1 - गुणः, सूत्रसहिता दृष्टिः
एतावता अस्माभिः दृष्टं यत् भ्वादिगणे धात्वङ्गस्य स्वरे गुणः भवति | केषां स्वराणां गुणादेशः भवति, काभ्यां नियमाभ्याम् इत्यपि अस्माभिः दृष्टम् | कानिचन उदाहरणानि अपि निरूपितानि आसन् | इदानीं पुनः गुणविषये विचारयाम-- अस्मिन् पर्याये सूत्रसहिता चर्चा करिष्यते |
पाणिनिः अष्टाध्यायी नाम ग्रन्थं रचितवान् | तत्र संस्कृतभाषायाः संपूर्णं मानचित्रं लभ्यते | एकैकं पदं कथं निर्मितम् इति अनेन ग्रन्थेन ज्ञायते | इदं मानचित्रं सूत्ररूपेण विरचितम् | तथा च व्याकरणविषये यदा कदापि कोऽपि किमपि प्रदर्शयितुम् इच्छति, पाणिनीय-सूत्राधारेण प्रदर्शनीयं भवति | व्याकरणलोके सूत्रं प्रमाणम् |
अतः एवं रीत्या धातुविषये अपि अवलोकनीयम् | पद्धतिः अपि अत्यन्ता सुन्दरी | तर्हि अग्रे सरेम, धातुगण-व्यवस्थां, गुण-व्यवस्थां च सूत्रस्य माध्यमेन परिशीलयाम |
पूर्वम् अस्माभिः दृष्टं यत् भ्वादिगणे नियमद्वयस्य बलेन गुणः क्रियते | एकः नियमः यत्र धातोः अन्तिमः वर्णः स्वरः; अपरनियमः यत्र धातोः उपधा स्वरः इति |
अधुना प्रथमं नियमम् अवलोकयाम, भू-धातोः माध्यमेन—
"भ्वादिगणे, धातोः अन्तिमः वर्णः इ, ई, उ, ऊ, ऋ, ॠ अस्ति चेत्, तस्य वर्णस्य गुणः भवति |”
यथा भू → भो, जि → जे, सृ → सर्
अस्तु, उपरि लिखितः नियमः पूर्वमेव दृष्टः, किन्तु अयं नियमः कुतः आगतः ?
इति चेत्, “भू + शप् + ति → भवति" इति उदाहरणं पश्याम |
गुणस्य चिन्तनक्रमः
आहत्य प्रक्रिया एतादृशी—
भू + शप् + ति → लशक्वतद्धिते (१.३.८), हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९) इति सूत्रैः शकारपकारयोः लोपः → भू + अ + ति → तिङ्शित् सार्वधातुकम् (३.४.११३) इत्यनेन शप्-प्रत्ययस्य सार्वधातुक-संज्ञा → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन सार्वधातुक-प्रत्यये परे इगन्ताङ्गस्य इकः गुणः → भो + अ + ति → एचोऽयवायावः (६.१.७७) इत्यनेन ओ-स्थाने अव् → भ् + अव् + अ + ति → वर्णमेलने → भवति
अधुना सोपानेन परिशीलयिष्यामः—
१. प्रथमतया शप्-प्रत्ययः अवगन्तव्यः | शप्-प्रत्यये शकारः न तिष्ठति, अपि तु अपगच्छति किल | किमर्थम् इति जानीमः | लशक्वतद्धिते (१.३.८) इति सूत्रेण प्रत्ययस्य आदौ स्थितस्य शकारस्य इत्-संज्ञा, तदा तस्य लोपः (१.३.९) इत्यनेन इत्-संज्ञकस्य शकारस्य लोपः | इदानीम् एतत् अवगच्छतु— यस्मिन् प्रत्यये शकारः इत्-संज्ञकः वर्णः अस्ति, सः प्रत्ययः 'शित्' इति उच्यते | शित् = यस्मिन् शकारः इत्, सः प्रत्ययः "शित्" | शकारः इत् यस्य सः, शित् इति बहुव्रीहिसमासः | शप् विकरण-प्रत्यये शकारस्य इत्-संज्ञा अस्ति, अतः शप्-प्रत्ययः "शित्" इति उच्यते |
२. तिङ्शित् सार्वधातुकम् (३.४.११३)
