23 - अनुमानप्रमाणं— विभागः अतिरिक्तः गुणः

From Samskrita Vyakaranam
10---nyAyashAstram/23---anumAnapramANam---vibhAgaH-atiriktaH-guNAH
Jump to navigation Jump to search


ध्वनिमुद्रणानि
१) anumAnapramANam---vibhAgaH-atiriktaH-guNAH_2017-06-24
२) anumAnapramANam---anvaya-vyAptiH_+_pakSha-bhinna-adhikaraNe-hetuH_2017-07-01
३) vyatirekavyAptiH_+_anvayavyAptiH_+_svArthAnumAnam_2017-07-08
४) parArthAnumAnasya-pancAvayavAH_+_anvayavyApti-lakShaNam_2017-07-15
५) trINi-vyApti-vAkyAni_+_vyatirekavyApti-sthale-anumAnasya-pancAvayavAH_2017-07-22
६) vyatirekavyApti-lakShaNena-anumAna-prayogaH_2017-07-29
७) vyatirekavyApti-sthale-anumAnasya-pancAvayavAH---vahniH-uShNaH-vahnitvAt_2017-08-05
८) anvayavyAptisthale-ekadesha-dRuShTAntaH---pakSatAvacChedakAvacChedena-sAdhyam_2017-08-19
९) pakSatAvacChedakasAmAnAdhikaraNyena-sAdhyam_+_anvayavyAptisthale-ekadesha-dRuShTAntaH_2017-08-26
१०) anvayadRuShTAntaH-sAmAnyapakaShasya-ekadeshaH---PAA-sthale-bhavati_PAS-sthale-na-bhavati_2017-09-02  


विभागसाधकम्‌ अनुमानं किम्‌ इति चेत्‌—


"आश्रयनाशाजन्यगुणनाशः समानाधिकरणगुणजन्यः आश्रयनाशाजन्यगुणनाशत्वात्‌ पाकजरूपनाशवत्‌ |”


'घटपटयोः संयोगः' इति स्थितौ घटः पटात्‌ विभक्तः, अनेन च घटपटयोः संयोगः नष्टः | 'आश्रयनाशाजन्यगुणनाशः' इत्यनेन 'आश्रयनाशेन अजन्यगुणनाशः' | अत्र गुणः इत्युक्तौ संयोगः | आश्रयः इत्युक्तौ घटः पटः च | अस्मिन्‌ दृष्टान्ते न घटः नष्टः न वा पटः, किन्तु घटपटयोः संयोगः नष्टः | अनेन सर्वजनसिद्धप्रत्ययेन संयोगनाशः इति पदार्थः सिध्यति | अत्र तादृशः संयोगनाशः यः आश्रयनाशेन न जातः इति कृत्वा आश्रयनाशाजन्यगुणनाशः |


व्यस्तप्रयोगे आश्रयनाशेन अजन्यगुणनाशः, आश्रयनाशात्‌ अजन्यगुणनाशः— द्वयमपि साधु | किन्तु समासप्रसङ्गे यतोहि हेतुतृतीयतत्पुरुषः न भवति, हेतुपञ्चमीतत्पुरुषसमासश्च भवति, अतः अत्र हेतुपञ्चमीतत्पुरुषसमासः, विग्रहवाक्यञ्च आश्रयनाशात्‌ अजन्यगुणनाशः | कारणविवक्षायां या तृतीया भवति, तया तृतीयया तत्पुरुषसमासो न भवति; व्यस्तप्रयोगे किन्तु भवति अवश्यम्‌ |


'समानाधिकरणगुणजन्यः' इति गुणनाशस्य विधेयः, उद्देश्यविधेयभावः— समानाधिकरणगुणजन्यः गुणनाशः | उद्देश्यविधेयभावः इति न ज्ञायते चेत्‌, विशेषणविशेष्यभावः इति चिन्त्यतां; प्रकृतविषयस्य बोधनार्थं द्वयोः सूक्ष्मः एव भेदः | समानाधिकरणगुणेन जन्यगुणनाशः; अत्र समानाधिकरणगुणेन जन्यसंयोगनाशः | समानाधिकरणगुणः इति विभागः | संयोगनाशः घटे पटे च, विभागः अपि तथा घटे पटे इत्यस्मात्‌ विभाग-संयोगनाशौ समानाधिकरणौ |


यथा घटे श्यामरूपम्‌ अस्ति; तेजःसंयोगेन तस्य नाशः भवति इति चेत्‌ तेजःसंयोगः च श्यामरूपनाशः च, इमौ द्वौ समानाधिकरणौ | तेजःसंयोगेन घटे विद्यमानश्यामरूपस्य नाशः जायते, अतः श्यामरूपनाशः समानाधिकरणगुणजन्यः | अत्र 'समानाधिकरणगुणजन्यः' इत्युक्तौ श्यामरूपनाशसमानाधिकरणगुणजन्यः | कथं ज्ञायते ? वाक्यं दृष्ट्वा— 'आश्रयनाशाजन्यगुणनाशः समानाधिकरणगुणजन्यः'— नाम आश्रयनाशाजन्यगुणनाश-समानाधिकरणगुणः, तेन जन्यः | तेन कः जन्यः ? आश्रयनाशाजन्यगुणनाशः |


यथा श्यामरूपं, तद्वत्‌ घृते द्रवत्वं | घृते तेजःसंयोगः आनीयते चेत्‌ तेजःसंयोगेन च घृते विद्यमानद्रवत्वरूपनाशः जायते | अत्र द्रवत्वनाशः तेजःसंयोगः च इमौ समानाधिकरणौ; अपि च द्रवत्वनाशः समानाधिकरणगुणजन्यः |


प्रकृते "आश्रयनाशाजन्यगुणनाशः समानाधिकरणगुणजन्यः आश्रयनाशाजन्यगुणनाशत्वात्‌ पाकजरूपनाशवत्‌” इति अनुमानस्य स्वरूपम्‌ | अनुमानवाक्यस्य च चत्वारः भागाः— पक्षः, साध्यं, हेतुः, दृष्टान्तः |


अनुमानस्य बोधनार्थं 'पर्वतः वह्निमान्‌ धूमात्‌ यथा महानसम्‌' इति वाक्यं परिशीलयाम | पर्वतः पक्षः; यत्र साधियितुम्‌ इच्छामः, सः पक्षः | इत्युक्ते पर्वते साधयितुम्‌ इच्छामः | किं साधयितुम्‌ इच्छामः ? वह्निं साधयितुम्‌ इच्छामः | तदर्थं वह्निः साध्यः | वह्निं साधयितुम्‌ इच्छामः कुत्र ? पर्वतरूपिपक्षे— पर्वतः पक्षः | अधुना धूमः हेतुः, कारणम्‌ | 'यथा महानसम्‌' इति दृष्टान्तः | महानसम्‌ इत्युक्तौ पाकशाला; महानसे धूमः अस्ति चेत्‌ वह्निः अस्त्येव इति अस्माकम्‌ अनुभवः | तदर्थं दृष्टान्तत्वेन उपयुज्यते | आहत्य 'पर्वते धूमः अस्ति अतः वह्निः अपि अस्ति, यथा महानसे' इति अनुमानप्रयोगः |


तर्हि पर्वतरूपिपक्षे वह्निं साधयामः | यत्‌ साधयामः तत्‌ साध्यम्‌, अतः अत्र वह्निः साध्यः | धूमः कारणं, महानसं दृष्टान्तः | पक्षः, साध्यं, हेतुः, दृष्टान्तः इति चत्वारः भागाः अनुमानप्रयोगे |


प्रकृते आश्रयनाशाजन्यगुणनाशः इति पक्षः; यत्र साधियितुम्‌ इच्छामः, सः पक्षः | समानाधिकरणगुणजन्यः साध्यः | आश्रयनाशाजन्यगुणनाशत्वात्‌ इति हेतुः | पाकजरूपनाशवत्‌ इति दृष्टान्तः | यथा पर्वतः, तथा आश्रयनाशाजन्यगुणनाशः | इत्युक्तौ 'आश्रयनाशः यत्र न जातः किन्तु तदाश्रितगुणस्य नाशः जातः'— तादृशनाशरूपपदार्थः, यथा 'पर्वतः' इति पदार्थः | अयमेव पदार्थः पक्षः; अतः तस्मिन्‌ प्रदर्शयितुम्‌ इच्छामः यत्‌ साध्यम्‌ अस्ति | तस्मिन्‌ पदार्थे, आश्रयनाशाजन्यगुणनाशः इति पदार्थे— हेतुः अस्ति चेत्‌ साध्यम्‌ अवश्यं भवति इति अनुमानप्रयोगः | यथा पर्वते वह्निः साक्षात्‌ न दृष्टः, किन्तु साधयितुम्‌ इच्छामः— 'पर्वते वह्निः अस्ति; पर्वतः वह्निमान्‌' इति | एवमेव संयोगनाशः इति पक्षः समानाधिकरणगुणजन्यः इति साधयितुम्‌ इच्छामः |


वस्तुतः समानाधिकरणगुणजन्यत्वं साध्यम्‌ इति वक्तव्यम् | समानाधिकरणगुणजन्यः संयोगनाशः इति उद्देश्यविधेयभावं साधयितुम्‌ इच्छामः; इत्युक्तौ समानाधिकरणगुणजन्यत्वं संयोगनाशे | समानाधिकरणगुणजन्यत्वम्‌ इति साध्यम्‌, आश्रयनाशाजन्यगुणनाशः इति पक्षः | तस्मिन् च पक्षे साध्यम्‌ अस्ति इति साधयितुम्‌ इच्छामः | आश्रयनाशाजन्यगुणनाशे समानाधिकरणगुणजन्यत्वं साधयामः | पर्वते वह्निं साधयामः इति यथा, तथैव आश्रयनाशाजन्यगुणनाशे समानाधिकरणगुणजन्यत्वम्‌ | नाम संयोगनाशे विभागजन्यत्वम्‌ | विभागेन जन्यत्वम्‌ अस्ति संयोगनाशे | इति कृत्वा समानाधिकरणगुणजन्यत्वं साध्यम्‌ |


आश्रयनाशाजन्यगुणनाशत्वम्‌ इति हेतुः | यथा धूमः | अत्र प्रकृते किन्तु किञ्चित्‌ वैचित्र्यं वर्तते | यतोहि 'पर्वतः वह्निमान्‌ धूमात्‌' इत्यस्मिन्‌ पर्वतः इति पक्षः भिन्नवस्तु, धूमश्च तस्मात्‌ भिन्नवस्तु | परञ्च आश्रयनाशाजन्यगुणनाशः इति पक्षः, आश्रयनाशाजन्यगुणनाशत्वम्‌ इति हेतुः | नाम पुनः तदेव, तस्य एव धर्मः हेतुरूपेण उक्तम्‌ | कुत्रचित्‌ अनुमानेषु तथा भवति | उदाहरणार्थं 'वह्निः उष्णः वह्नित्वात्‌' | नाम वह्नौ उष्णत्वम्‌ अस्ति | कथंं जानीमः ? यतोहि तस्मिन्‌ वह्नौ वह्नित्वम्‌ अस्ति | तर्हि तत्र अनुमानप्रयोगः कः ? 'वह्निः उष्णः वह्नित्वात्‌' |


'पर्वतः वह्निमान्‌ धूमात्‌' इति स्थले 'यत्र यत्र धूमः तत्र तत्र वह्निः' इति उच्यते | एतादृश-हेतुसाध्ययोः सम्बन्धस्य नामकरणं भवति 'अन्वयव्याप्तिः'— यत्र यत्र हेतुः, तत्र तत्र साध्यम्‌ इति | 'यत्र यत्र' इत्यस्य अनन्तरं यः पदार्थो भवति, सः व्याप्यः | 'तत्र तत्र' इत्यस्य अनन्तरं यः पदार्थो भवति, सः व्यापकः | व्यापकव्याप्ययोः कः अर्थः इति चेत्‌, विश्वे व्यापकस्य क्षेत्रं बृहत्‌ भवति व्याप्यस्य अपेक्षया | व्याप्यस्य क्षेत्रं व्यापकक्षेत्रे अन्तर्भूतं, व्यापकक्षेत्रापेक्षया लघु च | तर्हि हेतुः व्याप्यः, साध्यं व्यापकम्‌ | यथा धूमः, वह्निः | वह्निः भवति चेत्‌ धूमः भवेदेव इति तु नास्ति; कुत्रचित्‌ यत्र वह्निरस्ति, धूमः न भवति | वहिः अस्ति, धूमः नास्ति— एतादृशी स्थितिः भवति | किन्तु धूमः भवति चेत्‌, तस्य अर्थः एवं यत् वह्निः अस्त्येव | यतोहि द्वयोः कार्यकारणभावः अस्ति | अग्निः कारणं, धूमः कार्यं; वह्निना धूमः उत्पद्यते | अतः धूमः अस्ति चेत्‌, वह्निः अवश्यम्‌ अस्ति; किन्तु वह्निः अस्ति चेत्‌ धूमः भवितुम्‌ अर्हति, नापि भवितुम्‌ अर्हति | तदर्थम्‌ अत्र न केवलं कार्यकारणभावः, अपि तु व्याप्यव्यापकभावः अपि | अनुमानस्थले व्याप्यव्यापकभावः प्रमुखः; कार्यकारणभावः कुत्रचित्‌ भवति कुत्रचित्‌ न भवति | किन्तु व्याप्यव्यापकभावेन अनुमानप्रमाणं, नाम अनुमितिः, सिध्यति |


