa Nau_  2023-05-29
५) preranArthE Nic - gatibuddhipratyavasAnArthAkarmakANAm aNikarta sa Nau+ vArtikAni_ 2023-06-05
६) preranArthE Nic - gatibuddhipratyavasAnArthAkarmakANAm aNikarta sa Nau+ vArtikAni_ 2023-06-11
७) preranArthE Nic - gatibuddhipratyavasAnArthAkarmakANAm aNikarta sa Nau+ vArtikAni_2023-06-19
८) preranArthE Nic - karmaNiprayogaH_ 2023-06-26
९) preranArthE Nic- karmaNiprayogaH_ 2023-07-03
१०) preranArthe Nic- karmaNiprayogaH_2023-07-10
११) preranArthE Nic-karmaNiprayogaH_ 2023-07-17
१२) preranArthE Nic- abhyAsaH _ 2023-07-24
१३) preranArthE Nic- abhyAsaH _2023-07-31
१४) preranArthE Nic-abhyAsaH_2023-08-07


णिजन्तप्रयोगे प्रयोज्यकर्तुः कर्मत्वम्


णिजन्तप्रयोगे प्रयोज्यकर्तुः कर्मत्वं विधीयते केषुचित् अर्थेषु | कदा कर्मत्वं विधीयते इति ज्ञातुं गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणिकर्ता स णौ (१.४.५२) इति सूत्रं पठनीयम् |


गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणिकर्ता स णौ ( १.४.५२) = गत्यर्थानां, बुद्ध्यर्थानां( ज्ञानार्थानां), प्रत्यवसानार्थानां( भोजनार्थानां), शब्दकर्मकाणाम्, अकर्मकानाञ्च  धातूनाम् अण्यन्तावस्थायां यः कर्ता, सः ण्यन्तावस्थायां कर्मसंज्ञां प्राप्नोति | गतिश्च बुद्धिश्च प्रत्यवसानञ्च गतिबुद्धिप्रत्यवसनानि, तानि अर्थाः येषां ते गतिबुद्धिप्रत्यवसनार्थाः (धातवः) | शब्दः कर्म येषां ते शब्दकर्मणः | अविद्यमानं कर्म येषां ते अकर्मकाः | गतिबुद्धिप्रत्यवसानार्थाश्च शब्दकर्माणश्च अकर्मकश्च ते गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकास्तेषाम् | न णिः अणिः, अणौ कर्ता अणिकर्ता | गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणां षष्ठ्यन्तम्, अणिकर्ता प्रथमान्तं, स प्रथमान्तं, णौ सप्तम्यन्तम् अनेकपदमिदं सूत्रम् | कर्तुरीप्सिततमं कर्म (१.४.४९) इत्यस्मात् कर्म इति पदस्य अनुवृत्तिः भवति | कारके (१.४.२३) इति सूत्रस्य अधिकारः | अनुवृत्ति-सहित-सूत्रं— गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणाम् अणिकर्ता स णौ कर्म कारकम् |


प्रयोज्यकर्तुः प्रेषणादिव्यापारस्य ईप्स्तितमं कारकं प्रयोज्यकर्ता एव अस्ति | अतः एव प्रयोज्यकर्तुः कर्मसंज्ञा भवति कर्तुरीप्स्तितमं कर्म (१.४.४९) इति सूत्रेण एव, तर्हि प्रकृतसूत्रं व्यर्थं भवति वा?


अस्य समाधानमेवं यत् प्रकृतसूत्रं नियमसूत्रम् अस्ति | पूर्वसूत्रेण एव कर्मसंज्ञायां प्राप्तायाम् इदं सूत्रं नियमयति यत् ण्यन्तधातूनां योगे प्रयोज्यकर्तुः कर्मसंज्ञा केवलं सूत्रपठितानां गत्यर्थकानां, बुद्ध्यर्थकानां, प्रत्यवसानार्थकानां, शब्दकर्मकानाम्, अकर्मकानाञ्च धातूनामेव भवति न अन्येषाम् |


अस्मिन् सूत्रे णौ इत्यनेन हेतुमति च (३.१.२६) इति सूत्रेण यः णिच्प्रत्ययः विधीयते, तस्य ग्रहणं भवति | णिच्‌-प्रत्ययः यथा स्वार्थे भवति तथैव प्रेरणार्थे अपि भवति | प्रेरणार्थे णिच्प्रत्ययः प्रायः सर्वेभ्यः धातुभ्यः भवति | यथा पठति → पाठयति; अत्र पठनार्थं प्रेरयति | एतादृशेषु प्रयोगेषु प्रेरणार्थे णिच्‌-प्रत्ययः आगतः | णिच्प्रत्ययस्य विधानानन्तरं धातुः ण्यन्तः भवति | णिच्प्रत्ययात् पूर्वं धातुः अण्यन्तः अस्ति | यथा देवदत्तः पाठं पठति | पठ्-धातुः अण्यन्तः अस्ति | आचार्यः देवदत्तेन पाठं पाठयति |  णिच्प्रत्ययस्य विधानानन्तरं पाठि इति धातुः ण्यन्तः भवति | णिजन्तयुक्ते वाक्ये कर्तृपदद्वयं दृश्यते | यः प्रेरकः भवति, सः प्रयोजककर्ता | यः प्रेरितः भवति, सः प्रयोज्यकर्ता इति उच्यते |


शिष्यः पाठं लिखति इति अण्यन्तावस्थायां वाक्यम् | ण्यन्तावस्थायां तदेव वाक्यमेवं भवति - अध्यापकः शिष्येण पाठं लेखयति | अत्र अध्यापकः प्रयोजककर्ता, शिष्यः प्रयोज्यकर्ता अस्ति | नाम अण्यन्तावास्थायां यः कर्ता शिष्यः, सः कर्ता ण्यन्तावस्थायां प्रयोज्यकर्ता भवति, ण्यन्तावस्थायां यः कर्ता अध्यापकः, सः प्रयोजककर्ता भवति |


अनेन गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणिकर्ता स णौ ( १.४.५२) इति सूत्रेण सर्वेषां धातूनाम् अण्यन्तावस्थायां यः कोऽपि कर्ता अस्ति सः कर्मसंज्ञकः न भवति ण्यन्तावस्थायाम्, अपि तु केवलं केषाञ्चन धातूनाम् एव यः कर्ता अण्यन्तावस्थायां सः कर्मसंज्ञकः भवति ण्यन्तावस्थायाम् | ते धातवः के इति सूत्रेण एव उक्तम् अस्ति | गत्यर्थानां, बुद्ध्यर्थानां, प्रत्यवसानार्थानां ( भोजनार्थानां), शब्दकर्मकाणाम्, अकर्मकनाम् च  धातूनाम् अण्यन्तावस्थायां यः कर्ता, सः ण्यन्तावस्थायां कर्मसंज्ञकः भवति | नाम धातुपाठे ये धातवः गत्यर्थकाः, बुद्ध्यर्थकाः, प्रत्यवसानार्थकाः, शब्दकर्मकाः, अकर्मकाः, तेषां सर्वेषां ग्रहणम् अनेन सूत्रेण भवति येन प्रयोज्यकर्ता कर्मत्वं प्राप्नोति |


गम्, इण्,  चल् इत्यादयः धातवः गत्यर्थकाः | बुध्, ज्ञा, विद् इत्यादयः धातवः ज्ञानार्थकाः सन्ति | प्रत्यवसानम् इत्यस्य अर्थः भक्षणम् इति | भक्ष्, अश्, भुज् इत्यादयः धातवः भक्षणार्थकाः सन्ति | शब्दकर्मकाः नाम तादृशधातवः यस्य कर्म शब्दः | अकर्मकधातुः नाम तादृशधातुः यस्य फलव्यापारयोः आश्रयः एकः एव भवति | एतेषां गत्यर्थकानां, बुद्ध्यर्थकानां, शब्दकर्मकानाम्, अकर्मकानाञ्च धातूनां यः कर्ता अण्यन्तावस्थायां, सः कर्ता प्रेरणार्थकक्रियायां कर्म भवति | गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ (१.४.५२) इति सूत्रं केवलम् उक्तानां परिगणितानां धातूनां कृते एव कार्यं करोति इति स्मर्तव्यम् |


प्रेरणार्थस्य विवक्षायां प्रक्रिया एवम्‌—


लिख्‌                     भूवादयो धातवः (१.३.१) इत्यनेन लिख्‌ इत्यस्य धातु-संज्ञा | हेतुमति च (३.१.२६) इत्यनेन णिचः विधानम्‌ |

लिख्‌ + णिच्‌             चुटू, हलन्त्यम्‌, तस्य लोपः (अनुबन्धलोपः)

लिख्‌ + इ                पुगन्तलघूपधस्य च (७.३.८६) = उपधायां लघु-इकः गुणः आर्धधातुकप्रत्यये परे

लेखि                     सनाद्यन्ता धातवः ( ३.१.३२) इति सूत्रेण लेखि इत्यस्य धातु-संज्ञा | लट्‌ विवक्षायाम्‌, प्रथमपुरुषस्य एकवचने "ति" प्रत्ययः

लेखि + ति              कर्तरि शप्‌ ( ३.१.६८) (कर्त्रर्थे तिङ्-प्रत्यये‌ वा शित्‌-कृत्-प्रत्यये वा शप्‌ विहितः भवति)

लेखि + शप्‌ + ति       अनुबन्धलोपे (लशक्वतद्धिते, हलन्त्यम्‌, तस्य लोपः)

लेखि + अ + ति         सार्वधातुकार्धधातुकयोः ( ७.३.८४) (शप्‌ शित्‌‍ अस्ति, पित्‌ अपि अस्ति अतः धातोः अन्त्यस्य इकः गुणः)