तिङ्शित् सार्वधातुकम् इति संज्ञा-सूत्रम् | अनेन यः प्रत्ययः तिङ् वा शित् वा अस्ति, सः प्रत्ययः सार्वधातुकम् | सार्वधातुकम् एका संज्ञा, एकं नाम तावत् एव; व्याकरणे बहूनि नामानि सन्ति | आधिक्येन तेषां नाम्नां स्वतन्त्रतया कोऽपि अर्थो नास्ति; केवलं नामकरणम् |
तर्हि, शप् प्रत्ययः शित् इति उपरि उक्तम् | यः शित् सः सार्वधातुकः इति अत्र उक्तम्, अतः शप्-प्रत्ययः सार्वधातुक-संज्ञां प्राप्नोति |
सारांशः = अनेन सूत्रेण शप्-प्रत्ययः सार्वधातुकः इति अवगच्छामः |
पूर्णः सूत्रार्थः अत्र उक्तः—
तिङ्शित् सार्वधातुकम् (३.४.११३) = धातोः विहितः तिङ्-शित् प्रत्ययः सार्वधातुकसंज्ञको भवति | श् इत् यस्य सः शित्, बहुव्रीहिः | तिङ् च शित् च तयोः समाहारद्वन्द्वः तिङ्शित् | तिङ्शित् प्रथमान्तं, सार्वधातुकं प्रथमान्तं, द्विपदमिदं सूत्रम् | प्रत्ययः (३.१.१), परश्च (३.१.२), धातो: (३.१.९१) इत्येषाम् अधिकारः | अनुवृत्ति-सहितसूत्रम्— धातोः परश्च तिङ्-शित् प्रत्ययः सार्वधातुकम् |
३. शप् प्रत्यये, शकारपकारयोः लोपः | अकारः एव अवशिष्यते |
शकारस्य इत्-संज्ञा, लोपश्च इत्युक्तम् | पकारस्य हलन्त्यम् (१.३.३) इति सूत्रेण इत्-संज्ञा, तस्य लोपः (१.३.९) इत्यनेन इत्-संज्ञकस्य पकारस्य लोपः |
भू + शप् + ति → लशक्वतद्धिते (१.३.८), हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९) इति सूत्रैः शकारपकारयोः लोपः → भू + अ + ति
अत्र 'अ' तु शप् आसीत्; अधुना केवलम् "अ" दृश्यते; तथापि शकारपकारयोः प्रभावः अस्ति एव | अकारः शपः प्रतिनिधिः |
४. भू-धातुः अजन्तः (स्वरान्तः) धातुः, नाम अन्तिमवर्णः स्वरः इति | अच्-प्रत्याहारः सर्वेषां स्वराणां सङ्ग्रहः | अतः अच् इति कश्चन सङ्क्षेपः स्वराणां कृते | तथा हि अपरः प्रत्याहारः इक् | इ, ई, उ, ऊ, ऋ, ॠ, ऌ, इत्येषां प्रत्याहारः इक् इति उच्यते | भू-धातोः अन्तिमवर्णः ऊकारः, अतः भू-धातुः इगन्तः धातुः | इक् अन्ते यस्य सः इगन्तः |
यस्य धातोः अन्तिमवर्णः इ, ई, उ, ऊ, ऋ, ॠ, ऌ वा, सः धातुः इगन्त-धातुः |
५. भू + अ + ति
यत्र इत्-संज्ञां कृत्वा लोपः साध्यते, तत्र यस्य लोपः जातः, सः इत्-संज्ञावान् | इत्-संज्ञावान् इति कारणेन तस्य प्रभावः तिष्ठति | कुत्र तिष्ठति ? बहुव्रीहिसमासेन यस्य इत्-संज्ञकवर्णः, तस्मिन् प्रभावः | यथा शप्-प्रत्यये शकारपकारयोः इत्-संज्ञां कृत्वा लोपः | इत्-संज्ञावान् शकारः यस्य सः शित् | शप्-प्रत्ययस्य इत्-संज्ञावान् शकारः, अतः शप्-प्रत्ययः शित् | शप् शित् अतः तिङ्शित् सार्वधातुकम् (३.४.११३) इत्यनेन शप्-प्रत्ययः सार्वधातुक-संज्ञकः | एतस्मात् कारणात् नूतन-सूत्रस्य कार्यं भवति—
सार्वधातुकार्धधातुकयोः (७.३.८४) |
अस्य सूत्रस्य अर्थः एवम्— इगन्त-धातोः अनन्तरं सार्वधातुकः अथवा आर्धधातुकः प्रत्ययः अस्ति चेत्, तर्हि इगन्तस्य अङ्गस्य इक्-वर्णस्य गुणः भवति |
पूर्णः सूत्रार्थः अत्र उक्तः—