तर्हि एतदाधारेण 'वह्निः उष्णः वह्नित्वात्‌' इति स्थले चिन्तयितुं शक्नुमः | अत्र च बोध्यं यत्‌ कार्यकारणभावो नास्ति | वह्नित्वम्‌ इति जातिः, उषणत्वम्‌ इति गुणः | वह्नित्वं हेतुः, उष्णत्वं साध्यम्‌ | अत्र च 'उष्णः' इत्यनेन उष्णस्पर्शः | स च उष्णस्पर्शः नाना विधः— वह्निजन्यः अपि भवति उष्णस्पर्शः, सूर्यकिरणजन्यः अपि भवति उष्णस्पर्शः | अतः उष्णत्वं कुत्रचित्‌ भवति यत्र वह्नित्वं नास्ति, किन्तु वह्नित्वं भवति चेत्‌ उष्णत्वम्‌ अस्त्येव | अनेन वह्नित्वं व्याप्यं भवति, उष्णत्वञ्च व्यापकं भवति | कार्यकारणभावः यद्यपि नास्ति, किन्तु व्याप्यव्यापकभावः अस्ति |


तर्हि वह्नित्वं हेतुः, उष्णत्वं साध्यम्‌ | वह्नित्वं व्याप्यम्, उष्णत्वं व्यापकम्‌ | व्याप्यस्य क्षेत्रं व्यापकक्षेत्रे अन्तर्भूतं, व्यापकक्षेत्रापेक्षया लघु च | एतदाधारेण 'यत्र यत्र वह्नित्वं, तत्र तत्र उष्णत्वम्‌' इत्यपि स्यात्‌ | किन्तु यथोक्तम्‌ उपरि, अत्र एकं वैचित्र्यं वर्तते | तस्य वैचित्र्यस्य कारणं किम्‌ ? हेतुः पक्षे एव वर्तते; वह्निम्‌ अतिरिच्य वह्नित्वं न कुत्रापि लभ्यते | तर्हि कथं वा 'यत्र यत्र वह्नित्वं, तत्र तत्र उष्णत्वम्‌' ? तदानीं किल 'यत्र यत्र' वक्तुं शक्यते यदा विभिन्नस्थलेषु तच्च वस्तु लभ्येत | किन्तु एकः पदार्थः वह्नित्वं नाम्ना पक्षे एव लभ्यते चेत्‌ 'यत्र यत्र' इति कथम्‌ उच्येत ? अनुमानप्रयोगे तस्य दृष्टान्तः च कथं वा स्यात्‌ ?


हेतुः केवलं पक्षे प्राप्यते इति नास्ति चेत्‌, अन्यत्रापि प्राप्यते चेत्‌, दृष्टान्तः 'अन्वयदृष्टान्तः' इति उच्यते | 'यत्र यत्र धूमः तत्र तत्र वह्निः यथा महानसम्‌' इति दृष्टान्ते अन्वयव्याप्तिरस्ति | 'पर्वतः वह्निमान्‌ धूमात्‌ यथा महानसम्‌' इत्यस्मिन्‌, धूमरूपहेतुः न केवलं पर्वतरूपपक्षे किन्तु महानसेऽपि अन्यत्रापि— पक्षभिन्नाधिकरणे अपि प्राप्यते अयं हेतुः | अतः अनुमानप्रयोगेण अन्वयव्याप्तिज्ञानम्‌ उत्पद्यते | 'यत्र यत्र धूमः तत्र तत्र वह्निः' इति ज्ञाने अन्वयव्याप्तिः अस्ति— तदाधारेण च 'धूमात्‌ वह्निमान्‌', ततः च 'पर्वते वह्निरस्ति' इति अनुमितिः सिध्यति |


किन्तु हेतुः केवलं पक्षे प्राप्यते इति चेत्‌, हेतुसाध्ययोः अन्वयव्याप्तिं वक्तुं न शक्यते | वह्निः उष्णः वह्नित्वात्‌ | वह्नित्वं केवलं वह्नौ; अन्यत्र न लभ्यते | तदर्थं दृष्टान्तः अन्वयदृष्टान्तः न भवति | दृष्टान्तः भवति, किन्तु सः भिन्नप्रकारकः— व्यतिरेकदृष्टान्तः भवति | 'वह्निः उष्णः वह्नित्वात्‌ यन्नैवं तन्नैवं यथा जलम्‌' इति अनुमानप्रयोगो भवति | 'यत्‌ न एवं तत्‌ न एवं, यथा जलम्‌' इति व्यतिरेकदृष्टान्तः एव सम्भवति |


अस्तु, किन्तु तथैव कुर्मः चेदपि समस्या जायते किल ? यतोहि 'नास्ति' इत्यस्मात्‌ 'अस्ति' इति प्रमाणितं कथं वा स्यात्‌ ? इत्युक्ते 'वह्निः उष्णः वह्नित्वात्‌ यन्नैवं तन्नैवं यथा जलम्‌' इति वदामः चेत्‌, नाम 'जले उष्णत्वं नास्ति' इत्यस्य कथनेन, कथं वा प्रमाणितं भवेत्‌ यत्‌ अतः 'वह्नौ उष्णत्वम्‌ अस्ति' ? जले वह्नित्वरूपहेतुः नास्ति अतः उष्णत्वरूपसाध्यं नास्ति इति कृत्वा पक्षे हेतुः अस्ति अतः साध्यमपि अस्ति, इति तादृशतर्कः भवति वा ? न भवति किल | अपि च वदामः चेदपि, तर्हि 'वह्निः उष्णः वह्नित्वात्‌ यन्नैवं तन्नैवं यथा जलम्‌' इति यथा, 'वायुः उष्णः वायुत्वात्‌ यन्नैवं तन्नैवं यथा जलम्‌' इत्यपि स्यात्‌ | समस्या हि समस्या !


दृष्टान्ते हेतुः नास्ति अतः साध्यं नस्ति, तदाधारेण पक्षे हेतुः अस्ति अतः सध्यम्‌ अपि अस्ति— इति कार्यं न करोति | नो चेत्‌ वायौ अपि उष्णत्वं भवेत्‌ | अतः 'यत्र यत्र हेतुः नास्ति तत्र तत्र साध्यं नास्ति' इत्यस्य आधारेण 'यत्र हेतुः अस्ति तत्र साध्यमपि अस्ति' इति न भवति | दोषपूर्णचिन्तनमिदम्‌ | वस्तुतः 'यत्र यत्र हेतुः नास्ति तत्र तत्र साध्यं नास्ति' इति वक्तुमेव न शक्यते | 'यत्र यत्र धूमः नास्ति तत्र तत्र वह्निः नास्ति' इति भवति किम्‌ ?


अन्ततो गत्वा 'यन्नैवं तन्नैवम्‌' इत्यनेन 'यत्र यत्र वह्नित्वं नास्ति तत्र तत्र उष्णत्वं नास्ति' इति न | व्यतिरेकदृष्टान्तस्थले 'यत्र यत्र हेतुर्नास्ति तत्र तत्र साध्यं नास्ति' इति न; 'यत्र यत्र साध्यं नास्ति तत्र तत्र हेतुर्नास्ति' इत्येव भवति | 'यत्र यत्र उष्णत्वं नास्ति तत्र तत्र वह्नित्वं नास्ति' इति अस्ति | अस्य आधारेण च प्रमाणं कर्तुं शक्ष्यामः यत्‌ अतः वह्नौ उष्णत्वमिति साध्यम्‌ अस्ति | कथमिति अग्रे पश्येम |


पूर्वमपि अस्माभिः चत्वारि वाक्यानि परिशीलितानि—

१. अन्वयव्याप्तिः

यत्र यत्र धूमः, तत्र तत्र वह्निः

२. व्यतिरेकव्याप्तिः

यत्र यत्र वह्न्यभावः, तत्र तत्र धूमाभावः

३. अन्वयव्यभिचारः

कारणमस्ति, कार्यं नास्ति [मङ्गलं, कादम्बरी, बाणभट्टः]

४. व्यतिरेकव्यभिचारः

कारणं नास्ति, कार्यमस्ति [मङ्गलं, नास्तिकग्रन्थेषु यथा चार्वाकः]


तर्हि अत्र 'वह्निः उष्णः वह्नित्वात्‌ यन्नैवं तन्नैवं यथा जलम्‌' इति स्थले, द्वितीयविधव्याप्तिः अपेक्षितः | अत्र 'यत्र यत्र हेतुः तत्र तत्र साध्यम्‌' इति कार्यं न करोति इति बुद्धं यतोहि हेतुः पक्षभिन्नस्थले न लभ्यते | अपि च यत्र यत्र हेतुः नास्ति तत्र तत्र साध्यं नास्ति' इत्यपि कार्यं न करोति इति दृष्टम्‌ | 'यत्र यत्र धूमः नास्ति तत्र तत्र वह्निः नास्ति' इति कार्यं करोति वा ?


अग्रे व्यतिरेकदृष्टान्तः कथं कार्यं करोति इति पश्यामः | प्रथमतया अन्वयव्याप्तिप्रसङ्गे इतोऽपि बोध्यं; तदा तदाधारेण व्यतिरेकव्याप्तिप्रसङ्गे बोधसौलभ्यं भवेत्‌ | अस्य कृते 'पर्वतः वह्निमान्‌ धूमात्‌' इत्यस्य उदाहरणं स्वीकुर्मः | 'पर्वतः वह्निमान्‌ धूमात्‌'— अत्र न केवलम्‌ अन्वयदृष्टान्तः, अपि तु व्यतिरेकदृष्टान्तः अपि, वर्तते | अन्वयव्याप्तिरपि अस्ति, व्यतिरेकव्याप्तिरपि अस्ति अत्र | 'यत्र यत्र धूमः, तत्र तत्र वह्निः' इति अन्वयव्याप्तिः; 'यत्र यत्र वह्निः नास्ति—साध्यं नास्ति— तत्र तत्र हेतुः अपि नास्ति, नाम धूमः अपि नास्ति | यथा ह्रदे | यो यः हेतुमान्‌, स सर्वोपि साध्यवान्‌ | यः साध्याभाववान्‌, सः हेत्वभाववान् | व्यतिरेकस्थले साध्याभावः, तदा हेत्वभावः | अन्वयस्थले हेतुः, तदा साध्यम्‌ |


अधुना अन्वयव्याप्तिप्रसङ्गे किञ्चित्‌ परिचयत्वेन कथ्यते | अनुमानं द्विविधं— स्वार्थानुमानं परार्थानुमानं च | स्वार्थानुमानस्थले कश्चन रामः स्वयं पर्वतं पश्यति; पर्वते च पश्यति यत्‌ धूमः अस्ति | अनेन चत्वारि ज्ञानानि आत्मनि क्रमेण उत्पद्यन्ते—


चत्वारि ज्ञानानि

१) पक्षधर्मता ज्ञानम्‌ = हेतुः पक्षे अस्ति

२) व्याप्तिज्ञानम्‌ = यत्र यत्र हेतुः तत्र तत्र साध्यम्‌

३) परामर्शः = साध्यव्याप्यहेतुमान्‌ पक्षः

४) अनुमितिः = साध्यवान्‌ पक्षः


१) पर्वते धूमः अस्ति

२) यत्र यत्र धूमः तत्र तत्र वह्निः

३) वह्निव्याप्यधूमवान्‌ पर्वतः

४) पर्वतः वह्निमान्‌


प्रथमतया पक्षधर्मता ज्ञानम्‌ | धर्मता-शब्देन हेतोः पक्षवृत्तित्वम्‌ इत्यर्थः | धूमस्य वृत्तित्वं पर्वते इति ज्ञानम्‌ | रामः पर्वते धूमं पश्यति, अनेन च जानाति यत्‌ 'अयं पर्वतः धूमवान्‌' | पक्षधर्मता ज्ञानम्‌ | तदा स्मरणात्मकं ज्ञानम्‌ आत्मनि उत्पद्यते— यत्र यत्र धूमः भवति, तत्र तत्र वह्निः भवति इति ज्ञानम्‌ | इदं 'व्याप्तिज्ञानम्‌' इत्युच्यते | पूर्वं जातस्य अनुभवस्य संस्कारवशात्‌— धूमदर्शनं संस्कारम्‌ उद्बोधयति— तेन उद्बुद्धसंस्कारेण व्याप्तेः स्मरणं जन्यते | धूमदर्शनं उद्बोधकं, तेन संस्कारः उद्बुद्धः, तस्मात्‌ व्याप्तिविषयकं स्मरणं जायते | तर्हि प्रथमं पक्षधर्मता ज्ञानं; तदा द्वितीयं ज्ञानं व्याप्तिज्ञानम्‌ |