लेखे + अ + ति         एचोऽयवायावः (६.१.७८) इत्यनेन अचि परे ए-स्थाने अय्‌ आदेशः

लेख्‌ + अय्‌ + अ + ति वर्णमेलने लेखयति इति तिङन्तरूपं निष्पन्नम्‌ |


गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ ( १.४.५२) इति सूत्रेण अण्यन्तावास्थायां यः कर्ता ( प्रयोज्यकर्ता) सः ण्यान्तावस्थायां कर्मसंज्ञां प्राप्नोति इति जानीमः | तदनन्तरं कर्मसंज्ञाम् आश्रित्य कर्मणि द्वितीया (२.३.२) इत्यनेन प्रयोज्यकर्तुः द्वितीयाविभक्तिः विधीयते |


कर्मणि द्वितीया (२.३.२) इति सूत्रस्य अवगमनार्थं ज्ञातव्यं यत् कर्मसंज्ञा इति काचित् संज्ञा विधीयते व्याकरणे | यस्य कर्मसंज्ञा विहिता तस्य अनभिहिते द्वितीयाविभक्तिः भवति इति नियमः | अनभिहिते नाम अनुक्ते इत्यर्थः | केन अनुक्तम् इत्युक्ते प्रत्ययेन | यस्मिन् अर्थे प्रत्ययः विधीयते सः उक्तः भवति | यदि प्रत्ययः कर्त्रर्थे विहितः अस्ति तर्हि कर्ता प्रत्ययेन उक्तः भवति, यदि प्रत्ययः कर्मार्थे विहितः अस्ति तर्हि कर्म उक्तं भवति, यदि प्रत्ययः भावार्थे विहितः अस्ति, तर्हि कर्ता अपि अनुक्तः, कर्म अपि अनुक्तं भवति | यत् उक्तं तस्य प्रथमाविभक्तिः भवति इति सामान्यनियमः | यत् अनुक्तं तस्य विभक्तिविधानं भवति कारकम् आश्रित्य | अनुक्ते कर्तृकारके तृतीयाविभक्तिः भवति |  अनुक्ते कर्मकारके द्वितीयाविभक्तिः भवति |  अनुक्ते करणकारके तृतीयाविभक्तिः भवति |  अनुक्ते सम्प्रदानकारके चतुर्थीविभक्तिः भवति | अनुक्ते अपादानकारके पञ्चमीविभक्तिः भवति |  अनुक्ते अधिकरणकारके सप्तमीविभक्तिः भवति | एतत् सामान्यव्यवहारः इति अवगन्तव्यम्  |


कृत्प्रत्ययः भावार्थे प्रयुक्तः चेत् कर्ता, कर्म च अनुक्तं भवतः, अतः कृत्प्रत्ययस्य योगे सामान्यतया कर्तुः, कर्मणः च षष्ठीविभक्तिः भवति | यथा कृष्णस्य कृतिः इत्यत्र कर्तुः कृष्णस्य षष्ठी भवति कृतिः इति कृत्प्रत्ययान्तस्य योगे | कृष्णः जगतः कर्ता इत्यत्र कर्मणः जगतः षष्ठी भवति कर्ता इति कृत्प्रत्ययान्तस्य योगे | कृष्णस्य/ कृष्णेन जगतः कृतिः इत्यत्र कर्तुः विकल्पेन षष्ठी भवति, कर्मणः जगतः नित्यं षष्ठी भवति कृतिः इति भावार्थकस्य कृत्प्रत्ययस्य योगे | कृतिः इति कृत्प्रत्ययान्तः भावार्थे अस्ति इति कृत्वा कर्ता अपि अनुक्तः, कर्म अपि अनुक्तम् | अनुक्ते तु कर्तुः तृतीया स्यात्, कर्मणः द्वितीया स्यात् परन्तु तु अत्र अपवादत्वेन कर्मणः नित्यं षष्ठी भवति, कर्तुः विकल्पेन षष्ठी भवति | यस्मिन् पक्षे षष्ठी नास्ति तस्मिन् पक्षे अनुक्ते कर्तुः तृतीया एव भवति |


कर्मणि द्वितीया (२.३.२) = अनुक्तकर्मणः द्वितीयाविभक्तिः भवति | कर्मणि सप्तम्यन्तं, द्वितीया प्रथमान्तं, द्विपदमिदं सूत्रम् | अनभिहिते (२.३.१) इति सूत्रस्य अधिकारः अस्ति | अनुवृत्ति-सहित-सूत्रं— अनभिहिते कर्मणि द्वितीया |



अस्मिन् सूत्रे अनभिहितकर्मणः, अर्थात् तादृशकर्मणः यस्य अर्थः कृत्, तिङ् इत्यादिना न उक्तः | नाम कर्मर्थे कृत् इत्यादयः प्रत्ययाः न सन्ति चेत् तादृशकर्म अनुक्तं भवति | यस्मिन् अर्थे प्रत्ययः भवति सः अर्थः उक्तः भवति |


रामः पुस्तकं पठति इति वाक्यं कर्तरि प्रयोगे अस्ति | अत्र पठ् इति धातुः लट्-लकारे कर्त्रर्थे विहितः अस्ति | अतः एव अस्मिन् वाक्ये कर्ता रामः उक्तः अस्ति पठति इति  तिङन्तपदेन | रामः उक्तः इति कृत्वा रामस्य प्रथमाविभक्तिः विधीयते प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा ( २.३.४६) इति सूत्रेण | यस्मिन् कस्मिन्नपि वाक्ये प्रत्ययेन एकः उक्तः भवति, तस्य प्रथमाविभक्तिः भवति प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा ( २.३.४६) इति सूत्रेण | एकः उक्तः चेत् वाक्ये अन्ये अनुक्ताः भवन्ति |


अस्मिन् वाक्ये पुस्तकम् इति  कर्मवाचकः शब्दः अस्ति, सः शब्दः केनापि प्रत्ययेन अनुक्तः अस्ति | कर्म अनुक्तम् इत्यतः कर्मणि द्वितीया (२.३.२) इति सूत्रेण द्वितीयाविभक्तिः विधीयते | अतः पुस्तकम् इति कर्मवाचकपदस्य द्वितीयाविभक्तिः भवति |  एवमेव अन्यत्रापि भवति इति अवगन्तव्यम् | प्रत्ययेन यत् उक्तम् अस्ति, यत् अनुक्तम् अस्ति इति ज्ञानम् अत्यावश्यकम् अस्ति |


रामेण पुस्तकं पठ्यते इति वाक्यं कर्मणि प्रयोगे अस्ति  |  अस्मिन् वाक्ये ते इति तिङ्-प्रत्ययेन पुस्तकम् इति कर्मपदम् उक्तम्, अभिहितम् अस्ति  |   पुस्तकम् इति पदम् उक्तत्वात् तस्य प्रथमाविभक्तिः भवति प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा (२.३.४६) इति सूत्रेण  |  रामेण इति पदं कर्तृवाचकं पदम् अनुक्तम् अस्ति |  अतः अनभिहिते रामेण इति कर्तृपदस्य तृतीयाविभक्तिः भवति कर्तृकरणयोस्तृतीया (२.३.१८) इति सूत्रेण |


रामेण हस्यते इति भावेप्रयोगे अस्ति | अस्मिन् वाक्ये ते इति तिङ्-प्रत्ययः भावार्थे अस्ति यतोहि हस् इति धातुः अकर्मकः अस्ति इत्यतः हस्यते इति क्रियापदेन कर्ता अनुक्तः अस्ति | रामेण इति पदं कर्तृवाचकं पदम् अनुक्तम् इत्यतः अनभिहिते रामेण इति कर्तृपदस्य तृतीयाविभक्तिः भवति कर्तृकरणयोस्तृतीया (२.३.१८) इति सूत्रेण |


गत्यर्थकधातवः = गतिः अर्थः येषां ते गत्यर्थकाः | गतिः इत्यनेन केवलं गतिः इति एव स्वीक्रियते न तु प्राप्तिः इत्यादयः |


Ø यज्ञदत्तः देवदत्तं विद्यालयं गमयति |


देवदत्तः विद्यालयं गच्छति इति अण्यन्तावस्थायां वाक्यम् अस्ति | गम्-धातुतः हेतुमति च (३.१.२६) इत्यनेन णिचः विधानम्‌ | णिच्- प्रत्ययं योजयित्वा गमि इति धातुः निष्पद्यते, लटि प्रथमपुरुषैकवचने गमयति इति रूपम् | गम् इति धातोः अर्थः देशान्तरप्राप्त्यनुकूलव्यापारः, गमि इति धातोः अर्थः देशान्तरप्राप्त्यनुकूलव्यापारानुकूलव्यापारः | यज्ञदत्तः यः प्रयोजककर्ता अस्ति सः तत्प्रयोजको हेतुश्च (१.४.५५) इति सूत्रेण हेतुसंज्ञकः, कर्तृसंज्ञकः च भवति |


देवदत्तः इति यः कर्ता अण्यन्तावस्थायां, सः ण्यन्तावस्थायां कर्मत्वं प्राप्नोति गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ (१.४.५२) इति सूत्रेण यतोहि गम् इति धातुः गत्यर्थकः अस्ति | अस्माकं वाक्येषु अण्यन्तावास्थायां कर्ता कः इति ज्ञातव्यं भवति, सः एव ण्यन्तावस्थायां प्रयोज्यकर्ता भवति | प्रयोज्यकर्ता एव कर्मसंज्ञां प्राप्नोति गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ (१.४.५२) इति सूत्रेण | अधुना प्रयोज्यकर्ता प्रयोज्यकर्म भवति | तदनन्तरं कर्मणि द्वितीया (२.३.२) इत्यनेन देवत्तस्य द्वितीयाविभक्तिः विधीयते | अनेन यज्ञदत्तः देवदत्तं विद्यालयं गमयति इति वाक्यं सिद्ध्यति |