सार्वधातुकार्धधातुकयोः (७.३.८४) = इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | सार्वधातुकञ्च आर्धधातुकञ्च तयोरितरेतरद्वन्द्वः सार्वधातुकार्धधातुके, तयोः सार्वधातुकार्धधातुकयोः | सार्वधातुकार्धधातुकयोः सप्तम्यन्तम्, एकपदमिदं सूत्रम् | मिदेर्गुणः (७.३.८२) इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | इको गुणवृद्धी (१.१.३) इत्यनेन परिभाषा-सूत्रेण, इक् स्थानी भवति यत्र स्थानी नोक्तम् | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन 'इकः अङ्गस्य' इत्युक्ते न केवलम् इक् इति अङ्गं, किन्तु तादृशम् अङ्गं यस्य अन्ते इक्; अलोऽन्त्यस्य (१.१.५२) इत्यनेन अङ्गस्य स्थाने गुणादेशः इति न, अपि तु अङ्गस्य अन्तिमवर्णस्य स्थाने गुणादेशः | अनुवृत्ति-सहितसूत्रम्— इकः अङ्गस्य गुणः सार्वधातुकार्धधातुकयोः |
अधुना भू + अ + ति इति स्थितौ अस्य सूत्रस्य प्रसक्तिः अस्ति न वा इति पश्येम | प्रसक्तिः इत्युक्ते प्रसङ्गः | भू-धातुः इगन्तधातुः | 'अ' शपः प्रतिनिधिः; शप् शित् अस्ति अतः तिङ्शित् सार्वधातुकम् (३.४.११३) इति सूत्रेण तस्य सार्वधातुक-संज्ञा |
इगन्तः भू-धातुः पूर्वम् अस्ति; परम् अस्ति सार्वधातुक-संज्ञक-'अ' प्रत्ययः | अतः सार्वधातुकार्धधातुकयोः इत्यस्य प्रसक्तिः | सूत्रस्य निकषाः पूरिताः | अधुना अनेन सूत्रेण किं कार्यं सिध्यति ? अङ्गस्य अन्तिमवर्णः यः इक्, तस्य गुणादेशः | भू-धातौ यः ऊकारः, तस्य गुणादेशः | अतः भू → भो | भो + अ + ति इति स्थितिः |
६. परिभाषासूत्राणि
पाणिनिः सूत्राणां लघुत्वम् इच्छति | तदर्थं वारं वारं सूत्रेषु यत्र समानप्रकारक-सन्देशः अपेक्ष्यते, तस्य वारं वारम् आवृत्तेः स्थाने परिभाषासूत्रम् पाणिनिना विरच्यते | इमानि सूत्राणि कस्यचित् सूत्रार्थस्य पूरणाय साहाय्यं कुर्वन्ति |
यथा सार्वधातुकार्धधातुकयोः (७.३.८४) इति सूत्रस्य अर्थपूरणार्थं त्रीणि परिभाषासूत्राणि अपेक्षितानि |
इको गुणवृद्धी (१.१.३) इति सूत्रेण 'इक्' स्थानी भवति यत्र स्थानी नोक्तम् |
येन विधिस्तदन्तस्य (१.१.७२) = विशेषणं तदन्तस्य अपि भवति, स्वस्यापि भवति | सोऽन्ते यस्य स तदन्तः, तस्य तदन्तस्य बहुव्रीहिः | विधीयते इति विधिः | येन तृतीयान्तं, विधिः प्रथमान्तं, तदन्तस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | स्वं रूपं शब्दस्याऽशब्दसंज्ञा (१.१.६८) इत्यस्मात् स्वम्, रूपम् इत्यनयोः अनुवृत्तिः | विभक्तिपरिणामः इत्यनेन षष्ठ्यन्ते भवतः, स्वस्य रूपस्य | अनुवृत्ति-सहितसूत्रम्— येन विधिः तदन्तस्य स्वस्य रूपस्य (च) |
विधिः इत्युक्ते कार्यम् | सार्वधातुकार्धधातुकयोः (७.३.८४) इति सूत्रे विधिः अस्ति गुणकार्यं; गुणः विधीयते | कस्य गुणः ? इक्-वर्णस्य | तर्हि येन विधिस्तदन्तस्य (१.१.७२) इति सूत्रे अत्र 'येन' इत्युके इक्-वर्णेन | इक्-वर्णेन गुणकार्यं विधीयते | येन इक्-वर्णेन गुणकार्यं विधीयते, तदन्तस्य (इगन्तस्य) शब्दस्य अपि गुणकार्यं विधीयते |