तृतीयं ज्ञानं परामर्शः | 'वह्निव्याप्यधूमवान्‌ अयंं पर्वतः' | अस्मिन्‌ ज्ञाने व्याप्तिः अपि अस्ति, पक्षधर्मता अपि अस्ति | इत्युक्तौ व्याप्तिविशिष्टायाः पक्षधर्मतायाः ज्ञानम्‌ | नाम प्रथमतया पक्षधर्मता ज्ञानं जातं, तदा व्याप्तिज्ञानम्‌ उत्पन्नं, तदा द्वयोः मेलनेन व्याप्तिविशिष्ट-पक्षधर्मता ज्ञानम्‌ | अस्मिन्‌ ज्ञाने द्वौ विषयौ— व्याप्तिः अपि विषयः, पक्षधर्मता अपि विषयः | वह्निना व्याप्तः धूमः पर्वते इति ज्ञानम्‌, इति परामर्शः इत्युच्यते | वह्निव्याप्यः यः धूमः, तादृशः धूमः अस्मिन्‌ पर्वते वर्तते, इति ज्ञानम्‌ | अनन्तरं 'पर्वतः वह्निमान्‌' इति ज्ञानं जायते; इदं ज्ञानं परामर्शजन्य-अनुमितिः इत्युच्यते |


अत्र स्मारणार्थं 'वह्निव्याप्यधूमवान्‌' इति यदा उच्यते, व्यस्तप्रयोगे वह्निना व्याप्यः धूमवान् इति भवति | तत्र वि-उपसर्गपूर्वकः आप्‌-धातुः, लटि व्याप्नोति; आवरणं करोति इत्यर्थः | व्याप्यः/व्याप्या/व्याप्यम्‌ इति कर्मण्यर्थकं विशेषणं ण्यत्‌-प्रत्ययान्तम्‌ | पेयं, खाद्यं, कार्यं, वाक्यं, व्याप्यम्‌ इतीमानि पदानि ण्यत्‌-प्रत्ययान्तानि | व्याप्यः इत्यस्य विपरीतार्थाकं पदं ण्वुल्‌-प्रत्ययान्तं व्यापकम्‌ | यः व्याप्नोति सः व्यापकः, यं व्याप्नोति, सः व्याप्यः |


अधुना द्वितीयविधम्‌ अनुमानं— परार्थानुमानम्‌ | अस्मिन्‌ कश्चन श्यामः स्वस्य गृहे अस्ति | स च पर्वतं न पश्यति | किन्तु रामः पर्वतं गत्वा, पर्वते धूमं दृष्ट्वा, 'अहो पर्वतः वह्निमान्‌ !' इति जानाति | रामः कथं जानाति इति चेत्‌, तस्य आत्मनि क्रमेण इमानि चत्वारि उपर्युक्तानि ज्ञानानि स्वार्थानुमानेन उत्पद्यन्ते | तदा सः श्यामस्य गृहं गच्छति | श्यामस्य गृहं गत्वा रामः पञ्च वाक्यानि श्यामं वदति—


१) पर्वतो वह्निमान्‌

२) धूमवत्त्वात्

३) यो यो धूमवान्‌ स स वह्निमान्‌ यथा महानसम्‌

४) तथा च अयम्‌

५) तस्मात्‌ तथा


१) प्रतिज्ञावाक्यम्‌ = पर्वतो वह्निमान्‌

२) हेतुवाक्यम्‌ = धूमवत्त्वात्

३) उदाहरणवाक्यम्‌ = यो यो धूमवान्‌ स स वह्निमान्‌ यथा महानसम्‌

४) उपनयवाक्यम्‌ = तथा च अयम्‌ | वह्निव्याप्यधूमवान्‌ अयं पक्षः |

५) निगमनवाक्यम्‌ = तस्मात्‌ तथा | तस्मात्‌ धूमवत्त्वात्‌ तथा वह्निमान्‌ |


अयं क्रमः वार्तालापरूपेण जायते इति चिन्त्यताम्‌ | रामः 'पर्वतो वह्निमान्‌' इति वदति | श्यामस्य मनसि आकाङ्क्षा भवति— 'कुतः वह्निमान्‌ इति अङ्गीकर्तव्यम्‌ ?' इति पृच्छति सः | तदा आकाङ्क्षा-निवृत्त्यर्थं रामः उत्तरयति 'धूमवत्त्वात्' इति | श्यामः पुनः पृच्छति, 'धूमवत्त्वम्‌ अस्ति चेत्‌ कुतः वह्निः अङ्गीकर्तव्यः ?' तत्र रामः उत्तरं ददाति, 'यो यो धूमवान्‌ स स वह्निमान्‌ यथा महानसम्‌' इति व्याप्तिबोधकम्‌ उदाहरणवाक्यम्‌ | एवं च प्रश्नोत्तररूपेण भवति |


परार्थानुमानस्य अन्वयव्याप्तिस्थले, 'पक्षः साध्यवान्‌' इत्यस्य प्रदर्शनार्थम्‌ एते पञ्च अवयवाः भवन्ति— प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि पञ्चावयवाः इति तर्कसङ्ग्रहवाक्यम्‌ | पर्वतो वह्निमान्‌ | धूमवत्त्वात्‌ | यो यो धूमवान्‌ स स वह्निमान्‌ यथा महानसम्‌ | तथा च अयं, नाम वह्निव्याप्यधूमवान्‌ अयं, पर्वतः | तस्मात्‌ तथा | तस्मात्‌ धूमवत्त्वात्‌ अयं पर्वतः तथा वह्निमान्‌ |

एषु पञ्चसु वाक्येषु प्रथम-त्रीणि वाक्यानि सैद्धान्तिकानि न तु प्रकृतपर्वतप्रासङ्गिकानि | नाम, यदा कोऽपि कमपि सूचयति 'पर्वतो वह्निमान्‌' इति, श्रोता तदा पृच्छति 'कथं ज्ञायते', तदा उत्तरम्‌ आयाति 'धूमवत्त्वात्', तदा 'कथं धूमवत्त्वम्‌ इत्यस्मात्‌ वह्निमत्त्वम्‌', तदा 'यो यो धूमवान्‌ स स वह्निमान्‌ यथा महानसम्‌'— एतावत्‌ पर्यन्तं सिद्धान्तः एव | तृतीयेन च व्याप्तिज्ञानं जायते | तदा रामः वदति 'तथा च अयम्‌', इत्युक्ते 'अस्मिन्‌ पर्वते धूमः अस्ति' | अत्र एव पक्षधर्मता ज्ञानम्‌ उत्पद्यते श्यामस्य आत्मनि— तस्मात्‌ पूर्वं न | अग्रे 'तस्मात्‌ तथा' इति पञ्चमवाक्यस्य कथनानन्तरमेव श्यामस्य आत्मनि परामर्शः, तदा अनुमितिः जायते | (वस्तुतः अस्मिन्‌ मतभेदः वर्तते; केचन वदन्ति यत्‌ उपनयवाक्यं 'धूमवान्‌ अयम्‌' इत्येव भवति, अन्ये वदन्ति यत्‌ 'वह्निव्याप्यधूमवान्‌ अयम्‌' इति भवति |)


अतः परार्थानुमानेऽपि इमानि चत्वारि ज्ञानानि भवन्ति यानि स्वार्थानुमाने दृष्टानि | पक्षधर्मता ज्ञानं प्रत्यक्षात्मकमेव भवेत्‌ इति नास्ति | 'हेतुः पक्षे अस्ति' इति ज्ञानं पक्षधर्मता ज्ञानम्‌ | रामः पर्वते धूमं दृष्ट्वा प्रत्यक्षप्रमाणेन जानाति यत्‌ पर्वतः धूमवान्‌; श्यामः 'तथा च अयम्‌' इति श्रुत्वा जानाति यत्‌ पर्वतः धूमवान्‌— उभयत्र पक्षधर्मता ज्ञानम्‌ | रामस्य आत्मनि चत्वारि ज्ञानानि उत्पद्यन्ते स्वार्थानुमानेन; श्यामस्य आत्मनि इमानि एव चत्वारि ज्ञानानि उत्पद्यन्ते, किन्तु परार्थानुमानेन |


इत्थञ्च अन्वयव्याप्तिः कथम्‌ अस्ति, तदाधारेण अनुमानस्य पञ्चावयवाः कथं भवन्ति, ततः च अनुमितिः कथं जायते इति अस्माभिः ज्ञातम्‌ | अनया अन्वयव्याप्त्या 'पक्षः साध्यवान्‌' इति सिद्धम्‌ | अधुना अन्ते व्याप्यव्यापकभावस्य सुदृढतया बोधनार्थम्‌ अन्वयव्याप्तेः स्वरूपम्‌ अवलोकनीयम्‌ | तदानीमेव अस्माकं सामर्थ्यं भविष्यति व्यतिरेकव्याप्तेः ग्रहणार्थम्‌ |


अस्य कृते व्याप्यव्यापकभावः इतोऽपि किञ्चित्‌ ज्ञातव्यः | हेतुः व्याप्यः, साध्यं व्यापकम्‌ | व्याप्यः इत्युक्ते 'व्याप्तिमान्‌'— यः व्याप्तिमान्‌, सः व्याप्यः | 'पर्वतः वह्निमान्‌ धूमात्‌' इत्यत्र, वह्निव्याप्यः नाम कः ? धूमः— वह्निव्याप्यधूमः | वह्निव्याप्तिः धूमे इत्यर्थः | 'वह्निव्याप्तिः' नाम कः इति चेत्‌, धूमाधिकरणवृत्ति-अत्यन्ताभाव-अप्रतियोगी वह्निः समानाधिकरण-धूमः; वह्निसामानाधिकरण्यं धूमे | अस्य अर्थः कः ? धूमव्यापकः वह्निः, इत्युक्तौ धूमाधिकरणवृत्ति-अत्यन्ताभाव-अप्रतियोगी वह्निः | व्याप्तेः स्वरूपं कथयति— 'हेत्वधिकरणवृत्ति-अत्यन्ताभाव-अप्रतियोगी-साध्यसामानाधिकरण्यं व्याप्तिः' | अनेन अन्वयव्याप्तिः | 'यत्र यत्र धूमः तत्र तत्र वह्निः' इति वदामः, तस्य अयमेव अर्थः | नाम धूमाधिकरणवृत्तिः यः अत्यन्ताभावः, तत्र स च वह्नेः अत्यन्ताभावः न भवति | यतोहि धूमाधिकरणे सर्वदा वह्निः भवति | अतः वह्नि-अत्यन्ताभावः स्वीकर्तुं न शक्यते किन्तु घटपटादि-अत्यन्ताभावः भवति, तस्य प्रतियोगी घटपटादिः, अप्रतियोगी भवति वह्निः, इत्युक्तौ तदेव साध्यम्‌ | स च धूमाधिकरणवृत्ति-अत्यन्ताभाव-अप्रतियोगी वह्निः; तादृशवह्नि-अधिकरणवृत्तिः धूमः पुनः | वह्न्यधिकरणवृत्तित्वं धूमे | इयमेव धूमे विद्यमानवह्निव्याप्तिः | धूमाधिकरणवृत्ति-अत्यन्ताभाव-अप्रतियोगी वह्निसामानाधिकरण्यम्‌ | इयं व्याप्तिः साध्यस्य एव अन्वयव्याप्तिः |


अग्रे व्यतिरेकव्याप्तिः कीदृशी, तदाधारेण पञ्चावयवाः कथं भवन्ति, ततः च अनुमितिः कथं जायते इति द्रष्टव्यम्‌ | अत्रैव अस्माकं प्रश्नः किल— 'यत्र यत्र साध्यं नास्ति तत्र तत्र हेतुः नास्ति' इति व्याप्तिज्ञानस्य आधारेण, 'पक्षे हेतुः अस्ति चेत्‌ साध्यम्‌ अपि अवश्यम्‌ अस्ति' इति कथं सिध्यति ? अन्वयव्याप्तिस्थले चिन्तनं यथा, तदपेक्षया व्यतिरेकव्याप्तिस्थले चिन्तनं किञ्चित्‌ अन्यादृशं भवति | सर्वप्रथमं कश्चन मूल-सिद्धान्तः बोध्यः | इदमेव बीजम्‌ अवगम्यते चेत्‌ समग्रबोधः इतोऽपि सुलभः—


कश्चन व्याप्यः कश्चन व्यापकः च स्तः चेत्‌, व्याप्याभावं प्रति व्यापकाभावः व्याप्यः, व्याप्याभावश्च व्यापकः इति सार्वत्रिकनियमः | नाम अभाव-शब्दस्य संयोजनेन व्याप्तिकथनावसरे शब्दक्रमः विपरीतत्वेन वक्तव्यः | तथैव च पुनः पुनः कर्तुं शक्यते— 'अभाव'-शब्दसंयोजनं, विपरीतत्वेन शब्दक्रमः | यथा—