Ø हरिः शत्रून् स्वर्गम् अगमयत् |


अण्यन्तावस्थायां वाक्यम् अस्ति- शत्रवः स्वर्गम् अगच्छन् |  गम्-धातुतः हेतुमति च (३.१.२६) इत्यनेन णिचः विधानम्‌ | णिच्- प्रत्ययं योजयित्वा गमि इति धातुः निष्पद्यते, लङि प्रथमपुरुषैकवचने अगमयत् इति रूपम् | गत्यर्थकधातोः योगे अण्यन्तावस्थायां ये कर्तारः शत्रवः ते गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ ( १.४.५२) इति सूत्रेण कर्मसंज्ञकाः भवन्ति ण्यन्तावस्थायाम् | तदनन्तरं कर्मणि द्वितीया (२.३.२) इत्यनेन शत्रूनां द्वितीयाविभक्तिः विधीयते | अनेन हरिः शत्रून् स्वर्गम् अगमयत् इति वाक्यं सिद्ध्यति |


Ø रामः कृष्णं नगरम् अञ्चयति |


अञ्च् इति धातुः गत्यर्थकः अस्ति | अण्यन्तावस्थायां वाक्यम् अस्ति कृष्णः नगरम् अञ्चति |



बुद्ध्यर्थकधातवः = बुद्धिः सामान्यज्ञानम् अर्थः येषाम् | तादृशधातवः यस्य अर्थः जानाति, अवगच्छति, बुध्यते इति अस्ति |


Ø आचार्यः छात्रं पाठं बोधयति |


बुध् अवगमने इति धातुः बुद्ध्यर्थकः अस्ति | अण्यन्तावस्थायां वाक्यम् अस्ति छात्रः पाठं बोधति |


Ø हरिः स्वजनान् वेदार्थम् अवेदयत् |


विद् ज्ञाने इति बुद्ध्यर्थकः धातुः अस्ति | अण्यन्तावस्थायां वाक्यम् अस्ति – स्वजनाः वेदार्थम् अविदुः |


Ø अध्यापकः छात्रं विषयं ज्ञापयति |


ज्ञा अवबोधने इति बुद्ध्यर्थकः धातुः अस्ति | अण्यन्तावस्थायां वाक्यम् अस्ति – छात्रः विषयं जानाति |


Ø पिता पुत्रं धर्मं बोधयति, विज्ञापयति |


प्रत्यवसानार्थकधातवः = भोजनार्थकधातवः |

Ø माता पुत्रं क्षीरान्नं भोजयति |

भुज् इति धातुः भक्षणार्थे अस्ति | अण्यन्तावस्थायां वाक्यम् अस्ति- पुत्रः क्षीरान्नं भुङ्क्ते/भुनक्ति |


Ø हरिः देवान् अमृतम् आशयत् |

अश् भोजने इति धातुः | अण्यन्तावस्थायां वाक्यम् अस्ति- देवाः अमृतम् आश्नन् |


Ø पिता बालं क्षीरं पाययति |

पा पाने इति धातुः भक्षणार्थे अस्ति | अण्यन्तावस्थायां वाक्यम् अस्ति- बालः क्षीरं पिबति |



शब्दकर्मकधातवः = शब्दः कर्मकारकं येषाम् | अर्थात् यस्य धातोः कर्मकारकं शब्दः अस्ति सः शब्दकर्मकः | एतादृशस्य अर्थस्य स्वीकारे क्रन्दयति, वादयति, ह्वाययति, शब्दाययति, जल्पयति इत्यादीनां ग्रहणं न भवति यतोहि एते धातवः शब्दक्रियकाः भवन्ति | शब्दक्रियकः नाम शब्दं करोति इत्यर्थः | शब्दकर्मकः इत्युक्तत्वात् शब्दक्रियकस्य ग्रहणं नास्ति |

Ø गुरुः शिष्यं वेदं पाठयति |

पठ् धातुः शब्दकर्मकः अस्ति | अण्यन्तावस्थायां वाक्यम् अस्ति- शिष्यः वेदं पठति |


Ø हरिः विधिं वेदम् अध्यापयत् |

अधि उपसर्गपूर्वकः इङ् अध्ययने इति धातुः शब्दकर्मकः | अण्यन्तावस्थायां वाक्यम् अस्ति – विधिः वेदम् अध्यैत | अध्यैत इति लङि प्रथमपुरुषैकवचने रूपम् |


Ø पतिः पत्नीं गीतं श्रावयति |

श्रु धातुः शब्दकर्मकः अस्ति | अण्यन्तावस्थायां वाक्यम् अस्ति- पत्नी गीतं शृणोति |



अकर्मकधातवः = गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ (१.४.५२) इति सूत्रे अकर्मकधातवः नाम येषां देशकालादिभिन्नं कर्म न सम्भवति ते अकर्मकाः न तु अविवक्षितकर्मणोऽपि |


Ø कौशल्या रामं शाययति |

शीङ्-धातुः अकर्मकः अस्ति | अण्यन्तावस्थायां वाक्यम् अस्ति - रामः शेते |


Ø रमेशः उमां पातयति |

पत्-धातुः अकर्मकः अस्ति | अण्यन्तावस्थायां वाक्यम् अस्ति – उमा पतति |


Ø माता वृद्धम् उपवेशयति |

विश्-धातुः अकर्मकः अस्ति | अण्यन्तावस्थायां वाक्यम् अस्ति – वृद्धः उपविशति |


Ø देवदत्तः यज्ञदत्तं मासम् आसयति |


Ø देवदत्तः यज्ञदत्तं मासम् स्वापयति |


Ø देवदत्तः यज्ञदत्तं क्रोशम् आसयति |


Ø देवदत्तः यज्ञदत्तं क्रोशं स्वापयति |


Ø देवदत्तः यज्ञदत्तं क्रोशं शाययति |


अवशिष्टधातवः


Ø सः देवदत्तेन ओदनं पाचयति |


अस्मिन् वाक्ये देवदत्तः यः कर्ता अस्ति अण्यन्तावस्थायां, सः कर्मसंज्ञां न प्राप्नोति ण्यन्तावस्थायां यतोहि पच्-धातुः गत्यर्थकः अपि नास्ति, बुद्ध्यर्थकः अपि नास्ति, प्रत्यवसानार्थकः अपि नास्ति, शब्दकर्मकः अपि नास्ति, अकर्मकः अपि नास्ति | देवदत्तः यः प्रयोज्यकर्ता अस्ति सः अनुक्तः इति कृत्वा सः तृतीयाविभक्तिं प्राप्नोति कर्तृकरणयोस्तृतीया (२.३.१८) इति सूत्रेण | अर्थात् देवदत्तः इति प्रयोज्यकर्ता तिङ्प्रत्ययेन अनुक्तः इति कृत्वा अनुक्ते देवदत्तः तृतीयां प्राप्नोति कर्तृकरणयोस्तृतीया (२.३.१८) इति सूत्रेण |


Ø माता पित्रा पुत्राय धनं दापयति |

पिता पुत्राय धनं ददाति इति वाक्यम् अण्यन्तावस्थायाम् |


Ø पिता पुत्रेण कन्दुकं क्रापयति |

अण्यन्तावस्थायां वाक्यम् अस्ति - पुत्रः कन्दुकं क्रीणाति |


विशेषः = ण्यन्तावस्थायां यः प्रयोजककर्ता तस्य कर्मसंज्ञा न भवति गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ (१.४.५२) इति सूत्रेण यतो हि सः अण्यन्तावस्थायां कर्ता नासीत् |


यदि वयं वदामः रामः देवदत्तेन यज्ञदत्तं गमयति |

अस्मिन् वाक्ये प्रश्नः भवति किमर्थं देवदत्त इति शब्दस्य कर्मत्वं नास्ति इति | समाधानम् अस्ति यत् देवदत्तः अण्यन्तावस्थायां कर्ता नासीत् इति कृत्वा ण्यन्तावस्थायां तस्य गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ (१.४.५२) इति सूत्रेण कर्मसंज्ञा न विधीयते | यः अण्यन्तावस्थायां कर्ता अस्ति तस्य एव कर्मसंज्ञा भवति ण्यन्तावस्थायाम् |


यः कर्ता केवलं ण्यन्तावस्थायां कर्ता अस्ति तस्य कर्मसंज्ञा न भवति द्वितीये ण्यन्तवाक्ये | अतः एव सूत्रे अणि इति शब्दस्य ग्रहणम् अस्ति | देवदत्तः यः प्रयोज्यकर्ता अस्ति रामः देवदत्तेन यज्ञदत्तं गमयति इति वाक्ये सः अनुक्तः अस्ति इति कृत्वा सः तृतीयाविभक्तिं प्राप्नोति कर्तृकरणयोस्तृतीया (२.३.१८) इति सूत्रेण न तु कर्मसंज्ञा गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ (१.४.५२) इति सूत्रेण |


प्रथमावस्था – यज्ञदत्तः गच्छति |

द्वितीयावस्था (ण्यन्तावस्था) – देवदत्तः यज्ञदत्तं गमयति |

तृतीयावस्था (ण्यन्तावस्था) – रामः देवदत्तेन यज्ञदत्तं गमयति |



वार्तिकानि


एतावता गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ (१.४.५२) इति सूत्रस्य कार्यं कथं भवति इति अस्माभिः चर्चितम् | सम्प्रति अस्य सूत्रस्य सम्बद्धवार्तिकानां चर्चा भविष्यति |