अलोऽन्त्यस्य (१.१.५२) = षष्ठीविभक्ति-द्वारा यस्य पदस्य स्थाने आदेशः प्राप्तः, सः आदेशः अन्त्यस्य अल्-वर्णस्य स्थाने भवति | अलः षष्ठ्यन्तम्, अन्त्यस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | षष्ठी स्थानेयोगा (१.१.४९) इत्यस्मात् षष्ठी, स्थाने इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— षष्ठ्या अन्त्यस्य अलः स्थाने (विद्यमानः आदेशः) |
६. भो + अ + ति
सन्धिप्रकरणे एकं सूत्रम् अस्ति— एचोऽयवायावः (६.१.७७) | यान्तवान्तसन्धिः इति लोके उच्यते | अनेन सूत्रेण एकवर्णसमूहस्य अन्ते ओकारः अस्ति चेत्, तस्य अनन्तरं कोऽपि स्वरः अस्ति चेत्, तर्हि ओकारस्य स्थाने "अव्"-आदेशः भवति |
भो + अ + ति → एचोऽयवायावः (६.१.७७) इत्यनेन ओ-स्थाने अव् → भ् + अव् + अ + ति |
पूर्णः सूत्रार्थः अत्र उक्तः—
एचोऽयवायावः (६.१.७७) = एचः (ए, ओ, ऐ, औ इत्येषां) स्थाने क्रमेण अय्, अव्, आय्, आव् इत्यादेशाः भवन्ति अचि परे | क्रमेण इत्युक्तं यथासंख्यमनुदेशः समानाम् (१.३.१०) इति परिभाषा सूत्रस्य साहाय्येन | अय् च, अव् च, आय् च, आव् च, तेषाम् इतरेतरद्वन्द्वः, अयवायावः | एचः षष्ठ्यन्तम्, अयवायावः प्रथमान्तं, द्विपदमिदं सूत्रम् | इको यणचि (६.१.७६) इत्यस्मात् अचि इत्यस्य अनुवृत्तिः; संहितायाम् (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— एचः अयवायावः अचि संहितायाम् |
७. भ् + अव् + अ + ति
भ् + अव् + अ + ति → वर्णानां मेलने → "भवति" इति अस्ति |
आहत्य प्रक्रिया एतादृशी—
भू + शप् + ति → लशक्वतद्धिते (१.३.८), हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९) इति सूत्रैः शकारपकारयोः लोपः → भू + अ + ति → तिङ्शित् सार्वधातुकम् (३.४.११३) इत्यनेन शप्-प्रत्ययस्य सार्वधातुक-संज्ञा → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन सार्वधातुक-प्रत्यये परे इगन्ताङ्गस्य इकः गुणः → भो + अ + ति → एचोऽयवायावः (६.१.७७) इत्यनेन ओ-स्थाने अव् → भ् + अव् + अ + ति → वर्णमेलने → भवति |
८. भ्वादिगणे यत्र यत्र इगन्तधातुः, तत्र तत्र एतादृशः क्रमः |
यथा जि जये इति धातुः |
जि + शप् + ति | लशक्वतद्धिते (१.३.८), हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९) | |
जि + अ + ति | तिङ्शित् सार्वधातुकम् (३.४.११३), सार्वधातुकार्धधातुकयोः (७.३.८४) | |
जे + अ + ति | एचोऽयवायावः (६.१.७७) [एकारस्य स्थाने अय्-आदेशः] | |
ज् + अय् + अ + ति | वर्णानां मेलने | |
जयति | इति तिङन्तपदं निष्पन्नम् | |
अग्रे स्रु गतौ, क्षि क्षये, हृञ् हरणे इत्येषां विषये चिन्त्यताम् |
1_-_guNaH,_sUtrasahitA_dRuShTiH.pdf
Swarup – August 2012 (updated November 2015)