१) व्याप्येन व्यापकः सिध्यति | यत्र यत्र व्याप्यः तत्र तत्र व्यापकः | धूमः, वह्निः → यत्र यत्र धूमः तत्र तत्र वह्निः |

२) व्यापकाभावेन व्याप्याभावः सिध्यति | यत्र यत्र व्यपकाभावः तत्र तत्र व्याप्याभावः | वह्न्यभावः, धूमाभावः → यत्र यत्र वह्न्यभावः तत्र तत्र धूमाभावः |

३) व्याप्याभावाभावेन व्यापकाभावाभावः सिध्यति | यत्र यत्र व्याप्याभावाभावः तत्र तत्र व्यापकाभावाभावः | धूमाभावाभावः, वह्न्यभावाभावः → यत्र यत्र धूमाभावाभावः तत्र तत्र वह्न्यभावाभावः |


अत्र प्रथमं वाक्यं साधु इति चेत्‌, द्वितीयं वाक्यमपि साधु | द्वितीयं वाक्यं साधु इति चेत्‌, तृतीयं वाक्यमपि साधु | अस्य सिद्धान्तस्य आधारेण, व्यतिरेकव्याप्त्या साध्यं सिध्यति | अपि च यत्र हेतुः पक्षभिन्नाधिकरणे न भवति, तत्र व्यतिरेकदृष्टान्तेन एव सिध्यति इत्यस्मात्‌ प्रथमवाक्यस्य असम्भवत्वात्‌ द्वितीयवाक्यात्‌ आरभ्यते |



अत्र विंशतिः पर्वताः सन्ति | तेषु, पञ्चदशसु वह्निः अस्ति, सप्तसु च धूमः अस्ति | पञ्चसु पर्वतेषु वह्न्यभावः अस्ति, त्रयोदशसु पर्वतेषु च धूमाभावः अस्ति | पश्यतु चित्रे वह्निः व्यापकः, धूमः व्याप्यः | यत्र यत्र धूमः अस्ति (सप्तसु पर्वतेषु), तत्र तत्र वह्निः अवश्यम्‌ अस्ति | यतोहि वह्निः धूमस्य अपेक्षया व्यापकः | अधुना विपरीतत्वेन पश्यामः | विंशत्यां पर्वतेषु केवलं सप्तसु धूमः वर्तते, अतः तदधिकेषु धूमाभावः अस्ति, नाम त्रयोदशसु | किन्तु पञ्चदशसु वह्निः अस्ति—नाम विंशत्यां अधिकेषु—अतः न्यूनेषु एव वह्न्यभावः वर्तते, केवलं पञ्चसु | त्रयोदशसु पर्वतेषु धूमाभावः, पञ्चसु च वह्न्यभावः | पश्यतु चित्रे धूमाभावः व्यापकः, वह्न्यभावः व्याप्यः | यत्र यत्र वह्न्यभावः अस्ति (पञ्चसु पर्वतेषु), तत्र तत्र धूमाभावः अवश्यम्‌ अस्ति | अतः यत्र यत्र व्याप्यः तत्र तत्र व्यापकः, किन्तु यत्र यत्र व्यपकाभावः तत्र तत्र व्याप्याभावः | यः व्याप्यः आसीत्‌, नाम धूमः, तस्य अभावः व्यापकः भवति | अपि च यः व्यापकः आसीत्‌, नाम वह्निः, तस्य अभावः व्याप्यः भवति |


तत्र च सप्तसु पर्वतेषु धूमः + त्रयोदशसु पर्वतेषु धूमाभावः = विंशतिः पर्वताः | नाम एवं न कोऽपि पर्वतः अस्ति यस्मिन्‌ न धूमः अस्ति न वा धूमाभावः | सर्वेषु पर्वतेषु धूमः अथवा धूमाभावः; धूमः नास्ति चेत्‌ धूमाभावः, धूमाभावः नास्ति चेत्‌ धूमः | आहत्य विंशतिः पर्वताः; अधिकेषु धूमः अस्ति चेत्‌, न्यूनेषु धूमाभावः | एवमेव वह्निना वह्न्यभावेन च सह | तदर्थमेव यः व्यापकः अस्ति (अत्र वह्निः), तस्य अभावः व्याप्यस्य (अत्र धूमस्य) अभावस्य अपेक्षया व्याप्यः भवति | ७ (धूमः) + १३ (धूमाभावः) = २० (पर्वताः) = १५ (वह्निः) + ५ (वह्न्यभावः) |


अत्र च अन्यत्‌ चित्रं सावित्री-भगिन्या निरूपितं, यस्मिन्‌ 'व्याप्याभावं प्रति व्यापकाभावः व्याप्यः, व्याप्याभावश्च व्यापकः' इति प्रदर्शितम्‌ अस्ति—



सम्प्रति 'यत्र यत्र वह्न्यभावः तत्र तत्र धूमाभावः' इत्यस्मात्‌ 'पर्वतः वह्निमान्‌' इति साधनीयम्‌ | अत्रापि पञ्चावयवाः भवन्ति—

पञ्चावयवाः — व्यतिरेकव्याप्तौ 'पर्वतः वह्निमान्‌ धूमात्‌'

१) प्रतिज्ञावाक्यम्‌ = पर्वतो वह्निमान्‌

२) हेतुवाक्यम्‌ = धूमवत्त्वात्

३) उदाहरणवाक्यम्‌ = यो यो वह्न्यभाववान्‌ स सर्वोपि धूमाभाववान्‌ यथा ह्रदः |

४) उपनयवाक्यम्‌ = न तथा च अयम्‌ | अयं पक्षः पर्वतः तथा न | हेत्वभाववान्‌ न भवति |

५) निगमनवाक्यम्‌ = तस्मात्‌ न तथा | तस्मात्‌ हेत्वभावाभावात्‌ 'न तथा', नाम वह्न्यभाववान्‌ न |

'वह्न्यभाववान्‌ न' इत्युक्तौ वह्न्यभावाभाववान्‌ | इत्युक्ते वह्निमान्‌ |


अत्र वस्तुतः केवलं पूर्वोक्तद्वितीयतृतीयवाक्ययोः मेलनम्‌ | नाम 'द्वितीयवाक्यम्‌' (अत्र उदाहरणवाक्यं) सत्यं किन्तु अत्र पक्षे तथा नास्ति' (अत्र उपनयवाक्यम्‌) | 'तथा नास्ति' इत्यस्य कथनेन तृतीयं वाक्यम्‌ 'अस्ति' (अत्र निगमनवाक्यम्‌) | अनेन च साध्यं सिध्यति |


उपरि अन्वयव्याप्तिप्रसङ्गे अस्माभिः दृष्टं यत्‌ धूमाधिकरणवृत्ति-अत्यन्ताभाव-अप्रतियोगि-वह्निसामानाधिकरण्यम्‌ इति व्याप्तिः साध्यस्य एव अन्वयव्याप्तिः | अधुना एवमेव व्यतिरेकव्याप्तिस्थले साध्याभावव्यापकीभूत-अभाव-प्रतियोगित्वम्‌ इति व्याप्तिः | साध्याभावं प्रति हेत्वभावः व्यापकः, तस्य च प्रतियोगी हेतुः | हेत्वभावस्य 'प्रतियोगी' इति कथनेन किं सिध्यति ? हेत्वभावाभावः | अत्र च स्मर्तव्यं यत्‌ उपरि दत्तेषु त्रिषु वाक्येषु द्वितीयम्‌ अस्ति 'यत्र यत्र साध्याभावः तत्र तत्र हेत्वभावः', नाम 'यत्र साध्यं नास्ति, तत्र हेतुः अपि नास्ति' | तृतीयं च 'यत्र यत्र हेत्वभावाभावः तत्र तत्र साध्याभावाभावः'— तत्र तृतीयवाक्यस्य 'हेत्वभावाभावः', द्वितीयवाक्यस्य 'हेत्वभावः' इत्यस्य प्रतियोगिस्वरूपः | अनेन सर्वं सुलभम्‌ | 'यत्र यत्र वह्न्यभावः तत्र तत्र धूमाभावः' इति द्वितीयवाक्यं सत्यम्‌ एव | किन्तु अस्मिन्‌ पर्वते धूमाभावः नास्ति | अतः धूमाभावाभावः अस्ति | धूमाभावाभावः च धूमाभावस्य प्रतियोगिस्वरूपः | साध्याभावव्यापकीभूताभावः, अस्मिन्‌ 'यत्र यत्र साध्याभावः तत्र तत्र हेत्वभावः' इति अर्थः अन्तर्गतः | नाम द्वितीयवाक्यम्‌ अनेन व्यक्तीकृतम्‌ | तदा साध्याभावव्यापकीभूताभावस्य प्रतियोगी | प्रतियोगी इत्यनेन हेत्वभावाभावः, नाम तृतीयवाक्यस्य प्रथमं पदम्‌ | द्वितीयवाक्यं सत्यम्‌ अस्ति चेत्‌ तृतीयवाक्यम्‌ अपि सत्यम् इति जानीमः | तर्हि हेत्वभावाभावः अस्ति इति कारणतः साध्याभावाभावः अपि अवश्यम्‌ अस्ति | साध्याभावाभावः इत्युक्ते साध्यम्‌ एव | अतः साध्यम्‌ अस्ति | अनेन च व्यतिरेकव्याप्त्या, नाम अभावस्य व्याप्त्या साध्यस्य अस्तित्वं सिध्यति | एवं च द्वितीयतृतीयवाक्याभ्याम्‌ अनुमितिः इति ज्ञानं भवति |


उक्तं यत्‌ साध्याभावव्यापकीभूताभावप्रतियोगित्वम्‌ इति व्याप्तिः | साध्याभावं प्रति हेत्वभावः व्यापकः, तस्य च प्रतियोगी हेतुः | तस्मिन्‌ प्रतियोगिनि यत्‌ प्रतियोगित्वं, तदेव 'व्याप्तिः' भवति; एषा व्याप्तिः साध्यस्य व्यतिरेकव्याप्तिः | अनेन साध्यस्य व्यतिरेकव्याप्तिः कुत्र आगता ? इयं व्याप्तिः हेतौ एव आगता | यया रीत्या अन्वयव्याप्तिस्थले 'तादृशं सामानाधिकरण्यम्‌' इति व्याप्तिः हेतौ, तया एव रीत्या व्यतिरेकस्थले 'तादृशं प्रतियोगित्वम्‌' इति व्याप्तिः हेतौ | उभयत्र साध्यं प्रति व्याप्यहेतुः इत्येव, परन्तु अत्र सा व्यतिरेकव्याप्तिः | व्याप्यः हेतुः एव; हेतुः व्याप्यः भवति चेत्‌, तस्य व्यापकं भवति साध्यम्‌ इति | व्याप्येन व्यापकः सिध्यति |


अधुना 'पर्वतः वह्निमान्‌ धूमात्‌' इति अन्वयव्याप्त्या या अनुमितिः सिध्यति सा एवं रीत्या वदेम | वह्न्यभाव-व्यापकीभूताभावप्रतियोगी धूमः; वह्न्यभावं प्रति व्यापकीभूताभावः धूमाभावः | यतोहि यत्र यत्र वह्न्यभावः भवति, तत्र सर्वत्रापि धूमाभावः भवति | अतः वह्न्यभावं प्रति, नाम साध्याभावं प्रति व्यापकीभूताभावः हेत्वभावः, धूमाभावः | प्रतियोगी धूमः, प्रतियोगित्वं धूमे, सा एव व्याप्तिः— साध्याभावव्यापकीभूताभावप्रतियोगित्वम्‌ | हेतौ विद्यमान-साध्यस्य व्यतिरेकव्याप्तिः |


एवञ्च अस्माकं व्यतिरेकव्याप्तिप्रसङ्गे पुनः पश्यतु पञ्चावयवानाम्‌ अन्तिमसोपानद्वयम्—

४) उपनयवाक्यम्‌ = न तथा च अयम्‌ | वह्न्यभावव्यापकीभूताभाव-प्रतियोगी हेतुः धूमः; तद्वान्‌ पक्षः | पक्षः धूमवान्‌ |

नाम धूमाभाववान्‌ न भवति इत्यर्थः |

५) निगमनवाक्यम्‌ = तस्मात्‌ न तथा | तस्मात्‌ धूमाभावाभाववत्त्वात्‌ न तथा— न वह्न्यभाववान्‌ | ('तथा'=वह्न्यभाववान्‌)


उपरि त्रिषु वाक्येषु द्वितीयवाक्यम्‌ उदाहरणवाक्यं; तृतीयवाक्यं भवति उपनयवाक्य-निगमनवाक्ययोः मेलनेन |


तर्हि आहत्य व्यतिरेकव्याप्तिस्थले चिन्तनम्‌ एवं— 'यत्र यत्र साध्यं नास्ति, तत्र तत्र हेतुर्नास्ति' इति प्रथमतया | यत्र यत्र साध्याभावः, तत्र तत्र हेत्वभावः इति | तदा 'यः हेत्वभाववान्‌ न भवति, सः साध्याभाववान्‌ अपि न भवति' | 'हेत्वभाववान्‌ न भवति' इत्यस्य अर्थः हेत्वभावाभाववान्‌, यस्य फलितार्थः 'हेतुमान्‌ भवति' | 'साध्याभाववान्‌ न भवति' इत्यस्य अर्थः साध्याभावाभाववान्‌, यस्य फलितार्थः 'साध्यवान्‌ भवति' |