१)           नीवह्योर्न इति वार्तिकम् |


नी तथा वह्, अनयोः धात्वोः अण्यन्तावस्थायां यः कर्ता सः ण्यन्तावस्थायां कर्मसंज्ञां न प्राप्नोति | यद्यपि एतौ द्वौ धातू गत्यर्थकौ स्तः, तथापि अनेन वार्तिकेन तयोः कर्मसंज्ञाविधानस्य निषेधः क्रियते | अतः ण्यन्तावस्थायाम् अनयोः धात्वोः योगे प्रयोज्यकर्तुः कर्मसंज्ञां बाधित्वा, अनुक्ते कर्तरि तृतीयाविभक्तिः भवति कर्तृकरणयोस्तृतीया (२.३.१८) इति सूत्रेण | एतत् वार्तिकं गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ (१.४.५२) इति सूत्रं निषेधयति |


यथा - देवदत्तः भृत्येन भारं नाययति |

भृत्यः (कर्मकरः) यः प्रयोज्यकर्ता अस्ति, सः गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ (१.४.५२) इति सूत्रेण कर्मसंज्ञां प्राप्नोति, परन्तु तस्याः निषेधः क्रियते नीवह्योर्न इति वार्तिकेन | अतः सः कर्मत्वम् अप्राप्य, तृतीयाविभक्तिं प्राप्नोति कर्तृकरणयोस्तृतीया (२.३.१८) इति सूत्रेण |


देवदत्तः भृत्येन भारं वाहयति |

एवमेव भृत्यः यः प्रयोज्यकर्ता अस्ति सः गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ (१.४.५२) इति सूत्रेण कर्मसंज्ञां प्राप्नोति, परन्तु तस्याः निषेधः क्रियते नीवह्योर्न इति वार्तिकेन | अतः सः कर्मत्वम् अप्राप्य, तृतीयाविभक्तिं प्राप्नोति कर्तृकरणयोस्तृतीया (२.३.१८) इति सूत्रेण |


२)           नियन्तृकर्तृकस्य वहेरनिषेधः इति वार्तिकम् |


यदि वह्-धातोः ण्यन्तावस्थायां यः कर्ता  सः नियन्त्रकः, सारथिः अथवा सूतः अस्ति, तर्हि अण्यन्तावस्थायां यः कर्ता सः कर्मसंज्ञां प्राप्नोति | पूर्ववार्तिकेन यः निषेधः विहितः, तस्य पुनर्विधानं क्रियते अनेन वार्तिकेन | सामान्यतया वह्- धातोः योगे अण्यन्तावस्थायां यः कर्ता  सः ण्यन्तावस्थायां कर्मसंज्ञां प्राप्नोति गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ (१.४.५२) इति सूत्रेण | तदनन्तरं तस्य निषेधः क्रियते नीवह्योर्न इति वार्तिकेन | नियन्तृकर्तृकस्य वहेरनिषेधः इति वार्तिकेन यदि वह् -धातोः कर्ता नियन्त्रकः, नियन्ता, सारथिः, सूतः इत्यादिकम् अस्ति तर्हि अण्यन्तावस्थायां यः कर्ता अस्ति सः ण्यन्तावस्थायां कर्मसंज्ञां प्राप्नोति | अर्थात् कर्मसंज्ञायाः निषेधः न भवति ण्यन्तावस्थायाम् |


यथा – सूतः (सारथिः, नियन्त्रकः) वाहान् रथं वाहयति |


अण्यन्तावस्थायां वाक्यम् अस्ति – वाहाः ( अश्वाः) रथं वहन्ति इति | अण्यन्तावस्थायां कर्ता अस्ति वाहाः | वह् इति धातोः णिजन्तरूपम् अस्ति वाहयति | वह् इति धातुः गत्यर्थकः इति कृत्वा गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ (१.४.५२) इति सूत्रेण प्रयोज्यकर्तॄणां वाहानां कर्मत्वं भवति ण्यन्तावस्थायाम् | परन्तु नीवह्योर्न इति वार्तिकेन प्रयोज्यकर्तुः कर्मत्वं निषिध्यते | पुनः नियन्तृकर्तृकस्य वहेरनिषेधः इति वार्तिकेन  वह् -धातोः कर्ता नियन्त्रकः, नियन्ता, सारथिः इत्यादिकम् अस्ति चेत् तस्य अण्यन्तावस्थायां यः कर्ता अस्ति सः ण्यन्तावस्थायां कर्मसंज्ञां प्राप्नोति |


३)           आदिखाद्योर्नः इति वार्तिकम् |

अद्, खाद् इत्यनयोः धात्वोः अण्यन्तावस्थायां यः कर्ता सः ण्यन्तावस्थायां कर्मसंज्ञां प्राप्नोति | यद्यपि एतौ द्वौ धातू भक्षणार्थकौ स्तः तथापि अनेन वार्तिकेन तयोः कर्मसंज्ञा न विधीयते | अतः ण्यन्तावस्थायाम् एतयोः धात्वोः योगे प्रयोज्यकर्ता कर्मसंज्ञाम् अप्राप्य तृतीयाविभक्तिं प्राप्नोति कर्तृकरणयोस्तृतीया (२.३.१८) इति सूत्रेण | एतत् वार्तिकं गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ (१.४.५२) इति सूत्रं निषेधयति |


यथा - देवदत्तः वटुना अन्नम् आदयते |

अत्र वटुः (बालकः) यः प्रयोज्यकर्ता अस्ति सः गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ (१.४.५२) इति सूत्रेण कर्मसंज्ञाम् आप्नोत्, तस्याः निषेधः क्रियते आदिखाद्योर्नः इति वार्तिकेन | अतः सः कर्मत्वम् अप्राप्य, तृतीयाविभक्तिं प्राप्नोति कर्तृकरणयोस्तृतीया (२.३.१८) इति सूत्रेण |

अदेश्च प्रतिषेधः इति वार्तिकेन ण्यन्तावस्थायाम् अद् इति धातुतः परस्मैपदरूपं न भवति |

एवमेव देवदत्तः वटुना अन्नं खादयति इत्यत्रापि योजनीयम् |


४)           भक्षेरहिंसार्थस्य न इति वार्तिकम् |


अहिंसार्थकस्य भक्ष् -धातोः योगे यः कर्ता अण्यन्तावस्थायां सः कर्ता ण्यन्तावस्थायां कर्मसंज्ञां न प्राप्नोति | एतत् वार्तिकं गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ (१.४.५२) इति सूत्रं निषेधयति |


यस्य प्राणः अथवा जीवः अस्ति सः प्राणी इत्युच्यते | प्राणिनामेव हिंसा स्वीकृता अस्मिन् सूत्रे | सस्यानि प्राणिनः इति मन्यते यदा तानि भूमौ स्थित्वा जलं स्वीकुर्वन्ति | क्षेत्रस्थानां सस्यानां भक्षणमेव हिंसा इति मन्यते | क्षेत्रे प्ररूढमूलनं सस्यमिह विवक्षितम् | तस्य तदानीम् अन्तःप्रज्ञजीवत्वात् तद्भक्षणं हिंसैवेति भावः |


यथा - देवदत्तः वटुना अन्नं भक्षयति |

अत्र वटुः यः प्रयोज्यकर्ता अस्ति सः गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ (१.४.५२) इति सूत्रेण कर्मसंज्ञाम् प्राप्नोति, तस्याः निषेधः भवति भक्षेरहिंसार्थस्य न इति वार्तिकेन | अतः सः कर्मत्वम् अप्राप्य, तृतीयाविभक्तिं प्राप्नोति कर्तृकरणयोस्तृतीया (२.३.१८) इति सूत्रेण |


देवदत्तः बलीवर्दान् (वृषभान्) सस्यं भक्षयति |

हिंसार्थकः भक्ष्धातुः अस्ति चेत् तदानीं प्रयोज्यकर्तुः कर्मत्वं भवति | सस्यं प्राणी इति मन्यते, अन्नम् अप्राणि इति मन्यते शास्त्रे | प्राणी नाम यः भूमौ स्थित्वा जलं स्वीकरोति, अर्थात् जलं विना जीवितुं न शक्यते सः | अतः सस्यं प्राणी, अन्नम् अप्राणी | प्राणिनामेव हिंसा शक्यते , अप्राणिनां नास्ति | हिंसा इत्यस्य विषये व्याख्यानेषु एवम् उच्यते - क्षेत्रस्थानां सस्यानां भक्षणमेव हिसा इति मन्यते  | क्षेत्रे प्ररूढमूलनं सस्यमिह विवक्षितम् | तस्य तदानीम् अन्तःप्रज्ञजीवत्वात् तद्भक्षणं हिंसैवेति भावः  |


अस्मिन् वाक्ये बलीवर्दाः अण्यन्तावस्थायां कर्तारः सन्ति | ण्यन्तावस्थयां ये कर्तारः प्रयोज्यकर्तारः सन्ति, ते गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ (१.४.५२) इति सूत्रेण कर्मसंज्ञाम् आप्नुवन्, तस्याः निषेधः भक्षेरहिंसार्थस्य न इति वार्तिकेन न भवति यतो हि अत्र सस्यानां हिंसा अस्ति | ऋषभाः तु परस्य सस्यानि खादन्ति एव | तेषां परस्य कृषिभूमौ अटनं, सस्यानां खादनं, हिंसा इति मन्यन्ते | तेन हिंसा-कार्येण सस्यानां नाशः जायते |