अन्वयदृष्टान्तः केषुचित्‌ स्थलेषु अप्रसिध्यति इति कृत्वा व्यतिरेकदृष्टान्तं स्वीकृत्य व्यतिरेकव्याप्तिः हेतौ उच्यते | तथा च अत्रापि हेतुः व्याप्यः जातः | व्याप्तिः व्यतिरेकव्याप्तिः परन्तु | तर्हि अत्र हेतुरेव व्याप्यः जातः, साध्यं प्रति | नाम साध्यनिरूपितव्याप्तिः हेतौ | का व्याप्तिः ? व्यतिरेकव्याप्तिः | तथा चा हेतुः व्याप्यः जातश्चेत्, तं प्रति व्यापकं भवति साध्यम्‌ | एवं च व्याप्यव्यापकभावः सिध्यति— व्याप्येन हेतुना साध्यं व्यापकं सिध्यति | तथा च साध्याभावव्यापकीभूताभावप्रतियोगी हेतुः, तादृशहेतुमान्‌ पक्षः | इत्यनेन परामर्शः जातः | साध्यव्याप्यहेतुमान्‌ पक्षः | 'साध्यव्याप्य' नाम साध्यनिरूपित-व्यतिरेकव्याप्तिमान्‌-हेतुमान्‌ पक्षः | इति परामर्शः | अनेन परामर्शेन व्यापकः सिध्यति पक्षे | व्यापकः कः ? साध्यमेव |


तर्हि साध्याभावव्यापकीभूताभावप्रतियोगिहेतुः इति व्यतिरेकव्याप्तिः | साध्याभावव्यापकीभूताभावप्रतियोगिहेतुमान्‌ अयम्‌ इति व्यतिरेकव्याप्तिघटित-परामर्शः | यत्र यत्र साध्याभावः तत्र तत्र हेत्वभावः; हेत्वभावस्य प्रतियोगी च हेतुः | अनेन साध्याभावव्यापकीभूताभावप्रतियोगिहेतुः इति व्यतिरेकव्याप्तिः | व्याप्ति-विशिष्ट-पक्षधर्मताज्ञानं परामर्शः | साध्यव्याप्यहेतुमान्‌ पक्षः इति ज्ञानम्‌ | आहत्य यत्र यत्र साध्याभावः तत्र तत्र हेत्वभावः, तस्य च हेत्वभावस्य प्रतियोगी हेतुः तद्वान्‌ पक्षः; एतदाधारेण साध्यमपि पक्षे वर्तते | यतोहि हेतुः कीदृशः तदानीम्‌ ? साध्यं प्रति व्याप्यः एव | 'व्याप्यः' कथं ज्ञायते इत्युक्ते अन्वयव्याप्तिर्नास्ति, अपि तु व्यतिरेकव्याप्तिरस्ति | अत्र व्यतिरेकव्याप्तिः स्वीक्रियते— अनेन व्याप्यव्यापकभावः सिध्यति |


अधुना हेतुः पक्षभिन्नस्थले यत्र न भवति, तत्र व्यतिरेकव्याप्त्याः चिन्तनं परिशीलयाम | 'वह्निः उष्णः वह्नित्वात्‌' इत्यस्मिन्‌ यतोहि हेतुः पक्षभिन्नस्थले न लभ्यते, तदर्थम्‌ अन्वयव्याप्तिदृष्टान्तः न सम्भवति | अतः व्यतिरेकव्याप्तिदृष्टान्तः एव सम्भवति | चिन्तनक्रमः एवम्‌— 'यत्र यत्र उष्णत्वं नास्ति, तत्र तत्र वह्नित्वमपि नास्ति' | 'यत्र यत्र साध्यं नास्ति, तत्र तत्र हेतुरपि नास्ति' इति | नाम यः साध्याभाववान्‌, सः हेत्वभाववान्‌ | तदा अग्रे यः हेत्वभाववान्‌ न भवति, सः साध्याभाववान्‌ न भवति | यः हेत्वभावाभाववान्‌, सः साध्याभावाभाववान्‌ | प्रकृते यः वह्नित्वाभाववान्‌ न भवति, नाम वह्नित्वाभावाभाववान्‌ भवति, सः साध्याभावाभाववान्‌, नाम उष्णत्वाभाववान्‌ न भवति, उष्णत्वाभावाभाववान्‌ भवति | आहत्य यः वह्नित्वाभावाभाववान्‌, सः उष्णत्वाभावाभाववान्‌ | तस्माच्च 'वह्निः उष्णः वह्नित्वात्‌' |


पञ्चावयवाः — व्यतिरेकव्याप्तौ 'वह्निः उष्णः वह्नित्वात्‌'

१) प्रतिज्ञावाक्यम्‌ = वह्निः उष्णत्ववान्‌

२) हेतुवाक्यम्‌ = वह्नित्ववत्त्वात्‌

३) उदाहरणवाक्यम्‌ = यो य उष्णत्वाभाववान्‌ स सर्वोपि वह्नित्वाभाववान्‌ यथा जलम्‌ |

४) उपनयवाक्यम्‌ = न तथा च अयम्‌ = अयं पक्षः वह्निः तथा न | हेत्वभाववान्‌ न भवति | वह्नित्वाभाववान्‌ न | उदाहरणवाक्ये यथा जलम्‌ आसीत्‌, वह्निः तथा नास्ति | यथा जलं वह्नित्वाभाववान्‌ अस्ति, तथा वह्निः वह्नित्वाभाववान्‌ न |

५) निगमनवाक्यम्‌ = तस्मात्‌ न तथा | तस्मात्‌ हेत्वभावाभावात्‌ 'न तथा', नाम उष्णत्वाभाववान्‌ न |

'उष्णत्वाभाववान्‌ न' इत्युक्तौ उष्णत्वाभावाभाववान्‌ | इत्युक्ते उष्णत्ववान्‌ |


आहत्य अनुमानप्रयोगः एतादृशः— वह्निः उष्णः वह्नित्वात्‌ यन्नैवं तन्नैवं यथा जलम्‌ | अस्मिन्‌ अनुमानप्रयोगे 'यन्नैवं तन्नैवं यथा जलम्‌' इति व्यतिरेकदृष्टान्तः दीयते | यन्नैवं = यत्‌ उष्णत्ववान्‌ न | तन्नैवं = तत्‌ वह्नित्ववान्‌ न | 'यन्नैवं तन्नैवं यथा जलम्‌' इत्यनेन व्यतिरेकव्याप्तिः; यन्नैवं तन्नैवम्‌ इत्यनेन 'यो य उष्णत्वाभाववान्‌ स सर्वोपि वह्नित्वाभाववान्‌' इति अन्तर्गतम्‌ | परन्तु पक्षे वह्नौ वह्नित्वाभावस्य प्रतियोगी हेतुः अस्ति, तस्माच्च 'यत्र यत्र हेत्वभावाभावः तत्र तत्र साध्याभावाभावः' इति अस्माकं तृतीयं वक्तव्यं भवति | नाम पक्षे साध्याभावाभावः, अथवा साध्यम्‌, अस्ति |


अधुना 'वह्निः उष्णः वह्नित्वात्‌' इति अनुमानवाक्ये वस्तुतः लोके पक्षसाध्ययोः सम्बन्धः प्रसिद्धः न तु साध्यहेत्वोः | यतोहि लोके वह्नित्वमेव न ज्ञायते | अतः एतादृशम्‌ अनुमानं शास्त्रे एव प्रवर्तते न तु लोके | शास्त्रे एव वह्नित्वधर्मः परिचितः इति कारणतः | लोके यथा 'पर्वतः वह्निमान्‌ धूमात्‌' इत्यस्मिन्‌ धूमः इति हेतुः प्रसिद्धः, तथा शास्त्रे 'वह्निः उष्णः वह्नित्वात्‌' इत्यस्मिन्‌ वह्नित्वम्‌ इति हेतुः प्रसिद्धः | प्रकृते आश्रयनाशाजन्यगुणनाशत्वम्‌ इति धर्मः अपि तथा, शास्त्रे भवति | आश्रयनाशाजन्यगुणनाशे आश्रयनाशाजन्यगुणनाशत्वम्‌ इति धर्मः अस्ति इत्यतः समानाधिकरणगुणजन्यत्वम्‌ अपि अस्ति | इति शास्त्रीयम्‌ अनुमानम्‌ |


तर्हि अधुना प्रकृतविषयः द्रष्टव्यः | विद्याधर्याम्‌ अनुमानप्रयोगः एतादृशः— 'आश्रयनाशाजन्यगुणनाशः समानाधिकरणगुणजन्यः आश्रयनाशाजन्यगुणनाशत्वात्‌ पाकजरूपनाशवत्‌' | यथोक्तं पूर्वम्‌, आश्रयनाशाजन्यगुणनाशः इति पक्षः, समानाधिकरणगुणजन्यत्वम्‌ इति साध्यम्‌, आश्रयनाशाजन्यगुणनाशत्वम्‌ इति हेतुः, पाकजरूपनाशवत्‌ इति दृष्टान्तः |


पुनस्स्मरणत्वेन—'घटपटयोः संयोगः' इति स्थितौ घटः पटात्‌ विभक्तः, अनेन च घटपटयोः संयोगः नष्टः | 'आश्रयनाशाजन्यगुणनाशः' इत्यनेन 'आश्रयनाशेन अजन्यगुणनाशः' | अत्र गुणः इत्युक्तौ संयोगः | आश्रयः इत्युक्तौ घटः पटः च | अस्मिन्‌ दृष्टान्ते न घटः नष्टः न वा पटः, किन्तु घटपटयोः संयोगः नष्टः | अनेन सर्वजनसिद्धप्रत्ययेन संयोगनाशः इति पदार्थः सिध्यति | अत्र तादृशः संयोगनाशः यः आश्रयनाशेन न जातः इति कृत्वा आश्रयनाशाजन्यगुणनाशः |


'समानाधिकरणगुणजन्यः' इति गुणनाशस्य विधेयः, उद्देश्यविधेयभावः— समानाधिकरणगुणजन्यः गुणनाशः | उद्देश्यविधेयभावः इति न ज्ञायते चेत्‌, विशेषणविशेष्यभावः इति चिन्त्यतां; प्रकृतविषयस्य बोधनार्थं द्वयोः सूक्ष्मः एव भेदः | समानाधिकरणगुणेन जन्यगुणनाशः; अत्र समानाधिकरणगुणेन जन्यसंयोगनाशः | समानाधिकरणगुणः इति विभागः | संयोगनाशः घटे पटे च, विभागः अपि तथा घटे पटे इत्यस्मात्‌ विभाग-संयोगनाशौ समानाधिकरणौ |


ततः अग्रे आश्रयनाशाजन्यगुणनाशत्वम्‌ इति धर्मः विद्यते आश्रयनाशाजन्यगुणनाशे | अयं च धर्मः पक्षभिन्नस्थले न लभ्यते; आश्रयनाशाजन्यगुणनाशे इति पक्षे एव लभ्यते | एतदाधारेण, अनुमानप्रयोगे कीदृशी व्याप्तिः वक्तव्या— अन्वयव्याप्तिः वा व्यतिरेकव्याप्तिः वा ? यत्र यत्र आश्रयनाशाजन्यगुणनाशत्वम्‌ इति हेतुः भवति, तत्र तत्र समानाधिकरणगुणजन्यत्वम्‌ इति साध्यम्‌ अपि भवति इति वक्तव्यं किम् ?


अग्रे पाकजरूपनाशवत्‌ इति दृष्टान्तः | 'पाकेन रूपनाशः, तद्वत्‌' इत्यर्थः | अयं च दृष्टान्तः कीदृशः इति परिशीलनीयम्‌ अस्ति | प्रथमतया अस्माकं पर्वत-वह्नि-धूम-प्रसङ्गे चिन्तनं कीदृशम्‌ आसीत्‌ इति स्मर्यताम्‌ | 'पर्वतः वह्निमान्‌ धूमात्‌ यथा महानसम्‌' इत्यस्मिन्‌ अनुमानप्रयोगे, यया रीत्या महानसे हेतुसाध्ययोः सम्बन्धः अनुभूतः अस्माभिः— महानसे धूमः अस्ति चेत्‌ वह्निः अस्त्येव इति सर्वजनसिद्धप्रत्ययः— तथैव पर्वतेऽपि धूमः अस्ति चेत्‌ वह्निः भवेत् | इति चिन्तनम्‌ अस्माकम्‌ आसीत्‌ तत्र |


अत्र प्रकृतौ अस्माकं दृष्टान्तः पाकजरूपनाशः | पाकः घटे, रूपनाशः अपि घटे इति स्थितिः | बोध्यं यत्‌ 'पाकः' इत्युक्ते विलक्षणः तेजःसंयोगः | अतः पाकजरूपनाशः इत्युक्ते तेजःसंयोगजरूपनाशः; पाकशब्दः उपयुज्यते लाघवात्‌ | यथा महानसरूपि-उदाहरणे महानसे धूमरूपहेतुः अपि अस्ति, वह्निरूपसाध्यमपि अस्ति इति अनुभूतविषयः नाम ज्ञातविषयः अस्माकं, तथैव अत्र पाकजरूपनाशरूपि-उदाहरणे हेतुः अपि आश्रये अस्ति, साध्यम्‌ अपि आश्रये अस्ति | इत्युक्ते आश्रयनाशाजन्यगुणनाशत्वम्‌ इति हेतुः अपि अस्ति, समानाधिकरणगुणजन्यत्वम्‌ इति साध्यम्‌ अपि अस्ति | पाकजरूपनाशे आश्रयनाशाजन्यगुणनाशत्वम्‌ इत्युक्तौ पाकजरूपनाशः आश्रयनाशजन्यः न | यतोहि रूपं घटे अस्ति; घटस्य नाशः न जातः, तथापि रूपस्य नाशः जातः | अतः आश्रयनाशाजन्यगुणनाशत्वम्‌ इति हेतुः अस्ति— स च रूपनाशः आश्रयनाशजन्यः न, अपि तु आश्रयनाश-अजन्यः |


तदा अस्मिन्‌ पाकजरूपनाशे साध्यम्‌ अपि अस्ति— समानाधिकरणगुणजन्यत्वम्‌ | रूपं घटे अस्ति; तस्मिन् एव घटे पाकः, नाम तेजःसंयोगः अपि अस्ति | समानाधिकरणगुणः इत्युक्ते तेजःसंयोगः | रूपं घटे इत्यस्मात्‌ रूपनाशः अपि घटे | अनेन रूपनाशः च तेजःसंयोगः च समानाधिकरणौ | अपि च तेन समानाधिकरणतेजःसंयोगेन रूपनाशः जन्यते | तस्मात्‌ पाकजरूपनाशे समानाधिकरणगुणजन्यत्वम्‌ अस्ति |


घटस्य स्थाने फलं भवति चेत्‌, यस्मिन्‌ फले रूपनाशः अस्ति, तस्मिन्‌ एव फले तेजःसंयोगः अपि अस्ति | समानाधिकरणगुणः इत्यनेन तदधिकरणवृत्तिः गुणः, तेजःसंयोगः | एकस्मिन्‌ फले तेजःसंयोगः अस्ति, पाकजरूपनाशः अपि अस्ति | अपि च फलनाशः नास्ति | आहत्य पाकजरूपनाशे आश्रयनाशाजन्यगुणनाशत्वम्‌ अपि अस्ति, समानाधिकरणगुणजन्यत्वम्‌ अपि अस्ति | हेतुः अपि अस्ति, साध्यम्‌ अपि अस्ति |


एवञ्च प्रकृते पक्षे, आश्रयनाशाजन्यगुणनाशः संयोगनाशः इत्यस्मिन्‌ आश्रयनाशाजन्यगुणनाशत्वम्‌ अपि अस्ति, समानाधिकरणगुणजन्यत्वम्‌ अपि अस्ति | इत्थञ्च "आश्रयनाशाजन्यगुणनाशः समानाधिकरणगुणजन्यः आश्रयनाशाजन्यगुणनाशत्वात्‌ पाकजरूपनाशवत्‌” |


किन्तु अस्माकं कश्चन प्रश्नः पूर्वम्‌ उक्तम्‌ आसीत्‌— अस्मिन्‌ अनुमानप्रयोगे कीदृशी व्याप्तिः वक्तव्या— अन्वयव्याप्तिः वा व्यतिरेकव्याप्तिः वा ? यथा जानीमः, आश्रयनाशाजन्यगुणनाशत्वम्‌ इति धर्मः पक्षभिन्नस्थले न भवति, नाम आश्रयनाशाजन्यगुणनाशम्‌ अतिरिच्य अन्यत्र न लभ्यते | अधुना प्रकृतौ अस्माकं दृष्टान्तः कीदृशः ? 'पाकजरूपनाशवत्‌' इत्यस्मिन्‌ 'यत्र यत्र हेतुः तत्र तत्र साध्यम्‌' इति आकृतिः अन्तर्गता, अथवा 'यत्र यत्र साध्याभावः तत्र तत्र हेत्वभावः' इति आकृतिः अन्तर्गता ? अपि च पाकजरूपनाशवत्‌ इति पक्षभिन्नस्थलम्‌ अस्ति वा ?


वस्तुतः पाकजरूपनाशः इति तु आश्रयनाशाजन्यगुणनाशः इति पक्षस्य एकदेशः | अपि च तस्मिन्नेव पक्षस्य एकदेशे अन्वयदृष्टान्तः दत्तः | तर्हि अत्र किम्‌ ? अस्माकं सिद्धन्तस्य विरुद्धे जातम्‌ | नाम एतावता अस्माभिः वारं वारं किमुक्तम्‌ ? यत्र हेतुः पक्षभिन्नस्थले लभ्यते, तत्रैव अन्वयदृष्टान्तः सम्भवति | यत्र च पक्षभिन्नस्थले हेतुः न लभ्यते, तत्र व्यतिरेकदृष्टान्तः एव सम्भवति | किन्तु अत्र प्रकृतौ किं जातं— हेतुः पक्षभिन्नस्थले न भवति, किन्तु अन्वयदृष्टान्तः दत्तः | स च अन्वयदृष्टान्तः पक्षस्य एव एकदेशः | कथम्‌ इदम्‌ ?


पूर्वं दृष्टं यत्‌ अनुमानं द्विविधं— स्वार्थानुमानं परार्थानुमानञ्च | अधुना अनुमानं भिन्नरीत्या अपि भागद्वये विभज्यते | साध्यं सर्वत्र पक्षे साध्यते चेत् तादृशम्‌ एकम्‌ अनुमानम्‌ | क्वचिदेव पक्षे साध्यं पक्षे साध्यते चेत् अन्यादृशम्‌ एकम्‌ अनुमानम्‌ | यथा पर्वतो वह्निमान्‌ धूमात्‌ इति अनुमानम्‌ | एतदेव अनुमानं द्विविधम्‌ | सर्वेषु पर्वतेषु वह्निः अस्ति इति साधनम्‌, अथवा केषुचित्‌ पर्वतेषु वह्निः अस्ति इति साधनम्‌ | सर्वत्र पर्वते वह्निः उद्दिष्टः चेत्‌ तदानीं सर्वोऽपि पर्वतः वह्निमान्‌ धूमात्‌ इति; ईषत्‌ पर्वतः वह्निमान्‌ धूमात्‌ इति चेत् परिगणितेषु पर्वतेषु धूमः, तेषु वह्निरपि अस्तीति | 'सर्वत्र पर्वते' इत्यनेन सर्वस्मिन्‌ पर्वते 'वह्नेः ज्ञानं जायताम्‌' इति इच्छा |


यत्र सर्वत्र पक्षे वह्निः अस्ति इति साध्यते, तत्र पक्षे एकदेशः अपि दृष्टान्तः भवितुम्‌ अर्हति | सर्वत्र पक्षे वह्निः अस्ति इति तादृश्यां विवक्षायां 'यत्र यत्र धूमः' इत्यनेन क्वचित्‌ धूमः दृष्टः वह्निः अपि दृष्टः, प्रत्यक्षेण | प्रदर्शयितुम्‌ इष्यते यत्‌ सर्वेषु पर्वतेषु वह्निः अस्ति, तस्य च प्रदर्शने एकस्मिन्‌ पर्वते धूमः दृष्टः तत्रापि वह्निः दृष्टः इत्युक्तौ स च पर्वतः उभयवान्‌, अयम्‌ उभयवान्‌ पर्वतः तादृशानुमानस्य दृष्टान्तः भवति | सर्वत्र पर्वते वह्निरस्ति इति न ज्ञातं, कुत्रचित्‌ पर्वते वह्निरस्ति इत्येव ज्ञातम्‌ | तदानीं यः पर्वतः उभयवान्‌ (धूमवान्‌ वह्निमान्‌ च) इति ज्ञातं, सः दृष्टान्तः भवितुम्‌ अर्हति |


आधुनिकवैज्ञानिकशोधकार्येऽपि तथैव क्रियते | कश्चन प्रयोगः भवति; स च प्रयोगः पक्षस्य एकदेशः | प्रयोगः बहु वारं सफलः चेत्‌, पक्षे साध्यस्य प्रमाणं स्वीक्रियते | यथा विज्ञानविषये पृथिव्यां गुरुत्वं नाम शक्तिः वर्तते | शिलाखण्डस्य विमोचनेन शिलाखण्डः पतति | यस्य भारः अस्ति तस्य विमोचनेन सर्वदा पतति इत्यस्य प्रदर्शनार्थं पञ्चवारं, दशवारं वैज्ञानिकः शिलाखण्डं विमोचयति | अत्र शिलाखण्डस्य एकवारं पतनं, पञ्चवारं पतनं च पक्षस्य एकदेशः | 'गुरुत्वं नामकशक्तिः अस्ति अतः यस्य भारः अस्ति तस्य विमोचनेन सर्वदा पतति' इति प्रमाणयितुं शिलाखण्डस्य एकवारं पतनं पक्षस्य एकदेशदृष्टान्तः |


अत्र प्रश्नः उदेति 'सर्वस्मिन्‌ पर्वते' इत्यनेन सर्वेषु पर्वतेषु कुत्रचित्‌ वह्निः, अथवा सर्वेषु पर्वतेषु सर्वपर्वते वह्निः इति | उत्तरत्वेन वक्तव्यं भवति यत्‌ एकैकस्मिन्‌ पर्वते कुत्रचित्‌ वह्निः इति साधयितुम्‌ इच्छा अस्ति, न तु एकैकस्मिन्‌ पर्वते सर्वत्र वह्निः | एकैकस्मिन्‌ पर्वते सर्वत्र वह्निः इति चेत्‌ सर्वावयवावच्छेदेन वह्निज्ञानम्‌ इति विशेषः | अत्र किन्तु तथा नास्ति अपि तु कस्मिंश्चित्‌ भागे सर्वस्मिन्‌ पर्वते वह्निरस्ति इति विवक्षा |


तर्हि अनुमानं द्विविधम्‌ इत्युक्तं— सर्वेषु पर्वतेषु वह्निः अस्ति इति साधनम्‌, अथवा केषुचित्‌ पर्वतेषु वह्निः अस्ति इति साधनम्‌ | अत्र द्वयोः कृते नामकरणमपि वर्तते— पक्षतावच्छेदकावच्छेदेन साध्यम्‌ इति, पक्षतावच्छेदकसामानाधिकरण्येन साध्यम्‌ इति | एकेन पक्षतावच्छेदकावच्छेदेन साध्यानुमितिः उद्दिष्टा, अपरेण पक्षतावच्छेदकसामानाधिकरण्येन साध्यानुमितिः उद्दिष्टा |


पक्षतावच्छेदकावच्छेदेन इत्यनेन सर्वस्मिन्‌ पर्वते, कस्मिंश्चित्‌ भागे वह्निरस्ति इति साध्यानुमितिः उद्दिष्टा | पक्षतावच्छेदकम्‌ इत्यनेन अत्र पर्वतत्वम्‌ | येन रूपेण पक्षः, तद्रूपं पक्षतावच्छेदकम्‌ | नाम पर्वतरूपपक्षस्य पर्वतत्वेन रूपेण पक्षत्वम्‌ अस्ति इति अङ्गीक्रियते | अतः 'पर्वतः' इति पदप्रयोगः क्रियते | अनेन पर्वतः पक्षः, पक्षता पर्वतनिष्ठा, पक्षतावच्छेदकं पर्वते भासमानः धर्मः पर्वतत्वम्‌ |


तदा पक्षतावच्छेदकावच्छेदेन इत्यस्मिन्‌ 'अवच्छेदेन' इति भागः | अत्र अवच्छेदनम्‌ इति कोऽर्थः ? यथा आत्मनि ज्ञानं जायते इत्युच्यते | आत्मनि ज्ञानं कुत्र जायते ? वस्तुतः आत्मा इति विभुपदार्थः, सर्वत्र वर्तते | यथा आकाशः सर्वत्र वर्तते, तथा आत्मा अपि सर्वत्र | किन्तु आत्मनः यः भागः शरीरे वर्तते, तस्मिन्‌ भागे एव ज्ञानं जायते | तदर्थम्‌ उच्यते यत्‌ शरीरावच्छेदेन आत्मनि ज्ञानं जायते | तदवच्छेदकदेशः | आत्मनि ज्ञानोत्पत्तौ यः अवच्छेदकः देशः, तदन्तर्भावेण आत्मनि ज्ञानं जायते |