५)           जलपतिप्रभृतीनामुपसंख्यानम् इति वार्तिकम् |


जल्प्-धातुः , व्यक्तायां वाचि speak distinctly इत्यर्थे अस्ति | अस्मिन् वार्तिके अन्ये समानार्थाकानां धातूनाम् अपि ग्रहणं भवति | एतेषां धातूनाम् अण्यन्तावस्थायां यः कर्ता सः ण्यान्तावस्थायां कर्मसंज्ञां प्राप्नोति | गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ (१.४.५२) इति सूत्रेण जल्पादिनां धातूनां कर्मसंज्ञा न भवति इति कारणेन अनेन वार्तिकेन प्रयोज्यकर्त्रा कर्मसंज्ञा प्राप्यते | अस्मिन् वार्तिके प्रभृतिः इति शब्देन अन्ये समानार्थकानां क्रियाणाम् अपि सङ्ग्रहः इति मन्यन्ते | महाभाष्ये जल्पति, विलपति, आभाषते इत्येते जल्पतिप्रभृतयः इति उक्तम् |


यथा—

देवदत्तः पुत्रं धर्मं जल्पयति |

पुत्रः प्रयोज्यकर्ता अस्ति, सः गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ (१.४.५२) इति सूत्रेण कर्मसंज्ञां न प्राप्नोति | तस्य कर्मत्वं विधीयते जलपतिप्रभृतीनामुपसंख्यानम् इति वार्तिकेन | अतः पुत्रः कर्मत्वं प्राप्नोति |


एवमेव देवदत्तः पुत्रं धर्मं भाषयति | देवदत्तः पुत्रं धर्मं विलापयति, आभाषयति, वादयति, व्याहारयति |


६)           दृशेश्च इति वार्तिकम् |


विशेषज्ञानार्थकधातुषु दृश्-धातोः अण्यन्तावस्थायां यः कर्ता सः ण्यान्तावस्थायां कर्मसंज्ञां प्राप्नोति | गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ (१.४.५२) इति सूत्रेण दृश्-धातोः कर्मसंज्ञा न भवति इति कारणेन अनेन वार्तिकेन प्रयोज्यकर्तुः कर्मसंज्ञा विधीयते |


यथा—


पुरोहितः भक्तान् हरिं दर्शयति |

भक्ताः प्रयोज्यकर्तारः सन्ति ते गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ (१.४.५२) इति सूत्रेण कर्मसंज्ञां न प्राप्नुवन्ति इत्यतः तेषां कर्मत्वं विधीयते दृशेश्च इति वार्तिकेन | अतः भक्ताः इति प्रयोज्यकर्तारः कर्मत्वं प्राप्नुवन्ति |


विशेषः = गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ (१.४.५२) इति सूत्रे केवलं सामान्यार्थानामेव ग्रहणं न तु तद्विशेषार्थानाम् | अस्मिन् सूत्रे बुद्ध्यर्थानाम् इत्यनेन केवलं सामान्यज्ञानमात्रार्थे ये धातवः सन्ति तेषामेव ग्रहणम् | स्मृ, श्रु, घ्रा, दृश्, स्पृश्, स्वद् इत्यादीनां धातूनां ग्रहणं नास्ति अस्मिन् सूत्रे | अर्थात् स्मरति, शृणोति, जिघ्रति, पश्यति, स्पृशति, स्वदते इत्येतेषां ग्रहणं नास्ति | इन्द्रियैः, मनसा च यत् ज्ञानं लभ्यते तत् विशेषज्ञानम् इति स्वीक्रियते अस्मिन् सूत्रे | यः विषयः अनेन दृशेश्च इति वार्तिकेन ज्ञापितः भवति | अतः एव सः देवदत्तेन स्मारयति | सः देवदत्तेन घ्रापयति इत्यादिषु वाक्येषु प्रयोज्यकर्ता तृतीयाविभक्तिं प्राप्नोति |


श्रु इति विशेषज्ञानार्थकधातुतः श्रावयति इति णिजन्तरूपं निष्पन्नं तथापि शब्दकर्मकः चेत् तस्य योगे प्रयोज्यकर्तुः कर्मत्वं भवत्येव | दृश्, श्रु इति द्वौ धातू विहाय अन्येषां विशेषज्ञानार्थकानां धातूनां तु प्रयोज्यकर्तुः कर्मत्वं न भवति |



७)           शब्दायतेर्न इति वार्तिकम् |


शब्दाय इति आतिदेशिकधातोः योगे अण्यन्तावस्थायां यः कर्ता सः ण्यान्तावस्थायां कर्मसंज्ञां न प्राप्नोति | शब्दाय इति क्यङ्प्रत्ययान्तधातुः अस्ति | शब्दाययति नाम शब्दं करोति इत्यर्थः |


धात्वर्थसङ्ग्रहीतकर्मत्वेन अकर्मकत्वात् प्राप्तिः - येषां धातूनाम् अर्थे एव कर्म संगृहीतम् अस्ति, ते धातवः अकर्मकाः इति मन्यन्ते | शब्दाय इति धातौ एव कर्म संगृहीतम् अस्ति इत्यतः एषः धातुः अकर्मकः | अर्थात् शब्दं करोति इति अर्थः शब्दाययति इति क्रियायामेव अन्तर्भूतः अस्ति |


शब्दाय इति अकर्मकधातुः अस्ति इत्यतः गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ (१.४.५२) इति सूत्रेण प्रयोज्यकर्ता कर्मत्वं प्राप्नोति | परन्तु शब्दायतेर्न इति वार्तिकं गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ (१.४.५२) इति सूत्रं निषेधयति |


यथा –

सः देवदत्तेन शब्दाययति |

देवदत्तः प्रयोज्यकर्ता अस्ति, सः कर्मत्वं न प्राप्नोति शब्दायतेर्न इति वार्तिकेन | देवदत्तः शब्दयति इति अण्यन्तावस्थायां वाक्यम् अस्ति |


येषां देशकालादिभिन्नं कर्म न सम्भवति ते अत्र अकर्मकाः, न तु अविवक्षितकर्मणोऽपि -

अकर्मकधातवः द्विप्रकारकाः सन्ति –

१)           धातवः ये यस्यां कस्याम् अपि स्थित्यां कर्मपदं न स्वीकुर्वन्ति |


२)           ये धातवः अकर्मकत्वेन व्यवहारं कुर्वन्ति | नाम ये धातवः कर्मपदं स्वीकर्तुम् अर्हन्ति परन्तु कर्मपदस्य विवक्षा नास्ति |


अकर्मकधातुभिर्योगे देशः, कालो भावो गन्तव्योऽध्वा च कर्मसंज्ञक इति वाच्यम् (वार्तिकम्) – अकर्मकधातोः योगे देशस्य, कालस्य, भावस्य, मार्गस्य च कर्मसंज्ञा भवति |


देशः – देशः नाम ग्रामसमुहात्मकस्य ग्रहणम् | अतः कुरु, पाञ्चाल, अवन्ति इत्यादीनां देशानां ग्रहणं भवति |


यथा –

कुरून् स्वपिति | अर्थात् कुरुदेशे स्वपिति इत्यर्थः |

पञ्चालान् स्वपिति |

कालः


यथा –

मासम् आस्ते |

मासं स्वपिति |


भावः – भावः नाम धात्वर्थः |


यथा –

सः गोदोहम् आस्ते | अर्थात् गोः दोहनपर्यन्तं सः तिष्ठति इत्यर्थः |

सः गोदोहं स्वपिति |


अध्वावाचकः


यथा –

क्रोशम् आस्ते |

क्रोशं स्वपिति |


गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ (१.४.५२) इति सूत्रे प्रथमप्रकाराणां धातूनामेव अकर्मकत्वेन ग्रहणम् अस्ति | अर्थात् येषां धातूनां देशकालादिभिन्नं कर्म न संभवति ते अत्र अकर्मकाः इति मन्यन्ते | यस्य धातोः कर्मत्वम् अविवक्षितम् अस्ति तस्य अकर्मकत्वेन न स्वीकुर्मः |


सः देवदत्तं मासम् आसयति |

अण्यन्तावस्थायां वाक्यम् अस्ति – देवदत्तः मासम् आस्ते | आस्- धातु अकर्मकः | अस्मिन् वाक्ये देशकालादिभिन्नं कर्म न सम्भवति इत्यतः अण्यन्तावस्थायां यः कर्ता देवदत्तः सः ण्यन्तावस्थायां गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ (१.४.५२) इति सूत्रेण कर्मत्वं प्राप्नोति | अत्र मासम् इति कर्मपदम् अस्ति तथापि आस्-धातुः अकर्मकः इति एव परिगण्यते यतोहि देशकालादिभिन्नं कर्म यत्र न सम्भवति सः धातुः एव अकर्मकः इति स्वीकुर्मः |


सः देवदत्तेन पाचयति |

अण्यन्तावस्थायां वाक्यम् अस्ति – देवदत्तः पचति | पच्- धातु सकर्मकः | अस्मिन् वाक्ये देशकालादिभिन्नं कर्म सम्भवति इत्यतः अण्यन्तावस्थायां यः कर्ता देवदत्तः सः ण्यन्तावस्थायां गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ (१.४.५२) इति सूत्रेण कर्मत्वं न प्राप्नोति | पच् -धातुः अकर्मकः इति स्वीकर्तुं नैव शक्यते | पच्-धातुः सकर्मकः एव | अतः एव वाक्यं भवति सः देवदत्तेन पाचयति न तु सः देवदत्तं पाचयति इति |