एवमेव वृक्षे कपिसंयोगः | वृक्षे कपिसंयोगः कुत्र भवति ? शाखायाम्‌ | तदर्थं शाखावच्छेदेन वृक्षे कपिसंयोगः जायते इत्युच्यते | वृक्षे कपिसंयोगसत्त्वे शाखावच्छेदकः देशः | तथैव अत्रापि पक्षतावच्छेदकावच्छेदेन, पर्वतत्वावच्छेदेन | नाम पर्वतत्वं कुत भवति ? निखिलपर्वतेषु | तत्र सर्वत्रापि वह्निरस्ति इति ज्ञानम्‌ | पर्वते कुत्र ? 'इह पर्वते नितम्बे हुताशनः न शिखरे' | नितम्बः इत्यनेन पर्वतस्य कूलं प्रवणः वा, मध्यदेशः | हुताश्नः इत्युक्ते वह्निः | नितम्बदेशावच्छेदेन पर्वते हुताशनः, वह्निः वर्तते | न तु शिखरे— शिखरावच्छेदेन नास्ति | पर्वतस्य सर्वोपरितने भागे शिखरे, वह्निः न भवति वृक्षाणाम्‌ अभावात्‌ | पर्वतस्य मध्यदेशे यत्र वृक्षाः सन्ति, शुष्कतृणानि भवन्ति, तत्र वह्न्युत्पत्तिः भवति, मध्यदेशावच्छेदेन |


तर्हि पक्षतावच्छेदकावच्छेदेन साध्यम्‌ इति स्थले, पर्वतत्वावच्छेदेन वह्निरनुमितिः | अत्र केन सम्बन्धेन वह्निः साध्यते पर्वते ? संयोगसम्बन्धेन साध्यते | तत्र च वह्निप्रतियोगिकः संयोगः | वह्निप्रतियोगिकसंयोगे पक्षः पर्वतः, पक्षतावच्छेदकं पर्वतत्वम्‌ | तादृशपक्षतावच्छेदकव्यापकत्वं संयोगे भासते | तथा च पर्वतत्वव्यापक-वह्निप्रतियोगिक-संयोगः इति सम्बन्धः | एतादृशप्रसङ्गे च प्रतियोगी इत्युक्तौ आधेयः; अनुयोगी इत्युक्तौ आधारः, अधिकरणम्‌ | अत्र च व्याप्यव्यापकभावः; पर्वतत्वं व्याप्यं, संयोगः व्यापकः | यथा धूमः वह्निः च— धूमः व्याप्यः, वह्निः व्यापकः; व्याप्ये सति व्यापकः सन्‌ अतः धूमः अस्ति चेत्‌, वह्निः अवश्यम्‌ अस्ति | एवेमेव पर्वतत्वव्यापक-वह्निप्रतियोगिक-संयोगः इत्यस्मिन्‌ पर्वतत्वं व्याप्यं, संयोगः व्यापकः | पर्वतत्वं सर्वेषु पर्वतेषु किन्तु पर्वतेषु एव; वह्निः सर्वेषु पर्वतेषु साधयितुम्‌ इच्छा इति चेत्‌, वह्निसंयोगः अपि सर्वेषु पर्वतेषु | किन्तु वह्निसंयोगः महानसे अपि अस्ति, अन्यत्र च बहुत्र अस्ति |


आहत्य पक्षतावच्छेदकावच्छेदेन अनुमितिः इत्यत्र पक्षतावच्छेदकव्यापकत्वं साध्यांशे अथवा साध्यप्रतियोगिकसंसर्गांशे वा भासते | नाम पर्वतत्वव्यापकत्वं वह्नौ, अथवा पर्वतत्वव्यापकत्वं वह्निप्रतियोगिकसंयोगे भासते | यथोक्तं पक्षतावच्छेदकम्‌ इत्यनेन अत्र पर्वतत्वम्‌ | तादृशपर्वतत्वव्यापक-वह्निप्रतियोगिक-संयोगः अत्र सम्बन्धः | तेन सम्बन्धेन वह्नेः साध्यत्वम्‌ | सर्वस्मिन्नपि पर्वते वह्निरस्तु इति अनुमितिः जायते, एतादृशं ज्ञानम्‌ | सर्वोऽपि पर्वतः वह्निमान्‌ इति ज्ञानम्‌ |


पक्षतावच्छेदकसामानाधिकरण्येन अनुमितिः इत्यत्र, पक्षतावच्छेदकसामानाधिकरण्यमात्रं सम्बन्धे भासते | व्यापकत्वं न भासते | क्वचिदेव पर्वते वह्निरस्ति इति | सर्वस्मिन्नपि पर्वते वह्निरस्ति इति न; केषुचिदेव वह्निरस्ति इति ज्ञानं चेदपि तत्र पक्षतावच्छेदकसामानाधिकरण्येन वह्न्यनुमितिः इति भवति | द्वित्रेषु पर्वतेषु एव वह्निरस्ति इत्यपि ज्ञानं पक्षतावच्छेदकसामानाधिकरण्येन वह्न्यवगाहि-अनुमितिः | अत्र सामानाधिकरण्यं कयोः ? पक्षतावच्छेदकेन सह वह्नेः, अथवा वह्निप्रतियोगिसंयोगस्य | नाम पर्वतत्ववह्न्योः, अथवा पर्वतत्ववह्निसंयोगयोः |


यथा पक्षतावच्छेदकव्यापकत्वं वह्नौ अथवा वह्निप्रतियोगिकसंयोगे, तद्वत्‌ अत्रापि परन्तु तत्स्थाने पर्वतत्वसामानाधिकरण्यं— पर्वतत्वाधिकरणवृत्तित्वम्‌ | एकस्मिन्नपि पर्वते पर्वतत्वाधिकरणवृत्तित्वं भवति चेत्‌, पर्याप्तम्‌ | पर्वतत्वं सर्वेषु पर्वतेषु इति भवतु; तेषु एकस्मिन्‌ अथवा एकाधिकेषु वह्निः | अत्र व्यापकत्वं नोच्यते | सामानाधिकरण्यं नाम एकत्र पर्वते वह्निः अस्ति इति ज्ञानमपि पर्वतत्वसामानाधिकरण्येन वह्न्यवगाहिज्ञानम्‌ | पर्वतत्वाधिकरणम्‌ इत्यत्र यत्किञ्चित्‌ पर्वतः स्वीकर्तुं शक्यते | सामानाधिकरण्यम्‌ इत्यस्य कथनेन क्वचित्‌ भवति चेत्‌ पर्याप्तम्‌ | सर्वत्र सामानाधिकरण्यं भवेत्‌ इति नास्ति | सर्वत्र सामानाधिकरण्यं भवति चेत्‌ व्यापकत्वं जातं; सामानाधिकरण्यम्‌ इत्यनेन व्यापकत्वं नोच्यते— स एव भेदः | इत्थञ्च व्यापकत्वम्‌ उच्यते वा, सामानाधिकरण्यम्‌ इत्युच्यते वा इति पृच्छ्यते | अतः कुत्रचित्‌ वह्निसंयोगः भवति यत्र पर्वतत्वं नास्ति यथा महानसे, कुत्रचित्‌ वह्निसंयोगः भवति यत्र पर्वतत्वम् अस्ति यथा पर्वते, तस्यां दशायां पर्वतत्ववह्निसंयोगयोः सामानाधिकरण्यं वर्तते |


तर्हि पर्वतत्वावच्छेदेन, नाम यत्र यत्र पर्वतत्वम्‌ अस्ति तत्र सर्वत्र वह्निरस्ति इति यदा साध्यते धूमेन हेतुना— तदानीं कश्चित्‌ एकः पर्वतः दृष्टान्तः भवितुं शक्यते | तद्वत्‌ 'वह्निः उष्णः वह्नित्वात्‌' इत्यत्र कश्चन वह्निः उष्णत्ववान्‌ इति प्रत्यक्षेण ज्ञातम्‌ | कस्मिंश्चित्‌ वह्नौ उष्णत्वम्‌ अस्ति इति ज्ञातम्‌ | सः वह्निः दृष्टान्तः भवितुम्‌ अर्हति | सर्वत्र वह्निः उष्णः अस्ति न वा इति न ज्ञातं तेन; केवलम्‌ एकः वह्निः उष्णः इति प्रत्यक्षेण ज्ञायते | सर्वत्र वह्नौ उष्णत्वम्‌ अस्ति इति साधनवेलायां यः वह्निः पूर्वं प्रत्यक्षेण उष्णः इति ज्ञातं, सः वह्निः 'पक्षः सर्वत्र साध्यवान्‌' इत्यस्य प्रदर्शनार्थं दृष्टान्तः भवति | अतः अन्वयदृष्टान्तः सम्भवति तादृशस्थले, यत्र सर्वत्र पक्षे साध्यं वर्तते इति लक्ष्यम्‌ |


प्रकृतौ 'आश्रयनाशाजन्यगुणनाशः समानाधिकरणगुणजन्यः आश्रयनाशाजन्यगुणनाशत्वात्‌ पाकजरूपनाशवत्‌' | अत्र पाकजरूपनाशः पक्षे एकदेशः अस्ति चेदपि सर्वत्र आश्रयनाशाजन्यगुणनाशे समानाधिकरणगुणजन्यत्वम्‌ इति साधनवेलायां पक्षे एकदेशोऽपि दृष्टान्तः भवति | अतः यद्यपि हेतुः पक्षभिन्नस्थले न लभ्यते तथापि अत्र अन्वयदृष्टान्तः सम्भवति | आश्रयनाशाजन्यगुणनाशः इत्यस्य एकदेशः पाकजरूपनाशः, एतादृशः अन्वयदृष्टान्तः भवति सर्वत्र पक्षे साध्यं वर्तते इति लक्ष्यं चेत्‌ |


अत्र कश्चन प्रश्नः उदेति | पक्षतावच्छेदकसामानाधिकरण्येन अनुमितिः इति स्थले, पक्षे सर्वत्र साध्यं भवतु इति अनुमित्तिः नास्ति; तथा सति किमर्थं पक्षस्य एकदेशः दृष्टान्तो न भवति ? तत्र एकदेशः दृष्टान्तो न भवति इत्युक्तं—किन्तु किमर्थम्‌ ?


अस्य समाधानार्थं चिन्तनीयं भवति यत्‌ अस्माकं पक्षस्य स्वभावः कः | 'पर्वतः वह्निमान्‌ धूमात्‌' इति स्थले पर्वतः विशिष्टं द्रव्यम्‌ | पर्वतः अपि विशिष्टं द्रव्यम्‌, महानसम्‌ अपि विशिष्टं द्रव्यम्‌ | द्वौ अपि कस्यचित्‌ एकस्य सङ्ग्रहस्य सदस्यौ | 'आश्रयनाशाजन्यगुणनाशः समानाधिकरणगुणजन्यः आश्रयनाशाजन्यगुणनाशत्वात्‌' इति स्थले आश्रयनाशाजन्यगुणनाशः इति विशिष्टं द्रव्यं नास्ति, विशिष्टवस्तु नास्ति; आश्रयनाशाजन्यगुणनाशः इति काचन श्रेणी अस्ति यस्यां बहवः सदस्याः सन्ति | पक्षतावच्छेदकसामानाधिकरण्येन अनुमितिः इति स्थले किमर्थं पक्षस्य एकदेशः दृष्टान्तो न भवति इत्यस्य बोधनार्थं, विशिष्टपक्षस्य सामान्यपक्षस्य च भेदः अवगन्तव्यः |


अधुना महानसम्‌ इति दृष्टान्तस्य प्रसङ्गे किञ्चित्‌ चिन्तनं कुर्मः | पूर्वम्‌ अस्माभिः उक्तं यत्‌ महानसम्‌ इति पक्षभिन्नस्थलम्‌ | किन्तु वस्तुतः इदं महानसमपि पक्षस्य एकदेशः | अत्र पक्षः कः ? 'यत्र धूमः अस्ति, वह्निः अपि अस्ति', तादृशस्थलस्य सङ्ग्रहः स्वयं यत्र पक्षः भवति, तत्र महानसम्‌ एकदेशः | एतदर्थं वस्तुतः अन्वयदृष्टान्तः सर्वदा एव एकदेशः अस्ति | एतादृशसङ्ग्रहरूपपक्षः 'सामान्यपक्षः' इति नामकरणं भवतु | अन्वयदृष्टान्तः सामान्यपक्षस्य एकदेशः नास्ति चेत्‌, तस्य किमपि मूल्यं नास्ति; वस्तुतः सामान्यपक्षस्य एकदेशः नास्ति चेत् अन्वयदृष्टान्तः एव नास्ति |