हृ, कृ इति धात्वोः विकल्पेन कर्मत्वम्


हृक्रोरन्यतरस्याम् ( १.४.५३) = हृ, कृ, च  अनयोः धात्वोः यः कर्ता अण्यन्तावस्थायां सः ण्यन्तावस्थायां विकल्पेन कर्मसंज्ञां प्राप्नोति | हरतेः करोतेश्च अण्यन्तयोः यः कर्ता सः ण्यन्तयोः अन्यतरस्यां कर्मसंज्ञः भवति | हृ च कृ च तयोरितरेतरयोगद्वन्द्वः हृकरौ, तयो हृक्रोः | हृक्रोः षष्ठीद्विवचनान्तम्, अन्यतरस्याम् विभक्तिप्रतिरूपकमव्ययम् | कर्तुरीप्सिततमं कर्म (१.४.४९) इत्यस्य कर्म इति पदस्य अनुवृत्तिः भवति | कारके (१.४.२३) इति सूत्रस्य अधिकारः | गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणिकर्ता स णौ ( १.४.५२)  इत्यस्मात् सूत्रात्  णौ, कर्ता, अणि इत्येषां पदानाम् अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं—  हृक्रोः कर्ता अणौ, कर्म कारकं णौ अन्यतरस्याम् |

यदि एतस्य सूत्रस्य प्रवृत्तिः न भवति तदा कर्तृपदस्य तृतीया भवति कर्तृकरणयोस्तृतीया (२.३.१८) इति सूत्रेण |


यथा – स्वामी भृत्यं/ भृत्येन कटं हारयति |

अण्यन्तावस्थायां वाक्यम् अस्ति – भृत्यः कटं हरति | अण्यन्तावस्थायां यः कर्ता भृत्यः सः ण्यन्तावस्थायां हृक्रोरन्यतरस्याम् (१.४.५३) इति सूत्रेण विकल्पेन कर्मसंज्ञां प्राप्नोति | अधुना वाक्यम् अस्ति - स्वामी भृत्यं कटं हारयति | अपक्षे ण्यन्तावस्थायां वाक्यम् अस्ति – स्वामी भृत्येन कटं हारयति |


अभिवादिदृशोरात्मनेपदे वेति वाच्यम् |


अनेन वार्तिकेन आत्मनेपदप्रयोगे अभि-पूर्वकः वद्-धातु: तथा केवलं दृश्-धातुः, तयो अण्यन्तावस्थायां यः कर्ता सः ण्यन्तावस्थायां विकल्पेन कर्मसंज्ञा प्राप्यते | सामान्यतया णिचश्च (१.३.७४) इत्यनेन क्रियाफलं कर्तारम्‌ अभिप्रैति चेत्‌ णिजन्तेभ्यः धातुभ्यः आत्मनेपदं भवति | क्रियाफलं कर्तारं न अभिप्रैति चेत्‌, परस्मैपदं भवति | शेषात्कर्तरि परस्मैपदम्‌ (१.३.७८) इत्यनेन यत्र धातोः आत्मनेपदस्य कारणं नास्ति, तत्र कर्त्रर्थे परस्मैपदं भवति | यदा अभि-पूर्वकः वद् -धातुः तथा दृश्-धातुः, अनयोः आत्मनेपदप्रयोगः भवति तदा एव  अभिवादिदृशोरात्मनेपदे वेति वाच्यम् इति वार्तिकेन प्रयोज्यकर्तुः कर्मत्वं भवति |

दृश् धातोः योगे प्रयोज्यकर्तुः कर्मत्वं भवति दृशेश्च इति वार्तिकेन एव तर्हि अस्य वार्तिकस्य का आवश्यकता दृश्-धातोः कृते इति चेत् – अनेन वार्तिकेन विकल्पेन प्रयोज्यकर्तुः कर्मत्वं भवति यदा दृश्धातोः आत्मनेपदप्रयोगः भवति |


यथा –

अभिपूर्वकः वद्-धातुः = अण्यन्तावस्थायां वाक्यम् अस्ति – भक्तः देवम् अभिवदति (नमस्क्रियते) |

अण्यन्तावस्थायां यः कर्ता भक्तः सः ण्यन्तावस्थायाम् अभिवादिदृशोरात्मनेपदे वेति वाच्यम् इति वार्तिकेन विकल्पेन कर्मसंज्ञां प्राप्नोति | अधुना वाक्यम् अस्ति – पुरोहितः भक्तं देवम् अभिवादयते | अपक्षे ण्यन्तावस्थायां वाक्यम् अस्ति – पुरोहितः भक्तेन देवम् अभिवादयते |


दृश् धातुः = अण्यन्तावस्थायां वाक्यम् अस्ति – भक्तः देवं पश्यति | अण्यन्तावस्थायां यः कर्ता भक्तः सः ण्यन्तावस्थायाम् अभिवादिदृशोरात्मनेपदे वेति वाच्यम् इति वार्तिकेन विकल्पेन कर्मसंज्ञां प्राप्नोति | अधुना वाक्यम् अस्ति – पुरोहितः भक्तं देवं दर्शयते | अपक्षे ण्यन्तावस्थायां वाक्यम् अस्ति – पुरोहितः भक्तेन देवं दर्शयते |


आहत्य यदि गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ (१.४.५२) इति सूत्रेण कर्मसंज्ञा न भवति तर्हि हृक्रोरन्यतरस्याम् (१.४.५३) इति सूत्रेण वा अभिवादिदृशोरात्मनेपदे वेति वाच्यम् इति वार्तिकेन वा विकल्पेन कर्मसंज्ञा भवति |


एतावता अस्माभिः णिजन्तप्रयोगे काभ्यां सूत्राभ्याम्, कैः वार्तिकैः च प्रयोज्यकर्तुः कर्मत्वं प्राप्यते इति दृष्टम् | सारांशः एवम् अस्ति—

णिजन्तप्रयोज्यकर्तुः कर्मत्वं विधीयते एतैः –

Ø गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ (१.४.५२)

Ø नीवह्योर्न(वा)

Ø नियन्तृकर्तृकस्य वहेरनिषेधः(वा)

Ø आदिखाद्योर्न(वा)

Ø भक्षेरहिंसार्थस्य न (वा)

Ø जलपतिप्रभृतीनामुपसंख्यानम् (वा)

Ø दृशेश्च (वा)

Ø शब्दायतेर्न (वा)

Ø हृक्रोरन्यतरस्याम् (१.४.५३)

Ø अभिवादिदृशोरात्मनेपदे वेति वाच्यम् (वा) |



कर्मणिप्रयोगे


सम्प्रति णिजन्तानां कर्मणिप्रयोगव्यवस्था कथं भवति इति पश्यामः –


णिजन्तानां प्रयोगे  सामान्यतया प्रयोज्यकर्ता तृतीयाविभक्तिं प्राप्नोति कर्तृकरणयोस्तृतीया (२.३.१८) इति सूत्रेण | किन्तु गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकार्णाम्‌ अणि कर्ता स णौ (१.४.५२) इति सूत्रेण विशिष्टधातूनां प्रयोगे प्रयोज्यकर्तुः कर्मसंज्ञा भवति, तदनन्तरं कर्मणि द्वितीया (२.३.२) इत्यनेन प्रयोज्यकर्तुः द्वितीयाविभक्तिः विधीयते | अयं तु सामान्यव्यवहारः कर्तरिप्रयोगे |


धेयं यत् गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकार्णाम्‌ अणिकर्ता स णौ (१.४.५२) इति सूत्रेण या कर्मसंज्ञा विहिता, तस्याः प्रयोजनं न केवलं द्वितीयाविभक्तिं प्राप्तुम्, अपि तु लादीनां प्रत्ययानां विधानार्थम् अपि | तदर्थम् उच्यते – न द्वितीयाविधानार्थमेव कर्मसंज्ञात्र, अपि तु लाद्यर्था अपि | लकृत्यक्तखलर्था अपि संज्ञाफलमिष्यन्ते | अर्थात् ये प्रत्ययाः कर्मार्थे भवन्ति ते अपि कर्मसंज्ञायाः प्रयोजनम् इच्छन्ति | नाम कर्मार्थे ये प्रत्ययाः भवन्ति, तैः प्रत्ययैः कर्म उक्तं भवति | के प्रत्ययाः कर्मार्थे भवन्ति इत्युक्ते लकाराः, कृत्प्रत्ययाः ( तव्यत्, अनीयर्, ण्यत्, यत्, खल्, इत्यादयः) च |


कर्मणि णिजन्तप्रयोगे धातवः द्विकर्मकाः भवन्ति | अर्थात् कर्मद्वयं भवति – एकस्य कर्मसंज्ञा भवति कर्तुरीप्सितमम् कर्म (१.४.४९) इति सूत्रेण, द्वितीयस्य भवति गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकार्णाम्‌ अणिकर्ता स णौ (१.४.५२) इति सूत्रेण | अनयोः कर्मणोः किं मुख्यकर्म, किं च गौणकर्म भवति इति आदौ विचारणीयम् |  यत् कर्म प्रयोजककर्ता आदौ प्राप्नोति तत् भवति प्रधानकर्म | ण्यान्तावस्थायां प्रयोजककर्ता आदौ प्रयोज्यकर्म एव प्राप्नोति, अतः प्रयोज्यकर्म एव प्रधानकर्म भवति | ईप्सिततमम् कर्म नाम अण्यन्तावस्थायां यत् कर्म तदेव गौणकर्म भवति यतोहि प्रयोजककर्ता तत् कर्म आदौ न प्राप्नोति |