यावन्ति हेतुमन्ति साध्यवन्ति स्थलानि भवन्ति, तेषां सङ्ग्रहः अथवा समूहः सामान्यपक्षः | हेतुसाध्यस्थलम्‌ इति सामान्यपक्षः | तस्मिन्‌ च अन्वयदृष्टान्तः तस्य एकदेशः, यः कोऽपि विशिष्टपक्षः सोऽपि तस्य एकदेशः | नाम तादृशपक्षः यत्र 'धूमः अस्ति, वह्निः अपि अस्ति' इति स्थलानां सङ्ग्रहः, तस्य सदस्येषु महानसम्‌ अन्यतमः | अपि च यथा महानसं, तथा पर्वतः अपि सामान्यपक्षरूपसङ्ग्रहस्य एषु सदस्येषु अन्यतमः | एतादृशः च पक्षः कीदृशः ? तादृशः एव, यस्मिन्‌ साध्यं सर्वत्र अस्ति | तादृशपक्षस्य सदस्यः पर्वतः अपि, महानसम्‌ अपि, वनम्‌ अपि—यत्र यत्र तादृशस्थलं वर्तते यस्मिन्‌ धूमः अस्ति चेत्‌ वह्निः अपि अस्ति, तादृशेषु यः कोऽपि दृष्टान्तः सः एकदेशः एव | अतः अस्मिन्‌ प्रसङ्गे पर्वतः अत्र पक्षः नास्ति अपि तु तादृशसङ्ग्रहस्य एकदेशः | महानसम्‌ अपि तथा सङ्ग्रहस्य एकदेशः | दृष्टान्ते तदानीं शक्तिः वर्तते, यदा सम्पूर्णगुच्छे पक्षतावच्छेदकावच्छेदेन साध्यम्‌ अस्ति | तथा नास्ति चेत्‌, नाम अस्मिन्‌ स्थलसङ्ग्रहे कुत्रचित्‌ हेतुः अस्ति यत्र साध्यं नास्ति इति चेत्‌, दृष्टान्तः भवति चेदपि तस्य किमपि मूल्यं नास्ति | यतोहि कुत्रचित्‌ हेतुः अस्ति यत्र साध्यं नास्ति इति स्थितिः |


चिन्तयामः चेत्‌, पक्षतावच्छेदकावच्छेदेन साध्यानुमितिः इत्यत्र व्याप्यव्यापकभावः, अतः यथा सामान्यानुमानप्रयोगे हेतुः व्याप्यः, साध्यः व्यापकः इति वदामः, तथैव अत्रापि कर्तुं शक्नुमः | नाम पक्षतावच्छेदकावच्छेदेन साध्यानुमितिः इति स्थले पर्वतत्वव्यापकवह्निः इति सिध्यति किल | वह्निः व्यापकः, पर्वतत्वं व्याप्यम्‌ इति | तदर्थम्‌ अनुमानप्रयोगं कुर्मः चेत्‌ 'पर्वतः वह्निमान्‌ पर्वतत्वात्‌' | पर्वतत्वं निश्चयेन सर्वेषु पर्वतेषु एव, अपि च पर्वतत्वं वह्निं प्रति व्याप्यम्‌ अतः वह्निः अपि निश्चयेन अस्ति | तदर्थं पर्वत-शब्दस्य स्थले अयं पक्षः कीदृशः इति चेत्‌, पर्वतत्ववह्निस्थलम्‌ | नाम सामान्यपक्षः— यत्र यत्र पर्वतत्वम्‌ अस्ति, तत्र वह्निरस्ति इति स्थलानां सङ्ग्रहः | तत्र च यः कोऽपि एकः पर्वतः तस्य दृष्टान्तः भवति | यथा अ-पर्वतः, इ-पर्वतः, उ-पर्वतः, ऋ-पर्वतः च इति सन्ति चेत्‌, सर्वेषु पर्वतत्वम्‌ अस्ति वह्निरपि अस्ति, तत्र इ-पर्वते धूमः वह्निः च दृष्टः चेत्‌, पक्षस्य एकदेशदृष्टान्तो भवति | आहत्य 'पर्वतः वह्निमान्‌ पर्वतत्वात्‌ यथा इ-पर्वतः' इति अनुमानप्रयोगः | अथवा 'पर्वतत्ववह्निस्थलं वह्निमान्‌ पर्वतत्ववह्निस्थलत्वात्‌ यथा इ-पर्वतः' इति | अत्र च 'पर्वतः वह्निमान्‌ पर्वतत्वात्‌' इति अनुमानप्रयोगः 'पर्वतः वह्निमान्‌ धूमात्‌' इत्यस्य उपगणः इति मनसि सर्वदा भवेत्‌; 'पर्वतः वह्निमान्‌ पर्वतत्वात्‌' इति अनुमानप्रयोगः शून्यतः नानीतः— अपि तु विशिष्टप्रसङ्गे, विशिष्टसन्दर्भे अयम्‌ अनुमानप्रयोगो भवति |  


एवं च दृष्टान्तः सामान्यपक्षस्य एकदेशः भवेदेव | 'यत्र यत्र धूमः तत्र तत्र वह्निः' इत्यनेन तादृशस्थलं यत्र धूमः अपि अस्ति, वह्निः अपि अस्ति, तादृशस्थलानां सङ्ग्रहे एकदेशः इत्येव दृष्टान्तः | तादृशदृष्टान्तः—यः तादृशस्थलसङ्ग्रहस्य एकदेशः—तस्य दृष्टान्तस्य बलेन, तस्य शक्त्या साधयामः यत्‌ पक्षे साध्यम्‌ अस्ति |


तादृशस्य च सामान्यपक्षस्य स्वस्मिन्‌ पक्षता इति विद्यमानः धर्मः | यथा येषु स्थलेषु धूमः अस्ति वह्निश्च अस्ति, तेषां स्थलानां सङ्ग्रहस्य नामकरणं 'धूमवह्निस्थलम्‌' इति चिन्तयतु | तत्र पक्षतावच्छेदकं धूमवह्निस्थलत्वम्‌ | धूमवह्निस्थलत्वव्यापक-वह्निप्रतियोगिक-संयोगः; अत्र धूमवह्निस्थलत्वं व्याप्यं, वह्निः च व्यापकः | अत्र महानसं तस्य पक्षस्य एकदेशः; पर्वतः अपि तस्य एकदेशः | अतः यद्यपि वदामः यत्‌ 'पक्षभिन्नस्थले एव अन्वयदृष्टान्तः भवति', वस्तुतः यत्र तादृशसामान्यपक्षः भवति—यथा धूमवह्निस्थलं—तत्र अन्वयदृष्टान्तः एकदेशः | अनया दृष्ट्या एकदेशात्‌ विहाय कोऽपि अन्वयदृष्टान्तः न भवति एव |


यथा 'पर्वतः वह्निमान्‌ धूमात्‌ यथा महानसम्‌' इति स्थितौ, वास्तविकसामान्यपक्षः अस्ति धूमवह्निस्थलम्‌ | तस्मिन्‌ सामान्यपक्षे महानसम्‌ इति एकदेशः, पर्वतः अपि एकदेशः | महानसस्य, सामान्यपक्षे एकदेशत्वात्‌ एव अस्मिन्‌ दृष्टान्ते शक्तिः अस्ति यस्य बलेन वक्तुं शक्नुमः यत्‌ यतः महानसे धूमः अस्ति वह्निः अपि अस्ति, अतः पर्वते धूमः अस्ति चेत्‌ वह्निः अपि अस्ति | अत्र धूमवह्निस्थलत्वं व्याप्यं, वह्निसाध्यं च व्यापकम्‌ | पक्षतावच्छेदकावच्छेदेन साध्यानुमितिः, तस्माच्च दृष्टान्तस्य बलेन साध्यं सिध्यति |


यया रीत्या धूमवह्निस्थलं, तया एव रीत्या 'वह्निः उष्णः वह्नित्वात्‌' इत्यस्मिन्‌ वह्निः अपि तथैव सामान्यपक्षः; तस्मिन्‌ विद्यमानः धर्मः वह्नित्वं व्याप्य‌म्‌, उष्णत्वं च व्यापकम्‌ | पक्षतावच्छेदकावच्छेदेन साध्यानुमितिः इत्यनेन व्याप्यव्यापकभावः, तदर्थं च अन्वयदृष्टान्तः इति एकदेशः | वह्नित्वोष्णत्वस्थलम्‌ इत्यत्र वह्निशब्दस्थाने सामान्यपक्षस्य नामान्तरम्‌ | तर्हि 'वह्नित्वोष्णत्वस्थलम्‌ उष्णत्ववत्‌ वह्नित्वोष्णत्वस्थलत्वात्‌ यथा इ-वह्निः' इति भवति | कुत्रचित्‌ एकस्मिन्‌ वह्नौ वह्नित्वम्‌ अस्ति, उष्णत्वं च अस्ति इति दृष्टं चेत्‌, स च वह्निः एकदेशदृष्टान्तः |


अपि च आश्रयनाशाजन्यगुणनाशः अपि तथैव सामान्यपक्षः | आश्रयनाशाजन्यगुणनाशत्वम्‌ इति पक्षता व्याप्यं, समानाधिकरणगुणजन्यत्वं च व्यापकम्‌ | पाकजरूपनाशः इति एकदेशदृष्टान्तः; विभागजसंयोगनाशः अपि तथैव एकदेशदृष्टान्तः |


एवं च यत्र साध्यं पक्षे विद्यमानपक्षतायाः व्यापकं न भवति, तत्र एकदेशदृष्टान्तः न भवति—नाम अन्वयदृष्टान्तः एव न भवति | सामान्यपक्षस्य एकदेशः एव अन्वयदृष्टान्तः | कश्चन दृष्टान्तः सामान्यपक्षस्य एकदेशः नास्ति चेत्‌, सः तु दृष्टान्तः एव नास्ति | यथा यत्र पर्वतत्ववह्निस्थलम्‌ इव सामान्यपक्षः नास्ति, इत्युक्ते यत्र तादृशवस्तूनां सङ्ग्रहः एव नास्ति येषु पर्वतत्वम्‌ अपि अस्ति, वह्निरपि निश्चयेन अस्ति, तत्र अन्वयदृष्टान्तः न भवति | पक्षतावच्छेदकसामानाधिकरण्येन अनुमितिः इति तादृशस्थलम्‌ | अत्र व्याप्यव्यापकभावः नास्ति अतः सामान्यपक्षः एव नास्ति | कुत्रचित्‌ पर्वतत्वं भवति यत्र वह्निसंयोगो नास्ति | तस्मात्‌ सामान्यपक्षः एव नास्ति (इत्युक्ते यस्मिन्‌ पक्षतावच्छेदकं व्याप्यं, साध्यं च व्यापकम्‌), तस्माच्च एकदेशदृष्टान्तः नास्ति, अन्वयदृष्टान्तश्च नास्ति | केषुचित्‌ पर्वतेषु वह्निरस्ति, केषुचिच्च वह्निर्नास्ति—तस्यां दशायां धूमवान्‌ वह्निमान्‌ पर्वतः एकः अस्ति चेदपि न किमपि बलं लभ्यते येन अपरेषु पर्वतेषु वह्निः भवेत्‌ |


अस्माकं जीवने अनुमानस्य निर्माणसमये 'अस्मिन्‌ अनुमाने पक्षतावच्छेदकावच्छेदेन साध्यानुमितिः वर्तते' इति मनसि निधाय प्रायः वयम्‌ अग्रे सरामः लौकिकज्ञानप्राप्तेः पथि | विज्ञानप्रयोगक्षेत्रे, सामान्यजीवनक्षेत्रे च | यथा प्राचीनकाले गुरुत्वनामकसिद्धान्तस्य प्रतिष्ठायाः पूर्वं, केचन वैज्ञानिकाः प्रयोगं कुर्वन्ति स्म | तत्र तेषु कश्चन शीलाखण्डं विमोचितवान्‌ | शीलाखण्डः पतितवान् | पुनः पञ्चवारं विमोचितवान्‌; एकैकवारं शीलाखण्डः पतितवान् | स च वैज्ञानिकः मनसि चिन्तितवान्‌ यत्‌ पञ्च घटनाः सामान्यपक्षस्य एकदेशाः; तदाधारेण चिन्तितवान्‌ यत्‌ 'अहो, गुरुत्वं सर्वत्र अस्ति— यत्र कुत्रापि शीलाखण्डं विमोचयामि, तत्र सर्वत्र शीलाखण्डः पतिष्यति' | तथा च कुर्मः सर्वत्र | शिशुः अग्निं स्पृशति; हस्तः दग्धः | तदाधारेण मनसि चिन्तयति यत्‌ 'पुनः अग्निं न स्प्रक्ष्यामि' | यतोहि मनसि अयमेव विचारः अस्ति चेत्‌ सामान्यपक्षः प्राप्तः, स्वस्य अनुभवः च तस्य एकदेशदृष्टान्तः अस्ति— यदा कदाचित्‌ पुनः स्वस्य हस्तम्‌ अग्नौ स्थापयति, तस्य हस्तः पुनः दग्धः भविष्यति | एवं रीत्या अनुमानप्रयोगे सामान्यपक्षस्य महत्त्वम्‌ अतीवमूल्यञ्च | पक्षतावच्छेदकावच्छेदेन साध्यानुमितेः बलेन बहुकिमपि व्यावहारिकज्ञानं प्राप्नुमः जीवने |


Swarup – August 2017

---------------------------------

Subpages (1): सामान्यपक्षः तस्य च एकदेशदृष्टान्तः


२३ - अनुमानप्रमाणं— विभागः अतिरिक्तः गुणः.pdf