यदा कर्मार्थे लकाराः वा कृत्प्रत्ययाः विधीयन्ते तदा एतैः प्रत्ययैः प्रधानकर्म उक्तं भवति वा नो चेत् गौणकर्म उक्तं भवति वा इति विचारणीयम् | तदर्थं कौमुद्याम् एका कारिका उक्ता अस्ति, तस्य विवरणम् अग्रे उक्तम् अस्ति |


येन प्रत्ययेन कर्म उक्तं भवति, तत् कर्म अभिहितं भवति | तादृशकर्मणा अभिहिते प्रथमाविभक्तिः प्राप्यते | येन प्रत्ययेन कर्म अनुक्तं भवति, तत् कर्म अनभिहितं भवति | तादृशकर्मणा कर्मणि द्वितीया (२.३.२) इत्यनेन द्वितीयाविभक्तिः प्राप्यते |


ण्यन्तावस्थायां लादिप्रत्ययैः किं कर्म उक्तम् इति ज्ञायते अनया कारिकया—

बुद्धिभक्षार्थयोः शब्दकर्मणां च निजेच्छया |

प्रयोज्यकर्मण्यन्येषां ण्यन्तानां लादयो मताः ||

अस्याः कारिकायाः अर्थः एवम् अस्ति —

णिजन्तस्य कर्मणिप्रयोगे बुद्ध्यर्थकधातोः, भक्षार्थकधातोः, शब्दकर्मकधातोः च योगे, लकारेण अथवा कृत्प्रत्ययेन प्रयोज्यकर्म (प्रधानकर्म) उक्तं भवति नो चेत् गौणकर्म उक्तं भवति वक्तुः इच्छानुगुणम् | अत्र अस्माकं विवाक्षानुगुणं प्रधानकर्म वा गौणकर्म वा उक्तं भवति णिजन्तप्रत्ययेन | बुद्ध्यर्थकधातून्, भक्षार्थकधातून्, शब्दकर्मकधातून् च विहाय अन्येषां धातूनां प्रयोज्यकर्म (प्रधानकर्म) एव उक्तं भवति णिच्प्रत्ययेन, गौणकर्म अनुक्तं भवति | यत् प्रत्ययेन उक्तं भवति तस्य प्रथमाविभक्तिः भवति, यत् अनुक्तं तस्य द्वितीयाविभक्तिः भवति | अस्यां कारिकायाम् अन्येषां धातूनाम् इत्यनेन गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकार्णाम्‌ अणिकर्ता स णौ (१.४.५२) इति सूत्रे ये अन्ये धातवः उक्ताः तेषां विषये उच्यते | अर्थात् गत्यर्थकानाम्, अकर्मकाणां च ग्रहणं भवति अन्येषां धातूनां इत्यनेन |


कर्मणि णिजन्तप्रयोगे प्रयोज्यकर्तुः कर्मत्वव्यवस्था —

बुद्ध्यर्थकधातवः, भक्षणार्थकधातवः, शब्दकर्मकधातवः ( कारिकायाः आधारेण) येषां धातूनां योगे प्रयोज्यकर्तुः कर्मत्वं भवति गतिबुद्धिप्रत्यवसानार्थ... (१.४.५२) इति सूत्रेण वा, वार्तिकेन वा येषां धातूनां कर्मत्वं न भवति सूत्रेण वा वार्तिकेन वा | अथवा सूत्रेण कर्मत्वं विहितं परन्तु वार्तिकेन कर्मत्वं निषिद्धम्
यदि सूत्रेण वा वार्तिकेन वा कर्मत्वं विहितं तर्हि प्रयोज्यकर्तुः कर्मत्वं भवति | प्रयोज्यकर्तुः कर्मत्वं चेत् सः प्रयोज्यकर्म भवति | प्रयोज्यकर्म (प्रधानकर्म) तिङ्प्रत्ययेन उक्तं चेत् तस्य प्रथमाविभक्तिः, गौणकर्मणः द्वितीयाविभक्तिः | यदि गौणकर्म तिङ्प्रत्ययेन उक्तं तर्हि तस्य प्रथमाविभक्तिः अपि च प्रयोज्यकर्मणः द्वितीयाविभक्तिः | अत्र प्रयोज्यकर्मणः प्रथमाविभक्तिः अस्माकं विवक्षानुगुणं विकल्पेन भवति | यत्कर्म तिङ्प्रत्ययेन उक्तं भवति तस्य प्रथमाविभक्तिः, अन्यकर्मणः द्वितीयविभक्तिः भवति | केनापि सूत्रेण वा वार्तिकेन वा प्रयोज्यकर्तुः कर्मत्वं विहितं चेत् प्रयोज्यकर्तुः कर्मत्वं भवति | तदानीं प्रयोज्यकर्ता प्रयोज्यकर्म भवति | प्रयोज्यकर्म (प्रधानकर्म) तिङ्प्रत्ययेन उक्तं भवति इति कृत्वा तस्य प्रथमाविभक्तिः | गौणकर्मणः तिङ्प्रत्ययेन अनुक्तत्वात् तस्य द्वितीयाविभक्तिः भवति | केनापि सूत्रेण वा वार्तिकेन वा कर्मत्वं न विहितं / कर्मत्वं निषिद्धं चेत् प्रयोज्यकर्तुः कर्मत्वं नैव भवति | प्रयोज्यकर्ता इति एव तिष्ठति |


प्रयोज्यकर्ता तिङ्प्रत्ययेन अनुक्तः कर्मणि प्रयोगे इति कृत्वा तस्य तृतीयाविभक्तिः एव भवति | गौणकर्म तिङ्प्रत्ययेन उक्तः इति कृत्वा तस्य प्रथमाविभक्तिः एव भवति |


कारिकायाः आधारेण एवं चिन्तयितुं शक्यते -

१) बुद्ध्यर्थकधातोः, भक्षार्थकधातोः, शब्दकर्मकधातोः च योगे, लकारेण अथवा कृत्प्रत्ययेन प्रयोज्यकर्म (प्रधानकर्म) उक्तं भवति नो चेत् गौणकर्म उक्तं भवति वक्तुः इच्छानुगुणम् | अर्थात् प्रयोज्यकर्मणः प्रथमाविभक्तिः भवति नो चेत् गौणकर्मणः प्रथमाविभक्तिः भवति | यदि प्रयोज्यकर्मणः प्रथमाविभक्तिः भवति तर्हि गौणकर्मणः द्वितीयाविभक्तिः भवति | यदि गौणकर्मणः प्रथमा भवति तर्हि प्रयोज्यकर्मणः द्वितीयविभक्तिः भवति |


२) बुद्ध्यर्थकधातून्, भक्षार्थकधातून्, शब्दकर्मकधातून् विहाये अन्ये ये धातवः सन्ति येषां योगे तिङ्प्रत्ययेन अथवा कृत्प्रत्ययेन प्रयोज्यकर्म एव उक्तं भवति | तर्हि एतेषां धातूनां योगे प्रयोज्यकर्मणः एव प्रथमाविभक्तिः भवति, गौणकर्मणः द्वितीयाविभक्तिः एव भवति | एते धातवः के इति चेत् - १) गत्यर्थकधातवः, २) अकर्मकधातवः, ३) येषां धातूनां वार्तिकैः कर्मत्वं विहितं ४) येषां धातूनां सूत्रेण (यथा हृक्रोरन्यतरस्याम् ( १.४.५३) ) कर्मत्वं विहितम् |


) उपरि उक्तान् धातून् ( १ & २) विहाय अन्येषां धातूनां विषये प्रयोज्यकर्तुः कर्मत्वमेव न प्राप्यते, अतः प्रयोज्यकर्तुः कर्तृसंज्ञा एव तिष्ठति इति कृत्वा प्रयोज्यकर्तुः प्रथमाविभक्तिः कदापि न भवति | सर्वदा तृतीयाविभक्तिः एव भवति यतोहि तिङ्प्रत्ययेन वा कृत्प्रत्ययेन कदापि नोक्तं भवति | गौणकर्म एव तिङ्प्रत्ययेन अथवा कृत्प्रत्ययेन उक्तं भवति इति कृत्वा गौणकर्मणः एव प्रथमविभक्तिः भवति |


बुद्ध्यर्थकधातवः

Ø पित्रा माणवकः धर्मं बोध्यते |

अथवा

Ø पित्रा माणवकं धर्मः बोध्यते |

अण्यन्तावस्थायां वाक्यम् अस्ति - माणवकेन धर्मः बुध्यते | बुध् इति बुद्ध्यर्थकधातोः प्रयोगे अस्माकं विवक्षानुगुणं लकारेण प्रयोज्यकर्म (प्रधानकर्म) उक्तं भवति नो चेत् गौणकर्म उक्तं भवति | यदा प्रयोज्यकर्म उक्तं भवति तदा बोध्यते इत्यत्र ते इति तिङ्प्रत्ययेन प्रयोज्यकर्म माणवकः प्रथमाविभक्तिः प्राप्यते अभिहिते प्रथमा इत्यनेन | गौणकर्म धर्म अनभिहिते कर्मणि द्वितीया (२.३.२) इत्यनेन द्वितीयां प्राप्नोति | अतः वाक्यं भवति पित्रा माणवकः धर्मं बोध्यते |


यदि तिङ्प्रत्ययेन गौणकर्म उक्तं, तर्हि गौणकर्मणः धर्मस्य प्रथमा भवति उक्तत्वात् | प्रयोज्यकर्म अनुक्तत्वात्, तस्य कर्मणि द्वितीया (२.३.२) इत्यनेन द्वितीया भवति | अतः वाक्यं भवति पित्रा माणवकं धर्मः बोध्यते |


भक्षार्थकधातवः

Ø श्रीहरिणा देवाः अमृतम् आश्यन्ते |

अथवा

Ø श्रीहरिणा देवान् अमृतम् आश्यते |


Ø मात्रा माणवकः ओदनं भोज्यते |

अथवा

Ø मात्रा माणवकम् ओदनः भोज्यते |


शब्दकर्मकधातवः

Ø श्रीहरिणा विधिः वेदम् अध्याप्यते |

उत

Ø श्रीहरिणा विधिं वेदः अध्याप्यते |


Ø पित्रा माणवकाः श्लोकं श्राव्यन्ते |

उत

Ø पित्रा माणवकान् श्लोकः श्राव्यते |


अवशिष्टधातवः - अन्ये ये धातवः गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकार्णाम्‌ अणिकर्ता स णौ (१.४.५२),हृक्रोरन्यतरस्याम्( १.४.५३) चेति सूत्रे उक्ताः, अपि च येषां कर्मत्वं वार्तिकेन विधीयते, तेषां नियमाः


बुद्धयर्थकधातून्, भक्षार्थकधातून्, शब्दकर्मकधातून् च विहाय येषां धातूनां प्रयोज्यकर्तुः कर्मत्वं सम्भवति ( यथा गत्यर्थकधातवः, अकर्मकधातवः, हृ, कृ इत्यादयः), तेषां तु लकारादिप्रत्ययेन प्रयोज्यकर्म एव उक्तं भवति, अतः तेषाम् अभिहितत्वात् प्रथमाविभक्तिः एव भवति | एतेषाम् अवशिष्टधातूनां योगे गौणकर्मणः द्वितीयाविभक्तिः एव भवति अनुक्तत्वात् |

Ø यज्ञदत्तेन देवदत्तः मासम् आस्यते |

Ø यज्ञदत्तेन देवदत्तः क्रोशं शाय्यते |

Ø यज्ञदत्तेन देवदत्तः ग्रामं गम्यते |

Ø देवदत्तेन भृत्यः कटं कार्यते |


येषां धातूनां प्रयोज्यकर्तुः कर्मत्वमेव न सम्भवति तेषां विषये नियमः

येषां धातूनां प्रयोज्यकर्तुः कर्मत्वमेव न सिद्धयति, तेषां तु लकारादिप्रत्ययेन अण्यन्तावास्थायां यत् शुद्धकर्म अस्ति, तदेव उक्तं भवति, अतः तत् कर्म अभिहितम् इत्यतः तस्य प्रथमाविभक्तिः एव भवति | एतेषां धातूनां योगे प्रयोज्यकर्तुः तृतीयाविभक्तिः एव भवति अनुक्तत्वात् | स्मर्तव्यं यत् प्रयोज्यकर्ता कर्मसंज्ञां न प्राप्नोति एव केनापि सूत्रेण अथवा वार्तिकेन इति कृत्वा तस्य प्रथमाविभक्तिः अथवा द्वितीयाविभक्तिः नैव सिद्धयति |


Ø यज्ञदत्तेन देवदत्तेन मधुकर्कटी खाद्यते |

Ø यज्ञदत्तेन देवदत्तेन विप्राय गौः दाप्यते |



अधः अन्यानि उदाहरणानि दत्तानि —

कर्तरिप्रयोगः कर्मणिप्रयोगः
अध्यापकः शिष्यं वेदं बोधयति | अध्यापकेन शिष्यः वेदं बोध्यते / अध्यापकेन शिष्यं वेदः बोध्यते |
महिला शिशुम् अन्नं भोजयति | महिलया शिशुः अन्नं भोज्यते / महिलया शिशुम्‌ अन्नं भोज्यते |
आचार्यः छात्रं वेदम्‌ अध्यापयति | आचार्येण छात्रः वेदम्‌ अध्याप्यते /आचार्येण छात्रं वेदः अध्याप्यते |
माता बालं मन्दिरं गमयति | मात्रा बालः मन्दिरं गम्यते |
पुत्रः पितरम् हासयति | पुत्रेण पिता हास्यते |
आचार्यः शिष्यं पद्यार्थं जल्पयति | आचार्येण शिष्यः पद्यार्थं जल्प्यते |
बालकः शिशुं शुनकं दर्शयति | बालकेन शिशुः शुनकं दर्श्यते |
स्वामी कर्मकरं घटं हारयति |/स्वामी कर्मकरेण घटं हारयति | स्वामिना कर्मकरः घटं हार्यते |/ स्वामिना कर्मकरेण घटः हार्यते |
यजमानः यज्ञदत्तं कार्यं कारयति |/ यजमानः यज्ञादत्तेन कार्यं कारयति | यजमानेन यज्ञदत्तः कार्यं कार्यते |/ यजमानेन यज्ञदत्तेन कार्यं कार्यते |
यजमानः कर्मकरेण उद्यानं सेचयति | यजमानेन कर्मकरेण उद्यानं सेच्यते |
माता बालकेन तण्डुलं पाचयति | मात्रा बालेकन तण्डुलः पाच्यते |



अभ्यासः


अण्यन्तावस्थायां वाक्यानि दत्तानि, तेषां वाक्यानां ण्यन्तावस्थायां कर्तरि प्रयोगे, कर्मणि प्रयोगे, च उच्यताम् -

Ø   रामः हसति | प्रयोजककर्ता सहोदरः |

Ø   बालकः विद्यालयं गच्छति | पिता प्रयोजककर्ता |

Ø   शिशुः ओदनं भुङ्कते | माता प्रयोजककर्ता |

Ø   बालः गद्यं पठति | प्रयोजककर्ता अध्यापकः|

Ø   बालिका चन्द्रं पश्यति | प्रयोजककर्ता माता |

Ø   रामः गृहं निर्माति | प्रयोजककर्ता अभियन्ता |

Ø   पान्थः मार्गं जानाति | प्रयोजककर्ता आरक्षकः |

Ø   सञ्चालकः मार्गं जानाति | प्रयोजककर्ता निर्देशकः |

Ø   रमा कन्दुकं ददाति | प्रयोजककर्ता बालकः |

Ø   बालकाः अन्नं खादन्ति | प्रयोजककर्ता माता |

Ø   सीता कथां स्मरति | प्रयोजककर्ता शिक्षिका |

Ø   पाचकः ओदनं पचति | प्रयोजककर्ता स्वामी |

Ø   छात्रः श्लोकार्थम् अवगच्छति | गुरुः प्रयोजककर्ता |

Ø   वृद्धः उपविशति | प्रयोजककर्ता तरुणः |

Ø   छात्राः क्रीडन्ति | प्रयोजककर्ता रमेशः |

Ø   यत्रिकाः पर्वतं पश्यन्ति | प्रयोजककर्ता पर्वतनेता |

Ø   पुत्राः अन्नं खादन्ति | प्रयोजककर्ता जननी |

Ø   सेनापतिः सेनिकान् नयति | प्रयोजककर्ता राजा |

Ø   सरिता जलं वहति | प्रयोजककर्ता स्वमिनी |

Ø   छात्रः श्लोकार्थं बोधति | प्रयोजककर्ता शिक्षकः |

Ø   विद्यार्थिनी गीतं पठति | प्रयोजककर्ता अध्यापिका |

Ø   ज्येष्ठः इतिवृत्तं शृणोति | प्रयोजककर्ता कार्यकर्ता |

Ø   वृद्धः पतति | प्रयोजककर्ता बालकाः |

Ø   शिष्यः धर्मं भाषते | प्रयोजककर्ता शिक्षकः |


दोषान् परिहृत्य शुद्धवाक्यं कर्तरि प्रयोगे, कर्मणि प्रयोगे च उच्यताम्

Ø   कृषिवलः कर्मकरं गां बन्धयति |

Ø   स्वामी भृत्यं भारं नाययति |

Ø   महेशः हरिशाय श्लोकं पाठयति |

Ø   माता पुत्रं पाषाणं क्षेपयति |

Ø   रामः पुत्रं अन्नं भक्षयति |

Ø   सीता मित्रं मधुरं खादयति |

Ø   रमा पुत्रीं गां स्पर्शयति |

Ø   शिक्षकः छात्रेण कवितां वाचयति |

Ø   हरिः सोमेशं जलं वाहयति |

Ø   अध्यापकः बालकान् व्याकरणम् अध्यापयति |

Ø   पिता पुत्रेण नदीं दर्शयते |

Ø    गुरुः शिष्यं देवम् अभिवादयति |

Ø    माता शिशुना दुग्धं  पाययति |

Ø    यशोदा  कृष्णम्  अन्नं भोजयति |

Ø    भक्तः निर्धनं भोजनं ग्राहयति |

Ø    सा नृपं गानं श्रावयति |

Ø    कृष्णः तेन वृक्षम्  आरोहयति |

Ø    कौरवाः पाण्डवान् वनं गमयन्ति |

Ø    माता बालेन चन्द्रं दर्शयति |

Ø    आचार्यः ब्रह्मचारिणं गृहं प्रवेशयति  |

Ø    गुरुः रमेशं दोषं त्याजयति  |

Ø    सीता रामं मारीचं घातयति  |

Ø    मन्त्री नृपेण धनं दापयति |

Ø    बालः पित्रा क्रीडनकं क्रापयति |

Ø    राजा सुमन्त्रेण रामं वनं नाययति |

Ø    गुरुः तं शास्त्रं ज्ञापयति |

Ø    माता शिशुना मिष्ठान्नं खादयति,आदयति  वा |

Ø    देवः रामेण सत्यं जल्पयति |


णिजन्तप्रयोगे प्रयोज्यकर्तुः कर्मत्वम्



Vidhya, August 18, 2021